गीताभाष्यतात्पर्यचन्द्रिका/अध्यायः ५
← अध्यायः ४ | गीताभाष्यतात्पर्यचन्द्रिका अध्यायः ५ [[लेखकः :|]] |
अध्यायः ६ → |
श्रीमद्गीताभाष्यगीकायां तात्पर्यचन्द्रिकायां पञ्चमोऽध्याय:
05.01.01
एवं पञ्चमस्यांशतस्तृतीयचतुर्थाभ्यां
सङ्गतिप्रदर्शनायोक्तांशविवेकेन पञ्चमस्यानुक्तांशे
तात्पर्य प्रदर्शनाय चाऽऽह ।चतुर्थोऽध्याय इति ।
।कर्मयोगस्य ज्ञानकारतेत्यादिकं चतुर्थाध्यायप्रधाना
सङ्गतिप्रदेशनार्थं च । तृतीया एवेति ।
कर्तव्यतोपदेशलक्षण एवेत्यर्थ पञ्चमार्थमाह ।इदानीमिति ।
अत्रैवं ।संग्रहश्लोक:, ""कर्मयोगस्य सौकर्यं शैघ्रयं ,
काश्चन ः ब्राहृज्ञान प्रकारश्च,पञ्चमाध्याय उच्यते
(9)इति । अत्र ।सौकार्यं शैघ्रयमिति संगृहीतत्वेऽपिः
शैघ्रयमात्रवचनं सौकर्यस्य तृतीयाध्यायोक्तस्यैवानुवाद:
पञ्चमे शैघ्रयौपयिकतया क्रियत इति ज्ञापनार्थं शैघ्रयं तु
तत्रानुक्तत्वादत्र कर्मणामित्येतत् उभयान्वितम् ।
ननु कर्मयोगस्य त्याज्यत्वं क्वचितदपि नोक्तम्;
प्रत्युत तदेवोपादेयतया प्रपञ्चितम्; न च ज्ञानयोगस्य प्रशंसा
क्वापि कृता: येन "संन्यासं...योगं च शंसति' इत्युच्यते ।
उभयो: प्रशंसने कृतेऽपि विकल्प इत्येव मन्तव्यम्,
।पुनरन्यतराधिक्यप्रश्नावकाश इत्यत्राह ।एतदुक्तमिति ।
।प्रतिपाद्येत्यन्तेन ।संन्यासं कर्मणामित्यस्याभिप्रायो विवृत: ।
कषायनिवृत्यर्थ: कर्मयोग:। तन्निवृत्तौ कर्मयोगं परित्यज्य
ज्ञानयोग उपादेय:; अतो ज्ञानयोग एवात्मदर्शने
साक्षात्साधनमिति द्वितीये प्रतिपादितमिति भाव:।
पूर्वं संन्यस्तस्य पुनर्योगं शंससीति भ्रमव्युदासाय
।शंससीत्यनेन पुनश्शब्दान्वयमाह ।तृतीयचतुर्थयोरिति ।
द्वितीय इत्येतत् तृतीयचतुर्थयोरित्येतच्च
भाष्य़कारैस्स्वानुसन्धानेनोक्तम्, न पुनर्जुनवाक्यानुकार: 2. ।
अत्र मृदितकषायस्य कर्मयोगस्त्याज्यश्चेत्, कथमुपादेय:,
ज्ञानयोगस्य दर्शनसाधनत्वे कथमव्यवधानेन तत्संभव
इति भाव: । "कर्म ज्यायो ह्रकर्मण:' (3.8) भ्रमते
ज्यायस्त्वेन झ्र्कथनात् तस्य प्र ?टशंसनमित्यभिप्रायेणाह
प्रशंससीति । तत्रेति द्वयोरप्यव्यवहितसाधनत्वे विवक्षिते इत्यर्थ: ।
।एतयोरित्यत्र निर्धारितान्वयतरविषय ।एकशब्द: ।
तत्र सामान्यकारविवक्षया नपुंसकत्वम् , श्रेयश्शब्दविशेषणतया वा ।
।सौकर्याच्छैघ्रयाच्चेति फलस्यैकत्वात् तन्निबन्धनं
श्रैष्ठयमिहा ःउक्तमिति भाव: । ।श्रेयस्सुनिश्चितमित्यन्वय: ।
श्रेयस्त्वेन सुनिश्चितमित्यर्थ: । क्रियाविशेषणत्वं तु
निरर्थकमित्यभिप्रायेणाह ।श्रेष्ठमिति सुनिश्चितमिति ।
श्रेयश्शब्दस्य ।फलादिष्वपि प्रयोगप्राचुर्यात् तद्वयुदासाय
तारतम्यप्रश्नानुगुण्येन प्रकृतिप्रत्य़यार्थव्यञ्जनाय ।श्रेष्ठशब्देन
व्याख्यातम् (नम?) । अत्रैकफलसाधनत्वाद्विकल्पे प्राप्ते
सौकर्यादिगुणयोगाच्छ्रेयस्त्वोक्ति: ।।
05.02.02
अथ सद्वारकत्वाभिधानस्य अधिकारिविशेषनियततया
द्वयोरप्यव्यवहितसाधनत्वमुपपादयन् तत एव मृदितकषायस्यापि
सौकर्यशैघ्रयसङ्ग्निस्तस्यैव कर्तव्यतां च द्रढयन् भगवानुवाच
।संन्यास इति । ज्ञानयोगाशक्तस्य कर्मयोगसापेक्षत्वात्
तच्छक्तस्यैव निरपेक्षसाधनत्वोक्तिरुपपन्नेत्यभिप्रायेणाह
।ज्ञानयोगशक्तस्यापीति । "उभो निश्श्रेयसकरौ'
इत्येतत्सामथ्र्यात्, "एकमप्यास्थित: सम्यगुभयोर्विन्दते फलम्'
(4) इति वक्ष्यमाणानुसन्धानाच्च ।निरपेक्षावित्युक्तम् ।
।चकारेणाप्येतदेव व्यज्यते । अन्वाचयेतरेतरयोगसामाहार
हिपृथक्फलसाधनत्वप्रकरणविरुद्धा: ।
अत: पृथक्स्वातन्त्र्यगर्भस्समुच्चय एवात्र ।चार्थ: ।
तर्हि द्वावप्यनियमेन यथेच्छमुपादेयौ, कर्मयोगस्य तु
किमर्थं प्रशंसेति शङ्काव्युदासाय ।तुशब्द: ।
तदभिप्रायव्यञ्जनार्थं ।एवकार: ।।
05.03.03
"द्वयो: श्रेयस्साधनत्वाविशेषेऽपि कर्मयोग एव विशिष्यते' इति
श्लोक: ।नित्यसंन्यासी इत्येतावता ज्ञानयोगनिष्ठविषय इति
न मन्तव्यम्, ।कर्मयोगो विशिष्यते इति प्रतिज्ञाय ज्ञानयोग
निष्ठस्य सुखेन त् मोक्षोक्तरसङ्गतत्वात्; "संन्यासस्तु
महाबाहो दु:खमाप्तुमयोगत:' (6) इति वक्ष्यमाणविरोधाच्च ।
अत: कर्मयोगनिष्ठस्य प्रशंसेयमित्यभिप्रायेणाह ।य: कर्मयोगीति ।
काङ्क्षाया बाह्रमात्रविषयत्वव्यञ्जनार्थं तद्धेयत्वार्थं च
।तदन्तर्गतात्मानुभवतृप्त इत्युक्तम् । काङ्क्षा हि प्रतिहन्यमाना
द्वेषहेतुरित्यभिप्रायेण ।तत एव किमपि न द्वेष्टीति व्युत्क्रमेण
व्याख्यातम् । द्वन्द्वस्वरूपनिवृत्तिव्युदासाय ।द्वन्द्वसहशब्द: ।
।तत एव द्वन्द्वसहश्चेति । रागद्वेषवतो द्वन्द्वतितिक्षा
न शक्येति भाव: । नित्यसंन्यासित्वे ।हिशब्दस्य
हेतुपरत्वव्यञ्जनाय ।स हीत्युक्तम् । ।सुखशब्दोऽत्र सौकर्यपर
इत्याह ।सुकरकर्मयोगनिष्ठतयेति ।।
05.04.04
"निश्श्रेयसकरावुभौ'(2) इत्यभिप्रेतं विवृणोतीत्यभिप्रायेणाह
।ज्ञानयोगकर्मयोगयोरिति । अत्र सांख्ययोगशब्दौ न
कापिलहैरण्यगर्भसिद्धान्तविषयौ, तयोरप्रस्तुतत्वात्,
महाप्रकरणासङ्गतत्वात्, "तयोस्तु कर्मसंन्यासात् कर्मयोगो
विशिष्यते' (2) "संन्यासस्तु महाबाहो दु:खमाप्तुयोगत:
'(3)इत्यादिपूर्वोत्तरविरोधात्, ।शारीरकसूत्रेषु च,
"रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च' (2.2.1)
'एतेन योग: प्रत्युक्त:' (2.1.3) इत्यादिभिस्सूत्रैस्तयोरपि
सिद्धान्तयो: महर्षिणैवापाकरणात् ।
"बहव: पुरुषा राजन् सांख्ययोगविचारिण: ।
नैत इच्छन्ति पुरुषमेकं कुरुकुलोद्वह' (भा.मो.351.2),
""समासे न तु तत् व्यास: पुरुषैकात्म्यमुक्तवान्
