सामग्री पर जाएँ

गीताभाष्यतात्पर्यचन्द्रिका/अध्यायः ४

विकिस्रोतः तः
← अध्यायः ३ गीताभाष्यतात्पर्यचन्द्रिका
अध्यायः ४
[[लेखकः :|]]
अध्यायः ५ →

4.1

अथ चुतुर्थसंगतिं वक्तुं तृतीयाध्यार्थं संग्रहणोद्गृह्णाति

।तृतीयोऽध्याय इति । ।सहेतुकमिति । ज्ञानयोगकर्मयोगयो:

सप्रमादत्वनिष्प्रमादत्वादिहेतुपूर्वकमित्यर्थ:। एतेन ""असक्त्या

लोकरक्षायै गुणेष्वारोप्य कर्तृताम् । सर्वेश्वरे वा न्यस्योक्तातृतीये

कर्मकार्यता(7) इति ।संग्रहयश्लोकोऽपि व्याख्यात: । अशक्तस्य,

शक्तत्वेऽप्यप्रसिद्धस्य च स्वार्थनिपुणस्य कर्मयोगे एव कार्य:;

प्रसिद्धस्य त्वशक्तस्य, शक्तस्य वा स्वार्थै लोकरक्षणार्थं

च स एव कार्य इति तृतीयाध्यायेनाधिकारिचिन्तनम्, कर्मयोगस्य

ज्ञानयोगाद्वैषन्यचिन्तनं च कृतमिति भाव: । अथाधिकर्वत्वयतयोक्तस्य

कर्मयोगस्य प्रामाणिकत्वं ज्ञानमिश्रत्वं स्वरूपं तद्वैविध्यं

ज्ञानांशप्राधान्यं प्रासङ्गिको भगवदवतार इति षडर्था इहोच्यन्त इत्याह

।चतुर्थेनेति । ननु ""प्रसङ्गात् स्वस्वभावोक्ति: कर्मणोलऽकर्मताऽस्य

च । भेदा: ज्ञानस्य माहात्म्यं चतुर्थेनेति । ननु ""प्रसङ्गात्

चत्वारोऽर्था: संगृहीता:; तत् कथमत्र षडर्थानुकीर्तनम् । उच्यते ।

"प्रसङ्गात्स्वस्वभावोक्ति:' इत्यत्र ।प्रसङ्ग: प्रमाणिकत्वप्रसङ्ग:, "।अस्य

च भेदा:' इत्यत्र स्वरूपमन्तरेण तद्भेदस्य दुज्र्ञानत्वात् स्वरूपमपि

विवक्षितम्; चकारेण वा तत्समुच्चय इति ।संग्रहेऽपि षडर्था एव

विवक्षिता: । ।स्वस्वभावोक्ति:-स्वस्य अकर्मवश्यावतारत्वादिस्वभावोक्ति:

। ।कर्मणौऽकर्मता कर्मयोगस्यान्तर्गतज्ञानतया ज्ञानयोगाकारता;

।ज्ञानस्य माहात्म्यं कर्मयोगान्तर्गतज्ञानांशस्य प्राधान्यं;

एवं चतुर्थेनेत्यादिभाष्येणायामपि श्लोके व्याख्यात: । कर्तव्यता

हि तृतीयाध्याये प्रोक्ता; अतस्तद्दाढ्र¬मात्रमत्र पुरावृत्ताख्यानेन

क्रियते इति ।कर्तव्यतां द्रढयित्वेत्यस्य भाव: । साक्षादध्यायार्थानां

सङ्गतिं प्रदर्शय प्रासङ्गिकं पृथगाह ।प्रसङ्गाच्चेति। ।इममिति

निर्देशपूर्वकमुपदेशपरम्पराकथनस्य तात्पर्यमाह ।योऽप्यमित्यादिना

।न मन्तव्यमित्यन्तेन । ।योगोऽत्र कर्मयोग: । अत्र ज्ञानयोगपरत्वेन

परव्याख्यानं प्रकृतसंगतं (4-15) ।कुरु कर्मेत्यादिवक्ष्यमाणविरुद्धं

चेति भाव: । मनोरपि जनयित्रे तदुपदेष्टे च विवस्वते च

प्रोंक्तत्वादर्जुनेन च ।आदावित्यनुबक्ष्यमाणविरुद्धं चेति भाव:।

मनोरपि जनयित्रे तदुपदेष्ट्रे च विवस्वते प्रोक्तत्वादर्जुनेन

च ।आदावित्यनुवदिष्यमाणत्वात् फलितमुक्तं ।मन्वन्तरादाविति ।

निखिलजगदुद्धरणायेति । न केवलं युद्धप्रोत्साहनार्थमर्जुनमात्रार्थं

वा, किंतु समस्ताधिकारिवर्गापवर्गदानायेत्यर्थ: । मन्वन्तरादावुपदेशात्

तस्य निखिलजगत्साधारण्यं सूचितम् । नित्यसर्वज्ञ भगवति

स्थितत्वादव्य़त्वम् व ।अथवा ।अव्ययत्वमिह फलद्वारा । ।इममिति

निर्देशश्च पूर्वोक्तमोक्षसाधनत्वमप्यभिप्रैतीति ज्ञापनाय

।परमेत्याद्युक्तम् । प्रागपि न फलान्तरार्थ मुक्तमिति भाव: । ।अहं

प्रोक्तवानित्यनेन मन्वन्तरादौ, महाकल्पान्तरम्भे,भारतसमारम्भे

वा मदन्य: कश्चिदस्य यथावत् ज्ञाता वक्ता च दुर्लभ

इत्यभिप्रेतम्।प्रसङ्गादवश्यं ज्ञातव्यं स्वावतारयाथात्म्यं वक्तुं

स्वस्य मन्वादिकालविरोधरूपशङ्कोत्थापनं च कृतमिति व्यञ्जनाय

।अहमेवेत्युक्तम् । ।विवस्वते प्रोक्तवानिति । न ह्रमसुरादिभ्यो मयोपदिष्टो

बुद्धाद्यागमार्थ:, किंतु सर्ववेदा(देवा)त्मने विवस्वत इति भाव: व

।विवस्वांश्च मनवे,ल मनुरिक्ष्वाकव इति ""यद्वै किंच मनुरवदत्

तद्भेषजम् (यजु.2.210.54)इति सकलजगद्भेषजभूतवचनतया

प्रसिद्धमर्यादाप्रवर्तनविशदाधिकृतकोटिनिविष्टपित्रादिक्रमेण

ह्रुपदेशपरंपरा प्राप्ता, न तु

संभवद्विप्रलम्भकुगकपाषाण्डयादिसंसर्गप्रवृत्तेति भाव: । एतत् सर्वम्

।एवं संप्रदायपरमपरयेत्यनेन व्यक्तम् ।

परंपराशब्देनेक्ष्वाकोरर्वाचीनानामपि ग्रहाणात् कृतादियुगे

संप्रदायाविच्छेदो विवक्षित इति चाभिप्राय: । इदानीं नाशस्याभिधानात्

अत्र ।पूर्वे राजर्षय इत्युक्तम् । ।राजर्षयोऽविदु: । राजानो हि

विस्तीर्णागाधामनस:, तत्रापि ऋषित्वादतीन्द्रियार्थदर्शनक्षमा:;

ते च बहव:; ते चाश्वपतिजनकाम्बरीषप्रभृतय:

सर्वेऽप्यविगानेनेमं कर्मयोगमनष्ठितवन्त इति भाव:

। कालदैव्र्यस्य विच्छेदहेतुत्वप्रकारमिह।शब्दसूचितमाह

।तत्तच्छ्रोतृबुद्धिमान्द्याति । इह विचित्राधिकारिपूर्णे

जगति कृतत्रेतादिषु युगेषु कालक्रमेण

बुद्धिशक्त्यनुष्ठानादयोऽपचीयमाना दृष्ट:, श्रुताश्चेति भाव: ।

।नष्ट इत्यत्रात्यन्तविच्छेदो नाभिमत:, व्यासभीष्माक्रूरादेरिदानीमपि

विद्यमानत्वादित्यभिप्रायेणोक्तं ।विनष्टप्रायोऽभूदिति । स

एवासयमिति सप्रत्यभिज्ञसावधारणनिर्देशफलितमुक्तम् ।

।अस्खलित स्वरूप इति । ।पुरातन:, अद्येति निर्देशाभ्यां

कालभेदमात्रेणापि न स्वरूपे वा प्रकारे वा भेद इति

सूचितम् । भक्तोऽसि । शास्त्रदृष्टमहत्त्वानुसंधानेन

प्रीतिमानसीत्यर्थ:; ।सखा चासि अवतारदृष्टसौलभ्यविशेषण

प्रणयविरुाम्भवानसीत्यर्थ: । ।ते, भयेति शब्दावपि "शाधि

मां त्वां प्रपन्नम्' ।प्रपन्नाय ते मया प्रोक्त इति । प्रोक्त

इत्यत्र सोपसर्गाधात्वर्थं विवृणोति ।सपरिकरस्विस्तरमिति

परिकरोऽङ्गम्; शब्दस्य प्रपञ्चो ।विस्तर:; अङ्गोक्तिरप्यत्र

सविस्तरेति भाव: । "अहं प्रोक्तवान्', "मयाऽद्य प्रोक्त:' इत्याभ्यां

सूचितमाह ।मदन्येनेति । प्रलयेन वा, युगादिस्वभावेन वा

संप्रदायविच्छेदे सति पुनरहमेव संप्रदायप्रवर्तकस्स्याम्;

करणायत्तज्ञानेन मदन्येन हिरण्यगर्भादिनाऽपि

मदुपदेशमन्तरेण ज्ञातुं वक्तुं चाशक्यमित्यर्थ:

। ।सख्य-भक्ति-प्रपत्त्यादिगुणपौष्कलयुक्तायोपदेश्यत्वे

भगवद्व्यतिरिक्तेन ज्ञातुं वक्तुं चाशक्यत्वे हेतुपरं

।रहस्यमित्यादीति दर्शयति ।यत इति । ।हिशब्दोऽत्र हेतुपर:;

रहस्यत्वात् योग्यायोपदेश्यम्; ।उत्तमरहस्यत्वात् मदन्येन

ज्ञातुं वक्तुं चाशक्यमिति विभाग: । उत्तरमरहस्यत्वे हेतु:

।वेदान्तोदितमिति । नपुंसकनिर्देशयोग्यं विशेष्यमुक्तं ।ज्ञानमिति

।। 1 ।। 2 ।।3 ।।

पत्वात् । अत: ।परावरशब्दौ

कालसङ्खयौत्कर्षापकर्षविषयावित्यभिप्रायेणोक्तम्

।कालसङ्खययेति । अवतरत्वहेतुतया विवक्षितं कालावधिं

दर्शयति ।अस्मदिति । ।समकालमिति अदूरविप्रकृष्टमित्यर्थ:

। ।त्वं शब्द: इदानीन्तनत्वाभिप्रायतया विरोधपर इति

द्योतनाय ।त्वमेवेत्युक्तम् । कथमेतदित्याक्षेपसूचितमुक्तम्

।असंभावनीयमिति । ।विजानीयामित्यत्रोपसर्गविवक्षितमाह

।यथार्थमिति । जन्मान्तरस्यैवाभावात्द्वा, जन्मान्तरानुभूतस्य

स्मृत्य़ोगाद्वा, वक्तुर्जन्मान्तरस्मृतिमत्तया श्रोतुरविदितत्वाद्वा

खल्वेतज्जन्मावलम्बनेन विरोधचोद्यम्; न चैतदखिलमत्र संभवतीति

प्रश्नमाक्षिपति ।नन्विति । ।जन्मान्तरेणापि वक्तुं शक्यमिति । न हि

तदानीन्तनेन जन्मना तदानीन्तनायोपदेशो विरुद्ध इत्यर्थ: । ।
महतामिति

। न केवलमीश्वरस्य कृष्णस्य, अन्येषामपि महतामिति भाव: । श्रूयन्ते

हि जातिस्मरझ्र्णटवृत्तान्ता: । "जातिं स्मरति पौर्विकीम् इति च ।मनु:

(4.148) । ।युज्यत इति । अनुभवने संस्कारे प्रागेव निष्पन्ने तस्य

च अदृष्टविशेषादिवशशादुद्बोधे जन्मान्तरानुभूतस्मृतौ न काचिदयुक्ति:,

यथा प्रथमस्तन्यपाने स्तन्यस्य पिपासाशान्तिहेतुत्वस्मृताविति भाव: ।

महतामन्येषां स्मृति:; ईश्वरस्य तु प्राचीनवृत्तान्तगोचर:साक्षात्कार:

स्मृतिरित्युपचर्यते । ।कश्चिदिति कालविप्रकर्षरूपो वा कारणाभावादिरूपो

वेत्यर्थ: । ।असाविति । वृद्धोपसेवादिभि: श्रुतादिबहुलोऽर्जुन: ।

।वक्तारमिति । "विवस्वते प्रोक्तवानहम्' इति स्वस्मै वक्तारम्,यद्वा

विवस्वते वक्तारमित्यर्थ: । ।एनं असुदेवतनयमिति ।

मानुषव्यापरजन्मभ्यां तिरोहितेश्वरभावमपीत्यभिप्राय:

। ।सर्वेश्वरमिति । विवस्दादीनामपीश्वरमिति भाव: ।

यद्वा गोवर्धनोद्धरणाद्यतिमानुषवृत्तान्तैरवतारदशायामेव

चतुर्भुजत्वादिना च व्यञ्जितेश्वरत्वमिति भाव: । उक्तज्ञानसद्भावं

कार्येण व्यवहारेण, कारणेनोपदेशेन च स्थापयति ।यत एवमिति

। ।एवम् अनेकाप्तमोपदेशादिभिरीश्वरत्वनिष्कर्षपूर्वकमित्यर्थ: ।

अर्जुनस्य स्ववाक्येन स्वोक्तमहर्षिङगणोपदेशेन च ज्ञानानुमानमुक्तम्;

भारतकथावगतेन बन्धूपदेशेन च स्थापयति ।यत एवमिति ।

।एवम् अनेकाप्ततमोपदेशादिभिरीश्वरत्वनिष्कर्षपूर्वकमित्यर्थ: ।

अर्जुनस्य स्ववाक्येन स्वोक्तमहर्षिगणोपदेशन च ज्ञानानुमानमुक्तम्;

भारतकथावगतेन बन्धूपदेशेन च ज्ञानवत्तमाह ।युधिष्ठिरेति

। बहुष्वपि वृत्तान्तेष्वाप्ततमेभ्यो बहुभ्यो बहुधा श्रुतमित्यर्थ:

। ।कृष्ण एवेति । स्थितिहेतुत्वेन प्रसिद्ध: स एवोत्पत्त्यादेरपो

हेतु:, न तु ब्राम्हरुद्रादि: प्रधानादिर्वा । यद्वा लौकिकै: पुरुषै:

वसुदेवतनयतया प्रतीयमान: कृष्ण एवेत्यर्थ: ।।हिशब्द:,

"एको ह वै नारायण आसीत्' (महो.1.1) इत्यादिश्रुतिप्रसिदिं्ध

दर्शयति । ।लोकानामिति । "लोकस्तु भुवने जने' (नाम.3.ना.157) ।

तत्रान्यतरविवक्षायामितरदार्थम्;।उत्पत्त्यप्य़यशब्दावत्रोत्पादकनाशकपरौ

। चकार: प्रसिद्धिप्रकर्षादनुक्तं स्थितिहेतुत्वादिकं समुच्चिनोति ।

एवं "यतो वा इमानि भूतानि' (भृ.1) इत्यादिना ब्राहृलक्षणतयोक्तं

सर्वकारणत्वमुक्तम् । अत एव हि "परं ब्राहृ' (10-12)

इत्यर्जुनोक्ति: । ।कृष्णस्य हीत्यत्र हिशब्देन "पतिं विश्वस्य'

(ना.10.1), "करणाधिपाधिप:' (श्वे.6.9) इत्यादिप्रसिद्धि: सूच्यते

। ।कृते इत्यस्य अनेकार्थसाधारणत्वात् तादथ्र्यपरत्वव्यञ्जनायाह

।कृष्णस्य शेषभृतमिति । अत्र च्विप्रत्ययाभावात् स्वाभाविकत्वं सूचितम्;

""दासभूतास्स्वतस्सर्वे ।(ई-सं-मन्त्राजपदस्तोत्रे) इत्यादिवत् ।

।कृष्णस्य कृते भूतमिति । कृष्णार्थमुत्पन्नं सत्तायोगि चेत्यर्थ: ।

"जन्माद्यस्य यत:,'(ब्रा.1.1.2) "इमानि भूतानि' (भृ.1) इत्यादिवदत्रापि

।इदंशब्दस्तत्तत्प्रमाणसिद्धिविचित्रचेतनाचेतनसमुदायपर:;

पूर्वार्धौक्तसृज्यत्वसंहार्यत्वादिप्रकारानुवादपरो वा । तेन

तदधीनोत्पत्त्यादिमत्त्वात् तादथ्र्ये हेतुरुक्तो भवति; "कस्योदरे'

।(स्तो.रो.14) इत्यादिवत् । अथ चोद्यवादिनोक्तमभ्युयपमेन प्रतिवक्ति

।जानात्येवेति । अवधारणेन, नास्मिन्नंशे विवाद इति सूचितम् ।

।अयमिति निर्देश: पूर्ववत् श्रुतार्थत्वं सूचयति । वसुदेवसूनुं

भगवानिति जानातीत्यर्थ: । नामपरो गुणपरो वाऽत् ।भगवच्छब्द:

। ।वसुदेवसूनुपार्थशब्दाभ्यां मातुलसुतत्वपैतृष्वसेयत्वसूचनेन

इतरपुरुषवत् ईश्वरत्वादितिरोधायकप्राकृतसंबन्धे सत्यपि

सुकृतवशादुपदेशवशाच्च जानातीत्यभिप्रेतम् । तर्हि प्रश्नो

निरवकाश इत्यत्राह ।
जानतोऽपीति । नात्यन्ताज्ञातमनेन पृच्छूयते

ज्ञातमेव विशेषान्तरजिज्ञासया परिपृष्टमिति भाव
। ।अजानत


इवेत्यनेन विनयगर्भपरिप्रश्नप्रकारश्च सूचित: । अज्ञातांशबुभुत्सां

जन्मादेर्मिथ्यात्वादिशङ्कां च जनयन्तो भगवति ज्ञातंशविशेषा उपादीयन्ते

।निखिलेत्यादिष्षष्ठयन्तपदै: । ।निखिलहेयप्रत्यनीकेति । य: परगतमपि

जन्मजरादिहेयं निवर्तयति, स कथं स्वयं तदेवोपाददीतेति भाव:

। ।कल्याणैकतानस्येति । स्वरूपानन्दृतृप्तस्य किं जन्मनेति भाव:

। ।सर्वेश्वरस्येति । यदि कश्चित् स्वच्छन्दोऽस्यनियन्ता स्यात्, तदा

जन्मादि घटेत; न च सोऽस्तीत्याशय: । सर्वज्ञस्येति । यद्यसौ स्वस्य

हितमहितं च न जानाति, तदा हि स्वेच्छयैव बालादीनामग्नयादिस्पर्शवत्

जन्मादिपरिग्रह: स्यादित्यभिप्राय: । ।सत्यसङ्कल्पस्येति ।

हिताहितज्ञाने सत्यपि कश्चित् शुष्के पतिष्यामीति कर्दमे पतति;

