सामग्री पर जाएँ

गीताभाष्यतात्पर्यचन्द्रिका/अध्यायः ६

विकिस्रोतः तः
← अध्यायः ५ गीताभाष्यतात्पर्यचन्द्रिका
अध्यायः ६
[[लेखकः :|]]
अध्यायः ७ →

06.01.01

षष्ठाध्यायोपक्रमस्य पूर्वोक्तार्थानुवादरूपतां दर्शयितुं

पूर्वेणाविच्छिन्नानुसंधानार्थमध्यायसंगतिवचनात्पूर्वमेव

व्याख्येयोपादानम् । वृत्तवर्तिष्यमाणाभिधानमुखेन संगतिं

दर्शयति ।उक्त इति । कर्मयोग उक्त:, तत्साध्यतयोपक्षिप्त:

समाधिलक्षणो योग एवात्र सानुबन्ध: प्रतिपाद्यत इति संगति: ।।

।योगाभ्यासविधिरुच्यत इति । योगाभ्यासविधिर्योगी

चतुर्धा योगसाधनम् । योगसिद्धि: स्वयोगस्य पारम्यं षष्ठ उच्यते

(सं10)इति ।संग्रहश्लोके प्रथमं योगाभ्यासविधेरुपादानादन्येषां

तदर्थत्वात् स एवाध्यायप्रधानार्थतया संगृहीत इति भाव: ।

।अनाश्रित: इत्यादीनां ।समबुद्धिर्विशिष्यते इत्यन्तानां

नवानां श्लोकानां प्रागुक्तानधिकार्थत्वान्निष्प्रयोजनत्वमाशङ्कयाह

।तत्रेति। अभ्यासो हि तात्पर्यलिङ्गम्, अव्वयवहितनिर्देशश्च

नैरपेक्ष्यं सूचयेदिति भाव:। ।ज्ञानाकारो योगशिरस्क इति

पदाभ्यां साधनस्य प्रागुक्तमन्तर्गतात्मज्ञानत्वादिलक्षणं पौष्कल्यं,

साध्यस्याऽऽत्मावलोनस्याव्यवहितत्वं चाभिप्रेतम् ।

"अनाश्रित:' इति श्लोके पूर्वार्धेन ज्ञानकारकर्मयोगानुवाद:,

उत्तरार्धेन नैरपेक्ष्यदृढीकरणम् । "भोक्तारं यज्ञतपसाम्' (5.29)

इत्यव्यवहितपूर्वश्लोकालोचय़या

।सर्वात्मनाऽस्मत्सुह्मदभूतेत्यादिकमुक्तम् ।

ततश्च कर्मफलमनाश्रित इत्युक्ते निष्फलप्रवृत्तिस्स्यादिति

शङ्कायां कर्मस्वरूपफलत्वस्य वक्तुमुचितत्वात्

।कार्यशब्द प्रयोजनविषय इति दर्शयितुंकह ।कर्मानुष्ठानमेव

कार्यमिति वचनव्यक्तिर्दर्शिता व ।कार्यशब्दस्य चोदितविषयत्वे

मन्दप्रयोजनं स्यादिति भाव: । ननु कर्मयोगनिष्ठमनूद्य

तस्यैव ज्ञानयोगनिष्ठत्वं कर्मयोगनिष्ठत्वं च विधातुमयुक्तम्;

प्रथमे विरोधात्, द्वितीये

द्देश्योपादेयविभागाभावपौनरुक्त्यनिष्प्रयोजनत्वेभ्य

इति शङ्कायामाह ।आत्मावलोकनेति ।

पृथक्साधनभूतोभयसाध्यं फलमनेन लब्धमित्युभयनिष्ठत्वमु

पचारादुच्यते । ततश्च कर्मयोगस्य निरपेक्षसाधनत्वं

विवक्षितमिति भाव: । यद्वा कर्मयोगांशभूतज्ञानक्रियाभेदेन

परिहार इति भाव: ।

।अग्निशब्दस्यात्राग्निसंबन्धिकर्मलक्षकत्वव्यञ्जनाय

।यज्ञादिशब्द: । लक्ष्यार्थानां संग्राहकं ।चोदितत्वम् ।

निरग्नि: इत्येनेनैव कर्मनिवृत्तेरुक्तत्वाद।क्रियशब्द:

क्रियानिवृत्तिमुखेन क्रियाव्यतिरिक्तनिष्ठत्वलक्षक:;

व्यतिरिक्तश्चात्राऽऽसन्नो ज्ञानयोग इति दर्शयितुं

।केवलज्ञाननिष्ठ इति उक्तम् । यद्वा, ।न निरग्निर्नचाक्रिय:

इत्युभाभ्यां 2.श्रौतस्मार्तक्रियाविशेषनिषेधकाभ्यां फलोतमाह

।न चोदितेत्यादि । तदभिप्रेतमाह ।न केवलं(लं)ज्ञाननिष्ठ इति ।

"अनग्निरनिकेतस्स्यात्', "त्यक्त्वा द्रव्याग्निसाध्यानि कर्माणि'

(मनु.6.25.43) इत्यादिप्रतिपादितसंन्यासाश्रमव्यवच्छेद

इहासङ्गत इति भाव:।।

06.02.02

संन्यासमनूद्य योगत्वे विधीयमाने ज्ञानयोगे

कर्मयोगसद्भावप्रतिपादनभ्रम: स्यात् ।

तच्च "नह्रसंन्यस्त इत्युपपादनविरुद्धम्, अत्रानुपयुक्तं

चेत्यभिप्रायेणाह ।उक्तलक्षणेति । योगद्देशेन संन्यासत्वविधिपरं 1.वाक.#ाकत्यर्थ: । संन्यासशब्दस्याभिप्रेतं वक्तुं प्रकारणिकं वाच्यं तावदाह ।ज्ञानयोग भाव: ।

।तं कर्मयोगमेव विद्धीति कर्मयोगान्तर्गतमेव विद्धीत्यर्थ: ।

।आत्मयाथाम्येत्यादेरयमभिप्राय:-

सङ्कल्पमूल: कामो हि (वै) यज्ञा:संकल्पसंभवा: (मनु.2.3)

इत्यादिस्मृतिपठित: कामस्य कर्मणां च हेतुस्सङकल्पोऽत्र न

विवक्षित: । तस्मादेकीकृत्य कल्पोऽत्र

।सङ्कल्प: । स चात्र देहात्मगोचर: । तत्परित्यागश्च

तत्त्वज्ञानात् । एवंसत्येव ।नहीत्यादेरुक्तोपपादकत्वमुपपद्येत इति ।

।कश्चनेति निर्देश: प्रागुक्तकर्मयोगनिष्ठवैविध्यसूचक

इत्यभिप्रायेण ।उक्तेषु कर्मयोगिष्वित्युक्तम् ।

सिद्धो ह्रत्रोपपादको भवति; तत्सिद्धिरत्र कुत

इत्याकाङ्क्षायां ।हिशब्दाभिप्रेतमाह ।यस्येति ।।

06.03.03

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते' इत्यत्र विशेषविधि:

शेषनिषेधपर इत्यभिप्रायेणाह ।कर्मयोगएवेति । कर्मयोगमात्रसाध्यो

हि योगो न परमात्मावलोकनमित्यभिप्रायेणाह

।आत्मवलोकनमिति । आमोक्षात् यत्किञ्चित्कर्म

कर्तव्यमित्यभिप्रायेणाह ।मुमुक्षोरिति । आत्मावलोकनस्यात्र

मोक्षझ्र्त्व?टकल्पनया मुमुक्षु(मोक्ष)शब्दोपचार:3. ।

।योगारूढस्येति युक्तावस्था(स्था?) (6.8)विषयत्व

भ्रमव्युदासाय ।प्रतिष्ठितयोगस्येत्युक्तम् ।

कर्म कारणमित्युक्तकर्मप्रतियोगिकश्शम: तन्निवृत्तिरेवात्र

भवितुमर्हतीत्यभिप्रायेण ।शम: कर्मनिवृत्तिरित्युक्तम् ।

एतेन ""मुनिरत्र परिव्राजक:, शमश्च पारिव्राज्यरूप:

इति परोक्तं निरस्तम् । ननु य प्रतिष्ठितयोगस्य किं

कारणापेक्षया, न ह्रन्यदस्य कार्यमस्तीति शङ्कायां

।योगरूढस्य इत्यादिना कर्मनिवृत्तिविधानं 3.तत:

पूर्वमनिवृत्यभिप्रायमिति दर्शयति ।यावदिति ।।

06.04.04

।संगमयति ।कदेति । ।अयं योगीति । यादवात्मावलोकनं

कर्मयोगे वर्तमान इति भाव: । अर्थसिद्धं हेतुमाह

।आत्मैकानुभवस्वभावतयेति । अनित्यत्वहेयत्वादिसूचनाय

।प्राकृतशब्द: । ।कर्मस्विति न चोदितकर्ममात्रविषयम्,

वैदिकस्य तत्र निस्सङ्गत्वायोगात् । अतो यो हि यदिच्छति,

तस्य तÏस्मसतत्साधने वा कार्यताबुद्धिरिति न्यायादिन्द्रियार्थेषु

सङ्गिनां तदुपायभूतेषु विहितेषु, निषिद्धेषु, अनुभयेषु

च कर्मसु यथासंभवं सङ्ग: स्यादिति तन्निषेध एवोचित

इत्यभिप्रयेण ।तत्संबन्धिषु च कर्मस्वित्युक्तम् ।

सङगं त्यजति, निवर्तयतीत्यादिषु प्रयोगेषु जायमानस्य

सङ्गस्य बलान्निवर्तनं प्रतीयते; अत्र तु।नानुषञ्जत इत्युक्तम् ।

सङ्ग स्वयमेव न जायत इत्यर्थ: ।

तत: फलितमाह ।न सङ्गमर्हतीति ।

।हिशब्दस्य वाक्यार्थान्वयौचित्यात् ।तदा हीत्युक्तम् ।

तदा ह्रसौ सर्वसङ्कल्पसंन्यासी योगारूढो भवति

न तु सङ्गकाल इति भाव: । व्याख्यातश्लोकद्वयतात्पर्यार्थमाह

।तस्मादिति । इष्टकारणत्वोपदेशो हि तत्र प्रवृत्त्यर्थ इति

तात्पर्येणाह ।अत इति ।।

06.05.05

श्लोकद्वयाभिप्रेतमर्थं विवृणोतीत्याह ।तदेवाहेति ।

।आत्मना इत्यस्य करणार्थत्वौचित्यात् ।मनसेत्युक्तम् ।

।विषयानुषक्तेन, तद्विपरीतेनेत्युभयं

क्रियाद्वयसामथ्र्यात्पूर्वोत्तरानुसन्धानच्चोक्तम् ।

।उद्धरेत् योगारूढतापादनेन संसारसमुद्रादुत्तारयेत्;

न पुनरधो नयेदित्यर्थ: । आत्मोद्धरणात्मावसादयोद्र्वयोरपि

मनसो हेतुत्वं प्रपञ्चयते ।
आत्मैवेति ।

अन्ये बन्धवोऽपवर्गविरोधित्वादबन्धव: ।

अन्ये च रिपव 1. आत्म प्रवृत्तिमूलभूता इत्यवधारणाभिप्राय: ।।

06.06.06

एकस्यैवैकं प्रति बन्धुत्वं रिपुत्वं च व्याहतमिति शङ्का

परिह्नियते ।बन्धरात्मेति श्लोकेन व ।स्वेनैवेति स्वात्मनेत्यर्थ: ।

मनसो विजयो नाम विषयेभ्यो व्यावर्तनमित्यभिप्रायेणोक्तम्

।विषयेभ्यो जितमिति । बन्धुत्वोपपादनं हि मनसो

विजेयेनोक्तम्, शत्रुत्वोपपादनमपि हि(तर्हि?)तदभावेनेत्यभिप्रायेणोक्तम्

।अनात्मन: अहितमनस इति । ।आत्मैव इत्।येवकाराभिप्रेतमाह

।स्वकीयमेव मन इति । स्वशेषभूतमेव हि विरोधि

संजातमिति भाव: । शत्रुशब्दयो: पुनरुक्तिभ्रमव्युदासायान्वयमाह

।शत्रुवच्छत्रुत्वे वर्तेतेति । संपरतिपन्नो 2.बाह्रशत्रुरिह दृष्टान्तित: ।

शत्रुकृत्यमिह ।शत्रुत्वं विवक्षितमित्याह ।स्वनिशश्रेयसविपरीत

इति । नन्वत्र ।आत्मनेत्यादीनां मनोविषयत्वं कथम्? 3.