(भा.मो.351.7) इति ।मोक्षधर्मे तयोर्विरुद्धांशवचनाच्च
अत: संख्य़या बुद्धयाऽवधारणीयमात्मतत्त्वं सांख्यम्,
तदवधारणरूपं ।सांख्यं; योगश्चात्र कर्मयोग इत्यभिप्रायेण
ज्ञानयोगकर्मयोगशब्दोपादानम् । ।पृथगबाला:प्रवदन्तीति
न स्वरूपपृथक्त्वं निषिध्यतं; तस्य प्रमाणिकत्वात् ।
न च तत्समुच्चयविधानपरमिदम्,
"एकमप्यास्थितस्सम्यगुभयौर्विन्दते फलम्,' "यत् सांख्यै:
प्राप्यते स्थानं तद्योगैरपि गम्यते' (5), "संन्यासस्तु
महाबाहो दु:खमाप्तुयमयोगत:' (6) इत्यादिभि:
पृथगनुष्ठानस्यैव सिद्धत्वात् । अत: फलैक्यस्य "एकमप्यास्थित:'
इत्यादिना विधानात्, अत्रफलभेदकृतभेदनिषेधे तात्पर्यमित्याह
।फलभेदात्पृथग्भूताविति । अस्य वाक्यस्य पृथक्फलोवादिनं
निन्दारूपत्वात्, ।य पश्यति (5) इत्यनूद्य स पश्यतीति हि विधीयते ।
बालशब्दस्यात्र मुख्यायोगादुपचरितमाह ।अनिष्पन्नज्ञाना इति ।
अपक्वयौक्तिकज्ञानेषु अपक्वकार्यशब्दोपचार:, बालसाम्याद्वा ।बाला:।
न पण्डिता: इत्यत्र अशास्त्रीयानुष्ठानपर्यन्ताज्ञानव्युदासायोक्तम्
।अकृत्स्नविद इति । ""तस्माद्वब्रााहृण: पाण्डित्यम्; अतो
।बाला: इत्युक्तेऽपि तदभावोक्तिर्न पुनरुच्यत इति भाव: ।
फलादिभेदभ्रमप्रकारं ।न पण्डिता: इत्यस्यापि बाला:
इतिवत् विधिविषयत्वं च दर्शयति ।कर्मयोग इति । ।ज्ञानयोगमेवेति ।
न तु कस्मिन्नप्यधिकारिणि साक्षादात्मावलोकनमित्यर्थ: ।
ये तु "ये बालास्त एवं वदन्ति, ये पण्डितास्ते तु न इति
वचनव्यक्तिमाहु:; तेषामप्ययमेवार्थ: 1.फलतोऽङ्गीकार्य: ।
उभयो: फलमेकेन कथं लभ्यमित्यत्राह ।उभयोरिति ।
निर्धारणे षष्ठी; एकशब्दश्चान्यतरपर्याय:;द्वयोरपि तुल्यफलत्वादन्य
देवास्थानेऽपि तत्फलं सिध्यतीत्यर्थ: ।।
05.05.05
भिन्नफलत्वेन पृथक्त्वाभिधायिनां निन्दा कृता;
अथैकफलत्वेनैक्याभिधायिनां प्रशंसनं क्रियत इत्यभिप्रायेणाह
।एतदेव विवृणोतीति । सांख्यैरित्यत्र
सिद्धान्तविशेषनिष्ठभ्रमव्युदासायाह ।ज्ञाननिष्ठैरिति ।
सांख्यमात्मज्ञानशास्त्रं तद्वेदिन इह ।सांख्या: यद्वा संख्या बुद्धि:,
ज्ञानयोग:; तन्निष्ठा: सांख्या:; अथवा सांख्य आत्मा, तद्वेदिनोऽपि
।साङ्ख्या: । ।स्थानशब्दोऽत्र "विन्दते फलमि'तिवत् फलविषय:;
न तु देशविशेषविषय:, ज्ञानयोगादिमात्रप्राप्यदेशविशेषाभावात् 1.।
तच्च फलं पूर्वोत्तरानुवृत्तमात्मावलोकनमित्यभिप्रायेण
।यदात्मावलोकरूपं फलमित्युक्तम् । अत्र ।यदेव साड्खया:
पश्यन्तीति यादवप्रकाशोक्त: पाठोऽप्रसिद्धत्वादनादृत: ।
यौगैरित्येतत् लक्षणया वा 2.प्रत्ययविशेषाद्वा तन्निष्ठविषयमिति
व्यञ्जनाय ।कर्मयोगनिष्ठैरित्युक्तम् ।
अत्र ।सांख्ययोगशब्दौ नोपायपरौ, बहुवचनानौचित्यादिति भाव: ।
।एकमित्युक्तेझ्र्:ट एकशास्त्रार्थत्वादिभ्रमव्युदासायाह
।एवमेकफलत्वेनेति । अङ्गाङ्गिभावेतरेतर
योगरहितयोरुपाययोरेकफलत्वलक्षणं ह्रैक्यमनुष्ठाने
विलकल्पाय स्यात् । तथा च सूत्रम्""विकल्पोऽशिष्टफलत्वात्
(ब्रा.3.3.57) इति । तदाह ।वैकल्पिकमिति ।
।स पश्यतीत्येतत् ।न पण्डिता:(4)इत्येतत्प्रतिरूपमिति
दर्शयति ।स एव पण्डित इति ।।
05.06.06
ननु "कर्मयोगो विशिष्यते'(2) इति वचनम्, अत्र
वैकल्पिकत्ववचनं च कथमुपपद्यते, अत्यन्त तुल्यत्वे
हि विकल्प इति शङ्कायाम्, सौकर्यशैघ्रयाभ्यां वैशिष्टयम्,
फलस्यात्यन्ततुल्यतया च विकल्प:;ल
अधिकारिभेदप्रतिनियतत्वाच्च न
दुष्करविलम्बितोपायनैरर्थक्यमित्यभिप्रायेण वैषम्यमुच्यत
इत्याह ।इयान् विशेष इत्याहेति । ।तुशब्दोऽन्योन्यवैषम्यपर:;
।अयोगत: इत्यनेन कर्मयोगमन्तरेण ज्ञानयोगस्वरूपमेव न
सिध्यतीत्यभिप्रेतम्;तदाह ।कर्मयोगादृत इति । ""शक्यमञ्जलिभि:
पातुं वाता:(रा.कि28.8) इत्यादिवद् ।दु:खशब्दस्यात्र नपुंसकत्वम् ।
।मुनिशब्दे प्रकृतापेक्षितप्रकृतिप्रत्य़यार्थ विवरणम् ।मननशील इति ।
तत्राकर्तृत्वानुसन्धानप्रकरणबलान्मननस्यात्मविषयत्वोक्ति: ।
।स्वयमेव ज्ञानयोगमन्तरेणेत्यर्थ: ।
"दु:खमाप्तुमयोगत:'इत्येतद्व्यतिरकानुसन्धानात्
।सुखेन कर्मयोगं साधयिवित्युक्तम् । ।न चिरेणेति नञ:
क्रियान्वये चिरेणाप्यधिगगमो न स्यादिति भ्रम: स्यात्;
तद्वयुदासाय ।नचिरेणेत्युक्तम् । नैकादिवत् ।नचिरेणेति
समस्तप्रयोग: । ब्राहृशब्दोऽत्र परिशुद्धात्मस्वरूपलक्षण
कर्मयोगाव्यावहितफलविषय इति व्यञ्जनाय ।
आत्मानं
प्राप्नोतीत्युक्तम् । प्राप्तिरिह साक्षात्कार:
एवमव्यवहितात्मप्राप्तिसाधनत्वं वदता, प्रकृतस्संन्यासो
ब्राहृशब्देनोच्यते' इति ।शङ्करोक्तं प्रत्युक्तम् ।
तद्व्यतिरेकेण पूर्वोक्तं पूरयति ।ज्ञानयोगयुक्त इति ।
दु:खसाध्यत्वात् विलम्बतफलो ज्ञानयोग:;कर्मयोगस्तु
सुखसाध्यत्वादविलम्बितफल इति वैषम्यमनेन
श्लोकेनोक्तं भवति ।।
05.07.07
कर्मयोगस्य सुखसध्यत्वे शीघ्रफलाधिगमे च हेतुरुच्यते
।योगयुक्त: इति श्लोकेन । पूर्वौ ।आत्मशब्दौ मनोविषयौ,
जितेन्द्रियसमभिव्याहारात् ।।योगयुक्त: इत्यनेनैव सिद्धो
विशुद्धमनस्त्वे हेतु: ।शास्त्रीय इत्यादिनोच्यते । ।विशुद्धिरत्र
रजस्तमोनिवृत्तिस्तन्मूलरागद्वेषादिकषायनिवृत्तिश्च ।
प्राक्समर्थितं स्मारयति ।स्वाभ्यस्ते कर्मेणीति। प्रधानस्य
मनोनिग्रहस्य वक्तुमुचितत्वात्, "विजितदेह:' इति
।परव्याख्यानं मन्दमिति भाव: । सर्वेन्द्रियकूटस्थे
मनसि जिते बाह्रानीन्द्रियान्तराणि जितानि भवन्तीत्यभिप्रायेण
।तत एवेत्युक्तम् । ।सर्वभूतेत्याद्युपपादनाय ।कर्तुरित्युक्तम् ।
प्रथमस्य ।भूतशब्दस्यात्र देवादिदेहमात्रविषयताम्, द्वितीयस्य1.क्र.#्र्म...(?)
