सामग्री पर जाएँ

गीताभाष्यतात्पर्यचन्द्रिका/अध्यायः ३

विकिस्रोतः तः
← अध्यायः २ गीताभाष्यतात्पर्यचन्द्रिका
अध्यायः ३
[[लेखकः :|]]
अध्यायः ४ →

।।अथ तृतीयोध्यायः।।

03.01

अथ सङ्गतिं विवक्षु: साक्षान्मोक्षोपायं वक्ष्यमाणं च

तत्तस्वरूपं तात्पर्यं च दर्शयन् द्वितीयाध्यायोक्तझ्र्स्यटर्थस्य

साक्षान्मोक्षोपायत्वाभावेनापर्गप्रधाने शास्त्रे सङ्गत्यभावसङ्कां

परिहर्तुमितिकर्तव्यतात्वं प्रथयति ।तदेवमिति । ।तत्

शङ्कराद्युक्तप्रकारनिराकरणेन यथावत् द्वितीयाध्यायनिर्वाहादित्यर्थै:

। ।एवमिति स्वोक्तौचित्यं निर्दिशति । "ब्राहृविदाप्नोति परम्'

(आ.1.) "परं ज्योतिरुपसंपद्य' (छा.8.3.4) "परात्परं

पुरुषमुपैति' (मु.3.1.3) इत्यादिश्रुतिशतं ""कर्मकर्तृव्यपदेशाच्च

(ब्रा.1.2.4.)इत्यादिसूत्रगणं चाभिप्रेत्योक्तम् ।मुमुक्षुभि: प्राप्यतयेति ।

।मुमुभिरिति बहुवचनेन सर्वब्राहृविद्या निष्ठानां प्राप्यत्वोपायुक्तं

प्रकृतिपुरुषवैलक्षण्यम्,सगुणनिर्गुणादिश्रुतिविषयव्यवस्थायाम्,

तदुपबृंहणार्थवर्णनाय ।वेदान्तोदितेत्युक्तंप्राप्यत्वोपयुक्तं

प्रकृतिपुरुषवैलक्षण्यम्, सगुणनिर्गुणादिश्रुतिविषयव्यवस्थाम्,

""आनन्ददादय: प्रधानस्य (ब्रा.3.3.11), ""अक्षरधियां त्ववरोध:

(ब्रा.3.3.33) इत्यादिसूत्रोक्तसर्वविद्योपास्यसाधारणाकारं चाभिप्रेत्य

।निरस्तेत्यादिकमुक्तम् । कारणशोधकवाक्यैकाथ्र्यं सामान्यशब्दानां

विशेषोपसंहारम्, तत एव त्रिमूत्र्यैक्यसाम्यातिरेकव्यक्त्यन्तरत्वनिरासम्,

एकस्यैव जगदुपादानमित्तत्वम्, उदाहरिष्यमाणश्रुतौ,

""साउत्तम: पुरुष: (छा.8.12.3) इत्युक्तिम्, "उत्तम:

पुरुषस्त्वन्य:' (15.17) इति वक्यमाणप्रकरणार्थं च

दर्शयितुं समाख्याद्वयमाह ।परब्राम्हपुरुषोत्तमेति ।

ज्ञानकर्मसमुच्चयान्तरानुगृहीताण्तरैकैकमात्रपक्षाणां

निराकरणाय, "नान्य: पन्था:' (पु), "नायमात्मा' (क.1.2.23)

इत्यादिनिषेधतात्पर्यं वेदनादिसामान्यशब्दानां भक्तिलक्षणचरमविशेषे

पर्यवसानं चाभिप्रेत्योक्तम् ।उपायभूतेत्यादि । ।तदैकान्तिकेत्यत्र

तत्क्रतुन्यायसिद्धोपास्यप्राप्यैक्यद्योतनाय ।तच्छब्द: । एकत्रान्तो

निश्चय एकान्त:;ल तन्निबन्धना भक्ति।रैकान्तिकी । ऐकान्तिकत्वं नाम

देवेतान्तरफलान्तरपरित्यागेन प्राप्यप्रापकभूतैकनिष्ठत्वम् । उक्तं

च ।मोक्षधर्मे ""ब्राहृाणं शितिकण्ठं च याश्चान्या देवता: स्मृता: ।

प्रतिबुद्धा न सेवन्ते यस्मात् परिमितं फलम् ।। (350-36) इत्यादि ।

स्मरन्ति च, ""परमात्मनि यो रक्तो विरक्तो।झ्परमात्मनि(बा.स्मृ)इति ।

वक्ष्यति चात्रैव, ""भक्त्या त्वनन्ययअ (11.54), ""मयि चानन्ययोगेन

भक्तिरव्यभिचारिणी (13.10) इत्यादि । विनाशाभावो।झ्पत्यन्तशब्देन

विवक्षित: । अतो।झ्त्र फलदशायामप्यनिवत्र्य।त्वमात्यन्तिकत्वम् । एकैव

भकिं्त वक्तुं तदङ्गभृतमित्यादि । अङ्गतायां प्रमाणमाह ।य आत्मेति ।

प्राप्तुरिति परव्यावृत्त्यर्थम् ।।

आत्मदर्शनस्य परविद्याङ्ङगतायां प्रमाणं प्रपञ्जयति

प्रजापतीति । फलोवत्वसन्निधावफलं तदङ्गम् । तत्र

सन्निधिस्तावदुच्यते ।दहरेति । प्रत्यगात्मविषयत्वव्यक्त्यर्थं

ततत्प्रकारणोदितप्रत्यगामपरिशोधनप्रकारमाह ।जागरितेति ।

प्रजापतिर्हि क्रमाज्जागरिताद्यवस्थात्रयविशिष्टं प्रत्यगात्मानमुपदिदेश

। इन्द्रस्तु "नाहमत्र भोग्यं पश्यामि'(छा.8.9.2) इति तत्रतत्र विमुख:

पुन:पुन: पप्रच्छ; ततश्च शुश्रूषोर्योग्यतां विज्ञाय प्रजापति:

"अशरीरं वाव सन्तम्' (छा.8.12.1) इति परिशुद्धं स्वरूपमुक्तवान् ।।

अत्राङ्गत्वसिद्धयर्थं दहरविद्यात: पृथक्फलाभावं

तदेकफलत्वं चाह एवमेवेति । एतदुक्तं भवति--प्रजापतिवाक्यं हि

दहरविद्याप्रकरणगतम्; न च प्रजापतिवाक्योदितप्रत्यगात्मदर्शनस्य

नि:श्रेयसातिरिक्तं फलमुक्तं; न च केवलं प्रत्यगात्मदर्शनं

नि:श्रेयससाधनम्, "नान्य: पन्था:' (पु) इत्यादिविरोधात्,

तत्तक्रतुन्यायाच्च । न चात्र जीवप्राप्तिरेव फलमुच्यते,

।परं ज्योति: इति विशेषणात्; (ना.) "नारायण परो ज्योति:'(पु)

इत्यादिना च परज्योतिश्शब्दस्य परमात्मविषयत्वप्रसिद्धे:;

दहरविद्यायां पूर्वत्रापि तस्यैवपरंज्योतिश्शब्देनोक्ते:; उपसंपत्तु:

उपसंपत्तव्याद्भेददस्य च स्वरसिद्धे:; प्राप्तुरात्मन: तत्र पर

ब्राहृसाम्यापन्नपुरुषलभ्यनिरतिशयस्वच्छन्दभोगनिर्दु:खताद्यभिधानाच्च

। अत: प्रधानफलस्यैवात्र तदङ्गे।झ्पि निर्देशात् परविद्याङ्गं

प्रत्यगात्मदर्शनम् इति । अथ "न जायते म्रियते' इत्यादिभि:

कतिपयपदावापोद्वापभेदितै: श्लोकै: प्रत्यभिज्ञातार्थतया

भगवद्गीताप्रबन्धसमानाकारां भक्तिशब्दकण्ठोक्तमतीं

03.03.03

एवमसङ्कीर्णरूपे वाक्ये बुभुत्सिते पूर्वोक्तस्यैवासङ्कीर्णरूपतां

प्रकटयन् श्रीभगवानुवाच ।लोकेऽस्मिन्निति । ।मया प्रोक्तंति

निर्देशात् काका च फलितमाह ।पूर्वोक्तमिति ।

।अस्मिन् लोके इत्यस्य प्रकृतोपयोगितार्थमाह ।विचित्राधिकारिपूर्णे

इति । तेन ज्ञानयोगकर्मयोरधिकारिभेदसंभव:, परस्परविरद्धानामपि

धर्माणां प्रतिनियताधिकारिविषयत्व्यवस्थापकवर्णाश्रम-

देशकालकामनानिमित्तादिदृष्टान्तश्च सूचित: ।

।अनघशब्दोनाप्येतदेवाभिप्रेतम् । 3. यथास्मिन् लोकेऽनघतया

त्वमपवर्गसाधने।ऽधिकरोषि, इतरे तु काम्यादौ-तद्वत्

अनघमात्रस्य कर्मयोगेऽधिकार:, अनघतराणां तु ज्ञानयोग

इति संसारदाह ज्वरचिकित्सकस्य सर्वज्ञस्य

भिषजस्तत्तदवस्थोचितोऽयमुपदेश:। ।प्रोक्तेत्यस्य

सोपसर्गस्याभिप्रेतमाह- ।यथाधिकारमिति ।

अधिकाराभेदवेदिना

तत्तद्धितकामेनास्पृष्टभ्रमविप्रलम्भप्रमादाशक्तिगन्धेनेत्यर्थ:।

ज्यायसि ज्ञानयोगे तिष्ठति कर्मयोग: कथमाद्रियेतेत्यत्राह

।न हीति । मोक्षाभिलाषे जातेऽपि

जन्मान्तरशतसुचरितमृदितकल्मषा(षाया)णां केषाञ्चिदेव

तदानीमेव ज्ञानयोगाधिकार:, तथा दर्शनात्; तत:

शक्ताशक्तविषयतया ज्ञानकर्मयोगव्र्यवस्तथेति भाव: ।

नन्वशक्तानां कदाचिदपि ज्ञानयोगाधिकारो न स्यात्

तच्छक्तिहेतुतयोक्तस्य कर्मयोगानुष्ठानस्य

तत्प्रातिकूलयचोद्यस्थितेरित्यत्राह ।अनभिसंहितेति ।

सर्वज्ञत्वसर्वशक्तित्वकारुण्यादिवीशिष्टभगवदनुग्रहरूपादृष्टद्वारा

ज्ञानहेतुत्वाय परमपुरुषराधनरूपतोक्ति: ।

व्याकुलेन्द्रियत्वं हि ज्ञाननिष्ठाविरोधि । तच्च स्वान्तमलमूलम् ।

तदप्यनादिपुण्यपापरूपदुष्कर्ममूलरजस्तमोमयम् ।

तच्च सत्त्वोन्मेषहेतुभेतैवंविधकर्मनिर्हरणीयम्;

अतो ज्ञाननिष्ठाहेतुभूतशान्तिहेतुत्वात् तदनुकूल एव

कर्मयोग इत्युक्तं भवति । ""धर्मेण पापमनुवदति

(ना.50) इत्यादिकमिहाभिप्रेतम्, अनभिसंहितफलत्वं

पूर्वमेवोक्तमिति कृत्वा केवलपरमपुरुषाराधनवेषतायाम्

कर्मणैव सिद्धिप्रापतौ च वक्ष्यमाणं दर्शयति ।यत इति ।

प्रोक्तशब्दनिर्दिष्ठमव्यामिश्रभिधानमभिसंहितफलत्वोकिं्त च

व्यनक्ति ।इहापीति । ""यदा ते मोहकलिलं (2.52)

""श्रुतिविप्रतिपन्ना ते (53) इत्याद्यर्थे स्मारयति ।विषयेति ।

आभिप्रायिकमवधारणं व्यञ्जयन्नुत्तरार्धं व्याचष्टे

।अतस्साङ्खयानामेवेति । साङ्खयशब्दस्यात्र

सिद्धान्तविशेषनिषनिष्ठपरत्वं व्युदस्यति ।सङ्खया

बुद्धिरित्यादिना । अतदर्हा इत्यशक्तिविषयत्वं सूचितम् ।

।कर्म योगाधिकारिण इति । योगो ह्रत्र कर्मयोग:; प्रत्ययार्थ:

संबन्धश्चात्र तद्योग्यतारूपइत्यर्थ: । अतदर्हत्वं तदर्हत्वं च

विशदयन् विरोधशङ्कापरिहारस्य

फलितत्वेनाव्ययामिश्राभिधानुमुपसंहरति ।विषयेति ।।

03.04.04

ननु मोक्षेच्छैव हि कर्मयोगेऽपि पुरुषं प्रवर्तयति;

सा यदि जाता, तत: किमव्यवहिते ज्ञानयोगे न प्रवर्तयतीति

शङ्का ।न कर्मणां इति श्लोकेन निराक्रियत इत्याह ।सर्वश्येति ।

लौकिकस्येत्यनेन संसारलोकान्तर्गततया

विषयव्याकुलेन्द्रियत्वमभिप्रेतम् । ।सहसैवेति ।

कर्मयोगमपकृत्वेत्यर्थ:। निषेधस्यान्यविषयविषयत्वज्ञापनाय

।शास्त्रीयशब्द: नैष्कम्र्यशब्दस्याननुष्ठानादिपरत्वे

साध्याविशेषादिदोष: स्यात् प्र् अतो ।निष्कर्मा

निष्क्रान्तकर्मयोग: पर्यवसितकर्मयोग: ज्ञाननिष्ठ इत्यर्थ:;

तस्य भावो नैष्कम्र्यमित्यभिप्रायेणाह ।ज्ञाननिष्ठामिति ।

।संन्यसनशब्दस्याप्यत्र ।कर्मणामित्यनेनैवान्वयं

संन्यसनस्वभावादारब्धविषयत्वं तत एव सव्यसाचिन:

समरजिहासावत्तान्तं चाभिप्रेत्याह ।न चारब्धस्येति ।

।नैषकम्र्यशब्दानुषङ्गेऽपि संभवति, पुनस्सिद्धशब्देनाभिधानस्य

तात्पर्यं व्यञ्जयति ।यत इति । अनारम्भं संन्यसनं च

सङ्कलय्याह ।अतस्तेन विनेति । कारणभूतकर्माभावे कथं

कार्यं स्यादिति भाव: । पञ्चम्या हेतुपरत्वं निषेधान्वयेन

तत्तन्निषेध्यान्वयेन वा योज्यम् । पूर्वत्र कर्मयोगानारम्भे

ज्ञानयोगासिद्धिस्स्यादिति वाक्यार्थ: । उत्तरत्र तु यत्

कर्मयोगात्यागादेव ज्ञानयोगसिद्धिरित्यभिप्रेतम्, तदयुक्तम्,

सा हि तेनैव जन्येति तात्पर्यम् । #तदिमामुभयीमपि

वाक्यवृत्तिमभिप्रेत्य श्लोकाभिप्रेतमर्थमाह ।अनभिसंहितेति ।

कर्मभिरित्यस्यानाराधितेत्यनेनान्वय: । एतेन, ""अनाराधिगोविन्दा

ये नरा दु:खभागिन: (वि.ध. 29.13) इत्यादिकं स्मारितम्।2.

अनभिसंहितफलकर्माभावे नि:श्रेयसौपायिकपरमपुरुषप्रीत्यभाव:,

तदभावाच्च पापसञ्चयानुपरम:, तेन च रजस्तमोमयनमनोमलानपाय:,

ततश्च रागद्वेषादिदोषाणांदीर्घायुष्य#म्म,तेषु च जीवत्सु

नेन्द्रियव्याकुलताशान्ति:, बहिर्विषयव्याकुलताशान्ति:,

बहिर्विषयव्याकुलेषु च तेषु न प्रत्यर्थनिष्ठेति तादृशकर्मपरित्यागेन

ज्ञाननिष्ठानमनुतिष्ठासु: ।सप्तभौमस्य गोपुरस्य सप्तमं तलं

प्रथमं चिकीर्षतीत्यपहास्यमिति भाव: ।।

03.05.05

अनन्वयशङ्कां परिहरन्नन्तरश्लोकमवतारयति ।एतदेवेति ।

परमपुरुषाराधनवेषस्य कर्मणस्त्यागे ज्ञाननिष्ठाया

दुस्संपादत्वमेवेत्यर्थ: । प्रथमो ।हिशब्द: पूर्वश्लोकार्थोपपादनद्योतक: ।

द्वितीयस्ट्ठ#त्वेतच्छ्लोकपूर्वार्धोक्तोपपादनार्थ: । प्रकरणारम्भे

लोकेऽस्मिन् इत्युक्ताधिकारिवैचित्र्यमपि ।कश्चित्,

सर्व: इत्याभ्यामभिप्रेतमिति ज्ञापनाय ।अस्मिन् लोके इत्युक्तम् ।

जातुशब्दो दिवसादिस्थूलकालपर: । ।क्षणशब्दस्त्वत्र

"क्षणो व्यापारवैकल्ये कालभेदाल्पकालयो: (भट्टबाण)

इत्यनेकार्थपाठात् तदन्तर्गताल्पकाविषय इत्यपौनुरुक्त्यं ।

तदुभयसंग्रहेण 3.कदाचिदपीत्युक्तम् । प्रलयादिदशाव्यतिरिक्ते

सर्वस्मिन् काल इत्यर्थ: । स्वपतोऽपि हि स्वापाख्यं कर्म ।

अत एव हि तत्र देश कालादिनियमेनानुज्ञाप्रतिषेधौ भवत: ।

अकर्मकृत् इत्यत्राकर्मण: कर्ता न विवक्षित:; किंतु कर्मणोऽकर्तेति

व्यञ्जनाय ।कर्माकुर्वाण इत्युक्तम् । ।सर्वश्ब्दाभिप्रेतमाह।न

किञ्चित्करोमीति व्यवसितोऽपीति । अयं चार्थ: "कर्मेन्द्रियाणि

संयम्ये'त्युत्तरश्लोके व्यक्तो भविष्यति ।प्रकृतिजत्वेन विशेषणात्

।सत्त्वरङस्तमोभिरिति विशेषलाभ:। प्रकृतौ नित्यं विद्यमानानां

कथं प्रकृतिजत्वमित्यत्रोक्तं ।प्राचीनेत्यादि । तथाचाहु:-

'कर्मवश्या गुणा ह्रेते सत्त्वाद्या: पृथिवीपते' (वि.2.13.70) इति ।

एतेन कर-मयोगतणूकृतगुणकज्ञाननिष्ठव्यवच्छेंद: ।

।स्वोचितशब्देन तृतीयषट्के वक्ष्यमाण: प्रकारो दर्शित:।

स्वशब्दोऽत्र गुणपर:; ।अवशस्सर्व: इत्युद्देश्यविशेषणत्वभ्रमव्यादासाय

।अवश: कार्यत इत्युक्तम् । ।कार्यते इत्यस्य 1.प्रयोज्यकर्मपरत्वव्युदासेन

प्रयोज्यकर्तृविषयत्वव्यक्त्यमर्थं ।प्रवत्र्यत इत्युक्तम् ।

व्याख्यातश्लोकद्वयतात्पर्यमाह ।अत इति ।

।अत: गुणपरतन्त्रतया कर्मयोगमन्तरेण ज्ञानयोगस्य

दुस्सम्पादत्वादित्यर्थ:। पापनाशाद्गुणवशीकरणम्;