न चासौ तथेति ह्मदयम् । यद्वा लोकरक्षणाद्यर्थमेवावतार

इति हि परमोत्तरं स्यात्; तदप्य़युक्तम; सङ्कल्पमात्रेण

रक्षणाद्युपपत्तेरिति भाव: ।अवाप्तसमस्तकामस्येति । यदि साध्यं

किंचित् प्रयोजनं स्यात्, अकर्मवश्यत्वात् मुक्तात्मवत् इत्यन्वयेन, यो

जन्मकरणभूतेश्वरादिनियोगावीषयत्वादिति द्वितीयम् । द्वयोरप्यनुमानयो:,

यो यत्कारणरहित:,न स तत्कायवान्, यथा संप्रतिपन्न इति

सामान्यतो वा व्याप्ति: । सर्वेश्वरत्वादियत्युक्ते तु न दृष्टान्त: ।

केवलव्येतिरेकिविवक्षा तु देहपरिग्रहरहितघटादिसपक्षसद्भावात् केवल

व्यतिरेकिप्रामाण्यस्य च सामान्यतो 1।यामुनाचार्यादिणभिर्निरस्तत्वादयुक्ता

। एवं देहपरिग्रहाद्यभावे संकुचितज्ञानशून्यत्वात्,

प्रतिहतसङ्कल्परहितत्वात्, अपूर्णकामत्वरहितत्वात्,

साध्यप्रयोजनरहितत्वादिति मुक्तात्मघटादिदृष्टान्तेन

हेतव: । यद्वा परमसाम्यापन्नान् मुक्तानेव दृष्टान्तीकृत्य

सर्वज्ञत्वात् सत्यसंकल्पत्वादवाप्तसमस्तकामत्वादित्येव

हेतव: । एवं यदि जन्मादय: स्यु:, तदा

कर्मवश्यत्वमनीश्वरत्वमसर्वज्ञत्वमसत्यसंकल्पत्वमपूर्णकामत्वं

च क्षेत्रज्ञवत् स्यादिति प्रसङ्गाश्च विवक्षिता: ।

।निखिलहेयेत्याद्युक्तोभयलिङ्गत्वे च हेतव: ।सर्वेश्वरत्वादय:

। पूर्वोक्ताकारविरोधितया मिथ्यात्वशङ्काहेतु: सामान्यतोविदितो

जन्मप्रकार उच्यते ।कर्मपरवशदेवमनुष्यादिसजातीयमिति ।

।कर्मपरवशा देवमनुष्यादय: । तेषां ।सजातीयं तज्जन्मसमानतया

प्रतीयमानमित्यर्थ: । यद्वा ।जन्मशब्दऽत्र जायमानविग्रहपर:

। ईश्वरेण परिगृह्रमाणत्वात् इन्द्रजालादिवदित्युक्तम् । स्वेच्छया

परेषां विचित्रभ्रमजननं हीन्द्रजालम्; तेनात्र तत्प्रतिभातलक्षणा ।

।आदिशब्देन शैलूषभूमिकापरिग्रहादि गृह्रते । मिथ्यात्वपक्षे न तत्र

कश्चित् प्रकारो निरूपणीय इति कृत्वा सत्यत्वपक्षे शङ्कते ।सत्यत्व

इति । ।कथमिति । किं पारमेश्वरस्वभावपरित्यागेन,अन्यथा वेत्यर्थ:

व ।किमात्मक इति । किं त्रिगुणात्मक:, उताप्राकृत इत्यर्थ: । ।अयमिति ।

भूतसङ्घसंस्थानवत्प्रतीयमान इति भाव: । ।देह इति । उपचयरूपपतया

ह्रुपलभ्यत इति भाव: । ।कश्च जन्महेतुरिति । किं सङ्कल्पमात्रम्,

उतेश्वरस्यापि स्वेच्छापरिगृहीते पुण्यपापे इत्यर्थ: । ।कदा चेति । किं

पुण्यपापविपाककाले, उत धर्मग्लान्यादिकाल इत्यर्थ: व ।किमर्थं चेति ।

किं सुखदु:खोपभोगार्थम्, उत साधुपरित्राणाद्यर्थमित्यर्थ: । ।इत्ययमाशय

इत्यन्वय: । ननु ।अवरमिति श्लोके व्याघातमात्रमेव चोद्यते; तत्र बहुषु

प्रश्नेष्वाशय इति कुतोऽवगतमित्यत्राह ।परिहारेति । अयमभिप्राय:

-न ह्रन्यस्य प्रश्ने तदन्यविषयतया प्रतिवचनमुपपद्यते;

तथा सति प्रतिवक्तुरनभिप्रायज्ञतादिप्रसङ्गात् । अतो यावद्विषयं

प्रतिवचनम्, तावद्विषय एवायं प्रश्न इत्यभ्युपगन्तव्यम् । अत्र च

प्रतिवचने चतुर्भि: श्लोकै: जन्मसत्यत्वं, जन्मप्रकार:, देहयाथात्म्यं,

जन्मनोहेतुकालप्रयोजनानि च क्रमात् प्रतिपाद्यानि प्रतीयन्ते; अतस्तान्येव

प्रष्टव्यतयाऽभिप्रेतानीति ।। 4।।

एषूत्तरं क्रमाद्भगवानुवाच ।बहूनीत्यादिभी: । न हि

पूर्वजन्मनामेकत्वहबहुत्वे पृष्टे, न च तज्ज्ञानाज्ञाने

इति शङ्कायामाह ।अनेनेति । कथं जन्मन: सत्यत्वमुक्तम्;

बहुत्वातीतस्वतजज्ञानादिर्हि वाचनिकतया प्रतीयत

इत्यात्राह ।बहूनीति । अयमभिप्राय:-इदानीन्तनस्त्वं

तदानीन्तनाय कथमुक्तवानिति प्रश्ने, जन्मान्तरणाहमुक्तत्वात्,

तच्चेदानीमनुसन्धाय वदामीति साक्षात्दुत्तरमुच्येत । तस्य

च प्रश्नस्यान्यपरत्वस्य पूर्वं सहेतुकमुक्तत्वात्, अवश्यं

प्रष्टव्येष्वर्थेषु यत्परवमत्र व्याकर्तुं शक्यं, तत्पराण्येव

।बहूनीत्यादि विशेषणानि 2.; सत्यत्वे हि बहुत्वातीत्वादीनि स्वरसानि ।

।जन्मानीति चोक्तम्; न जन्मप्रतिभासा इति । ।तव चेत्यपृष्टस्यार्थस्य

उपादानमपि एतत्सत्यत्वदृष्टान्ताभिप्रायमन्तरेण न घटते ।

न चार्जुनस्य जन्मप्रतिभासा इति व ।तव चेत्यपृष्टस्यार्थस्य

उपादानमपि एतत्सत्यत्वदृष्टान्ताभिप्रायमन्तरेण न घटते । न

चार्जुनस्य जन्ममिथ्या, तस्य वा तथात्वप्रतिभास: । तत्संभवे वा

कृष्णजन्मनि कुतोऽस्य संशय इति ।। 5 ।।

अथ प्रकारादिप्रश्नत्रयोत्तरमनन्तरश्लोक इत्याह ।अवतारेति ।

अजाव्य़यशब्दाभ्यां ।प्रकृतिपुरुषयोरिव स्वरूपतो धर्मतश्च विकारा न

सन्तीत्युच्यते व ।अजाव्य़यशब्दौ कर्मकृतजन्ममरणनिवृत्तिपरौवा;

तेन हेयप्रत्यनीकत्वमुक्तं भवति । ।भूतानामीश्वरोऽपीति

कल्याणगुणाकरत्वाप्रच्युतिरुपलक्ष्यते । यद्वा ।अजशब्देन

स्वरूपत: शरीरद्वारा च जन्मयुक्ताचित्क्षेत्रज्ञाभ्यां व्यावर्तनम् ।

।अव्य़यात्मेत्यात्मशब्दस्य स्भावपरतया नञोऽत्यन्ताभावपरतया

च,कदाचिज्ज्ञानसङ्कोचादिमतो मुक्तात् व्यावृत्ति: । ।ईश्वरशब्देन

नित्यासङ्कुचितज्ञानेभ्यो नित्येभ्यो व्यवच्छेद: । ।अव्ययात्मेत्यत्रापि

पूर्वोत्तरवत् ।अपि सन्नित्यनुषञ्जनीयम् । अत्र च पूर्वार्धेन

तृतीयचतुर्थपादाभ्यां च प्रश्नत्रयस्य क्रमात् परिहार: ।

आदिशब्देनेश्वरत्वोपक्षितसर्वज्ञत्वसत्यसङ्कल्पत-वावाप्तसमस्तकामत्वादीनि

गृह्रन्ते । सर्वमिति । न कस्यचिदपि स्वभावलेशस्य हानिरिति भाव:

। परमेश्वरसंबन्धि ।पारमेश्वरं परमेश्वरत्वप्रयुक्तमित्यर्थ:

। ।अपि सन्नित्यस्य वर्तमाननिर्देशस्य तात्पर्यमाह ।अजहदेवेति ।

एतेन तत्तदवतारेषु तासुतास्ववस्थासु च पारमेट्ठश्वरस्भावस्य सत

एव स्वेच्छया तिरोधानमात्रमिति सूचितम् । तथा चाहु:, ""गुणैष्षड्भि:

इत्युपक्रम्य, ""भवान् सर्वत्रैव त्वगणितमहामङ्गलगुण: (व.स्त.16)

इति । अवतारेषु हि परमेश्वरत्वं व्यपदिश्यते । ""ईशन्नपि महायोगी

(भा.उ.67.18), ""कृष्णएव हि लोकानाम् (भा.स.38.23) ""व्यक्तमेष

महायोगी परमात्मा (रा.यु.114.14) इत्यादिभि: । नात्र ।प्रकृतिशब्देन

""प्रकृतिं स्वामवष्टभ्य विसृजामि (गी.9.8) इत्यादिष्विव त्रिगुणा

प्रकृतिरुच्यते, अवतारे(ष्व)पि तद्विग्रहस्य त्रिगुणोपादानकत्वाभावात् ।

तथा चोक्तम्, ""न भूतसङ्घसंस्थानो देहोऽस्य परमात्मन: (भा.),

""न तस्य प्राकृता मूर्तिर्मांसमेदोऽस्तिसंभवा (वा.पु 34.41)

इति । अतोऽत्रावतारोपयुक्ता अन्या प्रकृतिरुच्यत इत्यभिप्रायेणाह

।प्रकृति: स्वभाव इति । ""प्रकृति: पञ्चभूतेषु स्वभावे मूलकारणे

इति नैघुण्टुका: । विग्रहस्यापि, ""नित्यालिङ्गा(ङ्ग्या) स्वभावसंसिद्धि:

(र.ब्राा) इत्येकायनश्रुत्यनुसारेण निरुपाधिकस्वासाधारणविशेषणत्वात्,

स्भावशब्देनोपादानम् । गोबलीवर्दन्यायाच्चात्र विग्रहाख्यस्वभावविशेषपरता

। स्वभावपर्यायप्रकृति।शब्देनापृथक्सिद्ध(सिद्धि)लाभेऽपि ।स्वामिति निर्देशो

जीवसाधारणत्रिगुणप्रकृतिव्यवच्छेदार्थ: इत्यभिप्रायेणोक्तं ।स्वमेवेति ।

।अन्तरादित्याधिकरणभाष्येऽप्येतत् व्याख्यातम्, ""स्वमेव स्वभावमास्थाय,

न संसारिणाम् स्वभावमित्यर्थ: (1.1.21)इति । ।प्रकृति शब्दस्यात्र

विग्रहपरताम्, ।अधिष्ठायेत्यनेन सूचितं स्वातन् त्र्यं च दर्शयति

।स्वेनैव रूपेणेति । यद्वा, ।स्वमेव स्वभावमित्याद्याद्येकवाक्यं

सङ्कलितार्थपरम् । तत् ।अधिष्ठायेत्येतदन्तं पूर्वार्धस्यार्थ:;

।स्वेनैव रूपेणेति तु तृतीयपादस्य; ।स्वेच्छयेति चतुर्थपादस्य;

अस्यां योजनायां प्रकृतिशब्दोऽवतारोपादान 1. भूतदिव्यविग्रहमेवाह ।

अवतारविग्रहोपादानभूतप्रकृतेर्बहुश्रुतिसिद्धतामाह ।
स्वरूपस्वरूपमिति ।

""स्वरूपं ब्राहृणोपरम् (वि.1.22.61) इति प्रयोगात् ।स्वरूपशब्दोऽत्र

विग्रहपर:। ""आदित्यवर्णं तमस: परस्तात् (पु) इत्यनेनाप्राकृतत्वम्,

स्वासाधारणनिरतिशयदीप्तियुक्तत्वं च सिद्धम् । तत्प्रकरणे च

देशविशेषवर्तित्वनित्यसूरिसेव्यत्वलक्ष्मीपतित्वादिककमपि भाव्यम्

। ।क्षयन्तमित्यत्र ।रजतश्शब्दोऽपि मूलप्रकृतिविषय:; न तु

लोकविषय: "तमस: परस्तात्' इत्यनेन तुल्यार्थत्वात् । रजोगुणकत्वाच्च

रजश्शब्देनोपादानम् । व्याप्तस्य देशाविशेषे ।क्षयन्तमिति विवासवचनात्

विग्रहवत्त्वं सिद्धम् । एवं परम आदित्यवर्णं हिरण्यमय: इति च

एक एव वर्ण: प्रतियोगिभेदाधीनप्रअतिकूल्याभ्यां मुखभेदेन निर्दिश्यते व

।यथाऽऽहुद्र्रमिडाचार्या:, ""हिरण्मय इति रूपसामान्यात् चन्द्रमुखवत्

(1.1.21.सारे) इति 2. यद्वा, हिरण्यविकारत्वव्यवच्छेदार्थं ।द्रमिडभाष्यम्

। तत्र (अत्र) ""मयूरकण्ठच्छविशुद्धहेम इति ।शिलपशास्त्रानुसारात्

श्यामत्वसिद्धि: । अथवा स्वेच्छया तत्रतत्र रूपभेदेऽपि न दोष:;

युगादिभेदे पर्यायत: सितरक्तादिविकल्पितवासुदेवाव्यूहरूपभेदवत्

। तस्यैव ह्मदयान्तवर्तित्वे श्रुतिमुदाहरति ।तस्मिन्निति ।

मनोमय इति । विशुद्धेन मनसा प्रचुर:, ग्राह्र इत्यर्थ:। आभ्यां

श्रुतिभ्यामुपासनस्यानविशेषस्थितिर्दर्शिता । कारणवाक्येऽपि तस्य

सद्भावं दर्शयति ।सर्व इति । विद्युत इति पदं विद्यद्वर्णादिति

अन्यत्र व्याख्यातम् । ""शान्त उपासीत (छा.3.14.1) इत्येषा श्रुति:

(शारीरके व्याख्याता ""तस्य ह वा एतस्य पुर्षस्य रूपं यथा महारजनं

वास: (3.2.20) इत्यादिनाऽऽकारविशेषं चाभिधायत, इति । सर्वासु

चासु श्रुतिषु विलक्षणस्थानविशिष्टत्ववर्णविशेषपुरुषशब्दादिभि:

पूर्वोपात्तपुरुषसूक्तवाक्यैकार्थत्वं सिद्धम् । षष्ठीसमासे

स्वस्वामित्वलक्षण: संबन्धोऽत्र विवक्षित इत्याह ।आत्मीय़येति । ""माया

वयुनं ज्ञानं इति निघण्टूपादानम् । स्वेच्छावतरणप्रकरणे स एवार्थ

उचित इति भाव: । निघण्डुसिद्धमर्थं तन्मूलभूताभियुक्तप्रयोगेणद्रढयति

।तथाचेति । ।मायया वेत्ति' इति निर्देशादियं माया ।निघण्टुसिद्धं

ज्ञानमे; परप्रसिद्धमायायास्त्त्वार्थप्रकाशकत्वभावादिति भाव:

। एतेन ।प्रकृतिशब्दस्यात्र त्रिगुणात्मकप्रकृतिविषयत्वं

।मायाशब्दस्य मिथ्यार्थपरत्वं च ।शङ्करोक्तं प्रयुक्तम् ।

।आत्ममायया इत्यस्य, ""न परमार्थतो वक्तुमाह ।आत्मीयेन

ज्ञानेनेति । श्लोकस्य पिण्डितार्थं विशदयति ।अत इति ।

।अपहतपाप्मत्वादीत्यनेन दहरेविद्यासुबालोपनिषत्प्रभृतिषु

निर्दोषत्ववमङ्गलगुणाकरत्वप्रतिस्वशक्तिलेशाद्धृ(व)र्ग: ।

इच्छागृहीताभिमताभिमतोरुदेह: संसाधिताशेषजगद्धितोऽसौ (य:)

(वि.6.5.84) इत्यादि स्मारितम् । ईश्वरस्वभाव: सर्वेऽप्युभयलिङ्गत्वेन

संगृहीत इत्यभिप्रायेणोक्तम् ।सर्वमैशं स्वभावमिति । ।स्वमेव

रूपमित्यादिना, ""समस्तशक्तिरूपाणि तत् करोति जनेश्वर ।

देवतिर्यक् मनुष्याख्या(दि)चेष्टावन्ति स्वलीलया ।। (विओ.6.7.71)

इत्यादि आभगवत्।पराशरवचनं स्मारितम् । अजत्वश्रुत्या स्मृतिरियं

बाध्येतेत्यत्राह ।तदिदमाहेति । अजायमानत्वजायमानत्वोक्त्या

व्याहतत्वादन्यपरेयं श्रुतिरित्यात्राह ।इतरेति । अजायमान: इति

सामान्यनिषेधो ""बहुधा विजायते' (पु.) इति विशेषविधिसन्निधानात्

सङ्कुचितविषय: । अतो विरोधे शान्ते तात्पर्यान्तरं न

कल्प्यम् । न चेदं "बहुस्याम्' (छा.6.2.3;आ.6.2.) इतिवत्

जगद्रूपेण बहुभवनम्, ""तस्य धीरा: परिजानन्ति योनिम् (पु)

इत्यनन्तरवाक्यैर्मुमुक्षूणामत्यन्तोपकारकावतारङहस्यज्ञानस्यैव

वक्तुमुचितत्वात्, अस्य च तदैकाथ्र्यादिति भाव: । सत्यमिथ्यात्वाभ्यां

विरोधपरिहारशङ्कां प्रतिक्षेप्तुम्, "प्रकृतिं स्वामधिष्ठाय'

इत्यस्य विग्रहपरत्वे, ।मायाशब्दस्य ज्ञानोपरत्वे

च हेत्वन्तरमाह ।बहूनीति ।
।वेद, सुजामि, दिव्यम् इति

शब्दैर्जन्मनो बुद्धिपूर्वत्वेच्छामात्रकृतत्वदिव्यत्वादीनि प्रतीयन्ते ।

मायादिशब्दस्याविद्यादिपरत्वे तु तदखिलं विरध्येत । न ह्रत्र जन्मशब्दो

जन्मप्रतिभासवाची; न च प्रध्वस्तपर्यायो ।व्यतीतशब्दो बाधपर:;

न च मायागृहीतस्य सर्ववेदित्वम्; नापि मिथ्याभूते सृष्टिशब्द:; न च

त्रिगुणप्रसूतस्य दिव्यत्वमिति भाव: ।। 6 ।।

।कदेति प्रश्नस्योत्तरमुच्यत इत्याह जन्मकालमाहेति

। युगानियमस्य वक्ष्यमाणत्वात् ।यदायदा इति वीप्सा

युगान्तर्वर्तिकालानियमपरेत्यभिप्रायेणाह ।न कालेति । जीववत्

पुण्यापुण्यविपाककृतो वा, व्यवस्थितत्वस्वसङ्कल्पकृतो वा

मन्वत्रमहाकल्पादिरूपो वा कालनियमो नास्तीत्यर्थ: । प्रमाणत:

स्वरूपतश्च ग्लानिप्रकारसूचनाय बाह्रधर्मधर्मैकदेशव्यवच्छेदाय

च ।वेदोदितस्येत्यादि विशेषणम् । ।वेदोदितस्य कर्तव्यस्येति

धर्मलक्षणमप्युक्तं भवति । ।अधर्मशब्दे नञो

विरधिविषयत्वमभिप्रेत्योक्तं ।तद्विपर्ययस्येति । ततश्च

अवैदिकागमोदितस्य वर्णाश्रमादिव्यवस्थारहितस्य तत एवाकर्तव्यस्येति

पूर्वोक्तप्रकारवैपरीत्यं फलितम् । धर्मग्लानेरधर्मोत्थानस्य

च तुलाग्रनमनोन्नमनवत् परस्पराविनाभावित्वं च दर्शितम् ।

।तदेत्यत्रापि यदायदा इत्येतत्प्रतिनिर्देशरूपत्वात् वीप्साऽनुसंधेया ।

धर्मस्य ग्लानिमपि न सहे, किंपुनर्विच्छेदमिति ।ग्लानिशब्दतात्पर्यम्।

एवमधर्मस्योद्गममात्रमपि न सहे, किमुत शाखानुशाखातामित्यभ्युत्थान

शब्दाभिप्रेतम्। ।अहं सृजामि इत्यत्रापेक्षणीयान्तराददर्शनात् ।अहमेव

स्वसंकल्पेनेत्युक्तम् । तेन कालस्याप्धिष्ठातुस्तस्य कालपरतन्त्रत्वं

परिह्मतं भवति । आत्मानं सृजामि इत्येतन्नतावत् स्वरूपविषयम् ;