कार.#ारणसङ्घातविषयत्वं हि परैरुक्तम् ।

ऐकरूप्येन सर्वेषा।मात्मशब्दानां स्वात्मविषयत्वं किं

न स्यात्? कथं च मनसो जयादि: विषयव्यावर्तनादिरूप:

इति शङ्कायां कर्मकत्र्रा(र्तृत्वा)दिभेदव्यपदेशौचित्यात्

पूर्वोत्तरानुसन्धानाच्च सिद्धमेवार्थंसंवादेन द्रढयति

।यथोक्तमिति ।।

06.07.07

प्रतिष्ठितयोगत्वावस्था, तदारोहणोपायश्चोक्तौ;

।अथ (त्र) योगप्रक्रियां वक्तुं तदारम्भदशा ज्ञाप्यत इत्याह

।योगारम्भेति । सप्तम्या: ।समाहित: इत्यनेन

अन्वयभ्रमव्युदासायान्वयं पदार्थांश्च व्यञ्जयति ।शीतोष्णेति ।

एतेन "मानावमानयोस्समस्य 1.' इति ।परोक्ताध्याहारोऽनपेक्षित

इति दर्शितम् । शीतोष्णादिषु द्वन्द्वेष्वनुभूयमानेषु कथं

मनसो विजय इत्यत्राह- ।विकारारहितमनस इति ।

विकारश्चहर्षोद्रेकादिरूप: प्रागुक्त: ।

।प्रशान्तस्य इत्येतत् बाह्रेन्द्रियव्यापारनिवृत्तिपरम्,

मनोविकारनिवृत्तेरुक्तत्वात् । असन्निहितफलाभिसन्ध्यादिराहित्यपरं

वा । ।समाहित: इत्यस्याकाङ्क्षितं प्रकृतमुचितं चाधिकरणमाह

।मनसीति । ।सम्यगाहित इति ।

विशदानुसन्धानयोग्यो जात इत्यर्थ:। जीवात्मप्रकरणे परमात्मा

कथमुच्यत इत्यत्राह ।स्वरूपेणेति ।

।अत्रेति प्रकरणौचित्यसूचनम् । तदेव दर्शयति ।तस्यैवेति ।

।एवकारेण प्रासङ्गिको हि 2.पूर्वं परमात्मप्रसङ्ग इति ज्ञापितम् ।

अवरस्य जीवस्य परमात्मशब्दविषयत्वं कथमित्यत्राह ।तस्यापीति ।

तथाऽपि परमात्मशब्दस्य प्रसिद्धार्थ: परित्यक्तस्स्यात्;

परत्वं च सङ्कुचितम्; ।परमशब्दनिर्वचनं च न घटते;

परो मा अस्मादिति हि तत्; न च पूर्वपूर्वावस्थानपेक्षया

परोमा अस्मादित्यन्वय: सिध्यतीत्यरुचेरन्वयान्तरमाह

।आत्मा परमिति । अत्र चाधिकं केवलमिति वा ।परशब्दार्थ:।।

06.08.08

इन्द्रियविजयो द्वन्द्वसहत्वं चक्तम्; अथ तयोर्हेतुरुच्यते

।ज्ञान इति श्लोकेन । ।ज्ञानविज्ञान शब्दयो:

पौनरुक्त्यव्युदासायोपसर्गद्योतितं विषयविशेषं व्यञ्जयति


आत्मस्वरूपेत्यादिना ।

पारलौकिकसमस्तकर्मापेक्षितदेहादिव्यतिक्तत्वधीरिह ।ज्ञानम् ।

मोक्षधिङकारिणौ विशेषतोऽपेक्षितनित्यत्वनिरतिशयानन्दत्वादिधीस्तु

।विज्ञानम्;ल न पुनरुपासनरूपज्ञानम्; तत्सामग्रीपरत्वाद्वाक्यस्येति

भाव: । कूटे तिष्ठतीति ।कूटस्थ: । कूटशब्दश्च

परिशुद्धात्मन्यौपचारिक: । कूटस्य ह्रागन्तुविनश्वराय:पिण्डादिसंश्लेष -

विश्लेषरूपावस्थाप्रवाहे वर्तमानेऽपि स्वस्वरूपे न शैथिल्यादिरूपो

विकार: । तद्वदत्रापि देवादिशरीरसंश्लेषविश्लेषरूपावस्थाप्रवाहेऽपि

"न जायते म्रियते (गी.2.20) इत्यादिनोक्तप्रकारेण निर्विकारत्वं

सिद्धमिति कूटशब्देनोपचारो युज्यत इत्यभिप्रायेणाह ।देवादीति ।

शिखरपर्यायकूटविवक्षया वोपचार: ।

कूटस्थझ्र्पुरुष:?ट इव वा साधारणतयाऽनुसन्धानादसौ

कूटस्त 1.इत्यभिप्रायेणाह ।देवाद्य वस्थास्विति ।

देवशब्दोऽत्र भावप्रधान: । अनुवर्तमानत्वात्

।सर्वसाधारणत्वमित्यपौनरुक्त्यम् । यद्वा सर्वात्मसाधारणेत्यर्थ: ।

पूर्वश्लोकोक्तजितेन्द्रियत्वादौ हेतुरयमुक्त इत्याह ।तत एवेति ।

स्वरूपकार्यकारणादिभिरत्यन्तविषमाणां लोष्टादीनां समत्वंकथमिति

शङ्कानिराकरणाय ।प्रकृतीत्यादि ।समप्रयोजन इत्यन्तमुक्तम् ।

लोष्टाश्मभेदवतश्मकाञ्जनादिणभेदेऽपीत्यनेकदृष्टान्ताभिप्राय: ।

अत्रोद्देश्योपादेयांशौ विभज्यते ।य इत्यादिना । युक्तशब्द एवात्र

योग्यपर्याय:; प्रकरणवशात्तु योगाभ्यासविषयत्वं सिद्धम् ।

यद्वा प्रकृतिप्रत्य़ययोरर्थं भेदविवक्षया ।योगाभ्यासार्ह इत्युक्तम् ।।

06.09.09

"समलोष्टाश्मकाञ्चन:' इति अचेतननेषूक्त एवार्थश्चेतनविषयतया

प्रपञ्चयत इत्यभिप्रायेणाह ।तथाचेति । यद्वा सुह्मदादिषुय

समबुद्धित्वस्य दुष्करत्वात् अत्र ।विशिष्यते इत्युक्तेश्च

समदर्शित्वातिशयोऽत्र विवक्षित: । ।तथाच अपिचेत्यर्थ: ।

।सुह्मन्मित्रबन्धुशब्दानाम् ।अरिद्वेष्यशब्दयोरुदासीनमध्यस्थ

शब्दयोश्च पौनरुक्तयमपाकर्तु तत्तत्पदव्याख्या ।

।बन्धुशब्दस्तावत् पित्रादिषु प्रसिद्ध:; ।मित्रशब्दश्च

सवयस्तु । अत: पारिशेष्यात् सुह्मच्छब्दस्तदुभयव्यतिरक्तविषय

इत्यभिप्रायेणाह वयोविशेषानङ्गीकारेणेति । सवयस इत्यनेन

मित्राणां क्रीडादिरूपप्रियषित्वमप्यस्तीति सूचितम् ।

।बन्धु शब्दासत्तेद्र्वेष्यशब्दस्तावत् सहजशत्रुविषय: प्राप्त:।

ततोऽप्यत्रापि पारिशेष्यात् ।अरिशब्दं कृत्रिमशत्रुविषयमाह

।अरयो निमित्ततोऽनर्थेच्छव इति । ।मध्यस्थशब्दोऽपि

द्वेष्यबन्धुशब्दासत्ते:, हेतुतो हिताहितप्रवृत्तियोग्येषु प्रयोगाभावाच्च

जन्मत एवोभयरहितविषय उचित: । अत: परिशेषादौसासीन्यस्य

प्रवृत्तिसंबन्धिकत्वेन तत्स्मारकत्वात् कारणागमे

हिताहितप्रवृत्तियोग्या: तदभावमात्रेण तद्रहिता ।उदासीना

इत्यभिप्रायेणाह ।उभयेति । उभयं हितैषित्वमहितैषित्वं च ।

जन्मतस्संबन्धिनो बन्धव इत्येतावन्मात्रस्य दुर्योधनादिष्वतिव्याप्ते:

।जन्मत एव हितैषिणो बन्धव इति उक्तम् । एवं सप्रतिसंबन्धिन:

पुरुषा उक्ता:। अथ साधारण्येन श्लाध्यत्वनिन्द्यत्वाद्याश्रया:

पुरुषा: साधुपापशब्दाभ्यामभिधीयन्त इत्यभिप्रायेणाह

।साधव इति । वाक्यार्थमाह ।आत्मैकेति ।

सुह्मदादिभि: प्रयोजनङाभावात् प्रयोजनाभावात्

इतरैर्विरोधाभावाच्चेत्यर्थ: । ननु युक्तं नाम सुह्मदादिषु

समबुद्धित्वम्; न तु साधुषु पापेषु चयोगिनां समं प्रयोजनम्,

सत्सङ्गमादेरत्परित्यागादेश्च ज्ञानवृद्धिहेतुत्वेन

तेषामवश्यापेक्षितत्वात् । उच्यते ।

नेदानीमुपजीवकदशापन्नो योगी निर्दिश्यते;

किंतु श्रुतसकलश्रोतव्य: कृतसकोकर्तव्य:

साक्षात्कारात्यन्तयोग्यदशापन्न: । तथाविधस्य च तस्य साधुभि:

पापैश्च प्रयोजनाभाव: सम:; केवलं

योगोपयुक्तरहस्यस्थानादेरेवोपादेयत्वादि भाव: ।

योगाभ्यासार्हदशा हि प्रागप्युक्ता; इयं तु तत्र काष्ठाप्राप्तावस्थेति

।विशिष्यते इत्यस्य भाव: । तदाह ।योगाभ्यासार्हत्वे विशिष्यते इति ।

अत्र ।विमुच्ट्ठयते इति परै:पठितान् पाठविकल्पादयमेव

पाठ उचित इति भाव: ।।

06.10.10

अथाध्यायप्रधानार्थभूतयोगाभ्यासविधिरुच्यते ।योगी

युञ्जीतेति साक्षात्काररूपस्य योगस्य विधीयमानत्वात्

।योगीत्यनेन कर्मयोगनिष्ठत्वानुवाद: क्रियत इत्यभिप्रायेणाह

।उक्तप्रकारेति । सततम् इत्येतन्न सर्वकालविषयम्;

तथा योगशास्त्रैरनभिहितत्वात्, अशक्यत्वाच्च ।

अत: प्रतिदिवसं योगयोग्यतया

विहितसत्त्वोत्तरकालसामस्त्यपरमित्यभिप्रायेणाह ।अहरहर्योगकाल

इति । ।युञ्जीत इत्यत्र विवक्षितमर्थं वक्तुं प्रकृतिप्रत्य़यार्थभेदं

दर्शयति ।युक्तं कुर्वीतेति । तत्र युज 1.समाधौ (युजिर् योगे?)

इति प्रकृत्यंशस्य विवक्षितम् व्यनक्ति ।स्वदर्शनेति ।

आत्माऽत्र मन:, स्वात्मा वा । जनवर्जितेऽपि देशे बाह्रदेशस्थितानां

शब्दस्याऽऽगमे सति मनस्समाधानं न स्यादिति तन्निवृत्त्यर्थमुक्तं

।निश्शब्द इति । ।रहसि इति विजनदेशाभिधानेऽपि पुन:

।एकाकी इति पदं

रहस्यार्हात्यासन्नशिष्यसब्राहृचार्यादिसन्निधिपरित्यागार्थमित्यभिप्रायेणाह

।तत्रापि न सद्वितीय इति । यद्वा ।रहस्शशब्देन जनवर्जनद्वारा

निश्शब्दत्वं लक्ष्यते । ।एकाकिशब्देन तु जनवर्जनमेवोच्यत

इति भाव: । व्युत्थानकालेऽपि एकाकित्वमनेनोच्यत इत्येके ।

ततोऽप्यस्यार्थस्यात्यन्तोपकारित्वादेवं योजना । एतेन ।रहसि स्थित:

एकाकी च इति विशेषणात् संन्यासं कृत्वेत्यर्थ: इति शंकरोक्तं

प्रत्युक्तम् । ।आत्मशब्देन मनसोभिधानेऽपि तस्यैव चिन्तारूपवृत्त्यपेक्षया

तद्विशिष्टापेक्षया वा ।चित्तशब्दइत्यभिप्रायेणाह ।यतचित्तमनस्क इति ।

आशीश्शब्दस्यानेकार्थत्वादिह निषिध्यविशेषव्यक्त्यर्थमुक्तम् निरपेक्ष

इति । ।अपरिग्हशब्देन बुद्धया स्वीकारपर्या: परिग्रहोऽत्र निषिध्यत

इत्यभिप्रायेणाह ।ममतारहित इति ।।

06.11-12

बाह्रोपाकरणनियममाह ।शुचौ देश इत्यादिना । ।शुचिचय:

पुरुषा: पाषण्डिपतितादय:। ।अनधिष्ठते अपरगृहीते चेति ।

अधिष्ठानम् परकीयेषु निर्वाहकत्वादिरूपेण संसर्ग:;

ल ।परिग्रह:स्वीकीयत्वाभिमान:; तदुभयवर्जिते ।

।शुचिशब्द: शास्त्रान्तरोक्तं शोधकत्वमपिलक्षयतीत्यभिप्रायेणोक्तम्

।पवित्रभूत इति । च्विप्रत्त्ययरहितप्रयोगात् स्वतश्शुद्धिरुक्ता ।

।नात्युच्छितं नातीनिचमित्यादि दृष्टसौकर्यार्थम् । स्थिरत्वे

हेतु: ।दार्वादिनिर्मिततत्वम्; तस्य कठिनत्वान्मृदुत्वार्थ चेलम्;