तच्च मोक्षार्थप्रवृत्त्यनुकूलत्वम् । रजस्तम: प्राचुर्यनिवृत्तिर्वा

तत्कार्यरागद्वेषाद्यभावो वा ।निर्मलोत्वमिहाभिप्रेतम् ।।

03.06.06

अकरणे बाधं वदतीत्याह ।अन्यथेति । कर्मयोगमकृत्वेत्यर्थ: ।

।मनसा स्मरन् इत्यनेनार्थसिद्धं हेतुमाह ।अविनष्टेति ।

।आत्मनि विमुखीकृतमना इति ।। विमूढात्मा इत्यत्रात्मशब्दो

मनोविषय:। ।विमूढत्वमात्मवैमुख्यम् । येभ्य एवेन्द्रियाणि

निरोद्धुमिष्टानि तानेवेत्येवकारार्थ:। मिथ्याचारप्रकारमाह

।अन्यथासङ्कल्प्येति । अन्यथाभाव एव ह्रन्तत:

सर्वत्र मिथ्यात्वम् । अत्रापि

सङ्कल्पितज्ञानयोगविपरीताचारतया ज्ञानयोगाभिमतस्तस्याचारो

मिथ्येत्युक्तं भवति । मिथ्याचारसंज्ञानझ्र्नटमात्रव्युदासेन

दोषपर्यवसानायाह।आत्मेति प्र् विपरीतविनष्टशब्दाभ्यामुपायवैरीत्यमिति

दर्शितम् प्र् द्वितीयेऽध्याये 'ध्यायतो विषयान् ' इत्यारभ्य,

"बुद्धिनाशात्प्रणश्यति' (2.62,63) इत्यन्तेनास्यैवार्थस्य

प्रपञ्चनं कृतमिति ।विनष्टशब्देन स्मारितम् प्र्प्र्

03.07.07

प्रथममेव ज्ञानयोगमारुरुक्षुमपोद्य(ह्र?) कर्मयोगिनं प्रशंसति प्र्

।यस्त्विति श्लोकेनप्र् प्रकृतेन संगमयन् व्याख्याति

।अत इति इन्द्रियाणां निश्शेषनियमनस्य कर्मयोगारम्भसय

च मिथो विरुद्धत्वात् अविरोधसिद्धयर्थमुक्तं ।शास्त्रीये कर्मणि इति प्र्

।न हि कश्चदित्यादिना ज्ञानयोगस्य दुष्करत्वे यो हेतुरुक्त:,

तस्यैव कर्मयोगं प्रत्युपकारकत्वेन सौकर्यप्रतिपादनार्थं

।पूर्वाभ्यस्तविषयङसजातीये इत्युक्तम् प्र् यदि पूर्वाभ्यास

उपकारकत्वेन स्वीक्रियते, तर्हि निषिद्धेभ्यो नियमानमशक्यं,

तेष्वेव वासनाया: प्राचुर्यदिति शङ्कानिरासाय,

कर्मण: फलान्तरपरित्यागाय चोक्तम्- ।आत्मावलोकेन(ने)

प्रवृत्तेनेति प्र् निषिद्धानामात्मावलोकनविरोधित्वाध्यवसायात्

तेषु स्थिराऽपि वासना तिरस्क्रियत इति भाव: प्र्

।कर्मेन्द्रियै: इत्यनेनाभिप्रेतं सौकर्यं विशयदयति

।स्वत एव कर्मप्रवणैरिन्द्रियैरिति प्र् असङ्गस्य

कर्मयोगारम्भापेक्षितत्वाद।सक्तपदस्य यद्वृत्तवाक्यांशेऽन्वयमाह ।

।असङ्गपूर्वकमिति प्र् वैशिष्टप्रकारं विशेषस्य चावधिं दर्शयति

।असंभाव्यमानप्रमादत्वेन ।ज्ञानिष्ठादपीति प्र्प्र्

03.08.08

अथ सौकर्यनिष्प्रमादत्वदुस्त्यजत्वादिहेतुभि: कर्मयोगस्यैव

ज्यायस्त्वं दर्शयन् "ज्यायसी चेत्कर्मण:' इत्यादे: साक्षादुत्तरमाह

।नियतशब्दस्य मन्दप्रयोजनात् क्रियाविशेषणत्वादपि

प्रभूतप्रयोजनसमानाधिकरणकर्मविशेषणत्मेवोचितम् प्र्

ततश्च कर्मणौ नियतत्वं स्वभावत: शास्त्रतो वा स्यादुभयतो वा प्र्

तत्रैकस्मिन्नुभयविविक्षाक्लृप्तिस्तावत् गरीयसी प्र्

।शरीरयात्रा इत्यत्र तु शास्त्रीयकर्मझ्र्णिटनियमाभिप्रायो व्याख्यास्यते प्र्

अतोऽत्र स्वभावतो नियतत्वं विवक्षितम् प्र्

ज्ञाननिष्ठाया दुष्करत्वे प्रस्तुते कर्मनिष्ठायां(या:) सौकर्यमेव

चानन्तरं वक्तुमुचितमित्येतदखिलमभिप्रेत्याह

।नियतं व्याप्तमित्यादि प्र् केन किंनिबन्धना व्याप्तिरित्यत्राह

।प्रकृतिसंसृष्टेनेति प्र् अकर्मण इतिपदे नञस्तदन्यविषयत्वं

विभक्तेश्च पञ्चमीत्वेनावधिविषयत्वंझ्र्च?ट व्यञ्जयति

।ज्ञाननिष्ठायअपीति प्र् अत्राकर्मशब्दस्य ज्ञाननिष्ठाविषयत्वं

कथम् ? "मा ते सङ्गोऽस्त्वकर्मणि' (2.47) इत्यत्र हि स

एव कर्माभावविषयतया व्याख्यात:; तद्वदत्राप्यनुष्ठानत्यागे प्रसक्ते,

तस्मादनुष्ठानमेव ज्याय इति वक्तुमुचितमित्यत्राह ।नैष्कम्र्यमिति प्र्

अत्र उपक्रमे कर्मयोगज्ञानयोगयो: तारतम्यमनुयुक्तमम्; तस्यैव

चोत्तरमिह विवक्षितम् प्र् मुमुक्षुसाध्यत्वेन निर्दिष्टस्य नैष्कम्र्यस्य

सुषुप्तयादिसुलभकर्माभावत्वं चायुक्तम्,

कर्मनारम्भान्नैष्कम्र्यमित्यत्र साध्याविशेषप्रसङ्गाच्च प्र्

अतो ज्ञाननिष्ठैवात्रा।कर्मशब्देनाभिधीयत इत्यर्थ: प्र्

कर्मनिष्ठाया ज्यायस्त्वे वक्ष्यमाणं हेत्वन्तरमाह ।कर्मणि

क्रियमाणे चेत्यादिना प्र्।अनन्तरमेवेत्यासन्नत्वाभिधानेन

तस्येहाभिप्रेत्वं दर्शितम् प्र् ज्ञानयोगशक्तस्यापि

कर्मयोगानुष्ठानायाभिप्रायिकमर्थमाह प्र् ।कर्मण इति प्र्

इह ।ज्ञाननिष्ठाया इति पञ्चमी प्र् अप्रसक्तप्रतियोगिकं

ज्यायस्त्ववचनमयुक्तमिति भाव: प्र् उत्तरार्धस्यावतामाह

।यदीति प्र् अत्र तु "।अकर्मण इति बहुवीहि:,

।ते इत्येनेन सामानाधिकरण्यात्' इति व्यञ्जनाय

।अकर्मणस्ते ज्ञाननिष्ठस्येत्युक्तम् प्र् ननु सर्वकर्मपरित्यागिनो

यदि शरीरयात्राऽपि न स्यात्, ततो लब्धोपायस्य तस्य

स्वरसत: प्रतिबन्धुनिवृत्ते: अयत्नलभ्यैव मुक्ति:

स्यादित्याशङ्कयाह ।यावदिति प्र् न हि

साधनानुवप्रवेशमात्रात्फलसिद्धि:, किंतु साधनसंपूर्तेरेव प्र्

सा च न त्रिचुतुरदिवसलभ्या; येन शरीरमुपेक्षेमहि प्र्

चिरकालसाध्यायां च साधनसंपूर्तौ तावन्तं कालं शरीरमवश्यं

रक्षणीयम् अनिष्पन्नोपायस्यौदासीन्यात् तत्परित्यागे प्रत्यवायोऽपि

स्यादिति भाव:प्र् अस्तु शरीरधारणमपेक्षितम्,

तथाऽपि तन्न स्वेच्छया चिरकालं कर्तुं शक्यम्,

नाप्यौदासिन्यमात्रत् तन्निवृत्ति:, आरम्भककर्मविशेषेण शरीरस्य

नियतावधिकत्वात् प्र् स्मरन्ति च कर्मिणांप्रतिनियतानि

""विवाहो जन्म मरणम् (इ.स 3) इत्यादीनि प्र्

अस्तु वा स्वेच्छया शरीरधारणम्, तथाऽपि यत्किञ्चिलौकिककर्मणैव

तत् सुशकमित्यत्राह ।न्यायार्जितेति प्र् अयमभिप्राय:-

द्विविधानि कर्मफलानि, नियतानि अनियतानि चेति प्र्

प्रबलशापादिसंभवानि नियतानि; इतराण्यनियतानि प्र्

अनियतत्वं च तेषां देशकालाद्यपेक्षया, न तु स्वरूपत:;

येन कर्मणांनिष्फलत्वप्रसङग: स्यात् प्र्

ततश्च यान्यत्रानियतानि तत्र स्वव्यापारविषयता;

यान्यधिकृत्य प्रायश्चित्तमन्त्रौषधणीतिशास्त्रादीनि
प्र्

अन्यथा विजिगीषुभिरुपपन्न।परिपन्थिभिरपि न

चतुरङ्गादिकङगीक्रियेत; आतुरैरपि न भेषजमुपभुज्येत;

स्वेच्छया किञ्चित्करणाभावे स्वारसिककर्तृत्वाभावाच्छास्त्रस्याप्यनुदय:;

अत एवं ज्ञानयोगमारुरुक्षता त्वया कर्मवश्यत्वमेव जगतो

निवर्तितमिति सम्यगयत्नसिद्धो मोक्ष: समर्थित: इति भाव:प्र्

एवं शरीरधारणाभावे स्वारसिकं विशरारुत्वं द्योतयति

।शरीरशब्द: प्र् ।एवकारेण न्याय्यार्जनयज्ञ्शिष्टाशनादेर्नियमविधित्वं

द्योतितम् प्र् एवंविधा च शरीरयात्रा

ज्ञानयोगसाध्यभक्तियोगदशायामप्यविच्छेद्येभिप्रायेणा

।हारशुद्धिश्रुत्युपादानम् प्र् श्रौतस्यार्थस्यात्रापि विवक्षितत्वज्ञापनाय

वक्ष्यमाणतमाह ।ते त्वघमिति प्र् पूर्वोपपादितान् हेतून्

बुद्धिस्थक्रमेण विवच्योद्गृह्णन् आभिप्रायिकं शाब्दं चाखिलमर्थं

सुखग्रहणाय सङ्कल्य्य दर्शयति ।यत इति प्र्

ज्ञाननिष्ठायोग्यस्यापि कर्मयोगो ज्यायान्,

तस्मात् त्वं ज्ञानयोगमेव कुर्विति वा त्वंशब्दाभिप्राय: प्र्प्र्

03.09.09

।यज्ञार्थात् इति श्लोक: कर्मविधिनिषेधयोर्विषयव्यवस्थापक

इति ज्ञापयितुं शङ्कते ।एवं तर्हीति प्र् द्रव्यार्जनादेरित्यत्र

।आदिशब्देन महायज्ञादिग्रहणम् प्र् ।ममकारादीत्यत्र

तु रागद्वेषाभिनिवेश-वचनादानविहरणादिग्रहणम् प्र्

अहंकारममकारादेर्मनोवृत्तिविशेषत-वादि।न्द्रिव्याकुलतारूपत्वोक्ति: ।

अस्य पुरुषस्येति प्र् मुमुक्षोरपीति भाव: प्र् ।कर्मवासनयेति प्र्

  1. ेप्राचीनयाऽनुपरतयाऽद्यतनव्यापाराभ्यासोपबृंहितया चेति भाव: प्र्


।बन्धनं भवष्यतीति प्र् उत्तरोत्तरशरीरबन्धादिना

संसारानुवृत्तिप्रसङ्ग: इत्यर्थ: प्र्

अत्र यज्ञो वै विष्णु (श.ब्राा:1.1.1.2.13.; यजु. 1.7.4.4)

इति श्रुते: यज्ञ: ईश्वर: इति परैव्याख्यातम्; तच्चाविरुद्धमस्माकम्;

तथाऽपि

समनन्तरश्लोकादिपठितयज्ञशब्दैकाथ्र्यमुमुचितमित्यभिप्रायेणाह

।यज्ञादिशास्त्रीयकर्मशब्देनोपलक्षणोपलक्ष्याणां

सामान्यतस्संग्रहाकाकारं तदर्थकर्मणौ निर्दोषत्वहेतुत्वं

च दर्शयति प्र् ।यज्ञार्थात् यज्ञाप्रयोजनात् प्र् तदिदं दर्शितम्

।शेषैभुतादिति प्र् कर्मैव बन्धनं कर्माणा वा बन्धनं यस्य स

।कर्मबन्धन: प्र् तस्य च बन्धकत्वं स्ववासनाद्वारा;

न पुन: पापतया; अविहितप्रतिषिद्धविषयत्वादत्र कर्मबन्धनशब्दस्य प्र्

।अस्य पुरुषस्य कर्मवासनया बन्धनं भविष्यतीति शङ्काग्रन्थेनायमर्थो

दर्शित: प्र् लोकोऽत्र संसारिचेतनवर्ग: प्र् अत इति प्र्

यज्ञार्थस्य कर्मणो बन्धनहेतुत्वाभावादित्यर्थ: प्र्

द्रव्यादिलाभहेतुभूतयुद्धप्रोत्साहनस्य व्क्तयर्थं

।द्रव्यार्जनादिकमित्युक्तम् प्र् तादथ्र्यं सङ्गत्यागश्चेत्युभयमपि

विधेयमिति ज्ञापनाय पृथग्वाक्यकरणम् प्र्

कर्तृत्वफलत्यागयोर्विलक्षणं सङ्गत्यागस्य स्वरूपं दर्शयति


तत्रेति प्र् यत्किञ्चित् प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते

इति चेत् सत्यम्; प्रयोजनसाधनत्वबुद्धयभावेऽपि

सुह्मदुपचारवत् भगवतसमाराधनरूपतया स्वरूपेण

प्रयोजनत्वबुद्धया प्रवृत्त्युपपत्ति: प्र् ।मुक्तसङ्ग इत्यत्र

सङ्गस्य बन्धनकत्वविवक्षया ।सङ्गान्मुक्त इतयुक्तम् प्र्

प्रकृतचोद्यस्यादृष्टद्वारा फलप्रदत्वेन परिहारं वदन् अतदर्थस्य

बन्धुहेतुत्वोक्त्या फलितं तदर्थस्य मोक्षहेतुत्वप्रकारं दर्शयति

।एवमिति प्र् एतेन कर्मणामप्रामाणिकापूर्वद्वारा फलप्रदत्वमिति

कुद्दृष्टिमतं निरस्तम्, आर्थवादिकापेक्षितदेवताप्रीतिद्वारैव

फलप्रदत्वोपपत्तौ "स एनं प्रीत: प्रीणाति' (यजु.5.5.10.48)

इत्यादिश्रुतहानाश्रुतकल्पनाद्युपपत्ते: प्र् ।कर्मभिराराधित इत्यनेन

हविग्र्रहणम् प्रीतिश्चाभिप्रेते; ।परमपुरुष इति प्र्

तदविनाभूतादित्यवर्णादिश्रुतिसिद्धविग्रहविशेषवत्त्वम्,

सर्वब्राहृाण्डयुगपत्कर्मसन्निधिशक्तिश्च, ।ददातीति

वरप्रदत्वमिति 1.विग्रहादिपञ्चकप्रदर्शनम् प्र्

।कर्मवासनामुच्छिद्येति विपरीतवासानाचोद्यं परिह्मतम् प्र्प्र्

03.10.10

उक्तमर्थद्वयं सह यज्ञै:'इत्यारभ्य "मोघं पार्थ स जीवति' इत्यन्तेन

निन्दाप्रशंसादिभिद्र्रढयतीत्याह ।यज्ञशिष्टेनैवेति प्र्

सर्वपुरुषार्थसाधननिष्ठामित्यनेन "प्रजास्सृषट्वा' इति

समान्यनिर्देशफलितमुक्तम् प्र् अत्र ।प्रजापतिशब्दस्य

हिरण्यगर्भादिविषयत्व्युदासायाह ।पतिं विश्वस्येतीति प्र्

हिरण्यगर्भादेरपि प्र्

न तु हिरण्यगर्भादिवदण्डाद्यवचछिन्नस्ये(न्नमि?)त्यर्थ: ।

तत एवोक्तम् ।निरुपाधिक इति प्र् श्रुतार्थस्वभावादपि स

एवसर्वप्रजापतिरिति प्रदर्शनाय ।सर्वेश्वरमित्यादिविशेषणोक्ति: प्र्

।नारायणम् एतदखिलं नारायणशब्दवाच्यस्यैव हि

नारायणानुवाकादिषु प्रतिपाद्यत इति भाव: प्र्

उक्तं च जगत्पतित्वं रुाष्टत्वादिकं च समुच्चित्य भगवता

।पराशरेण "कलौ जगत्पतिं विष्णुं सर्वरुाष्टारमीश्वरम्'

(वि.6.1.50) इति प्र् ठअनु मानात्तुदुद्धारं कर्तुकाम: प्रजापति:'

(वि.1.4.7)इति च वराहरूपे भगवति प्रजापतिशब्द:

तेन "प्रजापति:' (ना.1.1.) इत्यादिश्रुत्यनुसारात्प्रयुक्त: प्र्

किंच स्वतन्त्रस्य कर्मपरतन्त्रान् प्रति नियोगो ह्रम् प्र्

अतोत्र "प्रजासृष्ट्वा' इति ।प्रजाशब्दस्सर्वान् ब्राहृपर्यन्तान्

जगदन्तव्र्यवस्थितान् कर्मजनितसंसारवशवर्तिनो यज्ञाद्यधिकारिण:

प्राणिन: संगृह्णाति प्र् अतोऽत्र ।प्रजापतिशब्द:

उपक्रमस्थ।प्रजाशब्दानुरोधात् संकोचेन तद्वैरूप्यायोगाच्च

परित्यक्तरूढिरकर्मवश्यं नियोक्तारं सर्वेश्वरं नारायणमाह प्र्

तथा सृज्यसमस्तक्षेत्रज्ञविषयो ह्रमनवच्छिन्न:।प्रजाशब्द:,

।पुरेति प्रलयानन्तरकालाभिधानात् प्र्

ततश्च "सदेव सोम्येदमग्र आसीत्' "तदैक्षत बह स्यां प्रजायेयेति'

(छा.6.2.1) "सन्मूलास्सोम्येमास्सर्वा: प्रजास्सदायतना:'

(छा.6.8.4) "एको ह वै नारायण आसीन्न ब्राहृा नेशान:'

इत्यारभ्य, "तत्र ब्राहृा चतुर्मुखोऽजायत बुद्धबुदात् त्र्यक्षश्शूलपाणि:

पुरुषोऽजायत' (महो.1.1), "सिससूक्षुर्विविधा: प्रजा:' (मनु.1.8)

इत्यादिषु हिरण्यगर्भादेरपि प्रजात्वावगमात् नारायणस्य च

तज्जनकत्वावगते: हिरण्यगर्भादेरपि प्रजात्वावगतमात् नारायणस्य

च तज्जनत्वावगते: प्रजास्सृष्ट्वेत्यनवच्छेदेन निर्दिष्टो विश्वस्य

रुाष्टा नारायण एवेति स एवात्रप्रजापति: प्र्

किंच "तस्माद्यज्ञात् सर्वहुत:, ऋचस्सामानि जज्ञिरे' सर्वाणि रूपाणि

विचित्य धीर:, नामानि कृत्वाभिवदन् यदास्ते' (पु) इति

यज्ञैस्सह सवंप्रजानां रुाष्टृ तया निर्दिष्टोऽपि 1.