तां विग्रहं च दर्शयति ।सर्वेषामिति ।
भिन्ननामैक्यं हि विरुद्धमित्यत्राह ।आत्मयाथात्म्यमिति ।
अयमभिप्राय:-सत्यम्, न स्वरूपैक्यं विधीयते,
तस्य प्रत्यक्षानुमानागमपूर्वापरविरुद्धत्वात्; किंत्वेकाकारत्वम्;
यथा, "सर्वस्मिन् गृहे वर्तमानो व्रीहिरयमेव' इत्युक्ते
तज्जातीयत्वमुक्तं भवति, तद्वदत्रापि सर्वस्मिन् देहे
वर्तमानोऽयमेवात्मेति प्रयोगेऽपि देहान्तरववर्तिनामस्य
चाऽऽत्मन: समानत्मुक्तं भवतीति ।
ननु समान्त्वमपि प्रत्यक्षादिविरुद्धम्,
देवतिर्यग्ब्रााहृणक्षत्रियब्राहृचारिगृहस्थपण्डितापण्डितशक्ताशक्त-
धनिकदरिद्रस्थविरतरुणादिनिरवधिकवैषम्यनिर्भरत्वादात्मनाम् ।
अन्यथा "ब्रााहृणो यजेत' (श.ब्राा.5.1.5.2)
इत्याद्यात्मपर्यन्तशास्त्रीयप्रयोगोऽपि भज्यतेत्यत्राह
।देवादिभेदानामिति । अयं भाव:- सत्यम्,
देवादिवैषम्यं प्रामाणिकमेव । तत्तु न स्वरूपप्रयुक्तम्;
तस्य कर्मोपाधिकप्रकृतिपरिणामभेदनिबन्धनत्वात् ।
शुद्धाकारविवक्षया तु समानत्वमिहोच्यते इति ।
साम्यस्यात्र विवक्षितत्वे संवादकमनन्तरमेव साम्याभिधानं
दर्शयति ।प्रकृतिवियुक्त इति । ।कुर्वन्नपि न लिप्यते इत्यत्र,
न तावत् निषिद्धंकुर्वन्नपि न दुष्टो भवतीत्युज्यते,
तथा च सति निष्फलप्रयासत्वेन तस्याननुष्ठानप्रसङ्गात् ।
अतऽत्र न केवलं ज्ञानयोगनिष्ठ:, अपि तु कर्मयोगं
कुर्वन्नप्यात्मसाकात्काराख्यफलविरोधिना केनचिन्न
लिप्यत इत्येवार्थ इत्यभिप्रायेण ।अनात्मन्यात्माभिमानेनेत्यादि
उक्तम् । ।नैव किंचित्करोमि(8) इत्यादिकं ह्रनन्तरमुच्यत
इति भाव: । । न लोप्यते इत्यत्र सवासनं संबन्धवनिषेधौ
विवक्षित इत्याह ।न संबध्यत इति ।
प्रस्तुतार्थतया निगमयति ।अत इति ।।
05.08-09
एवमर्जुनस्य परिपृच्छत: साक्षात्प्रश्नस्योत्तरमुक्तम् ।
अथ तदाशयविदो भगवत आभिप्रायिकं
वाक्यमुत्तरसङ्गत्यर्थं दर्शयत ।यत इति ।
।युक्तोऽत्र योगनिष्ठ:; ।तत्त्ववित्तदन्तर्गतात्मतत्त्वविज्ञानवान्;
तदाह ।एवमात्मतत्त्वविदिति । पश्यन्, शृण्वन्,स्पृशन् जिघ्रन्,
अश्नन्नि चक्षुश्श्रोत्रत्वघ्राणजिह्वाख्यज्ञानेन्द्रियव्यापारा: ।
।गच्छन्,प्रलपन्,विसृजन्ट्ठ,गृह्णन्निति पादादिकर्मेन्द्रियव्यापर: ।
तत्र विसृजान्नितिपायूपस्थव्यापारसंग्रह: ।
उक्तं च, ""पायूपस्थे विसर्गार्थमिन्द्रिये तुल्यकर्मणी ।
विसर्गे च पुरीषस्य विसर्गे चाभिकामत: (भा.मो.275.21) इति ।
।स्वपन्, श्वसन्, उन्मिषन्, निमिषन्निति तु व्यानाख्यप्राणव्यापार: ।
।श्वसन् इति तु ःप्राणसंज्ञकप्राणविशेषव्यापार: ।
।गृह्णन्निति पाणिव्यापारपरोऽपि अपानव्यापरस्यापि तन्त्रेण ग्राहक:;
"तदपानेनाजिघृक्षत् । 2.तदावयत् ।
स य एषोऽन्नस्य ग्रहो यद्वायु: (ऐ.13.10)इति ।
एवं विभागज्ञापनाय ।श्रोत्रादीनि ज्ञानेन्द्रियाणि वागादीनि च
कर्मेन्द्रियाणि प्राणशश्चेत्युक्तम् ।
।इन्द्रियशब्दोऽत्र सर्वेन्द्रियप्रवृत्त्यादिहेतुतया प्राणसंवादादिषु
प्रसिद्धं मुख्यप्राणमजहल्लक्षणया लक्षयतीति तात्पर्यम् ।
।इन्द्रियार्थेष्वित्येतदपि तथैव लक्षकमिति व्यञ्जनाय
।स्वविषयेष्वित्युक्तम् ।
नन्विन्द्रियप्राणेष्वकर्तृषु कर्तृत्वाध्यास: स्वस्याकर्तृत्वबुद्धिश्च
भ्रान्तिरेव स्यात्; आत्मन एव कर्तृत्वस्य ""कर्ता शास्त्रार्थवत्त्वात्
(ब्रा.2.3.33) इत्यादिभि: स्थापितत्वादित्यत्राह ।ज्ञानैकस्वभावस्येति ।
कर्मणां मिथ्यात्वानुसन्धानमिह परोक्तमयुक्तम्; "इन्द्रियाणीन्द्रियार्थेषु
वर्तन्ते' इत्यस्याप्यननुसन्धेयत्वप्रसङ्गात् ।
मुक्तस्य स्वेच्छागृहीतेन्द्रियादि(दे:)व्यवच्छेदाय
उपाधीनामप्यौपाधिकत्वव्यञ्जनाय च ।कर्ममूलशब्द: ।
।ईदृशमिति पुण्यपापरूपमित्यर्थ: ।
अत्र ।तत्त्वविदितिम निरुधि स्वरूपपरत्वात्,
"कार्यकारण'(गी.13.20) इत्यादाविव न चिदचिद्व्यापारविभागोक्ति: ।।
05.10.10
नन्वेवं फलाभिसन्धिपूर्वकेऽपि कर्मणि क्रियमाणे, "नैव किंचित्करोमि
इति भावनया तत्करेणेपि दोष: स्यात् । यदि च परमार्थत:
स्वस्यैव कर्तृत्वम्, किं तस्यौपाधिकत्वानुसन्धानेन प्रयोजनम्;
तथाऽनुसन्धानेऽपि प्रकृतिसंसर्ग एवैनं देहात्मभ्रमे निमज्जयेदिति
शङ्का निराक्रियते ।ब्राहृणीति श्लोकेन । न तावदत्र ब्राहृशब्देन
जीव उच्यते, तत्तकर्तृत्वतिरस्कारप्रकरणत्वात् । नापि परं
ब्राहृ, औपाधिकत्वप्रतिपादनप्रकरणै तदनपेक्षणात्, अनन्तरं च
"सर्वकर्माणि मनसा' (13) इति श्लोकेन
देहकर्तृत्वाभिसन्धानाभिधानात् । अत: पूर्वोक्तस्यार्थस्य
आकाङ्क्षितफलनिर्देशपरत्वोपपत्ते:
हृशब्दोऽतऽत्रेन्द्रियाकारपरिणत प्रकृतिगोचर: ।
भवति हि प्रकृतिकार्येऽपि ब्राहृशब्दप्रयोग:,
""तस्मादेतद्ब्राहृ नाम रूप रूपमन्नं च जायते (मु.1.1.10) इति ।
तदेतदखिलमभि प्रेत्याह ।ब्राहृशब्देनेति ।
ब्राहृशब्दस्य प्रकृतौ प्रयोगं भगवद्गीतायामेवोदाहरति।मम
योनिरिति । भवतु प्रकृतौ ब्राहृशब्द:;प्रस्तुतस्य
किमायातमिति शङ्कायां पूर्वश्लोकार्थन्यायाभ्यामुपबृंहितं
वाक्यार्थमाह ।इन्द्रियाणामिति । ननु बृहत्त्वगुणात्
प्रयोगबलाच्च मूलप्रकृतिब्र्राहृशब्देनेच्यताम्, तत्र
दर्शनश्रवणादिकर्तृत्वानुसन्सानमशक्यम्, मूलप्रकृतिरूपे
तद्धेतुत्वाभावादिति शङ्कानिराकरणाय
।अवस्थितायामित्यन्तमुक्तम् । औपचारिकेऽपि कारणविषय:
प्रयोगो द्रव्यैक्यात् कार्यमपि गोचरयेदिति भाव: ।
।कर्माणीति बहुवचनं पूर्वोक्तवैविध्यपरमिति प्रदर्शनायोक्तम्
।पश्यञ्च्छृण्वन्नित्याद्युक्तप्रकारेणति । ।य: करोतीत्यात्मन्येव
कर्तृत्वनिर्देशात् तदौपाधिकत्वस्मरणाय पूर्वोक्तमाकृष्टम्
।नैव किंचित्करोमीति । ।पापशब्दोऽत्र देहात्मभ्रमविषय: ।
"योऽन्यथा सन्तमात्मानमन्यथा प्रतिपाद्यते ।
किं तेन न कृतं पापं चोरेणात्मापहारिणा'(भा.उ.42.35)
इत्यादिषु च आत्मनोऽकर्तृत्वानुसन्धानप्रकरणे तन्निवृत्तिरेव