तत्रापि निस्तरङ्गत्वार्थंशुद्धयर्थं ।चाजिनम्;ल सर्वस्योपरि

शुद्धयर्थं सत्त्वोन्मेषार्थं च ।कुशा: । ।कुशाजिनचेलोत्तरमिति

कश्चिद्वाभ्यापाठ:; तथा सति उत्तरोत्तरमार्दवसिद्धयर्थमुक्तमिति

मन्तव्यम् । ""विपरीतोऽत्र क्रमश्चेलादीनाम् इति च ।शाकरम् ।

केचित्तु अव्यवस्थितक्रमत्वमूचु: ।।प्रतिष्ठाप्य दृढं स्थापयित्वा ।

।तत्रासन उपविश्येत्यन्वयव्यक्तयर्थं।तस्मिन्नित्यादिकमुक्तम् ।

उक्तानां शुचिदेशादीनां दृष्टादृष्टद्वारा योगोपयोगं दर्शयितुं

।मन:प्रसादयकर इत्युक्तम् । ।सापाश्रय उपविश्येति ।

अन्यथा पाश्चात्यधारण प्रयत्न: समाधिविरोधी स्यादिति भाव: ।

उपविश्य; नतु तिष्ठन् शयानो वा । तथाच ।सूत्रितम् ,

""आसीन: संभवात् (ब्रा.4.7)इति । स्थानशयनयोश्च

आयासनिद्रादिप्रसङ्गेन योगे न संभवेत् । ।तत्रैकाग्रम्

इत्यन्वयभ्रमव्यदासाय ।योगैकाग्रमित्युक्तम् ।

।सापाश्रय उपविश्येति । अन्यथा पाश्चात्यधारणप्रयत्न: समाधिविरोधी

स्यादिति भाव: । ।उपविश्य; न तु तिष्ठन् शयनो वा ।

तथाच ।सूत्रितम्, ""आसीन: संभवात् (ब्रा.4.7)इति ।

स्थानशयनोश्च आयासनिद्रादिप्रसङ्गेन योगो न संभवेत् ।

।तत्रैकाग्रम् इत्यन्वयभ्रमव्युदासाय ।योगैकाग्रमितत्युक्तम् ।

निरुद्धान्वृत्तेरेतद्वृत्तिप्रधानत्वमिह ।एकाग्रहत्वम् ।

अव्याकुलमेकाग्रमिति केषुचिद्भाष्यकोशेषु पाठ:,

आत्मावलोकनोन्मुखं कृत्वेत्यर्थ: । सार्वभौमो हि चित्तस्य

वृत्तिनिरोधो योगतया योगशास्त्रेऽभिहित इत्यभिप्राउयेण

।सर्वात्मनोपसंह्मतचित्तेन्द्रियक्रिय इत्युक्तम् । ।चित्तमिह चिन्तावृत्ति:,

।इन्द्रियाणि च बाह्रानि, ""एकाग्रं मन: कृत्वा इति वचनात् ।

बाह्रविषयेभ्य एवायमुपसंहार:,अन्यथा आत्मावलोकनमपि न स्यात् ।

एतेन, ""मनसो निश्शेषवृत्तिविलयो योग: इति वदन्तो निरस्ता: ।

शुद्धान्त:करणस्य साक्षात्कारस्साध्याझ्र्हिट आत्मविशुद्धिर्मोक्ष

एवेत्यभिप्रायेण ।बन्धनिवृत्तय इत्युक्तम् । ""अशुद्धास्ते समस्तास्तु

देवाद्या: कर्मयोनय: (वि.6.7.77) इति कर्मबन्धो

ह्रात्मनामशुद्धिरुच्यते; ।योगं 1.युञ्जीत (युञ्ज्यात्?) इत्येतत्

"ओदनपाकं पचति' इतिवदित्यभिप्रायेण ।आत्मावलोकनं

कुर्यादित्युक्तम् ।।

06.13-14

एवं शुचिदेशासनादिरूपं बाह्रं योगोपकरणं मनसश्चैकाग्रयमुक्तम्;

अथान्तरान्तरतमयो: कायमनसो: क्रमात् कर्तव्यनियमविशेषा

उच्यन्ते ।समम् इत्यादिश्लोकद्वयेन । ।कायशरोग्रीवम् इति

द्वन्द्वैकवद्भाव:; तत एव नपुंसकता । अत्र ।सिद्धापरनामा

शरीरस्य ।मध्यमपेदश: ।कायशब्देन विवक्षित: ।

।समम्, अचलम्, स्थिरम् इति धारणक्रियाविशेषणानि ।

।सम मित्यत्र आर्जवं विवक्षितम्; ।अचलशब्देन निष्कम्पत्वेऽभिहितेऽपि

।स्थिरमित्येतत्

अङ्गकम्पकरश्रमहेतुभूतपश्चाद्धारणप्रयत्ननिवृत्तिहेत्वभिप्रायमिति

दर्शयितुं ।सापाश्रयतया स्थिरमित्युक्तम् । अनेनाचलत्वस्य

चिरानुवर्तनयोग्यत्वमुक्तं भवति । बाह्रेभ्यो व्यावर्तनं नासिकाग्रे

स्थापनं चेति क्रमप्रदर्शनाय ।दिशश्चानवलोकयन् ।स्वनासिकाग्रं

संप्रेक्ष्य इति व्युत्क्रमेणोक्तम् । यद्वा 2.शतुरत्र हेत्वर्थत्वात्

दिक्छब्दोपलक्षितबाह्ट्ठयसकलपदार्थावलोकननिवृत्त्यर्थं योगारम्भक्षणै

स्वनासिकाग्रप्रेक्षणमिति भाव: । भोग्येतरानुपयुक्तविषयनिरीक्षणमपि

निवर्तनीयमित्यभिप्रायेण ।दिशश्चेत्युक्तम् । निमीलनेनापि

बाह्रानवलोकनसिद्धो स्वनासिकाग्रावेक्षणं निद्रादिनिवृत्त्यर्थम् ।

।संप्रेक्ष्य नासिकाग्रम् इत्येतावत्यभिहिते परनासिकाग्रपेक्षणमपि

शङ्कयेतेति तद्व्यवच्छेदार्थमुक्तम् ।स्यमिति । मनस्यन्तर्मुखे

नासासप्रेक्षणस्यासंभवात्, चक्षुषो दृष्टिसन्निपातमात्रमिह विवक्षितम् ।

अत: ।संप्रेक्ष्येत्यत्र इवशब्दो लुप्तो द्रष्टव्य इति ।शाङ्करम् ।

नायनस्य तेजस: स्वच्छन्दवृत्त्या नासाग्रसन्निपातमात्रमिह विवक्षितम् ।

।मनस्संयम्य इति संयमस्याभिधानात् ।प्रशान्तात्मशब्दोझ्र्ऽयंट

योगोपयुक्तमनस्सन्तोषपर इत्यभिप्रायेण ।अत्यन्तनिर्वृतमना

इत्युक्तम् । ।ब्राहृचर्याश्रमप्रतीति:, शङ्करोक्तप्रक्रिय़या वा

ब्राहृचर्यगुरुशुश्रूषाभिक्षाचर्यादिधी: स्यादिति तद्व्यवच्छेदायाह

।ब्राहृचर्ययुक्त इति । ब्राहृचर्यं च स्तनवतिपिशितपिण्डे

भोग्यताधीगर्भस्मरणालोकनालापादिरहितत्वमत्र विवक्षितम् ।

स्मरन्ति च "ब्राहृचर्यं च योषित्सु भोग्यताबुद्धिवर्जनम्' इत्यादि ।

तथा, "स्मरणं कीर्तनं केलि: प्रेक्षणं गुह्रभाषणम् ।

सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च ।

एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिण:।

विपरीतं ब्राहृचर्यमेतदेवाष्टलक्षणम्' (अ.पु.372.10;बा.स्मृ.)

इति । ।युक्त शब्दस्य पूर्वोत्तरप्रतिपन्नात्मावलोकनाभिधानादपि

तदुपयुक्तावधानविषयत्वमत्रोचितमित्याभिप्रायेण ।अवहित इत्युक्तम् ।

।मच्चित्तशब्दो भगवति चित्तस्यानुप्रवेशपर: । ।मत्परशब्दस्तु

तदेकचित्तत्वपर:, तदनुवृत्तिपरो वेत्यपौनरुक्त्यमाह ।मामेवेति ।2.

यद.यदस्यादौ भोग्यचिन्ता, राजादौ च महति परधीर्लोके विभक्ता;

मयि तु तदुभय मित्यपुनरुक्ति: ।।

06.15.15

जीवात्मयोगप्रकरणे 1.मच्चित्तो...मत्पर: इति परमात्मचिन्तनं

किमर्थं विधीयत इत्यत्रोच्यते ।युञ्जन्नेवम् इति । ।एवमित्यनुवादे

।मच्चित्त: मत्पर: इत्युक्त।मच्छब्दातिभिप्रेतम् परत्वादिकं

विवृण्वन् आह ।मयीति । परस्मिन् ब्राहृणीत्यनेन सर्वकारणत्वेन

सर्वात्मत्वादिकं विवक्षितम् । तथात्वेऽपि समस्तवैलक्षण्येन

तद्गदोषासंस्पर्शो देवताविशेषनिष्कर्षश्च ।पुरुषोत्तमशब्दाभिप्रेत: ।

उक्ताकारविशिष्टत्वाच्च ।मनसश्शुशभाश्रयत्वम् । एतेन शुभाश्रयत्वं

प्रकरणान्तरोक्तदिव्यमङ्गलविग्रहविशिष्टत्वमप्यभिप्रेतम् ।

।तत्रात्मशब्द: प्रकृतानुवादपरतया मनोविषय: ।

।युञ्जन्नित्यस्य प्रयोजनं ।नियतमानसत्वम् ।

तच्च निश्चलमानसत्वम् । तदुत्पत्तौ हतोरवान्तरव्यापर:

।अयमित्यभिप्रायेणाह ।मत्स्पर्शेति । ।मत्संस्थामित्यादि

परमप्रयोजनम् । ।निर्वाणपरमामित्यत्रनिर्वाणं परमं यस्या

इति समासे विशेषणव्यत्वासास्वारस्यम्, निर्वाणहेतुशान्तेश्च

।नियतमानस: इत्यनेन सिद्धत्वात् पुनरुक्तिश्च स्यात्;

।परमशब्दश्चास्वरस: । अतो ।निर्वाणस्य परमामिति समास:,

।परमशब्दश्च परमावस्थाविषय इत्यभिप्रायेणाह ।निर्वाण काष्ठेति ।

परमात्मनि संस्थिता च ।शान्तिरशनायादिषडूर्मिराहत्यरूपा ।

यद्वा ।मयि संस्थितां शान्तिमित्येतदेव

।शुभाश्रयेस्थितिमित्येन्तेन(नेन) विवृतम् ।।

06.16-17

उचितदेशप्रभृति परमात्मचिन्तनपर्यन्तं(न्तमपि) ह्रत्र

योगोपकरणमेव । अत: ।अन्यदपीत्युक्तम् ।

।योगोपकरणं योगोपकारकम् । अत्यशनादेयऱ्ोगविरोधित्वं

।नात्यश्नत: इति श्लोकस्यार्थ: । मिताहारादेस्तु

योगपयुक्तत्वं ।युक्ताहारेति श्लोकनोच्यत इति

व्यतिरेकतोऽन्वयतश्च एक एवार्थ: स्थिरीक्रियत इति

विभागमभिप्रेत्याह अत्यशनेति । ।युक्ताहारेति प्रेतावविति

दर्शयितुम् ।अतिविहाराविहारौ अत्यायासानायासावित्युक्तम् ।

।जाग्रत: इत्यत्रापि ।अति: नुषञ्जनीय: ।

पूर्वश्लोको।क्तातिशब्दप्रतियोगिकत्वात् ।युक्तशब्दो मितपर

इत्यभिप्रायेण ।मिताहारेत्यादिकमुक्तम् ।

श्रूयते हि "यद्धयात्मसंमितमन्नंतदवति तन्न हिनस्ति,

तद्यत्कनीयो न तदवति' इति । स्मरन्ति च,

""उदरस्यार्धमन्नस्य तृतीयमुदकस्य तु ।

वायोस्सञ्चारणार्थं तु चतुर्थमवशेषयेत् इति ।

अतो न्यूनाधिकादिसमस्तदोषराहित्यम् ।युक्तशब्देनाभिप्रेतम् ।

द्वन्द्वात्पूर्वंमपि परमिव प्रत्येकमन्वेतव्यम् । ।विहारशब्द:

सञ्चारपर:; तन्द्रीपरिहारार्थविनोदनपरो वा ।

पारिशेष्यादौचित्याच्च ।चेष्टाशब्दार्थोऽत्र श्रमहेतुरायास: ।

दु:खशब्दासङ्कोचात् योगसामथ्र्याच्च ।सकलेति विशेषितम् ।

तत्फलितमाह ।बन्धनाशन इति । एवंविधस्य ।योगो

दु:खहा भवतीत्यन्वये योगस्य पूर्वसिद्धमात्रभ्रम: स्यात्;

तद्वयुदासाय ।सम्पन्नो भवतीत्युक्तम् ।।

06.18.18

एवं परिकरोक्तिसमनन्तरं योगदशां प्रदर्शयितुं तत: पूर्वा

प्रागुक्तैव योगयोग्यदशा परामृश्यते ।यदा विनियतम् इति श्लोकेन ।

।आत्मन्येव इत्येवकारव्यच्छेद्यक्षुयद्रप्रयोजनान्तरज्ञापनाय सामान्यत:

।प्रयोजनविषयमित्युक्तम् । प्रयोजनान्तरेषु सत्सु क्वचित् विशेषेण

नियतत्वे को हेतुरित्यत्राह ।निरतिशयेति । ।युक्त: इत्येतावतोऽत्र

विधेयत्वात् "नि:स्पृह:' इत्यस्याप्युद्देश्यकोट¬नुप्रवेशाय ।नि:स्पृहस्सन्

(स?) इति उक्तम् । सर्वकामेभ्यो निर्गता स्पृहा यस्य स तथोक्त: ।

सर्वकामेषु नि:स्पृह इत्यर्थ: ।।

06.19.19

अथ योगदशा लक्ष्यते ।यथेत्यादिना । दीपस्याचलत्वे हेतु

।र्निवातस्थत्वम् । ।इषङ्गतेश्चेष्टार्थत्वे 1. विवक्षिते दीपे

तदनन्वयात् साधारण्यसिध्यर्थमाह ।नचलतीति ।

निश्चलत्वे पर्वतादिनिदर्शनसद्भावेऽपि

दीपदृष्टान्ताणभिप्रेतमर्थं दर्शयितुमाह

।अचलस्सप्रभस्तिष्ठतीति । यतचित्तस्य इत्यनेन

चिन्तारूपवृत्तिनियमनवचनमुपलक्षणमित्याह निवृत्तेति ।

मनोमात्रपर्यायो वाऽत्र ।चित्तशब्द:। ।इतरशब्देन

आत्मविषयवृत्तिरस्तीति सूचितम् । अन्यथा युञ्जतो

योगमित्येतत् व्याहन्येतेत्यभिप्रायेणाह ।आत्मनि योग

युञ्जतइति । आत्मनि विषये साक्षात्कारं कुर्वत इत्यर्थ: ।

।नेङ्गते इति न शरीरस्य निष्कम्पत्वमुदाह्यियते,

समं कायशिरोग्रीवं धारयन्नचलं स्थिरम्' (13) इति

तस्योक्तत्वात् । ध्यानदशासाधारणत्वेन समाधिदशा

विशेषकत्वानुपपत्तेश्च। नापीन्द्रियाणां निष्कम्पत्वम्,

।योगिन: सोपोमेत्यन्वयायोगात् । नाप्यात्मस्वरूपस्य निश्चलत्वं,

अवस्थान्तरेऽपि तत्सिद्धे: । अत:

स्वयंप्रकाशज्ञानप्रभानिरस्तसमस्तवृत्त्यन्तरपरिशुद्धात्म-

स्वरूपप्रदर्शनार्थोऽयं दृष्टान्त इति सूचयितुं

।योगिन: इत्युक्तेऽपि पुनरपि ।आत्मन: इत्युक्तमित्यभिप्रायेण

।आत्मस्वरूपस्य सोपमेत्युक्तम् । ।योगिन: आत्मन: इति

व्यधिकरणे षष्ठयौ । ननु-।सोपमेत्यत्र उपमाशब्द उपमिति

परो वा, दृष्टान्तपरो वा? उभयधाऽपि न संभवति,

।यथेति निर्दिष्टप्रकारपरामर्शित्वादत्र ।तच्छब्दस्य,

उपमाशब्दस्य च तत्समानाधिकरणत्वात्;

"सप्रभस्तिष्ठती'त्येताच्च कथं दाष्र्टान्तिके

निर्वाह्रम् ?अयोगिनामप्यात्मस्वरूपस्य चलत्वप्रतीत्यभावात् ।

किमर्थं च निश्चलत्वोपदेश इत्यत्राह ।निवातस्थतयेति ।

अयमभिप्राय़:- ।उपमेति दृष्टान्तगतं साधम्र्यमत्र निर्दिश्यते ।

तस्मात् ।यथेत्यनेन सोपमेत्यस्यान्वय उपपन्न: ।

सा च बाह्रविषयेषु मनोवृत्तेरेवाभावात् संसारदशायां

च ज्ञानस्येन्द्रियद्वारैव प्रसरणादिति । ।स्मृता ।

समाधिदशासन्दर्शिभिर्योगिभिरिति शेष: ।।

06.20-24

पुनरपि योगदशैव आदरातिरकाय

निरतिशयपुरुषार्थत्वप्रतिपादनेन प्रपञ्चयते ।यत्रे त्यादिभि: ।

।निरुद्धमित्यत्र परिगृहीतत्वविनष्टत्वादिभ्रमव्युदासाय

।योगसेवया हेतुना सर्वत्र निरुद्धमित्युक्तम् ।

सर्वतो निरुद्धमित्युक्ते प्रवृत्तस्य निवारणमात्रं

प्रतीयते; ।सर्वत्रेत्युक्ते तु उत्तरोत्तप्रवृत्त्यनुदयोऽपि सिध्यतीति

सप्तमीनिर्देश: । "योगसेवया निरुद्धं यत्रोपरमते' इत्युक्ते

योगस्य पृथगुपादानात् ।यच्छब्दार्थस्य योगात् व्यतिरेक:

प्रतीयेतेति तद्वयुदासाय, ।योगसंज्ञितमिति वक्ष्यमाणान्येन

।यत्र योग इत्युक्तम् । "यत्र यस्मिन् काले' इति

।परोक्तमयुक्तम्, उपरितनयच्छब्द भिन्नार्थत्वप्रसङ्गात्,

भाव: । ।यत्रोपरमते इत्यत्र यतो विच्छिद्यत इति

भ्रमापाकरणायाह ।अतिशयितेति । यत्र सिद्धे अन्यत उपरमत

इत्यध्याहारेण योजना न युक्ता; तथा सति निरुद्धमित्यनेन

पुनरुक्तिश्च स्यात् । उप सर्गाणां च नानार्थत्वादयमेवातिशयितार्थ

उपपन्न: । आसक्ति(त्ति?)प्रतिपादनद्वारा तात्पर्येण

वायमर्थस्सिध्यतीति भाव: । ।यत्र चैवेत्येवकारस्य यथाक्रमान्वये

प्रयोजनाभावात्, उचितान्वयप्रदर्शनाय ।आत्मन्येव तुष्यतीत्युक्तम् ।

।अन्यनिरपेक्षमिति अवधारण तोषशब्दाभ्यां अर्थसदिद्धोक्ति: ।

यद्वा ।आत्मानं पश्यंस्तुष्यतीत्येतावतैव विवक्षितसिद्धो पुन:

।आत्मनीति निर्देश: तदन्यव्यदासार्थ इत्यभिप्राय: ।

।आत्मनिपरमात्मानमिति योजना तु जीवयोगविषयत्वादिहासङ्गता ।

अतीन्द्रियमित्युक्तत्वात् परिशेषात् , औचित्याच्च बुद्धिग्राह्रमित्यत्र

बुदिं्ध विशिनष्टि ।आत्मबुद्धयेकग्राह्रमिति । आत्यन्तिकं

पुनर्दु:खसंभेदरहितमित्यर्थ: । ।यदेवंविधं ।सुखं तत् यत्र

वेत्तीत्यस्यापवर्गदशानुभाव्यसुखप्रतिसन्धानपरत्वनव्युदासाय


भो(यो)गरूपापरोक्ष्याभिप्रायेण ।अनुभवतीत्युक्तम् ।

।आत्मनि तुष्यतीति पूर्वम् इतरसुखनिरपेक्षत्वपरम् ।

।सुखमात्यन्तिकमित्यादिकं तु स्वरूपस्वानुभवपरमित्यपौनरुक्त्यम्

व ।सुखातिरेकेणेति । उक्त एवाचल त्वहेतुरुचित इति भाव: ।

प्रामाणिकार्थान्न चलतीति वा, सम्यङ्न चलतीति वा निर्वहणं

मन्दम् । योगदशायां च सुखातिरेकेण स्वरसतस्तदवस्थयैव

चिरतरावस्थानाभिधानमुचितम् अपेक्षितम् चेत्यभिप्रायेण

।तत्त्वत: इत्यस्य ।तत्भावादिति प्रतिपदमुक्तम् ।

इतरविषनिरोधनैरपेक्ष्ये ।यत्रेति श्लोकनोक्ते ।

तत आत्मस्वरूपसुखानुभव:, तस्य स्वरसवाहितया दुर्विच्छेदत्वं

च ।सुखमिति श्लोकेनाभिहिते । अथ ।यं लब्ध्वेति श्लोकेन

योगविरति कालेष्वपि तस्यैवाभिलाषपदत्वात् बाह्रसुखाभिलाषेण

दु:खेन चानास्कन्दनमुच्यत इति विभागज्ञापनाभिप्रायेण

।योगाद्विरत इत्यादिकमुक्तम् । योगदशायां तु

लाभान्तरप्रतिसन्धानमेव नास्तीति भाव: ।

।गुरुणाऽपीत्युक्तगौरव्यञ्जनाय ।गुणवत्पुत्रवियोगादिनेत्युक्तम् ।

""पुत्रजन्मविपत्तिभ्यां न परं सुखदु:खयो: इति ह्राहु: ।

।न विचाल्यते योगप्रतिकूलमवसादं न गच्छतीत्यर्थ: ।

दु:खसंयोगस्य वियोगो यत्रेति व्यधिकरणबहुव्री

हौझ्र्वा?टफलितोक्तिरियम् । अथवा ।वियोगशब्दोऽत्र

वियुज्यतेऽनेनेति करणार्थघञन्तो वियोगहेतुपर इति भाव:

व ।निर्विण्णचेतसेति पदच्छेदे संसारे तापत्रये वेत्यध्याहार:

स्यात्; तत्तु सप्रयोजने योजनान्तरे संभवति न युक्तम्;

तस्मा।दनिर्विण्णचेतसेति पदच्छेद: ।

।निश्चयशब्दोऽपि तेनैव हेतुसमर्पणेनान्वित:; न तु योक्तव्य

इत्यनेन, निरर्थकान्वयप्रसङ्गात् । अनिर्विण्णत्वहेतुश्च निश्चय:

पूर्वोक्तनिरतिशयपुरुषार्थत्वेनैव स्यात्; तदेतखिलमभिसन्धायाह

।स एवमिति । ।एवंरूप: निरतिशयपुरुषार्थरूप इत्यर्थ:।

।योक्तव्य इत्युक्तत्वात् आरम्भोपकारकत्वद्योतनाय

।आरम्भदशायामित्युक्तं । ""मनसा क्लिश्यमानस्तुय

समाधानं च कामयेत् । अनिर्वेदं मुनिर्गच्छन् कुर्यादेवात्मनो हितम्

(मनु.6) इति ह्रुच्यते । अत: विरक्त्युपयुक्तनिर्वेदोऽन्य:;

अयं त्वन्यादृश इति ।ह्मष्टचेतसेत्युक्तम् ।

।योक्तव्य: कर्तव्य इत्यर्थ: ।।

06.24-25

अथ ममकारपरित्यागादिकं प्राक्विप्रकीर्णोक्तमखिलमिदानीं

सुखग्रहणायेह सौकर्यप्रदर्शनाय च संकलय्य

योगदशापर्यन्ततया स्मार्यते ।सङ्गल्पेत्यादिभि: श्लोकै: ।

"सङ्कल्पप्रभवान् सर्वान् कामास्त्यक्त्वा' इत्येतावतैव सिद्धो

पुन: अशेषत इति पदं निश्शेषत्यागानर्हाराय ।अशेषतश्च

कामांस्त्यक्तत्वेति चकाराभावेऽपि योज्यम्;अपि च 2.

सङ्.ङ्प्रभवत्वेन विशेषणमेव

असङ्कल्पप्रभवकामसूचकमित्यभिप्रायेण बिभजते

।स्पर्शजा इति । मनसैवेति पदं मध्यस्थितत्वादपेक्षितत्वाच्च

काकाक्षिन्यायेन पूर्वोत्तरान्वितमिति दर्शयितुं ।तान् सर्वान्

मनसैवेत्यादिकमुक्तम् । कामत्यागकरणस्य

मनसोऽवान्तरव्यापार: तदनन्वयानुसन्धानम्;

कर्मोपाधिकशरीरान्विता हि पुत्रादय:, न त्वात्मस्वरूपान्विता

इत्यनुसन्धानेनेत्यर्थ: । ।न प्रह्मष्येदित्यादिभि: प्रागेवोक्तं

स्मारयति ।स्पर्शजेष्वित्यादिना । ।
समन्तत: इत्यत्र

पदच्छेदादिभ्रमव्युदासायाह सर्वस्माद्विषयादिति ।

प्रकान्ताया अशिथिलत्वरूपाया धृते र्हेतुमाह ।विवेकविषययेति ।

।उपरम्य बाह्रलाभार्थं मानसमुद्योगं वारयित्वेत्यर्थ: ।

।उपरम्येति व्याख्यानमङ्गत्द्योतनाय । ।किञ्चिदपीति

आत्मव्यतिरिक्तमनुकूलप्रतिकूलोदासीनं सर्वमित्यर्थ: ।।

06.26.26

पूर्वोक्तमेव दुग्र्रहत्वद्योतनायावधानविधानाय च प्रपञ्चयति

।यतो यत: इति । चञ्चलमस्थिरम् इत्यनयो:पौनरुक्त्यनिरासायोक्तं

।चलस्वभावतयाऽऽत्मन्यस्थिरमिति ।

सामान्यविशेषविषयत्वादुपुनरुक्ति:। चञ्चलम् इति

स्भावातिरिक्तहेतुनिवृत्तिपरं वा । ।यतो यतो निश्चरति

येनयेनेन्द्रियद्वारेण निश्चरतीत्यर्थ: । यद्वा यंयं

विषयमभिमुखीकृत्वेत्यर्थ: । प्रयोजनतया वा हेतौ पञ्चमी

व तद्व्यञ्जनायाह ।विषयप्रावण्यहेतोरिति ।

विषयसंबन्धानतत्कीर्तनादयो विषयप्रावण्यहेतव:।

सुखाभावनया वशीकरणं शक्यमित्युच्यते

।अतिशयितसुखभावनयेति ।।

06.27.27

आत्मवशीकरणोपाय: प्रागुक्त:; अनन्तरं च तदे2.वाह

।प्रशान्तमनसम् इति श्लोकेन । तत्र विप्रकीर्णावस्थितानां

पदानामन्वयक्रममर्थं च दर्शयति ।प्रशान्तमनसमित्यादिना ।

योगिनम्, अकल्मषं, शान्तरजसं, शान्तमनसं,

ब्राहृभूतमेनम् इति हेतुकार्यभावेनान्वयक्रम: ।3.