तस्य नित्यत्वात्; आत्माश्रयादिप्रसङ्गाच्च । नापि जीवविषयम्;तस्य

प्रकरणासङ्गतत्वात्; नाप्याद्यविग्रहविशिष्टस्वात्मविषयम्प तस्यापि

रूपस्य नित्यत्वात्; अतोऽवतारविग्रहविशिष्टस्वात्माऽत्र ।आत्मानमिति

निर्दिश्यत इत्यभिप्रायेणोक्तं ।उक्तप्रकारेणेति ।। 7 ।।

।किमर्थमिति प्रश्नस्योत्तरमुच्यत इत्याह ।जन्मन इति ।

।साधुशब्दोऽत्र नासमयार्थविषय:, दुष्कृतच्छब्दप्रतियोगिरूपत्वात् ।

अत: सुकृतिविषयोऽयमित्यभिप्रायेणोक्तम् ।उक्तलक्षणधर्मशीला इति

। ।उक्तलक्षणशब्देन ।वेदोदितस्य इत्यादि परामृश्यते

। ये पुनरुक्तलक्षणधर्मेण देवतान्तराण्येव

उपासते; ये च वैष्णवा: ।प्रदर्शनविद्याझ्र्दिटन्यायेन

त्तद्देवताविशिष्टवेषेणैव भगवन्तमुपासते; न

तेषामवतारप्रदर्शनेऽत्यन्तनिर्बन्ध:; तत्तद्देवताकञचुकितवेषणैव

तदपेक्षितसकलप्रदानोपपत्तेरित्यभिप्रायेणोक्तम् ।वैष्णवाग्रेसरा

इति । भगवद्भक्तवर्या इत्यर्थ: । ।उक्तलक्षणधर्मशीला इति,

वैष्णवाग्रेसरा इति पदाभ्यां ""न चलति निजवर्णधर्मतो य:

(वि.3.7.20), ""वर्णाश्रमाचारवता (वि.3.8.9) इत्यादि सूचितम् ।

यथावस्थितमुपायं प्राप्यं चावलम्बमाना इति च फलितम् । त्राणं हि नाम

अत्र अनिष्टनिवर्तनपूर्वकेष्टप्रापणम् । एवंविधवैष्णवाग्रेसराणाम्

अनिष्टश्च भगवदलाभ:; तत्समाश्रयणपूर्वकतल्लाभेनैव च

तस्यानिष्टस्य निवर्तनमित्यभिप्रेत्योच्यते ।मत्समाश्रयणे(इ)त्यारभ्य,

।आलापादिदानेनेत्यन्तम् । न हि अमीषामन्नपानताम्बूलादि

धारणपोषणादिकम्, किंत्वहं कृष्ण 1.एव सर्वमित्यभिप्रायेणोच्यते

।मद्दर्शनेन विना स्वात्मधारणपोषणादिकमलभमाना इति । अदर्शनं

चानिष्पन्नयोगावस्थत्वात् । यद्यमीमत्साक्षात्कारात्पूर्वंमल्पं कालं

लोचने मीलयित्वा सहेरन्, तदा अहमपि तादृशीं तेषामवस्थां

सहेयापि, न त्वेते तथेत्यभिप्रायेणोक्तं ।क्षेणेत्यादि । ""त्रुटि

युगायते त्वामपश्यताम् (भाग.10.31.15) इत्यादिकमिह भाव्यम् ।

अदर्शनदु:खस्य च चरमावस्थौच्यते।
प्रशिथिलसर्वगात्रा भवेयुरिति ।

स्वविश्लेषपरिक्लोष्टानामुज्जीवनाय प्रवृत्तस्य क्रमात् भक्तानुभाव्याकारा

उच्यन्ते ।मत्स्वरूपचेष्टितावलोकनालापादिदानेनेति । ह्रपवर्गसुखादिवत्

अवतारमन्तरेण स्वसंकल्पमात्रेणैझ्र्वटतद्दातुं शक्यमिति भाव: ।

परित्राणायइत्यत्रोपसर्गेण विविधानिष्टनिवृत्तिपूर्वकविविधेष्टप्राप्ति:

सूचितेत्यभिप्रायेण ।मन्नामझ्र्गुणटकर्मेत्यादिकं ।धारणेत्यादिकं

स्वरूपचेष्टितेत्यादिकं चोक्तम् । ।स्वरूपमत्र विग्रह:

। एवं साधूनामान्तरभयातपरित्राणमुक्तम्; अथ तेषामेव

बाह्रभयात्परित्राणामुच्यत इत्यभिप्रायेणाह ।तद्विपरीतानां विनाशाय

चेति । चकारोऽन्वाचयार्थ: । इदमप्युक्त।मन्तरादित्याधिकरणभाष्ये,

""साधवो ह्रुपसक्ता:, तत्परित्राणमेवोद्देश्यम्; आनुषङ्किस्तु दुष्कृतां

विनाश:; संकल्पमात्रेणापि तदुपपत्ते: (1.1.21), इति । भागवतापराधो

हि दुष्कृत्यकाष्ठेत्यभिप्रायेण ।तद्विपरीतानामित्युक्तम् । ""रिपूणामपि

वत्सल: (रा.यु.50.53), ""मच्छरैस्त्वं रणे शान्तस्तत: पूतो

भविष्यसि (रा.यु.81.68) इतिवत् दुष्कृतामपि विनाशो नात्यन्तविनाश:;

किंतु वैपरीत्यहेतुभूतराक्षसप्रभृतिशरीरग्रन्थ्यादिझ्र्विटनिवर्तनम्;

तन्निवृत्तौ च तेषामपि धार्मिकत्वं संभवेदिति सोऽपि

।धर्मसंस्थापनपर्यवसित: । मच्छेषभूतमाराधनं

मयैव हि स्थापनीयमित्यभिप्रायेण ।मदाराधनरूपस्येत्युक्तम् ।

अनुष्ठानमुखेनोपदेशमुखेन च धर्मप्रवर्तनं व्यासादिद्वाराऽपि शक्यम्;

अराध्यरूपप्रदर्शनेन भक्त्युत्पादनमवतारसाधारणप्रयोजनम्

। परश्शतपरुषवादीजन्मत्रयशत्रु; विशुपालोऽपि हि

कृष्णदर्शनेन प्रीतिमान् भूत्वा मुकिं्त गत इत्यभिप्रायेण

।आराध्यस्वरूपप्रदर्शनेनेत्युक्तम् व ""रूपौदार्यगुणै: पुंसां

दृष्टिचित्तापहारिणम् (रा.अ.3.29) इत्यादि च भाव्यम् । एतेन धर्मस्य

सम्यक्स्थापनं हि स्वपर्यन्ततया स्थापनमित्युक्तम् भवति । ।युगे युग

इति वीप्सातात्पर्यं व्यनक्ति ।कृतत्रेतादीति । न तुप्रतियुगमवश्यं

संभवामि, नापि युगविशेषनिर्बन्ध इति भाव: ।। 8 ।।

प्रासङ्गिकस्यावतारयाथात्म्यकथैनस्य परमप्रकृमोक्षोपयोगित्वमुच्यते

।जन्म कर्मेति श्लोकेन । ।एवमिति । अजोऽपीत्यादिनोक्तप्रकारेणेत्यर्थ:

व ।दिव्यमित्यस्यैवार्थ: ।अप्राकृतमिति व ।मदसधारणमित्यनेन

"बहु स्यां प्रजायेय' (आ.6) इत्युक्तजन्मव्यवच्छेद:। वह्नयौष्ण्यादिवत्

धर्मिग्राहकप्रमाणसिद्ध: पदार्थान्तरेष्वदृष्टश्च प्रकारो न तर्कबाध्य

इति च भाव: । ""जन्म कर्म च मे दिव्यम् इत्युक्ते जन्मवत् तद्धेतुभूतं

(जन्मबन्धुहेतुभूतं) पुण्यमपि किमस्तीति शङ्काव्युदासाय ।चेष्टितमिति

व्याख्यातम् । त्त्त्वत इति । संशयविपयऱ्यरहितमित्यर्थ: व ।देहं

परित्यज्येत्युक्ते प्रारब्धकर्मपर्वसानदेहं परित्यज्येति साधारणप्रतीति:

स्यात्, तद्व्य़वच्छेदाय ।वर्तमान(नं)देहं परित्ज्येत्युक्तं ।

एतच्च ।यो वेत्ति स पुनर्जन्म नैति इति वेदितृत्वावस्थापेक्षया

पुनर्जन्मप्रतिषेधात् फलितम् । पुनर्जन्मप्रतिषेधात् फलितम् ।

।पुनर्जन्म नैति इत्यनेन विरोधिनिवृत्तिरुच्यते; ।मामेतीष्टप्राप्ति:

। न केवलं विरोधिनिवृत्तिमात्रेण स्वात्मानन्दानुभवमात्रम्,

अपित्ववताररहस्यज्ञानवान्; ।मामेव प्राप्नोतीत्यवधारणार्थ:। ननु

।वर्तमानदेहं परित्यज्येत्यादि अयुक्तम्, प्रारब्धकर्मावसाने हि मोक्ष:

शारीरके निर्णीत:; प्रारब्धस्य च कर्मण: कियन्ति जन्मानि साध्यानीति

न नियम:; व्यासादिष्वनियमदर्शनात् । न च जन्मकर्मज्ञानमात्रान्मोक्ष:,

दीर्घकालनैरन्तर्यादरसेवनीयदुष्करधर्मज्ञानानुगृहीतोपासनशास्त्रार्थनैरर्थक्यप्रसङ्गादित्यत्राह

।मदीयेति । दिव्यजन्मचेष्टितज्ञानेन उपासनविरोधिनं

समस्तानां पापानां निवृत्तत्वादस्मिन्नेव जन्मनि

जन्मान्तरारम्भकपापांशप्रशमनसमर्थउपासनविरोधिनां

समस्तानां पापानां निवृत्तत्वादस्मिन्नेव जन्मनि

जन्मान्तररम्भकपापांशप्रशमनसमर्थपुष्कलोपासननिष्पतेर्न

जन्मान्तरपरिग्रह: । स्मरन्ति च 1.विनिष्पन्नसमाधिषु मुकिं्त तत्रैव

जन्मनि' (वि.6.7.35) इति । एवंचोपासनपौषकल्हेतुतयाऽस्याभिधानात्

परम्परया मोक्षसाधनत्वमिति नोपासनाशस्त्रवैयथ्र्यमिति भाव: ।

।यथोदितप्रकारेण मामाश्रित्येति पुष्कोध्यानावस्थोच्यते । ।मदेकप्रिय

इति तु भक्तिरूपापन्नतोक्ति : । अहमेक एव प्रिय: प्रीतिविषयो

यस्य स मदेकप्रिय:; "प्रियो हि ज्ञानिनोऽत्यर्थमहम्' (7.17) इति

वक्ष्यते । एतेन पुरुषार्थान्तरनिष्ठव्यवच्छेद: । ।मदेकचित्त इति

समाध्यवस्था । मय्येकस्मिन्नेव चित्तं यस्य स ।(मदेकचित्त: ।। 9 ।।

उपासनवैयथ्र्यझ्र्मित्यटआदिशङ्कोत्तरत्वेन योऽवयमर्थ उक्त:, अयमेव

।वीतराग इति श्लोकेनोच्यत इत्याह ।तदाहेति । तदेव पूर्वप्रस्तुतं

ज्ञानमिह ।ज्ञानतपसेत्युच्यते; ।मन्मया मामुपाश्रिता: इति तु परम्परया

तत्साध्यज्ञानमित्यभिप्रायेणाह ।मदीयेति ।

अस्य श्लोकस्य पूर्वश्लोके व्याख्यातप्रायत्वात् ।एवं संवृत्ता इति

संग्रहणोक्तम् ।तथाहि-।ज्ञानतपसा पूता इत्यस्यार्थो ।मदीयेत्यारभ्य

।पाप इत्यन्तेन प्रपञ्चित: । ।मामाश्रित्य इत्यनेन मामुपाश्रिता: इत्यस्यार्थ

उक्त:। ।मदेकप्रिय: इत्यनेन ।वीतरागभयक्रोधा: इत्यस्यार्थौऽभिप्रेत:

। विषयान्तरेषु प्रीतिर्हि राग:; तद्विरधिषु निरसनेच्छा क्रोध:;

आगामीष्टविरोध्यनिष्टागमोत्प्रेक्षा भयम् । तदेतदखिलमपि न

वासुदेवभक्तानामस्ति, तदेकप्रियत्वेन विषयान्तरे रागभावात्; तत

एव तन्मूलक्रोधाभावात् तल्लाभाभव्यतिरिक्तेष्टानिष्टाभावेन भयाभयावाच्च

। इदं च, ""न क्रोधे न च मात्सर्यंम् (वि.स) इत्यादिषु प्रसिद्धम् ।

।मदेकचित्त: इति ।मन्मया: इत्यस्यार्थ: । ज्ञानविषयभूतेन मया प्रचुरा

।मन्मया:; तादात्म्यविकारार्थयोरत्रानुपपन्नत्वात्; अन्तर्यामित्वविवक्षायां

तस्य सर्वसाधारणत्वाच्च । ।मन्मया इत्यत्र, "ईश्वराभेददर्शिन:' इति

।शङ्करोक्तं शारुाोपक्रमादिविरोधात् शब्दस्यावाचकत्वाच्च निरस्तम् । ।मामेव

प्राप्नोतीत्यनेन ।मद्भावमागाता: इत्यस्यार्थो दर्शित:। मुक्तत्वस्थायामपि

तादात्म्यस्य श्रुतिस्मृतितदर्थापत्तिसूत्रादिविरुद्धत्वात्, अत्रापि "मामेति

सोऽर्जुन' इति कर्मकर्तृव्यपदेशात्, "मम साधम्र्यमागता:' (14.2)

इति परस्ताद्वक्ष्यमाणत्वाच्च ।मद्भावमागता: इत्यस्य

मत्स्वभावमपहतपाप्मत्वादिकं प्राप्ता इत्यर्थ: । यद्वा "ब्राहृैव भवति'

(मु.3.29) इत्यादाविवात्यन्तसाम्यात् तद्व्यपदेश:।

अवाताररहस्यस्य च ज्ञातव्यत्वे श्रुतिरप्यस्तीत्याह ।तथा चेति ।

उक्तार्थसंवादित्वंविवृणोति ।धीमतामग्रसरा इत्यादिना ।

एवं ।धीरशब्दनिर्वचनेन

प्रागुक्तभगवत्प्राप्तिपर्यन्ताभङ्गुरज्ञानवत्त्वमुक्तं भवति ।

।परिजानन्तीत्यत्रोपसर्गेण पूर्वोक्तयथावस्थितप्रकारोऽभिप्रेत इति

ज्ञानपनाय ।एवं तस्य जन्मप्रकारं जानन्तीत्युक्तम् । ।धीमतामग्रसरा

एवेति पाठे तु विशेषविधे: शेषनिषेध: फलित इति भाव: ।। 10 ।।

एवं

साधुपरित्राणाद्यर्थदेवममुष्यादिसजातीयस्वेच्छावतारवर्णनमुखेनोपासनोपयुक्तं

स्वस्य सौलभ्यमुक्तम् । अथ तस्यैव काष्ठाप्राप्तां दशां

दर्शयति ।ये यथेति श्लोकेन । अत्र कृष्णावतारवृत्तान्तेन सह

।अर्चावतारवृत्तान्तोऽपि संगृहीत: । ।ये यथा, तांस्तथैवेति

शब्दा: पूर्वोक्ताधिकारितदनुष्ठानप्रकारादिनियमनिवृत्तिपरा

इत्यभिप्रायेणाह ।न केवलमिति । ।स्वपेक्षानुरूपमिति

पतित्वपुत्रत्वसारथित्ववाराहनारसिंहादिप्रक्रिययेत्यर्थ:

। ।सङ्कल्प्य मनोरथविषयं कृत्वेत्यर्थ: । एतदेवात्र

प्रपदनमित्याह ।समाश्रयन्त इति । "तांस्तथैव भजाम्यहम्'

इत्यत्र तद्भजनप्रकारेणाहमपि तान् भजामीत्येतदसङ्तमिति

शङ्कानिरासाय ।तथैवेत्यस्यार्थमाह ।तन्मणीषतप्रकारेणेति । न तु

स्वकीयपरत्वानुरूपप्रकारेणेति भाव: । अत्र यथाभिलषितफलप्रदानेन

पक्षपातपरिहारार्थत्वं परोक्तं पूर्वोत्तराभ्यां नात्यन्तसङ्गतम्,

"चातुर्वण्र्यम्' (13) इत्यादिना अर्थत: पुनरुक्तिश्च स्यात् । सेवकान्

प्रति सेव्यस्य भजनं नाम सुलभदर्शनत्वमित्यभिप्रायेण ।मां

दर्शयामीत्युक्तम् । उक्तार्थस्य लोकेऽपि प्रदर्शनपरमुत्तरार्धम्

। न पुन: "यदि ह्रं न वर्तेयम्' (3.23) इत्यादिविव स्वस्य

लोकानुविधेयानुष्ठानवत्त्वपरम्, तस्येहासङ्गतत्वादित्यभिप्रायेण

वाङ्मनसागोचरसौलभ्यपरतां विवृणोति ।किमित्र बहुनेति ।

।मनुष्यशब्द: स्त्र्यादीनामपि संग्राहक इत्यभिप्रायेण ।सर्वशब्द:। अत्र

।वत्र्मशब्दो न साक्रात्सरणिवाचक:ल, असङ्गतवाक्यार्थत्वप्रसङ्गात्

। नाप्याचारपर:, तस्याप्यत्रासङ्गतत्वेनोक्तदूषणत्वात् । अत एव

""एवं प्रवर्तितं चक्रम् (3.16), ""तेनैव स्थापिता ब्राहृमर्यादा

लोकभाविनी इत्याद्युक्तशास्त्रमर्यादानुवर्तनपरत्वमपि

निरस्तम् । अतोऽत्र सौलभ्योपदेशप्रकरणे स्वासाधारणविग्रह

चेष्टासौशील्यादिस्वभावसमिदायपरत्वमेवोचितमित्यभिप्रायेणोक्तं ।मम

वत्र्म मत्स्वभावं सर्वमिति । सरणिवाचकमपि हि शब्दमुपचारात्

।स्वभावविषयतया प्रयुञ्जते । यथा ""कोऽयं पन्था यदसि विमिखो

,मन्दभाग्ये मयीत्थम् इति । ।मनुष्या इत्यनेन सूचितमुच्यते

।योगिनामिति । योगपरिशुद्धमनसां वाङ्मनसागोचरमपि

मांसचक्षुषो मनुष्या बाह्रेन्द्रियैरप्यनुभवन्तीत्यर्थ:।

प्रियतमपितृपुत्रसुह्मद्भ्रातृभृत्यसारथित्वादिरूपाणि अर्चावताररूपाणि च

।सर्वश: इत्यनेन विवक्षितानीत्याह ।स्वापेक्षितैरिति । अनुभूयानु(?)वर्तन्ते

अनभवन्तो वर्तन्त इत्यर्थ:। अलङ्करणयात्रोत्सवसेवादिर्वाऽत्र

।प्रकार:। अत्र ।योगिनां वाङ्मनसागोचरमपि, चक्षुरादिकरणैरिति

वचनादर्चावताररूपेऽपि पररूपत्वानुसन्धानं दर्शितम् । यथा स्मरन्ति,

"तामेव ब्राहृरूपिणीम्' इति । वक्ष्यति च भगवान्, "भुजैश्चतुर्भि:'

(वि.ध.103.30) इत्यादि । एवं प्रसङ्गात् सौलभ्यातिरेकं सारथ्यादिना

पश्यतोऽपि पाण्डवस्योपासिसिषापूत्र्यर्थंकण्ठौवत्याऽप्युपदिदेश ।

नन्वेतावताऽपि चोद्यानुमानकतर्काणां क: परिहार

उक्तो भवति? ।। तदुच्यते-प्रत्यनीक: स्वयं हेयं

कथमुपाददीतेति चोद्यम् अवतारदेर्हेयत्वाभावादेव निरस्तम् ।

तदभावश्चाकर्मवश्यत्वाप्राकृतत्वस्वेच्छाकृतत्वादिभि: । पुण्यपापाद्यभावे

नियन्त्रन्तराभावे च कथं जन्मादीत्येतदपि स्वेच्छया परिह्मतम् ।

हिताहताज्ञानाशक्त्यादिचोद्यमकर्मवश्यस्य लौलयाऽवतारतोऽस्याहिताभावात्

तदज्ञानाभावाच्च निरस्तम् । प्रयोजनाभावचोद्यं तु

साधुपरित्राणादिप्रयोजनवर्णनेनापाकृतम् । यत्तु साधुपरित्राणादौ

सङ्कल्पमात्रेणापि शक्ये किमवतारादिनेति, तदपि "परित्राणय साधूनाम्' (8)