वक्तुमुचितेत्यभिप्रायेण ।प्रकृत्यात्माभिमानरूपेणेत्युक्तम् ।
।बन्धहेतुनेति तत्र पापलक्षणद्योतनम् ।
अलौकिकमनिष्टफलासाधारणकारणं हि पापम् ।
प्रयुक्तश्च पापशब्दोऽनेकेष्वझ्र्प्यटर्थेषु, यथा ""न सुकृतं न
दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्ते (छ.8.4.1)इति ।
ननु पद्मपत्रमम्भसा संस्पृष्टं कथमत्र दृष्टान्त इत्यत्राह
।यथेति । न संसर्गम? निषेधायात्र दृष्टान्त:;
किंतु यथा पद्मपत्रस्य जन्मस्थित्यादिकं सर्वमम्भस्येव,
तथाऽपि न तत्कार्यक्लेश? तद्वत् प्रकृत्यधीनभोगस्थित्यादेरस्य
तत्कार्यदेहात्मभ्रमादिर्न स्यादिति भाव: ।।
05.11.11
एवमुक्तार्थदृढीकरणाय शिष्टाचारसिद्धतोच्यते ।कायेनेति श्लोकेन ।
।बुद्धिरत्र कृत्यध्यवसाय: । केवल? कर्तृत्वाभिमानत्यागो
विवक्षित:। अथवा ममत्वबुद्धिविषयतारहितैरित्यर्थ: ।
तदा ।कायेनेत्यादौ केवलेनेत्यादि परिणाम्यम् ।
यद्वा ।कायश्ब्देन कर्मेन्द्रियवर्गस्यापि लक्षणया संग्रहणात्
।केवलैरिन्द्रियैरिति ज्ञानेन्द्रियाण्युच्यन्ते;
तेषां न ।केवलत्वं वचनादानादिकर्मरहितत्वम् व ततश्च
""धर्म: श्रुतो वा दृष्टो वा(भा.आ.96.31) इत्यादिकमपि सूचितं
भवति । आत्मशुद्धेरत्रैव फलतया निर्देशात्,निष्फलप्रवृत्त्योरयोगाच्च
।स्वर्गादिफलसङ्गमित्युक्तम् । शुद्धिर्हि केनचिद्दूषितस्यापेक्षिता;
स च दोषोऽत्र
स्वतश्शुद्धस्याप्यात्मनोऽनादिकालकृतात्मतत्त्वसाक्षात्कारविरोधी
कर्मेत्यभिप्रायेणाह ।आत्मगतेति ।।
05.12.12
एकस्यैव कर्मणो बन्धहेतुत्वं मोक्षहेतुत्वं च
फलसङ्ग-तदभावादिरूपसहकारिविशेषात् युज्यत
इतीममर्थं विशदयति ।युक्त इति श्लोकेन ।
अत्र ।युक्तशब्देन साहितचेतस्त्वमुच्यते। तच्चात्र
फलान्तरविरक्तिपूर्वकमात्मप्रावण्यमेवेति व्यञ्जनाय
।आत्मव्यतिरिक्तेत्यादि उक्तम् । ।कर्मफलं त्यक्तत्वेति
वचनात् कर्मस्वरूपानुष्ठानं पूर्वोक्तमिहार्थसिद्धं दर्शितम् ।
।नैष्ठिकीं शान्तिमित्यनेन साक्षान्मोक्षप्रतीति: स्यात्,
तद्व्युदासायाह ।स्थिरामिति । प्रकरणलब्धोऽयं विशेष: ।
निष्ठायां भवतीति ।नैष्ठिकी । ।कामकारणेति न स्वैरचारो
विवक्षित:, तस्य दूरनिरस्तत्वात् । अत: कामकर्तृकं प्रेरणं
।कामकार: । तेन यथाभिमतफलसङ्गमात्रं विवक्षितमित्याह
।कामकारेण फले सक्त इति । ।निबध्यत इत्यत्रोपोसर्गेण
नितरां बन्धो विवक्षित इति दर्शयति ।नित्यसंसारी भवतीति ।
वर्तमानव्यपदेशाद्वा तथा विवक्षा ।
"नैवं किंचित्करोमि' (1)इत्यादे:, "फले सक्तो निबध्यते'(12)
इत्यन्तस्य संकलितार्थमुत्तरश्लोकसङ्गत्यर्थमाह ।अत इति ।।
05.13.13
अनन्तरश्लोकार्थमाह ।अथेति । शरीराश्रितेझ्र्ष्विटन्द्रियप्राणेषु
कर्तृत्वसंन्यासाभिधानादनन्तरं तदाश्रये शरीर एव
कर्तृत्वसंन्यास उच्यत इति सङ्गति: । शरीरे कर्तृत्वसंन्यासं
प्रति करणतयोस्य मनस: करणीभावानुगुणव्यापारं दर्शयितुम्
।आत्मन इत्युक्तम् । न हि देवादिदेहसंबन्धमात्रन्यपाप-
कर्तृत्वं, तत्संबन्धमात्रस्याकर्मवश्येऽपि सद्भावात्,
अत: ।प्रचीनकर्ममूलेत्युक्तम् । मुख्यैस्सप्तभि:, अर्वाग्द्वाभ्यां
चात्र ।नवद्वारता; "पुरमेकादशद्वारम्' (क.2.5.1.) इति श्रुतौ
नाभिब्राहृरन्ध्राभ्यां सहैकादशद्वारतोक्ति:। ।पुरे 2.संन्यस्येति ।
पुरस्य संन्यसनक्रियाधिकरणत्वेनान्वय: प्रकृतानुपयुक्त इति भाव: ।
।नवद्वारे पुरे इति निर्देश: सावयवत्वनिरवयवत्वसच्छिद्रत्व
निश्छिद्रत्वपृथुत्वाणुत्वस्वतन्त्रत्वपरतन्त्रत्वनियन्तृत्व-
नियन्तव्यत्वादिभि र्देहात्मनोर्विवेकस्य प्रदर्शनार्थ: ।
।स्वयमिति । देहादिपरारतन्त्र्यरहित इत्यर्थ:;
यद्वा परिशुद्धेन स्वेन रूपेणेति भाव: ।
।वशी अभिमानबलात्काराद्यविषय इत्यर्थ: ।
प्रयत्नाश्रयत्वशरीरस्पन्दनादिहेतुत्वयोरौपाधिकत्वात् ।नैव
कुर्वन्नित्यादि उक्तम् । ।सुखमास्ते ।
कर्तृत्वाभिमानप्युक्तक्लेशादिरहित आस्त इत्यर्थ: ।
पुरमिव शरीरम्, पौरानिवेन्द्रियाणि, सार्वभौममिव परमात्मानम्,
भृत्यमिव स्वात्मानं पश्यतो भवति हि स्वारस्थ्यम् ।
देहात्मभ्रमे हि पुरादिष्वासीनोऽहमिति मन्यते;
तन्निवृत्तौ च देह एव पुरस्थानीयो भवतीति भाव: ।।
05.14.14
एवमौपाधिकस्य रूपस्योपाधिषु संन्यास: उक्त:;
अथै स्वस्मिन्ननुसन्धेयस्वाभाविक रूपमुच्यत इति सङ्गत्यभिप्रायेणाह
।साक्षादिति । विचित्रजनविषयेण
।लोकस्येत्यनेनाभिप्रेतमुपाधिवैचित्र्यादिकं दर्शयितुम्
।अस्त्येत्यादि उक्तम् । ।कर्तृत्वं प्रयत्नादिरूपम् ।
।कर्मणि शरीरेन्द्रियादिचेष्टा:। यद्यात्मनां स्वभाविकमिदं
कर्तृत्वादिकम्, तदा सर्वेषामेकरूपं 3 तत् स्यात्;
न च तथा दृश्यत इत्यभिप्रायेण ।देवाद्यसाधारण
कर्तृत्वमित्यादि उक्तम् । ।देवाद्यसाधारणं
देवत्वादिजातिमत्पिण्डिपरिग्रहदशाप्रतिनियतमित्यर्थ: ।
फलसंयोग: फलस्यानुभव: । प्रकरणवशात् ।प्रभुशब्दोऽत्र
जीवविषय इतिप्रदर्शनार्थम् ।अयं प्रभुरित्युक्तम् ।
जीवे प्रभुशब्दाभिप्रेतमाह ।अकर्मवश्य: स्वाभाविकस्वरूपेनावस्थित
इति । अत्र हि प्रकरणे "मयि सर्वणि'(3.30) इत्यादिना जीवस्य
कर्तृत्वं परमात्मन्यध्यस्यते । अतोऽत्राकर्तृत्वादित्रयं
स्वीकरोतीति वाक्यार्थ: स्यादिति तद्वयुदासायाह
।नोत्पादयतीति । कारणान्तरादर्शनात् तस्यैव
कर्तृत्वमित्यभिप्रायेण चतुर्थपादस्य शङ्कामाह ।कस्तर्हीति ।
सृजतीति शेष: । ।स्वभाव शब्दं प्रकरणोपयुक्तविशेषे स्थापयितुं
वाच्यं तावदाह ।प्रकृतीति । ननु चेतनस्यात्मन: कर्तृत्वादिकं
नास्ति, अचेतनायास्तु वासनायाश्चेतनगुणमात्रभूताया:
कर्तृत्वादिकमिति कथमिदं जाघटीति (ज्ञायते) यद्यात्मन:
स्वतश्शुद्धस्य न कर्तृत्वम्, तर्हि तस्य वासनाऽपि कुतस्समागता?
यदि कुतश्चिद्धेतो:, तदा वासनैव स्वाभाविकत्वे पूर्वदोष:;
औपाधिकत्वे तु अकर्तुरात्मनस्तदागमोऽपि कुत:?