स्व.#्वयोगस्य स्वकल्मषनिवर्तकत्वं पञ्चगव्यप्राशनादेरिव

परसङ्कल्पायत्तम् । । ब्राहृभूतमिति देहात्मभ्रमादिप्रयुक्तक्लेशादिदश

रूपाब्राहृत्वव्यवच्छेदार्थम्; तदाह ।स्वरूपेणावस्थितमिति ।

अणोरपि हि जीवस्य, "स चानन्त्याय कल्पते' (श्वे.5.9) इति

श्रुतेर्मतो बृहत्त्वमस्त्येव । ।उत्तमशब्देन वैषयिकसुखव्यवच्छेदो

विवक्षित इतिव्यञ्जनाय ।स्वरूपानुभवरूपमित्युक्तम् ।

।ब्राहृसंस्पर्शम् (28) इति ह्नन्तरमुच्यते। निरतिशयत्वात्

दु:खसंभेदविरहाद्वा उत्तमत्वम् । ।पूर्वश्लोकक्तमनोवशीकरणै वा,

एतच्छलोकोक्तसुखोपागमे वा हतुपरो ।हिशब्द इत्याह

।हीति हेताविति । हेतुस्वरूपं विशदयति ।उत्तमेति ।।

06.28.28

1.एवं.वंप्रभावादाविर्भवतस्सुखस्यात्मानुभवरूपत्वं

साक्षात्कारात्पश्चान्निरतिशयत्वमनिर्तननीतयत्वमनायाससाध्यत्वं

चोच्यते ।एवं युञ्जन्निति । एवंशब्देन ।योगी युञ्जीत इत्यारभ्योक्त:

प्रकार: परामृश्यत इत्यभिप्रायेण ।ब्राहृानुभवरूपमित्युक्तम् ।

।एवं युञ्जन् इत्यनेनैव सर्वस्योक्तत्वात् तत्र च नियतकाले

।सदाशब्दान्वयायोगात् सुखस्य चाविनाशित्ववचनस्यापेक्षितत्वात्

।सदाऽश्नुत इत्यन्वय: । ततश्चात्यन्त शब्दोऽपि

सावधिकत्वरूपान्त 2.(?)वृत्तिद्वारा निरतिशयत्वपर इत्यभिप्रायेण

।अपरिमितमित्युक्तम् । ।सुखेन सुखमश्नुते इति

सुखसाधनसुखान्तराभावात् ।सुखेनेत्यनायासत्वं विवक्षितम् ।।

06.29.29

एवं योगाभ्यासविधि: प्रपञ्चित:। ""आत्मलाभसुखं यावत्

तावत् ध्यानमुदाह्मतम् इत्याद्युक्तफलवर्यन्तत्वं चोक्तम् ।3.

अथ.थ #्धा योगी प्रतिपाद्य इति चतुर्णां श्लोकानामर्थमाह

।अथेति । समदर्शित्वरूपयोविपाकस्य पर्वक्रमेण तारतम्यमात्

चतुष्प्रकारत्वम् । अत्र प्रथमदशोच्यते ।सर्वभूतस्थम् इति

श्लोकेन । समदर्शिनत्वो पपत्तये स्वरूपतस्साम्यं प्रकारवैषम्यस्य

चौपाधिकत्वं दर्शयति ।स्वात्मन इत्यादिना ।गतत्वादित्यन्तेन ।

।भूतशब्दोऽत्राचिद्विशिष्टचेतनवाचकोऽपि ""सत्यं भूतहितं

प्रोक्तम् (यो.या;व्या)इत्यादिष्विव चेतनांशपर: ।

।योगयुक्तात्मा योगविनियुक्तमना:; यद्वा योगसमधिगतात्मस्वरूप

इत्यर्थ: । योगयुक्तात्मत्वं समदर्शनत्वे हेतु: । समदर्शनस्यैव

प्रतियोगिविशेषनिर्देशेन प्रपञ्चनं ।सर्वभूतस्थम् इत्यादि ।

।आत्मशब्दस्यात्रत्मसामान्यविषयत्परमात्मविषयत्व्यार्तनेन

स्वपर्यायत्व द्योतनाय ।स्वात्मशब्द: । नन्वन्योन्यधाराधेयभाव:

कथमुपपद्यते? कथं चाणो: स्वात्मन: सर्वभूतस्थत्वम्?

विप्रकीर्णदेशावस्थितानां च सर्वभूतानां कथमेकदेशस्थिते

स्वात्मनि स्थिति:? ।अतोऽयमात्मशब्द: परमात्मविषयस्यादिति;

तत्राह ।सर्वभूतसमानाकारमिति । नन्वसौ स्वात्म मात्रानुसन्धानरूपे

योगे प्रवृत्त: कथं स्वगतसाम्यप्रतियोगितया

स्वप्रतियोगिकसाम्याश्रयतया च

स्वव्यतिरिक्तात्मात्मवर्गमीक्षेतेत्यत्राह ।एकस्मिन्निति ।

एकजातीयेषु पदार्थेष्वेकव्यक्तिदर्शनेनैव स्थालीपुलाकन्यायात्

तज्जातीयं दर्शयितुमेतद्ग्रन्थैकदेशं पूर्वोत्तरप्रकरणमुच्यते;

चोदाहरति ।सर्वत्रेति । अयमभिप्राय:---।सर्वत्र समदर्शन:

इति सर्वेषामात्मानां परस्परसाम्यदर्शनमुच्यते; तदेव

।सर्वभूतस्थमिति प्रपञ्चयते । अत एव च बाह्रभूतेष्वात्मतत्तवस्य,

तÏस्मश्च तेषां स्थितिदर्शनमिहासङ्गतम् ।

न चेदं परमात्मध्यानमिदमुच्यते, समाधिदशाभेदविषयत्वात् ।

न च जीवानां परमात्मन्श्च साम्यमिहोच्यते,

तस्यापि ।योमामिति विशेषनिर्देशयुक्ते(क्त) (30,31)

श्लोकद्वये प्रतिपादयितुमुचितत्वात् । अस्य परमात्मविषयत्वे

।यो माम् इति श्लोकद्वयेन मात्रया पौनरुक्त्यं च स्यात् ।

।योऽयं योग: इत्येतदनुवादे च साम्यमात्रमेवोच्यते;

न तु परस्पराधारधेयभाव: । प्रागपि "विद्याविनय' (5.18)

इत्यादौ साम्यमात्रमेवोक्तम् । अतोऽत्र जीवानां

परस्परसाम्यमेव विवक्षितमिति ।।

06.30.30

एवं देमनुष्यादिप्रकृतिपरिणामविशेषरूपभेदनिरसनेन

ज्ञानद्रव्यतयैकरूपत्वानुसन्धानमुक्तम् । अथ तस्यैव

देवादिभेदहेतुभूतपुण्यपापतारतम्यविधूननेन परमात्मना

परमसाम्यामिसन्धानमुच्यते ।यो माम् इति ।

अस्यापि श्लोकस्य साम्यविषयत्वै हेतु: प्रागेवोक्त: ।

।ततोऽपि विपाकदशापन्न: प्रथमदशातोऽधिकां

विपाकदशां प्राप्त इत्यर्थ: । जीवात्मनां परमात्मनश्च

साधम्र्यं वक्ष्यमाणं स्मारयति ।मम साधम्र्यमिति ।

उपागत: बुध्या प्राप्त इत्यर्थ: । न ह्रसाविदानीं मुक्त:।

पुण्यपापविधूननेन साम्यप्रतिपादनाय2. "निरञ्जन:' इति

श्रुतिरुपात्ता। "तदा विद्वान् पुण्यपापे विधूय निरञ्जन:

परमं साम्यमुपैति(मु.3.3)इति हि सा ।

।यो मां पश्यतीत्यनुवाद: तत्सिद्धौ हि भवति;

सा कुत इति शङ्का याम्, "साम्यं तावत् उपात्तश्रुत्यादिसिद्धम्;

तदनुसन्धानं च विहितम्; ततश्च तदनुवादोऽप्युपपन्न:'

इति ज्ञापनाय ।मत्साम्यं पश्यन् य: सर्वत्राऽऽत्मवस्तुनि

मां पश्यतीति अवान्तरवचनव्यक्तिभेदो दर्शित: ।

परमात्मन: सर्वव्यापितया सर्वेषां परमात्मनिष्ठतया च

प्रतीतिह्र्रत्र स्वरसतो जायते; तच्चात्र प्रकरणादिवशादनुचितम् ।

ततश्च साम्यदर्शनेमेव विवक्षितमिति वाच्यम्; तदप्ययुक्तम्,

स्वात्मानुसन्धानस्वरूपयोगविपाके परमात्मनोऽन्येषां च

स्फुरणाभावादिति 2.पूर्ववच्छङ्कायामाह ।अन्योन्येति ।

।अन्यतरदर्शनेनान्यतरदपीति । एकव्यक्तिदर्शनेन

व्यक्तत्यन्तरमपीत्यर्थ: । ।तस्याहमित्यादौ न तावत् प्रध्वंसनिषेध:

क्रियते? नादर्शनमुपयामीति । तदेतत् दर्शयति ।तस्येत्यादिना ।

तादृशत्वा(स्वा?)नुसन्धानस्याभावो निषिध्यत इति भाव: ।


स च मे न प्रणश्यती त्येत् दृष्टान्तार्थं, साम्यस्य

सर्वज्ञबुद्धिविषयतया प्रामाणिकत्वार्थं चेत्यभिरायेणाह

।मामापीति । सर्वसाक्षात्कारिणोऽपि मम स्वरूपानुसन्धानांशेऽपि

तत्साम्यात् तत्स्वरूपमप्यनुसंहितं भवति हीत्यर्थ: ।

।स इत्यनेन तदवस्थस्य मुक्तपायत्वं विवक्षितमिति

।व्यञ्जयितुमाह ।मत्साम्यात्स्वात्मानं मत्सममवलोकयन्निति ।।

06.31.31

तृतीयां विपाकदशामाहेत्याह ।तत इति ।

अकर्मकवश्यत्वाकारेणेश्वरसाम्यदर्शनं

पूर्व श्लोकोक्तम्, ।सर्वभूतस्थितमित्यनेन तु

कर्मरूपाविद्यावेष्टनविधुरत्वादसङ्कुचितज्ञानकारतया

साम्यानुसन्धानम्, तत्संस्कारप्रभावेन व्युत्थानकालेऽपि

स्वरसतस्तथाविधानुसन्धानवृत्तिश्चेत्येतदुच्यते ।

।यो भजसि स सर्वथा वर्तमानोऽपीत्यनेन कालभेदस्सिद्धि: ।

न च समाधिदशायामेव ।यथातथा वर्तमानत्वमुपपद्यते ।

सर्वभूतस्थितेन परमात्म नैकत्वानुसन्धानं नाम स्वस्यापि

सर्वभूतस्थिततत्वेन तदेकप्रकारत्वानुसन्धानम् ।

तच्चारणोरात्मन: स्वरूपेण न संभवति । धर्मतश्च

परशुद्धात्मनो व्याप्ति: "वालग्रे'त्यारभ्य "स चानन्त्याय

कल्पते'(श्वे.5.9) इति श्रुतिसिद्धा । ।सूत्रं च,

""प्रदीपवदावेशस्तथा हि दर्शयति(4.4.15) इति ।

अतोऽत्रापि तथैव साम्यं विवक्षितमिति दर्शयितुम्

।अस्ङ्कुचितज्ञानकाकारातयैकत्वमास्थित इत्युक्तम् ।

।प्राकृतभेदपरित्यागेनेति;

कर्मोपाधिकप्रकृतिविशेषसंसर्गकृतज्ञानतारतम्यरूपभेदपरित्यागेनेत्यर्थ: ।

अनेनैकत्वोक्ते: स्वस्वरूपभेदनिरासार्थत्वं परिह्मतम् ।

सर्वात्मनां ब्राहृापृक्सिद्धत्वविवक्षयाऽप्येकत्वोक्तिश्च1. घटते ।

।आस्थितशब्दस्य तात्पर्यार्थ: ।सुदृढमिति ।

ततश्च व्युत्थानकालेऽपि

तथाविधानुसन्धानप्रवाहहेतुभूतसंस्कारप्राबल्यं सूचितम् ।

।मां भजति । मतसमात्मावलोकनमपि हि मद्जनमित्यभिप्राय:।

।सर्वथेत्यस्य लौकिकक्रियाव्यापृतोऽपीत्यभिप्राय:।

।मयि वर्तते इत्यस्य परमात्मनि स्थितिर्नार्थ:,

तस्य योग्य़ोगिसाधारणत्वात् ।

अतो वृत्तिरत्र बुद्धिवृत्तिरित्यभिप्रायेणाह ।मामेव पश्यतीति ।

जीवदर्शनमात्रेण कथं परमात्मदर्शनमित्यत्राह ।स्वात्मनीति ।

व्युत्थानकाले स्वात्मसाक्षात्काराभावेऽपि विशदपरोक्षानुसन्धाने

परेषामपि तथात्वसिद्धे: फलितत्वोक्ति(?)रियम् ।।

06.32.32

प्रबलदु:खहेत्वागमेऽपि निर्विकरत्वापादिकां योगविपाककाष्ठाभूतां

कर्मज्ञानतारतम्यप्रयुक्तसुखदु:खतारतम्यनिवृत्त्यनुसन्धानरूपां

चतुर्थीं दशामाहेत्याह ।ततोऽपि काष्ठामाहेति । आत्मौपम्येन

इत्यस्य न ।पश्यतिनाऽन्वय:, ।सममित्येनन पौनरुक्त्य प्रसङ्गात् ।

अत: ।सर्वत्रात्मौपम्येनेत्यन्वय: । उपमाशब्दस्तुल्यवचन: ।

तस्य भाव ।औपम्यम् । सर्वेषामात्मनां पूर्वोक्तेन

देहविलक्षणत्वादिसाम्येनेत्यर्थ: ।

सर्वत्र इत्येतदेव काकाक्षिन्यायेन ।समं पश्यति इत्यत्राप्यन्वितम् ।

सर्वेषामत्यन्तविषमतया

उपलभ्यमानसुखदु:खान्वयसाम्यभ्रमव्युदासेन

।व्यतिरेकसाम्यानुसन्धानं दर्शयति ।असंबन्धसाम्यादिति ।

परेष्वसंबन्धानुसन्धानस्य निष्प्रयोजनत्वादिहाभिप्रेतेमाह ।परेति ।

परपुत्रजन्मादे: स्वात्मनि स्वपुत्रजन्मादेश्च परेषु यथा न

संबन्ध: , तथा झ्र्स्वपुत्रजन्मादेरपि?ट स्वात्मन्यपीत्युक्तं भवति ।

।परमशब्दाभिप्रेतमायह ।योगकाष्ठां गतो मत इति ।

जीवात्मयोगकाष्ठेयम्, परमात्मयोगस्य परस्ताद्वक्ष्यमाणत्वात्।।

06.33-34

एवं ज्ञानैकाकारतया निर्देषतया 1.ब्रा.#्रद्गुणसंबन्धेनेतरासंबन्धेनेतरासंबन्धेन

च साम्यं श्लोकचतुष्टयेनोक्तम् । अत्र श्लोकद्वयेन

साम्यानुसन्धानोक्ति:, तृतीयचतुर्थश्लोकाभ्यां तु

धृटतधृढतमसाम्यानुसन्धानफलपर्वद्वयोक्तिरित्येके ।

योगाभ्यासविधि:, चतुर्धा योगी चोक्त: ।

अथ प्रागुक्तमेव योगसाधनं विशदं ज्ञातुं पुनरर्जुन उवाच

।योऽयमिति । ।देवेत्यारभ्य ।अनुभूतेष्वित्यन्तम्

अनाद्युपोचितसुदृढविपरीतवासनाया

साम्यानुसन्धानस्याशक्यत्वप्रदर्शनार्थम् ।

परस्परवैषम्यम् ।देवमनुष्यादिभेदेनेति । जीवेश्वरभेदेन

कर्मवश्यत्वाकर्मवश्यत्वादिभेदेनेत्यर्थ: । ।अत्यन्तभिन्नतयेति;