इत्यत्र ।मन्नामेत्यारभ्य आलापादिदानेन तेषां परित्राणायेत्यन्तेन भाष्येण,

"धर्मसंस्थापनार्थाय;' इत्यत्र आराध्यस्वस्वरूफप्रदर्शनेनेत्यनेन,

ये ।यथा (11) इत्यत्र सर्वसाधारणस्वसौलभ्यातिरेकप्रदर्शनेन च

परिह्मतम् । य़दुक्तम् ईश्वरो न वस्तुतो जन्मादिमान् अकर्मकवश्यत्वात्

मुक्तात्मवदिति-तत्रेश्वराभ्युपगमानभ्युपोगमयोर्धर्मिग्राहकबाधाश्रयासिद्धी

। किंच किमत्र कर्महेतुकजन्मदिरितहित इति

साध्यार्थ:? उताकर्महेतुकजन्मादिरहित इति? अथवा सामान्येन

जन्मादिमात्ररहित इति ? न प्रथम:, सिद्धसाधनात् । न द्वितीय:,

हतोरप्रयोजकत्वात् । न हि कर्मनिवृत्तिरकर्महेतुकं जन्मापि निवर्तयति

। निषेध्यस्वरूपसमर्पकप्रमाणेन बाधश्च; यथाऽग्रेरनौष्ण्यानुमाने । न

तृतीय:; दृष्टान्तस्य साध्यविकलत्वात् । मुक्तस्यापि हि शरीरपरिग्रह:,

""जक्षत् क्रीडन् रममाण: (छा.8.12.3), ""स एकधा भवति त्रिधा भवति

(छा.7.26.2) इत्यादिश्रुतिसिद्ध: ।। तर्हि मुक्तोऽपि पक्षीकृत इति चेत्,

तदा को दृष्टान्त:? घटादिरिति चेन्न; तत्र शरीरपरिग्रहाद्यभावस्य

अचेनत्वोपाधिकत्वात् । एतेन--यो जन्मादिमान् स कर्मवश्य इति

व्यतिरेकोऽपि भग्न: ।। यस्त्वीश्वरनियोगाविषयत्वादिति--सोऽपि

प्रथमेन तुल्यार्थ:; पुण्यपापनिरूपकशास्त्रैस्यैवेश्वराज्ञातारूपत्वात्

। यत्तु तत्कारणरहितत्वात्, यो यत्कारणरहित:, न

स तद्वानिति--तदप्यसत्; उपादानकारणविवक्षया प्रयोगे

त्वप्राकृताकर्मनिमित्तावतारोपादाननित्यविग्रहसद्भावोपपादनात् हेत्वसिद्धे:

। निमित्तविवक्षया प्रयोगे तु संकल्पादिनिमित्तोपपादनात्

। सामान्यविवक्षाऽपि तत एवोक्तोत्तरा । एवं

संकुचितज्ञानशून्यत्वादित्यादिष्वपि धर्मिग्राहकबाधादिकं

भाव्यम् । साध्यप्रयोजनरहितत्वादित्यत्र हेत्वसिद्धिश्च,

साधुयपरित्राणलीलादिप्रयोजनस्योक्तत्वात् । सामान्यविवक्षाऽपि

तत एवोक्तेत्तरा । एवं संकुचितज्ञानशून्यत्वादित्यादिष्वपि

धर्मिग्राहकबाधादिकं भाव्यम् । साध्यप्रयोजनरहितत्वादित्यत्र

हेत्वसिद्धश्च, साधुपरित्वाणलीलादिप्रयोजनस्योक्तत्वात् । तथाऽपीदानींतनं

सुखं तदा (प्राक्) नास्तीति तेनांशेनापूर्णत्वं प्रसज्यत इति

चेत्---नेदमपूर्णंत्वम्;इष्टविघाताभावात् । इच्छाकाले च तत्सिद्धे: ।

तदानीमपि यदीच्छेत्, सिध्येदिति योग्यतासद्भावात्, उत्तरकालीनस्यापि तस्य

प्रागपीश्वरेण सर्वज्ञेन स्वसुखतयाऽनुसंधीयमानत्वात् । एवमतीतेऽपि

भाव्यम् । भविष्यतोऽपि सुखत्वेन प्रकाशमानत्वे किमर्थातत्तरच्छेति

चेत्, उत्पत्त्यर्थेति ब्राूम: । तया किं प्रयोजनमिति चेत्--सैव । सा तर्हि

पूर्वोत्तरकालेयोर्नास्तीति तयो: कालयोरपूर्णत्वमिति चेन्न, तत्कालीनतया

तयैव सर्वदाज्ञायमानया पूर्णंत्वात् । ननु कस्यचिदिष्यमाणत्वं तदलाभे

दु:खादीति चेन्न, तल्लाभस्य प्रयोजनत्वेनैव तदुपपत्ते: । अशक्तस्य हि

तदिच्छतस्तदसिद्धेर्दु:खं जायते; शक्तस्य तु तदिच्छैव तत्सुखत्वं

पुष्यतीति न संकटं किंचिदिति ।। एतेन साध्यप्रयोजनरहितत्वे

हेतौ मुक्तदृष्टान्तोऽपि साधनाविकल:, "जक्षत्क्रीडन्' इत्यादिश्रुते: ।।

ये तु परमसाम्यापन्नदृष्टान्तेन सर्वज्ञत्वादित्यादिहेतव:, तेष्वपि

साध्यविकलत्वादिदोष: समान: । प्रसङ्गाश्चानुमानवत् व्याप्तयाद्यभावेन

दूषिता इति ।

तदेवं सिद्धं---जनमादिकमीश्वरस्य सत्यम्, तत्प्रतिपादकं च

वच: प्रमाणमिति । यत्तु अवतारेषु दु:खशोकभयादिकं क्वचिदुच्यते,

तदस्यापहतपाप्मात्वादिबलात् ""तेन वञ्चयते लोकान् (भा.उ.67).15)

इत्यादिवचनबलाच्चाभीनयमात्रं मन्तव्यमिति ।। 11 ।।

एवमध्यायार्थतयाऽभिहितेषु षट्सु प्रसञ्जकं प्रासङ्गिकं

चोक्तम्; अथ प्रकृतस्य कर्मयोगस्य ज्ञानकारताप्रकारं वक्तुं

तदुपोद्घाततया षट् श्लोका: प्रवर्तन्ते । तत्राधिकारिविषयाश्चत्वार:,

कर्मस्वरूपविषयौ द्वानित्यवान्तरविषयविभाग: । तदिदमभिप्रयन्

प्रथमं श्लोकमवतारयति ।इदानीमिति । काङ्क्षन्त: इत्यत्र

विशेषनिर्देशाभावात् ।सर्व एव पुरुषा इत्युक्तम् । ये मुमुक्षुतया

संभाव्यन्ते, तेऽपि हि प्रथमं त्रिपवर्गप्रवणाइति ।एवकाराभिप्राय:

। ।कर्मणां सिद्धिम् इत्यत्र कर्मस्वरूपसिद्धिशड्काव्युदासायोक्तम्

।फलमिति । ।इहशब्दाभिप्रेतमाह ।इन्द्रादिदेवतामात्रमिति । 3. इह

या देवतात्वेनप्रतीयन्ते, ता इत्यर्थ: । "यज देवपूजायामि'ति

धात्वर्थव्यञ्जनाय ।आराधयन्तीत्युक्तम् । एतेन तत्तद्देवताराधनभूतानां

दानहोमादीनामपि संग्रह: । ।सर्वाणि कर्माणीत्यनन्तरमेतत् व्यञ्जयिष्यति

। व्यतिरेकरूपमाभिप्रायिकं कर्मयोगाधिकारिदैर्लभ्यमाह ।न तु

कश्चिदिति । सर्वयज्ञानां भोक्तारमित्यनेन " अहं हि सर्वयज्ञानाम्'

(9.24), "भोक्तारं यज्ञतपसाम्' (5.29) इत्यादि वक्ष्यमाणं सूचितम्

। हेतुपर।हिशब्दार्थव्यञ्जनाय शङ्कते देशतश्चासत्तिरुच्यते ।

"वायुर्वै क्षेपिष्ठा देवता' (यजु.2.1.1) इत्यादिकं ।क्षिप्रशब्देन

स्मारितम् । ।अस्मिन्नेवेत्यनेन मानुषशब्दफलितदेशासत्तिद्योतनम् ।

क्षिप्रपलाभादस्मिन्नेव लोके लाभाच्च क्षुद्रेष्वपि फलेषु प्रथममाकाङ्क्षा

स्यादिति भाव: । मानुषलोकौचित्येन सिदिं्ध विशेषयति ।पुत्रपश्वित्यादि ।

अपवर्गफलप्रकरणफलितमाह।मनुष्येति । अतिशयितफलसद्भावेऽपि

क्षुद्रफलाकाङ्क्षायां तदनुषङ्गिदु:खसन्तानानुद्वेगे च हेतुं

दर्शयन् कण्? ओक्तमाभिप्रायिकं च सङ्कलय्य वाक्यार्थमाह

।सर्व एवेति ।लौकिका इति त्रिवर्ग प्रावण्यनिदर्शनार्थमुक्तम्

। ।अविवेकिन: । अविवेकित्वादित्यर्थ: । ।क्षिप्रफलाकाङ्क्षिण

इति क्षुद्रत्वनश्वरत्वदु:खानुबन्धित्वादिदोषपुञ्जानादरेण

"वरमद्य काक: श्वो मयूरात्' इतिवन्मन्यमाना इति

भाव: । उपलक्षणोपलक्ष्यभूतैहिकामुष्मिकसङ्कलनेनोक्तम्

।पुत्रपश्वन्नद्यस्वर्गादीति । एतेन "कर्मणां सिद्धम्' इत्यत्र

।सिद्धिशब्द: सामान्यविषय इति दर्शितम् । ।सर्वाणि कर्माणि

यागदानहोमादीनि ।। 12 ।। नन्वक्षीणानन्तपापसंचयत्वं सर्वेषां समम्

। ततश्चाविवेकित्वात् क्षिप्रफलकाङ्क्षित्वमपि समानम् । अत: कस्यापि

मुमुक्षाविरहान्मोक्षोपायशास्त्रप्रमाणं स्यादित्याशङ्कयश्लोकद्वयेन

तत्परिहार: क्रियत इत्यभिप्रायेणाह ।यथोक्तेति । पूर्वश्लोक्तेषु

देवतान्तराधीनेषु क्षुद्रफलेष्वपि सर्वकर्तु: स्वस्यैव हेतुत्वं

।चातुर्वण्र्यमित्यादिनादर्शितम् । व्यष्टिसृष्टयन्तर्गतचातुर्वण्र्यकथनं

समस्तव्यष्टिसृष्टिसंग्रहार्थमित्यभिप्रायेण

चातुर्वण्र्यप्रमुखमित्युक्तम् । वैषम्यनैर्घृण्यपरिहारप्रस्तावाय

व्यषिसृष्टयुपादानम् व ।गुणकर्मविभागश: इत्येतत्

प्रपञ्चयिष्यमाणसत्त्वादिविभागविषयमित्यभिप्रायेण ।सत्त्वादीत्युक्तम् ।

सत्त्वमुत्तमम्' (भा.आश्व.40.11) इत्यादिगुणविभाग:,"ब्रााहृणक्षत्रियविशाम्'

(गी.18.41) इत्यादिकर्मविभाग: व ।शमादिकर्मेति

शमाद्यनुष्ठेयमि2.(यकर्मे)त्यर्थ: । "शमो दम:' (18.42)इत्युपक्रम्य,

"ब्रााहृं कर्म स्वभावजम्' इति वक्ष्यते । एवं देवतिर्यङ्मनुष्यादिजातिषु

वाराहपाद्मेशानकल्पादिषु च पुराणादिषु प्रपञ्चितस्त्तद्गुणोद्रिक्तो

विषमसृष्टिप्रकारो द्रष्टव्य:। श्रुत्यादिषु सृष्टयादिसमस्तहेतुतयेश्वरस्य

ज्ञातव्यत्वविधानादत्र सृष्टिग्रहणं रक्षादेरपि प्रदर्शनपरमित्याह

।सृष्टीति । एतेन व्यष्टिसृष्टयादिव्यापारत्रयस्यापि स्वकर्तृकत्ववचनात्,

""सृÏष्ट तत: करिष्यामि त्वामाविश्य प्रजायते (वि.ध.68.51)

इत्यादेरर्थोऽप्युक्तो भवति । सूत्रितं चैतत्, ""संज्ञामूर्तिक्लृप्तिस्तु

त्रिवृत्कुर्वत उपदेशात्(ब्रा.2.4.17) इति ।। 13 ।।

एककार्यापेक्षयैकस्यैव कर्तृत्वं तदभावश्चेति व्याहतमित्यभिप्रायेण

चोदयति ।कथमिति । कर्तृत्वं तावत् मुख्यम्; अकतृत्वं तु

वैषम्यप्रयोजकत्वाभावदुच्यत इति व्यञ्जयति ।यत इति ।

।कर्मशब्दोऽत्र न पुण्यपापविषय:, प्रकृतानुपयुक्तत्वात् इदानीं

कर्मवश्यत्वशङ्काभावात् । शङ्कितविरोधपरिहारात्मकत्वस्यैव

युक्तत्वात्, अनपेक्षितविधानादपेक्षितविधानप्राबल्याच्च

इत्यभिप्रायेण ।इमानि विचित्रसृष्टयादीनि कर्माणीत्युक्तम् व।न

मां लिम्पन्तीत्यस्य मुख्यासङ्गतेर्लक्ष्यं तावदाह ।न मां

3.संबध्नन्तीति । कथमेतावता विरोधपरिहार इत्यत्राह ।न

मत्प्रयुक्तानीति । वैषम्यांशे विशेषहेतुत्वं निषिध्यत इति न

विरोध इति भाव: । कस्तर्हि विषमसृष्टेर्विशेषहेतुरित्यत्राह

।तानीति । उक्तहेतुवशादकर्तृत्वव्यपदेशौचित्यं

निगमयति ।अत इति । ।प्राप्ताप्राप्तविवेकेन

पुण्यपापतारतम्यानुगुणसुखदु:खादिविषमसृष्टितारतम्यदर्शनकृतविशेषणनिष्कर्षनेत्यर्थ:

। यथाविचित्रेष्वङ्कुरेषु क्षितिजलादीनि सामान्यकारणानि,

वैचित्र्यंझ्र्तुट स्वबीजवैचित्र्यहेतुकम्, तद्वदिति

भाव:। एवं विशेषप्रयोजकत्वाभावेनाकर्तृत्वमुक्तम् । अथ

विशेषसृष्टिफलनिस्स्पृहत्वेनाकर्तृत्वमुच्यत इत्यभिप्रायेण ।


मे कर्मेत्यादिकं व्याख्याति ।यतश्चेति । स्वस्य स्पृहानिषेध इतरेषां

स्पृहासत्त्वाभिप्राय इति व्यञ्जनाय ।सृष्टाइत्यादिकमुक्तम् । ।सृष्टा: क्षेत्रज्ञा

इति कर्मनिर्देशेन भोक्तृत्वदशापन्नक्षेत्रज्ञसिद्धयर्था सृष्टिरित्यभिप्रेतम्

। भोक्तृत्वोपयुक्ताकार उच्यते ।सृष्टिलब्धकरणकलेवरा इति । न हि

मदीयकरणादिलाभार्था सृष्टिरिति भाव: । ।फलसङ्गादिहेतुशब्दो

बहुव्रीहितत्पुरुषयोरन्यतरेण स्वकर्मविशेषक:

। ।फलसङादिहेतुशब्दो बहुयव्रीहितत्पुरुषयोरन्यतरेण

स्वकर्मविशेषक: । ।फलसङ्गादिहेतुभिरिति वा पाठ: । स्वकर्मानुगुणं,

न तु तन्निरपेक्षकेवलोमत्सङ्गल्पविशेषानुगुणमिति भाव: । ।कर्मफल

इत्यत्रापि कर्मशब्द: प्रकृतसृष्टयादिकर्मविषय:; फलस्वभावात्तु

पुण्यपापरूपं कर्म फलितमित्यभिप्रायेण ।सृष्टयादिझ्र्फलेटकर्मफले

चेत्युक्तम् । प्रावाहानादिवासनाझ्र्दिटमूलतत्तदिच्छानुरूपं प्रवर्तयन्

तत्तदिच्छाहेतुकतत्तत्पुण्यपापानुगुणं फलं प्रयच्छामि; नतु

स्वेच्छानुरूपं प्रयच्छामि; नापि स्वातन्त्र्यमात्रेण विषमं फलं

ददामि, : न च स्वप्रयोजनार्थं परान् पीड¬ामीत्यतदखिलमपि

।न मे स्पृहेत्यन्तेनोक्तं भवति । ""अत्रोपनिषदं पुण्यां

कृष्णद्वैपायनोऽब्रावीत् (भा.आ.1.279) इति ।पञ्चमवेदे

गीतोपनिषतसंग्रहीतु: शारीरकसूत्रेणोक्तार्थं संवादयति ।तथाऽऽहेति

। तत्पितुर्देवतापारमाथ्र्यविदो वचनं च दर्शयति ।तथा चेति ।

तत्र हि वराहप्रादुर्भावमभिधाय, ""भूराद्यांश्चतुरो लोकान् पूर्ववत्

समकल्पयत् (वि.1.4.51.52) इति श्लोकद्वयमुक्तम् । अनन्तरं च

""यथा ससर्ज देवोऽझ्र्सौटयं देवर्षिपितृदानवान् । मनुष्यतिर्यग्वृक्षादीन्

भूव्योमरुालिलीकस: । इत्यादि: व ""विस्तरात् (वि.1.5.1.2) इत्यारभ्य,

""किमन्यच्छ्रोतुमिच्छसि (वि.1.5.26) इत्यन्तेनाल्पविस्तरे कृते,

पुनरतिविस्तरे मैत्रेयेण पृष्टे, ""कर्मभिर्भाविता: पूर्वै: कुशलाझ्र्:ट

कुशलैस्तु ता:। ख्यात्या तयाऽप्यनिर्मुक्तास्संहारेऽप्यपुसंह्मता: ।

स्थावरान्ता: सुराद्याश्च प्रजा ब्राहृंश्चतुर्विधा: (वि.पु.1.5.28)इत्यादिना

तत्तत्कर्माधीनदेवादिनविषमसृष्टिर्हि प्रपञ्चयते । अत:

पूर्वापरपर्यालोचनया सृज्यशब्देनात्र देवमनुष्यादय: सृज्यविशेषा

निर्दिश्यन्ते; ।शक्तिशब्देन च तत्तत्कर्मैव । वक्ष्यति हि कर्मण्यपि

शक्तिशब्दम्, ""अविद्या कर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते

(वि.पु.6.7.61) इत्यादौ । निमित्तमात्रमिति च नोपादानत्वनिषेध:, ;

श्रुतिस्मृतिसूत्रपूर्वापरकोपप्रसङ्गात् । अतस्तत्तत्कर्माविशेषप्रयुक्ततया

प्रकरणोदितविषमसृष्टेर्वैषम्यांशं प्रति प्राधान्येनेन निषिध्यते,

""मयैवेते निहता: पूर्वमेव निमित्मात्रं भव सव्यसाचिन् (गी.11.33)

इतिवत् । ""प्रधानकरणीभूता यतो वै सृज्यशक्तय: (वि.1.4.51.52.)इति

ह्रत्राप्युज्यते । नन्वेवं सति अप्राधानत्वमीश्वरस्योक्तं स्यात्

। तदपि सूत्रादिविरुद्धम् । कर्तृत्वविरुद्धं च; "स्वतन्त्र:

कर्ता' (अष्टा.1.4.54) इति हि कारकचक्रं प्रति प्राधान्यं

कर्तृलक्षणं स्मरन्ति । अतोऽयं प्राधानशब्दउपादानपर

इति चेत्--तन्न; निमित्तोपादानैक्यश्रुत्यादिविरोधात् । उपादाने

।करणशब्दानौचित्याच्च । न चास्वातण्त्र्यप्रसङ्ग:, विशेषप्रयोजकस्य

करणभूतस्यादृष्टस्यापि तत्सापेक्षत्वात् । अतो द्वितीयश्लोकेनापि

साधारणकारणतयेश्वराकाङ्क्षणमसाधारणकारणान्तरनैरपेक्ष्यं

चोच्यते । तदेतदखिलमभिप्रेत्य श्लोकद्वयं व्याख्याति ।सृज्यानामिति

। सृज्यशब्दस्य प्रकरणविशेषितोऽर्थ: ।क्षेत्रज्ञानमित्यनेनोक्त:

। निमित्तशब्दस्यात्रोपादानसहपठितनिमित्तपरत्वव्युदासायाह

।कारणमात्रमिति । "सृज्यशक्तय:' इत्यत्र

समानाधिकरणसमासभ्रमव्युदासाय ।प्राचीनेत्युक्तम् ।

पूर्वकल्पसंभवशरीरै: कर्माणि निष्पन्नानि, ""नाभुक्तं क्षीयते

कर्म कल्पकोटिशतैरपि (ब्रा.कै.प्र.26.70) इति हि स्मरन-ति; न च

नित्यानां क्षेत्रज्ञानां प्रलयेऽप्यत्यन्ताविभाग: । सूत्रितं चैतत्, ""न

कर्वाविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च (ब्रा.2.1.35)

इति । वस्तुशब्दोऽत्र प्रकरणादिसिद्धसृज्यविशेष विषैय इत्यभिप्रायेण

।इदं क्षेत्रज्ञवस्त्वित्युक्तम् । "स्वशक्त्या वस्तु वस्तुतां नीयते' इत्ट्ठयुक्ते

अवस्थान्तरं नीयत इत्येवोक्तं भवति; प्रागसतस्सत्तायोगित्वविवक्षायां

सत्कार्यवादसिद्धान्तविरोधात् । "सर्वशक्त्या वस्तु वस्तुताम्'

इत्यत्र आत्माश्रयादिप्रसङ्गाच्च । तच्चावस्थान्तरमस्मिन् प्रकरणे

प्रलयदशापन्नानां देवादिभाव एवेत्यभिप्रायेण ।देवादिवस्तुभावमित्युक्तम् ।

तदेवं कर्तृत्वाकतृत्वयोरविरोध उपपादित: । उक्तार्थस्य प्रकृतोपयोग

उच्यते 1.इति मामित्यादिना । ।इतिशब्द: चातुर्वण्र्यमित्यादिकं

सर्वं परामृशतीत्यभिप्रायेणाह ।एवमिति । कर्मभिरिति सामान्यतो

निर्देशोऽपि प्रकृतज्ञानमात्रात्सर्वकर्मविनाशायोगात्, "एवं ज्ञात्वा

कृतं कर्म' इत्यनन्तरवाक्यानुरोधाच्च संकोचे कार्ये, प्रकृतोपयुक्तो

विशेषोऽयमेवेत्यभिप्रायेण ।कर्मयोगारम्भविरोधिभिरित्यादि उक्तम्

। विरोधित्वेऽवान्तरव्यापारकथनं ।फलसङ्गादिहेतुभिरिति । यद्वा

फलसङ्गादिना कृतत्वात् फलादिद्वारा कर-मयोगारम्भविरोधिभिरिति भाव: ।

अत्र ।प्राचीनशब्देन, "निष्पन्नोपादसनस्य ह्रुत्तराघाश्लेष:' इत्यभिप्रेतम्

। प्राचीनै: प्रागेव बद्धस्य कस्तैरबन्ध इत्यत्राह ।मुच्यत इत्यर्थ इति ।

एवं श्लोकद्वयेन यथोक्तकर्मयोगारम्भविरोधिपापक्षयहुतुरुक्त: ।। 14 । ।

तत्पूर्वकं कर्मयोगं शिष्टानुष्ठानप्रदर्शनेन

द्रढवत् अर्जुनं प्रत्युनुशास्ति ।एवमित श्लोकेन । ।एवमिति

कर्तृत्वाकतृत्वादिनोक्तप्रकारेणेत्यर्थ: । "ज्ञात्वा कृतं कर्म' इत्युक्ते

ज्ञानस्य कर्भकरणहेतुत्वं सूचितम् । "कर्मभिर्न स बाध्यते' इति च

पूर्वमुक्तम् । अतो विरोधिपापनिवर्तनद्वारा ज्ञानस्य कर्महेतुत्वमिति

व्यञ्जनाय ।ज्ञात्वा विमुक्तपापैरित्युक्तम् । ।कर्मशब्दोऽत्र

मुमुक्षकर्तव्यविषयत्वात् व्यवहितमपि प्रधानप्रकृतं

कर्मयोगमवलम्बत इत्यभिप्रायेण ।उक्तलक्षणमित्युक्तम् ।

।त्वंशब्दो गृहीतस्वयाथात्म्योपदेशतां सूचयतीत्यभिप्रायेण

।त्वमुक्तप्रकारमद्विषयज्ञानविधूतपाप इतयुक्तम् । इमं

विवस्वते (4.1) इत्यादावुदाह्मताझ्र्अ?नुष्ठातार: पूर्वैरिति परामृश्यन्त

इत्यभिप्रायेण ।विवस्वन्मन्वादिणभिरित्युक्तम् । ।पूर्वतरमित्यस्य

क्रियाविशेषणत्वव्युदासायाह ।पुरातनमिति । तदभिप्रेतमाह

।तदानिमेव मयोक्तमिति । एवं प्रवाहानादित्वमिह विवक्षितम् ।

कर्मयोगस्वरूपनिष्कर्षोपोद्घातरूपत्वादस्य ।वक्ष्यमाणकारमित्युक-तम्

।। 15 ।।

।किं कर्मेति श्लोके ।कर्माकर्मशब्दाभ्यां पृथक् ज्ञातव्यभ्रम: स्यादिति

तद्व्युसादयाह ।वक्ष्यमाणस्य कर्मण इति । ""कर्मण्यकर्म य:

पश्येत् (4.18) इत्यादिना कर्माकर्मणोद्र्वयोरप्येककर्मयोगांशत्वं

हि वक्ष्यते; अत्रापि श्लोके तत्ते कर्म प्रवक्षयामीति ह्रुच्यत

इत्यभिप्रेत्य ।वक्ष्यमाणस्य कर्मण इत्युक्तम् । दुर्विज्ञानत्वज्ञापनायाह

।मुमुक्षुणाऽनूष्ठैयमिति व अकर्मेति कर्माभावादिव्युदासायाह ।आत्मनो

याथात्म्यज्ञानमिति । अनुष्टानोपयोगित्वज्ञापनाय ।कर्तुरित्युक्तम् । "कवय:

क्रान्तदर्शिन:' इति प्रसिद्धया अर्थान्तरप्रसिद्धेरत्रानुपयुगाच्च

।विद्वांसअ इत्युक्तम् । ।मोहिता: इत्यत्राज्ञानमन्यथाज्ञाणनं च

विवक्षितम् ; तदुभयसंग्राहायाह ।यथावन्न जानन्तीति । मोहिता:

विप्रकीर्णैश्शास्त्रैरिति शेष: । ।किं कर्म किमकर्मेति द्वयो:

प्रकृतत्वेऽपि "।कर्म प्रवक्ष्यामि', "।
कुरु कर्मैव' (3.8),

"गहना ।कर्मणो गति:' (4.17) इति पूर्वापरपरामर्शेन कर्मण:

प्राधान्यकर्मणस्तद्विशेषणत्वं च विवक्षितमित्यभिप्रायेण

।तच्छब्दाभिप्रेतं वैशिष्टयं व्यनक्ति ।एवमन्तरगतज्ञानमिति ।

संसाराबन्धादिपरमप्रयोजनविवक्षयोक्तम् ।ज्ञात्वा मोक्ष्यस इति । एतावति

निर्दिष्टे ।अनुष्ठायेति कुतो लब्धमित्यत्यत्राह ।कर्तव्याकर्मज्ञानमिति ।

अत्र ।ज्ञात्वेति पदमजहल्लक्षणाया कर-ट्ठमज्ञानानुष्ठाने अपि गृह्णाति;

"कुरु कर्मैव तस्मात्त्वम्' (4.15) इति ह्रनन्तरमेवोक्तम्; अन्यथा

कर्मानुष्ठानविधिधिनैरर्थक्यं च स्यादिति भाव: ।। 16 ।।

।तत्ते कर्म प्रवक्ष्यामीत्युक्ते अनन्तरं कर्मैवोपदेश्यम्, कर्मणो

ह्रपीत्यादि तु कस्यामाकाङ्क्षायामुच्यते इत्यत्राह ।कुतोऽस्येति ।

यस्मादिति ।हिशब्दार्थ: । ।कर्मणो बोद्धव्यमित्यादिरूपेण वचनं

बोद्धव्यांशविशेषनिष्कर्षपरमिति व्यञ्जनाय ।कर्मस्वरूपे

बोद्धव्यमसतीत्युक्तम् । अत्र संबन्धसामान्ये षष्ठी । ।गहना

कर्मणो गति: इत्यत्र ।गतिशब्दो बोद्धव्यप्रकारपर इत्यपि

।स्वरूपशब्दाभिप्राय: । अत्र ।विकर्मशब्देन ""पाषण्डिनो विकर्मस्थान्

(वि.3.18.97) इत्यादाविव न विरुद्धं कर्मोच्यते, तस्यात्रोपयोगाभावात्;

अतोऽत्र ।विशब्दोऽनुष्ठेयवैविध्यपर:; वैविध्यं च तत्र नित्यादिरूपं

प्रसिद्धमित्यभिप्रायेणाह ।नित्येति । ।आदिशब्देन रक्षणतदुपायप्रवृत्त्यादि

गृह्रते । अत्र ।विकर्माकर्मशब्दयो: प्रतिषिद्धकर्मतूष्णींभावपरत्वेन

।परव्याख्यानं "गहना कर्मणो गति:' इति निगमनेन विरुद्धम् । तत्रापि

विकर्माद्युपलक्षणार्थत्वं क्लिष्टम्। एवमुत्तरेष्वपि श्लोकेष्वैवदमथ्र्येन

व्याख्यानं निरसत्म् । ।यस्मादिति पूर्वमुक्ततत्वात्, ।गहनेत्यत्र तस्मादिति

भाव्यम् । ।गहणत्वं दुष्टप्रेवेशत्वम्; तच्चात्रज्ञानत इत्यभिप्रायेण

।दुर्विज्ञानेत्युक्तम् ।।

ननु मुमुक्षो: फलान्तरार्थेऽपि कर्मणि किं बोद्धव्यमिति शङ्कायां

वक्तव्यं परिशेषयितुं तस्योक्ततामाह ।विकर्मणीति । किमत्र

प्रमाणमित्यत्राह ।तदेतदिति । ।नेह प्रपञ्जयते अस्माभिर्भगवता वेति

शेष: । एवमुपोद्घात: स्थित:; अथ प्रकृतमुपदिश्यत इत्यभिप्रायेणाह

।कर्माकर्मणोरिति । कर्मण्यकर्मय: पश्येदिति कर्मणि बोद्धव्यमुच्यते

। ।अकर्मणि च कर्म: य: इति तु ज्ञाने । ।अकर्मशब्दस्यात्र

।परोक्तकर्माभावरस्वतन्त्रज्ञाननिष्ठाविषयतामपास्य तदन्यव्युत्पत्त्या

आसत्त्या च सिद्धमाह ।अकर्मेति । ।अत्र-कर्मयोगपदेशप्रकरण इत्यर्थ: ।

अन्वयार्थं दर्शयति ।कर्मणीति । अवधारणं शङ्काहेतुभूतविरोधद्योतनेन

ज्ञानकर्मणोरनन्वितत्वपरिहारार्थम् । नन्विदमयुक्तम्,

अन्यानुष्ठानेऽन्यदर्शनस्यानपेक्षितत्वात्; अन्यÏस्मन्ननुष्ठीयमाने

तदन्यज्ञानस्य दुष्करत्वात्; अन्यÏस्मश्चानुसन्धीयमाने तदन्यस्य

कर्तुमशक्यत्वात्;अन्यतरत्रेतरदर्शनेन च तदन्यप्रतिक्षेपश्च

स्यादितित्यभिप्रायेण चोदयति ।किमुक्तम् भवतीति । यदेतत्

युगपदशक्यत्वं चोदितम्, तत् किं शास्त्रार्थत्वाकारभेदेन, अन्यथा

वेति विकल्पमभिप्रेत्य प्रथमं दूषयति ।क्रियमाणनमेवेति ।

ज्ञानविशिष्टस्य कर्मण: उपायतया विहितत्वेन परस्परमन्वितत्वमिति न

भिन्नशारुाार्थत्वमिति भाव: । एतेन परत्परनिरपेक्षार्थद्वयपरतया

परस्परप्रतिक्षेपशङ्काऽपि प्रत्युक्ता । द्वतीयेऽपि किं

स्वरूपभेदमात्रेण दुष्करत्वम्, उतविरुद्धतत्वात्? न प्रथम:;

एकैनैव प्रक्षणगमनभाषणादेर्युगपदनुष्ठानात् । न द्वितीय:;

गमनस्थानयोरिव ज्ञानकर्मणोर्विरोधाभावात् । न चानुयपयोग:,

ध्यानविशेषविशिष्टविषनिर्हरणार्थचेष्टाजपादिन्यायादित्यभिप्रायेणाह

।क्रियमाणे हीति । ।तदुभयम्---कर्मणो ज्ञानविशिष्टत्वं ज्ञानस्य

कर्मविशिष्टत्वं च । बुद्धिमानित्यत्र ""भूमनिन्दाप्रशंसासु

नित्य़योगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादय:

(अष्टा.बा.5.94)इति प्रत्य़वशात् प्रकृष्टा बुद्धिर्विवक्षितेत्याह

।कुत्स्नशास्त्रार्थविदिति । कृत्स्नकर्मकृदिति ह्रनन्तरमुच्यते;

तदनुरूपैव च बुद्धित्राभिधीयेति भाव: । ।बुद्धिमान् कृत्स्नकर्मकृदिति

ज्ञानेऽनुष्ठाने च अभिहिते तदधीनफलयोग्यत्वमेव हि योग्यपर्यायेण

।युक्तशब्देनात्राभिधेयमित्यभिप्रेत्य ।मोक्षायार्ह इत्युक्तम् । ।स बुद्धिमान्स

युक्त इति तच्छब्दद्वयेन वाक्यभेदे सिद्धे ।कृत्कस्नर्मकृदित्येतदपि

भिन्नवाक्यमेव भवितुमर्हति; भवितुयफलयो; ज्ञानफलयो:

पौष्कल्येवानुष्ठान पौष्कल्यस्यापि प्रशंसाहेतुत्वे प्राधान्यादित्यभिप्रायेण

तच्छब्दानुष्ङ्गमाह ।स एव कृत्स्नकर्मकृदिति ।।

प्रत्यक्षेणेति । प्रत्यक्षविरुद्धं न शास्त्रेणोपपत्त्या वा

प्रतिपादयितुं शक्यमिति भाव: । ।क्रियमाणस्येति । न हि

चिरप्रध्वस्तं स्मृतिदशापन्नं ज्ञानमात्रपरिशेषात्ज्ञानविषयस्य

ज्ञानकार्यस्य च कथं ज्ञानैक्यमित्यभिप्रेतम् । ।कथमुपपद्यत

इति । नेदमुपपत्तिसहम्; 1.यदिपरं दृष्टिविधानादाविव भावनीयम्

। तदा आत्मयाथात्म्यानुयसन्धानगर्भमित्यादि नोपपद्यत इति भाव:।

।सर्वशब्दासङ्कोचात् ।द्रव्यार्जनादिसंग्रह: । कामसङ्कल्पवर्जिता इत्यत्र

न तावत् काम एव सङ्कल्प इति समास:, पर्यायत्वादिप्रसङ्गात् ।नापि

कामानां सङ्कल्प इति उपयुक्तोभयपदार्थप्रधाने द्वन्द्वे संभवति

एकपदार्थप्रधानतत्पुरुषायोगात् । अत: कामसङ्कल्पाभ्यां वर्जिता

इत्येवार्थ इत्यभिप्रेत्याह ।कामवर्जिता इति । ।वर्जित शब्दस्य

प्रत्येकमन्वयं दर्शयता द्वन्द्वो ह्रं समासान्तरात्प्बल इति

सूचितम् । कर्मप्रकरणे कामो हि फलसड्कल्प इत्यभिप्रायेणाह

फलसङ्गरहिता इति । सङ्कल्पोऽत्र न कर्मानुष्ठानसङ्कल्प:,

तदभावेऽनुष्ठानायोगात् । नापि फलसङ्गल्प:, कामशब्देन कृतकरत्वात्

। अतोऽत्र प्रकृतिवियुक्तात्मोपदेशप्रकरणे तदुपयुक्त: कश्चिदर्थो

वक्तव्य इत्यभिप्रायेण ।प्रकृत्येति । ।समित्येकीकारे, कल्प: भ्रान्तिज्ञानम्

।प्रकृत्येति । देहरूपेण परिणतयेति शेष: । तद्गुणैरात्मन एकीकरणं

नाम-गुणहेतुके कर्मविशेषे स्वहेतुत्वानुसन्धानम्; यद्वा प्रकृतिगुणभूतानां

सत्त्वरजस्तमसां देवत्वमनुष्यत्वादिसन्निवेशानां स्थौल्यकाश्र्य

शुक्लकृष्णादीनां च स्वात्मानं प्रति गुणत्वेनानुसन्धानम् । एतेन 2.अस्वे

गृहादौ स्वमिति बुद्धिरपि संगृहीता भवति । एवंविधकामसंकल्पराहित्ये

।पण्डितशब्दाभिप्रेतं हेतुमाह ।प्रकृतिवियुक्तेति । ।पण्डितं

हेयोपादेहात्मादिविवेकज्ञानवन्तम् । ऊहापेहक्षमा हि बुद्धि: पण्डा ।

चरमोक्तस्यापि पण्डितशब्दस्य ।तं पण्डितमित्युद्देश्यनिवेश:,

पापनिवर्तकत्वलक्षणज्ञानप्राशस्त्यविध्यौचित्यात् ।

अप्रस्तुतस्वतन्त्रज्ञानान्तरव्यवच्छेदायोक्तं ।कर्मान्तर्गतेति । न

ह्रत्र क्रियमाणमेव कर्म ज्ञानग्निना दह्रते,निष्फलत्वप्रसङ्गात् ।

नाप्युत्तरम्; तस्य विद्यामाहात्म्यनित्र्यत्वात्; अत: ।प्राचीनेत्युक्तम्

। ।तत्त्वज्ञा इति । प्राप्यस्य प्राप्तुश्चात्मन: प्रापकस्य

च कर्मयोगस्यासन्दिग्धाविपरीतस्वरूपज्ञा: ।बुधशब्देन

विवक्षिता इति भाव: । शङ्कोत्तरत्वं निगमयति ।अत इति ।। 19 ।।

अनन्तरश्लोकस्यार्थान्तरपरत्वपौनरुक्त्ययुदासायाह ।एतदेव विवृणोतीति

। नित्यतृप्त इत्यत्र नित्यं तृप्त इति नार्थ:, तृप्तिहेत्वनुक्ते:;