यदि वासनया, तह्र्रन्योन्याश्रयणम्;यद्यन्तस्मात् कुतश्चित्,
तत्रापि तथैवेत्यनवस्था इत्यादिचोद्यनिरासाय ।तुशब्द: ।
तदाह ।अनादिकालेति । बीजाङ्कुरन्यायादन्योन्याश्रयादिपरिहार: ।
वासनाहेतुवैचित्र्य सिद्धयर्थं ।देवाद्याकारेत्यादि उक्तम् ।
यथा तप्ताय:पिण्डे बह्निसंसर्गात् वह्नित्वबुद्धि:,
तथाऽत्रेति दर्शयितुं ।संसर्गकृतशब्द: ।
।वासनाकृतं वासानाख्यविशेषहेतूपाधिकमित्यर्थ: ।।
05.15.15
आत्मनोऽकर्तृत्वादिकस्य, वासनाया: कर्तृत्वादिकस्य च विवरणं
।नादत्ते इति श्लोक स्यार्धद्वयम् ।
परगतपापसुकृतयोरादानप्रसङ्गाभावात् तत्प्रतिषेधोऽनुचित:;
अतस्तत् कार्यं दु:खं सुखं च लक्ष्यते; तत्रापि परगतसुखदु:खयो:
स्वस्मिन्नाकर्षणं न शक्यम् ; अतस्तदपनयनमात्रं
विवक्षितमित्यभिप्रायेणाह ।कस्यचिदिति ।
।आदत्ते इत्यस्य
करोत्याद्यर्थत्वानौचित्यात् । ।विभुरिति न परिणामविशेषाद्यभिप्रायम्;
जीवस्याणुतया श्रुत्यादिसिद्धे: । नापि प्रभुत्वपरम्,
अत्रानुपयुक्तत्वात् ।
अतस्तत्तत्कर्मानुकूलसमस्तदेहानुप्रवेशयोग्यतामात्रं
प्रतिनियतदेशराहित्यं विवक्षितम् । अत एव आगन्तुकेषु
मित्रादिषु संबन्धित्वं प्रतिकूलत्वं च आगन्तुकानां
तत्तद्देहानामेव3. न.न त्मनइति सिध्यति । तत एव च
अनुकूलप्रतिकूलपुरुषशब्द इत्यभिप्रायेणाह ।यतोऽयमिति ।
उत्तरार्धोत्थानाय शङ्कते-।एवंस्वभावस्येति ।
।विपरीतवासना-स्वाभावविरुद्धवासनेत्यर्थ: ।
अत्रोत्तरम्-।अज्ञानेनावृत्तं ज्ञानमिति ।
""अविद्या कर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते ।
य़य़ा क्षेत्रज्ञशक्तिस्सा वेष्टिता नृप सर्वगा ।।
संसारतापान् अखिलानवाप्नोत्यतिसंततान् ।
तया तिरोहितत्ववाच्च शक्ति: क्षेत्रज्ञसंज्ञिता ।।
सर्वभूतेषु भूपाल तारतम्येन वर्तते(लक्ष्यते) (वि.6.8.61.63)
इति भगवत्।पराश रवचनमनुस्मरन् आह-।ज्ञानविरोधिनेति ।
अत्र नञस्तदन्य-तदभावार्थत्वमावरणानुपयु मिति भाव: ।
।स्वफलेत्यादि-न ह्रझ्र्सावटसंकुचितज्ञान:
संसारतापानुभवयोग्य इति भाव: ।
अत्यन्तविलोपपरिहारायाऽऽवरणशब्दोपचरितमाह-संकुचितमिति ।
""न विज्ञातुर्विज्ञातेर्परिलोपो विद्यते (बृ.6.3.30)
इत्यादिश्रुतिसिद्धमानेन स्मारितम् । ।देवादिदेहसंयोग इति
।जन्तुशब्दाभिप्रेतोऽर्थ: । स च मोहजनने कर्मणो द्वारम् ।
शङ्कोत्तरत्वमाह- ।ततश्चेति ।
आत्मनि प्रतिषिद्धस्येष्टानिष्टाचरणस्यान्यहेतुतामाह
।वासनात इति ।।
05.16.16
एवं तृतीयाध्यायोक्ताकर्तृत्वानुसन्धानस्य प्रकारविशेषा:
प्रतिपादिता: प्रतिपादिता:; अथ चतुर्थाध्यायोक्तस्य
ज्ञानविशेषस्य विशोधनं क्रियत इत्यभिप्रायेणाह ।सर्वमिति ।
स्वकाले । अकर्तृत्वानुसन्धानप्रकारकथनादनन्तरं
ज्ञानस्वरूपकथनावसर इत्यर्थ: ।
यद्वा "तद्विद्धि प्रणिपातेन' (4.34) इत्यत्र,
"उपदेक्षयन्ति' इति स्वेनैव निर्दिष्टेविपाककाल इत्यर्थ: ।
।एवं वर्तमानेषु । मुह्रत्स्वपीत्यर्थ:। यद्वा कर्मयोगनिष्ठेष्वित्यर्थ: ।
अज्ञानमावृत्तं चेत्, कथं ज्ञानेन तस्य नाश इति शङ्कां
व्यवच्छिन्दता ।तुशब्देन द्योतितं ज्ञानस्य विशेषं दर्शयि़तुम्
।उक्तलक्षणेनेत्यादि ।निरतिशयपविरत्रेणेत्यन्तमुक्तम् ।
।आत्मनो ज्ञानेनेत्यन्वय: । ।आत्मविषयेणेति ।
।आत्मन: इति षष्ठया: संबन्धसामान्यमात्रपरत्वं
कर्तृविषयत्वं चात्रानुयुक्तमिति भाव: ।
तच्छब्दपरामृष्टप्रकारमाह ।ज्ञानावरणमिति ।
अज्ञानस्वरूपस्यातिगहनत्वसूचनार्थम्, निरतिशय
पवित्रस्य ज्ञानभास्वतो
निश्शेषाज्ञानतिमिरकुक्षिभरित्वप्रदर्शनार्थं च ।अनादिकालेत्यादि
उक्तम् । उत्तरार्धगत तच्छब्दार्थ: ।स्वाभाविकमिति ।
समानाधिकरण्यस्वार स्यात् ।परमिति ज्ञानविशेषणम्;
तदर्थमाह ।अपरिमितमसंकुचितमिति ।
ज्ञानस्य परत्व ह्रनवच्छिन्नविषयत्वम्;तत्र च हेतु: संकोचाभाव
इत्यभिप्राय: । ।सर्वमिति प्रकाशयतेर्थसिद्धकर्मोक्ति: ।
अज्ञाननिवृत्तौ च ज्ञानस्य सर्वगोचरत्वं श्रौतमिति भाव: ।
।आदित्यवदिति दृष्टान्तसामथ्र्यसिद्धमाह ।यथावस्थितमिति ।
एतेन ।परमि त्यत्र पदमिति विशेष्याध्याहार:,1
परम.रमतत्त्वमिति विवक्षा च ।परोक्ता निरस्ता ।।
- ेभेदव्यपदेशबलादद्वैतमतस्योपक्रमविरोध: प्रागुक्त: ।
मध्येऽपि स एव तात्त्विको भेद: स्पष्टमुपदिशयत इति तस्य
तात्पर्यविषयत्वं दर्शयति ।तेषामिति । विनष्टाज्ञानानामिति।
न हीदं बहुत्वं भ्रान्तिसिद्धमुपाधिसिद्धं वा वक्तुं शक्यमिति भाव: ।
सत्यमिथ्योपाधिकृतभेदवादिनो।र्भाष्करशङ्करयोर्मतमनूद्य
परिहरति ।न चेदमिति । मिथ्याभूत स्याज्ञानाख्योपादानस्य
विनाशे तदुपात्तमिथ्याभूतान्त: करणाद्युपाधेरपि निवृत्तेरिति
शङ्करं प्रति हेत्वर्थ: । इतरं प्रति ।अज्ञानशब्दवाच्यस्य
कर्मादेर्विनाशे तन्निनित्ताशरीररान्त: करणाद्यपाधिनिवृत्तेरित्यर्थ:।
शङ्करमतदूषणप्रसङ्गे तदुक्तं ज्ञानमात्रात्वमवादं दूषयितुं
शुद्धदशायां ज्ञातृत्वम् (अत्र) सिद्धमिति दर्शयति ।तेषामिति।
संबन्धविषयतया षष्ठी व्यतिरेकगर्भेति ।व्यतिरेकनिर्देशादित्युक्तम् ।।
विनष्टोपाधीनामात्मनां धर्मतया निर्देशात्, ज्ञानस्य
स्वरूपानुबन्धित्व सिद्धेरागन्तुकचैतन्यवादोऽपि निरस्त: ।
।आदित्यिशब्दोऽत्राऽऽदित्यप्रभापर:,
प्रभाद्वारेणैवादित्यस्यप्रकाशकत्वात्; धर्मभूतज्ञाने च सैव दृष्टान्तो
भवितुमर्हति, ""यथा न क्रियते ज्योत्स्ना मलप्रक्षालान्मणे:
दोषप्रहाणान्न ज्ञानमात्मन: क्रियते तथा (वि.ध.104.55)
इत्यादिसाम्याच्च;तदेतदभिप्रेत्य तत्फलितमाह 2.