न ह्रत्र खण्डमुण्डादिवत् भेदकधर्ममात्रम्,

किंतु विरुद्धस्वभावत्वमेव हि दृश्यत इति भाव: ।

।एतावन्तं कालमिति कालाध्वनोरत्यन्तसंयोगे

द्वितीया(अष्टा.2.3.5)। ।अकर्मकवश्य़तया चेश्वरसाम्येनेति

च साम्यद्वयसमुच्चयार्थ: । ।अकर्मकवश्यतया चेश्वरसाम्येन

चेति कश्चित् पाठ: । तदा पूर्वश्चकार ईश्वरसाम्येऽपि

ज्ञानैकाकारत्वसंग्रहार्थ: । द्वितीयस्तु पूर्ववत् ।

ज्ञानपुरुषार्थवैषम्यम्य़यो: कर्मवैषम्यफलत्वात्

।अकर्मवश्यतयेत्यनेनैव तयोरपि निवृत्तिसंग्रह: फलित

इति 2.तयोरनुपादनम् । ।त्वया प्रोक्त: स्वतस्सर्वज्ञेन त्वयैव

ह्रेतदनुसन्धातुं प्रवक्तुं च शक्यमिति भाव: । ।अहं न पश्यामि

इति । अनादिभेदानुसन्धानवान् अजितचित्तश्चाहं न पश्यामीति

भाव: । ।स्थिरां स्थितिं चिरानुवृत्तिमित्यर्थ: । ।मधुसूदन ।

रजस्तमोमयप्रबलविरोधिनिरसनशीलस्त्वमेव

मनोनिग्रहोपायमुपदिशेति भाव: । "चञ्चलं हि मन:'

इत्युत्तरवाक्यानुसन्धानेन ।मनसइत्यध्याह्मतम् ।

।हीति निपातस्य ।यादवप्रकाशोक्तादचिद्विशेषणार्थत्वादपि

स्फुटमुचितं चात्र हेत्वर्थत्वमाह ।तथा हीति । हेतुभूतं

चञ्चलत्वं संप्रतिपन्नस्थले प्रदर्शनीयम् । अतश्चलस्भावत्वमत्र

।चञ्चलशब्दार्थ इति दर्शयितुम् ।अनवरतेत्यादिकम् ।

चञ्चलत्वफलमाह ।पुरुषेणेति ।

।प्रमाथि प्रमथनशीलम् । ।प्रमथ्य । व्याकुलीकृत्येत्यर्थ: ।

।बलवच्छब्द: प्रमथनक्रियाविशेषणं वा, बलवत्त्वात्प्रमाथीति

हेतुपरो वेत्यभिप्रायेण ।बलात्प्रमथ्येत्युक्तम् ।

वैपरीत्ये दाढर्यमित्याह ।दृढमन्यत्रेति । ।तस्येति परामर्शाभिप्रेतमाह

।स्वाभ्यस्येति । ।तद्विपरीताकार इति । अनभ्यस्तपूर्व इत्यर्थ: ।

।स्थापयितुं स्थापनार्थम् । दाष्र्टान्तिके मनसि प्रदर्शितस्य

चञ्चलत्वादे: दृष्टान्ते विवक्षितत्वप्रदर्शनाय

।प्रतिकूलेत्यादिकमुक्तम् । मनोनिग्रहोपायदुर्बलत्वज्ञापनाय

वायोर्मन्दैर्निग्रहासंभावनार्थं च ।व्यजनादिनेवेत्युक्तम् ।

एवं दुष्करत्ववचनंन प्रतिक्षेपार्थम्, किन्तूपायपरिप्रश्नार्थमित्याह

।मन इति ।।

06.35.35

अथार्जुनेन कण्ठोक्तमनुवदन् बुभुत्सितमुपायं

श्लोकद्वयेनाह भगवान् । तत्र ।दुर्निग्रहं चलम् इति

पदद्वयमर्जुनोक्तप्रतिज्ञाहेत्वनुवादरूपोमाह ।चलस्व

भावतयेति । असंशयमित्येतत् सत्यमितिवदर्धाङ्गीकारपरम् ।

।तुशब्दाभिप्रेतं विशेषं दर्शयति ।तथाऽपीति ।

अनुकूलतयाऽभ्यासो हि तत्र प्रावण्यहेतुस्यादित्यभ्यासविशेषं

तत्फलं च व्यनक्ति ।आत्मन इति ।

नित्यत्वज्ञानत्वानन्दत्वाकर्मवश्यत्वाकर्मवश्यत्वामलत्वादयोऽत्र

।गुणा: । ।कथञ्चिदित्यवधानार्थम् । एवं मनसो ग्रहणोपाय उक्त:;

ततश्च "एतस्याहं न पश्यामि' (33) इत्युक्तमर्थं विषयविशेषे

व्यवस्थापयति ।असंयतेति श्लोकेन । मनोनिग्रहप्रकारणत्वात्

।असंयतवश्यशब्दसमभिव्याहारसामथ्र्याच्चात्र ।आत्मशब्दो मनोविषय: ।

।महाबाहुसंबुद्धिसूचितमाह ।महताऽपि बलेनेति । 'उपायेन तु यच्छक्यं

न तच्छक्यं पराक्रमै:'(...?) इति भाव: । ।मे मति: इत्यनेन

निस्सन्देहत्वं विवक्षितिमित्याह ।दुष्प्राप एवेति ।

।उयायतस्तुय वश्यात्मनेति व्याख्यायेयान्वयप्रदर्शनात् ।

तद्व्याख्यानम् ।पूर्वेत्यादि । उक्तलक्षणं कर्ममात्रं मनोनिग्रहपाय:;

अभ्यासवैराग्ये तु तस्यैवाङगतयोक्ते इति भाव: ।

।यतमानेन योगमभ्यस्यतेत्यर्थ: ।।

06.37-39

एवं प्रागुक्तमेव योगसाधनं यथावच्छक्तुम; अथ प्रागुक्तमेव

योगमाहात्म्यं श्रोतव्यंसर्वप्रकारान्वितं प्रपञ्चेन श्रोतुं पृचछतीत्याह

।अथेति । ।योगमाहात्म्यशब्देन संग्रहश्लोकस्थ।योगसिद्धिशब्दो

व्याखयात: । सिद्धिकारणं हि माहात्म्यम्; ।सिद्धिश्चा त्र शिथिलस्यापि

योगस्य--चिरतमनेकपुण्यलोकावाप्ति:,पुनर्योगयोग्ययोगिकुलसंभव:,

तद् द्वारा पुनर्योगपौष्कल्यम्, ततश्चापवर्ग:-इत्येवंरूपा । एषा च सिद्धि:

अनितरसाधारणेन माहात्म्येन । ननु, 'नेहाभिक्रमनाशौऽस्ति (2.40)

इत्यादौ कर्मयोगस्य माहात्म्यमुक्तम्; अत्र तु

तत्फलभूतस्यात्मावलोकनरूपयोगस्य; अत: कथं श्रुतमित्युक्तम्?

तत्राह ।अन्तर्गतेति । तत: किमित्यत्राह ।तच्चेति ।

योगाङ्कुरभूतात्मज्ञानगर्भतया पुष्कलयोगस्वरूपसाधनतया

च हि कर्मयोगस्य माहात्म्यं तत्ट्ठरोदितम्ट्ठ, ततश्च योगोपाधिके

तदङ्गभूतकर्मयोगमाहात्म्येऽभिहिते अङ्गिभूतयोगमाहात्म्यमेवोक्तं

भवतीति भाव: । ।अयतिरित्यादिपदानामर्थौचित्यात्

क्रमभेदेनन्वयो दर्शित:। तत्र प्रवृत्तस्य हि ततश्चलितत्वंवाच्यम्,

न तु तत्र श्रद्धोपेतमात्रस्येति; अत: श्रद्धया

तत्कार्यलक्षणोत्यभिप्रायेण ।योगे प्रवृत्त इत्युक्तम् ।

।उपेतशब्द एव वा अत्र श्रद्धाकृतयोगाधिगमपर इत्यभिप्राय: ।

।योगसंसिद्धिमप्राप्य योगसिद्धे: पूर्वमेवेत्यर्थ: ।

।योगादच्चलितमानस: पुष्कलयोगं कर्तुमननुगुणचित्त इत्यर्थ: ।

।काम् कामभोगमोक्षनिरयेषु कतमामित्यर्थ: ।

।कां गतिं गच्छतीति सामान्यनिर्दिष्टमेव ।क्वच्चिदित्यादिना

विवृतम् । दृष्टान्तेऽप्युभभ्रष्टत्वप्रकारं दर्शयति ।यथेति ।

उभयभ्रष्टताविवरणरूपत्वात् ।विमूढो ब्राहृण:

पथीत्येकस्याभिधानाच्च पारिशेष्यात् ।
अप्रतिष्ठपदं

सांसारिकफलसाधनकर्मभ्रंशाभिप्रायमित्याह ।यथावस्थितमिति ।

कर्मस्वूपानुष्ठानप्रयासादौ न किञ्चिन्न्यूनम्; अभिसन्धिवैषम्यात्तु

निष्फलं संवृत्तमित्यभिप्राय: । ।विमूढो ब्रााहृण:पथीति ब्राहृपथे

अज्ञानं न विवक्षितम्; ज्ञात्वोपक्रम्य निवृत्तं प्रति पृच्छयमानत्वात् ।

अतो विमोहकार्ययोगनिवृत्तिरत्र ।विमूढशब्देन लक्ष्यत योग इत्यर्थ:।

।एतं मे संशयमिति निर्दिश्यमानस्य संशयस्यार्थसिद्धं शिरोन्तरमाह

।किमयं नश्यत्येवेति । ।अर्हसि

सर्वज्ञत्कारुणिकत्वप्रियसखत्वादियुक्तस्त्वं योग्योऽसीत्यर्थ: ।

।कृष्णशब्देन ।त्वच्छब्देन चाभिप्रेतमाह ।स्वत इति ।

करणाधीनम्, अवीशदानुमानादियुक्तस्त्वं योग्योऽसीत्यर्थ: ।

।कृष्णशब्देन त्वच्छब्देन चाभिप्रेतमाह ।स्वत इति ।

करणाधीन, अविशदानुमानादिप्रायम्, क्रमभावि, कतिपयविषयम्,

कादाचित्कमपि हि त्वदन्येषां ज्ञानमिति भाव: ।

एतेन, हयो वेत्ति युगपत् सर्वं प्रत्यक्षेण सदा स्वत: ।

तं प्रणम्य हरिं शास्त्रं न्यायतत्वं प्रचक्षमहे ।।

इति तु ।भगवतन्नामुनिमिश्राणां वचनमनुसंहितम् ।

।न ह्रुपपद्यत इति युक्तिविरोधोऽभिप्रेत: ।।

06.40.40

अथोभयपुरुषार्थान्वयमुखेन उभयविभ्रष्टतां परिहरति

।पार्थेति । ।तस्येत्यनेन परामृष्टाकारद्वयमाह ।श्रद्धयेति ।

।इहामुत्रशब्दयोर्भूलोकस्वर्गलोकादिपरत्वं परिह्मत्यात्रविवक्षितमाह

।प्राकृतेति । यथा मुमुक्षो: पुण्यमपि पापकोटौ निक्षिप्यते,

तथा तस्य स्वर्गादिकमपि ।इहशब्दनिर्देशार्हं प्रकरणसङ्गतं

चेति भाव: । ।विनाशशब्द: "प्रत्यवायो न विद्यते' (2.40)