अधिकारपुरुषस्यापि रुाष्टा सहरुाशीर्षत्वादिविशिष्ट:

झ्र्महाटपरमपुरुष एव प्र् अतोऽपि "सह यज्ञै: प्रजा: सृष्ट्वे"ति

निर्दिष्ट: प्रजापति: विश्वस्य स्ष्टा स एव प्र् तथा "सृÏष्ट तत:

करिष्यामि त्वामाविश्य प्रजापते' (वि.ध.68.51)

इत्यादिवचनबलाद्धिरण्यगर्भाख्यप्रजापतिमुखेनापि विश्वसृष्टा,

"सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायण:'

(सु.8) इति श्रुतस्स एव विश्वात्मा प्र् किं चात्र निर्दिश्यमानं देवानां

भावनादिकं परमात्मात्मकानामेवेति "अहं हि सर्वयज्ञानां' (9.24)

इत्यादिकम् विश्वस्य रुाष्टारं विश्वात्मानमिति विशेषणाभ्यां सूचितम् प्र्

अतोऽपि ।परायणं तमेवाह तथा "प्रेजापतेस्सभां वेश्म प्रपद्ये'

(छा.14.1) इत्यत्र परमप्राप्तया च प्रजापतिशब्दनिर्दिष्टोऽपि

परमात्मैवेति "न च कार्ये प्रत्यभिसन्धि:' (ब्रा.4.3.13) इति

सूत्रे प्रत्यपादि प्र् अतोऽपि परायणं तमेवमाह प्र्

एवं ।सर्वेश्वरमित्यादिविशेषणैस्तत्त्प्रमाणसूचनं कृतम् प्र्

एवं श्यामैकरूपसप्तदशायातयामाज्यदैवतविष्णुविषय(तै.1.3.4)

प्रजापतिशब्दश्रु2.तिरप्यनुसन्धेया प्र् पुराशब्दस्य

वचनान्वयप्रतीतिव्युदासेन ब्राम्हाद्यगोचरसृष्टयन्वयक्तयर्माह

।पुरा सर्गकाले इति प्र् श्रुतिस्मृत्यादिषु

सृष्टिप्रकरणप्रसिद्धिप्रकारमभिप्रैति ।स भगवानिति प्र्

।भगवच्छब्देन सृष्टयादिपञ्चकृत्योपयुक्तहेय

प्रत्यनीकल्याणगुणविशिष्टत्वं दर्शितम् प्र्

तथा मानवे धर्मशास्त्रे प्रथमम् आसीदिदं तमोभूतम्' इति

प्रलयमभिधाय "ततस्वयं भूर्भगवान्' इति भगवच्छब्देन

सर्वरुाष्टा निर्दिष्ट: प्र् अनन्तरं च "ता यदस्यानं पूर्वं

तेन नारायण: स्मृत:' "तद्विसृष्टस्य पुरुषो लोके ब्राहृेति

कीत्र्यते' (मनु.1.अ) इति हिरण्यगर्भाख्यप्रजापते: रुाष्टा

नारायण इत्यक्तम् प्र् अत्र, ।प्रजापतिरुवाचेति पराक्तया

निर्देशस्तु सारथिभूतस्य स्वस्य प्रजापतिशब्दप्रतिपन्नात्

स्वस्माद्भेदोपचारेणेति मन्तव्यम् प्र् एवमुत्तरत्रापि सर्वत्र

पराक्त्वनिर्देशेषु यथार्हमनुसन्धेयम् प्र् सर्वत्र

सृष्टेस्संहारपूर्वकत्वदर्शनादत्रापि तथा विवक्षन्,

संहारस्य प्रयोजनं सृष्टेर्हेतुं चाह ।अनादीति प्र्

अनवरतसुखदु:खोपभोगायासपरिश्रान्तानां विश्रमार्थं

अश्रान्तापथप्रवृत्तिवासनाविच्छेदार्थं ।चोपोसंहार: ।

अतो न संहारे नैर्घृण्यदोष: प्र् तादृशसुखदु:खोपभोगप्रदाने च

परमात्मनित्यसङ्कल्पसिद्धजीवस्वातन्त्र्यनिबन्धनानादिकर्म-

प्रवाहहेतुकाचित्संसर्ग एव हेतुरिति न तत्रापि वैषम्यनैर्घृण्ये प्र्

सूत्रितं च "वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति'(ब्रा.2.1.34)

न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च'

(ब्रा.2.1.35), कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयथ्र्यादिभ्य:'

(ब्रा.2.3.49) इति प्र् ।उषसंह्मतनामरूपविभागा: स्वस्मिन्

प्रलीना इति असद्व्यपदेश एकत्व्यपदेशादिश्च निव्यूढ: प्र्

नामरूपप्रहाणं स्वस्मिन् प्रलयश्च मोक्षवत्पुरुषार्थ एव

स्यादित्याशङ्कयाह ।सकलेति प्र् त्रवर्गेऽप्यनर्हा:;

किं पुनरपवर्ग इति भाव: प्र् तत्र हेतुमाह ।चेतनेतरकल्पा इति प्र्

स्वप्रकाशत्वेऽप्यत्यन्तज्ञानसङ्कोचात् तत्कल्पत्वम्; न तु

ज्ञानविनाशात् प्र् ।प्रजा: हिरण्यगर्भादिका:;

।समीक्ष्य सम्यगवलोक्य; एतेन "जायमानं हि पुरुषं यं

पश्येन्मधुसूदन: (भा.मो. 358.72), "नावेक्षसे यदि' (स्तो.10)

इत्यादिकमभिप्रेतम् प्र् ठस एकाकी न रमेत' (महो.1) इति श्रुते:

"परमकारुणिक: किलो त्वम्' (महो.1) इत्यादिस्मृतिसिद्धगुणविशेषे

तात्पर्यमाह ।परमकारुणिक इति प्र् अवाप्तसमस्तकामस्य

जगद्यापारानुपपतिं्तपरिहरति ।तदुज्जिजीवविषयेति प्र्

कारुणिका हि स्वार्थनिरपेक्षा एव परोज्जिजीवयिषया प्रवर्तन्ते,

सैव प्रवृत्तिरस्य लीलाऽपीति न दोष इति भाव: प्र्

।यज्ञेस्सहेति निर्देश: उजजीवनोपाय विशेषणनिष्पत्यर्थ

इत्यभिप्रायेणाह ।स्वाराधनेति प्र् ।यज्ञैरिति वैवध्यसूचनाय

बहुवचननिर्देशे पूर्वं कृतेऽपि, अनेनेत्येकवचनेन परामर्शो

जायात्येकत्वपर इत्यभिप्रायेणाह । अनेन1यज्ञेनेति प्र्

सहयज्ञा: इति ।शङ्करयादवप्रकाशीयपाठस्त्वप्रसिद्धेरनादृत: ।

प्रसविष्यध्वमित्यत्र "षूञ् प्राणिप्रसवे' "पूङ्गर्भविमोचने' इति

धातुद्वयेऽपि प्रजननमात्रप्रतीतिस्यात्; न 2.च द्वादशाहादिवत्

सर्वेषां यज्ञादीनां प्रजामात्रं फलम् प्र् अतस्सन्तत्युपलक्षिता

स्वनिषाद्या समृद्धिरत्र विवक्षितेत्यभिप्रयेणाह

।आत्मनो वृदिं्ध कुरुध्वमिति प्र् यज्ञसाध्य: कामो

निषिद्धेतरधर्माविरुद्धसमस्तकाम्यवर्ग:; तत्रापि मोक्षतत्साधनोपकारिषु

तात्पर्यभूयस्त्वमित्यभिप्रायेण ।मोक्षतदनुगुणोपादानम् प्र्

रुचिवैचित्र्यज्ञापनायेष्टशब्देन विशेषणम् प्र् मोक्षस्येष्टकामशब्देन

संग्रहाय ।परमपुरुषार्थलक्षणेत्युक्तम् प्र् अवधीरितस्वर्गाय

अर्जुनायोपदेशात् "मा फलेषु' आ आ (2.40),

"श्रेय: परम्' इति पूर्वापरानुगुण्याच्चात्र मोक्षार्थतोक्तिर्युक्ता प्र्

आ ।प्रपूरयितेति प्र् ठदुह प्रपूरणे' इति हि धातु: प्र्प्र्

ननु प्रपूरणं हि पूरणाभावेनुशिष्टम्, प्रस्थानप्रस्मरणादिष्विवात्रापि

प्रशब्दस्याभावविषयत्वात् अत एव हि "गां दोग्धि' इत्यादिप्रयोग: ।।

सत्यम्; तथाऽपि गां दोग्धीत्यत्रापि गोरेव पयोरेचनम्, न तु

पयस: स्वरूपवैकल्यम्; तद्वदत्रापि गोस्थानीयाद्यज्ञत: (यात् 3.मत्त:)

क्षीरस्थानीया: कामा लभ्यन्ते; तैस्तस्य रेचनं स्यात्;

फलदातुस्सकालशात् फलमादाय युष्मभ्यं ददात्वित्यर्थ:;

तेन यज्ञाराधितोऽहं युष्मभ्यं कामान् ददामीत्युक्तं भवति ।।

03.11.11

यज्ञेनात्मनो वृद्धि: कथम्? क्षणिक क्रियारूपश्च यज्ञ:

कथं कालान्तरभाविकलसाधनम्? "नान्य: पन्था:' (षु.)इत्यादिना

ज्ञानस्यैव मोक्षप्रदत्वे सिद्धे कथं स्वर्गादिसाधनतया निर्दिष्टो

यज्ञो मोक्षसाधनम्? स्मरन्ति च, "कर्मणा बध्यते जन्तुर्विद्यया

च विमुच्यते प्र् तस्मात् कर्म न कुर्वन्ति यतय: पारदर्शिन:' प्र्प्र्

(भा.मो. 547) इति प्र् तथा "नैव धर्मी नचाधर्मी'

(।भा.आश्व. 19.7) "ज्ञानं संन्यासलक्षणम्' (ना.प.उ; भा. 43.23)

इति च; कथं च मोक्षैबहिर्भूतानां विचित्रसांसारिककामानां

तदनुगुणत्वम् इति शङ्कात्सबकमभिप्रेत्याह
।कथमिति प्र्

तत्र ।देवान् भावयते प्रथमस्योत्तरम् प्र्

देवताराधनं ह्राराधकस्यातिशय एव, अतस्य एवात्मनो वृद्धि: ।

यज देवपूजायामिति यज्ञपदप्रकृतिं धातुं स्मारयति

।देवताराधनभूतेनेति प्र् यज्ञस्य़ मोक्षहेतुत्वानुपपत्तिपरिहारायाह

।मदात्मकानिति। परमात्मसामाराधातया कृतं कर्मैव

मोक्षसाधनज्ञानातङ्गतया स्थित्वा मोक्षं साधयतीतिप्रागेवोक्तम् प्र्

।मदात्मकानित्यस्यान्तर्यामिब्रााम्हणादिसिद्धत्वसूचनाय

।मच्छीरभूतानित्युक्तम् । यज्ञेन देवानां भावनं हि सन्तोषवत्तया

भावनमित्यभिप्रायेणोक्तम् ।आराधयतेति ।

तदभिप्रायेण च ब्रााहृणम् "तस्मादित: प्रदानं देवा उपजीवन्ति'

(यजु.3.2.9,7) इति । ।मदात्मिकानित्यस्यात्रानुक्तस्य

कैथमुपादानमित्यत्राह ।अहं हीति । क्षणिकस्य

फलप्रदानानुपपत्तिपरिहाररूपं द्वितीयं पादं व्याख्याति

।यज्ञेनेत्यादिना ।पुष्णन्त्वित्यन्तेन । प्रस्तुताकारपरामर्शितच्छब्दार्थ:

।यज्ञेनाराधिता इति । देवानां फलप्रदानशक्तिसिद्धयर्थं पुन:

।मदात्मका इत्युक्तम् । एवं च क्षणिकस्यापि देवताप्रीतिरूपापूर्वद्वारा

फलसाधनत्वम् ; महाप्रलये त्विन्द्रादिलयेऽपि परदेवताप्रतीत्द्वारा

पुन: फलप्रदत्वमुपपन्नित्युक्तं भवति । चतुर्थशङ्कापरिहारमभिप्रेत्याह

।स्वाराधनेति । देवैराराधकानां भावनं नाम अपेक्षितै:

पोषणमित्यभिप्रायेणोक्तम् ।पुष्णन्त्विति । उत्तरार्धमुक्तस्यैवार्थस्य

मोक्षोपयोगित्वज्ञापकमित्यभिप्रायेणाह ।एवमिति ।

स्वर्गादिरूपश्रेयोव्यावृत्त्यर्थं ।परत्वविशेषणमित्यभिप्रायेणोक्तम्

।मोक्षाख्यमिति ।।

03.12.12

"ते देवा भावयन्तु व:' इत्युक्तस्य पोषणस्य

"देवान् भावयते'त्यस्य व्यतिरेके प्रत्यवायश्चोच्यते ।इष्टानिति

श्लोकेन । इष्टानित्यस्यार्थ: ।उत्तरोत्तराराधनापेक्षितानिति ।

न हि मुमुक्षुभिरुदरपूरणाद्यर्थं भोगा इष्यन्त इति भाव:।

बहुवचनासङ्कोचमभिप्रेत्योक्तम् ।सर्वानिति दास्यन्त इति

कत्र्रभिप्रायकक्रियाफलात्मनेपदस्वभावानुयरोधेनात्मार्थपाचकानां

चोरत्वसिद्धयर्थं ।स्वाराधनार्थतयेत्युक्तम् । ननु किमत्र चोरत्वम्?

न हि देवानां भोगान् असौ गूढं प्रसह्र वा हरति ।

न च तैर्दत्तस्य स्वहस्तागतस्य भोगश्चौर्यम् ।

न हि राजादिसेवकास्तद्दत्तभोजिनश्चोरा इति शूलमारोप्यन्ते ।

एवं च सति सर्वेषां यज्ञादिफलभुजामविशेषेण चोरत्वं प्रसज्यत

इत्याशङ्कयाह चौर्यं हीति । परबुद्धया परप्रयोजनत्वेन

परिकल्पितस्य स्वकीयस्य, परानुमत्या स्वप्रयोजनतया

परिकल्पितस्यान्यदीयस्य च व्यवच्छेदाय ।अन्यदीय

इत्यादिविशेषणद्वयम् । ।तेन स्वात्मपोषणमिति तेन

स्वात्मपोषणमिति चौर्यस्य फलम् ।

अन्यदीये स्वकीयताबुद्धिकरणमित्येव लक्षणम् ।

तत्प्रयोजनतयेत्यन्यदीयत्वफलम् ।

तेन स्वात्मपोषणानौचिद्योतनम् ।

।वस्तुयशब्देन चोरयितव्यावान्तरभेदाविवक्षां द्योतयति ।

एवं च सति "योऽन्यथा सन्तम्' (भा.उ. 42.35)

इत्याद्युक्तात्मचौर्यमपि लक्षितं भवति । भगवदीये

तद्गतातिशयाधानेच्छयैव परिकल्पितेप्रत्यगात्मनि

स्वातिशयावहस्वतन्त्रत्वाभिमानरूपत्वात् तस्य ।

नन्वेवमप्यत्रोदाहरणेकथं चोरत्वम्? उच्यते-देवा हि

कर्भिराराधिता अपि हविग्र्रहणार्थमेव फलं प्रयच्छन्तोदण्डया

एवेति । चोरत्वनिर्देशफलितं व्यनक्ति ।अत इति ।

चोरत्वादित्यर्थ: । ।
पुरुषार-थानगर्हेत्यनेन

विहितकर्माकरणस्याधिकारित्वनिवृत्तिहेतुत्वामपि

ख्यातिपितम् । ।भविष्यतीत्यनेन प्रत्यवायस्य दे

हान्तरभावितया योग्यानुयपलम्भबाधाभाव: सूचित: ।।

03.13.13

पुनरुक्तिपरिहारायार्थान्तरपरत्वव्युदासाय चाह ।तदेव विवृणोति

इति । तत्र पूर्वार्धं "श्रेय: परमवाप्स्यथ' इत्यस्य प्रकारकथनम्;

उत्तरार्धं तु "तैर्दत्तान्' इत्याद्युक्तचोरत्वप्रपञ्चनरूपम् ।

यज्ञाकृष्टयष्टव्याद्याकारविशेषकथनम् ।इन्द्राद्यात्मेत्यादि ।

अवधारणेन केवलेन्द्राद्यर्थत्वस्वार्थत्वयोव्र्यवच्छेद: ।

द्रव्योपादानपचनदशयोरपि परमपुरुषाराधनार्थत्वबुद्धि: कार्येति

ज्ञापनाय ।द्रव्याण्युपादायेत्याद्युक्तम् । एतच्च ।ये पचन्ति

इत्येतद्व्य़तिरेकलब्धम् । केवलेन्द्राद्याराधनस्यापि वस्तुत:

परमपुरुषाराधनरूपत्वादत्र तद्व्यवच्छेदाय तत्तद्देवताययजनस्य

परमपुरुषपर्यन्तत्वसिद्धये च ।यथावस्थितमित्युक्तम् ।

यज्ञशिष्टममृताख्यमशितुं शीलं येषां ते ।यज्ञशिष्टाशिन: ।

रागप्राप्तशरीरयात्रा यज्ञशिष्टेनैव कार्येति नियम: ।

सन्त: यज्ञशिष्टाशिनएव वर्तमाना इत्यर्थ: ।

तदेतदुच्यते ।(येषां ते यज्ञशिष्टाशिन: सन्त: यज्ञशिष्टाशिन एव

वर्तमाना इत्यर्थ: । रागप्राप्तशरीरयात्रा यज्ञशिष्टेनैव कार्येति

नियम: । तदेतदुच्यते?) ।शरीरयात्रां कुर्वते इति । यद्वा ।सन्त

इति पदमुत्तरार्धस्थपापशब्दप्रतिस्थानीयत्वात्साधुविषयम् ।

उत्रार्धवदेत्रापि साध्यसाधनांशविभागद्योतनाय ।यत्तच्छदाभ्यां

वाक्यभेदकरणम् । ।तुशब्देन सद्भ्य: पापानां विशेषे बोधिते

तेभ्योऽपि सतांविशेषोऽर्थासत्सिद्धि इति द्योतनायाह ।ते

त्वनादीति । अत्र चुल्ल्यादि 1पञ्चसूनाकृतपापमात्रव्यवच्छेदार्थं

।सर्वशब्दबहुवचनाभ्यां प्रदर्शितं किल्पिषानन्त्यं समर्थयितुम्

आ ।अनादिकालोपार्जितैरित्युक्तम् । द्विविचधानि किल्बिषाणि

प्राप्तिविरोधीनी उप यविरोधीनि चेति । तत्र प्राप्तिविरोधीनि

भक्तियोगैकनिवत्र्यानीति तेभ्यत्र ।सर्वशब्दसङ्कोचकमभिप्रेत्योक्तम्

।आत्मयाथात्म्यावलोकविरोधिभिरिति । स्मरन्ति च--202.8) इति ।

आ एतेन विरोधित्वविशेषात् सांसारिकपुण्यान्यप्यत्र

।किल्बिषशब्देनोच्यन्ते इत्यपि सूचितम् । पूर्वोत्तराधविघातिनो

भक्तियोगात् विशेषसूचनाय ।उपार्जितेत्युक्तम् ।

आत्मकारणादित्यत्र ।कारणशब्द: प्रयोजनरूपहेतुपर इति

ज्ञापनायोक्तम् आत्मार्थतयेति । पचनमात्रस्याघभोजनत्वेन

निन्दानुपपत्ते: ।आत्मकारणात्पचन्तीत्यनेनार्थसिद्धमुक्तम्

।पापात्मान इति । पापस्वभावा इत्यर्थ: ।

अघशब्दस्तद्गुणसारन्यायात् पापविशिष्टविषय इत्यभिप्रायेणोक्तम्

।पापात्मान इति । पापस्वाभावा इत्यर्थ: । ।अघशब्दस्य

भोज्यनोन्दार्थमौपचारिकत्वद्योतनाया।घमेवेति एवकार उक्त: ।

उपचारनिमित्तं संबन्धमाह ।अघपरिणामित्वादिति ।

अघहेतुत्वादित्यर्थ: । फलितमनिष्टद्वयमाह

।आत्मावलोकनविमुखा इति । आत्मार्थे पचनमानस्य

पूर्वकिल्बिषनिवृत्तयभावादात्मवलोकनवैमुख्यम्;