।आद.आददृष्टान्तेनेति । तत: प्रस्तुतस्य किमित्यत्राह
।तत एवेति । यथा प्रभाया आवारकसन्निधौ संकोच:,
तन्निवृत्तौ पुनर्विकासश्च दृश्यते, तथा ज्ञानस्यापीति भाव: ।
यद्वा तेषामादित्वदवस्थितानां प्रभातुल्यं ज्ञानमित्यर्थ: ।
प्रभाया: प्रदीपादित्याद्यपृथक्सिद्धतेजोद्रव्यविशेषत्वम्,
ज्ञानस्यात्मधर्मत्वेऽपि द्रव्यत्वम्, संकोचविकासयोगि(ग्य)त्वादीनि
च ।शारीरकभाष्ये प्रपञ्जितानि । एवं प्रभातुल्यद्रव्यत्वोपपादनेन
प्रकृतमावृतत्वादिकं युज्यत इत्याह ।तत एवेति ।।
05.17.17
आत्मानुभवसौधसोपानस्य ज्ञानस्यारोगणक्रमं दर्शयति
।तद्बुद्धय: इति श्लोकेन । तच्छब्देनात्र
पूर्वप्रस्तुतस्वाभाविकात्मस्वरूपं पूर्वश्लोकोक्ततज्ज्ञानं वा
परामृश्यत इत्यभिप्रायेण ।तथाविधात्मदर्शनाध्वसाया इत्युक्तम्
व ।तन्निष्ठत्वं विषयान्तरवैमुख्यात् तत्परायणत्वे हेतु: ।
।अयनशब्दोऽत्र कर्मणि ल्युडन्त: प्राप्यपर: ।
वाक्यार्थज्ञानादिमात्रव्यावृत्त्यर्थम् ।एवमभ्यस्यमानेनेत्युक्तम् ।
प्राप्तिप्रतिबन्धकल्मषनिवृत्तिह्र्रुपान्त्यपर्व । अतोऽन्तिमं प्राप्यमत्र
।अपुनरावृत्तिशब्दस्यात्रानुद्दिष्टावध्वन्यतरपरामर्शा(र्शसा)पेक्ष-
समासान्तरव्युदासेनात्मविशेषणत्वायाह 1.।यदवस्थादिति चायुक्तम्,
मोक्षस्याप्यवस्थाविशेषत्वे नित्यत्वायोगात् पुनरावृत्तिप्रसङ्गादित्यत्राह
।स्वेन रूपेणेति । औपाधिकसमस्ताकारनिवृत्तिरूपावस्था
विनाशकासंभ वात् परमतेऽपि प्रध्वंसरूपत्वादनिवत्र्येति भाव: ।।
05.18.18
कीदृशोऽयमात्मसाक्षात्कार इत्याकाङ्क्षायां "येन भूतान्यशेषेण
द्रक्ष्यस्यात्मन्यथो मयि' (4.35) इति प्रागुक्तं व्यनक्ति ।विद्याविनयेति
श्लोकेन । "विद्याविनयसंपन्ने ब्रााहृे' इति पदद्वयं न
समानाधिकरणम्, निर्विशेषणसमुदायसहपठितत्वात्, विद्याविनय-
संपन्नविशेषणप्रतिशीर्षानुक्तेश्च । ।गवि हस्तिनीत्याकारवैषम्यं
दर्शितम्; ।श्वश्वपचशब्दाभ्यां वृत्त्याझ्र्दिटवैषम्यम्;
तद्वत् पूर्वाभ्यामपिस मिथो वैषम्यमेवाभिप्रेतम्। अतो
।ब्रााहृणो इति ब्रााहृणत्वजात्याक्रान्तझ्र्ताटमात्रं विवक्षितमिति दर्शयति
।केवलब्रााहृण इति ।
सात्विकराजसतामसरूपानेकोदाहरणाभिप्रेतमाह
।अत्यन्तविषमेति । ।आत्मस्विति ।
शरीराणामन्योन्यवैषम्यनिषेधो दुश्शक इति भाव: ।
अत्र समदर्शित्वोपयुक्तमूहापोहक्षमत्वं ।पण्डितत्वमिति दर्शयितुम्
।आत्मयाथात्म्यविद इत्युक्तम् । समं द्रषØं शीलं येषां ते समदर्शिन: ।
ननु प्रत्यक्षसिद्धं शरीरवैषम्यम्; शरीराणामपि तत्तद्विशिष्टत्वात्
तत्तकृतज्ञानादिवैषम्यं च दुरपह्नम्; अतोऽत्यन्तविषमेषु
पदार्थत्वादिवत् स्थूलं सामान्यमकिञ्चित्करमित्यत्राह
।विषमाकारस्त्विति । ।प्रकृतेरिति संबन्धसामान्ये षष्ठी ।
तेन साक्षात्प्रकृतिगतं देवत्वादिकं, तत्प्रयुक्तं सखित्वादिकं
च कथंचित्संबन्धमात्रात् ।प्रकृतेरित्युक्तम् । न शरीरगतं वैषम्यं
प्रतिषिध्यते; किंतु तदेवात्र प्रतिपाद्यते ।
न च तत्तच्छरीरविशिष्टत्वलक्षणं तन्मूलज्ञानसङ्कोचादिलक्षणं
वा वैषम्यमपह्नूयते; अपि तु तस्यौपाधिकत्वमुच्यते ।
न च शरीरादिविशिष्टत्वं विरोध:(धि);
स्वाभाविकस्वरूपसाम्यमात्रपरत्वात् । न चैतदत्यन्तस्थूलम्,
शुद्धानामात्मनां स्वरूपभेदस्य दुर्विवेचत्वात्
स्फुटविशेषाकारान्तराभावादिति भाव: । ननु तथाऽपि ब्रााहृणादिषु
पूज्यत्वादिसाम्यबुद्धौ अभोज्यान्नत्वादिदोष: झ्र्कथंटस्मृत:; तत्राह
।आत्मा त्विति ।।
05.19.19
इदानीम् (इह) समदर्शित्वं न कालान्तरभाविफलसाधनमात्रम्,
किंत्विदानीमेव निश्श्रेयसकल्पां क्लेशनिवृतिं्त दिशतीति समदर्शिनां
प्रशंसा क्रियत ।इहैवेति श्लोकेन । ।साधनानुष्ठानदशायामेवेति ।
।इहशब्दस्यात्र लोकपरत्वादपि स्वावस्थाविशेषपरत्वमेववोचितमितिभाव:।
।संसारो जित इति । मुक्तप्रायास्त इत्यर्थ: । सृष्टयदेरत्रानन्वयात्
।सर्गशब-द: सृज्यत इति व्युत्पत्त्याऽत्र संसारपर:।
ब्रााहृणचण्डालादीनां स्पृश्यतवादिसाम्यप्रसङ्गव्युदासाय
।उक्तरीत्येत्युक्तम् । "निरुपाधिकात्मस्वरूपंज्ञानैकाकारतया
।हि समं ब्राहृेति । ब्राहृत्वमेव विधेयम्; अन्यथा
"तसमात्ब्रााहृणि ते स्थिता:' इत् यनन्वयात् ।
समदर्शिनो ब्राहृणि स्थिता:, समस्य ब्राहृत्वात् इति
ह्रन्वय: स्यात्; ततश्चोक्तचोद्यपरिहार इत्यभिप्रायेणाह ।वस्त्विति ।
तत: किं प्रकृतस्येत्यत्राह ।ब्राहृणि स्थितिरिति ।
ब्राहृश्ब्दोऽत्र शुद्धात्मनि ब्राहृसाम्यात् अत्र फलितं
पिण्डितार्थमाह ।आत्मस्विति ।।
05.20.20
प्रियाप्रिये, तदधीनहर्षोद्वेगौ च देहतदवस्थाद्युपाधिभेदनिबन्धनाविति
व्यञ्जियितुं यादृशदेहस्थस्य यदवस्थस्येत्याद्युक्तम् ।
।यदवस्थस्येतत् देहादिकृतज्ञानसङ्कोचाद्य वस्थाविषयं वा ।
प्रियाप्रियरूपकारणागमे तत्कार्यहर्षोद्वेगनिवृत्तिर्दुश्शकेत्यभिप्रायेणाह
।कथमिति । तत्रोत्तरम् ।स्थिरबुद्धिरिति ।
समानाधिकरणसमासादप्युपयोगाति शयादत्र व्यधिकरणसमास
उपपन्न इत्य़भिप्रायेणाह ।स्थिरे आत्मनीति ।
।असंमूढ: इत्यत्र समित्युपसर्ग एकीकारपर:;
एवंविधस्थिरबुद्धित्वासंमूढत्वे द्वे अपि सङ्कलय्य ।तदिति
परामृश्यते । "ब्राहृविदब्राहृणि स्थित:' इति शब्दाभ्यां
सिद्धमवान्तरदशाविशेषं विशदयति ।उपदेशेनेत्यादिना ।
सन्नित्यनेनोपदेशजनितज्ञानमनूद्य विशिष्टं विज्ञानं विधीयत
इति सूचितम् । उक्तमेवार्थं
समदर्शितत्वरूपज्ञानविपाकाभिलाषिणामव्याकुलानुष्ठानपर्वक्रमप्रदर्शनार्थं
श्लोकस्थापदानां हेतुकार्यभावेन महावाक्यान्वयंझ्र्प्रदर्शय?ट दर्शयति
।एतदुक्तमिति । बाह्रकुदृष्टयुपदेशनिवृत्त्यर्थं ।तत्त्विदामित्युक्तम्
व ।भूत्वेत्येतदप्यनुवादत्वसूचनार्थम् ।।
05.21.21
एवं हर्षोद्वेगावकुर्वत: समदर्शित्वप्युक्तं निरतिशयसुखं
स्वयमापततीत्युज्यते ।बाह्रेति श्लोकेन । ।सुखं विन्दति
इत्यस्य ।सुखमक्षयमश्नुते इत्यतो भेदप्रदर्शनाय ।लभत इत्युक्तम् ।
अक्षयसुखप्रारम्भोऽयमिति भाव: । ।प्रकृत्यभ्यासं विहायेत्यर्थलब्धोक्ति: ।
।प्रकृत्यभ्यास: पुन: पुन: प्राकृतशब्दादिभोग्यचिन्ता ।
"विन्दत्यात्मनि यस्सुखम्' इत्युपदेशादिजन्यज्ञानमूलं सुखमुक्तम् ।
।सुखमक्षयमश्नुते इति तु साक्षात्कारानन्तरभावि नित्यं
सुखमुच्यते इति विशेषं दर्शयितुं ।बाह्रानुभवरूपमित्युक्तम् ।।
05.22.22
अनादिकालं बाह्रस्पर्शरसिकस्य तत्परित्याग:
कथमित्याकाङ्क्षायाम् आर्जुनरक्षणादिदोषदर्शनात् तत्तोपरम:
शक्य इति ।ये हि इत्यादिश्लोकेनोच्यत इत्यभिप्रायेणाह
।प्राकृतस्येति । संस्पर्शजा: इत्यनेनाभिप्रेतमौपाधिकत्वं
व्यञ्जयति ।विषयेन्द्रियसंस्पर्शजा इति । ।स्पर्शोऽत्र संबन्धमात्रम् ।
एतेन सुखस्वरूपस्य क्षुद्रत्वमुक्तम् ।
।दु:खयोनित्वं स्वध्यवसानमिति ।एवकाराभिप्राय: ।
न खलु हिरण्यगर्भभोगादिभ्यधिक: प्राकृतभोगोऽस्ति;
सोऽपि स्वमानेन शतसंवत्सरपरिमिततया मानुषादिसम इति
दर्शयितुम् ।अल्पाकालवर्तिन इत्युक्तम् ।
क्षणरुचिबुद्बुदादिष्विवावान्तरस्थितिकालवैषम्येऽप्याद्यन्तवत्त्वं-
त्वविशिष्टमिति भाव: ।
एवं ।संस्पर्शजा इत्यादिविशेषणत्रयेणाल्परत्वदु:खमिश्रत्वान्तत्त्वानि
दर्शितानि । प्रत्यक्षसिद्धेषु दोषेषु निपुणस्य किमुपदेशापेक्ष्येति
दर्शयितुम् 1।उपलभ्यन्त इत्युक्तम् । बुधशब्देनात्र 2.