इति प्रागुक्तमप्यत्र सर्वं संगृह्णातीत्याह ।प्रत्यवायाख्येति ।

।कल्याणशब्दस्यात्र प्रस्तुतविशेषपर्यवसानव्यञ्जनायाह

।निरतिशयेति । ।गच्छतीति अनच्छिन्नवर्तमाननिर्देशात्

।कालत्रयेऽपीत्युक्तम् । ।अनेककालोपचितानन्तपुण्यसाध्यत्वेन

प्रागपि दुष्कृताभाव:, इदानीं च निरतिशयकल्याणरूपयोगप्रवृत्ति:,

परस्तादपि पुण्यलोकावाप्तियोगसिद्धयवर्गप्रभृतिरिति

कालत्रयेऽपि दुर्गत्यभाव:(त्यसंभव:) ।दुर्गति: निरय:,

अनिष्टमात्रं वा । ।हिर्हेतौ, प्रसिद्धौ वा ।

न हि योगे प्रक्रान्तस्य कस्चित् कस्मिश्चित् काले

दुर्गतिप्राप्ति: कुतश्चित् प्रमाणात् सिद्धेति भाव: ।।

06.41.41

उभयभ्रष्टतापपरिहारायोक्तुभयान्वयं प्रपञ्जयति

।प्राप्येत्यादिना ।परां गतिमित्यनेन। योगभ्रंशहेतुम्,

पुण्यकृल्लोकप्राप्तिकृतातिशयितप्राकृतपुरुषार्थयोगे

कर्माख्यसाधनरहितत्वेऽपि योगमाहात्म्यस्यैव साधनत्वम्,

भोगावसानहेतुं वैतृष्ण्यमुत्पाद्य पुनर्योगमाहात्म्यस्यैव

योगारम्भयोग्यकुलोद्भवहेतुत्वं च प्रदर्शयति ।यज्जातीयेति ।

सर्वेषां मात्रया पुण्यकृत्त्वसद्भावेऽपि केषुचित्

पुण्यकृच्छब्दप्रयोग: तेषामतिशयितपुण्यकृत्त्वनिबन्धन

इत्याह ।अतिपुण्यकृतामिति । तज्जातीयत्वेऽपि ततोऽति

शयितत्वाय ।अतिकल्याणानित्युक्तम् । दृश्यते ह्रेकजातीयेष्वपि

रूपरसगन्धादिषु भूलोकेऽपि तारतम्यम् । एवं दिव्यादिव्यभेद: ।

यदि पुराकृतै: पुण्यै: पुण्यलोकावाप्ति:;

पापैरपि पुराकृतै:पापलोकप्राप्तिस्सयादित्यत्राह

।योगमाहात्म्यादेवेति । धर्मार्थसंपादिद्रव्यस्य

भोगार्थविनियोगवदिति भाव: । ह्रसौ पुण्यक्षयादिव

योगमाहात्म्यक्ष्यान्निवर्तते, तस्याक्षयत्वादिति

दर्शयितुं ।यावदितित्यादिकमुक्तम् । 1.विषमविपाकसमय

कर्ममूलसत्त्वोन्मेषकृतविवेकोदयवशात्

निरन्तरभोगप्रकर्षादिवशाच्च वैतृष्ण्यसंभव:

सौभरीपृभृतिवृत्तान्तेषु भाव्य:। शुचित्वं श्रीमत्त्वं च

अदृष्टद्वारा दृष्टद्वारा च योगोपकारकमित्याह

।योगोपक्रमयोग्यानामिति । योगभ्रष्टस्य स्वान्वयात्

योगोपक्रमानुगुणस्वभावानामित्यर्थ: । ।अथ वा योगिनामेव

कुले इति इतोऽप्यतिशयितजन्मनो वक्ष्यमाणत्वात्

।शुचीनाम् इत्यादिविशेषणसामथ्र्याच्च

।योगोपक्रमे भ्रष्ट इत्युक्तम् ।।

06.42.42

।अथवेति व्यवस्थितविकल्पार्थम्;

अतिशयितजन्मनिर्देशोऽतिशयितहेतुसाकाङक्ष इति

दर्शयितुं ।परिपक्ट्ठवयोगश्चलितश्चेदित्युक्तम् ।

।योगिनां कुले इति कस्यचित् योगिनस्सन्ताने प्रसूतिर्नोच्यते;

तान्मात्रस्यात्यन्तयोगोपकारकत्वाभावात्,किंतु उपदेशार्हत्वाय

योगिनां सतामेव पुत्रादित्वेन जायत इति दर्शयितुं

।योगं कुर्वेतामिति वर्तमाननिर्देश:। ।शुचीनां श्रीमतामिति

अन्यस्मादुपदेष्टुर्योगाधिगमं प्रति आनुगुण्यमात्रमुक्तम्;

इह तु ।धीमतामिति वचनात् तेषामेवोपदेष्टृत्वयोग्यतोच्यत

इत्याह ।स्वयमेवेति। पशुर्मनुष्य: पक्षी वा ये च वैष्णवसंश्रया:

(शाण्डि.1-15), "तव दास्यसुखैकसङ्गिनाम्' (स्तो. 55)

इत्यादिप्रतिपादितवैभवयुक्तेर्महत्वम् । पूर्वश्लोकस्थहगेहशब्द

तुल्यार्थत्वादत्रापि ।कुलशब्दो गृहवाची । ।एतदुभयविधमिति ।

साधारणस्य ।ईदृशमित्यनुवादस्य उभयान्वयित्वमेव

ह्रुचितमिति भाव: । प्रकृतिमात्र दर्शितजनविषयेण

।लोकशब्देनमुमुक्षुव्यतिरिक्तविवक्षमाह ।प्राकृतानामिति ।

दुर्लभतरं कथं लभ्येतेत्यत्र ।ईदृशशब्दाभिप्रेतमाह ।एतत्विति ।।

06.44.44

तत: किमायातमपर्गस्य, पूर्वदेहारब्धस्य योगस्य शिथिलत्वात्;

योगिकलजन्ममात्रस्य च मोक्षहेतुत्वाभावादित्यत्रोत्तरं

।तत्र तमिति । ।तत्रशब्दस्य सप्तमीसाम्यात्

गेहविषयत्वभ्रमव्यदासाय पूर्वोक्तवाक्यार्थेनान्वयमाह

।तत्र जनमनीति व तत्पूर्वदेहे संसारहेतुबुद्धेरपि सद्भावात्

तद्व्यवच्छेदाय ।तमित्युक्तमित्याह ।योगविषयमिति ।

।तत:- बुद्धिसंयोगादित्यर्थ:। जन्मान्तरे

समस्तसंस्कारतिरोधानस्य दृश्यमानत्वात् कथमिदमुपपाद्यत

इति शङ्कायां पुण्यकृतां तथाविध: संस्कारभ्रंशो नास्तीति

प्रदर्शनाय ।सुप्तप्रबुद्धवदिति दृष्टान्त उक्त: । ।संसिद्धो

इत्यत्रोपसर्गाभिप्रेतमाह ।यथेति । ।तेनेत्यस्यार्थो

।योगविषयेणेति । ।तेनैव इत्यवधारणफलितमाह

।योग 2.एव ह्यियत इति । ।हि शब्दार्थमाह ।प्रसिद्धमिति ।

प्रसिद्धिश्च आदिभरतविदुरभीष्मादिवृत्तान्तेषु द्रट्व्या ।

।पार्थकुरुनन्दनशब्दाभ्यामुभयकुलशुद्धयादिसूचकाभ्यामर्जुनस्यापि3.

शुच.#ुचश्रीमताम् इत्याद्यन्वय: सूचित: ।।

06.44.44

।जिज्ञासुरियादि प्रकरणवशात् वासनाया

विच्छिन्नघटकत्वप्रदर्शानार्थमित्याह ।अप्रवृत्तेति ।

।जिज्ञासुरपि इति ।सन्नन्ता।पिशब्दयोगस्सामथ्र्यात्

।अप्रवृत्तयोग इत्युक्तम् । यद्यपि ""न लोकाव्य़यनिष्ठाखलर्थतृनाम्

(अष्टा.2.3.69) इति कर्मणि षष्ठीनिषेध:,

तथाऽप्यत्र संबन्धसामान्यविवक्षया ।योगस्येति षष्ठी ।

योगिनश्चलितस्य योग:, प्रकान्तयोगस्य चलितस्य तत्प्रक्रम:,

योगमारुतरुक्षोश्चलोतस्य आरुरुक्षेति तत्तदवस्थारूपं

प्रतिसमाधानमिति भाव: । ।कर्मयोगादिकं

कर्मयोगज्ञानयोगावित्यर्थ: । यद्वा, कर्मयोग उपक्रमो

यस्याऽऽत्मसाक्षात्काररूपस्य योगस्य स तथोक्त:।

ब्राहृशब्दोऽत्र न परब्राहृविषय:, तस्यातिवर्तनीयत्वानुपपत्ते:,

।शब्दब्राहृ इति विशेषणायोगाच्च । अत एव न जीवविषय: ।

नापि वेदविषय:, तस्याप्यतिवर्तनीयत्वानिरूपणात् ।1

नापि.पिषणया वेदप्रतिपाद्यकर्मविषय:, तत्फलविषयो वा,

तत्रापि वेदे ब्राहृशब्दस्य गौण: प्रयोग:, तस्य परस्ताल्लक्षणा,

उनिषदंशात्संकोच इति बहुदोषप्रसङ्गात् ।

नापि शब्दजन्यं ज्ञानमत्रं शब्दब्राहृ, योगं

जिज्ञासोस्तदतिवृत्तेर्विरुद्धत्वात् । ""स्वाध्यायात्

योगमासीत योगात् स्वाध्यायामामनेत् (वि.6.6.2)

इत्यादिप्रकोपप्रसङ्गाच्च ।।

योगमारुरुक्षस्तु पुरुष: शब्दाश्रवणजनितज्ञानमात्रवत:

पुरुषाधिक:, ""ब्रााहृणेषु च विद्वांसो विद्वत्सु कृतबुद्धय: ।

कृतबुद्धिषु कर्तार: कर्तृषु ब्राहृवादिन: (मनु.1.97)

इति वदति चेत्- तदपि न; अध्याहाराद्यापातात्,

अप्रस्तुताभिधानप्रसङ्गात्, पूर्वोत्तरवाक्यानन्वयाच्च ।

अत: प्रकृतावपि ब्राहृशब्दप्रयोगस्यात्रापि प्राचुर्रयात्

अतिवर्तनीयत्वौचित्याच्च ।ब्राहृ-शब्दोऽत्र प्रकृतिविषय: ।

तस्या एव भोग्यभोगोपकरणभोगस्थानाख्यरिणामप्रदर्शनाय

।शब्दब्राहृेति व्यपदेश: । ""सर्वाणि रूपाणि विचित्य धीर:।

नामानि कृत्वा (पु) इत्यादिश्रुते: विभक्तरूपा हि प्रकृतिर्देवादि

शब्दाभिलप्या । तदेतदखिलमभिप्रेत्य ।देवमनुष्येत्यादिकमुक्तम् ।

प्रकृत्यतिवर्तनशब्दार्थ फलितं दर्शयति ।प्रकृत्तिबन्धादिति ।

देवमनुष्येत्यादिना, "पुमान्न देवो न नर:' (वि.2.13.98)

इत्यादिकं स्मारितम्; ।ज्ञानानन्दैकतानमित्यनेन च

"ज्ञानानन्दमयस्त्वात्मा शेषो हि परमात्मन:

'(पञ्च...) इत्यादिकम् ।।

06.45.45

तदेवं योगभ्रष्टस्य पुनस्संसिद्धौ यत्नपर्यन्तमुक्तम् ।

अथ तत एव तस्याऽऽत्मप्राप्प्तिलक्षणपरमपुरुषार्थयोगोऽभिधीयते

।प्रयत्नात् इति । ।तत: इति पदं यथास्थानान्वये प्रयजनाभावात्

प्रकृतहेतुपुरुषार्थयोगोऽभिधीयते ।प्रयत्नात् इति ।

।तत: इति पदं यथास्थानान्वये प्रयोजनाभावात् प्रकृतहेतु परमाह

।यत इति । ।अनेकाजन्मसंसिद्धि: अनैकैर्जन्मभिस्सम्ययोगयोग्यो

जात इत्यर्थ: । तत्र हेतु: ।संशुद्धकिल्बिषत्वम् ।

।प्रयत्नाद्यतमानस्तु इन्द्रियनियमनादिप्रयत्यनेन योगो यतमान:

इत्योपुनरुक्ति: । अथवाऽधिकं यतमान इत्य़र्थ: ।

।तुशब्दद्योतितं पूर्वौक्तं व्यञ्यितुं ।चलितोऽपीत्युक्तम् ।

।चलितोऽपि पुनरिति वा ।ततश्शब्दव्याख्या ।

।परां गतिमिति योग एव वा तत्साध्यात् प्रप्त्यादिर्वोयते ।।

06.46.46

एवंविधं योगस्य माहात्म्यं तप:प्रभृतिषु न कस्यचिदप्यस्ति;

अतस्तपस्विप्रभृतिभ्यो योगी समधिक इति योगं योगिनं च

प्रशंसन् जीवात्मयोगोपदेशमुपसंहरतीत्यभिप्रायेणाह

।अति शयतितेति । योगिनोऽपि तपोज्ञानकर्माणां सद्भावात्

तद्य्वच्छेदाय ।केवलादिशब्द: ।
।आत्मज्ञानव्यतिरिक्तैज्र्ञानैरिति ।

सन्ति हि तत्तद्योगशास्त्रोक्तानि औपनिषदानि च

देवतान्तर-चन्द्रसूर्यादिग्रह-प्राणेन्द्रियादिविषयाणि

ज्ञानानि । ।तपश्शब्दार्थात्।कर्मशब्दार्थस्य वैषम्यं दर्शयितुम्

।अश्वमेधाद्युपादानम् । तपप्रभृतीनां योगस्य चफलद्वारा

तारतम्यमिह विवक्षितमिति दर्शयितुं पुरुषर्थाभिधानम् ।।

06.47.47

एवं स्वस्मादाधिक्ये जीवात्मयोगिन: प्रतिपादिते,

तत: परम(पर:?)पुरुषार्थो नास्तीति श्रोता चरितार्थबुद्धिस्यादिति

शङ्कमानो भूमविद्यायामिव स्वयमेव ततोऽप्यतिशयितपुरुषार्थसाधकं

तदङ्गिनं स्वविषयभक्तियोगं मध्यमषट्केन प्रतिपादयितुं

स्वयमेव प्रस्तौतीत्याह ।तदेवमिति । उक्तै: प्रमाणतर्कै:

उपपादित प्रकारेणैत्यर्थ: । सङ्गत्यर्थं प्रथमषट्कशेषत्वमाह

।परविद्याङ्गभूतमिति । तत्र प्रमाणद्योतनम्

।प्रजापतिवाक्योदितमिति। प्रागेवेदं प्रपञ्जितम् ।

एतेन परिशुद्धप्रत्यगात्मदर्शनामात्रस्य

परमयोगत्वादिकंवदन्तोऽन्तिमयुगवेदान्तिप्रभृतयो निरस्ता: ।

।परविद्याम् । परां विद्यामित्यर्थ:; "अथ परा, य़या तदक्षरमधिगम्यते'

(मु.1.1.5) इत्यादिवत् । यद्वा परमात्मनो विद्यामित्यर्थ: ।

।प्रस्तौति प्रस्तावमात्रमिदम्; प्रपञ्जो ह्रनन्तरं भविष्यतीति भाव: ।

नन्वेवं किमर्थं परिक्लिश्यते । निर्धारणे षष्ठयत्र संभवति ।

तथा हि प्रागुक्तेषु चतुर्षु योगेषु "सर्वभुतस्थितं यो मां

भजस्त्येकत्वमास्थित:' (30) इति योगी कश्चित्दुक्त: ।

अत्रापि ।श्रद्धावान् भजते यो मामिति स एव प्रत्यभिज्ञायते ।

अतस्तन्निर्धारणे)णेन ।युक्ततम: इति प्रशंसाऽत्र क्रियते ।

।युक्ततम: इत्यत्र प्रत्य़यश्च निर्धारणार्थत्वसूचक: ।

तस्मान्नासौ पञ्चम्यर्थे षष्ठीति; तत्राह ।सर्वभूतस्थमिति ।

एतेन पूर्वश्लोके ।योगीत्येकवचननिर्देशेऽपि अत्र

बहुवचनेनानुवादस्य विषयोऽपि दर्शित: । तत: किमित्यत्राह

।तेष्विति व अयमभिप्राय:- परमात्मोपासको हि यगी

मध्यमषट्केन वक्ष्यते । तस्यच प्रस्तावोऽत्र क्रियते ।

न चासौ प्रागुक्त: । 'सर्वभूतस्थितं यो माम्'इत्यादेश्च

साम्यानुसन्धानविषयत्वं प्रागेव प्रतिपादितम् ।

ततो न तस्यात्र प्रत्यभिज्ञा । ।किंच "आत्मौपम्येन' (32)

इति श्लोके सर्वभूतस्थितमित्याद्युक्तयोगिनोऽपि परतरो

योगी प्रागुक्त: । ततश्च सर्वभूतस्थितम्

इत्यादिनोक्तयोगिनो ऽत्र सर्वस्मादाधिक्यप्रतिपादेन पूर्वेण

विरोध: स्यात् । अतोऽत्र योगिनस्तेष्वन्यतमत्वायोगान्न

निर्धारणे षष्ठीयम् । तदिदमुक्तम् ।तेष्वनन्तर्गतत्वादिति ।

ननु पूर्वोक्तान् वक्ष्यमाणं च योगिनं सामान्येन संगृह्र

तेष्वन्यतमस्य वक्ष्यमाणस्य निर्धारणं किं नस स्यात् ।

मैवम्; प्रतिपन्नेषु केषुचित् प्रतिपन्न एव हि कश्चिन्निर्धार्य:,

अन्यथाऽतिशयविधानार्थमनुवादायोगात्; न च वक्ष्यमाणो

योगी श्रोतुर्जुनस्य इत: पूर्वं प्रतिपन्न: । इदमपि

।वक्ष्यमाणस्येति पदेन सूचितम् । अत: प्रागुक्तेभ्यो

योगिभ्योऽधिकस्य वक्ष्यमाणस्य योगिन:

प्रस्ताव एवायं भवितुमर्हति । ततश्च पञ्चम्ययर्थत्वे न निर्धारणे

षष्ठी संभवतीति । ।योगिनामपि सर्वेषामिति

समानाधिरण्येन योजनायाम्।अपिशब्दस्य समुच्चयार्थत्वं

प्रसिद्धिप्रकर्षवदत्रापि संभवत् चात्र सर्वशब्दार्थतया

तपस्विप्रभृतय: प्रसक्ता: । ते च न योगिशब्देन संगृहीता: ।

मुख्ये संभवति च तेन तल्लक्षणा न युक्ता ।

योगिभ्यो न्यूनानामपि तेषामुपादानम्

दृष्टान्तार्थतयाऽत्यन्तोचितमेव योगिनां तपस्विप्रभृतिनां च

समुच्चयोऽवरत्वसाम्यप्रतिपादनौपयिकत्वादत्यन्तापेक्षित: ।

तदेतत् सर्वमभिप्रयन्नाह ।अपि सर्वेषामिति । ।उक्तेन न्यायेनेति।

प्रकरणवशात् तेष्वनन्तर्गतत्वादन्तर्भावयितुमशक्यवाच्चेति

भाव: । यद्वा योगिनां तपस्विप्रभृतीनां च यथास्वमुपाययक्तत्वात्

तेभ्यस्सर्वेभ्योऽयमतिशयितोपाययुक्त इत्यर्थ:। अथवा, योग्यतम

इत्यर्थ: । एतदखिलमभिप्रेत्य श्रेष्ठतम इति वक्ष्यति ।

योगिभ्योऽपि न्यूनतमास्तपस्विप्रभृतय: किमर्थमत्र संगृह्रन्त

इत्यत्र दृष्टान्तार्थतां विशदयति ।तदपेक्षयेति ।

लौकिकोदाहरणेन द्रढयति ।मेर्वपेक्षयेति ।

नन्ववरत्वे न कश्चिद्विशेष इत्युक्तम्; तथा सति तपस्विप्रभृतीनां

योगिनां चात्यन्तसमत्वप्रसङ्गात् । अस्ति च विशेषो

मेर्वपेक्षयाऽपि सर्षपाणां मात्रया न्यूनाधिकभावेनावरत्वावरतरत्वरूप: ।

तत्राह ।यद्यपीति । नेदानीं मिथस्तारतम्यं निषिध्यते;

किंतु मिथस्तारतम्यवतामप्यत्यन्तातिशयितापेक्षया

न्यूनत्वमात्रमविशिष्टम्; तावतैव चावरत्वव्याहारोप्यवशिष्टो

जायत इति भाव: । 1.।मत्प्रियत्वातिरकेणेति ।

अहं ।प्रिय: प्रीतिविषयो यस्य स मत्प्रिय: ।

तस्य भावत्तत्वं 2.भक्त्यरेकेणेत्यर्थ: ।

अनन्यधारणस्वाभावतयेति ।

स्वाभिमतभोग्यमेव हि धारकमिति भाव: ।

बाह्रेन्द्रियशरीराद्यपेक्षयाऽत्र मनसोऽन्तरात्मशब्दवाच्यत्वम्,

इच्छायाश्च त्वराहेतुं तीव्रदशापतिं्त दर्शयति ।अत्यर्थेत्यादिना ।

भजनीयतया निर्दिष्टस्य श्रुतिस्मृत्यादिशतै:,

वक्ष्यमाणषट्कद्वयेन चोक्तान् उपासनोपयुक्ताकारान्

।मामित्यनेन विवक्षितान् दर्शयति ।विचित्रेत्यादिना

।आप्याय़न्तमित्यन्तेन । तत्रापि

वाङ्मनसापरिच्छेद्यस्वरूपभावमित्यन्तानि परत्वौपयिकानि;

तत: पराणि तु सौलभ्यौपयिकानीति विवेक: ।

तदुभयाभिधानं च अतिसुलभस्य तृणादे:, अतिदुर्लभस्य

मेर्वादेश्चान्यतर वैकल्येनानुपादेयत्वात् ।

कारणवाक्यस्थानां सद्ब्राहृात्मादिसामान्यशब्दानाम्

अनन्यथासिद्धविशेषोपस्थापकनारायणपदार्थपर्यवसानमभिप्रयन्,

""जन्माद्यस्य यत: (ब्रा.1.1.2)इति सूत्रनिरूपितार्थेन,

""यतो वा इमानि (तै.भृ) इत्यादिवाक्येन प्रतिपादितं

जिज्ञास्यस्य ब्राहृणो लक्षणं

दर्शयिष्यमाणजगत्कारणत्ववैश्वरूप्यादिवैभवे

धनञ्जयसारथौ दर्शयति ।विचित्रेति ।

कारणत्वमुखेन लीलाविभूतियोग: प्रतिपादित:;

अथ कारणत्वशङ्कित दोषवत्त्वगुणवैकल्यशङ्कानिवृत्त्यर्थं

शोधकवाक्यादिसिद्धिमुभयलिङ्गत्वं दर्शयति ।अस्पृष्टेति ।

।अस्पृष्टाशेषदोषत्यस्य गुणविशेषणत्वे दोषसामानाधिकरण्यभावो

विवक्षित:; गुणिविशेषणत्वे दोषात्यन्ताभाव: ।

अथ शुभाश्रयाप्राकृतविग्रहविशिष्टत्वप्रतिपादनमुखेन

दिव्याभरणायुधमहिषीपरिजनस्थानादियोगमुपलक्षयन्

नित्यविभूतियोगं सूचयति । स्वाभिमेतेति ।

एवमुभयविभूतियोगादुभयलिङ्गत्वाच्च फलिते केवलपरत्वे

वाङ्मनसापरिच्छेद्यतया उपासनायोग्यत्वमपि सूचयितुं

परत्वातिशयमाह ।वाङ्मनसेति । स्वरूपमीश्वरत्वादिकम्;

आनन्दत्वादिकं वा । स्वाभावझ्र्आटस्तु निरूपितस्वरूपविशेषका

धर्मा: । उक्तं परत्वमेव स्वरूपम्,वक्ष्यमाणं सौभ्यं तु

स्वभाव इत्येके । अवतारसौभ्यहेतून् आह ।अपारेत्यादिना ।

प्रत्येकमेषां महोदधिम् । ""रिुायो वैश्यास्तथा शूद्रा:

(गी.9.32), ""अभयं सर्वमूतेभ्य: (रा.यु.18.35), ""सर्वलोकशरण्याय (17.25),

""यदि वा रावण: स्वयम् (18.36)इत्यादिभिस्सिद्धं दर्शयति ।अनालोचितेति ।

।विशेषा: जातिगुणवृत्तविशेषादिरूपा: । उक्ता:कारुण्यादिगुणा:

एवंविधशरण्यत्वे हेतव: । ।शरण्यशब्देनाभिगमनीयत्वमुक्तम्;

तत्फलभूतविरोधिनिरसनशीलतामाह ।प्रणतार्तिहरमिति ।

सर्वसाधारणतया गुणान्तरैस्सह निर्दिष्टमपि बात्सल्यगुणं

भूयोऽपि विशेषसंबन्धानुसन्धानाय, विशेषतोऽवतारेषु

कार्यकरत्वज्ञापनाय, सापराधानामभीतये,

ज्ञानादिरहितदशायामपि स्वयमेव रक्षक इति प्रदर्शनाय,

तत्प्रतिबन्धकभूतपरमात्वैमुख्यनिवृत्तये च पृथगनुसन्धत्ते

।आश्रितवात्सल्यैकजलधिमिति ।

उक्तकारुण्यादिगुणगणफलितं प्रकृतावतरान्तराद्वैलक्षण्यमाह

।अखिलेति । ""अजोऽपि सन् अव्ययात्मा (4.3)इत्यादिना

पूर्वोक्तं स्मारयति
।अजहदिति अवतारविशेषमाश्रितो हि

।मामित्याहेत्यभिप्रायेणाह ।वसुदेवेति ।

तेज:कान्तिरूपावतारविग्रहगुणविशेषाभ्याम् अवतारदशायामेव

परत्वसौलभ्यव्यञ्जकाभ्याम् उपासकचित्ताकर्षणमभिप्रेत्याह

अनवधिकेति अत्रापि भास्वरत्वं तेज:; तत

एवानभिभवनीयत्वमपि सिद्धम् । ।कान्तिस्तु रामणीयकम्,

लावण्यापरपर्यायचन्द्रिकाकल्पा प्रभावा ।

अत एव हि आप्यायन्तमित्युक्तम् । एतेन

""विश्वमाप्य़ायायन् कान्त्या (सात्व.सं.2.70) इत्यादिकं स्मारितम् ।

भजते इत्यस्य विवक्षितं वक्तुं धातुपाठपठितमर्थं तावत् दर्शयति

।उपास्त इत्यर्थ इति। ।योगिनामपि

सर्वेषामित्युक्तवर्गद्वयं सङ्कलय्य ।सर्वेभ्य इत्युक्तम् ।

।मे मत: इत्यत्रास्मच्छब्दाभिप्रेतमाह ।सर्।मित्यादिना ।

अत्रापि ""यो वेत्ति युगपत्सर्वम्(न्यायतत्त्व)

इत्यादिकमनुसंहितम् ।।

प्र्प्र्।इति कवितार्किकसिंहस्य वेदान्तचार्यस्य कृतिषु श्रीमद्गीताभाष्टीकायां तात्पर्यचन्द्रिकायां षष्ठोऽध्याय: ।।