कर्मफलासङ्गं त्वक्त्वेति कामवर्जितत्वविवरणेन अनित्यत्यागे

अभिहिते ।सङ्कल्पवर्जितत्वविवरणतया नित्यस्वीकारस्य

च वक्तुमुचितत्वादित्यभिप्रेत्य नित्ये स्वात्मन्येव तृप्त

इत्युक्तम् । ।निराश्रय:इत्यत्र न तावत् आश्रयभूतदेशादिमात्रं

निषिध्यते, तत्परित्यागस्य अशक्यत्वात्; अतो ऽत्र लौकिकानां य

आश्रयणीयत्वबुद्धिविषय:, तस्याऽऽश्रयणीयत्वबुद्धिरेव निषिध्यत

इत्यभिप्रेत्योक्तम् ।अस्थिरेत्यादि । तद्ववृत्तस्य आकाङ्क्षया ।य इत्युक्तम्

। ।अभिशब्दार्थ: आभिमुख्यं तदेकपरता । ।नैव किंचिदित्युक्ते

सामान्यतो ज्ञानमपि निषिद्धंस्यादिति तद्व्युदासायोचितं विशेष्यमाह

।नैव किंचित्कर्मेति । "कर्मण्यभिप्रवृत्तो ऽपिनैवकिंचित्करोती'ति

व्याहतमिदमित्याहशङ्कयाह ।कर्मापदेशेनेति । विपरीतविषयसंचरणेन

ज्ञाणाभ्यासविरोधिनामिन्द्रियाणामनुकूलविषयसंचरणमात्रं हि कर्मयोग

इति भाव: । । 20 ।।

।यस्य(19)इति श्लोकेन ज्ञानकारत्वमुपपादितम्; ।त्यक्त्वा(20) इति श्लोकेन

तदेव विवृतम् । अत:परं श्लोकत्रेयेण तदेव विशोध्यत इत्यपुनरुक्तमाह

।पुनरपीति । उक्तार्थस्य दुज्र्ञानत्वात् विशदप्रतिपत्त्यर्थम्

पूर्वं बहुप्रेदेशेषु व्याकीर्णाभिहितानां संकलय्य प्रतिपत्त्यर्थम्,

अस्यैवार्थस्याऽऽदर विषयत्वद्योतनार्थं चोक्त एवार्थ: पुनरपि विविच्य

प्रतिपाद्यते । कर्मपौष्कल्यादिविषयसर्वाशीर्निषेधपरत्वव्युदासाय

।निर्गतफलाभिसन्धिरित्युक्तम् । ।यतचित्तात्मेत्येतत् नियन्तव्यविषयम्

। तत्र नियन्तव्यस्य नियन्तृव्यतिरेक: स्वारसिक: । ।आत्मशब्दस्य

चित्तस्वरूपाद्यर्थत्वं तु निरर्थकम् । अतो मनोविषयत्वे युक्ते

तदवस्थाविशेषरूपस्य बुद्धयहङ्काराव्यवृत्तिसहपठितस्य

चित्तस्य वाचकोऽयं ।चित्तशब्द इत्यभिप्रायेण

।यतचित्तमना इत्युक्तम् । विषयान्तरचितारहितमना इत्यर्थ: ।

""अध्यवसायाभिमानचिन्तावृत्तिभेदान्मनएव बुद्धयादिशब्दो महदादिवाचक:।

अत्र चित्तस्य पृथगभिधानं मनसो बुद्धयहङ्कारावस्थयोरप्युपलक्षणम्

। ।प्रकृतिप्राकृतेति सर्वशब्दाभिप्रेतभोग्यभोगोपकरणादिसंग्रह:

। सर्वविषय: परिग्रह: ।सर्वपरिग्रह: इति ।बेजयन्ती ।

शारीरशब्दसामथ्र्यात् शरीरावधिकत्वं सिद्धमिति ।यावज्जीवमित्युक्तम्

। ।शरीरं शरीरसंबन्धि; शरीरिणो दुस्त्यजमिति भाव:। यद्वा

बुद्धिव्यापारभूतफलोसङ्गादिराहित्यात् ।शरीरमित्युक्तम् । अथवा शारीरमेव

शारीरशब्द: । अत्र पारिव्र्ज्यासङ्गतेद्र्रव्याग्निसाध्यकर्मव्यवच्छेद:

1.परोक्तो न युक्त: व ।किल्बिषशब्दफलितमुक्तम् ।संसारमिति ।

"शारीरं केवलं कर्म, इत्युक्ते यज्ञादिकर्मणोऽपि निषेध: प्रतीयेतेति

तद्व्युदासार्थं ।केवलशब्दस्यात्र व्यवधाननिषेधपरत्वमाह--।ज्ञानेति

।। 21 ।।

'शारीरं कर्म कुर्वन्' इत्युक्ते शरीरधारणार्थद्रव्यार्जनादिष्ववश्यं

प्रवृत्ति: स्यात्; ततश्चावर्जनीया: शस्त्रपातादिशीतोष्णमृदुपरुषादिस्पर्शा:;

तत्र च प्रवृत्तिविघातिषु क्रोध: स्यात्; विहतायां च प्रवृत्तौ

मोघप्रयत्नतया संताप:, लाभे प्रहर्षश्चस्यातामिति कर्मयोग

एवाऽऽत्मदर्शनविरोधिसमस्तवैरिणामुत्थापक: प्रसज्यत इति

शङ्कानिरासाय दृष्टफलेष्वसङ्ग उच्यते ।यदृच्छेति श्लोकेन ।

तत्र शरीरधारणाद्यर्थेषु साभिसन्धिकात्यन्तव्यापारनिवृत्तिपरं

प्रथमपादं व्याख्याति ।यदृच्छोपनतेति । समस्तव्यापारनिवृत्तौ

विवक्षितायां स्वयमुपनतानां निगरणादिव्यापारोऽपि निवृत्त: स्यात् । अतो

व्याप्रियमाणस्यैवाभिसन्ध्यादिनिवृत्तिरिह विवक्षिता । एतेन यदा स्वयमेव

यत्किञ्चिच्छरीरधारणवस्त्वागम:, तदा ततोऽतिशयितमाधुर्यादिविशिष्टेषु

न प्रवर्तितव्यमित्यप्युपदिष्टं भवति । ।यावदित्यादिना

"मात्रास्पर्शास्तु'(2.14)इत्यादिझ्र्नाट पूर्वप्रपञ्चितं स्मारितम् । ।अनिष्टेत्यादि

। यथा आतपादिहेतुषु तपनादिषु स्वकर्मनिरूपणेन न क्रोध:, यथा

छत्रादिभिरातपनिवारणादिमात्रमेव क्रियते, तावदत्रापि कर्तव्यमिति भाव:

। ।युद्धादीत्यादिना "सुखदु:खे समे कृत्वा' (2.38) "सिद्धयसिद्धयोस्समो

भूत्वा' (2.48) इत्यादिकं स्मारितम् । कृत्वेत्यस्य सामथ्र्यात् ।कर्मैवेत्युक्तम्

। बन्धहेतौ सत्यपि न बध्यत विरोधव्युदासाय ।अपिशब्दतात्पर्यमाह

।ज्ञाननिष्ठां विनेति । कर्मयोगानुष्ठानपूर्वकस्वतन्त्रज्ञानयोगं

विनाऽपीत्यर्थ: । ।न निबध्यत इत्यस्य कर्मणैव ज्ञाननिष्ठाफलसिद्धो

तात्पर्यमाह ।न संसारमिति ।। 22 ।।

त्यक्त्वा "कर्मफलासङ्गम्'(20) "त्यक्तसर्वपरिग्रह:',

"यदतचित्तात्मा' (21) इत्येतै: पूर्वं बुद्धिपूर्व:

सङ्गपरित्यादिरुक्त: । इदानीं तथाविधनियमवतोऽवस्थान्तरे

यज्ञाद्यर्थद्रव्यार्जनादिव्यापृतस्यापि स्वरसत एव सङ्गाभावादिकं

वदन् अनन्तस्यापि विरोधिकर्मण: कर्मयोगप्रभावान्निवृत्तिमाह

।गतसङ्गस्येति श्लोकेन । पूर्वोक्तैर्बुद्धिपूर्वसङ्गत्यागादिभि:

आत्मज्ञाने मनोऽवस्थितम् । अतो नेदानीं नियन्तव्यम् । ततश्च

सङ्गोऽपि निरतिशयभोग्यस्यात्मनोऽनुसन्धानात् सवासनं स्वयमेव

गत: । एवं सङ्गेऽपि निवृत्ते न स्वयं सर्वपरिग्रहास्त्याज्या:,

किंतु तैरयं मुक्त: । एवं जितसमस्तजेतव्यस्य यथावस्थितोपाये

निष्प्रत्यूहं प्रवर्तमानस्य आत्मसाक्षात्कारतत्प्राप्तिविरोधिपूर्वकृतं

पुण्यपापरूपं सर्वं कर्म विनश्यतीत्येतदखिलं दर्शयति ।आत्मविषयेति

। ।कर्मशब्द: प्रथमान्त: ।प्रवीलीयते इत्यनेनान्वित:; ।आचरत इत्यस्य

तु कर्मविषयत्वं स्वरसिद्धम्; अन्यथा ।समग्रं प्रवीलयत इत्येतदपि

साकाङ्क्षं स्यादित्येतभिप्रेत्य ।यज्ञादिकर्मनिर्वृत्तये वर्तमानस्येत्यादि

उक्तम् । ।यज्ञायेत्यनेन स्वकुक्षिभरणादिमात्रनिरास: । ।समग्रशब्दस्य

उपसर्गस्य चाभिप्रायात् ।निश्शेषमित्युक्तम् । ""सहरुोण फलेन वर्तत

इति परव्याख्यानमप्रसिद्धार्थत्वादर्थसिद्धकथनरूपत्वाच्च हेयम् ।

धातो:अश्लेषे कारणापत्तौ च प्रयोगात् तद्वयुदासाय ।क्षीयत इत्युक्तम् ।।

23 ।।

।ब्रााहृार्पणमिति श्लोकोऽपि प्राकारभेदेन कर्मणो ज्ञानकारत्वोपपादक इति

पूर्वेण सङ्गतिं दर्शयति ।प्रकृतीति । ।सर्वस्य नित्यनैमित्तिकादिरूपस्य

। सपरिकरस्य रुाुक्कूरुाुवहविरादिविशिष्टस्येत्यर्थ: ।"

ब्राहृशब्द: पुरुषोत्तम एव मुख्यवृत्त:' इति ।शारीरकभाष्यारम्भे

प्रपञ्चितम् । अत्र च मुख्ये संभवति गौणत्वमन्याय्यम्; सर्वस्य च

परमपुरुषात्मकत्वानुसन्धानं शास्त्रसिद्धम् । स्वयं च वक्ष्यति,

""मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् (9.16)इति ।

इत्यभिप्रायेण ।परब्राहृभूतपरमपुरुषात्मकत्वानुसन्धानोक्ति:

। अत्र 1.ब्राहृव्यतिरिक्तार्पणहविरादिमिथ्यात्वभावनं ब्राहृण

एव संभवति वाक्यभेदायोगात्, ब्राहृार्पणमित्यस्य व्यस्तपदत्वेन

वाक्यभेदभ्रमव्युदासायाह ।ब्राहृार्पणमिति हविर्विशेष्यत इति । ब्राहृणि

।अपर्णं प्रक्षेपो यस्येति समासे व्यधिकरणबहुव्रीहि: स्यात्; ब्राहृाग्नौ

हुतमित्यनेन पौनरुक्त्यं च । अत: समानाधिकरणबहुव्रीहिरयम्;

।अर्पणशब्दश्चात्र करणव्युत्पत्त्या रुाुगादिविषय: ।

अधिकरणादिव्युत्पत्तावपि पूर्वोक्तपौनरुक्त्यादिदोष इत्येतदभिप्रेत्याह

।अप्र्यतेऽनेनेति । ब्राहृकार्यत्वादिति हेतु: सर्वत्रानुषञ्जनीय:

। ब्राहृणि रुाुगादिदृष्टिविधिभ्रमव्यादासाय ब्राहृकार्यत्वाद्ब्राहृ,

।स्वयं च ब्राहृभूतं, ब्राहृभूतेऽग्नावित्यादि उक्तम् व ।ब्राहृणा

हुतमित्यत्र ।अर्पणहविरग्निशब्दवत् विशेष्यनिर्देशाभावात् करणस्य

च ब्राहृार्पण।मित्युक्तत्वात् पारिशेष्यात् कर्तरि तृतीयेति व्यञ्जनाय

।ब्राहृणा कत्र्रा हुतमित्युक्तम् । नन्वत्र पूर्वोत्तरार्घयोरन्वयो

न दृश्यते; न च पूर्वार्घं पृथग्वाक्यम्, अपूर्णत्वात्; अत आह

।इतीत्यादि ।समधत्त इत्यन्तम् । ब्राहृात्मकतया ब्राहृमयमिति ।

तत्कार्यत्वेन,तच्छरीरतया वा तदात्मकत्वात् तदिति व्यपदेशार्हमित्यर्थ:

। अएतेन ।ब्राहृकर्मसमाधिशब्दोऽपि व्याख्यात इत्याह ।स इति ।

ब्राहृात्मके कर्मणि ।समाधि: अनुसन्धानं यस्य स तथोक्त: । गत्यभावादिह

व्यधिकरणबहुव्रीहि: । यद्वा ।समाधत्त इति समाधिशब्दार्थ:; ब्राहृरूपं

कर्म समाधत्ते-अनुसन्धत्ते । ।ब्राहृैव तेन गन्तव्यमित्यत्रापि

कर्मयोगसाक्षात्कार्यमात्मस्वरूपमत्र ।रुाुग्धविरग्नयादिवत्

ब्राहृशब्देनोच्यत इत्याह ।ब्राहृात्मकतयेति । फलितं ज्ञानकारत्वं

वदन् वाक्यार्थमाह ।मुमुक्षुणेति । ।आत्मावलोकनसाधनमित्यनेन ब्रोहृ

।गन्तव्यमित्यस्यर्थो दर्शित: व ।साक्षात्काच्छब्देन ।न ज्ञाननिष्ठेत्यादिना

च एवकारार्थो विवृत्त: ।।

उक्तार्थसंगतिपूर्वकं ।दैवमेवेत्यादे: ।प्राणान् प्राणेषु जुह्वति (4.30)

इत्यन्तस्य प्रघट्टकस्यार्थमाह ।एवं कर्मण इति । देवसंबन्धि ।दैवम्,

देवसंबन्धित्वं च तदर्चनरूपत्वमिति ।देवार्चनरूपमित्युक्तम्

। ।दैवमेवेत्यवधारणेन ।अपरे इत्यादिना च विकल्प: सिद्ध: ।

ततश्च देवसंबन्धमात्रं साधारणं नात्र वाच्यम् । अतोऽर्चनशब्देन

वक्ष्यमाणयागहोमादिभ्यो व्यावृत्ति: सूचिता । यागादेरपि देवार्चनत्वेऽपि

तत्तद्देवतारूपादिसपर्यायां ह्रर्चनशब्द: प्रसिद्ध: । "कर्मयोगेन

योगिनाम्'(3.3) इत्युपक्रमवत् अत्रापि ।योगिशब्द: कर्मयोगनिष्ठविषय

इति ज्ञापनाय ।कर्मयोगिन इत्युक्तम् । दैवस्य यज्ञत्वेन दृष्टिरत्र

विधीयत इति भ्रमव्युदासाय निरन्तरानुष्ठानप्रयुक्तचरणपर्याययेण

व्याख्याति ।सेवन्त इति । "सेवा भक्तिरूपास्ति:' इति नैघण्डुका: । अत्र

सेवोपासनशब्दौसेव्यं प्रति करणत्रयस्यानुकूलवृत्तिनैरन्तर्यपरौ;

न तु ध्यानमात्रपरौ; भक्तिशब्दस्तु ध्यानस्य प्रीतिरूपतां वक्ति । ननु

मन्वादिभि:, ""देवताभ्यार्चनं चैव समिदाधानमेव च (मनु2.176)

इति नित्यकर्मतया स्मरणात् देवातार्चनरूपो यज्ञ: सर्वेषामपि

कर्मयोगिनामवश्यकर्तव्य:; स कथं विकल्प्यत इत्यत्राह (।तत्रैव

निष्ठां कुर्वन्तीत्यर्थ इति ।

ननु ब्राहृार्पणमित्यत्र श्लोके कश्चित् कर्मयोगिभेदोऽभिहित:

अर्पंणहविरग्नयदिविशेषनिर्देशेनावान्तरभेदप्रतीते:

। तत्र च तेनेति कर्ताऽपि निर्दिष्ट:; किंतु सर्वेषामपि

कर्मयोगानां ब्राहृात्मकत्वानुसन्धानाख्यसाधारणगुणविषय:; तत्रैव

ब्राहृकर्मसमाधिनेति सामान्येनोक्ते: । अत: ।अर्पण हविरादिग्रहणं

तत्तत्कर्मयोगभेदापेक्षिततत्तत्कारकविशेषोपलक्षणार्थम् ।

अत एव निवृत्तिलक्षणयज्ञप्रसङ्गात् दैवमेवापरे इत्यादिभि:

प्रवृत्तिलक्षणयज्ञोक्तिरिति ।परोक्तं परास्तम् ।

"ब्राहृाग्नावपरे यज्ञम्' इत्यत्र यज्ञस्वरूपस्य, परमात्मादेर्वा

सक्षात् होतव्यत्वहोमसाधनत्वानुपपत्तेर्यज्ञसाधनलक्षणया

द्वितीयान्तयज्ञशब्दो हविर्विषय:; तृतीयान्तस्तु ।रुाुगादिविषय इत्याह

।अत्रेति । ननु "ब्राहृाग्नौ ब्राहृणा हुतम्' (24)इति पूर्वमेवोक्तम्;अत्रापि

"ब्राहृाग्नावपरे' इत्युच्यते; अतोऽत्र यज्ञं यज्ञेनत्यनयोरर्थथोऽन्यथा

वर्णनीय:; इतरथा पौनरुक्त्यप्रसङ्ग:; सर्वकर्मयोगसाधारणस्यार्थस्य

विशेषतया निर्देशोऽप्यनुपपन्न: इत्यत्राह ।ब्राहृार्पणं ब्राहृहविरिति

न्यायेनेति । अत्र ।यज्ञशब्दात् ।जुह्वतिशब्दाच्च यागहोमयोर्निष्ठाया

एव विवक्षितत्वादवान्तरत्वमपौनरुक्त्यं चोपपन्नमिति भाव: ।

अत्राग्नित्वेन कल्पिते ब्राहृणि यज्ञनिरस्तानि । कर्मप्रकरणाच्चात्र

सर्वत्र मानसयज्ञत्वक्लृप्तिपक्षोऽप्ययुक्त: ।। 25 ।।

।श्रोत्रादीनीत्यत्र संयमस्य साक्षादग्नित्वाभावात् श्रोत्रादेश्च

होतव्यत्वाभावात्तात्पर्यमाह । अन्य इति । संयमस्याग्नित्वं श्रोत्रादीनां

निव्र्यापारत्वलक्षणभस्मसात्करणात् । नन्विन्द्रियनियमनमपि

सर्वकर्मयोगिसाधारणं कथमत्र विशिष्योच्यत इत्यत्रोक्तम् ।संयमने

प्रयतन्त इति । एवमुत्तरत्रापि ।प्रयतन्त इत्यनेयोस्तात्पर्यं ग्राह्रम्

। तथा ।निष्ठाशब्देऽपि । अत्र प्रतीन्द्रियं संयमभेदात् ।संयमाग्निष्विति

बहुवचनम् । ।शब्दादीनित्यत्र इन्द्रियेषु शब्दादिविषयान् समर्पयन्तीति

भ्रमव्युदासायाह--।इन्द्रियाणां शब्दादिविषयप्रवणतानिवारण

इति । इन्द्रियाणां नियमनं हि ।श्रोत्रादीनीत्यादिनोक्तम्; अत्र तु

"इन्द्रियेभ्य: परा ह्रर्था अर्थेभ्यश्च परं मन:' (कठ.1.3.10)

इतिवत् विषयमनसोर्हि नियमनं क्रमेणोच्यते । विषयस्य नियमनं

नाम दूरीकरणम्; तत्सन्निधिपरिहार इति यावत् । तत एवेन्द्रियाणां

तत्प्रवणता निवर्तत इति भाव:। कस्तर्हीन्द्रियेषु विनाशो नाम

तत्संबन्धविनाशो विवक्षित:-इति । 1. यद्वा ।श्रोत्रादीनीत्यत्र

विषयसन्न्निधिपरहारो विवक्षित:; इह तु सन्निहितानामपि

विषयाणामकञ्चित्करत्वापादनमिति विभाग: । ।विषयप्रवणतानिवारण

इत्यनेनात्यन्तसमस्तविषयनिवृत्तेर्दुष्करत्वात्निषिद्धादिभ्योऽत्यन्तनिवारणं

धर्माविरुद्धेष्वतिसङ्गनिवृत्तिश्च विवक्षिता ।। 26 ।।

इन्द्रियार्थयोर्नियमने अभिहिते, ""अर्थेभ्यश्च परं मन: इति क्रमेण

मन एव नियन्तव्यतया वक्तव्यम्; अतोऽत्र ।आत्मसंयमशब्देन

मनोनियमनमुच्यत इति ज्ञापयति ।मनस्संयमयोगाग्नाविति । मनस्संयम

एव योगसाधनत्वादिना ।योग:; मनस्संयमस्य वा ।योग: प्राप्यादि:; तस्य

।ज्ञानदीपितत्वं देहातिरिक्तशुद्धात्मस्वरूपानुसन्धानमूलत्वम् । श्रोत्रादीनां

शब्दादिनामिव चात्रझ्र्पिट होतव्यतयोक्तानामिन्द्रियकर्मणां प्राणकर्मणां च

नियमनमुच्यते चेत्, पौनरुक्त्यादिदोष: स्यादिति शङ्काव्युदासायाह ।मनस

इति । ।इन्द्रियकर्म दर्शनस्पर्शनादिकं वचनादानादिकं च; ।प्राणकर्म

उच्छ्वासनिश्वासादिकम् । यद्वा प्राणसंवादादिसिद्ध: इन्द्रियव्यापारदिहेतु:

सूक्ष्मो व्यापारविशेष:। तेन वक्ष्यमाणप्राणायामात् व्यवच्छेद: । अत्रापि

।प्रणतानिवारणशब्दतात्पर्यं पूर्ववत् । श्रोत्रादीनां पूर्वमुपादानात्

कर्मेन्द्रियमात्रनियमनपरो ।वाऽयं श्लोक: ।। 27 ।।

प्रत्येकं ।यज्ञशब्दप्रयोगात् बहुविधकर्मयोगभेदनिष्ठा उच्यन्ते

। तत एव ।अपरशब्दोऽपि प्रत्येकमन्वित: । तत्र द्रव्यर्यज्ञा

येषां ते द्रव्यज्ञा: । यद्वा द्रव्यात्मका युज्ञा येषामिति विग्रह:

। द्रव्यशब्दसामथ्र्यात् तत्साध्ययज्ञविशेषा: सर्वे संगृहीता

इति देवातार्चनदानयागहोमा: पृथगुक्ता: । अतो ।द्रव्ययज्ञा

इत्यादि बहुवचनमपि तत्तदवान्तरभेदविषयमिति भाव: । ननु

देवतार्चनयागादे: पूर्वमेवोक्तत्वेनापौनरुक्त्यात् ।। तर्हि दानयज्ञा

इति विशिष्य वक्तव्यम् ।। तदपि न, अर्चनदानयागहोमयज्ञानां

चतुर्णामपि तपोयज्ञादिभ्यो व्यावृत्तावान्तरसंग्रहकसूचनार्थतया,

न्यायार्जितद्रव्यसाध्यत्वज्ञापनार्थं तया च सामान्यशब्दोपयोगात् ।

तदेतदभिप्रेत्योक्तम् ।एते सर्वे द्रव्ययज्ञा इति । यद्वा अर्चनादिस्वरूपस्य

यज्ञत्वं प्रागुक्तम्; इह तु तदर्थद्रव्यार्जनादेरेवेत्यभिप्रायेण

।न्यायत इत्यादि ।प्रयतन्ते इत्यन्तमुक्तम् । ।तप: शारुाीयो

भोगसङ्कोच:;तदवान्तरभेदप्रदर्शनम् ।कृच्छ्रेत्यादि ।

।योगयज्ञा: इत्यत्र ।योग: संयोग:, प्राप्तिरित्यर्थ: । सा चात्र

पुण्यतीर्थद्यभिगमनतन्निवासादिरूपा विवक्षितेत्यभिप्रायेणाह पुण्यतीर्थेति

। ।पुण्यस्थानशब्दोऽत्र देवतास्थानाश्रमजनपदविशेषादिसंग्राहक:

। नन्विह योगशब्द: साक्षात्काद्योगे कर्मयोगमात्र वा किं न वर्तत

इत्यत्राह ।इहेति । कर्मनिष्ठाप्रकरणत्वात् साक्षाद्योगिविषयत्वं न

युक्तम्; तद्भेदप्रकरणत्वात् तत्सामान्यविषयत्वं चानुचितम्; तद्भेदेषु

च पारिंशेष्यात् योगशब्दसामाथ्र्याच्च तीर्थादिप्राप्तिरेव ग्राह्रा । सूचितं

चैतत् ।संग्रहे परमाचार्यै:, "कर्मयोगस्तपस्तीर्थदानयज्ञादिसेवनम्'

(23)इति इति भाव: । स्वाध्यायाभ्यासतदर्थज्ञानयो: पृथग्धर्मत्वेन

पृथग्यज्ञत्वझ्र्त्वेनटनिर्देशोपपत्ते:,द्वन्वद्वस्य प्राधान्याच्च

विभज्य निर्दिशति ।केचित्स्वाध्यायाभ्यासपरा इति । स्वाध्याय

झ्र्इतिट सहपाठौचित्यादात्मज्ञानस्य च सर्वसाधारणत्वात्

अर्थज्ञानस्यानुष्ठानेऽप्युपगयोगात् ।केचित्तदर्थज्ञानाभ्यासपरा

इत्युक्तम् । ।परशब्दोऽत्र साधारण्यव्यवच्छेदाय

तन्निष्ठतामाह । ।यतिशब्दस्यात्र आश्रमविशेषपरत्वानौचित्यात्

सर्वकर्मयोगनिष्ठसाधारणविशेषपरत्वौचित्याच्च

प्रकृतिप्रत्य़यार्थमिविभागेन निर्वक्ति ।यतनशीला इति ।

सर्वप्रयोगानुगत: सर्वकर्मयोगनिष्ठसाधारणश्च सङ्कल्पोऽत्र

।व्रतशब्दार्थ इत्यभिप्रत्य ।दृढसङ्कल्पा इत्युक्तम् ।

संशितत्वमत्राकुण्ठत्वम् । तच्च दृढत्वमेव ।। 28 ।।

।प्राणायामपरायणा: इत्यनेन वर्गत्रयस्य सामान्यसंग्रह:

क्रियत इति व्यञ्जनाय ।प्राणयामेषुय निष्ठां कुर्वन्तीति पृथग्वाक्यं

कृतम् । प्राणायामनिष्ठानामवान्तरभेदज्ञापनाय ।पूरकेत्यादिना

प्राणायामावान्तरभेदप्रदर्शनम् । तत्तद्भेदप्रतिपादकांशं विविनक्ति

।अपान इत्यादिना । ऊध्वप्रवृत्तस्य प्राणस्य अध: प्रवेशनं हि पूरक:

। ततश्च ।अपाने जुह्वतीत्येतत् उपचारदुपपन्नम् । एवमध:स्थितस्य

वायोरूध्र्वप्रवर्तनं हि रेचक इति प्राणेऽपानमित्यप्यु(त्यु)पचरितम्

। वायोरूध्र्वाधोगमननिवारणेनावस्थापनं कुम्भक इति ।प्राणपानगती

रुद्ध्वेध्यादेरभिप्राय: । ।प्राणान् प्राणवृत्तिभेदानित्यर्थ: । आहारनियमस्तु

दृष्टादृष्टोपकारद्वारा सर्वप्राणायामासाधरणतया विहित इत्याह

।प्राणायामपरेषु त्रिष्वपीति ।।

किमेतेषामुच्चावचकर्मयोगझ्र्भेदटनिष्ठानामवान्तरफलभेदोऽस्ति, किं

प्राणयामझ्र्आदिटनिष्ठानां यज्ञादिकं त्याज्यमिति शङ्काद्वयं निराक्रियते

।सर्वेऽपीति श्लोकेन । ।स्वसमीहितेष्विति वचनादविशिष्टफलतया विकल्पे

न्याय्ये तत्तत्सामाथ्र्याद्यनुसारिणी स्वच्छैव हि विशेषनियामिकेति सूचितम्

। सामान्यस्य यज्ञशब्दस्य असङ्कोच(शब्दस्य संकोच?)प्रदर्शनाय

।सहयज्ञैरित्यादिकमुक्तम् । यज्ञक्षपितकल्मषा: यज्ञशिष्टामृतभुज:

इत्याभ्याम्, "यज्ञशिष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्बिषै:' (3.13)

इत्यादिप्रागुक्तप्रत्यभिज्ञानात् तत्प्रकरणे च यज्ञशिष्टाशनस्य

शरीरयात्रार्थत्वप्रपञ्चनात् तत्स्मरणायोक-तम् ।यज्ञशिष्टामृतेन

शरीरधारणं कुर्वन्त एवेति । प्राणयामादिषु निष्ठावतामपि

नित-यत्ववादिना यज्ञादिकरमवश्यकार्यमित्यपि सिद्धम् । ।एवकारेण

नैवंविधशरीरधारणादिव्यापार आत्मावलोकनविरोधी, किंतूपयुक्त

इत्यभिप्रेतम् । ।व्यापृता इति । अन्यथा व्यापार एवाशक्य इति भाव:। ।ब्राहृैव

तेन गन्तव्यम् (24) इति पूर्वव्याख्याततुल्यार्थत्वादुपसंहारस्थं ।सनातनं

ब्राहृ यान्तीत्येतदझ्र्पिटव्याख्यातम् ।।

कर्मयोगावान्तरभेदनिष्ठत्वाभिमानेन

सामान्यधर्मभूतनित्नैंमित्तकादिपरित्यागिन: सकलपुरुषार्थानर्हतोच्यते

।नायमित्यर्धेन । अयज्ञस्येति व्याख्येयं पदम् । ।नायं लोक:

इत्यत्र ।अयमिति निर्देशाभिप्रेतं दर्शयति ।न प्राकृतलोक इति

। लोकस्वरूपमात्रनिषेधभ्रमव्युदासायाह ।प्राकृतलोकसंबन्धीति

। अयं लोक: इति प्रत्यक्षसिद्धभूलोकपरत्वौचित्यात् ।कुतोऽन्य:

इतीदं स्वर्गादिपरं किं न स्यादित्याशङ्कयाह ।परमपुरुषार्थतयेति

।अयज्ञस्य मोक्षाभावे प्रतिपादिते हि तदर्थं तदुपादानं स्यादिति भाव:

। मोक्षव्यतिरिक्तदृष्टानुश्रविकपुरुषार्थवर्गत्रयस्य ।अयं लोक इति

निर्देशहेतुभूतसाधारणोपाधिं प्रस्तुतपरमपुरुषार्थविरुद्धरूपत्वं

च व्यढञ्चियितुमाह ।स हि प्राकृत इति । प्रकृतिपरिणामविशेषरूपत्वात्

तत्संसृष्टस्य प्राप्यत्वाच्च प्राकृतत्वोक्ति: ।। 31 ।।

एवं कर्मयोगावान्तरभेदान् उपदिश्य तत्तद्भेदेऽपि

साधारणानां "1. नित्यनैमित्तिकानामवश्यानुष्ठेयत्वं तत्परित्यागे

प्रत्यवायश्चाभिहित:; अस्यैवार्थस्योपसंहार: क्रियते।एवमिति श्लोकेन

। बहुप्रकारकर्मयोगभेदोपदेशानन्तरमेव ।एवं बहुविध यज्ञा:

इति वचनंप्रकृतविषयमेव भवितुर्महतीत्य़भिप्रायेणाह ।एवं भावात् ।

मुखशब्दश्चोपायविषय: । आहुश्च नघण्डुका:, ""मुखं तु वदने मुख्ये ताम्रे

द्वाराभ्युपाययो: इति । आत्मन: प्राप्त्युपाये कर्मयोगे अवान्तरभेदतया

वितता इत्यर्थ: । तदाह ।आत्मयाथात्म्येति । ।तानिति निर्देश:

प्रस्तुतसमस्ताकारपरामर्शी, ।सर्वानिति च अशेषावान्तरभेदसंग्रह

इत्यभिप्रायेण ।उक्तलक्षणान् उक्तभेदानित्युक्तम् । उभाभ्यां पदाभ्यां

।एवंशब्द।बहुविधशब्दयोरर्थौक्तिर्वा । अन्तर्भूतज्ञानतया ज्ञानाकारत्वम्

।उक्तलक्षणत्वम् । उक्तलक्षणानिति वदताऽध्यायार्थतयाऽऽरम्भनिर्दिष्टेषु

कर्मयोगस्वरूपाभिधानमपि कृतं भवतीति सूचितम् । ।सर्वान्कर्मजान्विद्धीति

पृथग्वचनात् प्राणायामादीनां प्राधान्यं नित्यनैमित्तिकादीनां तदर्थत्वं चाह

।अहरहरिति । अनेन तस्याकरणे सर्वानर्हतया यावत्फलमनुष्ठेयत्वं

प्रतिदिवसं पापहरणेनोत्तरसत्त्वोनमेषहेतुत्वेनात्यन्तोपयुक्तत्वं च

सूचितम् । 32 ।।

श्रेयानित्यादे: आ अध्यायापरिसमाप्तेज्ञानकारत्वप्रतिपादकप्रघट्टकेनास्य

साक्षात्सङ्गति: ।

ननु द्रव्यमयात् यज्ञात् ज्ञानयज्ञश्श्रेयानिति निर्देष्टे सति

आत्मसाक्षात्कारान्तरङ्गज्ञानयोगप्राधान्यं ग्रहीतमुचितम् । ।सर्व

कर्माखिलं पार्थ ज्ञाने परिसमाप्यतेइत्यनेन कर्मफलोस्य

सर्वस्य ज्ञानेऽन्तर्भावश्च प्रतीयते; "अपि चेदसि पापेभ्य:

सर्वेभ्य: पापकृत्तम:' (36), "ज्ञानाग्निस्सर्वकर्माणि' (37),

"योगसंन्यस्तकर्माणम्'(41)इत्यादिनिर्देशाश्चानन्तरभाविन:

कर्मयोगविरोधिन: । "न हि ज्ञानेन' (38) इति श्लोकेऽपि कर्मयोगात्

ज्ञानयोगस्य पावनत्वातिरेकपर इति प्रतीयते; "ज्ञानं लब्ध्वा परां

शान्तिमचिरेणाधीगच्छति' (39) इत्येतदपि ज्ञानयोगस्यान्तरङ्गतया

शीघ्रकारित्वमितस्य विलम्बितफलत्वं व्यनक्ति । "येन भूतान्यशेषेण

द्रक्ष्यस्यात्मन्यथो मयि' (35)इति ज्ञानस्वरूपकथनमपि ज्ञानयोगत्वं

द्रढयति । न हि कर्मयोगान्तर्गतेन आत्मज्ञानेनैव सर्वं साक्षात्क्रियते

। "स्वाध्याययज्ञानयज्ञश्च' (28) इत्यत्र च द्रव्ययज्ञादे: पृथक्त्वेन

ज्ञानयज्ञो निर्दिष्ट:; अतो ज्ञानयोगप्रशंसाप्रकरणमिदमिति ग्राह्रमिति

।।

अत्तोच्यते--"श्रेयान् द्व्यमयात् यज्ञात्' इत्यत्र तावत् ज्ञानप्रधान्यमात्रात्

न ज्ञानयोगविवक्षा वक्तुमुचिता; "कर्म ज्यायो ह्रकर्मण:' (3.8)

इत्यादिषु सर्वत्र तद्विपरीतकर्मप्राधान्यस्यैव प्रपञ्चितत्वात् ।

उत्तराध्यायेऽपि "तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते' (5.2)

इत्याचेर्वक्ष्यमाणत्वात् मध्ये तद्विरुद्धार्थप्रतिपादनायोगात् । अतोऽत्र

।ज्ञानयज्ञशब्द: कर्मयोगांशविषय: । "स्वाध्यायज्ञानयज्ञाश्च'

(4.28) इत्यत्र तु स्वाध्यायार्थाभ्यासरूपज्ञानयज्ञपरत्वमुक्तम् ।

आत्मयाथात्म्यमपि स्वाध्यायार्थ इति तस्य चास्य च नातिविप्रकर्ष: ।

"तस्मादज्ञानसंभूतम्' (42) इत्यध्याय़ोपसंहारश्लोके च ज्ञानासिना

संशयं छित्वा योगमातिष्ठोत्तिष्टेति संगच्छते । ।सर्व कर्मेत्येतत्तु

कर्मान्त(र्गत)ज्ञानांशस्य प्राधान्यहेतुमात्रपरमेव, "अपि चेदसि' (36),

"ज्ञानाग्निस्सर्वकर्माणि'(37), "नहि ज्ञानेन सदृशम्' (38)इत्यादेरपि न

ज्ञानयोगैकान्त्यम्, ज्ञानांशस्य पापनिवर्तकत्वरूपप्रशंसापरत्वात्

। ।योगसंन्यस्तकर्माणम् (41) इत्यत्रापि कर्मण:

फलसङ्गादिराहित्यज्ञानकारतापत्तिमात्रं विवक्षितम् । "ज्ञानं लोब्ध्वा

परां शाÏन्त' (39) इति श्लोके झ्र्तुट कर्मयोगान्तर्गतज्ञानामशस्य

साक्षात्काररूपपरिपाकावस्थोच्यते; "तत् स्वयं योगसंसिद्ध: कालेनात्मनि

विन्दति' (38), "श्रद्धावान् लभते ज्ञानम्' (39) इत्यनन्तरेमेव

परिपाकावस्थाया विशदीकरणात् । एतेन"येन भूतान्यशेषेण द्रक्ष्यसि'

(35) इत्येतदपि नव्र्यूढम् । तदेतदखिलमभिप्रेत्याह ।उभयाकार इति

। ।कर्मणि कर्मयोगे इत्यर्थ: । अनुष्ठेयपरो वाऽत्र ।कर्मशब्द:

। द्रव्यमयादंशादिति । 1.यज्ञशब्दोऽत्र यज्ञांशविषय इति भाव:

। ।सर्वाखिलशब्दयोरत्र विषयभेदात् अपौनरुक्त्यामाह ।तदितरस्येति

। कर्मेतरत् किमन्यदिहयोपादेयम्, कथं च कर्मणस्तस्य

च ज्ञाने परिसमाप्तिरित्यत्राह ।तदेवेति । सर्वेस्साधनैरिति

तदितरोपादेयप्रदर्शनम् । ।प्राप्यभूतमिति तत्र तत्परिसमाप्ति

ज्ञापनम् । कर्मणस्तत्र परिसमाÏप्त विवृणोति
।तदेवाभ्यास्यमानमिति

। अवधारणेन साध्यसाधनभाव: अवस्थाभेदमात्रनिबन्धन

इत्यभिप्रेतम् । एतेन कर्मण: स्वान्तझ्र्र्गतटर्भूतज्ञाने परिसमाप्ति:

साक्षात्कारलक्षणसाध्यदशाविवक्षयेत्युक्तं भवति ।। 33 ।।

उपदिष्टमेव ज्ञानं तत्तद्विपाकदशायां प्रतिक्षणवैशद्याय

पुन:पुनज्र्ञानिभ्य:

श्रोतव्यमित्ययुच्यते ताद्विद्धीति श्लोकेन । ।तदिति परेक्षवन्निर्देश:

प्रकरणप्रारम्भोक्तप्रकारपरामर्शीति व्यञ्जनाय ।अविनाशीत्यादि

।मयोपदिष्टमित्यन्तमुक्तम् । इत:पूर्वमनुपदिष्टस्य ज्ञानस्य

कस्यचिच्छ्रोतव्यत्वं नात्रोच्यते इति भाव: । तद्योक्तकर्मणि

वर्तमानस्त्वमिति विपाकहेतु: । ।विपाकानुगुणं कालेकाल इति

प्रश्नावसर: । अदृष्टद्वारा प्रणिपातादेर्विपाकानुगुण्यं वा

विवक्षितम् । "गुरुमेवाभिगच्छेत्' (मु.1.2.12) इत्यादि विधिप्राप्तं

चैतत् । प्रणिपातादेरितेरेतरयोगो विवक्षित इति व्यञ्जनाय

।प्रणिपातपरिप्रश्नसेवादिभि: इति द्वन्द्वसमासेन व्याख्या । ""स्वाध्यायात्

योगमासीत योगात् स्वाध्यायमामनेत् (वि.पु.6.6.2) इत्यादीनि शास्त्राणि

।कालेकाले इति वीप्सया द्योतितानि

। ।विशदाकारमिति पुन:श्रवणस्य नैष्फल्यपरिहार: । न तु किमिदानीं

भगवता ज्ञानमविशदमुपदिष्टम्? किं वा बीभत्सुना

अविशदेन(दमेव?)ज्ञातम्, यनैतदुच्यते इत्येतदपि

।विपाकानुगुणशब्देन परिह्मतम् । विशदमेवोपदिष्टम्

भगवता । अवधानादिमांश्चार्जुन: ।

तथाऽप्यनादिकर्मोपार्जितैरनन्तै: पापकवाटैरन्त:करणरूपस्य

तत्त्वज्ञानप्रसरद्वारस्यपरुद्धत्वादिदानीं नातिवैशद्यं

जायते; ""पित्तघ्नमञ्जनमनाप्नुषि जातु नेत्रे नैव

प्रभाभिरपि शङ्खसितत्वबुद्धि: (वै.स्त.16) इतिवत् ।

यथावस्थितकर्मयोगनिरस्तेषु पापेषु विशदज्ञानार्हावस्था स्यात्,

तदा च पूर्वोपदिष्स्य सामान्यतो ज्ञातस्यरार्थस्य ज्ञातांशवादाय

अज्ञातांशज्ञानाय विस्मृतप्रतिबोधनाय च पुनश्श्रवणं कार्यमिति

। अयमर्थोऽ।नुगीतावृत्तान्तेन व्यक्तो भविष्यति । ।ज्ञानिन:

। अहं वा, अन्ये वेति भाव: । तत्त्वदर्शिन: इति विशेषणं

तषामेतज्ज्ञानोपदेष्टृत्वादिकारं सूचयतीति व्यञ्जनाय

।साकाक्षात्कृतात्मस्वरूपता इत्युक्तम् । तत्वदर्शिभिरपि

"नासंवत्सरवासिने प्रबूयात्, न विनयादिरहिताय च

वक्तव्यम्' इत्यादिविधिप्रयुक्तविलम्बोऽनतिलङ्घनीय

इत्या(त्यत्रा)।प्रणिपातादिभिरिति । "तस्मै स विद्वान् उपसन्नाय

सम्यक्' इत्युपक्रम्य "प्रोवाच तां तत्त्वतो ब्राहृविद्याम्'

(मु.1.2.13) इति श्रुतेर्विधिपरत्वं च जानन्तस्ते तत्त्वदर्शित्वात्

यथावदुपदेक्ष्यन्तीति भाव:। प्रकर्षेण नीचै: पतनं प्रणिपात: ।

प्रश्नपूर्वाङ्गभूत: प्रणामिपसंग्रहणादिर्विवक्षित: । ।परिप्रश्न:

स्वबुद्धिमत्तातिरकगूहनेन अजानत इव साक्षात्प्रष्टव्यानभिधानेन

तदनुबन्धिविषय: प्रश्न: । ।प्रतिवादिवत् कुयुक्तिभि: प्रत्यवस्थानं

न कर्तव्यमिति भाव: । ।सेवा तु भक्ति:, चिरानुवर्तनं वा ।।

ःः

स्वात्मनि सर्वानुसन्धानहेतुतयोक्तं साम्यं

परस्ताद्वक्ष्यमाणत्वदिहानुक्तमित्यभिप्रायेणाह ।प्रकृतिसंसर्गेति ।

।अथो मयीत्यादि । मन्निदर्शनेन स्वात्मानं परांश्चद्रक्ष्यसीत्यर्थ:

अनीश्वराणां कर्मवश्यानां कथमीश्वरनिदर्शनेनानुसन्धानमित्यत्राह

।मत्स्वरूपसाम्यात्परिशुद्धस्येति ।

हतुतयोक्तमीश्वरसाधम्र्य(साम्य)मपि परस्ताद्वक्ष्यत इति

नेहोक्तमितित्याह ।इदमिति । परिशुद्धात्मन: परमात्मसाम्ये

श्रुतिरप्यस्तीत्याह ।तथेति । ।पुण्यपापे विधूय निरञ्जन:

पुण्यपापविगमात् तत्कृतप्रकृतिसंसर्गतत्प्रयुक्तक्लेशादिरहित:

। ।नामरूपनिनिर्मुक्तस्येति पदेन ""तथा विद्वान्नामरूपाद्विमुक्त:

(मु.3.2.8) इति तत्रत्यं वाक्यान्तरमपि स्मारितम् । ईश्वरसाम्यस्य

क्वाचित्कताशङ्कां निरस्य श्रुतिस्मृतिसिद्धं हेतुं सङ्कल्पय्य दर्शयति

।अत इति । एतेन श्रुत्यादिसिद्धमीश्वरसाम्यमपि जीवानां परस्परसाम्ये

हेतुरित्यप्युक्तं भवति । एतेन क्षेत्रज्ञानां परस्परम्, ईश्वरेण

चैक्यमिहोच्यत इति वदन्त: प्रत्युक्ता: ।। ननु स्वात्मनि सर्वेश्वरे

च सर्वेषामाधेयतया दर्शनमिह विधीयत इति प्रतयते ।। मैवम्;

स्वात्मसनस्सर्वाधारत्वायोगात् । परमात्मसाम्ये श्रुतिरप्यस्तीत्याह


तथेति । ।पुण्यपापे वधूय निरञ्जन:पुण्यपापेविगमात्

तत्कृतप्रकृतिसंसर्गतत्प्रयुक्तक्लेशादिरहित: ।

।नामरूपविनिर्मुक्तस्येति पदेन ""तथाविद्वान्नामरूपाद्विमुक्त:

(मु.3.2.8) इति तत्रत्यं वाक्यान्तरमपि स्मारितम् । ईश्वरसाम्यस्य

क्वाचित्कताशङ्कां निरस्य श्रुतिरित्युक्तं भवति । एतेन क्षेत्रज्ञानां

परस्परम्,ईश्वरेण चैक्यमिहोच्यत इति वदन्त: प्रत्युक्ता:

।। ननु स्वात्मनि सर्वेश्वे च सर्वेषामाधेयतया दर्शनमिह

विधीयत इति प्रतीयते । मैवम्; स्वात्सनस्सर्वाधारत्वायोगात् ।।

परमात्मपर्यन्तबुद्धयोपपद्यत इत चेत्, न; जीवसमाधे:

प्रकरणार्थत्वात् । अत: स्वात्मनि परेषां दर्शनं

सर्वसमानाकारानुसन्धानम् ।। 35 ।।

एवं ज्ञानांशस्य प्राधान्यं विपाकानुगुणं कालेकाले

वेदनीयत्वं लक्षणं चोक्तं, अथ तस्य विरोधिनिवर्तकत्वरूपं

माहात्मत्मुच्यते ।अपिचेदिति श्लिकेन ।। ।चेच्छब्दपर्यायो ।यदि:

अपिश्च संहतौ(सहितौ) यद्विषयौ तद्विषयावत्र ।अपिचेदित्येताविति

व्यञ्जनाय ।यद्यपीत्युक्तम् । पापकृत्तमशब्दप्रतियोगित्वात्

।पापेभ्य इत शब्द: पापविशिष्टपुरुषविषय: । पापमात्रे वा ।

हतौ पञ्चमी । ।ज्ञानप्लवेन संतरिस्यसीत्यनयोस्सामथ्र्यात्

।वृजिनरूपं समुद्रमिति रूपितम् । ।समुद्रत्वानुगुणं

।सर्वशब्दोक्तमानन्त्यमनादिकालोप्रवृत्ततयेत्याद्यभिप्रायेणाह

।पूर्वार्जितमिति ।। 36 ।।

नन्नेकस्य कथमनादिकालप्रवृत्तान्तपापनिवर्तकत्वम्? ""नाभुक्तं

क्षीयते कर्म कल्पकोटिशतैरपि (ब्रा.कै.प्र.26.70)

इत्यादिवचनाच्च पापस्वरूपनिवर्तकत्वमनुपपन्नम् ।

केवलं विलम्ब्य(म्बाय) स्यादित्याशङ्कयोच्यते ।यथैधांसीति ।

समुद्रसंतरणदृष्टान्त:पुन:प्रवेशाविरोधी; काष्ठभस्मसात्करणदृष्टान्तेन

तु पुन; कार्यकरत्वप्रसङ्गोऽपि प्रतिषिद्ध: । ।भस्मीभूतानि

कुरुते, ।अकार्यकराणि कुरुत इत्यर्थ: । ।समिद्ध इत्यत्र

सर्वदहनयोग्यत्वायोपसर्गधात्वर्थयोव्र्यञ्जनम् ।सम्यक्प्रवृद्ध

इति । ।एधांसीति बहुवचनमेकतस्यानेकनिवर्तकत्वाभिप्रायमिति

दर्शयति ।इनधनसञ्जयमिति । सर्वकर्माणीति वचनात् विरोधित्वेन

स्थितस्य सांसारिकपुण्यविशेषस्यापि निवर्तकत्वमवगतम् ।

'नाभुक्तम्'इत्यादित्वन्यपरम्, अन्यथा प्रायश्चित्तशास्त्राण्यपि कुप्येयुरिति

भाव: ।। 37 ।।

लोकदृष्टान्तेन दर्शितोऽर्थो वह्ने: पदार्थान्तरादृष्टदाहकत्ववत्

पवित्रतमस्वभावत्वेनोपपाद्यते ।न विशुद्धि:' (या.स्मृ.3.1)

इत्युक्तादीश्वरज्ञानादर्वाचीनेषु परिशुद्धात्मज्ञानतुल्यं

पावनं नास्तीत्यर्थ: । ननु इदानीं तथाविधज्ञानं कुर्यामिति

साभिसन्धिकस्यापि तन्न जायते; अतस्तस्य पुरुषव्यापारविषयत्वात्

अविधेयत्वमिति शङ्का परिह्यियते ।तत्स्वयमित्यर्धेन । ।तच्छब्देन

विपाकावस्थं परामृश्यत इत्याह ।तथाविधमिति। ।यथोपदेशमिति

। शास्त्रीयत्वमविकलत्वं कालेकाले वेदनीयत्वं च सूचितम्

। तथा विधज्ञानस्य संस्कारप्राचुर्याद्विरोधिपापनिवर्तनाच्च

स्वयमागमे हेतु: "योगसंसिद्ध:' इत्यनेनोच्यत इत्यभिप्रायेणाह

।ज्ञानाकारकर्मयोगसंसिद्धि इति । पक्वकषायत्वलक्षणयोग्यतापन्न

इत्यर्थ: । ।स्वयंशब्देन तदानीमुपदेशनैरपेक्ष्यमुच्यत इत्यभिप्रायेणाह

।स्वयमेवेति । ज्ञानस्वरूपस्य साक्षात्स्वप्रयत्नागोचरत्वेऽपि

तन्मूलभूतोक्ताकारकर्मयोगद्वारा तस्य विधेयत्वमुपपद्यत

इति भाव: । अत्र ।आत्मनीति विषयसप्तमी । इदानीं

तद्रहितेऽपीत्यभिप्रायेणाधिकरणार्थत्वं वा, स्वात्मसाक्षिकमिति वा

विवक्षितम् ।। 38 ।।

पूर्वश्लोकार्घयोरनन्तरश्लोकार्धे व्युत्क्रमेण विवरणरूपे इत्यभिपायेणाह

।तदेव विस्पष्टमाहेति । श्रद्धावत्त्वादिकं स्वयं ज्ञानलाभे

हेतु:; "अज्ञश्चाश्रद्दधानश्च' (4.40) इति वक्ष्यमाणत्वादत्रापि ज्ञ:

श्रद्धवांश्चेति विवक्षितमिति ज्ञापनार्थं, तत्र दशाभेदव्यञ्जनार्थं,

श्रद्धोत्पत्तिसिद्धयर्थं चोक्तम् ।उपदेशात् ।ज्ञानं लब्धवेति । श्रद्धावान्

त्वरमाण: व ।अश्रद्धधान: इत्यत्र "अत्वरमाण:' इति हि व्याख्यास्यति

। ।तदेव परम् उपादेयुतयाऽभिसन्धास्पदं यस्य स ।तत्पर: ।

तदाह ।तत्रैव नियमतमना इति । ।अचिरेणेत्येतदुत्तरवाक्यस्थमपि

।कालेन 1.इत्येतत्सूचितविलम्बशङ्कापरिहारार्थमपेक्षितत्वात्

पूर्वार्धेऽप्यन्वेतव्यमित्यभिप्रायेण ।अचिरेण

कालेनोक्तलक्षेत्यादि उक्तम् । 2. भक्तियोगव्यवहित:

प्रारब्धकर्मावसानभावी च मोक्ष: ।कथमचिरेणेत्युच्येतेति

भाव: । पूर्वं ।कालेनेति पदं द्वित्रदिनादिव्यवच्छेदार्थम्,

।अचिरेणेति तु ज्ञानयोगदेहान्तरादिविलम्बनिषेधार्थमित्यविरोध: ।

।शान्तिशब्दोऽत्रोपायस्य निश्शेषनिष्पन्नत्वान्न तदभङ्गभूतशमविषय

इति व्यञ्जनाय ।परं निर्वाणमाप्नोतीत्युक्तम् । "स ।शान्तिमाप्नोति

न कामकामी', "स ।शान्तितमधिगच्छति', "ब्राहृ निर्वाणमृच्छति'

इति द्वतीयाध्यायान्तिमश्लोकत्रयेऽपि फलदशाविषये शान्तिनिर्वाणशब्दौ

समानविषयौ । तत्र मध्यमश्लोकस्थं "शान्तिमधिगच्छति' इत्येतदत्रापि

प्रत्यभिज्ञतम् । तत्पूर्वोत्तरश्लोकस्मरणायात्र ।आप्नोति पदं

।निर्वाणपदं चोक्तम् ।। 39 ।।

उक्त एवार्थे व्यतिरेकेण स्थाप्यते ।अज्ञश्चेति श्लोकेन ।

उपदेशलब्धज्ञानरहित इति ।पूर्वक्रमनिर्देशौचित्यादश्रद्धाहेत्वकाङ्क्षणात्,

संज्ञयदशासमभिव्याहाराच्च ।अज्ञशब्दोऽत्र शास्त्रजन्यज्ञाननिवृत्तिपर

इति भाव; । संशयस्य पृथगभिहितत्वात् अश्रद्दधान: इत्येतत् न

विश्वासनिषेधपरम्, किं त्वाकाङ्क्षा निषेधपरम्; प्रकृष्टाकाङ्क्षैव

हि त्वररेत्यभिप्रायेण ।अत्वरमाण इत्युक्तम् । ।संशयमना इति

संशय्यतेऽनेनेति ।संशय: संशयकारणम्; संशयहेतुभूतमना

इत्यर्थ: । यद्वा संशये मनो यस्येति विग्रह: । नित्यस्यात्मन:

पुरुषार्थशून्यत्वलक्षणस्य विनाशस्य पूर्वापरभावेन संतन्यमानस्य

प्राचीनस्यैवानुवृत्तिप्रदर्शनाय प्रकृतिप्रत्य़यर्थभेदविवक्षया ।विनष्टो

भवतीत्युक्तम् । ""विनष्टा वा प्रनष्टा वा (रा.सु.13.17) इत्यादिषु

प्रध्वंसव्यतिरिक्तविषये प्रयोगोऽप्यनेन सूचित: । ।विनश्यतीत्यस्य

विवरणमुत्तरार्धम् । ।अयमपीत्यनेनायंशब्देन निर्दिष्टक्षुद्रतासूचनम्

। "नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्य: कुरुसत्तम' (4.31) इतिवत्

अत्रापि ।लोकशब्द: पुरुषार्थविषय:। कौमुतिकन्यायप्रदर्शनार्थं

च ।अयं लोक इत्युक्तम् । मोक्षप्रकरणत्वाच्चा।त्रायंशब्दयोर्न

भौमदिव्यविषयत्वमुचितमित्यभिप्रायेणा।धर्मार्थेति । मोक्षोपायभूतार्थे

संशयात्मन: कथं पुरुषार्थान्तरासिद्धिरित्यत्राह ।शास्त्रीयेति ।

अयमभिप्राय:--न ह्रायुर्वेंदादिवत् केवलमेतद्देहान्तर्भाविफलसाधनं

कर्म तत्तचछास्त्रै: प्रतिपाद्यते, येन देहातिरिक्तात्मज्ञाननिरपेक्षतास्यात्

। देहान्तरभाव्येव हि यज्ञादिसाध्यं स्वर्गादिकं फलं प्राचुर्येण

प्रतिपाद्यते । अतो देहातिरिक्तात्मनिश्चयोऽत्यन्तापेक्षित;-इति ।

उयभयविधपुरुषार्थराहित्योपसंहारपरं ।न सुखमित्येतदिति व्यञ्जनायाह

।अत इति । यद्वा अनन्तसुखदु:खभोगरूपनिश्श्रेयसनिरयपर्यन्तसंशयस्य

मनस्तापहेतुत्वात् तदानीन्तनदु:खाभिप्रायेण ।न सुखमित्युक्तम् । अथवा

पुरुषार्थयोग्यताभिमानमूलसुखाभावोऽभिप्रेत: 40 ।।

अध्यायप्रधानार्थं उपसंह्नियते ।योगसंन्यस्येति श्लोकेन

। ।यथोपदिष्टयोगेनेति । "कर-मण्यकर्म य: पश्येत्' (18)

इत्यादिनोपदिष्टरबुद्धियोगेनेत्यर्थ: । एतेनात्मावलोकनरूपयोगव्युदास:

। ।संन्यस्तकर्माणमित्यत्र कर्मस्वरूपत्यागभ्रमव्यदुदासाय

।ज्ञानकारतापन्नकर्माणमित्युक्तम् । कर्तृत्वादित्यागगर्भज्ञानकारतापत्त्या

कर्माकारत्वतिरस्कृकारोऽत्र कर्मणस्संन्यासशब्देनोपचर्यते ।

स्वरूपत्यागपरत्वे तु पूर्वापरादिविरोध इति भाव: । ज्ञानयोगादिव्युदासाय

।यथोपदिष्टेन चाऽऽत्मज्ञानेनेत्युक्तम् । आत्मनोदेहातिरिक्तत्वादिसंशयो

ह्रत्र निषिध्यत इति व्यञ्जनाय ।आत्मनीत्युक्तम् । ।आत्मवन्तमित्यत्र

।आत्मशब्द: संबन्धविषयप्रत्ययसामथ्र्यात् प्रयोगप्रौढया च मनोविषय

इत्यभिप्रायेंण ।मनस्विनमित्युक्तम् । अतिशयेन संबन्धोऽत्र ।मतुबर्थ:;

स चातिशय: केनाप्यविचाल्यत्वमिति द्योतनायोक्तम् ।उपदिष्टार्थं

दृढावस्थितमनसमिति । परमप्रयोजनोसंहाररुपत्वव्यञ्जनाय

।बन्धहेतुभूतेत्यादिकमुक्तम् ।। 41 ।।

एवं विस्तरेणोपपाद्योपसंह्मतोऽर्थोऽर्जुनं प्रति कर्तव्यतया

निगम्यते ।तस्मादिति श्लोकेन । संशयस्य ।अज्ञानसंभूतत्वं

विशेषाग्रहस्य संशयहेतुत्वात् । ह्मत्स्थं ह्मदि शल्यमिवार्पितम्,

यद्वा ।ह्मत्स्थमिति (त्यस्य) आन्तरमिति भाव: । ।आत्मन: इति षष्ठया

विषयित्वलक्षणसंबन्धविशेषे पर्यवसानमत्र विवक्षितमिति

द्योतनाय ।आत्मविषयं संशयमित्युक्तम् । यद्वा ।एनं संशयमिति

निर्देशादात्मविषयत्वं सिद्धम्; ।आत्मन: इत्यस्य तु ।ज्ञानासिना

इत्यनेनान्वयाय ।आत्मज्ञानासिनेत्युक्तम् । काकाक्षिन्यायेन उभयत्र वाऽन्वय:

। ।मयेत्यनेनोपदेष्टु: सर्वज्ञत्वकारुणिकत्वादिपौष्कल्यादाप्तमत्वं

विवक्षितम्। कर्मयोगोपदेशोपसंहारतया ।योगशब्दोऽत्र नेतरविषय इति

ज्ञापनाय ।मयोपदिष्टं कर्मयोगमित्युक्तम् । भरतकुलसंभूतार्जुनस्य

स्वधर्मभूतयुद्धार्थमुत्थानमेव कर्मयोगार्थमुत्थानमिति

भारतशब्दाभिप्रायव्यञ्जनाय ।तदर्थमुत्तिष्ठ भारतेत्युक्तम् । तेनैव

मोक्षोपाय़ोग्यत्वाय योगिवंशप्रसूतत्वमप्यर्जुनस्य सूच्यते ।। 42 ।।

प्र्प्र् इति श्रीमद्गीताभाष्यटीकायां तात्पर्यचन्द्रिकायां चतुर्थोऽध्याय: ।। 4 ।।