पञ्.ञ्#ोपरमोपयुक्तविवेकज्ञानवत्त्वं विवक्षितमिति दर्शयितुम्
।तद्यायाथात्म्यविदित्युक्तम् । न तेषु रमते,किंतु क्रमादुपरमत
इति भाव: । सागरतरणराजसेवादिषु शरीरविनाशपर्यन्ता
।आर्जनदोषा: । सहरुाप्राकारपरिवृतगर्भगृहे निवेशितस्यापि
रक्ष्यवस्तुनो राज-दहन-चोर -मूषिकादयस्तन्निवारणक्लेशादयश्च
।रक्षण दोषा: । ""स्वर्गेऽपि पातभीतस्यापि क्षयिष्णोर्नास्ति
निर्वृति: (वि.6.5.50) इत्यादय: ।क्षयदोषा: । ""न जातु काम:
कामानामुपभोगेन शाम्यति । हविषा कृष्णवत्र्मेव भूय
एवाभिवर्धते ।। (वि.4.10.22) ,
""अलाभे मत्तकाशिन्या दृष्टा तिर्यक्षुकामिता
इत्यादिवदुत्तरोतरराग-प्रबला(न्धा)नर्थहेत्वयोग्यविषयप्रवृत्त्यादयो
।भोगदोषा: । सर्वस्य चास्य प्रायश: परहिंसागर्भत्वात् तदधीना
ऐहिकामुष्मिकदु:खसंततयौ ।हिंसादोषा: । ।पञ्चविधाश्चैते दोषा:
प्रत्यक्षादिसिद्धा इति तद्भावनावतां प्राकृतस्यानादिकालशीलितस्यापि
सुत्यजत्वं सिद्धमिति भाव: । उक्तं ।च तुष्टिप्रकरणै ।साङ्खयैरपि,
""बाह्रा विषयोपरमात् 3पञ्च (सां.का.50) इति ।।
05.23.23
एवं बाह्रस्पर्शेष्वसक्तस्याऽऽत्मनि सुखं विन्दत: प्राकृतभोगेषु
दोषदर्शिन: स्वरसवाहिनीं दशामनुवदन् तथाभूतस्याऽऽत्मसाक्षात्करे
तदधीनसुखे च योग्यतामाह
।शक्नोति इति ।
आशरीरपातात् कामक्रोधौ दुर्जयावित्य़भिप्रायेणाह
।शरीरविमोक्षणात्प्रागिति । आत्मसाक्षात्कारदशायां
कामक्रोधप्रसङ्गो न विद्यत इति तत्प्रसङ्गनिवारणसशाज्ञापनाय
।इहैव इत्यनेन साधनानुष्ठानदशोच्यते ।
विन्दत्यात्मनि यस्सुखम्' इति पूर्वोक्तहेतुं स्मारयति
।आत्मानुभवप्रीत्येति । ।वेगोऽत्र मनोवाक्कायानामतित्वरिता प्रवृत्ति: ।
तत्रानुचितविषयाभिध्ऽयान-नीचचाटु-नरपतिशुद्धान्तप्रवेशादय:
कामजा वेगा:। परहिंसा द्युपायचिन्तन-परुष भाषण-प्रहारादय:
क्रोधजा वेगा: । ।सोढुमित्यस्य तितिक्षार्थत्वव्युदासायोक्तम्
।निरोद्धुमिति । ।शक्नोति । शक्तस्सन्नुत्सहयत इत्यर्थ: ।
।युक्त शब्दोऽत्र समाधिलाभपर इत्याह ।आत्मानुभवायार्ह इति ।
"प्राक् शरीरवमोक्षणात्' इत्यस्य शरीरानन्तरमेव फलप्राप्तौ
तात्पर्यम्; अन्यथा तद्वचनस्य निष्फलत्वप्ट्ठरसङ्गादित्यभिप्रायेण
।स एव शरीरविमोक्षोत्तरकालमित्युक्तम् । "सुखमक्षयमश्नुते'
इत्याद्युक्तफलभूतभविष्यत्सुखयोगोऽत्रापि ।सु सुखी इति व्यपदि श्यत
इत्यभिप्रायेणाह ।आत्मानुभवैकसुखस्संपत्स्यत इति ।।
05.24.24
एवं परित्यक्तं प्राकृतभोग्यभोगोपकरणादिकं सर्वमात्मनि
तदेकरसिकत्वाय कल्पयन्, "विन्दत्यात्मनि यस्सुखम्(21)
इत्युक्तमुपायदशास्थं प्रपञ्चयति ।योऽन्तस्सुख: इति श्लोकेन ।
।अन्तश्शब्दाभिप्रायं पूर्वोक्तं चानुसन्धायोक्तम् ।यो बाह्रविषयानुयभवं
सर्वे विहायेति । ।अन्तश्शब्दोऽत्र बाह्रव्यतितिरेकात् आत्मपर: ।
आत्मैव आत्मैव आत्मन्येव वा सुखं यस्य ।सोऽन्तस्सुख: ।
तत्र फलोतोक्ति: ।आत्मानुभवैकसुख इति । अवधारणस्याविशेषेण
सर्वत्रान्वयाद।देकशब्द: । ।अन्तराराम: इत्यस्याभिप्रेतं वक्तुं
पदार्थं तावदाह ।आत्मैकोद्यान इति । आरामो हि भोगस्थानभूत:
छायापल्लवपुष्पफलादिभि: स्वगुणै: सुखवर्धक: ।
तद्वदत्रापि स्वगुणैरपहतपाप्मत्वज्ञानान्दादिभि:
स्वविषयवादकरण(संवादकरण)ग्रन्थकरणादिक्रीडोत्थापकैरातमैव
सुखवर्धक इत्या।रामशब्देनोपचर्यत इत्याह ।स्वगुणैरिति ।
एवं भोग्यं भोगस्थानं च आत्मैवेत्युक्तम्; अथ ।
भोगोपकरणादिमपि स एवेति
।अन्तज्र्योतिश्शब्देनोच्यत इत्यभिप्रायेणाह ।आत्मैकज्ञानो यो
वर्तत इति । अन्येषां हि भोग्यानां स्वरूपादुपकरणस्य
भिन्नत्वादुपकरणमपि हि तदर्थतया पृथक् ज्ञातव्यम्;
अतस्तेषु तदेकज्ञानत्वं नास्तीति भाव: ।
यद्वा प्रकाश(क)आन्तरनैरपेक्ष्यं बाह्रप्रकाशाभावमात्रं
वाऽत्र विवक्षितम् । पूर्वं शरीरात्माभिमानात् देवमनुष्यादिभूतोऽयम्;
इदानीं तु तन्निवृत्त्या यथावस्थितासंकुचितज्ञानादिस्वरूपेणावस्थित
इति ब्राहृभूतशब्दाभिप्राय: । ब्राहृैव निर्वाणमिति वा, ब्राहृणि
निर्वाणमिति वा, समासार्थमभिप्रयन् अत्र विवक्षितमाह
।आत्मानुभवसुखमिति । अत्र ।निर्वाणशब्दस्य परोक्त
शान्त्यर्थत्वं सुखप्रकरणानौचित्यान्मन्दमिति भाव: ।।
05.25.25
समदर्शित्वरूपज्ञानविपाकसिद्धयर्थंम् अनुष्ठानप्रकारो हि
।न प्रह्मष्येत्(20) इत्यादिनोच्यते । तत्र हर्षोद्वेगनिवृत्ति:,
बाह्रविषयनिस्सङ्गत्वम्, तदर्थदोषदर्शनम्, कामक्रोधवेहनिवारणम्,
आत्मन्येव सर्वविधभोग्यताकल्पनं च क्रमात् श्लोकपञ्चकेनोक्तम् ।
अथ प्रागुक्तद्वन्द्वसहत्वादिस्मारणपूर्वकं सर्वभूतहितेरतत्वं
नाम समदर्शित्वेऽत्यन्तान्तरङ्गं साधनमुपदिश्यते
।लभन्ते इति श्लोकेन । छिन्नद्वैधा: इत्यनेन
भेदस्वरूपनिषेधभ्रमव्युदासायाह ।शीतोष्णादिद्वन्द्वैर्विमुक्ता इति ।
।द्वैधशब्दस्यात्र संशयशब्दस्यात्र संशयाद्यर्थत्वं
चानुचितमिति भाव: । नियन्तव्येषु प्रधानं मन इह
।आत्मशब्देनोच्यते । नियमनं च
तस्योचितविषयावस्थापनमित्यभिप्रायेण आत्मन्येव
नियमितमनस इत्युक्तम् । ""श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।
आत्मन: प्रतिकूलानि परेषां न समाचरेत् इति
।पञ्चमवेदद्रष्टा परमर्षिणा निर्णीतोऽयमर्थं इति ज्ञापनाय
।आत्मवदिति दृष्टान्त:, ।हितेष्वेवेत्यवधारणं च ।
।सर्वशब्दोऽत्र दृष्टान्तभूतं स्वात्मानम्, आत्मान्तरं च
संह्णातीति भाव: । एवमवस्थितस्य
परिशुद्धान्योन्यसदृशात्मस्वरूपसाक्षात्कारवत्त्वमृषिशब्देन
विवक्षितमिति ज्ञापनायह।द्रष्टार इति । एवंविधसाक्षात्कारसिद्धौ
अनिष्टनिवृत्तिरिष्टप्राप्तिश्च ।क्षीणकल्मषा: ब्राहृनिर्वाणं लभन्ते