उत्तरोत्तरकिल्बिषहेतुत्वाच्च पुनर्नरकप्राप्तिरिति

"केवलाघो भवति केवलादी, (अष्ट.2.8; ऋग्वे.8.6.23.10.10.117.6)

इति वचनाभिप्रेतनमाह ।नरकायैवेति । न पुनरैहिकायामुष्मिकाय

वा सुखायेति भाव:।।

03.14.14

उक्तस्यैवार्थस्य प्रमाणप्रदर्शपूर्वकप्रपञ्चनम् "अन्नाद्भवन्ति'

इत्यादिना क्रियत इति आदरार्थत्वात् अपौनरुकत्यमित्यभिप्रायेणाह

।पुनरपीति । यद्यपि लोकदृष्टया साक्षात्द्यज्ञमूलत्वं दर्शयितुमशक्यम्,

तथाऽपि शास्त्रदृष्टिसमुच्चितवेषणैतदुच्यत इत्यदोष: ।

विभक्ष्यते च लोकशास्त्रदृष्टयोर्विषयांश:। ।पर्जन्यशब्देनात्र

पर्जन्यकार्यं वर्षं लक्ष्यते । ।अन्नादित्यादौ "वृष्टेरन्नं

तत: प्रजा:'(मनु.3.76) इत्ययमंशो लोकसिद्धत्वादनुपात्त: ।

"कर्मसमुद्भव:' इत्युक्ते पुण्यपापारूपकर्मसमुद्भव इति धी:स्यात्;

तद्वयुदासाय ।द्रव्यार्जनेत्याद्युक्तम् । अत्र मुख्यार्थसंभवात्

।यज्ञशब्देनापूर्वलक्षणां वदन्तो निरस्ता इति भाव: ।

।आदिशब्देन द्रव्यस्यार्जितस्य पचनादि गृह्रते ।।

03.15.15

ननु कर्तृव्यापाररूपस्य कर्मण: कथं ब्राम्हद्भवत्वम्,

तद्धिप्रत्यागात्मजन्यं शरीरेन्द्रियादिजन्यमिति वा निर्देष्टुं युक्तम्;

न च सर्वसाधारणं ब्राहृणो हेतुत्वमिह विशिष्य निर्देष्टव्यम्;

ब्राहृणश्चाक्षरसमुद्भवत्वमुपपन्नम्; ।ब्राहृशब्दस्य परमात्मविषयत्वे

जीवविषयत्वे वा द्वयोरपि नित्यत्वात् तत्कारणभूतस्य

कस्यचिदक्षरस्याभावात् । ब्राहृाक्षरशब्दयोर्वेदपरमात्मविषयतया

।शङ्करव्याख्याऽपि चक्रत्वझ्र्पत्यटसङ्गता ।

।यादवप्रकाशाद्युक्तं ब्राहृशब्दस्य स्फोटादिपरत्वमक्षराणां

तद्व्यञ्जकत्वादिकं च तत्तत्प्रक्रियादूषणादेव निरस्तम् ।

"स्फोटस्त्वं वर्णसंश्रय:' (हरि. 279. 54) इति तु वर्णानां

स्वार्थस्फुटीकरणशक्तिपरमित्याद्याशङ्कयाह ।अत्रचेति ।

।चश्शङ्कानिवृत्तौ । ।अत्रेत्यनेन ब्राहृशब्दस्य साक्षात्परमपुरुषे

मुख्यत्वेऽपि प्रकरणादिबलात् तस्मादन्यत्र

तद्गुणलेयोगादौपचारिकोऽयमित्यभिप्रेतम् ।

द्रव्यार्जानादिकर्मणश्शरीरिणा साध्यत्वात् तत्र

शरीर्यंशस्याक्षरशब्देन विविच्य वक्ष्यमाणत्वात् शरीरांशस्य

विवक्षयाऽयं ।ब्राहृशब्द इति ।प्रकृतिपरिणामरूपं शरीरमित्युक्तम् ।

प्रकृतिपरिणामरूपे शरीरे तद्द्रव्यत्वेन

।ब्राहृशब्दनिर्देशाय प्रकृतौ तत्प्रयोगं तावदाह

।तस्मादेतदिति । एतत् प्रधानाख्यं ब्राहृ कार्याकारेण

नामरूपविभागविभक्तं चेतनभौग्यं च जायते इति हि श्रुत्यर्थ: ।

न च तत्र ब्राहृशब्द: परमात्मात्वविषय:,

"यस्सर्वज्ञस्सर्ववित् यस्य ज्ञानमयं तप: । तस्मादेतद्ब्राहृ'

(मु.1.19) इति परमात्मान: पृथङ्निर्दिष्टत्वात् ।

नापि प्रत्यगातमविषय:, "नात्मरूपमन्नं च' इत्यनेन

साक्षात्संबन्धायोगात्; अन्नत्वं चात्यन्तामुख्यं स्यात् इति भाव:।

योनिशब्दनिर्देशात् ममेति परमात्मन: पृथङ्निर्देशाच्च

"मम योनिर्महद्ब्राहृ' (14.6) इत्यत्र ब्राहृशब्दस्य

प्रकृतिविषयत्वं सिद्धम् । ।अत इति ब्राहृशब्दस्य

जन्यत्वायोगादित्यर्थ: । एवमत्रत्यब्राहृशब्स्य शरीरविषयत्वे

सिद्धे तदासन्ने प्रत्यगात्मनि अक्षरशब्दो युक्तइत्यभिप्रायेणाह

।ब्राम्हाक्षरसमुद्भवमित्यत्रेति । जीवस्य चाक्षरशब्दवाच्त्वं

"क्षरं प्रधानममृताक्षरं हर:' (श्वे.1.10) "कूटस्थोऽक्षर:'(5.13)

इत्यादिसिद्धम् । नन्वेवमपि "ब्राहृाक्षरसमुद्भवम्'

इत्ययुक्तम्; स्वशरीरस्य सर्वस्य स्वबुद्धिपूर्वत्वाभावात् ।

न चात्र चक्रत्वं दृश्यते, अन्नप्रभृतिशरीरपर्यन्तस्य

कार्यकारणभावेऽपि शरीरहेतोरक्षरस्य अन्नादिजन्यत्वाभावात् ।

न च "अन्नाद्भवन्ति भूतानि' इति जीवो निर्दिष्ट:,

तत्र ।भूतशब्दस्यान्नविकारशरीरमात्रविषयत्वात्; तत्राह

।अन्नपानादिनेति । अयमभिप्राय:-न तावदिह

शरीरमात्रमक्षरजन्यतया निर्दिष्टम्, किंतु

"कर्म ब्राहृोद्भवम्'इत्यनेन कर्मसाधनभूतम्;

तत्साधनत्वं च शरीरस्य प्रत्यगात्माधिष्ठितस्यैव;

तस्य चाधिष्ठातृत्वशक्तिरन्नापानादिजनिततृप्तिनिबन्धना ।

एवं च सति कर्मसाधनत्वविशिष्टं शरीरं

प्रत्यगात्मधिष्ठानहेतुकत्वदक्षरसमुद्भमिति युक्तमेव ।

चक्रत्वं चोपपन्नम्, अक्षरस्यापि शरीराधिष्ठाने

अन्नपानादिसाक्षापेक्षत्वात्; न ह्रवश्यमुत्पत्तावेवापेक्षा चक्रत्वहेतु:;

यद्वा कर्म जीवाधिष्ठितशरीरजन्यम्, जीवाधिष्ठितं शरीरं

चान्नजन्यम्, "अन्नाद्भवन्ति भूतानि' इति वचनात् ।

भूतशब्दश्चात्र "भ्रामायन् सर्वभूतानि' (गी.18.69)

इत्यादाविव सजीवशरीरपर: । 2.

अतोऽत्र चक्रत्वमुपपन्नम् इति । इमं च प्रकारमनन्तरं च वक्ष्यति ।

एवमस्मिन् चक्रेऽनुवर्तनीये पुरुषस्य शास्त्रवश्यश्य

कर्तव्यांशनिष्कर्षायोच्यते ।तस्मादिति । सङ्कुचितस्य शरीरस्य

सर्वव्याप्तत्वायोगादक्षरस्य च तदाधारस् निर्दिष्टत्वात्

तदवान्तरभेदसंग्रहपरस्सर्वशब्द; इत्यभिप्रायेणोक्तम्

।सर्वाधिकारिगतमिति । न केवलं कर्मयोगाधिकारिण:

शरीरं यज्ञसापेक्षम्, किंतु ज्ञानयोगाधिकारिणोऽपीत्यर्थ: ।

।यज्ञेप्रतिष्ठितमित्यत्राधिकरणत्वाद्ययोगादाह ।यज्ञमूलमित्यर्थइति ।।

03.16.16

।प्रवर्तितमित्यस्य प्रवर्तकापेक्षायां "सह यज्ञै:' इत्यादिना प्रकृत:,

"देवान् भावयत, इत्यादिना यज्ञेषु प्रजा: प्रवर्तयन् प्रजापतिरेवासौ

भवितुमर्हतीत्यभिप्रायेणोक्तम् ।परमपुरषेणेति । पत्वाद्वा ।

।अघायुरित्यादीनां त्रायाणां पृथक्पृथग्दोषत्वव्यक्त्यर्थं

पूर्वपूर्वस्योत्तररोत्तरहेतुत्वज्ञापनार्थं च भवतीति पृथग्वाक्यकरणम् ।

अघकारणत्वादघकार्यत्वादुभयसंग्राहकाघसंबन्धित्वमात्राद्वाऽत्र

।अघशब्देनायुषो लक्षणेत्यभिप्रायेण ।अघारम्भायैवेत्यादि

निर्वाहत्रयमुक्तम् । ।अत एवेति । उक्तप्रकारेणाघायुष्ट्वादेवेत्यर्थ:

।इन्द्रियाण्येवेत्यस्याभिप्रेतं व्यवच्छेद्यमाह ।नात्माराम इति ।

विशेषणत्वादिसिद्धव्यवच्छेदाभिप्रायसिद्धयर्थं समासतदंशयोरर्थमाह

।इन्द्रियाण्येवेति । इन्द्रियाणं कथमारामत्वमिति शङ्कायाम् "एवं

प्रवर्तितम्' इत्यादिना "इन्द्रियाराम:' इत्यन्तेन फलितमाह

।अयज्ञशिष्टेति । ।अत इति विषभौगैकरतित्वादित्यर्थ: ।

।स इति निर्देशस्यपूर्वव्याख्यातप्रकारय।छब्दार्थविषयत्वात्

।मोघशब्दस्य निषफलप्रयत्नताविषयस्य

प्रतिहन्तव्यप्रयत्नसाकाङ्क्षत्वाच्चाह ।ज्ञानयोगादौ यतमानोऽपीति ।।

03.17.17

एवं ज्ञानयोगाद्यधिकारिणोऽपि करकर्तव्यताया उक्तत्वात्,

।तस्मादसक्त: इत्यादिना वक्ष्यमाणत्वाच्च तन्मध्ये

यस्त्वात्मरति: इत्यादिश्लोकौ न ज्ञानयोगाद्यविकारिविषयौ,

किंतु फलदशाविषयावित्यभिप्रायेणाह ।असाधनायत्तेति ।

एतेन "अभयं सर्वभूतेभ्यो दत्त्वा नैष्कम्र्यमाचरेत्'

(भा.आश्व. 46.18) इत्याद्युक्तसंन्यासाश्रमिपरत्वेन ।परव्याख्यानं

निरस्तम्; तस्यापि हि स्वाश्रमाधर्मनिष्ठस्य सर्वकर्मनिवृत्त्यभावात् ।

वर्णाश्रमविशिष्टस्यैव हि झ्र्भिन्नटवर्णाश्रमधर्मारम्भ:, न

पुनर्वर्णाश्रमादिनामरूपविनिर्मुक्तस्येति ।मुक्तशब्दस्य भाव: ।

।यस्त्विति तुशब्द: साधननिष्ठव्यावृत्त्यर्थं इत्यभिप्रायेण

।ज्ञानयोगकर्मयोगसाधननिरपेक्ष इत्युक्तम् । कथं

तर्हि साधनाभावे साध्यसद्भाव:(सिद्धि:) इत्यत्राह ।स्वत

एवेति । प्रतिबन्धिकं हि तन्निवत्त्र्यम्; आत्माभिमुखत्वं तु

स्वत:प्राप्तमिति भाव: । ।रतिशब्दोऽत्राभिमुख्यविषय:,

तृप्तयादे: पृथङ्निर्देशात् । ।आत्मरतिरेव आत्मन्येव

इति पूर्वापरवत् ।आत्मतृप्त: इत्यत्राप्यवधारणं

विवक्षितमित्यभिप्रायेणाह ।आत्मनैवेति । तृप्तितुष्टिशब्दौ हि

पोषकभोग्यजन्यप्रीतिविषयतया प्रसिद्धावित्यभिप्रेत्य तत्तदुचितं

व्यवच्छेद्यमाह ।नान्नपानादिभिरिति, नोद्यानेत्यादि च ।

"आत्मरति:' इत्यादेव्र्यवच्छेद्यत्रयं सङ्कलय्य सूचयन् वाक्यार्थमाह

।धारणेति । आदिशब्देन भोगस्थानादि विवक्षितम्; यस्य तु

ज्ञानयोगनिष्ठस्यापि धारणादिकमन्नपानादिभिरेव,

तस्य कर्तव्यं विद्यत एवेति भाव: । ननु "तस्य कार्यं न विद्येते'

इत्ययुक्तम्, मुक्तस्यापि "जक्षात् क्रीडन्' (छा.8.12.3)

इत्यादिकार्यश्रवणात्। न चात्र ।कार्यमिति न तस्य कार्यम्

(श्वे.6.8) इतिवच्छरीरादि निर्दिश्यते, तन्निषेधस्येदानीमनुपयुक्तत्वात्,

तदत्यन्तनिषेधस्य च "द्वादशाहवत्' (ब्रा.4.3.12)

इत्यादिसूत्रतद्विषयश्रुतिभिर्विरुद्धत्वादित्याशङ्कयोक्तम्

।आत्मदर्शनाय कर्तव्यम् न विद्यते इति । यस्त्वात्मरति

इत्यादिनाऽभिप्रेतं हेतुं व्यनक्ति--।स्वत एवेति ।

स्वत एव सर्वदा इत्युभाभ्यां उत्पत्त्यर्थं निवाशपरिहारार्थं च

साधणापेक्षा नास्तीति ज्ञापितम् ।।

03.18.18

।अर्थशब्दस्यात्र प्रयोजनाभावात्कर्तव्यम् नास्तीत्युक्तं भवति ।

।नाकृतेनेत्यत्रार्थे न निषेध्य:, किंत्वकरणे प्रत्यवाय

इत्यभिप्रायेणाह ।न कश्चिदनर्थ इति । अर्थानर्थी

ह्रात्मदर्शनतदभावौ; तत्र पूर्वस्य सिद्धत्वात् न साध्यत्वम्,

उत्तरस्य चात्यन्तनिवृत्तत्वान्न निवर्तनीयत्वमित्यभिप्रायेणाह

।असाधनायत्तात्मदर्शनत्वादिति। न चास्य इत्यादिना

प्रतिबन्धनिवृत्त्यर्थमपेक्षा नास्तीत्युच्यत इत्यभिप्रायेणाहग

।स्वतएवेत्यादि । अस्त्येतिशब्द

आत्मरतिरित्यादिनिर्दिष्टप्रकारपरामर्शीत्यभिप्रायेणोक्तम्

।सकलाचिद्वस्तुविमुखस्येति । सर्वशब्दस्यात्रासङ्कोचेन

सावान्तरभेदसमस्तप्रकृतभोग्यविषयतामाह

।प्रकृतीत्यादिनासकार्येष्वित्यन्तेन । ।परिणामशब्देनात्र

भूतशब्देनात्र भूतशब्दस्य भवनक्रियायोगिपरत्वं दर्शितम् ।

।अर्थव्यपाश्रय: इत्यत्रार्थशब्दो भावप्रधान इति व्यनक्ति

।प्रनोजनतया व्यपाश्रय इति । ।व्यापाश्रय:उस्वीकरणम् ।

अर्थ एव व्यपाश्रय: स्वीकरणीयमिति वाऽभिप्रेतम् ।

एतेन ""प्रयोजननिमित्तो व्यापाश्रय: इति परव्याख्या विरस्ता ।

।न चास्येत्यादेर्हेत्वभिप्रायेण वा, मुक्त एव हि साधननिरपेक्ष

इति श्लोकद्वयार्थनिगमनाभिप्रायेण वोच्यते ।स हि मुक्त एवेति ।।

03.19.19

।तस्मदित्येतत् कर्मण: कर्तव्यतायां

पूर्वोक्तसमस्तहेतुपरामर्शीत्यभिप्रायेणाह ।यस्मादिति ।

।असक्त:, कार्यम् इत्युभयमपि

कर्मणौऽनुष्ठानप्राकारपरमित्यभिप्रायेणोक्तम्

।असङ्गपूर्वकं कार्यमित्येवेति । कार्यमित्येव- न तु

तत्कार्यस्वर्गाद्यपेक्षयेत्यर्थ: । ।सततमिति अत्र

ज्ञानयोगाधिकारे सत्यपि कर्मयोगस्यैवानुष्ठेयत्वाया(येत्या?)ह

।यावदात्मप्राप्तीति । ज्ञानयोगव्यवधानमन्तरेणापि कर्मयोग

एवात्मप्राÏप्त साधयतीति ।असक्तो हि इत्यादिनोच्यत

इत्यभिप्रायेणाह ।असक्त इति । कर्माचरन्...परमाप्नोतीति ।

न पुन: कर्माचरणान्तरमन्यत् कृत्वेत्यर्थ: ।

।कर्माचरन् परमाप्नोतीत्युक्ते अर्थसिद्धं कर्मणस्साधनत्वं व्यनक्ति

।कर्मयोगेनेवेति । अत्र प्राप्यतया निर्दिष्ट:

।पर: देहातिरिक्तात्मप्रकरणत्वात् प्रकृते: परो जीव

इत्यभिप्रायेणाह ।आत्मानं प्राप्नोतीत्यर्थ इति ।।

03.20-21

कर्मयोगस्य ज्यायस्त्वं शिष्टानुष्ठानेनोदराह्यियते ।कर्मणैवेति ।

हिशब्दसूचितं ज्ञानयोगाधिकारं दर्शयति ।राजर्षयो

ज्ञानिनामग्रेसरा इति । राजानो हि विस्तीर्णागाधमनस:;

तत्रापि ऋषित्वादतीन्द्रियार्थद्रष्टार:, तत्राप्यात्मविद:,

तत्रापि निसर्गनिगृ हीतेन्द्रियत्वात् प्रकृष्टोत्पत्तिकसत्त्वादिना

च तेषामग्रगण्या इत्यर्थ: । ।कर्मणैवेत्येवकारो

ज्ञानयोगशक्तस्यापि कर्मयोगानुपरतिपर: ।

।संसिद्धिशब्दस्य परमाप्नोतीत्युक्तनि(?)दर्शनपरत्वात्

।आत्मानं प्राप्तवन्त इत्युक्तम् । एवं च सति

।कर्मणैवेतिपूर्वप्रसक्तज्ञानयोगनैरपेक्ष्यपरमवधारणमप्युपपन्नं

भवति ।उत्तरसङ्गत्यर्थंम् उक्तं संग्रहणोद्गृह्णाति ।एवमिति ।

।इदानीमित्यनेन ।लोकसंग्रहमित्यादिकं विद्वान्

युक्त।स्समाचरन्(26)इत्यन्तमवच्छिन्नम् । ।सर्वथेति ।

लोकरक्षार्थम्, लोकसंग्रहस्याप्रधानता प्रतीयेत,

।पश्यन्नपीत्युक्ते तु कर्मकर्तव्यतायां पूर्वोक्तहेतुभ्यो

लोकसंग्रहस्याधिक्यं द्योत्येतेत्ययमन्वय उक्त: ।

।एवकारो ज्ञानयोगव्यवच्छेदाय ।कर्तुमेवार्हसीत्यन्वेतव्य

इत्यभिप्रायेणोक्तम् ।कर्मैव कर्तुमर्हसीति ।

यद्वा लोकसंग्रहमेवेवकारो लोकसंग्रहस्य नैरपेक्ष्यपर:,

।कर्मैवेति तु प्रकरणापन्नमुक्तम् । ।अर्हसीत्यनेन

कर्मयोगैकानुष्ठानकारणमुर्जुनस्य वैशिष्टयं द्योत्यते ।श्रेष्ठ इति ।

"प्रशस्यस्य श्र:' (अष्टा 5.3.60) इत्यनुशासनात् प्रशस्यतम

इत्यर्थ: । तच्चास्य प्रशस्तमत्वमनुष्ठातृणामनुविधेयानुष्ठानत्वोपयोगीति

मत्वा, "तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत्' (29)

इति वक्ष्यमाणं चानुसन्धाय ।कृत्स्नशास्त्रज्ञतया अनुष्ठातृतया

च प्रथित इत्युक्तं । अकृत्स्नविदोऽनुष्ठातु:,

कृत्स्नवित्त्वेऽप्यननुष्ठातु:, उभयाकारवत्त्वेऽपि

अप्रसिद्धस्यानुविधेयानुष्ठानता नास्तीति तद्व्यवच्छेदाय

पदत्रयम् । "स यत्प्रमाणं कुरुते' इत्यत्र, ""सयच्छाशास्त्रं

प्रमाणीकरोति तदनुवर्तते लोक: इत्यस्मिन्नर्थे नेतव्यम् ।

लोकसंग्रहमेवापि संपश्यन् कर्तुमर्हसीति पूर्ववाक्ये च

कर्तुमर्हसीत्येतावन्मात्रमुक्तम्; श्रुतिस्मृत्यादिकमपि

प्रमाणीकर्तुमर्हसीत्यनुपन्यस्तम्; येन तदर्थमिदमुच्येत ।

।यद्यदाचरतीत्यङ्गिन्यनुष्ठेयस्वरूपे निर्दिष्टे तत्प्रकारे

तत्प्रकारे त्वपेक्षिते बुभुत्सा जायते;

अतस्तदभिधानमेवोचितमित्यभिप्रायेण ।यत्प्रमाणं

यदङ्गयुक्तमित्युक्तम् । ।प्रमाणशब्दोऽत्रावधिपर:;

अनुष्ठेयकर्मस्वरूपस्य चावधिरङ्गान्येव;

अत एव हि विध्यन्तशब्देनेतिकर्तव्यतामुपचरन्ति ।

""यत्प्रमाणं यथाभूतमिति ।यादवप्रकाशभाष्यमप्येतत्परमेव ।

अस्मिन्नर्थे ।कुरुते इति शब्दस्वारस्यप्रदर्शनाय अनुतिष्ठतीत्युक्तम् ।

अन्यथशाऽर्थान्तरे लक्षणा स्यादिति भाव: । ।यत्प्रमाणमिति

निर्दिष्टविशिष्टसिद्धयर्थं तच्छब्दार्थमाह ।तदङ्गयुक्तमिति ।

ननु यच्छब्देनाङ्गे निर्दिष्टे कथं तच्छब्देनाङ्गविशिष्टपरामर्श:?

इत्थम्, यदङ्गयुक्तमनुतिष्ठति तदाचरतीत्युक्ते,तदङ्गमाचरतीत्येव शब्दवृत्ति: ।

अङ्गस्य चाङ्गिपृथङग्भावायोगादर्थतस्तदङ्गविशिष्टमिति सिद्धम् ।

आभिप्रायिकौ करणाकरणयोर्थानर्थौ प्रकाशयति

।अत इति । लोकानुविधेयानुष्ठानत्वादित्यर्थ: ।

।सर्वेदेति ।यावदात्मप्राप्तीत्यर्थ:। ननु स्वयं यदि ज्ञानयोगेन मुक्तो(युक्तो?)

भवति, किमस्य लोकेन संगहीतेनासंगृहीतेनासंगृहीतेन वेत्यत्राह

।अन्यथेति । ज्ञानयोगाधिकारी अहमितिकृत्वा कर्मयोगपरत्यागे सतीत्यर्थ: ।

।ज्ञानयोगादपीत्यपिशब्द: उभयभ्रष्टतां द्योतयति ।।

03.22.22

मयाऽपि हि निरपेक्षेणैव, लोकक्षोभे निष्प्रत्येवायेनापि

परमकारुणिकतया लोकरक्षार्थं कर्मैव क्रियते;

त्वया तु सापेक्षेण सप्रत्यवायेन किंपुनरित्युच्यते,

।न मे पार्थेत्यादिश्लोकत्रयेण । ।मे इति पदेन

कर्मवश्यचेतनान्तरव्यावृत्तो यथावस्थितो हीश्वर:परामृश्यत

इत्यभिप्रायेण विलक्षणनित्यसिद्धविभूतिगुणपौष्कलस्य व्यञ्जनानि

।सर्वेश्वरस्येत्यादिविशेषणानि उक्तानि । ।सर्वेश्वरस्येति ।

श्रुतिस्मृती हि ममैवाज्ञा । साचान्यैरनुवर्तनीया ।

न हि मे नियन्त्रन्तरमस्ति,यदधीनप्रत्यवायभयात् कुर्यामिति भाव: ।

।आप्तकामस्येति । न च मे सङ्कल्पमात्रादसाध्यमित:

पूर्वमभिलाषदशामात्रापन्नं प्रयोजनमस्ति, यदुपायतया कर्म

कर्तव्यमिति भाव: । ।सर्वज्ञस्य सत्यसङ्कल्पस्येति ।

नापि मे कर्मवश्यानां देवमनुष्यतिरश्चां सजातीयतयाऽवतीर्णस्य

तेषामिव ज्ञानसङ्कोच इच्छाप्रतिघातो वाऽस्ति,

यन्निवृत्त्यर्थं ,कर्म कार्यमित्याशय: ।

।त्रिषु लोकेष्वित्यत्रार्थसिद्धं विशेषणमध्याह्मत्याऽऽह

।देवमनुष्येति । उक्तं च भगवता ।पराशरेण,

""समस्तशक्तिरूपाणि तत् करोति जनेश्वर ।

देवतिर्यङ्मनुष्याख्य़ा(:)चेष्टावन्ति स्वीलीलया ।।

जगतामुपकाराय न सा कर्मनिमित्तजा ।

चेष्टा तस्याप्रमेयस्य व्यापिव्यव्याहतात्मिका ।। (वि.6.71.72) इति ।

।नानावाप्तमवाप्तव्यम् इत्येतत् कर्तव्याभावे

अपेक्षित हेतुपरतया व्याख्याति ।यत इति ।

उत्तरश्लोकपर्यालोचनसिद्धं प्रयोजनामाह ।अथापि लोकरक्षायै इति ।

।अथापीति चकारस्यार्थ: । कर्मणि वर्त एवेत्युक्ते ,

न कदाचिदपि कर्मणो विरम्य ज्ञानयोगमनतिष्ठामीति फलितम्;

तद्य्व्यञ्जनायोक्तम् ।कर्मण्येव वर्ते इति ।

यद्वा, प्रकरणौचित्यात् ।एवकारोऽत्र भिन्नक्रम: ।।

03.23-24

कर्तव्यप्रयोजनयोरभावे किमर्थं तर्हि कर्म क्रियत

इति शङ्कायामुच्यते ।यदि ह्रहमिति । पूर्वश्लोकः त्रिषु

तोकेष्विति निर्देशात्सर्वावतारपरः; अयं तु

।मनुष्यता इति दर्शनात् कृष्णावतारासाधारण: ।

तस्मादहमिति

निर्देशस्येश्वरस्वभावसमुच्चितकृष्णावतारसाधारणाकार-

विषतामाह ।सर्वेश्वर इत्यादिभि: ।

।सर्वश्वरस्सत्यसङ्कल्प इति पूर्ववत् ।

आप्तकामत्वाविरोधायोच्यते ।स्वसङ्कल्पकृतेति ।

स्वसङ्कल्पमात्रेण सर्वं नियन्तुं शक्तोऽपि ।

ज्ञानप्रदानादिद्वारा प्रवर्तनार्थं ।जगदुपकृतिमत्र्यो

जातोऽपीत्युक्तम् । अन्यथा भूतावेशन्यायेन प्रवर्तितानां

शास्त्रवश्यताभावात् तत्तदनुष्ठानाधीनं फलं न स्यात्;

""छन्दतस्संप्रवर्तते भूतावेशन्यायेन प्रवर्तितानां

शास्त्रवश्यताभावात् तत्तदनुष्ठानाधीनं फलं न स्यात्;

""छन्दतस्संप्रवर्तते (वि.7.22.18)

इत्याद्यनुसारेणाह ।छन्दत इति । न तु कर्मणेत्यर्थ: ।

कर्मफलभोक्तृत्वं व्युदस्यता ।जगदुपकृतिमत्र्य इत्यनेन

""जगदुपकृतिमत्र्य को विजेतुं

समर्थ: (वि.6.5.84) इत्यादि "ना3कारणात् कारणाद्वा'

(वि.5.1.51) "इच्छागृहीताभिमतोरुदेह:' (वि.6.5.84

इत्यादिकमात्रानुसंहितम् । अनुविधेयानुष्ठानत्वसिद्धयर्थं

।हिशब्दद्योतितप्रसिद्धिप्रकारविवरणार्थं

चोक्तम् ।मनुष्येष्वित्यादि । नन्वयमीश्वर:,

कस्मिन् कर्मणि वर्तेत? न ह्रस्य परमार्थतो वर्णाश्रमा:

सामान्यधर्मयोग्यं मनुष्यत्वादिकं वाऽस्ति,

येनाकर्मवश्य इच्छया कर्म कुर्वाणोऽपि ततदुचितं

कर्मोपाददीत इति शङ्कायां "कुलोचितमिति क्षात्रं धर्मं

स्वं बहुमन्यते' (रा.अ.1.16) इत्याद्यनुसारेणाह

।तत्कुलोचित इति । अयं भाव:-

  1. ग्त्द्मद्मत्दढ़ द्रठ्ठद्धद्य द्वद्र द्यदृ द्यण्ड्ढ ढत्द्धद्मद्य ण्ठ्ठथ्ढ दृढ दड्ढन्द्य द्मथ्दृत्त्ठ्ठ?


पोनाश इहोत्साद इत्याह ।नष्टा भवेयुरिति ।

"असन्नेव'।(आ.6) इत्यादिवदेतत्।

अकरणस्योत्सादहेतुत्वेऽवान्तरव्यापार: सङ्कर:;

स चब्रााहृणादिधर्मश्य

युद्धनिवृत्तयादे:क्षत्रियादिभिरनुष्ठानम् ।

।उपहति:पश्चादपि कर्मानर्हता ।

स्वात्मनि दृष्टान्तभूतेदर्शितमर्थे

दाष्र्टान्तिकेऽझ्र्प्यटभिप्रेतंव्यञ्जयति ।एवमेवि त्वमिति ।

"न मे पार्थ' (21)इति ।पार्थशब्दसंबुद्धयभिप्रेतम्

अनुविधेयत्वोपयोग्याकारत्रमाह।शिष्टेति ।

।युधिष्ठिरशब्दोपादानं

युद्धप्रोत्साहनायरणयज्ञाख्यक्षत्रधर्मनिष्ठताद्योतनार्थम् ।

किं तवपित्रादिप्रतिसंबन्धयन्तरेण, स्वयमेव हि

शिष्टजनाग्रेसरतया

उर्वशीविराटतनयादिवृत्तान्तै:प्रसिद्धस्त्वमित्यभिप्रायेणाह

।अर्जुनस्सन्निति। धर्मो हि शिष्टेनानुष्ठेय: ।

ज्ञानयोगश्चपरमधर्म: । ततश्च तदनुवर्तनं लोकस्य

मोक्षायैव स्यादितिसर्वलोकरक्षैवभवेदिति शङ्कायामुक्तम्

।स्वाधिकारमजानन्त इति। तदनधिकारिणां

तत्रानुप्रवेशेनोभयभ्रष्टता स्यादिति भाव: ।

।लोकसंग्रहमित्यादिनोक्तमुपसंहरतिअत इति प्र्प्र्

03.25.25

लोकस्यकर्मयोगज्ञानयोगयोरधिकारनधिकारानधिकारप्रकार

, विदुषस्तु

स्वाधिकरतिरस्कारेणतदधिकारानुरुपाचरणंलोकसङ्ग्रह-

प्रकारश्चोच्यते ।सक्ताइत्यादिश्लोकद्वयेन ।

अवेदनं प्रस्तुतविषयमिति ज्ञापनायोक्तम्-

आत्मन्यकृत्स्नविदइति । एवमुत्तरत्र ।विद्वानज्ञानामिति

शब्दयोरपि द्रष्टव्यम्। अत्यन्तानात्मज्ञताव्युदासाय3.।अकृतस्नशब्द: ।

पूर्वोक्तंप्रकृतिसंबन्धेन कर्मणौऽवर्जनीयत्वं ।सक्ता: इत्यनेन

विवक्षितमित्यभिप्रायेणाह।कर्मण्यवर्जनीयसंबन्धा इति ।

।अविद्वांस: कर्मणिसक्ता इत्युभयं न

सांसारिककर्मतत्परमपुरषविषयम्,

तथा सति कर्मयोगमपिपरित्यज्य सांसारिककर्माण्येव

विदुषाप्ऽयनुष्ठेयानि स्यु:। तस्मात् ज्ञानयोगानधिकार:

कर्मयोगाधिकारश्च ताभ्यां सूच्यत

इत्यभिप्रायेण।आत्मन्यकृत्स्नावित्तयेत्यादिकमुक्तम्।

एवमुत्तरत्र ।अज्ञानांकर्मसङ्गिनाम्(26) इत्यत्रापि ग्राह्रम् ।

।यथा कुर्वन्ति तथाकुर्यादित्येतदपि न केवलं

दृष्टान्तदाष्र्टान्तिकविषयम्, अपितु येन

प्रकारेण स्वानुष्ठानं दृष्टाऽन्ये कर्म कुर्यु:, तेनप्रकारेण

विद्वान् आचरेदित्येतदभिप्रायम्; तथासति हि

।चिकीर्षुर्लोकसंग्रहम्(25) इत्यपि संगतं भवतीत्यभिप्रयन्

वाक्यार्थमाह।आत्मनीत्यादिना ।कुर्यादित्यन्तेन ।

।विद्वान्,असक्त:

इत्युभाभ्यांफलितमुक्तं।ज्ञानयोगाधिकारयोग्याओऽपीति ।

संग्रहशब्देन लोकरञ्जनादिभ्रमव्युदासायाह

।धर्मनिश्चयमिति ।।

03.26.26

लोकस्य ।संग्रहणमेकीकृत्य स्वीकरणम्; स्वानुष्ठाने

समानाभिप्रायतया सयूथ्यतापादनमित्यर्थ: ।।कर्मवासना

उत्तरोत्तरपुण्यपापारम्भकपूर्वपूर्वपुण्यपापांशविशेष:;

उत्तरोत्तरशरीरप्रेरणसमर्थस्मृतिहेतु:

पूर्वपूर्वशरीरप्रेरणानुभवविशेषजनितसंस्कारो

वा,वादित्रवादनादिसंस्कारवत् ।

बुद्धिभेद: बुद्धेरन्यथाकरणम्; तच्च प्रृकृतविषयं दर्शयति

।कर्मयोगादन्यदित्यादिना ।

।युक्त: इत्यनेन लोकसंग्रहार्थे कुर्वत:

स्वापेक्षितवियोगा(विलम्बा)भावाय

प्रागुक्तनिरपेक्षत्वबुद्धियोगो विवक्षित इति ।बुद्धया युक्त:

इत्युक्तम्।
।जोषयेत् इत्यस्यार्थ: 1. ।प्रीतिं जनयेदिति ।

जुषी प्रीतिसेवनयो: इति हि धातु: । कर्मसङ्गिन: पुरुषान्

सर्वकर्माणि 2.जोषयेदित्यन्वय:।।

03.27-28

प्रकृते: इत्यादिश्लोकचतुष्टयस्यार्थमाह ।कर्मयोगमिति ।

।विदुषोऽविदुषश्चेति व्युत्क्रेमेण श्लोकद्वयार्थ:।

तृतीये त्वेतद्विशदीकरणमुखैनाविचालनमुक्तम् ।

।कर्मयोगापेक्षितं-कर्मयेगेतिकर्तव्यताभूतमित्यर्थ: ।

।प्रकृतेर्गुणै: इत्युक्ते प्रसिद्धिप्रकर्षादिसिद्धं विशेषं

प्रस्तुतानुपयुक्तशब्दादिप्राकृतगुण व्यवच्छेदायाह

।सत्त्वादिभिरिति । वक्ष्यमाणसात्त्विकादिकर्मविभागं ।सर्वश:

इति प्रकारवाचिपदसूचितमाह ।स्वानुरूपमिति ।

कर्ता इति तृजन्तयोगात् षष्ठीप्राप्ति: स्यादिति

तत्परिहाराय, कर्मसु कर्तृत्वाहंत्वोक्तिभ्रमव्युदासाय च

।कर्माणि प्रतीत्युक्तम् । तृन्नन्तत्वविवक्षायां त्वियं

फलोतोक्ति: । ।अहङ्कारविमूढात्मेति

समासांशत्रयस्य बह्वर्थपरस्य तात्पर्यार्थं विवक्षन्

विगृह्णाति ।अहङ्कारेणेति ।

नात्राहंभावमात्रमुच्यते,तस्यात्मस्वभावान्तर्गतत्वात् ।

नापि अहङ्काराख्यमचिद्द्रव्यम्; तस्यापि दहात्मभ्रमं

द्वारीकृत्य कार्यकरत्वे सति अव्यवहितस्य तस्यैव

वक्तुमुचितत्वात् । नापि गर्व:,

उत्कृष्टपरिभवादिहेतुत्वेनानिर्देशात् ।

अत: ।अहङ्कार इति देहात्मभ्रम एवात्र विवक्षित

इत्यभिप्रेयणाह ।अहङ्कारो नाम अनहमर्थे

प्रकृतावहभिमान इति । एतेनाहङ्कारशब्दस्याभूततद्भावे

च्विप्रत्ययेन व्युत्पत्तिर्दर्शिता । ।अज्ञातझ्र्आत्मटस्वरूप इति ।

विमूढ: आत्मा स्वरूपं यस्य स ।विमूढात्मा; ""दिशो:

विमुह्रेयु: इतिवत् विमूढशब्दोऽत्र

मोहविषयसमानाधिकरण इति भाव: ।

गुणकर्मविभागयो: इत्यत्र उपसर:; जनान्वयिषष्ठीत्वादपि

विषयसप्तमी त्वमुचितमिति मत्वोक्तं ।सत्त्वादिगुणविभागे

तत्तत्कर्मविभागे चेति । ।विभागशब्दो द्वन्द्वात्परत्वात्

प्रत्येकमन्वित: । गुणानां साक्षाद्गुणेषु वृत्तयभावात्

परोक्तक्रिययेन्द्रियतद्विषयादिविवक्षायां पदद्वयोपचारात्

सप्तम्यन्तो ।गुणशब्दो गुणकार्येष्वौपचारिक

इत्यभिप्रायेणोक्तं ।स्वगुणेषु स्वेषु कार्येष्विति ।

गुणकार्याणि च विभक्ष्यन्ते । यद्वा कारणस्य प्राधान्यात्

कार्यस्य च तदपेक्षया गुणत्वादेवमुक्तम् ।।

03.29.29

प्रकृतेर्गुण इति श्लोके तावत् न निषिद्धादिसङ्गो

विविक्षित:,तदानीमविचाल्यत्वानुपपत्ते: ।

अत: पुरुषार्थोपायेषु केषचित् सङ्गो वक्तव्य: ।

प्रस्तुतश्च पुरुषार्थोऽत्राऽऽत्मदर्शनम् ।

तत्र चाकृतस्नविदधिकारे कÏस्मश्चित् तदुपाये सङ्गो

वक्तव्य: । प्रस्तुतश्च पुरुषार्थोऽऽत्मदरर्शनाय प्रवृत्ता

इत्यादि उक्तम् । ।अहङ्कारविमूढात्मा (27) इति

आत्मविषयो हि संमोह: प्रकृत: । अतो गुणैस्संमूढा इत्येव

समास:। उपसर्जनस्यापि च ।गुणशब्दस्य

"देवदत्तस्य गुरुकुलम्' इत्यादिष्विव ।प्रकृतेरित्येनान्वय

उपपन्न इत्यभिप्रायेणोक्तं ।प्रकृतेर्गुणर्यथावस्थितात्मनि

संमूढा इति । ।गुणकर्मसु इत्यस्य कर्मयोगपर्यवसानायोक्तं

।क्रियास्वेवेति । परिसंख्यापरत्वव्यक्त्यर्थ।मेवकार: ।

तत्सूचितं व्यवच्छेद्यमाह ।न

तदिति।गुणकर्मसङ्गोक्तिफलितमविचालनहेतुमाह

।अतस्त इति । न प्रभवन्ति न समार्था इत्यर्थ: । तेषां

प्रतिषेध्य विचालनप्रसङ्गाय।मन्दानित्युक्तमित्यभिप्रायेण

विचलनप्रक्रियामाह ।ते मन्दा इति ।

स्वयं मन्दत्वात्।श्रेष्ठजनाचारानवर्तिन: व मन्दत्वं चात्र

स्वयमाचरनिर्णयापाटवं विवक्षितम्; अकृत्स्नवित्त्वफलितं

विचालनीयत्वकारणम् अधैर्यलक्षणमल्पत्वं वा ।

"मूढाल्पापडुनिर्भाग्यामन्दा:' इति नैघुण्टुका: । ।न

विचालयेत् इत्येतत् पूर्वोक्तजोषणशेषमिति दर्शयति

।अतइति । ज्ञानयोगाधिकारिण: कर्मयोगे

स्थितिर्निकृष्टाधिकापरिग्रहस्यादिशङ्कयाह

।ज्ञानयोगाधिकारिणौऽपीति ।

स्वकार्यमात्रसमीक्षयाऽपि कर्तव्यम्, किमुत परार्थसमुच्चिते

स्वार्थत्वे इतऽयभिप्रायेणाह ।अत इति ।

उत्तरश्लोकमवतारयितुमुक्तांशमुद्गृह्णाति ।प्रकृतीति ।

वक्ष्यमाणश्लोकप्रकारेण तु सर्वेश्वरे सर्वकर्मसंन्यास:

कार्य:; मध्ये गुणेषु कर्तृत्वानुसन्धानकथनं तावताऽपि

देहात्मविवेकादिकं सिध्यतीत्यभिप्रायेणेति भाव:।

।आरोप्य अनुसंधायेत्यर्थ: । एतां ।दशामवलम्ब्य

पल्लवग्राहिणां कापिलादीनां मतं समुत्थितमिति

तन्मन्तव्यावर्तनाय, अचेतनानां गुणानां कथं

ज्ञानचिकीर्षाप्रयत्नलक्षणं कर्तृत्वमिति शङ्काव्युदासाय

चाह ।गुणेष्विति ।4.इदम् वक्ष्यमाणम् । ।इदंकर्तृत्वमिति

पुण्यपापादिकर्तृत्वमित्यर्थ: । स्वाभाविकं हि कर्तृत्वं

मुक्तावस्थायामपि नापैति, तस्य गुणसंपर्ककृतत्वाभावात् ।

।प्राप्ताप्राप्तविवेकेनेति व अन्वयं व्यतिरेकाभ्याम्,

युक्तायुक्तनिश्चयेन वेत्यर्थ:। अत्राकर्तृत्वोक्तेरकरणशेषत्वं

पूर्वापरविरुद्धम्; अनुसन्धानविशेषार्थत्वं तु

पूर्वपरसङ्तमित्यभिप्रायेणा।नुसन्धानोक्ति:।

एतेन "कर्ता शास्त्रार्थत्त्वात्' (ब्रा.2.3.33) इत्यधिकरणार्थ:

सूचित:।।

03.30.30

अथ तदनन्तरस्य "परात्तुय तच्छØते:'(ब्रा2.3.40)

इत्यधिकरणस्यार्थे

तत्परोऽमित्यभिप्रायेणोत्तरश्लोकमवतारयति ।इदानीमिति ।

। नियाम्यताया: स्वसरूपत्वोक्ति:, स्वरूपनिरूपकत्वात् ।

।भगवतीत्यादिपदत्रयेण ।मयि इत्यभिप्रेतस्योक्ति: ।

।भगवतीति । नियन्तृत्वोपास्यत्वफलकत्वात् ।

।भगवतीत्यादिपदत्रयेण ।मयि इत्यभिप्रेतोक्तिः ।

।भगवतीति ।

नियन्तृत्वोपास्यत्वफलप्रदत्वाद्युपयुक्तकल्याणजातवति

हेयप्रत्य़यनीके चेति भावः । पुरुषोत्तम इति ।

नियमनार्थानुप्रवेशादिनाऽप्यस्पृष्टहेयप्रसक्तौ "उत्तमः

पुरुस्त्वन्यः'(15.17) इतिवक्ष्यमाणप्रकारवैलक्षण्यवतीति

भावः । ।सर्वात्मभूते गुणकृतं चेति ।

त्रिगुणस्याचिद्दव्यस्यापि सर्वात्मभूतः स एव हि नियन्तेति

भावः । एतेन , "असक्त्या लोकरक्षायै

गुणेष्वारोप्य कर्तृतां । सर्वेश्वरे वा न्यस्योक्ता

तृतीयकर्मकार्यता (सं .7) इति तृतीयाध्यायसंग्रहश्लोके

तुल्यविकल्पो नाभिमत इत्यपि सूचितं भवति ।

।मयीत्यनेनाभिप्रेते सर्वेश्वरत्वे हेतुतया ।

सर्वभूतान्तरात्मभूतत्वोक्तिः । "ईश्वर सर्वभूतानां ' (18.61)

इत्यादि वक्ष्यमाणं चानेन ख्यपितं । ।सर्वाणीति स्वकृतानि

गुणकृतानि चेत्यर्थः । युध्यस्य इत्येतेत्

शास्त्रीयोपलक्षणमित्यभिप्रायेणोक्तम्

युद्धादिकमिति । ।आत्मनीति । ।अध्ययात्म इति सप्तम्यर्थे

समास इत्यर्थ: । अत्र ।चेतश्शब्दस्य

श्रुतिशतसिद्धत्त्वानुसन्धानरूपज्ञानगोचरतां

व्यनक्ति ।आत्मस्वरूपेति । श्रुतिशतसिद्धं प्रकारं दर्शयति

अन्तरिति । अन्त:प्रविष्टत्ववशासितृत्वाभ्यां

नृपादिगगनादिव्यावर्तकाभ्यां सर्वात्मत्व सिद्धि: ।

।कर्तारमिति । जीवव्यापारेषु प्रयोजककर्तारमित्यर्थ:;

यद्वा प्रेरणक्रियाकर्तारमित्यर्थ: । तदुच्यते

।प्रवर्तयितारयमिति । उपात्तश्रुतीनामैदम्पर्यदृढीकारणाय

मन्वाद्युपबृंहणानुग्रहमाह ।स्मृतयश्चेति । एतस्मिन्नपि

शास्त्रेऽभ्यासलिङ्गाय अस्यैवार्थस्य वक्ष्यमाणतामाह

।सर्वस्य चेति। ।मयि सर्वाणि इत्यस्याभिप्रायव्यञ्जनाय

पार्थसारथेश्वरस्य च प्रत्यक्पराङ्निर्देशयोरीश्वरैकविषयत्वं

दर्शयितुं वचनद्वयोपादानम् एवमर्थस्वरूपमुपपाद्य

तज्ज्ञानस्य कर्तृत्वसंन्यासहेतुतां ।संन्यस्य, निराशी:,

निर्मम: इति त्रयाणां पदानां

कर्तृत्वत्यागफलत्यागस्वकीयतासङ्गत्यागविषयता-

मुत्तरोत्तरस्य च पूर्वपूर्वहेतुकतां पाठक्रमसूचितां प्रकाशयति

।अत इति । अस्यार्थस्य

श्रुतिस्मृत्यन्तरादिसिद्धत्वादित्यर्थ: ।मयैव क्रियमाणानीति ।

भृत्यप्रवर्तेकेन राज्ञेव सत्वारकमद्वारकं चेति भाव: ।

ऋत्विज इव परस्य कर्तृत्वेऽपि स्वस्य

फलाभिसन्धिस्यादिति तन्निरासाय

।निराशीरित्युक्तमित्यभिप्रायेणाह ।तानि चेति ।

।तत एवेति फलद्वारा हि कर्मणि ममता;

"मदभिलषितसाधनत्वान्मदर्थमिदं कर्म' इति

कर्मण्यैश्वरबोधो ह्रधिकार इति भाव: । ननु यदि ईश्वरे

कर्तृत्वं संन्यस्तम्,ल कथं तर्हि ।युध्यस्वेति जीव: कर्तृतया

निर्दिश्यते? यदि चासौ निराशी:,कथं

परमपुरुषाराधनरूपेऽपि कर्मणि प्रवर्तेत? यदि च

निर्मम:, स कथं "ममेदं कर्म' इति बुध्यमान: कर्म कुर्यात्?

यदि च स्वव्यापारं नानुसन्धत्ते, तदा त्यागरूपव्यापारमपि

न मन्येत; ततश्च ।विगतज्वर

इत्यप्यनुपपन्नमित्याशङ्कयाह ।स्वीकीयेनात्मना कत्र्रेति ।

स्वशेषभूतेन जीवेन प्रयोज्यकर्तेत्यर्थ: ।

।स्वकीयैश्चोपकरणैरिति । यथाऽसौ जीव: परकशेषभूत:,

तथा तस्य स्वशेषतया प्रागभिमतं हविरादिकमपि

परशेषभूतमिति कैमुतिकन्यायसिद्धमिति भाव: ।

।स्वाराधनैकप्रयोजनायेति । शेषस्य शेष्यतिशयाधानमेव

प्रयोजनमिति भाव: । आह च ।वेदार्थसंग्रहे,

"परगतातिशयाधानेच्छयोपादेयत्वमेव यस्य स्वरूपं स

शेष:, पर: शेषी: इति । ।स्वकीयेनेत्यादौ प्रमाणसूचनाय

।सर्वशेषीत्यादि उक्तम् । ।स्वयमेवेति । आराध्यभूत

एवाराधनं कारयतीति भाव: । एवकारेण प्रवर्तकान्तरं च

व्युदस्तम् व ।कारयतीति । सर्वेश्वरस्सन् स्वेष्टं सर्वं

स्वयमेव कर्तुं शक्तोऽपि स्वशेषभूतजीवानां

शास्त्रवश्यत्वतत्फलभोक्तृत्वादिसिद्धयर्थं तान्

कर्तृघ्र्न् कारयतीति भाव: । प्राकरणिकं

प्रतिषेध्वज्वरवीशेषप्रसङ्गं दर्शयति ।प्राचीनेत्यादिना ।

अस्तु श्रुतिसिद्धमीश्वरत्म्, कारयितृत्वस्य

किमायातमित्यत्राह ईश्वरत्वं नियन्तृत्वमिति ।

शेषित्वं पतित्वमिति चेतनगतं शेषित्वं पतित्वमेवेति भाव: ।

यद्वा, श्रुतिभाष्यपठितयो: शेषित्वेश्वरत्वयो: को भेद इति

शङ्का इति अपाक्रियते ।ईश्वरत्वं नियन्तृत्वमित्यादिना ।।

03.31.31

ये मे मतम् इति श्लोके मे मतमित्यौपनिषदपुरुषस्य

सिद्धान्ताभिमानप्रदर्शनात् मोक्षसाधनत्वोपदेशमात्रस्य

कृतकर्वाच्च तत्प्राश्स्त्यपरोऽयं श्लोक इत्यभिप्रायेणाह

अयमेव साक्षादिति । ज्ञानयोगनिरपेक्ष इत्यर्थ: । ।सारभूत

प्रधानभूत: । "सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे

त्रिषु(नाम.3.ना.326) इति नैघण्डुका: । प्राधान्यं चात्र

मोक्षसाधने ज्यायस्त्वं ।

।मानवशब्दस्यात्रानधिकृतशूद्रादिसंग्राहकत्वादधिकृतदे-

वादिप्रतिक्षेपकत्वाच्च तदिभयपरिहाराय ।य इति

प्रमाणसिद्धानुवादनेनाधिकारिंमात्रोपलक्षकोऽयं

शब्द इत्यभिप्रायेणोक्तम् ।ये मानवा: शास्त्राधिकारिण इति

। ।नित्यमनुतिष्ठन्तीत्युक्तं नित्यमनुष्ठानं निर्णयपूर्वकमेव;

प्रामाणिकत्वनिश्चयशून्यस्यानुष्ठानं

कदाचिद्भज्येतापीत्यभिप्रायेणोक्तम्-।अयमेव शास्त्रार्थ

इत्यादि । एतत्-अयमेवेत्युक्तम्; यद्वा, एतन्मे मतं शास्त्रार्थ

इति निश्चित्येत्यन्वय:;ल शासितुर्मतमेव हि शारुात्रार्थ इति

भाव: । श्रद्धावन्त इति

पदमनुष्ठानात्पूर्वावस्थापरमित्याह- ये

चाननुतिष्ठन्तोऽपीति ।

ततोऽप्यर्वाचीनावस्थाऽनसूयेत्याह-।ये चाश्रद्दधाना इति ।

"गुणेषु दोषाविष्करणमसूया" इत्यसूयालक्षणाभिप्रायेणाह

अस्मिन्निति । अपिशब्दो वर्गत्र(द्व)यसमुच्चयपर इति ।ते

सर्व इत्युयक्तम् । ननुय "संभवत्येकवाक्यत्वे वाक्यभेदश्च

नेष्येते' । ।श्रद्धावन्त इत्यादौ च

भवन्तीत्यध्याहारश्चानुचित:। ।यच्छब्दस्य ।चैकत्र

प्रयुक्तस्याऽऽवृत्तिरनुपपन्नेत्यात्राह-।तेऽपीति ।

एषामिति-अधिकारिणाम्; बुद्धिस्थानां वाक्यानां वा ।

अयमभिप्राय:-नात्रेकवाक्यत्वं संभवति, ।अपिशब्दानन्वयात्

व ।अपिशब्दो ह्रत्रानुष्ठातृभिस्सहाधिकार्यन्तरसमुच्चयपरो

वा, अनुष्ठात्घ्र्णामपकर्षपरो वा स्यात् । तत्र ज्ञानयोगिनां

समुच्चय संभवन्नप्यत्रानपेक्षित:;

कर्मयोगप्रशंसाप्रणानुचितश्च । ज्ञानयोगिभ्य:

कर्मयोगिनापकर्षसूचनं

त्वत्रात्यन्तविरुद्धम्;नित्यमनुष्ठात्घ्र्णां

।श्रद्धावन्तोऽनसूयन्त: इति विशेषणाभिधानं च निरर्थकम्,

न हि नित्यमनुतिष्ठन्तोऽश्रद्धधाना असूयन्तश्च भवेयु: ।

अवस्थात्रयविषयत्वे तु समुच्चयपरतया वा

अर्वाचीनावस्थापकर्षपरतया वा शक्यमपिशब्दो नेतुमिति ।

अनुष्ठात्घ्र्णां श्रद्धानसूयामात्रवतां च

तुल्यफलत्वेऽनुष्ठानविधायकशास्त्रवैयथ्र्यं

स्यादित्याशङ्कयाह-।इदानीमिति । श्रद्धानसूय़यो:

पापनिर्हरणहेतुत्वं च,"धर्मश्रुतो वा दृष्टो वा स्मृतो वा

कथितोऽपि वा । अनुमोदितो वा राजेन्द्र पुनाति पुरुषं

सदा (भा.आश्व. 94.29) इत्यादिसिद्धम् ।।

03.32.32

व्यतिरेकनिन्दयाऽप्युक्तार्थप्राशस्त्यातिरेक उच्यत

इत्यभिप्रायेण भगवदिति । पूर्वोक्तव्यतिरेकविधेयमपि हि

शरीरमित्यभिप्रायेण ।मदाधारमित्यादि पदत्रयम्;

स्वरूपस्थितिप्रवृत्तितादधीन्यपरञ्च । परबुद्धिवृत्तिविशेषरूपं

मतं कथमनुष्ठेयमननुष्ठेयं वा, सिद्धवस्तुनि च

कथमनुष्ठानमित्यत्राभिप्रेताध्याहारेणाह ।नैवमनुसन्धायेति ।

।सर्वेषुय ज्ञानेषु विशेषेण मूढानिति ।

यथावस्थितात्मस्वरूपानभिज्ञतया अहं ममेत्यादिषु सर्वेषु

ज्ञानेषु ज्ञातव्यवस्तूनां

यथावस्थितस्वरूपप्रकारानभिज्ञानित्यर्थ: ।

।नष्टानिति पुरुषार्थयोग्यानित्यर्थ: ।

किं कत्त्वज्ञानरहितस्यान्त:करणमपि

नास्तीत्यत्राह।चेतन:कार्यमिति । कार्यदर्शनात् कारणं

नास्तीत्युयपचर्यत इति भाव: । फलितमाह

विपरीतज्ञानास्सर्वत्र विमूढाश्चेति ।।

03.33.33

उत्तरप्रघट्टकसंगत्यर्थं प्रतिपत्तिसौकर्यार्थं

च पूर्वोक्तं सङ्कलय्य दर्शयति ।एवमिति । मुक्तानां

कर्तृत्वस्य गुणाधीनत्वाभावात् ।प्रकृतिसंसर्गिण इत्युक्तम् ।

ज्ञाणयोगानादरहेतुभूतदुश्शकत्वादिसमर्थनपरमनन्तर-

प्रकरणमित्यभिप्रायेणाह ।अत परमिति ।

।नानुतिष्ठन्तीत्यस्य हेतुरपि ।सदृशमित्यादिना अभिप्रेत: ।

।ज्ञानवानपीत्यत्र न तावत्लौकिकज्ञानमात्रमुच्यते, तत्र

प्रकृत्यनुकूलोप्रवृत्तिविरोधित्वाभावेन ।अपिशब्दानन्वयात् ।

नाप्यात्मसाक्षात्कारपर्यन्तं ज्ञानम्; तस्यामवस्थायां

प्रकत्यनुवर्तित्वप्रसङ्गाभावात् । अतो यदालम्ब्य ज्ञानयोगे

प्रवर्तितुमुत्सहते, तज्ज्ञानमिह विवक्षितम्; तच्च शास्त्रजन्यं

यथावस्थितात्म तत्त्वज्ञानमित्यभिप्रायेणाह

।प्रकृतिविविक्तमिति । ईदृशमिति

यथावस्थितपरशेषत्वादिविशिष्टस्वरूपनिर्देश: ।

।तदेवेति विषयानुभवव्यवच्छेद: । सर्वदेति ।

आफलावप्तेरित्यर्थ: । ।स्वस्या:प्रातिस्विक्या इत्यर्थ: ।

चेतनप्रवृत्तिरूपचेष्टाया असाधारणकारणं हि रागद्वेषौ,

तौ चानन्तरश्लोकेऽभिधीयेते । तन्मूलञ्च प्राचीनवासनैव ।

अतोऽत्र प्रकृतिशब्देन स्वभावव्यपदेशार्हानादिवासनैव

विवक्षितेत्यभिप्रायेणोक्तं ।प्रचीनवासनाया इति ।

।सदृशमित्यनेनाभिप्रेतमानूरूप्यमाह ।प्राकृतविषयेष्विति ।

शब्दादिविषयवासनया पुनरपि तत्रैव प्रवर्तत इत्यर्थ: ।

।कुत इति ।ज्ञानवांश्चेत्, ज्ञानानुरूपं चेष्टताम्;

कुत: प्रकृत्यनुरूपं चेष्टय इत्यर्थ: । अत्रोत्तरं ।प्रकृतिं

यान्ति भूतानि इति । पुनरुक्तिशङ्कां परिहरन् उत्तरत्वं

विवृणोति ।अचिदिति । ।अचित्संसृष्टा जन्तव इति

नियमनमित्यर्थ: । अत्र, ""मम वाऽन्यस्य वा इति

निग्रहकत्र्रत्याहारो न युक्त:; ।अनिच्छन्नपि(36)

इत्यादिप्राकरणिकार्थानुसारेण शास्त्रकृतत्वमेवोचितम् ।

।किं करिष्यततीति । न किञ्चिदपि निरोद्धुं

शक्यमित्यर्थ:।।

03.34.34 वासनाया:

स्वानुरूपचेष्टाहेतुत्वेऽवान्तरव्यापारोऽनन्तरमुच्यत

इत्यभिप्रायेणाह ।प्राकृत्यनुयायित्वेति ।

इन्द्रियस्येन्द्रियस्येति वीप्सा सर्वेन्द्रियसंग्रहार्थेत्यभिप्रायेण

।ज्ञानेन्द्रियकर्मन्द्रियोपादानम् । ।अर्थशब्दोऽत्र विषयपर: ।

साध्यस्य च व्यापारविषयत्वात् ।वचनादेरप्यत्र

अर्थशब्दार्थता दर्शिता

।व्वयवस्थितावित्यत्रोपसर्गार्थविवरणम् ।अवर्जनीय इति ।

वासनाया इच्छाद्वारणैव प्रवृत्तिहेतुत्ववचनात् ज्ञानवासनैव

कर्महेतुत्ववेषेण कर्मवासनेत्युच्यते; न तु

वासनान्तरमस्तीत्यपि सूचितंभवति । "इन्द्रियस्येन्द्रियस्यार्थे

रागद्वेषौ व्यवस्थितौ' इत्युक्ते शब्दादिविषयेषु रागवत्

द्वेषोऽपि किं स्वरसवाहीति शङ्का स्यात्, तद्वयुदासायाह

।तदनुभव इति । तत:किमिति शङकायां "सदृशं

चेष्टते' इत्यनेनैकीकृत्यानुसन्धानस्तात्पर्यार्थमाह

।तावेवमिति । ।एवम् उक्तवासनानुयायित्वप्रकारेणेत्यर्थ: व

।नियमितसर्वेन्द्रियमित्यनेन बलात्

क्षणमात्रनिमीलनादिनियमनुमुच्यते । ।स्वकार्येष्विति

विषयानुभवेषु वचनादानादिषु कर्मसु चेत्यर्थ: ।

"सड्गात्संजायते' इत्यारभ्य "बुद्धिनाशनात्प्रणश्यति'

इत्यन्तं पूर्वप्रपपञ्चितमवसरे स्मारयतिततश्चायमिति ।

।तयोर्न वशमागच्छेदित्येतत् न तावत्रागद्धेषनिषेधमात्रम्,

तदा ह्रौचित्यात् ज्ञानयोगानादरणीयता उच्यते,

सैव ग्राह्रेत्यभिप्रायेणाह ।ज्ञानयोगेति । कर्मयोगारम्भे तु

चिराभ्यस्तसजातीयविषयेषु प्रवृत्तेर्न रागद्वेषयोस्स्वबलात्कार

इति भाव: । ।आगम्य न विनश्येदिति विनाशहेतुभूतं

तद्वशगमनं परिहरेदित्यर्थ: । तद्वशगमने कथं विनाश इति

शङ्कायां चतुर्थपादमवतारयति ।तौ हीति ।

"काम: एष क्रोध एष:' इत्यादिभि:

श्लोकैर्वक्ष्यमाणमाकारमभिप्रेत्य दुर्जयौ शूत्र इत्युक्तम् ।

।परिपन्थित्वं प्रकृतविषयं योजयति ।ज्ञानाभ्यासं वारयत

इति । मुक्तिघण्टापथे लुण्टाकवदवस्थितावित्यर्थ: ।।

03.35.35

श्रेयानिति । अत्र श्लोके ।स्वधर्मपरधर्मशब्दौ न तावत्

वर्णाश्माद्यपेक्षया प्रयुज्येते, परवर्णाश्रमादिधर्मानुरष्ठानस्य

दूरतो निरस्त(स्य)त्वेन तन्निषेधायोगात् । अत्र च

तत्प्रसङ्गाभावात्; परमधर्मात् स्वनुष्ठितात् स्वधर्मो

विगुणश्श्रेयानिति चोक्ते श्रेयशशब्दस्य प्रशस्त्यतरवाचित्वात्

स्वनिष्ठतपरधर्मश्य प्रशस्त्वमात्रं प्रसज्येत; न च

तदुपपद्ययते;स्वनिष्ठितस्य दुरनुष्ठितस्य वा

परधर्मस्याधर्मत्वेन गर्हणीयत्वात् ।

अथ क्षत्रधर्मभूतयुद्धपरित्यागाभिलाषिणोऽर्जुनस्य

स्वधर्मभूतयुद्धप्रशंसा ब-राहृणादिधर्मभूततत्परित्यागनिन्दा

च क्रियत इति चेत् अस्त्वेतावताऽपि निषेध्यस्यप्रसङ्ग:,

तस्य प्रशस्त्यत्वमात्रप्रसङ्गचोद्यं तु न परिह्मतम् । न चात्र

स्वधर्मं परित्यज्य परधर्मं कुर्यामित्यर्जुनस्याभिसन्धि:; अत्रैव

ह्रस्येदानीं स्वधर्मत्वबुद्धि: ।। स्वर्धर्मतया भ्राम्यत:

परमधर्मत्वमत्र ज्ञाप्यत इति चेत्- तन्न,

स्वनुष्ठितात्परधर्मादित्यनुवादरूपत्वानुपपत्ते:;

परधर्मतया संप्रतिपन्नत्वे ह्रेवं व्यपदेश उपपद्यते; तत्र च

परधर्मत्वज्ञापनं निष्प्रयोजनम्, अधर्मत्वमात्रस्यैव

ज्ञाप्यत्वात्।

अतोऽत्र ।स्वधर्मपरधर्मशब्दौ प्रशस्यतयाऽनादरणीयता

च प्रकृतकर्मयोगज्ञानयोगविषयौ । एवं च स्यात्; ।अथ

केनेत्युत्तरश्लोकस्थप्रश्नोऽप्येवमेवोपपद्यते ।

अत्र हि अनिच्छतोऽपि पापाचरणहेतु: क इति प्रश्न:;स च

ज्ञानयोगदुष्करत्वकथनेनैव संगच्छेत ।।

अनिच्छतोऽपिमे क्षत्रधर्मत्याग: केनेति प्रश्नार्थ

इति चेत्- न, अस्यानिच्छत्त्वाभावात्; ",काम एष क्रोध

एष:' (37) इत्याद्यत्तरानपपत्तेश्च; न हि

कामक्रोधाभ्यामर्जुनो योद्धं परित्यजति,

किंतु कारुण्यादिनेत्युपक्रमेऽप्युक्तम् ।

अत: ।स्वधर्मपरधर्मशब्दौ स्वशक्यपरशक्यधर्मविषयौ ।

तदेतदखिलमभिप्रेत्याह ।अतस्सुशकतयेति ।

।अत: श्लोकद्वयोक्तवासनानुवर्तित्वशादित्यर्थ: ।

।विगुणोऽपि अङ्गवैकल्य़ुक्तोऽपीत्यर्थ: । विगुणस्य कथं

श्रेयस्त्वमित्यत्रोक्तम् ।अप्रमादगर्भ इति । वैगुण्यमात्रं

स्वरूपविच्छेदाद्वारमिति भाव:।

।स्वनिष्ठतादित्यस्य वैगुण्यप्रतियोग्याकारपरतया ।सुशब्द:

साद्।गुणादपीति । ।अनुष्ठितशब्दस्य भूतार्थप्रत्ययान्तत्वात्

भूतत्वस्य चातिक्रान्ततारूपत्वात् प्रागुनुष्ठानं

पश्चाद्विच्छेदश्च सूचित इत्यभिप्रायेणोक्तं

।कंचित्कालमनुष्ठितात् ।सप्रमादादिति ।

एवं विच्छेदाविवक्षायां स्वनिष्ठितात् ज्ञानयोगात् विगुण:

कर्मयोग: श्रेयानित्येतदसङ्गतं स्यात्,

सगुणस्याविच्छिन्नस्य फलाविनाभावादिति भाव: ।

।सुशकतयेत्युक्तहेतुविवरणमुखेन स्वधर्मशब्दार्थं

च विवृण्वन् विगुणस्य कर्मण: फलाझ्र्विनाटभावात्ल

श्रेयस्त्वमिति शङ्कापरिहारपरतया तृतीयं पादं व्याख्याति

।स्वेनैवेति । स्वेनैव प्रकृतिसंसृष्टतया

व्याप्रियमाणेनद्रियेणेवेत्यर्थ: । यद्वा स्वेच्छयैवेति भाव: ।

।एकस्मिन् जन्मनीत्यभिप्रेतं विवृण्वन् जन्मान्तरेऽपि

विगुणस्य कथं फलसाधनत्वमित्यत्राह

।अनन्तरायहततयेति ।

इन्द्रियाणामनुभूतसजातीयविषयसमर्पणेन

कर्मयोगस्वरूपस्यात्यन्त विच्छेदाभावादित्यर्थ: ।

।अव्याकुलत्वमत्राविकलत्वम् ।

एतच्च सर्वं "नेहाभिक्रमनाशोऽस्ति' (2.40) इत्यादिना

प्रपञ्जयिष्यते च । अव्यवहितानन्तरजन्मनि

पौष्कल्यनिर्णयाभावेन ।संभवादित्युक्तम् ।

अनन्तरे ततोऽनन्तरे वा फलं तावत् सिद्धमिति भाव:।

यदि विगुणस्य कर्मयोगस्य जन्मान्तरस्थं फलमभिप्रेत्य

श्रेयस्त्वमुच्यते, तर्हि ज्ञानयोगस्यापि तथा किं न

स्यादित्यत्र चतुर्थं पादं व्याख्याति ।प्रकृतीति ।

जन्मान्तरेऽपि फलं न संभवतीत्यभिप्रायेण ।भयावह

इत्युच्यते व स्वरूपेण विच्छिन्नस्य कथं जन्मान्तरऽपि

फलम्? अविच्छिन्नस्य विगुणस्य फलं

विलम्बितमिति भाव: ।।

03.36.36

ननु "सदृशं चेष्टेते' इत्यादिना वासनानुवर्तित्वमुक्तम्;

वासना च चेतनस्येच्छाद्वारेण प्रवर्तिका ।

एवं च सति ज्ञानयोगामिच्छतस्तद्विरोधितया विषयानुभवे

प्रवृत्तिहेतुरिति पृच्छति ।अथ केनेति ।

अत्र, "अनिच्छमानोऽपि बलादाताड¬ेव नियोजित:'

इति यादवप्रकाशपाठोऽपपाठ:। ।अथशब्दोऽत्र, प्रश्नार्थक:,

कात्स्न्र्यपरो वा । ।ज्ञानवानपीतिज्ञानवत्त्वेन

निर्दिष्टपरामर्शक: ।अयंशब्द इत्यभिप्रायेणोक्तम् ।अयं

ज्ञानयोगाय प्रवृत्त इति ।

न ह्रं वासनयाऽप्यनिच्छापूर्वं प्रवर्ते चेतनत्वादिति

।पुरुषशब्दस्य भाव: । अनिच्छन्तोऽपि वायूदकादिप्रेरिता:

प्रवर्तन्ते; तद्वदत्रापि केनचित् प्रेरकेण बलवता

भवितव्यमिति मत्वोक्तं ।बलादित्यादि । ।बलादिव

नियोजित: इत्यस्य केनेत्यादिप्रश्नविरुद्धावगतार्थतां परिहर्तुं

क्रमभेदेनान्वय उक्त:। वायूदकादिबलान्नियोजितो

यथाऽनिच्छिन्नप्याचरति, तथाऽयमप्याचरति;तत्र केन प्रयुक्त

इति प्रश्नार्थ: ।।

03.37.37

अथ इन्द्रियस्येत्यादिना संग्रहणोक्तमेवार्थं प्रश्नस्योत्तरतया

प्रपञ्जयन् भगवानुवाच ।काम एष इति ।

विषयानुभववासनाबीजानां कामक्रोधाद्युङ्कुरोत्पादेन

रजोगुण: सलिलसेक:; जकामादिह्र्रस्मन्मते

ज्ञानविशेषरूप आत्मधर्म:; रजतस्तु प्रकृतिगुण:;

अन्यधर्मस्य कथमन्यत्र कार्यकरत्वमित्यत्रोक्तम्

।गुणमयप्रकृतिसंसृष्स्येति । औष्ण्याश्रयदहनसंयोगात् यथा

करतलादौ स्फोटादि:, तथा गुणाश्रयप्रकृतिसंसर्गादात्मनि

कामादिरिति भाव: । तर्हि गुणत्रयमयप्रकृतिसंसर्गात्

सत्त्वादिकार्यज्ञानादिरपि युगपदेव किं न स्यादित्यत्रोक्तम्

।उद्भवाभिभवरूपेण वर्तमानेति ।

पूर्वश्लोकोक्तायंशब्दस्यात्रापेक्षया अस्येति

विपरिनात्याऽनुषङ्ग: । रजोगुणप्रचुरस्यास्य कथं

ज्ञानयोगप्रारम्भमात्रमपीति चोद्यमुद्भवाभिभवक्रमेण मात्रया

मध्ये कदाचित्सत्त्वोन्मेषसंभावनया निरस्तमित्यभिप्रेत्य


ज्ञानायारब्धस्येत्युक्तम् । ।आरब्ध इति "भुक्ता ब्रााहृणा:'

इति वत् कर्रतरि क्त: । ।एष इति पदेन पापचरणे

प्रयोजक: प्रश्नविषय: परामृश्यते । तेनैव "सदृशं चेष्टते'(33)

"इन्द्रियस्येन्द्रियस्यार्थे' (34) इति

श्लोकद्वयोक्तार्थोप्यत्र स्मारित इत्यभिप्रेत्य

।प्राचीनेत्यादिविशेषणद्वयमुक्तम् । पूर्वोक्तरागद्वेषौ

अवस्थान्तरापन्नावत्र कामक्रोधशब्देन व्यपदिश्येते इति

भाव: । ।महाशनत्वविवरणं विषयेष्वेनमाकर्षतीति ।

महदशनं भोग्यं यस्य स ।महाशन: । एष इत

निर्देशस्याऽऽवृत्तया वाक्यभेद: । अत्र च वाक्यद्वयस्यैकमेव

मुखभेदेन प्रतिपाद्यम् । अन्यथा क: पापाचरणे प्रयोजक

इति प्रश्ने "काम एष क्रोधश्च' इत्यादिप्रकारेण निर्देष्टव्यम् ।

अनन्तरं च, "विद्धयेताविह वैरिणो' इति वक्तव्यम् ।

उत्तरत्र च षट्स्वपि श्लोकेषु ।तेन, एतेन, कामरूपेण,

अस्य एष:,एनं, य: स: कामरूपम् इति

सर्वत्रकवचननिर्देशश्च क्रियते; न तु कामात्

पृथक्त्वेनाभिधानम् । ततश्च काम एवावस्थाभेदेन

क्रोधतयाऽत्र विवक्षित:; तदवस्थाद्वयविषयतया च वाक्यभेद

उचित: । ।महाशनो महापाप्मेति पदद्वयमपि

बाहुल्यानुसारेणौचित्यात् क्रमेण

तदुभयविषयमित्येतदखिलमभिप्रेत्याह ।एष एवेति ।

प्रतिहतगतिरिति क्रोधाख्येपरिणामे हेतुरुक्त: । एकस्यैव

शब्दादिविषयककामावस्थात: क्रोधावस्थाया विषयतो

भेदप्रदर्शनार्थमतिप्रसङ्गपरिहारार्थं चोक्तम्

।प्रतिहतीत्यादि । ।महापाप्मतां विवृणोति ।परहिंसादिषु

प्रवर्तयतीति । महान् पाप्मा कार्यतया यस्यास्तीति स

महापाप्मा । "क्रुद्धो हन्यात् गुरूनपि' (रा.सु.55.5) इति

हि प्रसिद्धम् । एतच्छलोकोक्तं रजोगुणाख्यंपूर्वोक्तं

।प्रकृतिशब्दव्यपदेशार्हं वासनाख्यं कारणं चोपस्थाप्य

तदुभयकार्यताविशिष्टम् ।एनमित्यन्वादेश:

परामृशतीत्यभिप्रायेण ।रजोगुणसमुद्भवं सहजमिति

पदद्वयमुक्तम्। ।इह वैरिणमित्यत्र ।इहशब्द: प्रमादवत्तया

बुभुत्त्सितज्ञानयोगविषय इत्यभिप्रायेणोक्तम्

।ज्ञानयोगविरोधिनमिति ।।

03.38.38

वैरित्वप्रकार उच्यते ।धूमेनेति । तत्र यथेत्यन्तमेकं

वाक्यम्; ""आदर्शो मलेन चेत्यत्र चकारात्

यथाशब्दोऽनुषक्त इति व्यञ्जनाय ।यथा धूमेनेत्युक्तम् ।

पूर्वस्मिन् श्लोके क्रोधस्यापि

कामावस्थान्तरत्वव्यपदेशादुत्तरत्र च ।कामरूपेण,

कामरूपम् इति तस्यैवानुवृत्ते: अत्रापि ।तच्छब्देन

काम एव परामश्यत इति व्यञ्जनाय तेन कामेनेत्युक्तम् ।

।इदमिति सामान्यनिर्देशेऽप्यचिद्गहणासंभवात्

प्रकरणवशात् सर्वक्षेत्रज्ञसंग्रहणौचित्यात् ।इदंशब्दस्य

वक्ष्यमाणपरत्वादपि लोकप्रतीतपरत्वस्वारस्याच्च ""य़या

क्षेत्रज्ञशक्तिस्सा वेष्टिता (वि.6.7.62) इत्यादिवत्

क्षेत्रज्ञानमावारणमिहोच्यत इत्यभिप्रायेणोक्तम् ।इदं

जन्तुजातमिति व ।जन्तुशब्देन शरीरित्वस्य

विवक्षितत्वादावरणार्हत्वं दर्शितम् । नपुंसकनिर्देशस्य

समान्यविषयत्वप्रदर्शनाय ।जातशब्द: ।(1)अनादिवासनानुबन्धित्वेन सहजत्वम्, (2)

निवृत्तस्यापि पुन:पुनरुपाधिवशादागमनम्, (3)स्वेच्छया

निवर्तयितुमशक्यत्वं च दर्शयितुं 1.दृष्टान्तत्रयोपादानम् ।।

03.39.39

।आवृतं ज्ञानम् इत्यादे: पौनरुक्त्त्युदासायाह

।आवरणप्रकारमाहेति । अत्र ।तेनेदमावृतमित्युक्ते, किं

तदावृत्तमित्याकाङ्क्षाया अपि कथंताकाङ्क्षा युक्तेति भाव:।

अत्र ।ज्ञानिशब्दो न तावत् निष्पन्नज्ञानविषय:, तदवस्थस्य

तस्य कामावृतज्ञानत्वाभावात् ।

ततश्चानिष्पन्नज्ञानसर्वक्षेत्रज्ञपरत्वमेवोचित्मित्यभिप्रायेण

।अस्य जन्तोज्र्ञानिन इत्युक्तम् । ज्ञानिन इत्यत्र

मतुप्रत्ययस्य श्रुतिसिद्धस्वाभाविक संबन्धपरत्वप्रदर्शनाय

आवरणस्यौपाधिकत्वद्योतनाय च ।ज्ञानस्वभावस्येत्युक्तम् ।

क्षेत्रज्ञस्यापि कर्मफलभोक्तु: शब्दादिविषयज्ञानावरणाभावात्

।आत्मविषयं ज्ञानमित्युक्तम् । ।कामरूपशब्दस्य

स्वेच्छागृहीतरूपत्वे प्रसिद्धे: तद्भ्रमव्यदासायोक्तं

।कामाकारेणेति ।

कामस्वभावादर्थादाक्षिप्तमात्मविषयज्ञानावरणप्रकारं

व्यञ्जयति ।विषयव्यामोहजननेनेति । ।नित्यवैरिणा

आत्मसाक्षात्कारोत्तरावधिनाऽनादि वैरिणेत्यर्थ: ।

नित्यसंसारसिद्भावपक्षे चास्य केषुचिदात्मसु नित्वैरित्वं

सिद्धम् । योगैर्लब्धैरलंभावराहित्यम् ।अनलशब्दार्थ: ।

""तृष्णाखनिरगाधेयं दुष्पुरा केन पूर्यते ।

या महद्भिरपि क्षिप्तै: पूरणैरेव खन्यते

इत्युक्तप्रकारेणायोगेषु दुर्लभेषु प्रवृत्तिहेतुत्वं

दुष्पूरशब्दोऽग्निपर्याय: कामे गौण:; न

ह्रग्नेर्विषयविभाग: पर्याप्तिर्वा स्यात्, तद्वदिति भाव:।।

03.40.40

एवमावरणप्रकार उक्त:;अथाऽऽवरणोपकरणानि अनन्तरं

नियन्तव्यत्वोपदेशायोच्यन्त इत्यभिप्रायेणाह कैरिति ।

।आत्मानमधिष्ठिति स्वतन्त्रमात्ममानमाक्रम्य परतन्त्रं

करोतीत्यर्थ: । ।इन्द्रियशब्दोऽत्र गोबलीवर्दन्यायात्

बाह्रन्द्रिय: । ।बुद्धिरत्रापुरुषार्थेषु पुरुषार्थत्वाध्यवसाय: ।

प्रकृतानुपयुक्ताधिकरणादिधीव्यदासाय

करणव्युत्पतिं्तदर्शयति अधिष्ठत्येभिरिति ।

।एतैर्विमोहयतीति ह्रुच्यत इति भाव: ।

अधिष्ठानक्रियाकरणभूतानामिन्द्रियादीनामवान्तरव्यापार-

प्रर्शनाय ।विषयप्रवणेरित्युक्तुम् । ।प्रकृतिसंसृष्टमिति व

।देहिशब्देनेन्द्रियादेरवर्जनीयत्वं गुणवश्यत्वं च सूच्यत इति

भाव: ।।विशब्द: ""अनात्मन्यात्मबुद्धिर्या चास्वे स्वमिति या

मति: (वि.6.7.11) इत्याद्युक्तभ्रान्तिवैविध्यपर

इत्यभिप्रायेणाह ।विविधं मोहयतीति । भ्रान्तिवैविध्यं

भोग्येस्वात्मनि अभोग्यताभ्रमेण, अभोग्येषु च विषयेषु

भोग्यताभ्रमेण विवृण्वन् प्रकृतोपयोगित्वं झ्र्चट दर्शयति

।आत्मज्ञानेति ।।

03.41.41

अथ कामास्यात्माधिष्ठानोपकरणोष्विन्द्रियमनोबुद्धिषु

प्रथमिन्द्रियाणां नियमनं कामविजयोपायतयोपदिश्यते

।तस्मादिति श्लोकेन । ।तस्मादित्येतत् प्रकृतस्य

ज्ञानयोगस्योक्तप्रकारदुष्करत्वपरामर्शीत्याह

।यस्मादित्यादिना । ।त्विमिति निर्देशोऽर्जुनस्य

तदानीन्तनावस्थापर इत्यभिप्रायेणोक्तं ।प्रकृतिसंसृष्टतया

इन्द्रियव्यापारप्रवणस्त्वमिति । ।आदावित्यनेनाभिप्रेतमाह

।मोक्षेति । नात्रेन्द्रियनियमनमत्यन्तव्यापारोपरम:,आदौ

तस्याशक्यत्वात्; प्रपञ्चितम् च तत् प्रागेव । कर्मयोगार्थं

चेन्द्रियनियमनं प्रागपि "यस्येन्द्रियाणि मनसा' (7)

इत्यादावुक्तम् । अतोऽत्रापि तथैव

वर्णनीयमित्यभिप्रायेणोक्तम् ।इन्द्रियव्यापारानुरूप इत्यादि ।

ज्ञानविज्ञानयो: द्वयोरप्यात्मविषयत्वं प्रकरणात् सिद्धम् ।

तत्र च, ""ब्रााहृणेषु च विद्वांसो विद्वत्सु कृतबुद्धय:

(मनु.1-97) (भार.उयोग. 7.2) इतिवत्

स्वरूपतद्विवेकविषयत्वादपौनरुक्त्यमित्यभिप्रायेणोक्तम्

।आत्मस्वरूपेत्यादि । ।विज्ञानं विविच्य ज्ञानम्, व्यावृत्ततया

ज्ञानमित्यर्थ: । प्रत्यज्ञानानन्दत्वादिविशिष्टमात्मन:

स्वरूपम् । अणुत्वनित्यत्वज्ञातृत्वभोक्तृत्वकर्तृत्वादिर्भेदको

धर्मवर्गोऽत्र

।विवेक: । यद्वा देहातिरिक्त: कश्चिदात्माऽस्तीत्येतावत्

स्वरूपमिह विवक्षितम्; प्रत्यक्त्वादयोऽप्यणुत्वादिवत्

विवेकतया विवक्षिता: । 2.अथवा तत् सर्वं ।स्वरूपम् ।

।विवेक: विवेककरणं शास्त्रम्; तत: प्रमेयं तत्र?ट

  1. ग्त्द्मद्मत्दढ़ ड्ढदड्डत्दढ़!


03.42.42 #ग्त्द्मद्मत्दढ़ द्मद्यठ्ठद्धद्यत्दढ़!

तरतमत्वादिसिद्धयर्थमुत्तरोत्तरं विरोधितमत्वेन

निर्दिश्यन्त इत्यभिप्रायेणाह ।ज्ञानविरोधिष्विति ।

।परशब्दस्यात्र कारणत्वादिपरत्वायोगात् प्राधान्यमेव विवक्षितम् ।

तच्च प्रकरणवशात् ज्ञानविरोधापेक्षयेत्यभिप्रायेणोक्तं

।ज्ञानविरोधे प्धानानीति ।

प्राधान्यं चेन्द्रियाणां देशकालादिरूपसामान्यविरोध्यन्तरापेक्षया,

शरीरापेक्षया वा सूक्ष्मत्वदुग्र्रहत्वादिभि: ।

इन्द्रियाणां प्राधान्यहेतुं विरोधित्वप्रकारमाह ।यत इति ।

इन्द्रियेभ्यो मनस: परत्वे हेतुमाह ।इन्द्रियेष्विति ।

पूर्ववाक्यात् ।यत इत्यनुषञ्जनीयम् । एवमुत्तरत्रापि हेतुवाक्ये भाव्यम् ।

विषयासन्निचानाहठात्करणादिना बाह्रेन्द्रियेषु विषयेभ्य

उपरतेष्वपि मनसा तत्तद्विषयेषु चिन्त्यमानेष्वात्मज्ञानं

न स्यात्; ततो बाह्रेन्द्रियोपरतिवेलायामपि विरोधित्वादस्य

तेभ्य: परत्वम् । मनसौ बुद्धे: परत्वे हेतुमाह ।मनसि वृत्त्यन्तरेति ।

ननु मनसो विषयान्तरवृत्तिवैमुख्ये कथं तद्गोचराध्यवसायप्रवृत्ति:;

मनसा कञ्चित्द्विषयमालम्ब्य तत्रैव हि,कुर्याम्, न कुर्यामित्यादि अध्यवसीयते ।।

उच्यते । नात्र मनसो निश्शेषव्यापारनिवृत्ति: वृत्तयन्तरवैमुख्यं विवक्षितम्; किंतु

बलादप्यशक्यनिरोधस्वारसिकविषयान्तरप्रावण्यनिवृत्ति: ।

सूचितं चैतत् पूर्ववाक्ये ।मनसि विषयप्रवणे इति ।

अतो यदृच्छया निद्रालस्यादिभि: मनस: स्वरसतो

विषयैकशरणत्वाभावेऽपि दुराग्रहादिमात्रेण

विपरीताध्वसायप्रवृत्तौ मनस्तथाविधिमपि प्रावण्यं स्यादेव ।

एवं च ।मनसस्त्विति तुशब्द: शङ्कानिरासार्थ:;

एवंविधवैलक्षण्यार्थो वा ।

अध्वसायादपि कामस्य परत्वे हेतुमाह ।सर्वेष्विति । वासनाकार्यत्वस्य

स्वानुरूपाध्यवसायहेतुत्वस्य च द्योतनाय इच्छापर्याय इत्युक्तम् ।

इन्द्रियमनोबुद्धियुपरतिवेलायां कथं

कामस्त्योत्पत्तिरित्यत्रोक्तं ।रजस्समुद्भव इति ।

प्राचीनकर्मेन्मिषितरजोदूषितमनोमात्रसंभव इत्यर्थ: ।

नन्विन्दियादीनां विषयान्तररवैमुख्ये सिद्धे

विषयेच्छायास्सद्भावेऽपि को विरोध:? आत्मानुभवेच्छया तत्रैवाध्यवसायमन:प्रावण्ययोरुपपत्तेरित्यत्रोक्तं

।स एवेत्यादि । सत्यम् आत्मेच्छाऽप्यस्त्येव ।

सा हि कादाचित्काल्पसत्त्वमूला । विषयेच्छा तु

प्रचितप्राचीनकर्मोद्भावितनिरन्तरानुवृत्तरजोमूला;

तस्मादात्मेच्छा यावत् आत्मदर्शनाध्यवसायादिकं

करोति, तावत् विषयेच्छा प्रबला

विषयानुभवाध्वसायादिकमेव कुर्यादिति भाव: ।

एवमत्र कामस्य पूर्वेषां प्रवर्तकत्ववचनं बुद्धिमनसोरपि

पूर्वपूर्वप्रवर्तकत्वस्योपलक्षणं मन्तव्यम् ।

।रजस्समुद्भव:, वर्तयित्वेति पदाभ्यां

कामस्याध्यवसायादिनिरपेक्षोत्पत्तिकत्वदतुपकरणत्वलक्षणम्

वैषम्यं ।तुयशब्दद्योतितं विवृतम् । अर्थान्तरपरत्वमनन्वयभ्रमं

च निरस्यन् उक्तार्थपरतया चतुर्थं पादमुपादत्ते ।तदिदमुच्यत इति ।

। परत इति शब्दस्य पूर्ववाक्यत्रयस्थ।परशब्दार्थत्वात्

सार्वविभक्तिकप्रत्य़येन प्रमथमार्थत्वं ।स इत्यत्र

प्रकरणसिद्धंविशेष्यं च व्यञ्जयति बुद्धेरपीति ।

अहङ्कारस्य भोक्तृत्वादधिष्ठानत्वाच्च बुद्धे: परत्वमिति

केषाञ्चिद्व्व्याख्यानं प्रकृतासङ्गत्यादिभिरनादरणीयम् ।

ननु ""इन्द्रियेभ्य: परा ह्रर्था अर्थेभ्यश्च परं मन: ।

मनसस्तु परा बुद्धि: बुद्धेरात्मा महान् पर: ।

महत: परमव्यक्तात् पुरुष: पर: ।

पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गति: (कठ. 3.10,11)

इति हि कठवल्लयां नियन्तव्यवर्ग: श्रूयते ।

स्पष्टं चेदम्, ""आनुमानिकमप्येवकेषाम् (ब्रा.1.4ङ.11)

इत्यधिकरणे व्याख्यातम् । अस्मिन्निति श्लोके तत् प्रत्यभिज्ञायते । न

चेन्द्रियमनसोर्मध्येऽर्थानामदर्नात् "महत: परमव्यक्तात्

पुरुष: पर:' इत्यनयोरनुपादानाच्च भिन्नार्थत्वमिति वाच्यम्;

संग्रहविस्तररूपेण कतिपयाभिधानसकलाभिचानयोरुपपत्ते:;

सृष्टिप्रकरणादिषु कतिपयसमस्तसृज्यतत्त्वादिनिर्देशवत् । ।आहुरिति

वचनात् क्वचिदन्यत्रास्यर्थास्याभिधानमवश्याभ्युपगन्तव्यम्;ततश्च

"यो बुद्धे: परतस्तु स:' इत्यस्य "बुद्धेरात्मा महान्

पर:' इत्यनेने तुल्यार्थत्वादात्मविषयत्वमेव उचितम्;

एवं च सति "एवं बुद्धे: परं बुद्धा' इत्यादौ उत्तरश्लोकेऽपि

द्विवितीयान्तत्मशब्दश्चेतनविषयतयोपपन्नतरस्याम्;

अत: कथं ।स: काम इति व्याख्यायते ।।

उच्यते-यद्यपीन्द्रियादित्रयं तदेवात्र प्रत्यभिज्ञातम्;

तथाऽपि स एव क्रमोऽत्र कात्स्न्र्येन न विवक्षित:;

पूर्वात्र "इन्द्रियाणि मनो बुद्धि:' (40) इति श्लोके

निर्दिष्टानामिन्द्रियादिकामपर्यन्तानां चतुर्णां

विरोधिनामेवात्र तारतम्यनिर्देशोपपत्ते: । इन्द्रियमनोबुद्धीनां

च क्रमस्यात्र न कश्चित्भङ्ग: । ।कठवल्लयर्थपरत्वे तु

अर्थानामत्रानिर्देशात् मात्रया क्रमभङ्ग: स्यात् ।

विरोधित्वे जेतव्यत्वे च प्रधानतया पूर्वत्रोत्तरत्र च काम एव व्यपदिश्यते ।

अत:स एवात्र सर्वप्रधानतया "यो बुद्धे: परतस्तुय स:' इति निर्देशमर्हति ।

अन्यथा ।स इति शब्दस्य विशेष्यमौपनिषदं दूरस्थं स्यात् ।

यदि त्वात्माऽप्यत्र नियन्तव्यतयाऽभिमत:, तदा "इन्द्रियाणि

मनो बुद्धि:' इत्यत्रात्माऽप्यधिष्ठानतया व्यपदिश्येत;

न चैतत् तथा कृतम् । आत्मा हि तत्र चतुर्भिर्मोहनीयतया व्यपदिष्ट:।

अतश्चतुर्णां निमनमेवानेन कार्यम्;

तथासति उत्तरश्लोकस्थात्मशब्दोऽप्येतदनुरोधेन वर्णनीय: ।

एतस्यैवानुवादो हि "एवं बुद्धे: परम्' इति व्यक्त: ।

पादद्वयस्थितस्य "बुद्धा' इत्यादिक्रियाद्वयस्य कर्मद्वयं

च भिन्नमेव स्वरसप्रतीतम् । अतस्तत्र द्वितीयान्तात्मशब्दो

नियन्तव्यतया निर्दिष्टमनोविषय: । तृतीयान्तस्तु मनोनियमन

करणभूताध्यवसायविषय: व ।आहुरिति

निर्देशस्तु नावश्यमुपनिषदभिप्रायेण; ""इन्द्रियाणां हि

चरतां यद्येकं क्षरतीन्द्रियम् । तेनास्य क्षरति प्रज्ञा दृते: पादादिवोदकम् (मनु.2.99)

इत्याद्यनुसारेण ।मन्वादय आहुरित्यपिविवक्षोपपत्ते: । तस्मात् ।यो बुद्धे:

परतस्तुय स: इति काम एव निर्दिश्यते ।

तदेतदखिलमभिप्रेत्योक्तं ।तदिदमुच्यत इत्यारभ्य ।स काम इत्यर्थ इत्यन्तम् ।।

03.43.43

"सदृशं चेष्टते' इत्याद्युपक्रान्तज्ञानयोगसप्रमादतोपसंहारद्वारा

मनस: कर्मयोगेऽवसथापनमभिधाय,

अध्यायार्थेऽयुपसंह्यियते ।एवमिति श्लोकेन ।

कामविजयात्पूर्वं मनसस्संस्तमभनं नाम कर्मयोगे स्थापनमेव;

।न पुरत्यन्तवशीकृतत्वम् । सति हि कामे मनसोऽपि

क्षोभ: स्यादिति पूर्वमेवोक्तमित्यभिप्रायेण ।कर्मयोगेऽवस्थाप्येत्युक्तम् ।

।दुरासदम्

अननुष्ठितकर्मयोगैरनिरस्तपापैरगृहीतसुदृढ-

सत्त्वकवचैर्दोषदर्शनेऽप्यपाकर्तुमशक्यमित्यर्थ: ।

अचेतनस्य कामस्य शत्रुत्वारोपेण हिंसनीयत्वोक्तिफलितं तु

नाशनमेवेत्यभिप्रायेण ।प्रजहि, जहि

इत्यनयोर्नाशयेति। व्याख्या ।।