इत्युभाभ्यामुच्यत इत्याह ।य एवंभूता इति ।
"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते' (4.38) इति
ज्ञानस्य कल्मषनिवर्तकत्वं प्रागेवोक्तमिह स्मारितम् ।।
05.26.26
एवं षड्भि: श्लोकै:
समदर्शित्वसाधकमनुष्ठानप्राकारमुपदिश्यत
तत्र शीघ्रप्रवृत्तिसिद-धयर्थं फलस्याविलम्बित्वमनन्तरमुच्यत
इत्यभिप्रायेणाह ।उक्तलक्षणानामिति ।
कामक्रोधवियुक्ततोक्ति: "शक्नोति' (23) इति
श्लोकार्थानुवाद: । क्रोधनिवृत्त्यैव
सर्वभूतहितेरतत्वमित्यपि(ति) सूचितम् ।
।यतीनामित्यत्र रूढेरयुक्तत्वात् प्रकृतिप्रत्य़यार्थवैशद्याय
।यतनशीलानामित्युक्तम् ।
तेन "न प्रह्मष्येत्' (20) इति श्लोकद्वयार्थोऽनूदित: ।
।यतचेतसामित्येतत् आत्मन्येव सर्वाकारकल्पनानुवाद
इति दर्शयितुं ।नियम इतमनसामिति उक्तम् ।
।विजितात्मनामित्यनेन दोषप्रदर्शनेनान्त:करणावर्जनपरस्य
"ये हि' (22) इति श्लोकस्यार्थ: सूचित इति प्रदर्शनाय
।विजितमनसामित्युक्तम् । एवं पुनरुक्तिपरिहाराज्ञानात्
।विदितात्मनामिति परै: पठितम् । ।अभितो वर्तते
इत्यत्यन्त आसन्नकालत्वं विवक्षितमिति भाव: ।।
05.27-28
""ज्ञानकर्मात्मिके निष्ठे योगलक्ष्ये सुसंस्कृते ।
आत्मानुभूतिसिद्धयर्थे पूर्वषट्केन चोदिते ।। (सं.2) इति
।सग्रहमनुसंदधान उत्तरश्लोकानां सङ्गतिमाह ।उक्तं
कर्मयोगमिति ।
स्पर्शशब्दस्यात्रानुभवपरस्यानुभाव्यार्थज्ञापनाय
।विषयस्पर्शानिति उक्तम् । फलोतमाह ।बाह्रेन्द्रियव्यापारं
सर्वमुपसंह्मत्येति ।
"उपविश्याऽऽसने' (6.12) इत्यादिवक्ष्यमाणानुसन्धानेन
योगयोग्येत्यादि
उक्तम्। ।चक्षु: इत्येकवचनं करणाकारैक्यादिति दर्शयितुं
।चक्षुषी इत्युक्तम् । "संप्रेक्ष्य नासिकाग्रम्' (6.13)
इतिवक्ष्यमाणेन "नासाग्रन्यस्तलोचन:'
इत्यादिप्रकरणान्तरोक्त्या च ।भ्रुवोन्तरे
कृत्वाइत्यस्यैकाथ्र्यमाह ।नासाग्र इति ।
नासाभ्यन्नरसञ्चारमात्रस्य स्वत:सिद्धस्य विधेयत्वायोगात्
।समौ कृत्वा इत्येतदेव विधेयमिति
दर्शयितुं ।नासाभ्यन्तरचारिणौ प्राणापानावित्यनुवाद: ।
अपानस्य नासाभ्यन्तरसञ्चार व्यञ्जनाय
।उच्छवासनिझ्र्
शटश्वासावित् युक्तम् ।
एक एव हि वायुर्नासापुटेन निष्क्रामन् प्रविशंश्च प्राणोऽपान
इति चोच्यते । वृत्तिस्थानादिसाम्यायोगात्
गतिसाम्योक्ति: । न दीर्घमुच्छवसन्,
नापि निझ्र्शट श्वसन्नित्यर्थ: ।
साक्षात्कारात्यन्ताव्यवहितपूर्वावस्थाविषयत्वात्
।यतशब्दस्य ।प्रवृत्त्यनर्हेत्यर्थ उक्त: ।
स्पर्शान् कृत्वा बहिब्रााह्रान्' इत्यत्र प्रवृत्तिनिरवारणम्;
"यतेन्द्रय:' इत्यादौ तु तत्फलभूता
प्रवृत्त्यनर्हतेत्यपुनरुक्तिरिति भाव:। ज्ञानार्थधातौ निष्पन्नस्य
मुनिशबदस्य योगावस्थायाम् आत्मसाक्षात्कारूपज्ञानविशेषे
तात्पर्यमाह ।आत्मावलोकनशील इति ।
अत्र वाचंयमत्वादप्यन्तरङ्गभूतोऽयमित्यर्थ इति भाव: ।
।सदाशब्दाभिप्रेतं व्यनक्ति ।साध्यदशायामिवेति ।
।मुक्त एव । मुक्तप्राय इत्यर्थ: ।।
05.29.29
अध्यायारम्भसे, ""संन्यासं कर्मणां कृष्ण (1)
इत्यादिना वैषम्ये पृष्टे ज्ञानयोगस्य दुष्करत्वादिकम्,
कर्मयोगस्य सौकर्यम् शैघ्रयं चोक्तम् ।
ततश्च सेतिकर्तव्यताकसशिरस्ककर्मयोगो विशदीकृत:
अथात्रोपसंहारेऽपि प्राक्प्रश्नोत्तरतया
प्राकान्तसौकर्यादिकमेव प्राकारान्तरेण स्थिरीक्रियत
इत्यभिप्रायेणाह ।उक्तस्येति ।
अत्र ।कर्मयोगशब्देन दैवमेव (4.24)
इत्याद्युक्तप्रातिस्विकप्रधानांशो गृहीत:;
।नित्यनैमित्तिककर्मेतिकर्तव्यताकस्येत्यनेन
सर्वकर्मयोगभेदनिष्ठानां ज्ञानयोगभक्तियोगनिष्ठानां
चावर्जनीय: साधारणांश: । ।सुशकत्वम् अनिर्वेदेन
प्रवृत्तिविषयत्वम् । ।शान्तिशब्दोऽत्र
न भगवत्प्राप्तिरूपमोक्षपर:;
जीवोपासनप्रकरणत्वात् । नापि कर्मयोगसाध्यफलपर:,
ततोऽप्युक्तस्य प्रसिद्धिस्वारस्यानुरोधिन:
कर्माङ्गोपश(ङ्गापग)मस्य वक्तुमुचितत्वात्;
ज्ञात्वा इत्यत्रानुष्ठायेत्यध्याहारसापेक्षत्वगप्रसङ्गात् ।
अत: "सुखं बन्धात्प्रमुच्यते'(5.3) इत्यादिनोक्तं
मन:क्लेशशान्त्यादिरूपं
सुखमत्र शान्तिशब्देन विवक्षितमित्यभिपायेणाह
।कर्मयोगकरण एव सुखमृच्छतीति ।
भगवत्समानाधिकरणतया सर्वलोकप्रतिसंबन्धिकतया
च महेश्वरशब्दस्यात्र न रूढिविशेषेण प्रवृत्तिरित्याह
।सर्वेषां लोकेश्वराणामपीति । सर्वेषां लोकानां
महान्तमीश्वरमित्येव तु समासार्थ: ।
तत्र प्रमाणमाह ।तमीश्वराणामिति ।
श्रुतावपि महेश्वरशब्द: सप्रतिसंबन्धिकत्वात्
परमत्वविशेषणाच्च न रूढ:; तद्वदत्रापि ।
सर्वशब्दासङ्कोचान्महत्त्वविशेषणाच्च रुद्रादि:
लोकेश्वरान-तरव्यवच्छेद उक्त: ।
सर्वेश्वरेश्वर: कृष्ण:'(वि.ध74.44) इति हि स्मर्यते ।
कर्मयोगस्य अनुष्ठानदशायामेव कथं सुखमिति शङ्कां
विशेषणत्रयेण व्युदस्यति ।मामित्यादिना ।
महोदारसार्वभौमप्रियसखसेवायामिव
कर्मयोगे सुखबुद्धयैव प्रवर्तत इति भाव: ।
।मदाराधनरूप: कर्मयोग इत्यनेन ।भोक्तारं यज्ञतपसाम्
इत्यस्यार्थो विवृत: । यज्ञास्तपांसि
च कर्मयोगवर्गोपलक्षणमिति भाव:। सौहार्दस्य
प्रयोजनान्तरनिरपेक्षसमाराधनहेतुत्वे लोकदृष्टान्तमाह
।सुह्मद इति । ।सर्व इति । न केवलं शास्त्रनिष्ठा:,
तु पामरा:, तिर्यञ्चोऽपि केचित् स्वेषु सौहार्दवन्तं
पुरुषंझ्र्हि
टइङ्गिताकारैरुपलक्ष्य तावन्मात्रेण
संप्रीतास्तदनुवर्तनमतिप्रयत्नेन कुर्वन्तीत्यर्थ: ।
पुरुषान्तरवत् ऐश्वर्यमदगर्वमूलदौर्मुख्यादिवर्जनं
चास्य सुह्मत्त्वेन लभ्यते ।।
प्र्प्र्।इति श्रीमद्गीताभाष्यगीकायां तात्पर्यचन्द्रिकायां पञ्चमोऽध्याय: ।।
श्रीमद्गीताभाष्टीकायां तात्पर्यचन्द्रिकायां षष्ठोऽध्याय: