गीताभाष्यतात्पर्यचन्द्रिका/अध्यायः २
← अध्यायः १ | गीताभाष्यतात्पर्यचन्द्रिका अध्यायः २ [[लेखकः :|]] |
अध्यायः ३ → |
।।अथ द्वितीयोऽध्याय:।।
अथ शोकापनोदनविषयो द्वतीयोऽध्याय आरभ्यते । संजायवाक्याविच्छेदेऽपि ।सञ्जय
उवाचेति निर्देशोऽध्यायान्तरारम्भरूपतयाऽन्तराम्भरूपतयाऽन्योक्तिशङ्कापरिहाराय ।
।तं तथा इत्यादिश्लिकत्वं व्याख्याति ।एवमिति । ।विषीदन्तम् इत्यन्तस्य
पूर्वाध्यायोक्तानुवादत्वं सूचितम् ।एवमुपविष्टे पार्थे इत्युक्तम् ।
तथेति-(25द्यण् द्रढ़2.तथाशब्दस्य पूर्वाध्यायोक्तरीत्येत्यर्थापेक्षया
कृपाद्यनौचित्यरूपालभ्यार्थपरत्वाशयेन अस्थान इति व्याख्यानं कृतम् ।
कृपया परयाविष्टो विषीदन्निति पूर्वौक्तानुवाद इह ।
तथेत्यनेन परयेत्युक्तावपि अस्थान इत्येव पर्यवसानम् )। अस्थान इत्यर्थ: ।
कृपया अनन्तरो (द्मठ्ठथ्र्ड्ढद्रढ़ ददृ3.त्त्ठ्ठ कृपाया अनन्तरोविषाद: इत स्थित पाठ एव युक्त: ।
कृपाशब्दस्य पूर्वं परमकारुणिक इति दु:खासहनपरतया व्याख्यानात् तदैकरूप्यात् ।
विषादो विषीदन्तमित्येतदर्थ एव । उपविष्टमिति तमिति विशेष्यपदलभ्यार्थ: ।
तेन उपाविशदिति पूर्वोक्तपरामर्शात् । अतो विपूर्वकषद्लृघातोरूपवेशरूपार्थप्रसिद्धयभावेऽपि
न क्षति:। अत्र वाक्ये कृपाविषादाश्रुपूर्णत्वानां क्रम: कथ्यते । विषाद: ।
तत: ।अश्रुपूर्णाकलेक्षणं बाह्रशोकेनाप्याविष्टमित्यर्थ:।
।विषीदन्तंझ्र्तं?ट-पूर्वाध्ययायोक्तरीत्या विषादं प्राप्योपविष्टम् ।
।मधुसूदनशब्देन शोकमूलरजस्तमोनिबर्हणत्वं सूचितम् ।
।अस्थान इति विषमशब्दोपचरितार्थ: । ।कश्मलोमिह मूच्र्छाकल्प: शोक:;
।शोकसंविग्नमानस: इति प्रकृतत्वात् । प्रख्यातवंशवीर्यश्रुतादिसूचका:
।अर्जुन,कौन्तेय,1.त्वा,त्वयि,परन्तप इति शब्दा: आक्षेपझ्र्काकुटगर्भा
इत्यभिप्रायेण ।आक्षिप्य इत्युक्तम् । ।कुतश्शब्दश्च हेत्वाभासस्य हेतुतां प्रतिक्षिपन्
धिक्कारगर्भ: ।(द्मठ्ठथ्र्ड्ढ द्रठ्ठढ़ड्ढ ददृ: 4.परन्तपेत्यत्र परमिति न द्वितीयैकवचनम् ।
किं तु मुमागम: । अत: परानिति बहुत्वेऽप्येवमेव; तपतीति अणिजन्तं न ग्राह्रम्,
"द्विषत्परयोस्तापे:' इति सूत्रे णिजन्तनिरनिर्देशात् इत्याशयेन परान् तापयतीति विग्रह: कृत: ।
परन्तपेत्यस्य परतापनार्थमुत्तिष्ठेति भाव:। परान् तापयतीति ।परन्तप: ।
क्लैब्यमिह कातर्यम्; तत् ।ह्मदयदौर्बल्यशब्देन विवृतम् । पूर्वश्लोकस्थैविशेषणानामपि
कातर्यत्याज्यताहेतुत्वातर्थतस्यान्यप्यत्र संगमयति ।तमिमं विषमस्थमित्यादिना ।
अतत्त्वेभ्य: कुतर्केभ्य: ।आरात् दूरात् ।याता बुद्धिर्येषां ते आर्या: विद्वांस:;
तदन्ये ।त्वनार्या: । ।अस्वग्र्यम् इत्यत्राविशेषात् ।स्वर्गशब्द: परलोमात्रोपलक्षक:;
।नञश्चात्र विरोधिपरतया ।स्वग्र्यशब्दनिर्दिष्टस्वर्गहेतुविरोधित्वे
अर्थैतस्तत्फलविरोधात् ।परलोकविरोधिनमित्युक्तम् ।
।क्षुद्रशब्दस्यात्र संकोचकाभावेनापेक्षिकक्षुद्रविषयत्वायोगान्महत्तरस्यार्जुनस्य
तथाविचावस्था पर्यालोचनाच्च काष्ठप्राप्तं क्षुद्रत्वं विवक्षितमिति
दर्शयितुम् ।अतिक्षुद्रमित्युक्तम् । कार्ये कारणोपचार इति वा,
कारणत्यागस्य कार्यत्वयागार्थतया पूर्वोत्तरश्लोकफलितार्थविवक्षया
वा ।ह्मदयदौर्बल्यकृतमित्युक्तम्; अदृढह्मदयत्वकृतमित्यर्थ: ।
।परन्तपेत्यनेन ज्ञापितं प्राकरणिकमर्थमध्याह्मत्ययोक्तं ।युद्धायोत्तिष्ठेति ।।
02.04-05
अथ भगवदुक्तयुद्धारम्भस्य परम्परया परमनि:श्रेयहसहेतुत्वरूपहित
तमत्वाज्ञानात् तत्प्रतिक्षेपरूपत्वार्जुनवाक्यस्योत्थानम् । तश्चाविधाज्ञानस्य
चास्थानस्नेहाद्याकुलतामूलत्वं वदन् उत्तरमवतारयति ।पुनरपीति ।
उक्तार्थविषयतया ।पुनरपीदमवाचेत्युक्तम् ।
कथमित्यादिश्लोके ।चकारस्यानुक्तसमूच्चयार्थत्वाप्रदर्शनाय
।आदिशब्द:; उपात्तस्यानुपात्तस्यानुपात्तोपलक्षणतया वा ।
।पूजार्हशब्दविवक्षितबहुमन्तव्या इति झ्र्वाट भाव: ।
पुषपादिजभि: पूजार्हाणां पूजानिवृत्तिरेव साहसम्; हननं त्वतिसाहसम् ।
गुरुभक्त्या च तद्विरोधिभि: सह योद्धव्यम्, न पुनर्गुरुभिरिति
।कथं गुरूनिषुभि: प्रतियोत्स्यामि इत्यस्य भाव: । ।अहंशब्देन
प्रख्यातवंशत्वादिकमभिप्रेतम् । ।इषुभि: प्रतियोत्स्यामि
इत्यस्य हननपर्यन्तप्रतियुद्धाभिप्रायत्वमुत्तरश्लोकेन
विवृतमिति ।हनिष्यामीत्युक्तम् । "गर्हायां लडपिजात्वो:' "विभाषा
कथमि लिङ् च' (अष्टा.3.142,143) इति गहार्थ इह लिङ्प्रत्यय:;
।अर्थकामाणनित्यत्र द्वन्द्वादिभ्रान्तिरिवर्तनाय समासतदंशद्वयार्थो
।भोगेष्वतिमात्रसक्तान् इत्युक्त: । अर्थेषु कामो येषामिति विग्रह:
""अवज्र्यो हि व्यधिकरणोझ्र्ऽपिट बहुव्रीहिर्जन्माद्युत्तरपद: ।
अथ्र्यन्त इत्यर्था: भोगा:;कामश्चातिमात्रसङ्गो वक्यते । यद्वा अर्थं कामयन्त
।इत्यरर्थकामा: । ते निष्कामोश्चेत्, तद्भोगहरणमपि सह्रते; इदं तु
क्षुधितानामोदनहरणवदिति भाव: । हननादप्यतिनृशंसत्वसूचनाय
।भोगरुधिरादि शब्दैरर्थसिद्ध: ।तुशब्देन च द्योतितो विशेष: तैरित्यादिना
उक्त: । इहैवेत्यनेन विवक्षितो नृशंसत्वातिशय: ।तेष्वित्यादिना दर्शित: ।
गुरुवधसाध्यभोगा: रुधिरप्रदिग्धगुरुस्मृतिहेतुत्वात् स्वयमपि तथाविधा इव
दुर्भेजा भवन्तीत्यैहलौकिकसस्वमपि नास्तीति ।रुधिरप्रदिग्धशब्दाभिप्राय
इत्याह ।तद्रुधिरेणोपसिच्येति । उपसेचनं हि स्वयमद्यमानं सत् अन्वयस्यादनहेतु: ।
इह तदुभयमपि विपरीतमिति भाव: ।।
02.06-08
।न चैतद्विद्म: इत्यादेश्चकारद्योतितशङ्कापूर्वकं तात्पर्यार्थनमाह ।एवमिति ।
बन्धुविनाशाद्भीतेन त्वया धर्मसुतभीमनकुलाद्यासन्नतरबन्धुविनाश एव कारित:
स्यादिति ।भवत इत्यनेन सूचितम् । ।विद्म: इत्यादिबहुवचनानुसारेणाह ।अस्माकमिति ।
।अस्मामित्यनेनहन्त्व्यतया निर्दिष्टभीष्मद्रोणाद्यपेक्षया सर्वेषां शिष्यत्वादिकमभिप्रेतम् ।
पूर्वोत्तरार्धाभ्यां विमर्श-स्वाभिमतपक्षौ व्यञ्चितौ । ।यद्वेति यदि वेति च तुल्यार्थम्;
येषां वधेन जीवनमस्कामननिष्टम्, त एवास्मान् जिघांसन्त:
स्वहननानुरुपत्ववेनावस्थिता इति, ।यानेव इत्यादेरन्वयार्थ: ।
।न जिजीविषाम: इत्यनेन सूचितामनिर्णयपर्यवसिताम्, अत अतव
प्रश्नहेतुभूतां प्रतिभामाह ।इति मे प्रतिभातीति ।
।यच्छ्रेय: इत्यादेरन्वयं फलितार्थमुपदेशयोग्यत्वायोक्तां शिष्यगुणसंपतिं च स्फुटयति-
।यन्मह्रमित्यादिना । निश्चेतव्याकारनिष्कर्षणाय ।इतिकरणम् । शासनीयो हि शिष्य:;
अत:, ।शिष्यस्ते।ऽहं शाधि माम् इति वदति । ।स्वभावोऽत्र धैर्यम्;
कर्तव्यविशेषाज्ञानात् शोकापनोदनोपायराहित्यादिना वा अतिमात्रकार्पण्यम् ।
त्याज्यस्पारित्यागोऽत्र कार्पण्यमित्येके; दयाजनकदीनवृत्तिनिरतत्वमित्यपरे ।
।भगवत्पादावुपससादेति शिष्यत्वप्रपन्नत्वद्युत्वाद्युक्तिफलम् ।।
02.09-10
।एवमुवत्वेति श्लोके ह्मषीकेशपदेन सदर्थश्रवणायार्जुनह्मषीकप्रेरकत्वम्,
।यच्छौकमच्छोषणमिन्तिद्रयाणामित्याद्ययुक्तेन्द्रिययक्षोभशान्तिकरत्वं
च व्यञ्जितम् । ह्मष्यन्ति हर्षयन्तीति वा ।ह्मषीकाणिउइन्द्रियाणी ।
।एवमुक्त्वा-स्वावस्थामावेद्येत्यर्थ: । "निद्रालस्ये गुडाका स्यात्' इति ।गुडाका निद्रा;
तस्या: ईशो ।गुडाकेश:; प्रबुद्धस्वाभाव इत्यर्थ:; पिण्डितकेश इति वा ।
।गोविन्दशब्देन शोकापनोदनयोग्यवाक्छालित्वम्,गोशब्दनिर्दिष्टाया भुवो झ्र्लाभायट
भारावतरणार्थप्रवृत्तत्वं चाभिप्रेतम् ।।
एवमनेनोपद्घातेनोचितावसरे वक्ष्यमाणशास्त्रावतरणसङ्गतिं वदन्
अर्थादुपोद्घातसंग्रहश्लोकं च व्याकरोति ।एवमिति ।
।अस्थानशब्दस्य "विषमे समुपस्थितम्' इत्येतद्विषयत्वं व्यञ्जनम्,तस्य स्नेह:
कारुण्याभ्यामेवान्वयाय तयो: पृथङ्निर्देशं कृतवान् । ।अप्रकृतिं गतमिति
आकुलशब्दार्थ उक्त: । तेन स्वभावतो धीरत्वं सूच्यते; ।उपहतस्वभाव:
(7) इति हि स्वेनैवोक्तम् । एतेन कार्पण्यदोषोपहतस्भावत्वं
धर्मसंमूढचेतस्त्वे हेतुतयोक्तमित्यपि दर्शितम् ।
।धर्मसंमूढचेता: इत्येतदद्विवरणरूपस्य ।धर्माधर्मधियेत्यस्य
अर्थ: ।क्षत्रियाणामित्यादिनोक्त: । धर्मोऽप्यधर्मधी: धर्माधर्मधी:,
शुक्तिकारजतधीरितिवत् । तत्र यथार्थख्यादिपक्षे भेदाग्रहो विवक्षित: ।
तामसी चेयं धी: । "अधर्मं धर्ममिति या मन्यते' (18.32) इत्यादि हि वक्ष्यते ।
अत्रास्थानस्नेहारिण्याभ्यांजाता धर्माधर्माधीरिति विग्रहो द्ष्टव्य: ।
स्नेहकारूण्यधर्माधर्मभयाकुलेत्यादिप्राचीनभाष्यानुसारेण
।धर्माधर्माभयाकुलमिति पाटे तु त्रयाणां द्वन्द्व: ।
।पृच्छामि त्वा इत्यादिसमभिव्याह्मत।प्रपन्नशब्दार्थ: धर्भबुभुत्सया च शरणागतमित्युक्त: ।
एवं योग्योद्देशेन प्रवृत्तिर्युज्यत इत्याह- पार्थिमिद्दिश्येति ।
व्याजलाभमात्रेण शास्त्रावतरणं कृतमिति वा भाव:।
।कृतमित्यस्य केनेत्याकाङ्क्षायां प्रबन्धकर्तृभूतव्यासादिशङकाव्यावर्तनायोक्तं
।भगवता परमपुरुषेणेति । अनेन पदद्वयेन
शास्त्रप्रमाण्याद्युपयुक्तमभयलिङ्गत्वादिकभिप्रेतम् ।
अन्यपरशास्त्रव्युदानसाय ।अध्यात्मेति विशेषितम्।
अस्यार्थस्य सांप्रदायिकत्वायाह-।तदुक्तमिति ।
प्रत्यध्यायं संग्रहश्लोकै(रुाावतरण)रूत्वं च विवेक्तुम्।अस्थानेत्यादिना
संग्रहश्लोकनानिर्दिष्टप्रथमाध्यायेनैतावत् संगृहीतम् ।
महर्षिस्तु शोक-तदपनोदनरूपकथावान्तरसंगत्या ।तं तथेत्यादिकं
द्वतीयऽध्ध्याये व्यवीविशत् । इदमपि सूचितम् ।तन्मोहशान्तये
इति द्वतीयाध्यायफलं संगृह्णाद्भि: । ततश्चास्थानस्नेहाद्याकुलत्वं
प्रथैमाध्यायार्थ:; "सविशेष: स एवात्र संगत्यर्थमनूदित:' इत्यपि दर्शितं भवति ।
(29द्यण् द्रढ़ददृ:1. नन्वेवंविधमिति । मुमुक्षवे उपदेष्टव्यस्य परतत्त्वहितादेरस्मै कथमुपदेश: ।
न हि राज्यानाकांक्षावचनमात्रेणायं मुमुक्षु: । परान् हत्वा राज्यं न लिप्सते ।
दुर्योधन एव भीतो वाऽन्यथा वा यदि किञ्चित्दास्यति, तर्हि ततोऽधिकं
बुभुक्षुरेव भवेदिति शंका । समाधिस्तु
पञ्चात्तनैतत्परिस्थित्यादिमात्रेणास्येदानीममुमुक्षुत्वममपि न निर्धारयितुं शक्यम् ।
पश्चाद्बोगादिप्रावण्येन जातसमुमुक्षाह्लासस्यापि संभवात् ।
तत्प्रयुक्तश्रेय: कार्पण्यादिपदानि मुमुक्षुत्वे स्वरसानि ।।
किञ्च भगवान् भूभारावतारणं लोकक्षेमायेदानीं निश्चिकाय ।
तत्रैतत्तुल्यवीराभावात् एतन्मुखेनेत्यपि तेन संकल्पितम् । तत्रास्य राज्यकामत्वे
तस्यानायासेनैतत्प्रवर्तनं निष्पाद्यंस्यात् । स तु राज्यं न कामयते ।
निष्फलमपि कर्तव्यं नैमित्तिकत्वादित्युक्तौ न तृप्येत् । युद्धस्य वैश्वानरेष्टयादेरिव
संवलिताधिकारमूलत्वात् राज्यविजयाद्यनभिलाषे कथं नैमित्तिकत्वमिति अर्जुनो मन्येत ।
महांश्चासौ दुर्लोभो धर्म: पारमार्थिकरूपेण सात्त्विकत्यागेन क्रियते चेत्- अस्य,
नेहाभिक्रमनाशोऽस्तीतिन्यायेन यस्मिन् कस्मिन्नपि जन्मनि सम्यगुपयोक्ष्यते इति कृत्वैव,
मत्त: स्मृतिज्र्ञानमपोहनञ्चेतिरीत्या अस्यैवंविधबुद्धिरुत्पादिता कृष्णेन ।
विश्वरूपसंदर्शनादिकमाकांक्षितवतोऽर्जुनस्य, बहुमुखं प्रागेव भगवत्प्रभावं
विदितवतो मुमुक्षा अस्थानस्नेहादिवत् स्यात् ।।श्रेयश्चतुर्भैक्ष्यमपीति चाह ।
अत: कर्तव्ये युद्धेऽस्याऽऽवश्यकं प्रेरणमेवमेव संपाद्यम् ।
ज्ञानकर्मणो: संबन्धो नास्तीति मोहापकरणं मुख्यं गीताकार्यम् ।
10 प्रवसमात्र-दृष्टान्तनुपयोगमिति । प्रकर्षेण हास: अकर्मक: लोके परदोषदर्शनादि
हेतुकोनाऽऽत्मोपदेशसंबन्धी । तत्कर्तु: कृष्णं प्रति दृष्टान्तततापि नेत्यर्थ: ।
प्रहास: परिहास:; स कृष्णनिष्ठ एव । पैतृष्वसीये एतावत्कृतपरिहासवाक्यं यथा
सरसत्वादिविशिष्टमासीत् ; तथाभवदिदमपि परिहासतुत्यमिति वक्तुं
परिहासकर्तेवेत्युच्यत इति भाव: । नन्वेवंविधमुद्दिश्य
कथमपृष्टकर्मयोगभक्तियोगादिविषयं शास्त्रामुपदिश्यते;
""नापृष्ट: कस्यचिद्ब्राूयात् (मनु.2.110) इति हि स्मरन्ति ।
विशेषतश्चायं गुह्रगुह्रतरगुह्रतमप्रकारोऽर्थ: सहसोपदेष्टुमयुक्त: ।
"तस्माद्युध्यस्व', "युध्य च' इत्यादिषु च प्राकरणिकयुद्धप्रोत्साहनपरत्वमेव प्रतीयते ।
अतो नास्य शास्त्रस्याध्यात्मपरत्वमिति । अत्रोच्यते- ।यच्रछ्रेय: स्यादीति प्रश्नवाक्ये
।यच्छ्रेय: इति अनिर्धारितविशेषं दृश्यते । न चार्जुनस्य युद्धमेव
श्रेयस्त्वेन जिज्ञास्यमित्यस्ति नियम:,परमास्तिकस्य तस्य भगवति
संनिहिते प्रस्तुतमुखेन परमनिश्श्रेयसपर्यन्तजिज्ञासोपपत्ते: ।
अस्तु वा तस्य युद्धमात्रविषया जिज्ञासा; तथाऽपि परमकारुणिकेन
भगवता यच्छ्रेय: इति सामान्वचनमालम्ब्य परमहितोपदेश उपपन्न: ।
युध्स्वेत्यादिकमपि परमनिश्श्रेयसोपायतयेति तत्रतत्र व्यक्तम् ।
तस्माद्युक्तमिदम् ।अध्यात्मशास्त्रावतरणमिति ।। 8।। 9 ।।
परिहासयोग्यत्वाय तमिति परामृष्टमाह-।एवमित्यादिना ।
उभयोरित्यनेन सूचितमुक्तं ।युद्धयोद्युक्तयोरिति ।
एतेनोपदेशावसरलाभोऽपि व्यञ्जित: । ।सीदमानमित्यनेन
निरुद्योगत्वं फलितम् । युद्धनिवृत्त्यनर्हावस्थाज्ञापकेन ।मध्ये
इत्यनेनाभिप्रेतमाह- ।अकस्मादिति । अधर्मादि: पराजयादिर्वा युद्धनिवृत्ते:
सम्यग्धेतुरत्र नास्ति; अहेतुकोपकक्रान्तत्यागे तु परिहास्त्यत्वमिति भाव: ।
अत्र ह्मषीकेशत्वोक्तिफलितं वक्ष्यमाणशास्त्रप्रामाण्याद्युक्तं वक्तु:
पुरुषस्य सर्ववैलक्षण्यं ।परमपुरुष इति दर्शितम् ।
यद्यप्यसौ ह्मषीकेशत्वात् पार्थस्य ह्मषीकादिकं सर्वं सङ्कल्पमात्रेण नियम्य
भूभारावतारणाय प्रेरयितुं शक्त:, तथाऽपि जगदुपकृतिमत्र्यतया
पार्थतदितरात्मसाधारणपुरुषार्थौपायशास्त्रोपदेशद्वारा प्रवर्तयतीति भाव: ।
यद्वा धीरमर्जुनं ह्मषीकेशतया स्वयं प्रक्षोभ्य प्रहसन्निव जगदुपकाराय शास्त्रमुवाचेति ।
संबन्धविशेषात् समनन्तरवाक्यपर्यालोचनया च परिहासार्थत्ववौचित्यात्
प्रहासस्य पार्थकर्मकत्वमुक्तम् । यद्वा प्रपन्नस्य दोषनिरीक्षणेन परिहासासंभवम्,
शिष्यं प्रति अध्यात्ममोपदेशे प्राहासमात्रदृष्टान्तानुपयोगं (परिहासमात्रानुपयोगं)
चाभिप्रेत्य ।पार्थशब्द: । अत: ।प्रहसन्निवेत्यनेन फलितं सरसत्वम्, सुग्रहत्वम्,
निखिलनिगमान्तगह्वरनिलीनस्य महतोऽर्थजातस्यानायासभाषणम्,
।इदंशब्दस्य वक्ष्यमाणसमस्तभगद्वाक्यविषयत्वम्, इङगितेनापि
विवक्षितसूचनं च दर्शयति--।परिहासेत्यादिना । ।अशोच्यान् इति श्लोकस्यापि
उपदेशार्थावधानापादनार्थपरिहासच्छायतया शास्त्रावतरणमात्रत्वेन
साक्षाच्छास्त्रत्वाभावात्-।न त्वेवाहम् इत्यारभ्येत्युक्तम् ।
यद्वाऽत्र ।अशोच्यान् इति श्लोक: ।प्रहसन्निवेत्यस्य विषय:, ।न त्वेवाहम्
इत्यादिक।मिदंशब्दार्थ: । अत्र ।मा शुच: इत्येतदन्तं ।भक्तियोगगोचरमिति
निर्देश:, सर्वसाधकस्यापि चरमश्लोकोक्तप्रपदनस्य प्रकृतान्वयेन
भक्तिविरोधिनिवर्तकतयोदाहरिष्यमाणत्वात् ।।
02.11
'अशोच्यानन्वशोच:' इत्युक्ते केचिदशोच्या: शोचन्ति, तदनन्तरमयमपि
शोचतीति भ्रान्ति: स्यात्; तन्निवृत्त्यर्थमुक्तम् ।अशोच्यान्प्रतीति।
।अन्वशोच: इति लङप्रयोगोऽनुपपन्न:, शोकस्याद्यतनत्वात्,।भाषसे
इति वर्तमानार्थव्यपदेशवैरूप्याच्चेत्यत्राह ।अनुशोचसीति ।
अद्यतन एव चिरानुवृत्तत्वविवक्षया सोपसर्गलङ्प्रयोग:; यद्वा वर्तमानार्थ एव
सुप्तिङुपग्रहेत्यादिना लकारव्यत्यय: । "प्रज्ञावादांश्च भाषसे' इत्यत्र
"वर्तमानसामीप्ये वर्तमानवद्वा' (अष्टा.3.3.131) इत्यनुशासनात् भूते लट् ।
तेन "तूष्णीं बभूव ह' इत्यनेन न विरोध: । अत्र प्रकृष्टज्ञानवाचिना
।प्रज्ञाशब्देन देहात्मनो: स्वभावज्ञानमुच्यते । प्रज्ञया कृता व्यवहार:
।प्रज्ञावादा इति समासार्थव्यञ्जनाय ।निमित्तशब्द: । देहात्मभेदज्ञाने
सति हि पितृणां तदर्थपिण्डोदकक्रियायास्तल्लोपनिमित्तोप्रत्यवायादेश्च
विश्वासपूर्वको व्यवहार इत्येतत्सूचनाय ।पतन्ति इत्याद्युक्तम् ।
फलितमाह- देहात्मेति । गतासून् इत्यादेर्विवक्षितं विशेष्यं निर्दिशन्,
।पण्डितशब्दं प्रकृतोपयोगितया व्याकुर्वन् अन्वयमाह- ।गतासूनिति ।
यद्यपि- ।गतासूनगतासूनिति शब्दौ निष्प्राणसप्राणवाचकौ; तथाऽपि तस्यार्थस्य
प्रकृतासङ्गते:---अविश्रान्तमनालम्बमपाथेयमदेशिकम् । तम:कान्तारमध्वानं
कथमेको गमिष्यसि ।। 'भा.मो.330.34), "बद्धवैराणि भूतानि द्वेषं कुर्वन्ति
चेत् तत: । शोच्यान्यहोऽतिमोहेन व्याप्तानीति मनीषिणा ।।' (वि.1.17.82)
इत्यादिषु पण्डितानामेव सप्राणनिष्प्राणविषयशोकदर्शनात् ।अशोच्यानन्वशोच:
इत्यस्य वक्ष्यमाणे विस्तरे च अव्यक्तोऽयमित्यादिना ।अथ चैनमित्यायादिना
च नित्यस्यात्मन: अनित्यस्य शरीरस्य चाशोचनीयत्वेन वक्ष्यमाणत्वादत्रापि
तद्विषयतैव युक्तेत्यभिप्राय: । देहास्तावन्न शोचनीया: नश्वरत्वात्,
आत्मानोऽपि तथा अनश्वरत्वात् इत्यूहापोहक्षमबुद्धिरूपा पण्डा येषां तेऽत्र
।पण्डिता: । प्रज्ञावादविप्रतिषिद्धशोकेनोन्नीतांस्तदज्ञानविषयानाह
।अतो देहेत्यादिना। शोकस्तु सिद्ध: ; प्रज्ञा तु वादमात्रस्थेति भाव: ।
को देहेस्वभाव:, कथमात्मा देहातिरिक्तो नित्यश्च, कथं चानयोरेरशोच्यत्वम्, कथं
वा घोरं युद्धादिकमात्मप्राप्त्युपाभूतम्, इत्याशङ्कय तदज्ञानविषयतयोक्तं
त्रयं बुद्धिस्थक्रमेण विवृणोति--।इदं चेत्यादिना । इदमेव युद्धं
बुद्धिविशेषसंस्कृतत्वादात्मयाथात्म्यप्राप्तिकरमित्यर्थ: ।
।उपायभूतमित्यत्र च्विप्रत्ययाप्रयोगादयमेवास्य स्वभाव:; फलान्तराभिसन्धिना तु स
प्रतिबध्यत इति भाव: । ।आत्मा हीति हिशब्देन, "न जायते' (क.2.18)
इत्यादिश्रुतिप्रसिदिं्ध द्योतयति । आत्मनो देहसंयोगवियोगलक्षणजन्ममरणसदभावेऽपि
नोत्पत्तिविनाशरूपे जम्ममरणे इत्यभिप्रायेणाह--।तस्येति । देहस्त्विति तुशब्द
आत्मापेक्षया वैलक्षण्यं प्रत्यक्षादिसिद्धं द्योतयति । देहेत्वेनोपचयात्मकत्वादचेतनत्वाच्च
घटादिवत्परिणामस्वभाव इत्यर्थ: ।।
02.12
एवमुपायोपेयनिवत्र्यस्भावानभिज्ञं प्रति त्रितयोपदेशाय बुभुत्सोत्पादिता ।
अथ पारलौकिकफलोपायानुष्ठानाधिकारित्वाय देहातिरिक्तत्वेनावश्यं ज्ञातव्यं
पुरुषार्थतयोपेयमात्मानां तत्प्राप्तीच्छामुखेन तदुपायेच्छाजननाय
प्रथममेवोपदिशतीत्यभिप्रायेणाह-- ।प्रथमिति । शृण्वित्यनेन प्रकृतश्लोकस्य
प्रतिवादिवाक्यवत् उपालम्भमात्रार्थताव्युदासाय अवधानापादनार्थत्वं व्यञ्जितम् ।
जीवेश्वररूपेष्वात्मसु नित्यत्वे शीघ्रसंप्रतिपत्तियोग्यांशं प्रथममाहेत्यभिप्रायेणाह-
।अहमिति । ईश्वरस्याहंग्रह: सर्वनियन्तृत्वगर्भ इति तद्वयपदेशफलितमाह ।सर्वेश्वर
इति । ।तावदिति संप्रतिपत्तिसूचनम् । अत: परम् इत्यत्र ।अत:शब्दार्थम्,
तस्य पूर्ववाक्येऽपि यथार्हमनुषङ्गम्, ।जातुशब्दाभिप्रेतं चाह ।अत इत्यादिना ।
(33द्यण् द्रढ़ ददृ:1. अनभिमतपक्षेति । अद्वैतिभिर्निविशेषमेव वस्त्विति वादिभि:
सत्यमित्यस्यासद् व्यावृत्तमित्यर्थ इष्यते; न तु सत्ताश्रय इति । अत्रापिन
नासमित्यभिमता असद्वव्यावृत्तिरेवोक्ता, न तु सत्तेति तैरुच्येत । तन्निषेधायेति भाव: ।
प्रति योग्यप्रसिद्धो तदभावोऽपि दुर्वच इति सत्त्वं स्वीकार्यमिति भाव: ।
अनभिमतपक्षनिषेधाय व्यतिरेकपरे(रूपे)ऽपि वाक्ये ।तुशब्दद्योतिसमन्वयमाह ।अपि
त्वासमिति । न त्वं नेमे इति भेदनिर्देशेऽपि क्षेत्रज्ञत्वाकारेण समुदायीकुर्वन्,
ईश्वरापेक्षया युष्मदिदंशब्दार्थतया फलितमीशितव्यत्वाकारं च साधारणं दर्शयन्,
संनिहितनिदर्शनपराया एकदेशोक्तेस्तात्पर्यतो ब्राहृादिसकलक्षेत्रज्ञविषयत्वं
चाह ।त्वन्मुखा इति । तु शब्दानुषङ्गं क्रियापदे विभक्तिविपरिणामं
च दर्शयति ।अपि त्वासन्निति । "न त्वं नेमे जनाधिपा:' इत्यत्र, ।न
त्वेवेत्येतदनुषज्य, (द्मठ्ठथ्र्ड्ढ द्रढ़ ददृ:3.ननु मिथ्यात्वात् निषेध एवास्तु
अनुषङ्गं विनेति चेन्; उत्तरार्धविरोधात् ।) न त्वं नासी:; नेमे जनाधिपा
नासन् इत्यन्वय: । ।सर्वे वयम् इत्यस्य पूर्वोक्तजीवेश्वरसमुदाये
संप्रतिपत्तव्यांशं विविनक्ति ।अहं चेति । "त्यदादीनां मिथयोगे य:
पर: स तु शिष्यते' इति युष्मदस्मदोरत्रैकशेष: । एवमुत्तरत्र ।भवन्त: इत्यत्रापि
मन्तव्यम् । कालानन्त्यात् पर्वतादीनामिवातिस्थिराणामपि कदाचित् नाश:
स्यादित्युत्प्रेक्षां निवारयति ।
अपि तु भविष्याम एवेति । अप्रस्तुतस्वनिर्देशस्य
दृष्टान्तार्थताम्, तत्र ।अहमिति निर्देशभिप्रेतसर्वेश्वरत्वसर्वात्मत्वाभ्यां(त्वरूप)नित्यत्वोपपत्तिम्,
दाष्र्टान्तिके च नित्यत्वसंभवावनामाह।यथेति । सर्वेश्वर: । कालत्रयवर्तिन:
सर्वस्याधिपति: कथं न कालत्रयवर्तीं, कथं च सर्वेषां नियन्ता केनचित्
ःकदाचिन्निरुध्येतेति भाव: । ।परमात्मा । देशकालस्वरूपानवच्छिन्नव्याप्तिरिति
।परमात्मपदनिरुक्ति: । तथाच व्याप्तत्वात् व्याप्यैरस्य न नाश:;
सर्वात्मत्वेन सर्वकालवर्तित्वं च सिद्धमिति भाव: ।
ननु य: प्रत्यक्षयोग्ये देहातिरिक्ते जीवेऽपि संशेते, स कथं ततो
व्य(ऽप्य)तिरिक्तेऽत्यन्तागोचरे परमात्मनि निश्संशय: स्यात्? उच्यते--न
ह्रसावर्जुन:, "पुरुषं शाश्वतं दिव्यम्' (10.12) इत्यादे: स्वयं वक्ता,
नारदासितदेवलव्यासादिपरमर्षिशतवचनविदितपरब्राहृभूतपरमपुरुषस्वभाव:,
प्रत्यक्षीकृतपुरन्दरलोकसकलारुामन्त्रतप:प्रभावादि, निरतिशयगुरुदेवताभक्ति:,
अस्स्वलितसकलवर्णाश्रमाचार:, धर्मलोपभयविह्वल:, देहातिरिक्तमात्मानमीश्वरं
च अत्यन्ताय नास्तीति भ्राम्यति, संशेते वा । तत्प्रकारविशेषानभिज्ञतयैव
हि तस्य शोकादि: । ततोऽयमीश्वरं तन्नित्यतां च सर्वेश्वरत्वादिसिद्धां
सामान्यतो मन्यते; लोकदृष्टया जन्मविनाशादिदर्शनात्, "न प्रेत्य संज्ञाऽस्ति'
(बृ.4.4.12) इत्यादिश्रुत्यर्थापातप्रतीत्या च, जीवप्रकारविशेषांस्तत्त्वतो न जानातीति
न कश्चिद्दोष:। ।क्षेत्रज्ञा आत्मना इति । यथा जीवात् परमात्मनो वैलक्षण्येन
जीवस्वभावास्तस्मिन्न भवन्ति, तथा क्षेत्राद्विलक्षणत्वेन वक्ष्यमाणेन क्षेत्रगतमनित्यत्वादिकं
तन्नियन्तरि जीवे न शङ्कनीयमिति भाव: ।।
अथ कुमतिसौचिकविनिर्मितानाम् आमूलचूडमघटित
वि(सं)घटितजरत्कर्पटशकलकन्थासगन्धानां प्रबन्धानां दोषान् स्थालीपुलाक
न्यायेन निदर्शयन्, प्रथमं शास्त्रोपक्रमविरोधं शास्त्रप्रवृत्त्यनुपपतिं्त च वदति
।एवमित्यादिना । एवं-तत्त्वोपदेशप्रवृत्तशास्त्रारम्भोक्तिप्रकारेणेत्यर्थ: ।
।भगवत: सर्वेश्वरादिति । उभयलिङ्गात् सर्वनियन्तु: ।अहमिति
निर्दिष्टादित्यर्थ: । यदि ईश्वराज्जीवानां भेद: पारमार्थिको न स्यात्,
उभयलिङ्गत्वदु:खित्वादिस्वभावसङ्कर: स्यात् । यदि च आत्मनां मिथोमेद:
सत्यो न स्यात्, बद्धमुक्तशिष्याचार्यादिव्यवस्थानुपपत्ति: स्यादिति भाव: ।
।भगवतैव; न तु रथ्यापुरुषकलपेन केनचित् । यद्वा, "त्वमेव त्वां वेत्थ योऽसि
सोऽसि' (यजु.का.1.6.), "से अङ्ग वेद यदि वा न वेद' (कृ.8.7.11.11)
इत्युक्तेन भगवता स्वेनैव स्वस्य स्वशरीरभूतजीवानां च तत्त्वमुक्तमिति प्रतीयत
इत्यभिप्राय: । ।अज्ञानमोहितमिति । न हि स्वयंबंभ्रम्यमाणस्याऽऽप्तेनापि
भ्रान्तिरेवोत्पादनीयेति भाव: । बुद्धाद्यवतरारेणासुरादिभ्य इव,
अयमुपदेश: किं न स्यादित्यत्रोक्तं ।तन्निवृत्तय इति । मोहनिवृत्त्यर्था
गीतोपनिषदिति भवद्भिरपि स्वीकृत्य व्याख्यानादि च कृतमिति भाव:।
देहभेदाभिप्रायेण बहुवचनम्, नात्मभेदाभिप्रायेणेति ।शंकरोक्तं
दूषयति--।पारमार्थिकेति । न ह्रसौ ।न त्वेवाहमित्यादिग्रन्थो
भ्रान्तिनिवृत्त्यर्थो मन्त्रपाठ:, येन भेदनिर्देशस्यान्यपरतां मन्येमहि; किंत्वसौ
तत्त्वार्थोपदेशरूप इति भाव: । ।अहमित्यादि । ।अहम् इति प्रत्यक्त्वेन, ।त्वम् इति
स्वाभिमुखचेतनान्तरत्वेन,।इमे इति स्वपराङ्मुखानेकचेतनत्वेन, ।सर्वे इति
एकोपाधिसंगृहीतानेकव्यक्तित्वेन,।वयम् इति स्वेन सहाऽऽत्मतयैकवर्गीकृतानन्तव्यक्तित्वेन
इति भाव: । ।इति व्यपदेशादिति । न ह्रत्र, न अहमिति किंचिदस्ति, न च त्वमिति,
नापि अन्य इति प्रत्यादेश: कृत इति भाव: । ।भाष्करमते भेदस्य सत्योपाधिप्रयुक्तत्वात्
भेदनिर्देश उपपद्यत इति शङ्कायाम्, तत्रापि सामान्यत उक्तं
दूषणमपरिहार्यमित्याह-।औपाधिकेति । हिशब्द उपाधिभेदोपहितस्य
परोक्तघटाकाशाद्युदाहरणेष्वपि भेदांशातात्त्विकत्वाभ्युपगमपर: ।
उपाधिसत्यत्वेऽपि यथैकस्यैव मुखचन्द्रादेर्मणिकृपाणसरित्समुद्रादिभि:
सत्यैरप्युपाधिभिर्भेदोऽपारमार्थिक:, यथा चैकस्यैवाऽऽकाशादेर्घटिमणिकादिसत्योपाधिभिरपि
संयोगभेदातिरिक्तो नोपाध्यधीनो भेद:, एवमन्त:करणादिभि:सत्यैरप्युपाधिभिर्विरवयवत्वेन
छेदनभेदनाद्ययोग्यस्य सर्वत्र परिपूर्णस्य ब्राह्णो भेदोऽपारमार्थिक
इत्यभ्युपगन्तव्यम् । ततश्च तत्त्वोपदेशसमये तद्विपरीतोपदेशो
हितोपदेशिनो न घटत इति भाव: । द्वयोरपि पक्षयो: श्रुतिविरोधोऽपि दूषणम् ।
स्वपक्षे च श्रुत्यैकाथ्र्यान्न बुद्धागमादिवत् मोहनार्थत्वशङ्केत्यभिप्रायेणाह-
।भगवदिति व यद्वा ।भाष्करपक्षदूषणायैव श्रुतिरुपात्ता; ततश्च कैमुत्येन ।
शंकरपक्षोपऽपि
दूषित: । ।अपिशब्द: प्रमाणद्वयसमुच्चये । ।भगवदुक्तात्मभेद इत्यनेन श्रौतवदेव
प्रमाणान्तरनैरपेक्ष्यं सूच्यते । श्रुतिरपि नित्या तदाज्ञारूपतयैव हि प्रमाणम् ।
"नित्यो नित्यानाम्'(श्वे.6.13)इत्यत्र "पवित्राणां (35द्यण् द्रढ़.) 1.पवित्राणामिति ।
ननु पवित्राणां पवित्रत्वहेतुरितिवत् नित्यानां नित्यत्वहेतुरित्युक्तौ अनित्यत्वं कथं
भवेदिति शंकापगमाय अनित्यत्वपर्यवसितेति । पवित्राणांमध्ये इदमतिशयित
पवित्रत्ववदित्यर्थ: । नित्यानां मध्ये परस्यातिशयितनित्यत्वमिति शांकररीतौ किञ्च
दधिककालवर्तित्वरूपापेक्षिकनित्यत्वमेव जीवेषु सिद्धयतीति भाव: ।
पवित्रम्' (वि.स.)इत्यादिवत् योजनया जीवानित्यत्वपर्यवसितम(सिता?)र्थान्तरभ्रमं
निरस्यन्, नित्यत्वबहुत्वचेतनत्वसामानाधिकरण्येन निरुपाधिकमेवात्मनां
बहुत्वं चेतनत्वं चेति.(द्मठ्ठथ्र्ड्ढ द्रढ़2.)स कामान् विदधातीति अशुद्ध: पाठ:।
श्रुतिगतयच्छब्दप्रतिसंबन्धिनस्तच्छब्दस्य तत्रैवोत्तरार्धे तमात्मस्थामिति
वर्तमानतया पूर्वार्धे तच्छब्दानवेक्षणात् । चेतनस्सन् इति पाठोपलम्भात्
अस्तु तथा । अन्यथा स इति माऽस्तु । यदाग्नेयोष्टाकपालोऽमावास्यायां
पोर्णमास्याञ्चाच्युतो भवतीति वत्) प्रदर्शयन्, तत एवात्मानित्यत्ववादिनां
।सौगतादीनाम्, अविद्यादिमूलभेदवादिनां ।शंकरादीनां, आगमपायिचैतन्यवादिनां
।वैशेषिकादीनाम्, चिच्छक्तिमात्रनित्यत्ववादिना।मन्येषामपि निरासमभिप्रयन्,
प्रथमान्तपदचतुष्टयसामानाधिकरण्बलादीश्वरैक्यं तदैक्यस्य हिरण्यगर्भरुद्रेन्द्रादिवत्
कालादिभेदाभेद्यत्वेन प्रवाहेश्वरपक्षप्रतिपक्षेपं श्रुत्यन्तरादिप्रसिद्धनित्यचैतन्यप्रसरादिकं
च सूचयन्,(द्मठ्ठथ्र्ड्ढद्रढ़ ददृ: 3 अत्र वाक्ये यच्छब्दसत्त्वेऽपि
सर्वविशेषणविशिष्टविधानात् विशेषणानामपि विधेयत्वम्। तद्वत् अत्रापि नित्य:
इत्यरभ्य सर्वस्याप्यंशस्य पूर्वार्धबोध्यविशिष्टार्थरूपविधेयघटकतया
विधेयत्वमिति भाव: । अप्राप्तत्वपक्षे एवम् । प्राप्तत्वपक्षेऽपि
प्रामाणिकत्वात् तद्विरोध एव मतान्तरस्य । यदाग्नेय:(य.अ.17)
इत्यादिवदनुवादलिङ्गसद्भावेऽप्यप्राप्तत्वबलेन विशिष्टविधित्वं
च व्यञ्जयन्, सर्वदा सर्वत्र सर्वेषां चेतनानामेक
2एवेश्वरस्तत्तत्कर्मसमाराधितस्तत्तदनुरूपाण्यपेक्षितानि करोतीति श्रुत्यर्थमाह-
।नित्यानामिति । पुन: सिंहावलोकितेन ।शंकरमतस्योपदेशानुपपत्तिरूपं
शास्त्रारम्भमूलघातमाह ।अज्ञानेति । किमयं भगवान् स्वेन ज्ञातमर्थमुपदिशति,
अज्ञातं वा? ज्ञातमपि सक्षात्कृतम्,श्रुतमात्रं वा ?
इति उभयत्रापि तदज्ञानं निवृत्तम्,
अनिवृत्तं वा?तन्निवृत्तावपि तत्कार्यभेदभ्रमो निवर्तते, न वा?इति
विकल्पमभिप्रेत्य साक्षात्कारात् अज्ञानतत्कार्यनिवृत्तिपक्षे दूषणमाह
।परमपुरुषस्येति । क्षेत्रज्ञस्य हि अपरमार्थदृष्टि: स्यादिति भाव:
।निर्विशेषेत्यादि । ।निर्विशेषत्वं सजातीयविजातीयस्वगतभेदराहित्यम्;
।कूटस्थत्वं मायानिष्ठत्वम्, साधारण्यम्, निर्विकारत्वं वा ।
स्वयमविक्रियमाणस्यापि कूटस्य यथा स्वसंसर्गिणाम् अय: प्रभृतीनां
विकारहेतुत्वम्, तद्वत्; तत एव ।नित्यत्वं कालानवच्छिन्नत्वम् ।
।याथात्म्यम् उक्तप्रकारम् । अयथासाक्षात्कारोऽस्मदादीनामपि परैरभ्युपगत
इति तद्वयुदासाय ।याथात्म्यसाक्षात्कारोक्ति: । ।अज्ञानम् अविद्या;
तत्कार्यो ।भेदभ्रम:; आदिशब्देनानुष्ठापनादि गृह्रते । उपदेशादिव्यवहारो हि
उपदेश्यार्थतद्वाचकाधिकारिशिष्याचार्यप्रयोजनभेदादिनानाविधभेददर्शनमूल: ।
भेददर्शनं चाज्ञानेनैव कृतमिति त्वन्मतम् । ततश्चाज्ञानतत्कार्यनिवृत्तौ कथं
तत्कार्यपरानुवृत्तिरिति व्याघातापसिद्धान्तशास्त्रानारम्
भोपदेशाभाव-निष्फलपरिश्रमत्व-श्रुतिविरोधादिदोषशतमुन्मिषेदेति भाव: ।।
अद्वैतज्ञानादज्ञाननिवृत्तावपि वासनादिवशात् भेदभ्रमस्यानुवृतिं्त
तस्य चाबन्धकत्वमाशङ्कते ।अथेति । दग्धपटादिवदिति ।
यथा दग्धपटादे: पटादिप्रतिभासविषयत्वेऽपि न पटादिकार्यकरत्वम्,तद्वदत्र
भेदभ्रमस्यानुवृत्तस्यापि न संसारहेतुत्वमिति भाव: ।
।नैतदुपपद्यत इति दृष्टान्तमात्रमुक्तम्, न तूपपत्ति:; प्रत्युतानपपत्तिश्च
विद्यत इति भाव: । अनुपपतिं्त सोदाहरणमाह-।मरीचिकेति ।
इदमत्र प्रसङ्ग:--विप्रतिपन्नं भेदज्ञानबाधिततया मिथ्थार्थमिति
निश्चितं चेत्, न स्वविषयानुरूपप्रवृत्त्तिहेतु: स्यात्; यथा बाधिततानुवृत्तं
मरीचिकाजलज्ञानम्--इति । एवंच बाधितानुवृत्तभेदज्ञानं दग्धपटादिवत् न
स्वकार्यकरमिति बाधितानुवृत्तिफलाभावात् स्वेष्टव्याघात इति भाव: ।।
श्रुतमात्रपक्षेऽपि निर्विशेषविषयसाक्षात्कारश्रवणयोर्विषयानतिरेकेणाज्ञाननिवृत्तिरुपपन्नेति
कृत्वा सर्वेश्वरे बाधितानुवृत्तिस्वरूपं दूषयति- ।
न चेति ।
ईश्वरत्वादेव पूर्वमज्ञ इति वक्तुं न शक्यते, अनीश्वरत्वप्रसङगात्
। ईश्वरोऽपि चेत् पूर्वमज्ञ:,तस्य शास्त्राधिगमोऽपि न संभवति ।
तदधिकज्ञानवतोऽन्यस्य शास्त्रोपदेष्टुर भावात् । भावो वा,
स एवेश्व (एवमीश्व?)रोऽनीश्वरो वा सन् कुतश्चित् सिद्धज्ञान इत्यनवस्थादिदोषात् ।
न च प्रवाहेश्वरपारम्पर्यमस्ति,तस्य दूषितत्वात् । न चेश्वर: स्वकृतेन
शास्त्रेण तत्वमवगच्छति, वेदानित्यत्वान्योन्याश्रयादिप्रसङ्गात् ।
न चानादीनेव वेदान् स्मृत्वा तैरर्थमधिजगाम; स्मृत्यादिहेतो:
पूर्वोपलम्भस्याप्युपदेष्ट्रभावादिदु:स्थत्वात्----इत्यादिदोषान् अभिप्रेत्योक्तम्-
।पूर्वमज्ञस्येत्यादि । ईश्वरस्य पूर्वमज्ञत्वे शास्त्राधीनज्ञानत्वे तदुपदेष्ट्रन्तरसद्भावे
भ्रान्त्यनुवृत्तौ च श्रुतिस्मृतिविरोधमाह----।य: सर्वज्ञ इति । स्वरूपत: प्रकारतश्च
सर्वं जानाति वेतीति विवक्षया सर्वज्ञसर्वविच्छब्दयोरपुनरुक्ति:;
सर्वं विन्दति-प्राप्नोतीति वा सर्ववित् ।।
एवमुपदेशस्य हेत्वनुपपत्तिरुक्ता । अथोपदेष्टृताऽपि नोपपद्यत इत्याह ।किं चेति ।
। इदानीन्तनेति । न केवलमीश्वरकृत: प्रथम एवोपदेशोऽनुपपन्न:,
अपि त्वद्यतनोऽपितिझ्र्कुमति-ट मठपतिपरम्पराया: शिष्यान्नकुक्षिभम्भरे: शिष्याद्यभावात्
प्रायोपवेशनं प्रसज्यत इति भाव: । अज्ञातोपदेशपक्षानुपपत्तिमभिप्रेत्याह ।स्वनिश्चयेति ।
न ह्रेतेऽनुपलब्धार्था:, नापि संदिग्धार्था:, नापि विप्रपलम्भका:, न च
परोक्तानुवादिन:,नापि बालोन्मत्तादिवत् यथोपनतं जल्पका: इति भाव: ।
।कस्मा इति । स्वस्मै परस्मै वा; पूर्वत्र भिन्नतया निश्चिताय, अतात्त्विकाय वा;
अतात्त्विकत्वेऽपि तथा प्रतीताय, अन्यथा वा--इति विकल्प्य प्रष्ट्रे
तदुत्तरं वक्तव्यमित्यर्थ: । तत्र स्वस्यैव भिन्नस्य सत्यत्वनिश्चये
अपसिद्धान्ताज्ञत्वादिदोषप्रसङ्ग:। असत्यत्वनिश्चये वन्ध्यातनयादिभ्य इवानुपदेश: ।
अभिन्नतया निश्चिताय स्वस्मै चेत्, अर्जुनादिप्रतिभासमन्तरेण सर्वदोपदेश: स्यात्;
न च तत्रोपदेशस्य किञ्चित्प्रयोजनमस्ति । परस्मै तात्त्विकायेति तु शरीरभेदेऽपि
भवानाभ्युपगच्छति । अतात्त्विकतयैव प्रतीताय परस्मै चेत्, पूर्ववदेवानिर्वचनीयत्वेनासत्त्वेन वा
निश्चितेभ्य: प्रतिबिम्बवन्ध्यासुतादिभ्योऽप्युपदेशप्रसङ्ग: ।
अतात्त्विकस्यैव परस्य तात्त्विकत्वबोधे तु तत्त्ववेदित्वमेव न स्यादिति
न तत्त्वोपदेशित्वसिद्धा-इति स्थिते, परमार्थत एकत्वेऽपि भ्रान्त्या
भिन्नतया प्रतीयमानेभ्यो बाधज्ञानबलेनाभिन्नतया निश्चितेभ्यश्चेति पक्षं
शङ्कते ।प्रतिबिम्बवदिति । दूषयति ।नेति । अनुपपतिं्त विवृणोति ।न हीति ।
।अनुन्मत्त इति ईश्वरादेरुन्माद एव भवता स्वीकृत: स्यादिति भाव: ।
।कोऽपीति । किमुतेश्वर इति भाव: । ।अनन्यत्वं जानन्निति । अन्न्यत्वम(त्वं)जानन्तो
बालादय: काममुपदिशेयु: । अत्रोपदेष्टुरन्यत्वाध्यवसाये भ्रान्तत्वादिप्रसङ्ग
इति भाव: । ।किमपीति । लौकिकमलोकिकं वा, दृष्टार्थमदृष्टार्थं वा; किं
पुनर्मोक्षार्थमित्यर्थ: । बाधितानुवृत्तिस्वरूपमभ्युपगम्य पूर्वं
दूषणान्तरमुक्तम्; इदानीं तन्मते तदेव न सिध्यतीत्याह ।बाधितेति ।
उपपादयति ।बाधकेनेति । न हि कारणाभावे कार्यं घटेत । न च दोषनिवृत्तौ
भ्रान्तिनिवृत्तिर्न स्यादिति वक्तुंयुक्तम् । ।अनादेरिति ।स्वरूपत: प्रवाहतो
वा अनादेरन्यानिवत्र्यतयैतावन्तं कालमनुवृत्तस्य भेदज्ञानकारणभूतस्य दोषस्य
यदि अद्वैतज्ञानेनापि नाशो न स्यात्, नित्यसंसारित्वं ब्राहृण: स्यादिति भाव: ।
अत्र ।अज्ञानादेरिति कश्चित्पाठ:; तत्रादिशब्देन भेदभ्रमस्तद्विषयश्च
गृह्रते । परैरुदाह्मते दृष्टान्ते बाधितानुवृत्तेरुपपत्तिमाह ।द्विचन्द्रेति । पारमार्थिकेति ।
न हि पारमार्थिकं बाध्येत; तथा सति बाधाबाधविप्लवप्रसङ्गादिति भाव:। द्विचन्द्रज्ञानहेतोरिति ।
न हि बाधकज्ञानेन पूर्वज्ञानस्य कारणं बाध्यते, इन्द्रियादेरपि बाधप्रसङ्गात्।।
अतो विषय एवारोपितस्तदधिष्ठानविषयेन विरुद्धकारग्ग्राहिणा ज्ञानेन बाध्य: ।
न चात्र तिमिरादि द्विचन्द्रज्ञानस्य चन्द्रैकत्वज्ञानस्य वा विषय:।
भवतस्तु समस्तभेदभ्रमोपादानस्याज्ञानतवासनादे: साक्षिचैतन्यविषयत्वात्,
बाधकज्ञानस्य चाद्वितीयात्मव्यतिस्क्ति समस्त(स्ता)भाव गोचरत्वात्
कारणस्याप्यनादेर्बाध एवेति भाव: । ।युक्तेति । सामग्रयनुवृत्तौ
कार्यानुवृत्तिरूपपन्नेति भाव: । यदि भ्रान्तिरनुवृत्ता, कथं तर्हि
तत्कार्यविस्मयभयादिनिवृत्तिरित्यत्राह ।अनुवर्तमानपीति ।
।प्रबलशब्देन परपक्षे भेदभ्रमतद्बाधकयोरविशेष: सूचित: । द्वयोरपि हि अज्ञानकारणत्वं
तैराश्रितम्, अन्यथा सत्यद्वयप्रसङ्गात् । तथाच सति किं कस्य बाधकं बाध्यं
वा? न च दोषमूलत्वं बाधकज्ञानस्याज्ञातमिति वाच्यम्,प्रथममेव श्रवणवेलायां
ब्राहृव्यतिरिक्तसमस्तमिथ्यात्वप्रत्ययात् । न चाज्ञातमिति (38द्यण् द्रढ़ ददृ:1,)
अद्वैतविषयज्ञानस्य दोषमूलत्वाज्ञानमात्रेणाद्वैतसिद्धिर्न भवति ।
न हि सत्परजतशुक्तिभ्रमे तस्य दोषमूलत्वाज्ञानमात्रेण शुक्तिसिद्धिरित्यर्थ:।)
तावता तत्त्वसिद्धि:;सत्यरजतबाधकेन शुक्तिकाज्ञानेनाज्ञातदोषेणापि तत्त्वतो
रजतस्वरूबाधाभावात् । दोषमूलत्वाविशेषेऽपि पूर्वत्वपरत्वाभ्यां बाध्यबाधकव्यवस्थेति
चेत् न; दोषमूलत्वे ज्ञाते सति परत्वस्याकिञ्चत्करत्वात्,
भ्रान्ततयाऽवगतेनोक्तसर्पझ्र्र्वटबाधकवाक्यवत् । अन्यथा शून्यमेव तत्त्वमिति
माध्यमिकवाक्येन दोषमूलतया ज्ञातेनापि परत्वमात्रेण संविन्मात्रस्यापि बाध: स्यात् ।
अथ कारणस्यापि बाध्यतयाविषयत्वापारमार्थिकत्वलक्षणं दृष्टान्ताद्वैषम्यं विवृण्वन्
बाधितानुवृत्त्यसंभवं निगमयति ।इह त्विति । ।न कथञ्चिदपि ।
अनाद्यज्ञानेन वा भेदज्ञानवासनादिभिर्वेत्यर्थ: ज्ञातं वा अज्ञातं वेति
विकल्पाभिप्रायेणोपक्रान्तामुपदेशकारणाद्यनुपपतिं्त विकल्पस्फोरणेनोपसंहरति ।अत इति ।
।सुतरामिति जानतस्तु बाधीतानुवृत्तौ दृष्टान्तमात्रमपि तावदस्ति;
अजानत उपदेशे सोऽपि नास्तीति भाव: ।। उपदेशस्य कारणद्यनुपपत्तिरुक्ता; अथानर्थक्यमाह
।किं चेति । ।प्रतिबिम्बवत्प्रतीयानेभ्य इत्यादिना पूर्वमेव जीवाज्ञानपक्षस्यापि
दूषितत्वाद्ब्राहृाज्ञानपक्षे अधिकदूषणमिदमुच्यते । ते खलु -
एकमेव ब्राहृ अविद्याशबलमेक एव जीवः ; स्वप्नदृश इवैकस्यैव तस्य
भ्रमात् स्वप्नदृष्टपुरुषादय इवान्ये जीवादयः प्रतिभान्ति ;
तस्यैकस्यैवानिश्चितदेह(श)विशेषस्थितेरनिर्णीतकालेन भविष्यता
तत्त्वज्ञानजागरेण समस्तः प्रपञ्चोऽपि स्वप्नप्रपञ्चवद्बाध्यते - इति वर्णयन्ति।
तत्राय्मुपदेष्टा वासुदेवादिर्गुरुः स एव; तद्दृष्टो वा; शिष्योऽप्यर्जुनादिः स एव,
तद्दृष्टो वा इति विकल्पमभिप्रेत्य, गुरुः स एवेति पक्षे दूषणमाह ।गुरोरिति ।
।सकार्यस्येति शिष्याचार्यत्वादेरपीति भावः; तेनोपदेष्ट्रभावः; प्रष्ट्रभावः,
उपदेशपरिकराभावश्चोक्तो भवति । गुरोस्तद्दृष्टत्वपक्षमनुवदति ।गुरुरुति ।
न हि स्वप्न दृशा कल्पितपुरुषविज्ञानेन स्वप्नो बाध्येत; तद्वदत्रापि गुरोज्र्ञानेन
प्रपञ्चबाधाभावात् तद्बाधायोपदेशः सप्रयोजन इति भावः। दूषयति ।शिष्येति ।
अयं भावः - न तावदत्रार्जुनादिह् स एव जीव इति तृतीयकल्पे प्रमाणमुपलभामहे;
न च- अयं मम शिष्यो जीवो मुक्तो भविष्यति, अहं त्वनेन स्वप्नदृशेव कल्पितः
इत्याचार्योऽपि मन्यते । तथा सति स्वसंहा(सा)रकारिणे महापकारिणे तस्मै नोपदिशेत् ।
स्वयं हि स्वप्नस्वभावनियमेनैव निवृत्तः स्यादिति न मोक्षोपायमाचरेत् ;
शिष्योऽपि यदि स्वप्नदृष्टवत् गुरुं मन्येत, ततो न शृणुयात् ।
गुरुतज्ज्ञानविशेषयोः स्वभ्रान्तिकल्पिततया स्वयमेव
तज्ज्ञानविषयविशेषं ततः किमर्थं शृणोति?
स्वकल्पितोपदेष्टृजनितोपदेशभ्रमात् स्वभ्रान्तिनिवृत्तिरिति
च हास्यम्, तमन्तरेणापि स्वप्रत्यक्षभ्रमादपि तन्निवृत्त्युपपत्ते: ;
न च ज्ञातार्थेऽप्यर्जुने अद्य यावत् भ्रमनिवृत्तिर्दृश्यते ।
अतः शिष्योऽप्याचार्यवत् समस्तप्रपञ्चस्वप्नदृशाऽन्येनैव दृष्ट इति चतुर्थकल्पः परिशिष्यते।
ततश्च शुकवामदेवादिज्ञानवदर्जुनादि ज्ञानमपि नाज्ञाननिवर्तकमिति निष्फल:
शिष्याचार्याणां कृष्णार्जुनादीनां त्रिवर्गपरित्यागेनापवर्गार्थप्रयास इति शास्त्रारम्भोऽनुपपन्न: ।
अथ परिहासकाकुपूर्वमपच्छेदनयमाशङ्कय परिहरति ।कल्पितत्वेऽपीत्यादिना ।
एवमुपदेशानुपपत्तौ तस्य सर्वद्रष्टुरेकस्यापि जीवस्य कदाचिदपि मोक्षायोगात्
शास्त्रप्रयोजनमपि नास्तीति ततोऽपि शास्त्रारम्भानुपपत्तिरिति फलितम् ।
एवं शास्त्रोपदेशस्य तदुपदेष्टुस्तच्छ्रोतुस्तत्प्रयोजनस्य चानुपपत्तौ
सामान्यत: सर्वस्मिन्नपि परमते दूषिते किमवान्तरदूषणैरित्यन्यपरतयोपसंहरति
।इति कृतमिति । ।कृतम् अलमित्यर्थ: ; ।असमीचीनवादैरित्यनेन
।भाष्करादिमतेऽप्येवंविधदूषणशतं शारीरकभाष्याद्युक्तं स्मारितम् ।।
02.13
आत्मनामशोचनीयत्वाय नित्यत्वमुक्तम् । तत्रात्मनित्यत्वे
जन्ममरणादिप्रतीतिव्यवहारौकथमिति शङ्कां दृष्टान्तेन
परिहरति ।देहिन इति । अस्मिन्निति निर्देशाभिप्रेतमाह ।एकस्मिन्निति ।
देहस्यावस्थात्रयान्वयनिदर्शनादपि देहिन्येव तन्निदर्शनमुचितमितभिप्रायेणाह ।देहे
वर्तमानस्येति । कौमारं यौवनं जरेति क्रमनिर्देशसूचितार्थस्वभावफलितमुक्तं ।विहायेति ।
कौमारयौवनत्यागयोरपि शोकविशेषनिमित्त्वात् तद्वयवच्छेदार्थं ।यथाशब्दतात्पर्यव्यक्त्यर्थं
चोक्तम् ।आत्मन इत्यादि । बालस्यावस्थानिवृत्तावप्यात्मान:स्थिरत्वबुद्धिर्हि
तद्विनाशनिमित्तशोकाभावहेतु: ; सोऽत्रापि समान इत्यर्थ: । देहान्तरप्राप्ति:
इत्यत्रान्।तरशब्दसूचितं पूर्वदेहत्यागाख्यं शोकप्रसञ्जकं दर्शयति ।देहादिति ।
धीरशब्दस्य प्रकरणविशेषितोऽर्थ:,। स्थिर आत्मेति बुद्धिमानिति ।
।अशोच्यानित्यादिना प्रागुक्तेन संगमयति ।अत इति । एवं श्लोकद्वयेन क्रमात्
प्राप्यं निवत्र्यं च व्यञ्जितम् । अथात्र ह्मद्गतं प्रापकविषयोत्तरश्लोकद्वयफलितं
सङ्गलय्य सङ्गतिमाह ।एतावदिति । ।बन्धनिवृत्तय इत्यन्त: ।अमृतत्वायेत्यस्यार्थ: ।
शुद्धस्वभावानां संसारानुपपत्तिरिहारायोक्तम् ।अनादीति ।
।कर्मवश्यतया, न त्वनिर्वचनीयाज्ञानादिवश्यतयेति भाव: ।
स्वतोऽन्त्यन्तसमानानामात्मनां देहभोगादिवैषम्यसिद्धयर्थमुक्तम् तत्तत्कर्मेति ।
।दैहैर्बन्धनिवृत्तय इति । देहैर्यो बन्धस्तस्य निवृत्तय इत्यर्थ: ।
यद्वा ।तैरेव देहै: कर्म कुर्वतामित्यन्य:। तदा तु बन्धुका एव देहा
मोक्षसाधनौपयिकास्संभवन्तीत्यवधारणाभिप्राय: । ।शास्त्रीयमिति ।
अन्यथेश्वरशरसनातिलङ्खनाद्दण्ड एव स्यादिति: भाव: ।।स्वर्णोचितमिति ।
न तु त्वया युद्धादिकं परित्यज्य भैक्षं चर्तुं श्रेय इति भाव: ।
अमृत्वहेतुत्वायोक्तम् ।अनभिसंहितेति । प्रतिकूलस्वभावस्य कथं कर्तव्यत्वमिति
शङ्कानिवर्तक2.।तुशब्दद्योतितमवर्जनीयत्वं तितिक्षितव्यत्वे हेतु:, ।इत्येतावदत्र
कर्तव्यमित्यन्वय: । (41द्मद्य द्रढ़ ददृ:1) ननु गतास्वगासुप्रस्तावात् तन्निरूपणाय
(16)नासत: इति श्लोके आरब्धव्ये किमिदमन्यदुच्यते इत्यत्रावतारयति आत्मनित्यत्वेति ।
यदर्थ मात्मनित्यत्वर्णनं तत्फलं पूर्वं प्रदर्शयते ।
ननु देहातिरिक्तात्मज्ञानादेव नरकादिप्रापककुक्षयाद्यापत्तिशंकया शोक: इति
पूर्वश्लोकोपरिशंकायाम्-फलकाम उपायक्लेशं न गणयति; फलंञ्च न द्वेष्यं
मोक्षरूपत्वात्;उपायश्चायामेव, नान्य: ;अत:तितिक्षस्वेत्याह ।
यद्वा यद्यपि देहा आत्मनो वा न शोकस्थानम्- अथापि किमिति मात्रास्पर्शा:
दु:खकरा आदरणीया इत्यत्र तत्तितिक्षणीयत्वमाह मात्रेति। किमर्थमित्यत्र
फलं दर्शयति उत्तरश्लोकेन । तितिक्षा यद्ज्ञानपूर्विका यद्ज्ञानजनिका च
भूत्वा मोक्षहेतु:, तदुच्यते तदुपरीति विवक्षितम् । ननु किं ते आत्मनाश
इति शोक:, देहनाश इति वा, मात्रास्पर्शासह्रत्वाद्ववेति विकल्प्य,
नत्वेवाहमित्यादिश्लोकत्रयेण समाधानमित्यपि वक्तुं शक्यत इत चेत्- अस्तु,
निरूपनप्रक्रियाया नानात्वसंभवात् । सर्वथा नत्वेवाहमित्यारभ्य श्लोकचतुष्कं
वक्ष्यमाणसर्वसंग्रहरूपम् । तत्र अहमिति प्रथमं स्वप्रस्ताव: स्वविषयकभक्तयैव
"अमृतत्वायकल्पते' त्युक्तफलस्य प्राप्यत्वात् । द्वितीयश्लोको न
देहानित्यत्वेदम्पर: । तथादेहान्तरप्राप्तिरित्युक्तया वासांसीति श्लोकवत्
आत्मनिरूपणशेषभूत: । तृतीय श्लोके शीतसुखदा इति सुखस्यापि सह्रत्वोक्तया
सुखनिरपेक्षमुमुक्षु विषयत्वं ज्ञायते; अमृतत्वाय कल्पत इत्युक्तया च
। अतो विजयलभ्यराव्युसुखमपि सहृ्, (किं दुस्सहं तव विभूतिपरिग्राहो वेति
पादुकासहरुां सुखस्य दुसत्सहत्मुक्तम्)युद्धादौ दु:खमपि सह्य़म् ।।
02.14
आत्मनित्यत्वप्रकरणपर्यवसाने वक्तव्ययमर्थत्स्तात्पर्यातिशयात्
सहसोच्यत इत्याह ।इयमर्थमनन्तरमिति । "आभिर्मीयन्ते शब्दादय
इति श्रोत्रादीनीन्द्रियाणि मात्रा:' इति ।शङ्कराद्युक्ता प्रसिद्धयोजनाव्युदासाय
।मात्राशब्दार्थमाह ।शब्देति ।।साश्रया इति । गुणविशिष्टद्रव्यस्य हि
तन्मात्राकार्यत्वमितिभाव: । ।तन्मात्राकार्यत्वादिति ।
तन्मात्राणां मात्राशब्दवाच्यत्वे तावन्नास्ति विवाद: ।
शब्दमात्रा स्पर्शमात्रा इत्यादिप्रयोगाश्च सन्ति तत्श्च तत्कार्यद्रव्यस्यापि
तदेकद्रव्यत्वात् तच्छब्दगोचरत्वमुपपन्नमिति भाव:। कर्मव्युत्पत्तेरपि
भावाव्युत्पत्ते:प्रसिद्धप्रकर्षं, विषयसंबन्धस्यैव च साक्षात्सुखादिहेतुत्वं
मत्वा स्पर्शस्य प्रतिसंबन्ध्यन्तरं निर्दिशन् समासार्थमप्याह
।श्रोत्रादिभिस्तेषां स्पर्शा इति । ।शीतोष्णशब्दयोरुपलक्षणत्वं उ
समासार्थं चाह ।शीतोष्णमृदुपरुषादिरूपेति । एवं हेतुफलभावं 2.विहाय
शीतोष्णदास्सुखदु:खदाश्चेति योजनायां पृथग्व्यपदेशवैयथ्र्यमिति भाव: ।
संग्रामे शीतोष्णयोरप्रसक्तत्वात् किमर्थमिदमुच्यत इत्यत्राह
।शीतोष्णशब्द: प्रदर्शनार्थ इति । शस्त्रपातादेरिति शेष: ।
शीतोष्णादिकं तु तेषु तेषु वर्णाश्रमधर्मेषु यथासंभवं ग्राह्रम् ।
।धीरमिति वक्ष्यमाणम्, ।धीरस्तत्रेति पूर्वोक्तं चाऽऽकृष्याह ।तान् धैर्येणाति ।
यद्वा अत्रैव ।कौन्तेयभारतशब्दाभ्यां क्षत्रिययायामुत्पन्नस्य
विशिष्टक्षत्रियसान्तानिकस्य ते धैर्यमेवोचिमिति सूचितम् ।
यथा तपश्चर्यायं यागादौ च वातातपक्षुत्पिपासापश्वालम्भादयो यावत्तत्कर्मसमाप्ति
क्षन्तव्या:; तथाऽत्रापि शस्त्रपातशत्रुवधादय: । तस्मादवर्जनीयन्द्रियार्थस्पर्श
निमित्तदु:खानां शोकेन दुष्परिहरत्वान्निरर्थके शोके तितिक्षैव युक्तेतिभाव:।
अत्र सुखांशस्य क्षमा नाम उपेक्षया अनुत्सेक: । तत्रापि हेतुरागमापायित्वमेव ।
।अनित्यशब्दस्यापौनरुक्त्याह ।बन्धेति । ।अनित्यशब्दोऽत्र प्रवाहनित्यतानिषेधक: ।
नित्या इति पदच्छेदेन नित्यानुबन्धितया तितिक्षितितव्यत्वद्योतनं तु मन्दम् ।
आगमापायित्वात्, मुक्तौ तदभावाच्च । अतश्च प्रवाहतोऽपि नित्यत्वं नास्तीति भाव: ।।
02.15
।तत्क्षमा किमर्थेति । किं दृष्टार्थत्वात्, उतादृष्टर्थत्वात्, उत
स्वरस्वाहित्वेनावर्जनीयत्वात्? न प्रथम:, दु:खरुपतयोपलम्भात् ।
न द्वितीय:, गुरुवधकुलक्षयादिरूपाधर्मबहुलत्वात् । न तृतीय:, युद्धान्निवृत्त्यैव
शस्त्रपाताद्यभावादिति भाव: । तितिक्षार्हत्वद्योतनाय धीरमिति पदम् ।
सुखदुख:स्ववैषम्याज्ञत्वभ्रमं तयोस्समपरिमाणत्वादिभ्रमं च ब्युद(निर)स्यन्
।किमर्थेति शङ्कां च प्रतिवदति ।अवर्जनीयदु:खं सुखवन्मन्यमानमिति
। यथा ह्रारोग्यकाम औषधादिक्लेशं सुखसाधानत्वात्सुखवन्मत्वा
प्रवर्तते; यथा चार्थार्थी समुद्रतरणादिक्लेशम्; तथा तापत्रयनिवृतिं्त
नितिशयानन्दं च लिप्सु: तदुपायनान्तरीयकदु:खं सुखवदेव मन्येतेति भाव: ।
तस्करादिष्वपि(तामसयुद्धेष्वपि) संभावितस्य द्वन्द्वतितिक्षिक्षामात्रस्य
मोक्षहेतुत्वव्युदासायोक्तम् ।अमृतत्वसाधनतयेत्यादि ।
।एते इत्यस्य तात्पर्यमवर्जनीयत्वं च दर्शयितुमुक्तम् ।तदन्तर्गता इति।
।व्यथयन्ति अप्राप्तत्व(प्राप्तव्यत्व)धिया परितापेन(42दड्ड द्रढ़.ददृ2
दु:खानुभवस्य सह्रत्वेपि सत्तवात् न व्यथयन्तीत्यस्य न चालयन्तीत्यर्थ
एव मतत्रयसंमत: । व्यथ भयसंचलनयोरिति पाठात् ।)चालयन्तीत्यर्थ:; न
तु पीडयन्तीति; ।मृदुक्रूरस्पर्शा इति मदुस्पर्शस्याप्युपादानात् ।
।यत्तच्छब्दरूपपरोक्षनिर्देशेन ।पुरुषर्षभ इति विपरीतकाक्वा च फलितमाह ।स एवेति ।
।त्वादृश: अस्थानस्नेहाद्याकुल: । अनन्तरश्लोकार्थप्रसङ्गाय
आत्मनाशप्रतीकारनैरपेक्ष्याय च निगमयति ।आत्मनां नित्यत्वादिति ।
।एतावदिति, तितिक्षामात्रं न तु शोकादि । ।अत्रेति; आगमापायिनां तत्त्वज्ञानेन
निवर्तिष्यमाणसन्तानानामृतत्वलक्षणपरमपुरुषार्थोपायानुष्ठानेऽवर्जनीयसन्निधीनां
शस्त्रपातादिदु:खानामागतावित्यर्थ: । ।कर्तव्यमिति अकरणे त्वपर्गरूपफलाभाव:
स्वधर्मपरित्यागेन प्रत्यवाय:, धैर्याद्यभावनिमित्ताकीत्र्यादिप्रसङ्गश्च स्यादिति भाव: ।।
02.16
।नासत इति श्लोकं व्यवहितप्रकृतस्थापनोपक्रमतयाऽवतारयति- ।यत्त्विति ।
स्वाभाविकम्--परिणामिस्वभावस्यावश्यंभावि, न तु हेतुनिरपेक्षम्;
।शोकानिमित्तं-शोकनिमित्तविरोधि, शोकाभावनिमित्तमित्यर्थ: ।
इत: पूर्वं स्वभावकथनमात्रत्वात् ।उपपादयितुमित्युक्तुम् ।
अस्यापि श्लोकस्योपपादनार्थप्रतिज्ञामात्ररूपत्वात् ।आरभत इत्युक्तम् ।
।सदसद्ट्ठ-भावभावादिशब्दानां प्रकरणोचितमर्थविशेषं विवृण्वन् व्याख्याति ।असत इति ।
।असत: सतश्चेति व्याख्येयं पदम् । तस्य प्रकरणादिविशेषितार्थप्रतिपादनम्-
।देहस्य आत्मन इति । ।अनयोरिति निर्देशफलितमुक्तम् ।उपलभ्यमानयोरिति ।
तत्त्वदर्शनस्य ।तुशब्दद्योतितामुपलम्यभानतिवृत्तिमभिप्रेत्याह ।यथोपलब्धितत्त्वदर्शिभिरिति ।
एतेन तत् ब्राहृ, तद्भावस्तत्त्वमिति ।शङ्करोक्तमपहसि(स्ति?)तम् ।
।सच्छब्दनिर्दिष्टस्य नित्यस्य विनाशायोगा।दन्तशब्दस्य निर्णयार्थत्वम् ।
तत्र शब्दवृत्तिप्रकारम्, ।
इह देहात्मविवेकप्रकरणे ।तत्त्वदर्शिभिरित्यादिसन्निधौ च
तस्यैवौचित्यं चाह निर्णयान्तत्वादिति । ननु ।देहस्य सद्भावो न विद्यत इत्युक्तम्;
प्रत्यक्षादिविरोधात्; आत्मनोऽसद्भावे न विद्यत इति चायुक्तम्, "असदेवेदमग्र आसीत्'
(छा.6. 2. 1.) इत्यादिसकलनिषेधदशायां तस्याप्यसच्छाब्दवाच्यत्वात् ।
अवस्थाविशेषापेक्षयाऽपि सत्त्वमसत्त्वं च देहात्मनोद्र्वयोरपि समानम् ।
अतो भाष्यान्तरवत् सत्कार्यवादादिविषयतायाऽयं श्लोको व्याख्येय इत्यत्राह
।देहस्येति । ।अचिद्वस्तुन: चेतनस्य इति पदाभ्यां सत्त्वासत्त्वयो:
स्वभावत्वे हेतु:, चिदचिद्विषयतया सदसच्छब्दयो: प्रयोगश्च सूचित: ।
नन्वेवमपि दहात्मनोस्सदसत्त्वचोद्यं न परिह्मतमित्यत्राह-।विनाशेति ।
हि शब्देन प्रयोगप्रसिद्धद्र्दोतिता । तामेव दर्शयति ।यथोक्तमिति।
(44द्यण् द्रढ़ ददृ:1. 1.वि.पु.2.17, ज्योतींषि विष्णुरित्यादि ।)
।दशश्लोक्याम् वस्त्ववस्त्वस्ति नास्तिसत्यासत्यशब्दानां ।शरीरकभाष्ये
पुराणोपक्रमोपसंकहारादिना,तत्प्रकरणोपसंहारादिना,मध्ये "मही घटत्वात्'
(वि.2.15.42) इत्यादिना च सविकारत्वानैवावस्तुत्वोपपादनात् श्रुतिस्मृत्यन्तर
प्रत्यक्षाद्यनुरोधाच्च निर्विकारतया नित्यानित्यचेतनाचेतनविषयत्वं
स्थापितम् । व्यवहारार्हत्वानर्हत्वादिविषयौ सदसच्छब्दौ; तयो:
परमार्थापरमारथविषयसत्यासत्यशब्दाभ्यां कथमैकाथ्र्यमिति शङ्कायां
नाशानावशयोरेव परमार्थादिशब्दप्रयोगहेतुत्वे महर्षिवचनमुपादत्ते ।अनाशीति ।
विनाशोपलक्षितपरिणामवृद्धयादिभि: पूर्वावस्थाप्रहाणेन संज्ञान्तरयोगादेव
अवस्तुशब्दवाच्यत्वं, तदभावाच्च वस्तुशब्दवाच्यत्मित्यस्मिन्नर्थे
स्पष्टोक्तं दर्शयति ।यत्त्विति। अत्तोरोत्तरश्लोकद्वैकाथ्र्याच्चायमेवार्थ इत्याह ।अत्रापीति ।
एतेन क्वचिच्चेतनविषयासच्छब्दोऽपि देवादिनामरूपप्रहणाद्यवस्थाविशेषापेक्षयेत्युक्तं भवति ।
स्वरूपतस्तु निर्विकारत्वात् सच्छब्दवाच्यत्मेव । श्लोकयो: व्युत्क्रमेणोपादानम् (द्मठ्ठथ्र्ड्ढ द्रढ़
ददृ:2) उपपादनमिति पाठो न साधु: । ।नासत: इति क्रमापेक्षया ।
तत: किमित्यत्राह- ।तदेवेति । प्रतिज्ञातस्यार्थस्य हेतुह्र्रन्तरं वाच्य: ।
तद्धेतुत्वं चात्र स्वरसतोऽवगम्यमानं परित्यज्य अर्थान्तर परत्वं व्याख्यातुं न युक्तमिति भाव: ।
कुदृष्टिकल्पितव्याख्यां दूषयति ।अत्रेति । ह्रत्र ।वैशेषिकादिनिरास:,
एकविज्ञानेन सर्विज्ञान प्रतिज्ञोपपादनं ।साख्यसिद्धान्तोपन्यासादिर्वा प्रक्रियते ।
न च सत्कार्यावादेन देहात्मविवेकोपपादनं शोकाशान्तिर्वा सिध्येत् ।
सर्वस्य नित्यत्वाच्चेतनानामपि नित्यत्ववर्णनमसिद्धस्यात्यन्तिसिद्धेन साधनमिति भाव: ।
उक्तार्थपरत्वे महाप्रकरणसङ्गतिमाह-।देहेति । यदज्ञानान्मोह:,
तस्यैव हि ज्ञापनं तन्निवृत्तये स्यादिति भाव:। अत्र तन्मोहशान्तये इति
द्वतियाध्यायर्थसंग्रहश्लोक: सूचित:। सत्कार्यवादे पूर्वोत्तरविरोधभिप्रयन्
स्वोक्तस्यावान्तरप्रकरणसङ्गतिमप्याह ।स एवेति वाक्यद्वयेन । ।अनन्तरमिति ।
न हि मात्रयाऽऽप्यन्य व्यवधानमस्तीति भाव । (45द्यण् द्रढ़ ढदृददृ: 1.अनात्मज्ञस्य
देहात्मवादिनोऽपि तितक्षा दृश्यत, सा न फलायति तत्त्वोपदेश आरभ्यते ।
अद्वैतिभि: गटादयोऽपरमार्था: व्यावर्तनमानत्वात्, सत् परमार्थ:
अनुवर्तमानत्वात् । घट: सन् पट: सन्निति सर्वत्र सतोऽनुवृत्तिश्चेति कथयत
इति श्रीभाष्ये वण्र्यते । तत्रैतच्छ्लोक शांकारभाष्यं मूलमिति ध्येयम् ।
अत्रैतत्कथनञ्च शीतोष्णादीनां मिथ्यात्वज्ञापनार्थमिति शांकराशय: ।
अत्रोक्तं परमार्थसदेवोपरि विव्रियत इति च । द्वैतमते तु- असत्पदं प्रकृतिवाचि ।
प्रथमपादेऽपि अभाव इत्येवच्छेद: । प्रकृतिब्र्राहृ च सर्वदैवास्तीति वाक्यार्थ: ।।
अत्र पक्षे "नाभावोविद्यत इति व्यर्थम्; सत इति ब्राहृमात्रग्रहणे जीवत्यागात् न्यूनता च ।
प्रस्तुत इति । असदुत्पद्यते,उत्पन्नं निरुध्यत इत तार्किकपक्ष:। तत्रांशद्वयमपि न ।
द्वयस्यान्त:-अभावो दृष्ट: ।। निषधद्वयस्य च निर्णयो दृष्ट इति सत्कार्यवादिन: पक्षेऽर्थ: ।
स वादोस्माकमिष्टोऽपि न प्रकृत इति भाव:। अस्य श्लोकस्यायमर्थं ।
इति शांकरे 18-48. प्रस्तुत:, उपपाद्यत इति शब्दाभ्यामपौनरुक्तयं दर्शितम् ।
उपसंहरति अत इति । ।यथोक्त एवेतयवधारणेनान्यैषामपि ।व्याख्यात्रूणामसत्प्रतिभासा
निवर्तन्ते । यत्तूक्तं ।यज्ञस्वामिना ""असच्छब्देनाशुभं रजस्तमस्तत्कार्यं दु:खादिकं गृह्रते ।
सच्छब्देन तु सत्त्वतत्कार्यसुखादिकम् । भावाभावशब्दाभ्यां च
अभ्युदयटानभ्युदयपर्यायौ भूत्यभूती । ।उभयोरोपि दृष्टाऽन्त इति च राशिद्वयस्य
नश्वरत्वमुच्यते । ततश्च पूर्वोक्तद्वन्द्वतितिक्षाहेतुभूतदु:खात्मकत्व नश्वरत्वयोरेव
प्रपञ्चनं कृतं भवति इति । तदुक्तम्; रजस्तम:प्रभृतीनामसदादिशब्दैरुपादाने
प्रकरणाद्योगात् । एतभिप्रायेण च स ।एव प्रस्तुत इत्युक्तम् ।
ननु (मात्रास्पर्शास्तु) इति श्लोके ।मात्राशब्देन सत्त्वादिगुण उच्यन्ते प्र्
तथा च कपिलासुरीयके(ये)-गुणा: गुणमात्रा:, गुणलक्षणं गुणावयवं (गुणा अवयवं)
सत्त्वं रजस्तम इति गुणा: । (भा.शा. 636) इत्युच्यन्ते । सत्त्वादि(त्वादीनां) गुणानां
गुणाश्च तेषां मात्रा अपदिश्यन्ते, तत्र तत्त्वदर्शनता, भयनाशस्वाभावता,
प्रसन्नेन्द्रियता, सुखस्वप्नबोधनतेति सत्त्वमात्रा इत्यादौ । उपकरणेषु च
मात्राशब्द:प्रयुज्यते "लघुमात्र: परिव्रजेत्' इत्यादिषु ।
मात्राशब्देन शब्दादिविषयग्रहणे तु शीतोष्णशब्दपौनरुक्त्यं च स्यात् इति ।।
तदप्यसत्; मात्राशब्दस्य सत्त्वादिषु मुख्यप्रयोगाभावात्, अन्यत्रापि प्रसिद्धयभावात्,
अत्राप्रसिद्धार्थस्वीकाररहेत्वाभावाच्च । शीतोष्णशब्दपौनरुक्त्यं
तु सामान्यविशेषपरत्वात्,प्रदर्शनार्थत्वाच्च परिह्मतम् ।।
अस्तु तर्हि प्रस्तुतयो: सुखदु:खयोरेव सदसच्छब्दाभ्यां ग्रहणम् ।।
मैवम्; तुयोरेवाभ्युदयानभ्युदायरूपत्वविवक्षायां तद्धेतुतया व्यतिरेकनिर्देशायोगात् ।
सुखदु:खयोर्दु:खसुखकारणत्वनिर्देशश्च (पेधश्च)लोकवेदविरुद्ध: ।
सुखादिना(वेशात्) ऐश्वर्यनिवृत्त्यादिकथनं च प्रस्तुतानुपयुक्तम् ।
एवं योजनान्तरेष्वपि दूषणमूह्रम् । अतो महाप्रकरणपूर्वापरादिसङ्गतेर्यथोक्त एवार्थ:।।
02.17
अथ प्राप्यविशेषणतया तदनुप्रवेशात्पुरुषार्थभूतस्य सहसैव
शोकनिवृत्तिहेतोरात्मनित्यत्वस्य "नामात:' इति श्लोके चरमप्रतिज्ञातस्यापि
बुद्धिस्थक्रमेण प्रथमुपपादनं क्रियत इत्यभिप्रायेणाह ।आत्मनस्त्विति ।
।तु शब्देन जननमरणादे: सर्वलोकसाक्षिकत्वात्, "एतेभ्यो भूतेभ्यस्समुत्थाय
तान्येवनुविनश्यति' (बृ.4.4.12) इति देहसमानयोगक्षेमत्व श्रवणाच्च
कथमात्मनो देहाद्विशेष इत्यभिप्रेतम् । एवमपि विशेषौऽस्तीति
(46द्यण्द्रढ़. ददृ:1.प्रथमपादविवरणं प्रथममकृत्वा प्रथमं द्वितीयपादविवरणे
कारणमुक्तम् अथ प्राप्येति । अनुभवसिद्धत्वादसिदिष्यते, सत्तु नैव ।
अत: कथं अथ भावनिषेध इति शंकायां श्लोकप्रवृत्तिरिति तुशब्दविवरणेन ज्ञाप्यते ।
श्लोकस्थतु शब्दार्थ: । ।तच्छब्दार्थं नपुंसकतात्पर्यं प्रतिज्ञांशं तत्राप्याश्रयसाध्यधर्मयोर्भेदं
च व्यनक्ति ।तदात्मतत्त्वमिति । न विनष्टुं शीलमस्येति ।अविनाशि ।
हेत्वंशप्रतिपादकद्वितीयापादं व्याकुर्वन् ।सर्वशब्दस्य वाक्यान्वयौचित्यप्राप्राप्तं सङ्कोचम्
।इदंत्वनिर्देशस्वारस्यसूचितं बाह्रानां पराक्त्वं तद्विपर्ययेणाऽऽत्मन:
फलितंचेतनत्वं तत एवाचेतने चेतणस्याऽऽत्मत्वेन व्याÏप्त च गमयति
।येनेति । चेतनसमुदायेनाचेतनसमुदायस्तिलतैलदारुवह्नयादिवत् यथांशं व्याप्त
इत्यर्थ:; यद्वा सर्वाचेतनानुप्रवेशयोग्यत्वमिह विवक्षितम्-इत्युभयथाऽपि नात्मणुत्विरोध: ।
अत्रायं प्रयोग:---आत्मा शस्त्राद्यधीनविनाशो न भवति, तद्द्यापकत्वेन ततस्सूक्षमत्वात्,
यथाऽऽकाश: । व्यतिरेकेण वा- यो यदधीनविनाश:, स ततस्सूक्ष्मो न भवति,
यथा वायुविनाश्यो दीप: इति। इमं प्रयोगं व्यञ्जयन् प्रयोगान्तरपरतयोत्तरार्धं व्याचष्टे
।व्यापकलकत्वेनेति । ।विनाशसनार्हस्येत्यव्ययशब्दार्थ: ।
तस्य हेतु: ।निरतिशयसूक्ष्मत्वादिति । इदं च निरतिशयसूक्ष्मत्वचेतनापेक्षया ।
।कश्चित् इत्यस्य ईश्वरोऽपीति परझ्र्स्यटव्याख्या (46द्यण् द्रढ़ ढदृददृ:2.स्वदर्शनविरुद्धेति।
ब्राहृातिरिक्त जीवेश्वराभाववादेन तन्निरूपणस्थले कश्चिदिति अतिरिक्त तयेश्वर ग्रहणे
सिद्धान्तविरोध: । कश्चिदिति स्वातिरिक्तग्रहणस्वरसत्वात्, तत्सद्भावस्यैव
श्लोकतोऽवगमात् इतरवस्तुमिथ्यात्वे तात्पर्ये न भवतीत्याशय: ।
अस्मत्पक्षे ईश्वरग्रहणं वक्ष्यते।) स्वदर्शनविरुद्धेत्यभिप्रायेणाह ।तद्व्यतिरिक्त:
कश्चित्पदार्थ इति । धर्मिनिर्देशोऽयम् । आत्मनो विनाशं कर्तुं नार्हतीति साध्यर्थ: ।
तत्र हेतुमाह ।तद्व्याप्यतया तस्मात्स्थूलोत्वादिति । ।तस्मात्स्थूलत्वादित्येव हेतु: ।
तस्यासिद्धिपरिहारयोक्तं तद्व्याप्यतयेति । व्याप्तिपूर्वंज दृष्टान्तमाह ।नाशकमिति ।
घटादिनाशकमुद्गरादावणैकान्त्यमाशङ्कय परिहरति ।मुद्गरेति ।
अयमभिप्राय:-न तावत् मुद्गरादेस्संयोगमात्रं घटादिनाशकम्, मुद्गरोपोस्थितापितघटस्य
नाशप्रसङ्गात् । न च वेगवदूद्रव्यविशेषभागविशेषसंयोगविशेष एव नाशक इत्वविवादम् ।
तथा च वायुविशेषोत्पत्तिरपि प्रायश: प्रत्यक्षसिद्धत्वादविवादा । वायोश्च तत्तदूद्रव्यानुप्रवेशेन
नाशकत्वं कठिनतरशब्दाभिघात संक्षोभ्यमाणपदार्थेष्वभ्युपगतम् ।
एवं सति क्लृप्तकारणाभावस्यत्रापि विद्यमानस्य वायुविशेषस्य
नाशहेतुत्वमवश्याभ्युपगमनीयम् । स च वायु: घटाद्यपेक्षया सूक्ष्म: ।
यत्र तुवेगाभावेऽप्याक्रमणादिमात्रेण नाशकत्वम्, तत्र मुद्गरावयवनुन्ना
घटादिद्रव्यावयवविशेषा:भागान्तरं स्वस्वमात्स्थूल तरमनुप्रविश्य भिन्दन्ति,
आक्रमणमूलाऽऽरन्तरवायुनिस्सरणवशाद्वा वायुपूरितभस्त्रिकाक्रमणादिष्विवेति ।
।अत इति । उक्तहेतुद्वयेन शस्त्रादेरनाशकत्वात्, आत्मनो(भ्यो)ऽपि
सूक्ष्मतरस्य तन्नाशकस्यान्स्यादर्शनात्, ईश्वरस्यापि तन्नाशसङ्कल्पाभावादिति भाव:।।
02.18
नासतः इति प्रतिज्ञांशस्य उपपादकतया इत्तरश्लोकमवतारयति -
देहानामिति । अवधारणेन।स्वभावशब्देन च असद्वयपदेशैकान्त्यं सूचितम् ।
।अन्तवन्त: इति साध्यस्य हेत्वाकाङ्क्षां शमयन् धर्मिप्रतिपादकमेव ।देहशब्दं निर्वक्ति
दिह उपचय इति । उपचयरूपाः सावयवाः इत्यर्थः । देहशब्दो रूढ¬ा धर्मिप्रतिपादकः,
योगेन हेतुप्रतिपादनपर इति भावः । साध्यनिर्देशे प्रकृतिप्रत्ययोरर्थमाह ।विनाशस्वभावा इति ।
नात्र निरूपणापेक्षया देशाद्यपेक्षया वा निर्णयपरिंमाणादिरन्तो विवक्षित:।
मतुप् च नित्ययोगादिविषय इत्यर्थ: । व्याप्तिदृष्टान्तावाह ।उपचयेति ।
श्रुतितदर्थापत्तिभ्यामपि शरीरस्य विनाशस्भावतामुपपादयतीत्याह
।नित्यस्येति । ।नित्यस्ऽय शरीरिण: इति पदद्वयसूचिते श्रुतितदर्थापत्ती ।
कथं कैरुक्ता इत्याकाङ्क्षां शमयति।कर्मेत्यादिना । शरीरिण इति
इनिप्रत्ययेन षष्ठया च प्रतीतस्य संबन्धस्य कर्माख्यो हेतु: प्रकृतोपयोगात् दर्शित: ।
ईश्वरादिशरीराणामकर्मधीनत्वात् तद्वयवच्धेदार्थम् ।इमे इति निर्देशसूचितमुक्तम्
।भूतसङ्घातरूपा इति । अनेकभूतसङ्घातात्मकत्वमपि अनित्यत्वे हेतु: ।
।कर्मावसानविनाशिना इति शरीरशब्दनिर्वचनफलितम् । विशरणाद्धि शरीरम् व
कैश्चिच्छास्त्रैस्तावत् देहानामुत्पत्तिविनाशौ द्वावप्यभिधीयते ।
यैश्च कर्मधीनोत्पत्तिमात्रमुक्तम्, तैरप्यर्थात् कर्मावसाने विनाशोऽप्युक्त एव स्यादिति भाव: ।
एवं च ।इमे, देहा:, शरीरिण: इति पदत्रयेण सूचितं
भूतसङ्घातरूपत्वसावयवत्वकर्मफलभोगार्थत्वरूपं शरीरानित्यत्वे हेतुत्रयमुक्तम् ।
।अनाशिनोऽप्रमेयस्येति पदद्वयमात्मनित्यत्वाख्य साध्यतद्धेतुपरतया व्याख्याति ।आत्मा
त्विति । नित्यत्वस्य नाशानर्हत्वेन स्थिरीकरणात् ।नित्यस्य अनाशिन: इत्यनयोरपुनुरुक्ति:;
स्थूलसूक्ष्मनाशविरहाभिप्रायाद्वा । असिद्धो हेतु:, आत्मनोऽप्यस्ममत्सिद्धान्ते
प्रमाविषयत्वादित्यत्राह ।न ह्रात्मेति । प्रमेयत्वपर्युदास: प्रमेयतैकस्वभावशरीरादिव्यावर्तन
मुखेन प्रमातृत्वपर्यवसित:, नञोऽत्र तदन्यवाचित्वात् ।
एवमेव हि क्षेत्रक्षेत्रज्ञयोर्विवेको वक्ष्यत इत्यताह ।तथा चेति ।
एतेन ज्ञानाविषयत्वमत्र(मात्रं) व्याकुर्वन्निरस्त: । प्रमेयत्वं चात्र भोग्यत्वपर्यवसितम् ।
तद्वयतिरेकश्च पूर्वोक्तकर्मफलभौगार्थत्वरूपहेतुव्यतिरेकरूपो(रूपेण) भोक्तृत्वपर्यवसित: ।
ततश्चायं पूर्वोक्तहेत्वन्तरद्वयव्यतिरेकस्यापि प्रदर्शनार्थ इति मत्वा तयोरपि व्यतिरेकमाह
।न चेत्यादिना । सावयवयत्वे योग्यानपलब्धिमाह ।सर्वत्रेति ।
।सर्वशब्दोऽत्र देहांशकार्त्स्न्यपर: । तेनाणोरप्यात्मन "पादे मे वेदना, शिरसि ,मे सुखम्'
इत्यादिसुखदु:खनिमित्ततत्तदवयवाच्छिन्नव्यवहारदशायामपि
निरवयवत्वोपलब्धिरुक्ता । यद्वा देवादिरूपेण विचित्रप्रकारेष्वनन्तेषु
देहेषु क्वचिदपि देहे देहिनस्सावयवत्वं नोपलब्धमित्यर्थ: ।
।अहमित्येकवचनमेकस्मिन् देहेऽभिमन्तुरात्मन एकत्वं सूचयति ।
यद्यात्मा सावयवस्स्यात्, तदा वयमिति (अवयवोऽहमिति)कदाचितदुपकभ्येत,
प्रत्येकं तदवयवानामपि चैतन्यस्यावश्याभ्युपगमनीयत्वात् ।
सावयत्वे ह्रवयवसङ्घातरूपोऽवयविरूपो वा स्यात्,
उभयथाऽप्यवयवगतविशेषगुणामनतरेण न तत्र विशेषगुणसिद्धि: ।
किण्वादिष्वपि हि प्रत्येकमसिद्धाऽपि मदशक्ति: पाकविशेषात् रसविशेषादिवत् प्रत्येकं जायते ।
शक्तेश्चापर्यनुयोज्यत्वेऽपि विशेषगुणेष्वयं नियमो दुस्त्यज: ज्ञानस्य द्रव्यत्वपक्षेऽप्येवमेव,
निष्प्रभसमुदाये सप्रभत्वायोगवत् । एवं चसति समाजवदेकस्मिन् देहे
(देहिनि) मिथ: कलहासूयेष्र्यानिग्रहानुग्रहादयोऽप्युपलभ्यरन् ।
समुदायावयविनोश्चातिपीडायामवयव्यतिरिक्तयोरभावदवयवानामेवानुभवितृत्वं स्यात् ।
तथा सति पाण्याद्यवच्छिन्नात्मावयवानुभूतं तदन्योऽवयवो न प्रतिसन्दधीतेति
दक्षिणहस्तेन मयैव स्पृष्टं वामहस्तेन पुन: स्पृशामि इत्यादिप्रतिसन्धानं
न स्यात् ।(48) न ह्रनेकेषां चेतनानामवयवानां प्रमाप्रसरयौगपद्यनियमोऽस्तीति
भाव: अथ पूर्वोक्तमेवमुखभेदेन साधयन् विजातीयसङ्घातात्मकत्वे योग्यानुपलÏब्ध
चाह ।नचेति । पाञ्चभौतिकेषु देहादिषु तत्तद्भूतांशभूतत्वगसृङ्मांसादौ
तत्तद्भूतप्रयुक्ताकाररभेद उपलभ्यते; नैव प्रमातरि । तथा च श्रूयते,
""कत्स्न: प्रज्ञानघन एव (बृ.6.5.13) इत्यादि । यद्वा ।आकारभेद
इति पाणिपादादिसन्निवेशभेदो विवक्षित: । तदेवमात्मनो नित्यत्वे देहस्य
विनाशित्वे च प्रत्येकं हेतुचतुष्टयं श्लोकद्वयसिद्धंसुखग्रहणाय सङकल्य्य
दर्शयति- ।अत इति । एकरूपत्वेन---अभूतसङ्घातात्मकत्वादित्यर्थ: ।
।अनुपचयात्मकत्वात्----निरवयवत्वादित्यर्थ: ।
नन्विदमखिलमपि हेतुजासतमनुपपन्नम्; तथा हि- तत्रासङ्घातरूपत्वस्य
विरवयवत्वस्य च रूपरसादिभिर्महदादिभिश्चानैकान्त्यम्; प्रमातृत्वं
च यदि कर्मफलभोक्तृत्वं विवक्षितम्, तदानीम् असाधारणानैकान्त्यम्,
सकलसपक्षविपक्षव्यावत्ते: । तत्र चेश्वरादेरपि पक्षीकारे भागासिद्धिश्च ।
यदि प्रमाश्रयत्वमात्रं विवक्षितम्, तदा सर्वप्रमातृ पक्षीकरणे
पूर्ववदसाधारण्यम् । जीवमात्रपक्षीकारे त्वीश्वरनित्यत्वस्यापि
दृढाभ्युपगमाभावात् तस्मिन् दृष्टान्ते संदिग्धसाध्यवैकल्यादिदोष: ।
व्यापकत्वं च यदि सर्वव्यापकत्वम्, तदा स्वरूपासिद्धि:; प्रत्येकं
क्षेत्रज्ञानाणामणूनां तदभावात्, ईश्वरापेक्षया व्याप्यत्वाच्च यदि
कतिपयव्यापकत्वम्, तदा शास्त्राकाशादिभिरेवानैकान्त्यम् व शरीरानित्यत्वसाधकं
सावयवत्वमपीश्वरदिव्यविग्रहाभारणायुधादिविशेषै: । एवं कर्मफलभोगार्थत्वं
च यदि तद्धेतुत्वम्, तदा ईश्वरजीवस्वरूपादिभि: पूर्ववदनेकान्त्यम् ।
यदितदर्थमुत्पन्नत्वम्, तदा व्यर्थविशेषणत्वम्; उत्पन्नत्वमात्रेण
व्याप्तिसिद्धे: । सङ्घातरूपत्मपि सावयवत्ववदनैकान्तिकम् । व्याप्यत्वं च
यदि सर्वापेक्षया तदा त्वसिद्धिदोष: । न हि शरीरादिकं पर्वतादिभिव्र्याप्यते ।
अप्रसिद्धत्वं च हेतो:, कुत्रचिदपि तस्याभावात् । यदि कतिपयपेक्षया,
तदा ईश्वरव्याप्यैर्जीवदिव्यमङ्गलविग्रहादिभिरनैकान्त्यम् ।
यदि जीवव्याप्यत्वमिति विशेष्येत, तदा नित्यसूरिविग्रहविशेषादिभि:
परकृत्यादिभिश्च प्राग्वद् व्यभिचार: । एतेन क्षेत्रज्ञव्याप्यत्वमित्यपि निरस्तम् ।
यदि पुनरव्यापकत्वं विवक्षितम्, तदाऽणिमाद्यैश्वर्यवद्योगिप्रभृतिशरीरेषु स्वरूपसिद्धि:,
तच्छरीराणां शिलाद्युन्मज्जननिमज्जनादेरपि योग्यत्वात् इति ।
अत्रोच्यते--असङ्घातत्वनिरवयवत्वयोस्तावत् अर्जुनादिबुद्धया
घातकतयाप्रस्तुतशस्त्राग्न्याद्यधीनविनाशनिवृत्तेस्साध्यत्वात्
न महदादिभिरनैकान्त्यम् । द्रव्यत्वेन विशेषणात् नाग्नयादिनाश्यरूपादिभिरनैकान्त्यम् ।
एवं प्रत्यक्षादिसिद्धानाशकनिषेधे महदादिवत् केवलमीश्वरसङ्कल्पादिना नाश: शङ्कयेत,
तदपि श्रुत्यैव प्रतिषिध्यतेति भाव: । प्रमातृत्वस्य भोक्तृत्वपर्यवसाने
कर्मफलभोगार्थत्वरूपप्रमेयत्वनिषेधमुखेनानुत्पत्तिपर्यवसित्वात्
अनुत्पन्नत्वस्य च नित्यत्वेन व्याप्तिसिद्धे: आत्मस्वरूपानुत्पत्तेश्च
शास्त्रसिद्धत्वान्न कश्चित्दोष: । प्रमाश्रयत्वमात्रस्य हेतुत्वे त्वीश्वरो दृष्टान्त: ।
तत्र साध्यसन्देहो ।न त्वेवाहम् इत्यस्य व्याख्यानदशायां निराकृत: ।
व्यापकत्वस्य प्रयोगस्तु पूर्वमस्मद्व्याख्यातप्रकारेण शरुाादिविषयतया पठितव्य न
तत्रापि दोष: । शरीरानित्यत्वसाधनेषु च सावयवत्वभूतसङ्घातत्वयो: प्राकृतत्वे
सतीति विशेषणान्न व्यभिचार: । एतदर्थं हि ।इमे देहा: इत्युक्तम् । कर्मफलभोगार्थत्वमपि
तदर्थमुत्पन्नत्वमेव; न च व्यर्थं(र्थ)विशेषणम्, मुक्तात्मज्ञानविकासस्य व्यवच्छेद्यत्वात् ।
न हि सोऽनुत्पन्न:, प्राक् अभावात् । निवृत्ते प्रतिबन्धके करणनिरपेक्षस्वरूपधीनोत्पत्तित्वमात्रेण
हि स्वाभाविक उच्यते; न त्वनुत्पन्नत्वेन । ""दोषप्रहाणान्नज्ञानमात्मन: क्रियते तथा ।
इत्यादिकं त्वबबोधादिस्वरूपसयानुत्पन्नतामाह, न तु तद्विकासस्य ।
अथवाऽ भवस्थारूपत्वेन तस्योत्पन्नत्वं मा भून्नाम (मा नाम पृथक्विचिन्त्यताम्)
तदवस्थावस्थितस्य व्यवच्छेदाय विशेषणं स्यात् । अस्तु वा विशेषणनैरपेक्ष्यम्;
तथाऽप्युत्पन्नत्वमात्रेणानित्यत्वं तावत् सिद्धम्, अज्ञातोत्पत्तिषु
केषुचिच्छरीरेषु हेत्वसिद्धशङ्कापरिहार: कर्ममूलत्वप्रदर्शनेन क्रियते ।
कर्मावसानविनाशित्वस्य वा साध्यत्वात् तदौचित्याय चेदं विशेषणं सार्थम् ।
व्याप्यत्वं च शस्त्राद्यपेक्षया विवक्षितम् । साध्यं च तदधीनविनाशित्वमिति
न कश्चिद्दोष: । ननु यो यद्याप्य: स तदधीनविनाश इति न व्याप्ति:,
ईश्वरव्याप्यै: प्रकृतिपुरुषकालदिभिरणैकान्त्यादिति चेन्न; योग्यत्वस्य
साध्यत्वात् तत्रापि तत्सद्भा(संभ)वात् । ईश्वरनित्येच्छापरिग्रहादेव हि
तन्नित्यत्वम्, अन्यथा यदि ईश्वरो जीवादिस्वरूपमपि संजिहीर्षेत्, कस्तस्य
शासिता? तर्हि जीवाकाशादिव्याप्यैस्तदधीननाशरहितै: शरीरादिभिव्र्यभिचार
इति चेन्न, तेषामपि तन्नाश्यत्वयोग्यत्वात् । तन्नाशकर्ता ईश्वरस्तु
न तत्र जीवादीन्युकरणीकरोतीति विशेष: । ततश्चैवं प्रयोग:- शरीरादि
शस्त्राद्यधीनविनाशयोग्यम्, तद्व्याप्यत्वात् । यत् यद्व्याप्यं
तत् तदधीनविनाशयोग्यम् इति । यद्वा तिष्ठतु सामान्यव्याप्ति: ।
शस्त्रादिनाश्यत्मेव साध्यम्, शस्त्रादिव्याप्यत्वादित्येव च हेतु:
यत् शरुाादिव्याप्यं तत् शस्त्रादिनाश्यम्, यथा कदलीकाण्डादीति ।
न चाकाशाति शस्त्रादिव्याप्यम्, सूक्ष्मत्वे सति अनुप्रवेशस्य
विवक्षितत्वात्, सूक्ष्मत्वस्य(50द्यण्द्रढ़1.नन्वाकाशापेक्षया शस्त्रं
सूक्ष्ममेव अल्पपरिमाणत्वादित्यत्राह सूक्ष्मत्वस्य चेति ।
तत्प्रतिघातकत्वे सति तेनाप्रतिहन्यमानत्वं ततस्सूक्ष्मत्वम् ।
द्वयो: पाषाणायो: मिथ: प्रतिघातकत्वेऽपि कस्यचिन्न सूक्ष्मत्वम् ।
अतोऽप्रतिहतत्वमपि निवेश्यम् । आकाशाप्रतिहतत्वात् पुनश्शस्त्रस्य
सूक्ष्मतवापत्तिरिति तत्प्रतिघातकत्वस्यात्र विवक्षा । स्वप्रतिघातक
शस्त्रादिव्याप्यत्वरूपहेतुराकाशे अभावान्न व्यभिचार: । चात्र-यत्
प्रतिहन्यते, तत्राप्रतिहतत्वं ततस्सूक्ष्मत्वमिति निष्कर्षात् ।
योगिप्रभृतिशरीराणां तु शस्त्रादिव्व्याप्यत्वमेव परिणामविशेषादेर्निवृत्तम्
व अतस्तदधीननाशाभाव: । शस्त्राद्यपेक्षया व्यापकत्वमेव तेषामिति तैर्न व्यभिचार: ।
ततोऽपि सूक्ष्मतरैरीश्वरसङकल्पसङ्कल्पादिभिस्तु तन्नाश: ।
एतेन शस्त्रास्त्रादिप्रतिबन्धककौषधाद्यनुगृहीतशरीरवृत्तान्तोऽपि
व्याख्यात:; औषधादिभिस्तत्र प्रवेशप्रतिबन्धात् । तस्मात् सिद्धमष्टावपि
हेतवोऽष्टदिग्विजयिन: इति । ननु किमर्थमिह लोकसिद्धं शरीरानित्यत्वं प्रसाध्यते ।
केषुचिच्छरीरेषु प्रत्यिक्षत एव नाशो दृष्ट: । अविनष्टेषु भीष्मादिशरीरेष्वपि
तत्तुल्यतया नाशित्वं निश्चितमेव ।अन्यथा शत्रून् प्रति शस्त्रादिकमपि न प्रहीयेत ।
स्वयमपि शत्रुशत्रादिकं न निवारयेत् अत: शरीरानित्यत्वस्य संप्रतिपन्नत्वात् संदिग्धे
च न्यायापेक्षणात् निरर्थकमिह सावयत्वाद्यनुमानचतुष्टयम् इति ।
अत्रोच्यते-प्रथमं तावत् आत्मनित्यत्वानुमानानां-यत् शस्त्राद्यधीनविनाशम्,
तत् सावयवं यथा शरीरमिति व्यतिरेकव्याप्तिप्रदर्शनमेकं प्रयोजनम् ।
तत एव देहात्मनोर्विरुद्धधर्मप्रपञ्जनेन भेदस्थाप्रनं द्वितीयम् ।
शस्त्रादिनिवारणरसायनसेवादिभिर्नित्यत्वमपि किं संभवेदिति संदेहापाकरणं तृतीयम् ।
एवं देहानां नाशतद्धेत्वोरवश्यम्भावित्वप्रतिपादनेन स्वदेहवैराग्यजननं चतुर्थम् ।
परदेहेषु च स्वस्यैकस्यैव नाश्यतिति प्रतिपादनात् फलभिसन्धिरहितकर्मानुष्ठानादिना
अत्यन्तनाशस्यापि संभावनाद्योतनं षष्ठम् । नश्वर स्वभावत्वादशोचनीयत्वं सप्तमम् ।
शीघ्रं मोक्षसाधने प्रवर्तितव्यमित्यष्टमम् । एवं यथौचितमन्यदपि भाव्यमिति ।
।तस्माद्युध्यस्व भारत इत्यत्र
।तस्मादित्यस्य व्याख्यानं ।देहस्येत्यादि,। न
शोकस्थानमितीत्यन्तम् । ।मात्रास्पर्शास्तु इत्यादिश्लोकद्वयप्रतिपादितेन
द्वन्द्वतितिक्षारूपपरिकरणामृतत्वरूपफलेन च पूरयन् आह ।शस्त्रेति ।
अत्र परगतान् प्रति शोचत: स्वगताभिधानं मर्मोद्घाटनेन मानजननार्थम् ।
शास्त्रीयत्वादेव हि स्वगतमपि दु:खं सह्रते,तथा यज्ञपशुशत्रुप्रभृतिगतमपि सोढव्यमिति
प्रदर्शनार्थं च । युद्धस्यानीप्सितराज्यादिक्षुद्रभोगान्तरप्रधानकत्वव्युदासाय
प्रकरणारम्भोक्तमेव फलमुचितमिति ।अमृत्वप्राप्तये इत्युक्तम् ।
धात्वर्थस्य पराभिमतं करणतयाऽन्वयमपाकुर्वन् ।युध्यस्वेत्यत्र प्रकृतिप्रत्ययार्थी
विवच्याह ।युद्धाख्यं कर्माऽऽरभस्वेति । अयमेवार्थ: ।सेश्वरमीमांसायां () प्रपञ्चितोऽस्माभि: ।।
02.19
अथ ।अविनाशि तु इति श्लोकेनोक्तं ।नैनं छिन्दन्ति इति प्रपञ्चयिष्यमाणं
शस्त्रादीनामात्मनश्च हन्तृत्वहन्तव्यत्वयोग्यत्वं तद्विपर्ययवेदिनिन्दया
द्रढमिति ।य एनमिति ।सामानाधिकरण्यभ्रमनिरासायोक्तं-।प्रतीति ।
।हन्तारम् इत्यस्य तृन्नन्तत्वात् ।एनमिति द्वितीया, "न
लोकाव्ययनिष्ठास्वलर्थतृनाम्(अष्ट. 3. 69) इति कृद्योगषष्ठीनिषेधात् ।
हननहेतुमिति । प्रत्ययस्यात्र हेतुमात्रविवक्षेति भाव: ।
न कश्चित्कर्तुमर्हतिइति पूर्वोक्तवत् पदार्थविवक्षया पुल्लिङगत्वोपपत्तिरिति
ज्ञापनायोक्तम् ।कमपीति । ननु ""हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्तिह हन्यते ।। (क.1.2.19) इत्यस्य
कठवल्लीवाक्यस्योपबंहणरूपोऽयं श्लोक: । तस्य च वाक्यस्याऽऽत्मनो
हन्तृत्ङहन्तव्यत्वनिषेधार्थत्वम्, ""कर्ता शास्त्रार्थवत्वात्(ब्रा.2..3.33) इत्यधिकरणभाष्ये
पूर्वपक्षिणोक्तम् । सिद्धान्ते च, ""यदुक्तं हन्ता चेन्मन्यते इत्यादिना
हननक्रियायामकर्तृत्वमात्मन: श्रूयत इति एवमनूद्य, ""तदात्मनो नित्यत्वेन
हन्तव्यत्वाभावादुच्यते इति परिह्मतम्। तत् कथमत्र ।एनं हन्तारमित्यादिना
स्वरसिद्धसामानधिकरण्यादिभङ्गेन ।हननहेतुं कमपीतयध्याह्मस्य व्याख्यायते? ।।
उच्यते । न तावदत् शारीरकभाष्यविरोध:,ऐकाथ्र्यात् ।
अत्र हि यस्य कस्यापि हेतोरात्महननहेतुत्वम् नास्तीत्युक्तम् ।
तथा सति आत्मनोऽप्यात्महननहेतुत्वं नास्तीत्युक्तं भवति । एवंचात्र
सामान्योक्तस्य विशेषनिष्ठतामभ्युपेत्योक्तं शारीरके । न तत्र (चात्र)
सामानाधिकरण्याभ्युपगम:, आत्मनो हन्तारमिति वैयधिकरण्येऽपि फलितोक्ते:
। तत्रह्रपेक्षितपदान्तस्य योग्यविभक्त्यन्ततयाऽध्याहार: ।
अत्र तु सामानाधिकरण्यादपि,क्रियाकर्मणौराखाङ्क्षादिमतो: परस्परान्वय
एव स्वारसिक:। सामाण्यधिविषयत्वे च प्रकरणौचित्यम् ।
आत्मनो हन्तृत्वनिषेधरूपविशेषोपसंहारस्तु ।वेदाविनाशिनम् इति श्लोके भविष्यति ।
तस्मात् ।अयमिति शब्दस्य भिन्नार्थत्वादिकमपि न दोषायेति सिद्धम् ।
प्रतिज्ञान्तरत्वभ्रमव्युदासायाह ।उक्तैरिति । अस्य नित्यत्वादिति ।
तत्कार्यशक्तमपि न हि तदयोग्ये प्रवर्तते इति भाव: । (52दड्ड द्रढ़ ददृ:।2
एनमित्यनुकृष्येत्युक्तया, एनमयं न हन्तीति भाष्यपाठ इत ज्ञायते।) एनम् इति
पूर्ववाक्यादनुकृष्योक्तम् । ।अतएवेचेति । अयोग्यतया हेत्वभावे
तत्क्रियाविषयत्वरूपफलाभाव इति भाव: ।।अयं हननहेतु:,अयमात्मा
इत्युभयत्र ।अयं शब्दयोगात् तत्रेणोच्चरितोऽयं शब्दो ।हन्ति, हन्यते
इत्यनयोर्विवक्षाभेदात्। कर्तृकर्मसमर्पक इति भाव: । कथं तर्हि मनुष्यं
हन्ति इत्यादिप्रयोग: । न ह्रसौ शरीरमात्रहननविषय:, मृतशरीरघातकेषु पितृहा
मातृहा इत्यादिप्रयोगोपक्रशाद्यभावात् । मनुष्यादिशब्दाश्चात्मपर्यवसिता
इति नस्सिद्धान्त: । मां जघांसति इत्यादिप्रयोगेषु व्यक्तमेव
हन्तेरात्मकर्मकत्वम् । अतो हिंसायोग्यश्चेतन एव हन्तिधातो: कर्मभूत: ।
तथा सति ।नायं हन्ति न हन्यते इत्युक्तमुभयमपि नोपपद्यते इत्याशङ्कयाऽऽह
।हन्तिधातुरिति । ।आत्म कर्मक इत्यनेन शङकासूचनम् । सत्यमात्मकर्मक एव
स्वतो हन्तिधातु:, न तुझ्र्
तत्रटतत्स्वरूपप्रच्यतिप्रतिपादक:; किंतु मारणपर: ।
तथैव हि लोकवेदयो: प्रयोग: । मारणं च शरीरादिविश्लेषणात्मकम् ।
"मृङ प्राणत्यागे' इति चानुशिष्यत इति भाव: । एवं लोकप्रयोगो निव्र्यूढ: ।
"न हिंस्यात् सर्वा भूतानि' इति शास्त्र प्रयोगस्य कोऽर्थ:? स चास्तु य:कश्चित् ।
स तावत् सामान्यतो विशेषतश्च निषिद्ध त्वादकर्तव्य इत्याशङ्कयाह न।हिंस्यादिति ।
परझ्र्#ाभिटमतप्रक्रिय़या उत्सर्गापवादन्यायाद्वा. स्वमतेन विहितशरीरवियोगकरणस्य
पशुशत्रुप्रभृतीणामपि । हिततमत्वेन हिंसात्वस्यैवाभावाद्वेति भाव: ।
02.20
अथ ।विपश्चित् इत्यधीतस्य अत्र ।कदाचित् इत्येकपदमात्रविशेषितस्य "न जायते'
इति कठवल्लीश्लोकस्य पौनरुक्त्य-प्रत्यक्षविरोधादिदोषामाशङ्कयाह ।उक्तैरेवेति ।
एतेन प्रतिज्ञामात्रत्वशङ्का परस्ता । ।नित्यत्वेनापरिणामित्वादिति ।
अविनाशत्वेन विकारमात्रस्यापि व निरस्तत्वादित्यर्थ: । तथाहि-विनाशो
नाम पूर्वावस्थाप्रहाणरूपनामान्तर भजनार्हावस्थान्तरापत्ति:।
यथा घटाद्रिद्रव्यस्य कपालाद्यवस्था; तदवस्थौन्मुख्यं चतस्या अपक्षय: ।
सैव कपालाद्यवस्थस्य तस्यैव द्रव्यस्योत्पत्ति:। एवं परणामवृद्धयादिकमुदाहरणीयम् ।
वक्ष्यति चेममर्थम्, जातस्य हि ध्रुवो मृत्युरित्यत्र ।
अतो विनाशित्वनिराकरणेन जननादिकमप्यर्थतो निरस्तम् ।
।सर्व एवेत्यपौनरुक्तयार्थमुक्तम् । एवकारोऽत्र अपिशब्दसमानार्थ: ।
न केवलं हन्तव्यत्वमात्रमेव नास्ति; अपि तु जन्यत्वादिकमपीत्यपुनरुक्तिरिति भाव:
। ।देहधर्मा इति ।हन्यमाने शरीरे इति सूचितजननमरणादिव्यवहारविषय उक्त:;
तत्र हेतु: ।अचेतनेति । जननादयो देहधर्मा आत्मनो न सन्तीत्युच्यत
इत्यात्मनि देहधर्मान् प्रत्यक्षादिनाऽभिमन्यमानायार्जुनाय, "न जायते' इत्य़ुपनिषन्मन्त्रेणैव
यथावस्थिताकारो विवच्याभिधीयते; न तु देहसंयोगवियोगलक्षणजननमरणप्रतिक्षेप:
क्रियत इत्यर्थ:। ।वाशब्दश्चार्था: । श्लोकस्थपदानां पौनरुक्त्यपिहाराय वर्तमानादिनिर्देशसिद्धां
व्ववस्थां व्यञ्जन् आह ।तत्रेति । ननु ।कदाचिदित्यनेन वर्तमानतयैव हि
जननमरणयोरनुभव: । अतस्तद पेक्षया वर्तमाननिर्देशोपपत्ति: ।
तेन कल्पाद्यन्तव्यतिरिक्त: समस्त: काल: ।कदाचिदिति संगृहीत इति भाव: ।
।भूत्वा इति पूर्वकालनिर्देशाभिप्रेतमाह ।कल्पादाविति । तत्र ।भूयश्शब्द: कल्पान्तर: ।
।भूत्वा भविता इत्यनयो: क्रिय़यो: प्रत्येकं नञन्वयभ्रमव्युदासायोक्तम् ।न न भवितेति ।
भूत्वा न भवितेति विशिष्टं नञन्तरेण प्रतिषिध्यते । ननु ।नायं भूत्वा इत्यादिकं
किमर्थमुच्यते? ।न जायते इत्यादिनैव संग्रहीतुं शक्यत्वादित्याशङ्कयाह
।केषुचिदिति । अयं भाव:-कालविशेषे देहविशेषेषु सृष्टिप्रलयविशेष: श्रूयते ।
स च न देहसंबन्धतद्वियोगमात्रं, ""तोयेन जीवान् व्यवसर्ज भूम्याम् (ना,1.4)
इति कणठौक्ते:, ।प्राक् सृष्टे: एकत्वावधारणात्, एकविज्ञानप्रतिज्ञोपपत्ते:
एकस्यैव बहुभवनसङ्कल्पादेश्चेति जीवस्यरूपोत्पत्तिनाशावेवाभ्युपगन्तव्याविति
जीवानामाप्रलयावस्थायित्ववादशङ्कानिरासाय--।नायंभूत्वा इत्यादि उक्तम् ।
तत्र चैवमुत्तरम्-जीवानां विसृष्टिर्नाम सदेहीकरणेन विक्षेप: ।
प्राक्सृष्टेरेकत्ववधारणं नामरूप विभागाभावात् । एकविज्ञानेन सर्वविज्ञानं
च सूक्ष्मचिददिद्वस्तुशरीरकस्य ब्राहृण: स्थूलचिचिद्वस्तुशरीकतया परणामात् ।
अत एव बहुभवन सङ्कल्पाद्युपपत्ति: इति । ।अजो नित्य: इत्यनययो:
पूर्वोक्तार्थस्य सङ्कलय्य निगमनरूपतया, तत्तत्कालेषुजन्मादिनिषेधेन
सर्वहदेहगतात्मजत्वादिविवक्षया वा अ पौनरुक्त्यामित्यभिप्रायेणाह
।अतस्सर्वदेहगत इति । ।पुराणशब्दमपि "अक्षरसाम्यान्नि ब्र्राूयात्'
इत्युक्तन्यायेन निर्वक्ति ।पुराऽपि नव इति । किमिदं पुराऽपि नवत्वम्,
अनुत्पन्नस्य कदाचिदपि नवत्वायोगात् । उत्पन्नत्वेऽपीदानीमपि नव इति वा
परस्तादपि नव इति वा वक्तव्यम्, पुरा नवत्वस्याविस्मयनीयत्वादित्याशङ्कयाह
।सर्वदेति ।
।पुरा शब्दस्य कालत्रयोपलक्षणतया वा,
झ्र्व्याटवृत्त्यन्तर्गताभिप्राय झ्र्यि?टकापिशब्दसमुच्चितकालान्तरतात्पर्येण
वा पुरातनोऽपि नव इति विरोधाभिप्रायेण वा निर्वाह: । ।नवशब्दोऽप्यत्र
नवत्वसहचरिताश्चर्यत्वपर: । वक्ष्यति च ।आश्चर्यवत् (2.29) इत्यादीति
भाव: । यद्वा साक्यवानामवयाप्यायनादिना नवीकरणं स्यात्, अयं तु
निरवयवत्वेनाववीकार्यतया पुराऽपि नव इति । उपपादि तझ्र्मिमटमर्थमर्जुनस्य
शङ्कयमानविषये निगमयतीत्यभिप्रायेणाह ।अत इति ।।
02.21
।य एनम् इत्युक्तविपर्ययपरे ।वेद इत्यादिश्लोके ।नित्यमिति
परमसाध्यानुवाद: । ।अविनाशिनमित्यादिकं तु तद्धेतुरित्यभिप्रायेणाह
।एवमिति । ।व्यवयशब्देनात्र जन्मनाशव्यतिरिक्तविकारा: विवक्षिता:;
अपक्षय एव वा; छेदनादियोग्यावयवविश्लेषा दिर्वा ।
।कमिति निर्धारणस्यानिर्धारितानेकव्यक्तिसापेक्षत्वादाह ।देवमनुष्येत्यादि ।
घातयतिहन्त्यो: पौनरुक्त्माशङ्कय बुद्धिस्थक्रमेणार्थमाह ।कथं नाशयतीत्
यादि । वेदितुर्विशेषण हन्तृत्वादिनिषेधो न युज्यते । आत्मनो नित्यत्वे
तदेवेदितरपि तद्धननायोगादित्याशङ्कापरिहाराय फलोतार्थ वदन् प्रकृतेन सङ्गमयति
।एतानिति । नात्र श्लोके हन्तृत्वादिमात्रं निषिध्यते; किंतु तत्प्रयुक्तं
शोचनम्; तदुत्पादकप्रकारप्रतिषेधायैव ह्रत्र ।कथं शब्द इति भाव: ।।
02.22
शङ्कापूर्वकं ।वासांसि इति श्लोकमवतारयति ।यद्यपीति । ननु सार्वंभोमादिशरीरपरित्यागे
तत्तत्कर्मानुरूनारकितिर्यक्स्थावरादिशरीरपरिग्रहसंभावनया, प्रलयवत्
अपरिगृहीतशरीरतयाऽवस्थितिति संभावनया चास्त्येव शोकनिमित्तम् ।
न च नूतनत्वमात्रं सुखाय,चिरन्त ननरपतित्यागेनापि नूतनकारागारप्रवेशादे:,
जीर्णांशुप्रहाणेन नूतनगोणीग्रहणादेश्च दु:खरूपत्वात् । न च वयमिह
मानुषादिशरीरविलयसमनन्तरम्, अभिनववसनपरिधानवत्, अनिमिषदेहादिसंग्रहमुपलभामह
इत्याशंक्याह ।धर्मयुद्ध इति । ।अधिकतेरिति कल्याणविशेषणम् । ।नव
शब्दाभिप्रेतोक्ति: ।कल्याणानीति । हर्षनिमित्तमेवेति । पुरा शोकाविषयमात्र
शोक: कृत:; इदानीं तु तद्विपरीतहर्षविषये क्रियत इति भाव:।।
02.23-24
पूर्वोक्तेन पुनुरुकिं्त दाढर्य-सुस्वग्रहणरूपप्रयोजनभेदेन परिहरन् ।नैनम्
इति श्लोकद्वयमवतारयति ।पुनरपीति । ।नैनम् इत्यादौ सार्धश्लोके वैशद्याय
पृथगुक्तं करणासामथ्र्यं विषयायोग्यत्वं च परस्परप्रतियोगितया अन्यतरत्र
इतरदन्तरभवतीति भाष्ये पृथगनपात्तम् । ।अच्छेद्य: इत्यादौ प्रत्य़ोऽहार्थ: ।
तेन ।नैनं छिन्दन्ति इत्यादिष्वपि तदर्हत्वं शस्त्रादे: प्रतिषिध्यत इति
दर्शयति ।न शक्नुवन्तीति । स्वर्गगतपदं पूर्वोक्तहेत्वनुवादतया व्याचष्टे
।सर्वगतत्वादात्मन इति । अणोरात्मन: कथं सर्वगतमित्याशङ्कया ।सर्वतत्त्वेति ।
नात्र बहुश्रुत्यादि विरुद्धं जीवविभुत्वं।सर्वगतशब्देनोच्यते;
किंत्वनुप्रवेश विशेषयोग्यतेति ।स्वभावशब्दं प्रयुञ्जानस्य भाव: ।
व्यापित्वस्य पूर्वोक्तं हेतुत्वप्रकारं प्रपञ्चयति ।
सर्वेभ्य इति ।
।अत आत्मा नित्य इति । सूक्ष्मत्वेन छेदनाद्ययोग्त्वादात्मा नाशरहित इत्यर्थ:। ।स्थिरेत्यादि ।
।स्थाणुरचल इति पदद्वयं नित्यत्वप्रपञ्चनरूपम्, नाशायोग्य त्वनाशकाविषयत्वपरं वा,
स्वाभाविकौपाधिकाविशदपरिणामराहित्यपरं वेति भाव: ।।
02.25
पूर्वोक्तानुमानानामुपलम्भयुक्तिविरोधपरिहारमुखेन सर्वदूषणपरिहारपरं
प्रकृतोपसंहारपरं च ।अव्यक्त इति श्लोकं व्याख्याति ।छेदनेति ।
शरीरादीनि यै: प्रमाणैश्छेदनादि योग्यतया प्रत्याय्यन्ते; तैस्थाऽसौ न
प्रत्याय्यते । अहं जानामि इत्यादिरूपेणैव ह्रात्मन उपलम्भ: ।
शास्त्रतस्तु नित्यत्वादि विशिष्टरूपेणेति न पूर्वौक्तानुमानानां धर्मिग्राहकविरोध
इति भाव: । निरूपितश्च ।मोक्षधर्मे व्यक्ताव्यक्तशब्दार्थ:,
"इन्द्रियैर्गृह्रते यद्दत् तत्त्व्यक्तमिति स्थिति: । अव्यक्तमिति विज्ञेयं लिङ्ग्राह्रमितीन्द्रियम्
(भा.शा.330.41) इति । ननु कुसुलनिहितबीजस्याङ्कुरायोग् यत्वे साध्ये न तावत्
व्यक्त्यपेक्षया धर्मग्राहकविरोध: । तथाऽप्यन्वयव्यतिरेकलविषयभूतबीजत्वजात्याक्रान्ततया
सामान्यतो विरोध एव भवति । तदद्वदत्रापि दृष्टसजातयतया विरोध:
स्यादित्याशङ्कयाह ।अतश्छेत्यादिविसजातीय इति । साजात्यग्राहकाभावात्
वैजात्यग्राहकाच्चेति भाव: । सहेतुकं सप्रकारं ।चाचिन्त्यशब्दार्थमाह
।सर्वेति ।। एतेन ।सौगताद्यभिमतानाम् आत्मानित्यवसाधनानां सत्त्वादीनां
तदनुग्राहतर्काणां उपलभागमादिविरोधात् मूलशैथिल्यमुक्तं भवति; ।अतश्चेति
पूर्वोक्तप्रमाणानां बाधकाभावादपीत्यर्थ:। यद्वा अनुमानान्तरमिदमुच्यते ।
तथा हि- आत्मा विकारानर्ह:, विकारित्वग्राहकप्रमाणशून्यत्वात्, यथेश्वररूपम्
इत्यन्वयदृष्टान्त:; यथा घटादि: इति व्यतिरेक:। यद्वा सामान्येन व्याप्ति: ।
यत् यादृशाकारग्राहकप्रमाणशून्यम्, तत् तादृशाकारं न भवति, यथा नीलं न
पीताकारमिति । ।अविकार्य इत्येतावति निर्दिष्टेकादाचित्कविकाराभावमात्रेण
सिद्धसाधनताझ्र्शङ्काट स्यादिति तत्परिहारकरं(कं) प्रत्ययार्थं विवृणोति
।विकारानई इति । निषेधापेक्षया वेदनस्य पूर्वकालत्वात् क्त्वानिर्देश:;
न तु शोकापेक्षया। तेनात्मवेदनस्य शोकाभावहेतुत्वमुक्तं भवति ।
अर्हसि आत्मवेदिनस्ते शोकयोग्यतैव न स्यादिति भाव: ।।
02.26
एवं देहातिरिक्तात्माभ्युपगमे शोकनिमित्ताभाव उक्त:।
अथ नास्तिकदृष्टया देहात्मवादेऽपि शोकनिमित्तं नास्तीत्युच्यते
।अथचेत्यादिना श्लोकत्रयेण । अथेति पक्षान्तरारम्भार्थ:, प्रश्नार्थो
वा ;अभ्युपमार्थो वा । ।वाशब्दोझ्र्ऽपिट विशेषणद्वयसमुच्चयार्थ: ।
2.।नित्यजातं नित्यमृतं नियतोत्पत्तिनाशमित्यर्थ: ।
उत्तरश्लोके चेममर्थं प्रपञ्चयिष्यति । न हि नित्यस्य जातत्वमृतत्वसंभव: ।
न च जन्ममरणक्रियास्वरूपं नित्यत्वेनविशेषयितुं शक्यम् ।
व्यस्तस्य नित्यशब्दस्यात्मविशेषणत्वभ्रमव्युदायसाय ।नित्यजातम् इतिवत् ।नित्यमृतम्
इति समस्योक्तम् । ।देहमिति विशेषणादिसामथ्र्यफलितमुक्तम् ।
।एवेति चशब्दार्थ:। अवधारणफलितमाह ।नदेहेति । पूर्वमात्मनो नाशाभावाच्छोकप्रसङ्ग
एवनास्तीत्युक्तम् । इदानीं देहतयाऽभिमतस्याऽऽत्मनो नाशौ सत्यपि
दुष्परिहरत्वान्महा।बाहुस्त्वं नातीव शोचितुर्महसीत्यभिप्रायेण ।एवंशब्द: ।
यद्वा पूर्वं देहातिक्तात्माभ्युपगमात् परलोकादिभयेनातिमात्रशोकोऽपि
युज्यते । इदानीं तु संसारमोचकादिवत् ।महाबाहोस्तवातोमात्रप्रीतिस्थाने
कथमतिमात्रशोक इति भाव: । ।त्वं महाबाहो इति । शूरस्य ते स्वपरमरणोद्वेगो
न युक्त इत्याकूतम् । प्रतिज्ञया हेतुसाकाङ्क्षत्वादुत्तरश्लोकस्थं वा
विशेषणद्वयसूचितं वा हेतुं निष्कृष्याऽऽह ।परिणामेति ।।
02.27
।ध्रुवमृत्युमृतादिशब्दानामर्थान्तरव्युदासाय प्रकृतोपपादकं
।जातस्येत्यादिकं व्याख्याति ।उत्पन्नस्येत्यादि । उपलभ्यत
इतित ।हिशब्दसूचितप्रमाणप्रसिद्धिरुच्यते । हेतुपरत्वेऽपि
।हिशब्दस्य,अर्थातत्तत्सिद्धि: । मृतस्य जन्माघाततिभिप्रायेण चोदयति।कथयति
। यदि केवलमौपदैशिकोऽयमर्थ: स्यात्, तदाऽप्युपगम्येत । अत्र तु ।जातस्य
हीति लोकसिद्धानुवादनोच्यते । लोके च प्रागसत एवोत्पत्तिर्दृष्टा;
न तु कदाचिदुत्पद्यनिरुद्धस्य । यदि च नष्टं पुनर्जायते, तदा
दु:खात्यन्तनिवृतेरेवशक्यत्वात् अपवर्गशास्त्रमखिलपमप्रमणं स्यात् ।
व्याधिशत्रुविजयादिप्रयासश्च निर्थकस्स्यात् । पुत्रादिमरणे च न शोचनीयम् ।
अतो नेदमुपपत्तिमदिति भाव: । परिहरति ।सत एवेति ।
नन्विदमुभयमप्युक्तम्,सत उत्पत्तिनैरपेक्ष्यात्, प्रागसतामेव च
घटादीनामुत्पत्तिदर्शनादित्याशङ्कयाह ।उत्पत्तीति ।
निर्दर्शयति ।तन्तुप्रभृतीनि हीति । अन्त्य(न्य)तन्तुसंयोगातपूर्वं दौर्घैकतन्त्वारब्धे
च त्वयाऽप्येवमिष्यत इति भाव: । उक्तं च ।नारायणाचार्यै:, ""एकस्मात्
दीर्घतमात् तन्तो: पटादेरुत्पत्तिर्दृष्टा इति । असत्कार्यवादिनं
प्रति, किम् अवयवीति कश्चिदवयवसमुदायातिरिक्त: पदार्थोल दृश्यते
कल्प्यते वेति विकल्पमभिप्रेत्य प्रथमकल्पे दूषणमाह ।असदिति ।
।एतावत् रचनाविशेषयुक्त्वमात्रमित्यर्थ:। ।वादिनोपलभ्यत इति पदाभ्यां
वाङ्मनसविसंवादमभिप्रैति । ।एतावदेवेत्युक्तमर्थं प्रपञ्चयति ।नहीति ।
द्वितीयकल्पं दूषयति ।कारकेति । यदि साङ्गयवत् वयमपि सर्वस्याप्यनागन्तुकत्वं
वदाम:, तदा भवेदेव कारकव्यापार(आदि)नैर्थक्यादिदोष: । वयं हि द्रव्याणां
सर्वेषामनागन्तुकत्वं तदवस्थानां चागन्तुकत्वं ब्राूम: ।
घटादिवत् प्रदीपादिष्वप्यवस्थान्तरापत्तिरनुमीयते । चूर्णितविशीर्णघटस्येव
तु सूक्ष्मावस्थां प्राप्त्याऽनुपलम्भ: । अतो न कश्चित् दोष इति भाव: ।
।व्यवहारविशेषोऽत्र उदकाहरणादिरभिमत:, नामान्तरभजनस्य पृथगुक्तत्वात् ।
एतेन कारणसंख्यापरिमाणबुद्धिसंस्थानादिभेद: पूर्वत्वोत्तरत्वनष्टझ्र्त्वटनष्टत्वादिरपि
निव्र्यूढ: । द्रव्यान्तरझ्र्त्वटकल्पनायां
गुरुत्वान्तरकार्यादिप्रसङ्गस्यावयवायविगुरत्वयोरन्यतरप्रतिबन्धादिना
निर्वाहश्चातिक्लिष्ट इत्यभिप्रायेणाह न ।द्रव्यान्तरेति
आहुश्च, ""यदि द्रव्यान्तरं ।कार्ये तच्च न दृश्यते ।
द्विपलं घट इत्येतद्वयपदेशो न युज्यते (भा.मो.) इति । निगमयति ।अत इति ।
तावत एवोपलम्भादन्यस्याप्यनुपलम्भात् कल्पकानां चान्यथैवपपन्नत्वादित्यर्थ:
। ननु भवतु नामोत्पत्तिद्र्रव्यस्यावस्थाविशेष:; विनाशस्त्वभावरूप:
तद्विरुद्धश्च कथं तदवस्थेत्युच्यत इत्यत्राह ।उत्पत्त्याख्यामिति ।
अयमभिप्राय:--न तावत् अभावाख्यं किञ्चित् पदार्थान्तरं विविच्योपलभामहे ।
नापि नास्तिव्वयहारादिना कल्पयितुं युक्तम्, उभयसंप्रतिपन्नावस्थान्तरादिनैव
तन्निर्वाहात् । न च श्यामावस्थाप्रहाणेन रक्तावस्थापरिग्रहे
घटनाशव्यहारप्रसङ्ग:, कपालाद्यवस्थावत् रक्तावस्थाया घटावस्थाविरोधित्वस्य
भवता।ऽप्यनभ्युपगमात् । न च भावत्वेनैकराश्यनुप्रविष्टानां
विरोधो न युज्यत इति वाच्यम्,तेजस्तिमिर-शीतोष्ण-तृणदहनादीनां
भावानामेव सहानवस्थान-वध्यघातुकत्वलक्षणविरोधदर्शनात् । अभावाभावस्य च
भावत्वस्वीकारात् । अन्यथा पदार्थत्वेनैकराशेरभावस्यापि भावविरोधो
न कथञ्चिदुपपद्यते । तदेवं विरोध्युत्तरावस्था प्रध्वंस: ।
विरोधिपूर्वावस्थाप्रागभाव: । वस्त्वन्तरगतासाधारणविरोधिधर्म एव
समानाधिकरण्यव्यधिकरणनिषेधभेदेनान्योन्याभावोऽप्त्यन्ताभावश्च ।
देशकालसंभेदविशेष:, तत्कृतावस्थाविशेषो वा संसर्गाभाव: ।
प्रतियोग्यादि भेदाच्च पितृत्वपुत्रत्वादिव्यवहारवत् अस्तिनास्तीत्यादिव्यवहारवैचित्रयमिति ।
ननु यदि कपालत्वाद्युत्तरावस्थाप्राप्तिर्विनाश, तर्हि कपालविनाशो घटविनाशो
घटविनाशएव विनष्ट: स्यादिति चूर्णावस्थायां घटोन्मज्जनप्रसङ्ग: ।
यदि च पिण्डावस्था घटप्रागभाव:, तदा पिण्डीकार(करणा)त्पूर्वं प्रागभावाभावात्
घटसिद्धिर्घटात्मयन्तभावो वा स्यादित्यत्राह ।मृदूद्रव्यस्येति ।
अयमभिप्राय:-न तावदेकैव कपालत्वावस्था घटत्वावस्थाविरोधिनी,
चूर्णत्वाद्यवस्थानामपि तद्विरोधित्वात् ।
अभावरूपं प्रध्वंसमभ्युपगच्छेतोऽपि विरोध्वस्थापरंपरा अवर्जनीया ।
तत: कपालत्वचूर्णत्वादीनां विरोधिपूर्वावस्थात्वाविशेषात् तासु सर्वावस्वस्थासु
घटविनाशव्यवहारोपपत्ति: । एवं प्रागभावेऽपि विरोधिपूर्वावस्थापरम्परा निर्वाह: ।
एवमनभ्युपगमे अ(व्य)तिरिक्तभावपक्षेऽप्युक्तदोषो दुर्वार: ।
1.तत्रापि हि यदि घटाख्यं द्रव्यं घटप्रागभावनिवृत्ति:,तर्हि घटनिवृत्तौ
घटप्रागभावनिवृत्तिरेव निवृत्तेति पुन: घटप्रागभावोन्मज्जनप्रसङ्ग:।
तथाच सति मध्ये प्रागभावस्य विच्छेदायोगात् घटएव न स्यात् ।
प्रागभावस्य च सामग्रीसम्पत्तौ भावशिरस्कत्वात् नष्टाया एव घटव्यक्ते: पुनरुन्मज्जनं
स्यात् । एवं यदि प्रध्वंशस्य घट एव प्रागभाव:, तदा घटोत्पत्ते:
प्रध्वंसप्रागभावात्पिण्डावस्थायां घटप्रध्वंस: स्यात् । तथाच सति घट एव
कदाचिदपि नोत्पद्येत, स्वप्रध्वंसे वर्तमाने स्वोत्पत्त्यायोगात्, अन्यथा
कपालवस्थायामपि तदुन्मज्जनप्रसङ्गात् । एवं च पिण्डावस्थायां घटविनाशप्रसङ्गे
विनाशस्य भावोत्तरकालीनत्वात् पिण्डात्प्रागेव घटसिद्धि: स्यात् ।
ततश्च सत्सिद्धिनाशकालयोर्दयोरैव प्रागभावप्ध्वंसौ' इति । ।पिण्डत्वघटत्वेत्यादिना,
""मही घटत्वं घटत: कपालिका कपालिकाचूर्णरजस्ततोऽणु:।
(वि.2.12.43) इति भगवत्।पराशरवचनं स्मारयति । तत्र हि प्रकरणे
नास्त्वस्त्वसत्यादिशब्दानामवस्थान्तरापत्तिनिबन्धनत्वं स्पष्टम् ।
व्याख्यातं च ।शारीरकभाष्ये । नन्वेवमपि ।जातस्य हि ध्रुवो मृत्यु:
इत्येतावदुपपद्यताम्, उत्पन्नस्य घटादेर्दर्शनात्;।ध्रुवं जन्म,मृतस्य च इति
तु नोपपद्यते, नष्टस्य घटादे: पुनरुत्पत्यत्यदर्शनात् । न च पुनरुत्पत्तिरस्य
शोकनिमित्तम्, येन तस्यावर्जनीयत्वं प्रतिपाद्येतेत्यत्राह तत्रेति ।
अयमभिप्राय:-यदवस्थस्य द्रव्यस्य विनाश:, न तदवस्थस्यैव पुनरुत्पत्तिरुच्यते;
किंतु तस्यैव द्रव्यस्यावस्थान्तरविशिष्टस्य । एकमेव हि द्रव्यं घटाकारेण
नष्टं कपालाकारेणोत्पद्यते । एकैव हि कपालावस्था घटावस्थस्य द्रव्यस्य
नाश:, कपालवस्थस्य तस्यैवोत्पत्ति:। अत एवमुपपन्नं नष्टस्योत्पत्तिरिति ।
।सैव उत्तरावस्थाप्राप्तिरित्यर्थ:। अत्र ।प्राप्तिशब्देन प्रथमक्षणागमस्य
विविक्षितत्वादुत्तरेषु क्षणेषूत्पत्तिशब्दप्रयोगाभाव उपपन्न इति सूचितम् ।
एवं सति पुनरुत्पत्तेरेवर्जनीयत्वप्रतिपादनं च नाशावर्जनीयत्वप्रतिपादनेमेव ।
तत एव शोकापनोदनार्थताऽपि युक्ता । यद्वा यदी शोकापनोदनार्थताऽपि युक्ता ।
यद्वा यदी(दि)दमचिद्द्रव्यं नष्टमिति शो।चयसि, तर्हि तदेव द्रव्यं
तदुत्तरावस्थयोत्पन्नमिति किं न प्रीयस इति भाव: ।
एकस्यैव परिणामस्य निरूपणभेदादुत्पत्त्याख्याविनाशाख्या
चेति ।उत्पत्तिविनाशाख्यपरिणामेत्युक्तम् ।
एवं प्रलयापेक्षया सृष्टेर्विनाशत्वेऽपि पुरुषार्थयोगादिविवक्षया व्यवहारव्यवस्था ।
।परिणामिन इति अपरिहार्यत्वकारणं तत्स्वभावत्वमुक्तम् ।
।इतिशब्देनापरिहार्यपदं हेत्वभिप्रायमिति व्यञ्जयति ।।
02.28
एवमपरिहार्यत्वेनाशोचनीयत्वमुक्तम् ।
अथ तत्तद्वस्तूनां प्रतिनियतस्भावत्वेन पूर्वोक्तरावस्थायां
सुखरूपत्व-दु:खरूपत्वयोरन्यतरविकानर्हानुपलभ्यदशापत्त्या चाशोचनीयत्वमुच्यते
।अव्यक्तादीनीति । ।भूतशब्दस्यात्र देहपरत्वार्थमुक्तम् ।मनुष्यादीनिति ।
।अव्यक्तव्यक्तादिशब्दानां प्रकृत्यवस्थाविशेषादि परत्वभ्रमव्युदासाय
।यादवप्रकाशोक्तसदब्राहृादिपरत्वस्य च प्रकृतानुपयोगज्ञापनायोक्तम्
।अनुपलब्धेत्यादि । ""अदर्शनादिहाऽऽयात: पुनश्चादर्शनं गत:।
नासौ तव न तस्य त्वं वृथा किमनुशोचसि (भा.स्त्री.2.12.13)
इति ह्रन्त्राप्युच्यते । ।स्वेषु स्वाभावेषु वर्तन्त इति । अयमभिप्राय:
नताददेषां द्रव्याणां मनुष्यत्वादिव्यक्तावस्था स्वभाव:,
संहतिविशेषादिसाध्यत्वात् । नाप्यव्यक्तपूर्वोत्तरावस्था,
तस्या अपि विभागादिसाध्यत्वात् अत:सामान्यत: परिणामित्वमात्रं स्वभाव: ।
ततश्च यथा परिणामिनो द्रव्यस्याव्यक्तावस्था व्यक्तमध्यावस्था च न
शोकनिमित्तम्; एवमुत्तरावस्थाऽपीति । ।एवकारोऽत्रावर्जनीयत्वपर:,
स्वाभावप्राप्तिरो वा यद्यव्यक्तावस्थैव स्वभाव:;
प्रतिबन्धकवशादव्यक्तावस्थेति मनवीथा:,
तदाऽपि प्रतिबन्धकस्यावर्जनीयत्वादागन्तुकस्य तस्य कदाचिदपगमे
पुनर्मनुष्यत्वादिसिद्धेश्चायत्नलभ्यत्वान्न कथञ्चिदपि शोचनीयम् ।
यदि तु स्वभाव एव वस्तूनां सामान्यतशशोकनिमित्तम्, तर्हि
प्रतिनियतविचित्रस्वभावानन्तवस्तुसन्तते जगति सर्वस्य सर्वदा
दु:खजलनिधावेव मज्जनमितिनेदानीं विशेषश्शोकनिमित्तमस्ति ।
अथौपाधिकस्यापि सुखहेतुर्वियोगाच्छोक:, तदा सार्वभौमत्वादेर्वा ।
अथ सुखहेतो: स्वशरीरादेर्नाशात् बिभेषि? शरीरादिरक्षणं कार्यम् ।
यदि च बन्धुवधादिनिमित्तलोकापावादादर्भीति:, तदा समर्थस्य ते
बन्धुसंरक्षणाद्यभावनिमित्तो महीयान् अपवादस्स्यात् ।
भीरुत्वादिनिमित्ता मरणातिरिक्ता चाकीर्तिस्स्यात् ।
नाचायं दुस्त्यज:शीतातपादिसांस्पर्शिकदु:खवत् शोक:,
किंत्वविचारितरमणीयाभिमानमूलतया तन्निवृत्त्या परिहार्य:; अत एव(वं)
देहात्मकमोहमहाग्रगृहितस्त्वं लोकायतसमयरहस्यत्त्वविचारेणापि न
कथञ्चिदपि शोचितुर्महसीति ।परिदेवना किंनिमित्तेत्यर्थ: ।
तदिदमुक्तम्, ।न तत्र परिदेवनामनिमित्तमस्ति इति ।।
02.29
एवमन्वारुह्रवादपरिसमापनेन पूर्वोक्तम्,स्वसिद्धान्तमेव
देहात्ममोहमूलदुरितावलीमलीसे जगति तदधिकारिदुर्लभत्वादिकथनेन
प्रशंसतीत्याह ।एवमिति । कतिपयपदविशेषितोऽयमौपनिषद1 एव
आश्चर्यवदित्यादिश्लोक:। एवमुक्तस्वभावम् इति ।एनमित्यस्यार्थ: ।
"अव्यक्तोऽयम्' इत्यादिनोक्तं वैजात्यम् आश्चर्यत्वहेतुतयाऽऽह ।स्वेतरेति ।
आश्चर्यवच्छब्दस्य पश्यत्यादिक्रियाविशेषणत्वभ्रमव्युदासायोक्तम्,
।आश्चर्यवदवस्थितमिति । आ त्मनो वैलक्षण्यकथनमेवात्रोचितमिति भाव: ।
एतेन कर्तृदृष्टान्ततया 1.।शङ्करोक्तं योजनान्तरमपि दूषितम् ।
।कश्चिदिति निर्धारणार्थमाह ।अनन्तेष्विति । ज्ञानेन हीनानां नराणामपि
पशुभिरस्समत्वदर्शनायोक्तम् ।जन्तुष्विति । ।कश्चिदित्यस्य तात्पर्यार्थमाह
।महतेति । यथा (तथा)चोच्यते, ""कषाये कर्मभि: पक्वे ततो ज्ञानं प्रवर्तते इति ।
।अन्वयशब्दोऽत्र पूर्वोत्तरवाक्यगत। कश्चिच्छब्दसमानार्थ:।परस्मा इत्यर्थलब्धोक्ति: ।
।श्रुत्वाऽपिन वेद इत्युक्ते व्याघातशास्त्रनारम्भादिदोष: स्यादित्याशङ्कयोक्तम्,
।यथावदवस्थितं तत्त्वत इति । प्रमाणिकसमस्ताकारयुक्तमनारोपितेन प्रकारेणेत्यर्थ: ।
तत्त्वेदिनोऽत्र दुर्लभत्वमात्रे तात्पर्यं,
।श्रुत्वाऽपीत्यादिनवाक्यस्यचकारयुक्तस्यानुक्तदमुच्चयार्थत्वं
तत्समुच्चेतव्यानि चाह ।चकारादिति । "देहातिरिक्तस्यात्मनो द्रष्टैव तावद्दुर्लभ:;
किमुत यथावस्थितद्ष्टा । 2.तथाविधेषु सत्स्वपि वकैव दुर्लभ:; किमुत
सकलरहस्यवक्ता । तादृशेषु सत्स्वपि श्रोतैव दुर्लभ: ;
किंपुनर्बाह्रन्तरसकलशिष्यगुणसम्पन्नतया यथावस्थितश्रोता त्वादृश:' इत्यभिप्राय:।
प्रथमश्रवणम्, ततो मननाच्छ्रवणायत्तात्मनिश्चय:, ततश्च वचनयोग्यत्त्वत्
चिरनिरीक्षणसंस्कारात् झ्र्सटविशेषदर्शनमिति वा क्रम: अत्र3 देहातितिक्तश्चेदात्मा,
किं तथा नोपलभ्यते इति शङ्कापाकरणाय दुज्र्ञानत्कथनम् ।
सर्वैज्ञातुमशक्ये वा वस्तुनि किं त्वामेकमुपालभे इति भाव: ।।
02.30
अथ यथा देवादिस्थावरान्तरेषु भूतेषु देहांशे
जातिगुणदेशकालोदुर्भेदत्वसुभेदत्वादिवैषम्यमुयपलम्यते तद्वत्
देहिन्यपि सुखित्वदु:खित्वादिवैषम्यं दृश्यते । 4. देवादिशब्दाश्च
देवत्वादिविशिष्टात्मपर्यन्ता: । एवं नित्यत्वनित्यत्वादिलक्षणवैषम्यमपि
संभाव्येतेति शङ्कनिराकरणायोच्यते ।देहीति । ।वध्यमानेऽपीति
सामथ्र्यानीतमुक्तम्; "हन्यमाने शरीरे' (2.20) इतिवत् ।
अन्यथा, ।देहे सर्वस्येत्यस्य नैरर्थक्यं, ।देहीत्वयेतावतैव देहवर्तित्वसिद्धे: ।
2.।भूतशब्दोऽत्र क्षेत्रज्ञपर्यन्त: । ।सर्वाणि इत्यादिसूचितशङ्काहेतु:
।विषमाकाराण्यपि इतयनूदित: । देवादिभेदात् तत्प्रयुक्तसुखादिभेदाच्चेति शेष: ।
।उक्तेन स्वभावेनेति । पूर्वोक्तसूक्ष्मत्वाच्छेद्यत्वादिनेत्यर्थ: । ।नित्यानि चेति ।
न तु नित्यत्वानित्यत्वलक्षणवैषम्यं त्वात्मगतमपि
तत्तद्देहोपाधिकधर्मभूतज्ञानवस्थाविशेषतारतम्यात्मकम् ।
चेतनानां देहा(वा?)दिशब्दैव्र्यपदेशस्तु शरीरस्यापृथिविसिद्धिमात्रनिबन्धन इति
भाव: । प्रकृतसङ्गतिज्ञापनाय ।सर्वानीत्यस्य व्यवच्छेद्यमाह ।न केवलं
भीष्मादीन् प्रतीति ।।
02.31-32
एवम् "अशोच्यानन्वशोचस्त्वम्' इत्यादिना "न त्वं शोचितुमर्हसि'
।इत्यन्तेनास्थानकारुण्यमपोदितम् । अथ ।स्वधर्ममित्यादिना
।मरणादतिरिच्यते इत्यन्तेन ।धर्माधर्मधिरपोद्यते ।
।अपि चेति समुच्चेतव्यहेत्वन्तरपरप्रकरणभेदद्योतनार्थ: । ।धम्र्याद्धि युद्धात्
इति वाक्यशेषप्रदर्शितं ।स्वधर्मम् इत्यस्य विशेष्यमाह ।इदं...युद्धमिति ।
स्वो धर्म: स्वस्य वा धर्म: ।स्वधर्म: । ।विकम्पितुमित्येतत्सामथ्र्यसिद्धमुक्तं
।प्रारब्धमिति । अधर्मधीहेतुं सामान्यनिषेधझ्र्विषयटमनुवदति ।प्राणीमारणमपीति ।
प्रबलं विशेषशास्त्रं निषेधशास्त्रात्,निषेधेस्याप्रसकिं्त वा स्मारयति
।अग्नीषोमीयादिवदिति । धर्मयुद्धव्यतिरिक्तस्य कस्यचितदन्यस्य
श्रेयस: क्षत्रिये स्वरूपनिषेधभ्रमं व्युदस्यन् क्षत्रियस्य प्रशस्यतरं
धम्र्ययुद्धादन्यन्नास्तीत्येतदर्थमन्वयमाह ।धम्र्यादिति । धम्र्यत्वं धर्मादनपेतत्वम् ।
तद्धेतु: ।न्यायत: प्रवृत्तत्वम् । तच्च निरायुध-निवृत्त-शरणागतादिषु
शस्त्रप्रयोगाद्यभावात् । ।हिशब्दसूचितं वक्ष्यमाणमाह ।शौर्यमिति ।
ननु अग्नीषोमीयादिवत् इत्येतदेव न संप्रतिपन्नम्, तस्यापि
हिंसात्वेनाधर्मत्वस्यावर्जनीयत्वात्। न च निषिद्धत्वमुपाधि:; न हिंस्यादिति
सामान्यनिषेधेन सत्य साधनव्यापकत्वात् । नापि विहिततरत्वमुपाधि:,
अविहिताप्रतिरिद्धेष्वपि तस्य विद्यमानत्वेन साध्यव्यभिचारात्1।
न च सामान्यनिषेधो विशेषविधिवाक्यविरोधात् सङ्कुचितविषय: व
सङकोचहेतोर्विरोधस्यैवाभावात् । सामान्यविशेषवाक्ययो:
प्रत्यवाय-क्रतुसाधनत्वपरत्वदेकस्यैव क्रतुप्रत्ययवायसाधनत्वविरोधात् ।
न च प्रत्यवायसाधनं न विधीयेतेति वाच्यम्; हरीतकीभक्षणादिष्विव
क्रत्वनुप्रविष्टप्रायश्चित्तहिंसासाध्यदु:खस्याल्पतया क्रतुसाध्यसुखस्य
च भूयस्तया तदुपपत्ते: । उक्तं च ।साङ्खयै:, ""हिंसा हि
पुरषस्य दोषावक्षयति2 क्रतोश्चोपकरिष्यति (सां.कौ.2) इत्यादि।
आह च ।पञ्चशिखाचार्य:, ""स्यात् स्वल्पस्सङ्कर:
झ्र्सटसुपरिहरस्सप्रत्यवमर्श:3.(र्ष:) (व्या.भा.1.13)इति ।
अतो।ऽग्निषोमीय(यादि)वदित्यसिद्धस्यासिद्धत्मे निदर्शनमुक्तमित्यत्राह
।अग्नीषोमीयादिषु चेति । अधर्मसाधको हिंसात्वहेतुरसिद्ध: ।
उपाधिश्च न पक्षव्यापक:, पक्षस्याहिंसारूपत्ववात्, तत एव निषेधाभावाच्चेति भाव: ।
अहिंसात्वमेवोपपादयति ।निहीनतरेति । अनर्थप्रापकव्यापारत्वं हि हिंसालक्षणम् ।
अत्र तु तद्विरीतत्वेन रक्षणत्वमेव युक्तमिति मन्त्रलिङ्गेन ज्ञापयति ।नवा इति ।
।एत नियत: । ""पशुयज्ञै: कथं हिरुौर्मादृशो यष्टुमर्हति (भा.मो. 175.34)
इत्यादिवचनाच्चेति भाव: । अस्त्वग्निषोमीयादौ श्रुतिबलादहिंसात्वम् ।
इह तु कथमित्यत्राह ।इह चेति । अयमप्यर्थ: श्रुतिस्मृतिसिद्ध इति भाव: ।
ननु ""अहिंसन् सर्वा भूतान्यन्यत्र तीर्थेभ्य: (छा.8.15.1)
इत्यादिनाऽग्नीषोमीयादेरझ्र्न्यस्यट हिंसात्वं प्रतीयते; अन्यथा ।अन्यत्रेति
तद्व्यवच्छेदणानुपपत्तेरित्यत्राह ।अत इति । अयमभिप्राय:-
न तावदिह दु:खजननमात्रं हिंसा, रक्षणरूपेषु चिकत्सकशल्यप्रयोगादिष्वपि
प्रसङ्गात् । नापि प्राणवियोजनमात्रम्, अतद्रूपेषु
सर्वस्वहरण-नारकपीडादिषु हिंसाशब्दप्रयोगदर्शनात् ।
न चायमुपचार:,नियामकाभावात्, विपरिवर्तस्यापि दुर्वारत्वात् ।
अतोऽनर्थपर्यवसितस्तादात्विकदु:खजनको व्यापारो हिंसेत्येव तत्त्वम् इति ।
ततश्च, "अन्यत्र तीर्थेभ्य:' इत्येतत्
पश्चादेर्भाविपुरुषार्थविशेषानभिज्ञपामरदृष्टयोक्तम् । तस्मिन्नपि वाक्ये
हिंसात्वं नास्तीत्येव तात्पर्यम् । उक्तं च ।मनुना, ""तस्मात् यज्ञे वधोऽवध:
(मनु. 5.39) इति । अत्रापि "वध' इति पामरदृष्टयानुवाद: ।
"अवध' इति तत्वकथनम् । यद्यपि क्रत्वनुप्रविष्टानां
सोमोच्छिष्टभक्षणप्रभृतीनां हिंसालक्षणवन्न लक्षणान्तरेण व्वयच्छेद:;
तथाऽपि तेषां प्रत्यवायानाधायकत्वचनबलादेव तथात्वमङ्गीकुर्म:;
न पुन: क्रत्वर्तया विधानमात्रेण । नन्वेवमुत्सर्गापवादन्यायस्यकीदृशो विषय:?
तादृश: एव, यत्र1 निरववाकाशविशेषवाक्यविरोधादेव
सावकाशसामान्यशब्दसङ्कोच इति निस्तरङ्गमेतत् ।।
पुनरपि प्राणिमारणस्यापि युद्धस्य प्रशंसामुखेनाधर्मभ्रममुन्मूलयति ।यदृच्छयेति ।
यदृच्छेयोपपन्नमित्यत्नोपनतत्वम् । निरतिशयसुखोपायभूतमिति ।
।स्वर्गशब्दो हि, ""यस्मिन्नोष्णं न शीतम्, ""यन्न दु:खेन संभिन्नं न च
ग्रस्तमनन्तरम् । अभिलाषोपनीतं यत् तत् सुखं स्व:पदास्पदम् (शा.भा. 6-1-1)
इति निरतिशयसुखसाधनत्वं स्वभाव: ।
फलाभिसन्ध्यादिलक्षणप्रतिबन्धकवशादन्यथात्वमिति
च्चिप्रत्ययमप्रयुञ्जानस्य भाव: । ।अप्रावृतशब्दाभिप्रेतं ।निर्विध्नत्वम् ।
।सुखिन इत्यस्य ।पुण्यवन्त इति प्रतिपदम् । न हि सुखमेवेदृशयुद्धलाभहेतु:;
अतोऽत्र ।सुखशब्देन सुखसाधनं लक्ष्यत इति भाव: । यद्वा, अत्र ।सुखिशब्द:
सुखयोग्यत्वलक्षणसंबन्धपर:। तद्योग्यत्वं च पुण्यवत्त्वमेवेति भाव: ।।
02.33
एवं युद्धस्य धम्र्यत्वेन निरतिशयसुखसाधनत्वमुक्तम् । अथ
तदकरणे प्रत्यवायमाह ।अथचेदिति । युद्धाकरणस्य ब्रााहृणादीनां
पापहेतुत्वाभावात् ।त्वंशब्द: क्षत्रियत्वपर इत्यभिप्रायेणोक्तम्
।स्वधर्मभूतमिति । इमम् इति निर्देशाभिप्रेतमुक्तम् ।आरब्धमिति ।
।मोगात् धर्मेऽप्यधर्मत्वभ्रमादित्यर्थ: । न हि युद्धस्याकरनमात्रं
क्षत्रियस्यापिप्रत्यवायहेतु:, सर्वदा युद्धकरणप्रसङ्गादित्यत उक्तं
।प्रारब्धस्येति । ।स्वधर्मफलमिति । ।धर्मशब्दोऽत्र फलपर:, अन्यथा
पौनरुक्त्यात्, अनुवादमात्रत्वेऽनिष्टप्रसङ्गपर्यवसानाभावाच्चेति भाव: ।
आगामिकीर्तिविषयत्वायोक्तं ।विजयेनेति ।
न केवलं दृष्टादृष्टरूपनिरतिशयपुरुषार्थहानि(न)मात्रम्, निरतिशयदु:खहेतुभूतं
पापमझ्र्प्यटवाप्स्यसीति वाक्ययार्थ:।।
02.34
एवं दृष्टादृष्टरूफलहानिरदृष्टप्रत्यवाश्चोक्त: । अथ दृष्टप्रत्यवायमाह
।अकीर्तिं चेति । ।अकीर्तिरिह दुष्कीर्ति:। ।न ते केवलमि1मित्यादौ,
"नापि पारलौकिकनिरतिशयपापमात्रम्' इत्यनुसन्धेयम् । ।प्रारब्धे पलायित इति ।
कान्दिशीकतया प्रथमव्यापारमप्यकृत्वेति भाव: ।
।अव्ययशब्देनाविनाशित्वाभिधानात् सर्वकालव्यापित्वमुच्यताम्;
सर्वदेशव्यापित्वं तु कथमुच्युते? इत्थम्--यद्यकीर्ति: सर्वदेशव्यापिनी न
स्यात्, सर्वकालव्यापिन्यपि न स्यात्, कालक्रमेण सङ्कोचाद्विच्छेदोपपत्ते: इति ।
यद्वा देशत: कालतश्चान्यूनत्वमेवात्र अव्ययत्वं विवक्षितम् ।
।भूतानि इति सामान्यनिर्देशात्, ।अपिशब्दान्वयबलाच्चोक्तं
।समर्थान्यसमर्थान्यपीत्यादि । अकीर्तेरिष्टत्वमाशङ्कयोत्तरार्धमुच्यत
इत्याह ।तत: किमिति । ।च: शङ्कानिराकिरणार्थ: । अर्जुनस्य
संभावितत्वहेतुनाह ।शौर्येति । सर्वसंभावितस्येति ।
पूर्वनिर्दिष्टैस्समर्थरसमर्थैश्च भूतैस्संभावितस्येत्यर्थ:।
ननु मरणदतिरेक: किं हेयतया, उपादेयतया वा ? न प्रथम:,
""जीवन् भद्रानि पश्यति (भा.वि.38.44),""आत्मार्थे पृथिवीं त्यजेत्
(भा.उ. 127.49) इत्यादिवचनात् । न द्वितीय:, प्रकरणविरोधादित्यत्राह
।एवंविधाया इति । "जीवन् भद्राणि' इत्यादिकंतु क्षत्रियापुत्रस्य तेऽद्य
नोपादेयम् । नरकायापि स्यात्, तथैव स्मृत्यादिसिद्धत्वात् ।
तथाचोत्तरस्मिन् ।रामायणे रघुनाथवाक्यम्, ""अकीर्तिर्यस्य गीयते लोके
भूतस्यकस्यचित् । पतत्येववाधमान् लोकान् यावच्छब्द: स कीत्र्यते
(।45.11.12) इति । युद्धे मरणं तु तत एव स्वर्गाय स्यादिति भाव: ।।
02.35-36
एवं धर्माधर्मभ्रमो निवारित: । अथास्थानस्नेह: क्षिप्यते
।भयात् इत्यादिना ।
।बन्धुस्नेहादित्यादि । शूरस्य सत:स्नेहकारुण्याभ्यां निवृत्तस्य
मे कीर्तिरेव स्यादिति भाव: । ।येषामित्यतिप्रसिद्धपरामर्शात्
।कर्णदुर्योधनादीनामित्युक्तम् । तेनापकारझ्र्रिटवर्गं स्मारयति ।
यद्यपि भीष्मादयो याथाथ्र्यं जानीयु:, तथाऽपि कर्णादयो न तथेतिभाव:।
।भूत्वेत्यस्य यास्यसीत्युत्तरक्रियैकरस्येन "स्नात्वा होष्यामि' इत्यादिष्वव
क्रियापेक्षया पूर्वेणापि भविष्यता कालेन संबन्धभ्रमव्युदासायोक्तम् ।इत: पूर्वमिति ।
बहुभिर्गुणैर्बहु"1त्वेन मतो हि ।बहुमत इत्यभिप्रायेणाह ।शूरो वैरीति ।
यदि शूरस्त्वं प्रागपि निर्वैर;, यदि च वैरी त्वं शौर्यरहित:, तदा हि
।महारथा न त्वां गणयेयुरिति भाव:। तत्क्षाणवधिवैरानुवृत्तिसूचनायोक्तम्
।इदानीमिति । लाघवफलं सुझ्र्निटग्रहता ।लाघवशब्देनोपचरिता ।
।सुझ्र्निटग्रहत्वं चात्र सुझ्र्निटग्रहत्वाभिमानविषयत्वात्वम्।
बन्धुस्नेहादित्याद्युक्तां शङ्कां निराकरोति ।शूराणां हीति ।
यदि शूरत्ववैरित्वयोरन्यतरन्न स्यात्, तथा
युज्येताप्यपकारेणास्थानस्नेहत्वं द्रढ¬तीत्भिप्रायेणाह ।किंचेति ।
प्रस्तुतोदन्तफलितं सामथ्र्यनिन्दाप्रकारमाह ।शूरणामस्माकमित्यादिना ।।
।शूरणामवाच्यवादांश्च बहूनिति ।। शूरान् प्रति ये न वाच्या:,
किंतु कान्दिशीकान्प्रति, तान् पारुष्याश्लीलपरिहासादिवादानित्यर्थ: ।
।अहितशब्दोऽत्र अवाच्यवादहेतुपर इत्यभिप्रायेणाह ।शत्रवो
धार्तराष्ट्रा इति । यदि च भीष्मद्रोणकृपशल्यादय: किञ्चिद्वदेयु:, तदा
शौर्यगौरवादिना सह्रेतापि । कथं पुरशूरैश्शूराभिमानिभिर्महापकारिभि:
कृतान् बहून् अवाच्यवादान् सहेथा इति भाव: । ननु गुणविशिष्टवाचिशब्देषु
हि तरबाधौचित्यम्, न जात्यादिशब्देषु; न हि घटतर इत्यादिकं प्रयुज्यत
इत्यत्राह ।तत इति । ।तत:अवाच्यवादात् । तच्छ्रवणादिति फलितम् ।
।दु:खशब्द: प्रातिकूल्यविशिष्टवाची ।
प्रतिकूललतरमितिवद्दु:।खतरमित्युक्तमित्यधिकतरशब्देन प्रत्यार्थं निष्कृत्य
वदतो भाव: । ।तवेति । नहि त्वं रथ्यापुरुष:, न च सामाध्यादिनिष्ठ:,
येनात्र दु:खिता न स्यादितिभाव: ।किंशब्द: पूर्वश्लोकोदु:खतरमरणतत्पर
इत्याह ।एवमिति । ।त्वमेव मंस्यसे इति । गाण्डीवसामथ्र्यादिनिन्दाप्रसङ्गे
धर्मपुत्रमपि हि भवान् 2.हन्तुमुद्योक्ष्यते, किंपुन: कर्णादीन् । अत इदानीं
निवृत्तोऽपि तदा दु:खतरदु:खप्रेरितो युद्धं करिष्यसीतिह्मदयम् ।।
02.37
।हतोवा इति श्लोकं पूर्वश्लोकवाक्यशेषतयाऽवतरतयति ।अत इति ।
उभयथाऽपि तव लाभ इतिभाव: । ।प्राप्स्यसे,भोक्ष्यसे इत्यर्जनं
प्रत्यभिधानऽपि-शूरस्येत्यादिसाधारणाभिधानं भीष्मादिहननस्य
तच्छ्रयोहेतुतया शोकहेतुत्वं नास्तीति ज्ञापनार्थम् ।
।श्रेयस इत्यनेन यथेच्छं स्वर्गराज्यादिसुखावपर्गान् संगृह्णाति ।
न हि हतत्मात्रात्पुरुषार्थ इत्यत उक्तं ।धर्मयुद्ध इति । ।तत एवेति ।
श्रेयस्साधनतया शास्त्रसिद्धहननादेवेत्यर्थ: । ।
परमनिश्रेयसमिति ।
।स्वर्गशब्दोऽत्रामृतत्वप्रकरणात् परमनि:श्रेयसपर:, तत्स्थानपरो वा ।
यथा, ""स एतन प्राज्ञेनात्मनाऽस्माल्लोकादुत्क्राम्यमुष्मिन् स्वर्गे लोके सर्वान्
कामान् आप्त्वा अमृतस्समभवत् (ऐ. 3.4),
""अनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति, (के.4.9)
""स्वर्गलोका अमृतत्वं भजन्ते (क.1.1.13) इति ।
"राज्यं सुराणामपि चाधिपत्यम्' (गी.2.8) इति क्षुत्रस्वर्गोपेक्षकार्जुनोद्देशेन
वचणाच्चायमेवार्थ इति भाव: । जित्वा, भोक्ष्यसे इत्युभाभ्यां फलितमुक्तम्
।अकन्टमिति। प्रतिकूलेषु जाग्रत्सु राज्यं सिद्धमपि हि न भोगाय स्यादिति भाव:।
अर्जुनानादृतराज्यभोगमात्रपर्यवसानव्युदासायाह ।अनभिसंहितेति
। मुमुक्षोर्हिराज्यभोगादिरानुषङ्गिक: । संबुद्धितात्पर्यमाह ।कुन्तीपुत्रस्येति ।
ठठझ्र्3.मृतं सूते क्षत्रिया राजपुत्री (भा.द्रो.18) इति हि प्रसिद्धम् ।
न हि सिंहीसुतेन हरिणीकुमारचरितमनुसरणीयम्। न च शुद्धक्षेत्र(क्षत्र?)जन्मना
त्वया महीयसो धर्मस्य विच्छेद: कार्य इति भाव: ।।
02.38
अवमस्थानस्नेहकारुण्यधर्माधर्मधियाकुलत्वमुपशमितम् । अथ धर्मत्वन
स्थापितस्य मुमुक्षु विषयानुष्ठानप्रकारं वदतीत्याह ।मुमुक्षोरिति ।
न हि राज्यादिकामि(मा)नामीदृशी बुद्धिरपेक्षिता ।
अतोऽल्पास्थिरदु:खमिश्रयुद्धसाध्यकत्वेन किं ममेति नाशङ्कनीयमितिभाव:।
पूर्वोक्तमातत्त्वज्ञानमनुष्ठानदशायामनुवर्तनीयतया दर्शयति ।एवमिति ।
।देहातिरिक्तमिति । सति धर्मिणि हेयविरहादिधर्मचिन्तेति भाव: ।
पौनरुक्त्यभ्रमपरिहाराय ।लाभालाभयोर्धनादिविषयत्वमुक्तम् ।
विषयमयोस्तुस्वदु:खस्वप्रङवाहयोस्समीकरणं कथमित्यत्रोक्तम् ।अविष्कतबुद्धिरिति ।
विकारो हर्षशोकादिरूप:; तदभावकथनेन विवेकादि1.
सप्तकान्तर्गतानवसादानुद्धर्षयोग्रहणम् प्र् ।युद्धायेति तादथ्र्यविभक्तिसूचिता
अन्यार्थत्वनिवृत्तिरुच्यते ।स्वर्गादीति । "मा फलेषु कदाचन' (2.47),
"एतान्यपि तु' (18.6) इत्यादिवक्ष्यमानमत्रानुसंहितम् ।
।तत इत्यस्योपयुक्तहेतुविशेषपरत्वेमेवोचितम्,आनन्तर्यादिपरत्वं तु
अनुपयुक्तमित्यभिप्रायेणाह ।केवलकार्यबुद्धयेति । ।पापशब्दोऽत्र न प्रायश्चित्तम् ।
न च कृतपापर:,नावाप्सीत्यनन्वयात् । करिष्यमाणे च न प्रायश्चित्तम्।
न च विद्याव्यतिरिक्तेषूतराघाश्लेष:। अतोऽत्रामृतत्वप्रकरणात्
ममुक्ष्वपेक्षयऽ निष्टफलत्वाविशेषण पुण्यपापरूपसकलसांसारिककर्मपर: ।
ततश्च तत्फलभूत: संसारोऽत्र लक्ष्यत इत्यभिप्रायेणाह ।दु:खरूपं संसारमिति ।
।नैवं पापमवाप्स्यसि इत्युक्ते पापहेतुत्वाभावमात्रं प्रतिभातीत्यत्राह ।संसारबन्धादिति ।
परम्परयेति शेष: । "सोऽमृतत्वाय कल्पते'(2.15) इति पूवोक्तमिह स्मारितम् ।।
02.39
अथ पूर्वप्रकरणोक्तशोकापनोदनहेतुषु प्रधानार्थेनोत्तरप्रकरणारम्भं
संगमयति ।एवमिति । ।तत्पूर्वकशब्देन आत्मज्ञानकर्मयोगयो:
क्रमयोगसाध्यत्वात् प्रथमं कर्मयोग उच्यते । पश्चात्तु तत्फलतया
"प्रजहाति यदा कामान्' (2.55) इत्यादिना ज्ञानयोगो वक्ष्यते ।
।वक्तुमिति । प्रसक्तं प्राधान्येन प्रपञ्चयितुमित्यर्थ: ।
सांख्ययोगाख्यविरोधितन्त्रत्राभिधानभ्रमम्, ।सांख्यशब्दस्यात्र "ज्ञानयोगेन
सांख्यानाम्' (3.3) इति वक्ष्यमाणज्ञानयोगविषयत्वभ्रमं च
व्युदस्यन् आह ।संख्येति । "बुद्धिर्मतिश्च मेधा संख्या संवित्तिरुपलब्धि:'
इति ।नैघण्टुका:। "पुरुषं निर्गुणं सांख्याणाम्' इत्याद्यौपनिषदप्रसिद्धया
परमात्वमवत् आत्मन्यपि 1.सांख्यशब्द उपपन्न: । न च "ज्ञानयोगेन
सांख्यानाम्' इत्यादिष्वर्थवैरूप्यप्रसङ्ग:,तद्बुद्धियोगेन सर्वत्र
तच्छब्दप्रयोगात् । सदपि च वैरूप्यं प्रकरणाद्यानुगुण्येन सर्वत्र
सह्रते । एकवचनस्य जात्यभिप्रायत्वज्ञापनाय ।आत्मतत्त्वमित्युक्तम् ।
।तज्ज्ञानायेत्यनेन तन्निर्णयमात्रवमव्ययवहित फलमितिदर्शितम् ।
।बुद्धिरिह शास्त्रनिष्पाद्यो निर्णय:। तज्ज्ञानायेति साक्षात्कारादिपर:।
आत्मत्त्वाभिधानप्रदेशमवच्छिद्याह ।न त्वेवेति । तत: परतात्तु
।
स्वधर्ममित्यादिना धर्माधर्मभ्रमत्यादिना । ।इहेत्यभिप्रेतं विवृणोति
।दूरेणेति । ।इमामिति निर्देशसूचितमविलम्बिताभिधानमाह ।अभिधीयमानामिति ।
एतेनानुष्ठानानुप्रविष्टबुद्धेस्तद्विषयाभिधीयमानबुद्देश्च भेदोऽपि
दर्शित: । यद्वा, अनुष्ठानप्रकारविषयबुद्दिजनकमभिधानं
श्ण्वित्यर्थ: । 2.एतेन कर्मयोगशब्दोऽप्यत्र बुद्धिविशेष ।3युक्त
इति । ।कर्मबन्धशब्दस्यानतिशयितार्थसमासान्तरमपाकरोति ।कर्मणा
बन्ध इति । ""तृतीया तत्कृतार्थेन गुणवचनेन (अष्टा.2.1.30) इति
तत्पुरुष: । ।बन्धशब्दस्यात्र मुख्यार्थासंभवात् अभिप्रेतमाह ।संसारेति ।
एतेनानुष्ठीयमानकर्मत्संबन्धहानभ्रमोऽपि निरस्त: ।।
02.40
ननु,।इमां शृण्वित्युक्तेऽनन्तरं ।व्यवसायेत्यादि वक्तव्यम्,मध्ये
।नेहाभिक्रम इत्येतन्न संगच्छत इत्यत्राह ।वक्ष्यमाणेति ।
उपक्रमे माहात्म्यकथनेन बुभुत्सातिशयजननाय प्ररोचना क्रियत
इति भाव:। ।इहेत्यनेन सूचितं कर्मान्तरेभ्यो वैलक्षण्यमाह
।कर्मयोग इति । अभिमुखक्रमणशङ्कां व्युदस्यति ।अभिक्रम आरम्भ
इति । उपक्रमशब्दवदयमिति भाव: । क्रियारूपस्याभिक्रमस्य
कथमविनाशित्वमित्यत्राह ।नाश: फलसाधनभावनाश इति । तात्पर्यमाह
आरब्धस्येति । प्रत्यवायशङ्काहेतुं दर्शयन् द्वितीयं पादं व्याकरोति
।आरब्धस्य विच्छेद इति । उक्तविवरणरूपमुत्तरार्धं
व्याख्याति ।अस्येति । ।संसारभयादिति ।।महत्त्वविशेषितं ।भयं
संसारभयमेव हीति भाव: । स्वल्पांशस्यापि संसारनिवृत्ति हेतुत्वं
देशकालादिवैगुण्यात् प्रमादिकाकृत्यकरणादिणा च विच्छिन्नस्याप्वश्यं
पुनस्सन्धानादिति दर्शयन् अस्य श्लोकस्योक्तार्थैकपरत्वं
संग्रहविस्तररूपोत्वेन वक्ष्यमाणापौनरुक्त्यं चाह ।अयमर्थ इति ।
कृतांशस्य कथं नाशप्रसङ्ग इति श्ङ्कायात् इहेत्यस्य व्यवच्छेयं दर्शयति
।अन्यानि हीति । ।लौकिकानीत्यतिशङ्काहेतुदृष्टान्त उक्त: । ।वैदिकानीति
सामान्यनिर्देशस्यायं भाव:---नित्नैमित्तिकान्यपि विच्छेदे सति न फलास्य
स्यु:; प्रत्यवायाय च भवेयु: । अशक्यत्यादिमूलमीषद्वैकल्यमात्रं
हि तत्र सह्रम् । काम्येषु तु अङ्गवैकल्येऽपि नैष्फल्यमिति विशेष
इति ।प्रत्यवायाय च भवन्तीति । न केवलं स्वर्गादेरलाभमात्रम्,
ब्राहृरक्षत्वप्राप्त्यादिरपि स्यादिति भाव:।।
02.41
एवं माहात्म्याभिधानव्याजेनास्य कर्मण: सर्वकर्मभ्यो
वैषम्यमुक्तम् । अथोपदेष्टतया प्रतिज्ञातां तद्विषबुदिं्ध
काम्यकर्मविषयबुद्धिभ्यो हेतुफलवैषम्येण विशिंषन्नुपदिशतित्याह
।काम्येति । ।इह इति सङ्गृहीतमाह ।शास्त्रीये सर्वस्मिन्
कर्मणीति । अविहिताप्रतिषिद्धलौकिकर्मणां भिन्नफलत्वात्
तद्विषये(यत्वे)ऽप्यैक्यं मा भूदित्यत उक्तं।शास्त्रीय इति ।
संग्राहकोपाधिकथनमिदम् । प्रस्तुतयुद्धाभिमात्रव्युदासाय
।सर्वस्मिन्निति नित्यनैमित्तककाम्यतदवान्तररविधाभेदसंग्रह:।
नानाकर्मविषयनानाबुद्धे: कथमेकत्वमिति शङ्कायां
विशेषणप्रकरणसामथ्र्यफलितेन विषयेन बुदिं्ध विशिनष्टि ।मुमुक्षुणेति ।
।व्वसायशब्देन कृत्यध्वसायभ्रमं निरस्यति ।निश्चय इति ।
पौनरुक्त्यव्युदासाय
झ्र्व्यवसायट विषयं समासांशोत्तररपदलक्ष्यं च
दर्शयन् ।मुमुक्षुणेत्युक्तमुपपादयति ।साहीति ।
।व्यवसायात्मिकेत्येतद्वयवच्छेद्यमाह ।काम्येति ।
ननु देहातिरिक्तापारलौकिकात्मज्ञानमन्तरेण कथं
देहान्तरानुभाव्यस्वर्गादिसाधनयागादिमहाप्रयासानुष्ठानमित्यत्राह
।तत्र हीति । कामनयाऽधिक्रियत इति वा, कामेनाधिकारो यत्रेति
वा ।कामधिकार: काम्यकर्म;तदधिकारित्वं वा; यद्वा तच्छास्त्रम् ।
अधिकारश्च मदभिलषितसाधनत्वान्मदर्थमिदं कर्मेत्यभिमान: ।
।देहातिरिक्तात्मशब्देन देहान्तरपरिग्रहार्हस्थिरत्वमभिप्रेतम्;
अन्यथाऽतिरेकमात्रनिर्णयेऽपि देहसमकालनाशीत्वभ्रमे
सति पारलौकिक काम्यकर्माननुष्ठानपरसङ्कात् ।
।मात्रशब्दाभिप्रेतं विवृणोति ।नात्मेति । ।आत्मस्वरूपयाथाम्यं चात्र
नित्यत्वस्वयंप्रकाशत्वानन्दत्वभागवत्प्रकारत्वस्वाभाविकापहताप्मत्वादिरूपमभिप्रेतम्
। ननु देहेत्तरकालमनुभाव्ययो: स्वर्गापवर्गयो:
क्वचिदात्मास्तित्वज्ञानमात्रमपेक्षितम् ,क्वचित्
तद्याथात्म्यनिश्चय इति कतोऽयं मनुभाव्ययो:
स्वर्गापवर्गयो: क्वचिदात्मास्तित्वज्ञानमात्रमपेक्षितम्, क्वचित्
तद्यथात्म्यनिश्चय इति कुतोऽयं विवेक इत्यत्राह ।स्वरूपेति ।
अयमभिप्राय:---कामाधिकारे याथाम्यनिश्चय: अनुपपत्तया
वा शास्त्रबलाद्वाऽपेक्ष्यते? पूर्वत्रापि यथात्मियनिश्चयाभावे
किं स्वर्गादिफलेच्छैव न स्यात्, उत तत्साधनानुष्ठानोपपत्ते:।
न तृतीय:, अविकलानुष्ठितोपायस्य फलोत्पत्तेरन्यनिरपेक्षत्वात् ।
अनुभवार्थमेवोत्पन्ट्ठनतया च तदनुभवसिद्धौ सार्वभौमादिभोगेष्विव
स्वर्गादिभोगेष्वेवझ्र्प्यटनुभववेलायामात्मयाथात्म्यानुभवेलायामात्ममयथाम्यानुभवनैरपेक्ष्यात्
। तदेतदखिलोमुक्तं ।संभवादित्यन्तेन । अनुपपत्त्याभावोऽत्र ।संभव: ।
नापि शास्त्रबलादिति वक्तुं युक्तम्; शास्त्रमपि दृष्टार्थं वा विदधीत,
अदृष्टार्थं वा ? तत्र (अत्र)केवलदृष्टार्थत्वं दत्तोत्तरम् ।
अन्यत्रापि न तावत् यागदिकरणशरीरनिर्वतकत्वम्; तदनालोचनात् ।
नापि कर्तुरात्मनस्संस्कारतयाऽनुप्रवेश:; कामाधिकारप्रकरणेषु
प्रोक्षणादिविधिवत् आत्मानं तत्तवतो जानीयात् इति विध्यभावात्;
वेदान्तविहितजज्ञानस्यातिशयितफलान्तरार्थत्वादिना कर्मशेषत्वाभावस्य
।शारीरले समर्थितत्वात् । आत्मत्त्वज्ञानभिज्ञानामपि च स्वर्गादिकफलं
प्रतिपादयन्ति हि, ""प्लवा ह्रेते अदृढा यज्ञरूपा अष्टानदशोक्तमवरं
येषु कर्म । एतछ्रेयो येऽभिनन्दन्ति मूढा: (मु.1.2.7) इत्याद्या:
श्रुतय: । ""यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चित: इत्यादि
चानन्तरमेवोच्यते । अविदुषां धूमादिमार्गेण स्वर्गारोहणादिकं
चोपनिषत्सु जोघुष्यते । अतो विध्यभावादेवाऽऽरादुपकारकत्वमपि
निरस्तम् । तदेदखिलमुक्तम् ।अविरोधाच्चेति । शास्त्रादिविरोधाभावादित्यर्थ: ।
पक्षान्तरे च शास्त्रझ्र्आन्तरटविरोध: स्यादिति भाव: मोक्षाधिकारे
तु निखिलोमिदमन्यथा । तथा हि---यथावस्थितस्वरूपप्राप्तिरेव हि
मोक्षपुरुषार्थ: । स कथमनिश्चीयमान इष्येत । कथं च तज्ज्ञानं
तदिच्छामप्यन्तरेण तत्साधनमनुष्ठीयेत । स्वरूपयाथात्म्यज्ञानं
च विहिततया साधनानुप्रवेशीति कथं तद्व्यधिकरेकेझ्र्णट साधनं
पुष्पकलमनुष्ठेतम् स्यात् । कथं च स्वरूपाविर्भावलक्षणफलानुभाव:
स्वनिश्चयशून्यस्य स्यात् इति युक्तिविरोध: । चोदयन्ति च शास्त्राणि
मोक्षस्य सर्वविधोपकारकतया आत्मतत्त्वज्ञानम् । अतस्तदभावे
शास्त्रविरोधोऽपि (ध:)स्यादिति । ननु व्यवसायात्मिकाया बुद्धे:
किमिदमेकत्वम्? न तावत् व्यक्त्यैक्यम्, तथाविधबुद्धिसन्तानसंभवात् ।
नापि विषयैक्यादेकरूपत्वम्, अङ्गप्रधानाद्यवान्तरविषयभेदेन
तदयोगात् । नापि समुदायगोचरत्वात् तद्योग:, काम्यकर्मस्वपि
तत्साम्यात् इत्यत उक्तम् ।एकफलसाधनविषयतयेति । तदेवोपपादयति
।एकस्मा इति । ।सर्वाणीति । नित्यैमित्तिककाम्यानांसर्वेषां कर्मणां
ममुक्षुणाऽनुष्ठितानां साक्षात् परम्परया वा मोक्षसाधनोपकारित्वेन
मोक्ष एक एव प्रधानफलम् । "सर्वेषामेकफलसाधनत्वम्; तथापि
क्रमभाविकर्मस्वरूपनानात्वे कथं तद्बुद्धेरैक्यमित्यत्राह ।अत इति ।
एकफलसाधनतया सर्वेषां कर्मणामेकविधि1गृहीतत्वेनैकशास्त्रार्थत्वात्
तद्गोचरबुद्धिरवान्तरकर्मभेदसद्भावसद्भावेऽप्येकशासार्थगोचरत्वादे।केत्युच्यत
इत्यर्थ: । पृथग्विधिसिद्धानां पृथग्वाक्यसिद्धेतिकर्तव्यताकानां
कथैमेकशास्त्रार्थत्वमित्यत्र उक्तप्रकारेणैवकत्वे दृष्टान्तमाह
।यथेति । आग्नेयादयो हि सेतिकर्तव्यताका: षड¬ागा: उत्पत्तिवाक्यै:
2.पृथगुत्पन्ना: समुदायानुवादिवाक्यद्वयेन समुदायद्वयत्वमापन्ना:
कामाधिकारे पुनरेकफोसाधनझ्र्त्वटवैषेणैकतयअ विधीयन्ते । तथा
चैकशास्त्रार्थगोचरतया तद्बुद्धिरप्येकैव । तद्वदित्यर्थ:। ।अव्यवसायिनाम्
इति हेतुपरमित्याह ।स्वर्गपुत्रेत्यादिना । ।फलानन्यादनन्ता इति ।
फलबाहुल्यात्बहुला:; स्वर्गांद्यनन्तफलभेदेन तत्साधननानामपि कर्मणां
भिन्नशारुार्थत्वात् तद्विषया बुद्धयोऽपि यावत्फलभेदं भेदिन्य इत्यर्थ: ।
।अनन्त-बहुशाखाशब्दयो: प्रधानाप्रधानस्वरूपभेदप्रकारभेदविषयतया
पौनरुक्त्यं परिहरन् कर्मभेदापादकत्वाभावेऽपि वैषम्यान्तरपरं
।बहुशाखशब्दं व्याचष्टे ।तत्रापीति । एकैकस्यैव बहुशाखत्वमुपपादयति
।एकस्मा इति । एकैकमपि हि काम्यकर्म प्रधानफलावच्छिन्नवेषेण
एकपादपस्थानीयम् अविरोधिगुणफलावच्छिन्नतत्तदंशभेदेन
बहुशाखं भवति । मोक्षशास्त्रे तु सर्वायु: प्राप्त्यादिकमपि
साधनानुष्ठानाद्यर्थत्वेन मोक्षोपायोगितया तदेकफलान्तर्भूतमित्युक्तम् ।
वैषम्यद्वयोपपत्तिस्थैर्याभिप्रायेण निगमयति ।अत इति ।
प्रधानावान्तरफलभेदात्यर्थ: । आकाङ्क्षाक्रमेणान्वयप्रदर्शनाया।नन्ता
बहुशाखा इति व्युत्क्रमेण व्याख्यातम् ।
ननु कथं भिन्नप्रधानावान्तरफलसाधनतयैव विहितानां
नित्यनैमित्तिककाम्यकर्मणामेकमेव फलं स्यात्;
कथंतरामेकशास्त्रार्थत्वम्? काम्यानां च कर्मणां निष्कामेन कथमनुष्ठानम्?
यदि च तत्तत्काम्यफलाभावेऽपि तत्तत्कर्माझ्र्त्काम्यकर्माटनुष्ठानम्,
तर्हि तत्तदधिकाराभावेऽपि ब्रााहृणादे: क्षत्रियादिधर्मानुष्ठान प्रसङ्ग:;
सर्वकाम्योपसंहार: फलादिविरोधात् व्याह्मत:, दुषकरश्च ।
कतिपयोपसंहारे तु किं कियदनुष्ठेयिमित्यत्र किं नियामकित्यदिशङ्कापरिहाराय
बुद्धयेकत्वबहुत्वोक्तो: फल(प्रयोजन)माह ।एतदुक्तमिति ।
नित्यनैमित्तिकयो: प्रधानफलानि अवान्तरफलानि च ।
प्राजापत्यलकादिप्राप्ति-उपात्तदुरितक्षय-अकरणनिमित्तप्रत्ययवायोपरिहारादिरूपाणि
संवलितनित्यनैमित्तकयोरप्यत्र ।नित्यनैमित्तकशब्देन संग्रह: ।
।काम्यशब्द: केवलकाम्यपर: । ननु, ।तानि सर्वाणि परित्यज्येत्ययुक्तम्,
मुमुक्षोरप्युपात्तदुरितक्षयादेरवश्यापेक्षितत्वादित्यत उक्तम् ।मोक्षैकफलयेति ।
दुरितक्षयादेरप्यन्त:करणशुद्धिद्धारेणोपकारकत्वान्न
पृथवफलत्वमिति भाव: । ।एकशास्त्रार्थतयाऽनुष्ठानीति ।
विनियोगभेदादन्वयत्र भिन्नफलत्वं भिन्नशास्त्रार्थत्वं च । अत्र
तु सर्वेषामप्येकत्र विनियुक्तानां फलैक्यं शास्त्रार्थैक्यं च युज्यते ।
सिद्धं च नित्ट्ठयकाम्यज्योतिष्टोमादावपि विनियोगपृथक्त्वमिति भाव:।
।स्वर्णाश्रमोचितानीति । कस्यचिद्धि किञ्चित्फलमुद्दिश्य कानिचित् कर्माणि
विधीयन्ते । तेषामेव कर्मणां फलान्तरार्थतया विनियोगेऽपि स एवाधिकारी
भवितुमर्हति;क्लृप्तविरोधेतु युक्ऽ त: क्लृप्तपरिग्रह:' इति न्यायात् ।
अधिकार्यन्तरकल्पने प्रमाणा भावात् ।यथा नित्यकाम्यज्योतिष्ठोमादौ,
यथा चाध्ययनस्य जपादाविति भाव: । निष्कामस्य काम्यकर्मानुष्ठानोपपादनायोक्तम्
।तत्तत्फलानि परित्यज्य मोक्षसाधनतयेति ।
।नित्यनैमित्तिकैरेकीकृत्येति एकफलसाधनतयैकशास्त्रार्थीकृत्येत्येत्यर्थ: ।
।यथाबलमिति । शक्त्यनुरोधेन हि शास्ति शास्त्रम् ।
आह च ।मनु:, ""तद्धि कुर्वन् यत्राशक्ति प्राप्नोति परमां गतिम्(मनु.4. 18) इति ।
एवं नित्यनैमित्तकयोरिव काम्येष्वपि ममुक्षो: कतिपयाङ्गवैकल्येऽपि न दोष इत्युक्तं ।
भवति । एतेन1विच्छेदेप्रत्यवायाभावकथनमपि न ज्योतिष्टोमद्यैकैकान्तर्विच्छेदपरम्;
अपि त्वामोक्षादनुष्ठेयैकशारुाार्थभूतकर्मकलापे
प्रयाजादिवदितिकर्तव्यतास्थानीयैकैकर्मानुष्ठानऽपि
देशादिवैगुण्यकृतोत्तराननुष्ठानपरमिति च दर्शितम् ।।
02.42-44
एवं काम्यकर्मविषयबुद्धितो मोक्षसाधनकर्माधिकृतान्
निन्दतीत्युपरितनश्लोकत्रयमवतारयति ।अथेति ।
।काम्यकर्माधिकृतानिति ।
काम्यर्मसु स्वर्गादिस्वाभिलषितसाधनत्वस्वार्थताबुद्धियुक्तानित्यर्थ: ।
।पुष्पितामित्येतत् फलव्यवच्छेदमुखैनासुखोदर्कत्वपरमित्यभिप्रायेणाह
।आपादरमणीयामिति । ।अल्पज्ञा इति । विविधं पश्यच्चित्त्वं हि
विपश्चित्त्वम् । ""पृषोदरादीनि यथोपदिष्टम् (अष्टा,.6.3. 109)
इति पश्यच्छब्दावयवस्य यच्छब्दस्य लोप: । तच्च बहुज्ञत्वम् ।
तद्व्यतिरेकश्दचात्रोपनिषत्साध्यस्थिरादिविवेकाभावादल्पज्ञत्वमिति भाव: ।
जन्मकर्मेत्येत्यादे: गतिविशेषणत्वभ्रमव्युदासाय ।गतिं
प्रतीत्यस्यापेक्षितपूरणाय च, क्रममुल्लङ्घय प्रागेवोपात्तं
।भोगैश्वर्यगतिं प्रतिवर्तमानामिति । एतेन ।वाचमित्येतस्य
काम्यविधिभागपरत्वमुक्तं भवति । सामान्येन वैदिकनिन्दाभ्रममपाकरोति
।स्वर्गादिफलवादा इति । ।वेदशब्दोऽत्र "वेदेषु वेदान्तेषु
च गीयते' (वि. 6.4.40) इत्यादाविव कर्मभागपर: ।
तत्रापि विधिभाग--फलझ्र्र्थटवादभागविषयतया पुरुषवाक्य-वेदावाक्यविषयतया
वा ।वाचं वेदवादेत्यनयोरपौनरुक्त्यमिति भाव: । ।नान्यदस्तीति
वादे पूर्वोत्तरपदानामर्थं हेतुतया उपादत्त ।तत्सङ्गातिरेकेणेति ।
अपवर्गस्वरूपनिषषेधोऽशक्य इत्यभिप्रायेणोक्तम् ।अधिकं फलमिति ।
।वादिन: इत्यनेन तथावदनशीलत्वविक्षाव्यञ्जनाय ।वदन्त इति
वर्मानप्रत्ययान्तेन व्याख्यातम् । ।कामप्रवणमनस इति ।
कामेषु ।आत्मा मनो येषां ते ।कामात्मान इति व्यधिकरणबहुवीहिरिति भाव:।
।स्वर्गपरायणा इति । स्वर्ग: ।पर: परायणं परमप्राप्यं येषां
ते ।स्वर्गपरा:; मोक्षविमुखा इति भाव: । ।कामात्मान: स्वर्गपरा
इति पदद्वयस्य सामान्यविशेषविषयतया दृष्टादृष्टाविषयतया
वा हेतुसाध्यविषयतया वा कामौन्मुख्यान्यवैमुख्यपरतया वा
पुनरुक्तिपरिहार: । स्वर्गादिफलभोगमध्ये जन्मादिभ्रमं व्युदस्यति
।स्वर्गादिफलावसान इति व "यावत्संपाङतमुषित्वाऽथैतमेवाध्वानं
पुनर्निवर्तन्ते' (छा.5.10.5) "प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह
करोत्ययम् । तस्माल्लोकात् पुनरेत्यस्मै लोकाय कर्मणे ।।' (बृ.6.4.6)
"आब्राहृभुवनाल्लोका: पुनरावर्तिनोऽर्जुन' (गी.8.16) "स्वर्गेऽपि
पातभीतस्य क्षयिष्णोर्नास्तीति निर्वृत्ति:' (वि.6.5.50) इत्यादिश्रुतिस्मृतय
इह द्रष्टव्या:। जन्मवत् कर्मणोऽप्यनुशयाख्यकर्मशेषफत्वख्यापनाय
समानाधिकरणसामासतां दर्शयति ।जन्मकर्माख्यफलोप्रदामिति ।
कर्मशेषेण पुनरुत्कृष्टजन्मप्राप्तौ श्रुतिस्तावत्, ""प्लवा ह्रेते अदृढा
यज्ञरूपा अष्टादशोक्तवरं येषु कर्म । एदछ्रेयो येऽभिनन्दन्ति
मूढा जरामृत्यू तेपुनरेवापियन्ति (मु.1.2.7), तद्य इह
रमणीयचरणा अभ्याशो ह यत् ते रमणीयां योनिमापद्येरन् ब्रााहृणयोनिं
वा क्षत्रिययोनिं वा वैश्ययोनिं वा,अथै य इह कपूयचरणा: अभ्याशो ह
यत् ते कपूयां योनिमापाद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं
व (छा.5.10.7) इत्यादि: । जन्मकर्मादे: सर्वस्य कर्मशेषमूलत्वे
स्मृतयश्च,""वर्णा आश्रममाश्च स्वकर्मनिष्ठा: प्रेत्य स्वकर्मफलमनुभूय
तत्तश्शेषेण विशिष्टदेशजातिकुलरूपायु:श्रुतवृत्तवित्तसुखमेधसो
जन्म प्रतिपद्यन्ते । विष्वञ्चो विपरीता नश्यन्ति (गौ.2.11.10,11)
इति । तथा ""तत: परिवृत्तौ कर्मफलशेषेण जाति रूपं वर्णं बलं
मेघां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यते । तत् चक्रवत्
उभयोर्लोकयो: सुख एव वर्तते (आ.2.1,3) इत्यादय: । ।वैराग्यपादे
चायमर्थो व्यक्तमनुसन्धेय: । अत्र 1.।जन्माख्यकर्मफलप्रदामिति
केषुचित् कौशेषु पाठ: । ननु ज्योतिष्टामादिक्रियाविशेषस्वरूपमात्रं
कामिनो ज्ञानिननश्च समानम्; तत् कथं ।क्रियाविशेषबहुलाम् इति
कामिनो विशिष्याभिधीयते? तत्रोक्तम् ।तत्त्वज्ञानरहिततयेति ।
ज्ञानिना हि सर्वं कर्म क्रियमाणमपि ज्ञाणमपि ज्ञानप्रचुरमेव ।
तच्चैकफलसाधनतया एकशास्त्रार्थरूपम् । न च मोक्षानुपयुक्ता: सर्वे
क्रियाविशेषास्तेन क्रियन्ते । अत: प्रयासबहुलं परिमिनश्वरफलं
चामुमुक्षो: कर्मेति भाव: । 2.अन्येषां वाचा अन्येषामपह्मतचित्तत्वभ्रमं
निरस्यन् ष्ष्ठयन्तपदयोरददृष्टविशेष्ययो: प्रस्तुतविशेप्यविषयत्वं
चाह ।तेषामिति । ।तयेति यद्वृत्तप्रतिनिर्देशरूपव्याख्येयोपादानम् ।
तत्परामृष्टं प्रकृतं चेतोपहरणहेतुमाह ।भागैश्वर्यविषययेति
यद्वृत्तप्रतिनिर्देशरूपव्याख्येयोपादानम् । तत्परामृष्टं प्रकृतं चतोपहरणहेतुमाह
।भागैश्वर्यविषययेति। अपह्मतचेतसाम् इत्यस्य पूर्वपदेनार्थपौनरुक्तयपरिहाराय,
तदर्थस्य प्रकृतव्यवयात्मकबुद्धयभावहेतुत्वाय चोक्तम् ।अपह्मतज्ञानानामिति ।
यथोचिदितेति प्रागुक्तप्रकारेत्यर्थ: ।न विधीयते केनचिद्धेतुना न क्रियत इत्यर्थ: ।
तत: फलितमुच्यते नोत्पद्यत इति । ।समाधिशब्दस्य बुद्धिविशेषविवक्षायामात्रानन्वयात्
मनोविषयत्वे व्युत्पत्तिमाह ।समाधीयतेऽस्मिन्निति । निधीयतेऽस्मिन्निति निधिवत् ।
।यथोलदितेत्याद्युक्तं प्रकारं विवृणोति ।तेषां मनसीत्यादिना ।
।विधीयत इति वर्तमाननिर्देशतात्पर्य सिद्धम् ।कदाचिदपीति ।
एषां निन्दा किमर्थेत्यत आह ।अत इति । व्यवसायात्मकबुद्दिविरोधादित्यर्थ: ।
।मुमुक्षुणा न सङ्ग: कर्तव्य इति निस्सङ्गेन काम्यानामपि करणमनुमन्यते ।
स्वरूपमात्रस्य मोक्षविरोधित्वाभावात् । मोक्षेच्छेऽस्ति चेत्, बन्धकेच्छा
न कार्येत्युक्तं भवति ।।
02.45
अथैवं काम्यकर्मसु तदधिकृतेषु च निन्दितेषु हिततमोपदेशिन:
शास्त्रस्येदृशकर्मविधानमनुपपन्नम् । विहितस्य चात्र त्याज्यतयोपदेशो
व्याह्मत:; कर्मविधिशास्त्राणामप्रामाण्यं वा,तत्प्रामाण्यं वा ।
(?)...तत्प्रामाण्ये वा तन्निषेधोपदेशस्याप्रामाण्यं प्रसज्यत इति
शङ्कामुत्तरश्लोकद्वयेन परिहरतीत्याह ।एवमत्यल्पेत्यादिना ।
पुनर्जन्म येषां प्रसवभूतं तानि ।पुनर्जन्मप्रसवानि ।
संसारविपिनवानस्पत्यानां हि कर्मणां परिणनंसो: फलस्य
नियतपूर्वत्वसूचकत्वादिभिर्देहविशेषपरिग्रह: प्रसूस्थानीय:।
प्रियहोतोपदेशितया ।मातापोत्रोरुपादानम् । सर्वजन्मानुवृत्तिसूचनाय
।सहरुाशब्द: । सर्वात्मसाधारणतया चतुर्विधपुरुषार्थ-सकलापुरुषार्थृ
निवृत्तितत्साधनाभिधायितया कदाचिदप्यनुपरमादिना च
।वत्सलतरत्वोक्ति: । अतिशयहेतुत्रयम् ।आत्मोज्जीवने प्रवृत्ता इति
त्रिभि1स्सूचितम् । न हि देहादेरारोग्यादिमात्रे कदाचिदेव व्यापृता इति
क्रमात्रयाणां भाव: । ।किमर्थं वदन्तीति । न तावत् प्रतारणार्थंम्,
हितोपदेशित्वात् । नापि हितान्तरपर्यवसितोपच्छन्दनार्थं,
प्रतिप्रकरणं तत्तत्फलमात्रपर्यवसितत्वात् ।
अतोऽनघेयातिशयपरमकारुणिकपुरुषोत्तमाज्ञारूपाणां
वेदानामामूलापर्यवसानमपरिमितदु:खदुर्दिनानुबन्धिसुखकणखद्योतसाधनोपदेशो
विषसंपृक्तमधुभोजनोपदेशवत् अयुक्त:; निषेध एव तु तत्र कर्तव्य:।
यद्वा न सोऽपि, प्रत्यक्षादेस्तत्प्रसञ्जकत्वाभावात्; स्वयं प्रसज्य
प्रतिषेधस्य जम्बालमज्जनक्षालोनसमत्वादित्यभिप्राय: । ।कथंवेति ।
वेदविरुद्धं हि त्याज्यतयोपदेश्यम्, न तु वेदविहितमिति
भाव: । ।त्रयो गुणास्त्रैगुण्यमिति । अत्रार्थन्तरासंभवात्
"चातुर्वर्यादीनां स्वार्थ' इत्युपसङ्खयानात् स्वार्थिकप्रत्यय: ।
।गुणशब्दस्य प्रयोगपाचुर्यात् संख्याविशेषान्वयबलात्
वक्ष्यमाणपर्यालोचनाय सुद्धमर्थविशेषं निर्दिशति ।सत्वरजस्तमांसीति ।
स्वर्गादिफलोकरणेतिकर्तव्यताधिकारिविशेषादिविषया हि वेदा:; न पुन:
सत्त्वरजस्तमोविषया दृश्यन्त इत्यत्राह ।सत्त्वरजस्तम:प्रचुरा इति ।
तत्तद्गुणपाचुर्यात् पुरुषास्तत्तच्छब्देनोपचर्यन्ते । भाष्यान्तरोक्ता
तु फललक्षणा मन्दा; अधिकारिव्यवस्थापनं त्वत्रोपयुक्तमामिति भाव: ।
अस्त्येवं गुणत्रयप्रचुरपुरषविषया तत्तद्विधिनिषेधविषयाधिकारि
वैचित्र्याभिव्यक्त्यर्थं ।तम: प्रचुरानानमित्यादिपृथड्निर्देश: ।
सामसाद्यधिकारिबाहुल्याल्पत्वाल्पतरत्वप्रकाशनाय
।सत्त्वरजस्तमसामत्र व्युत्क्रमपाठ: ।
ततश्च क्रमादैहिकामुष्मिकापरवर्गाभिलाषिणि उपलक्ष्यन्ते ।
।सत्त्वप्रचुराणामिति दृष्टान्ताभिप्रायम् । अत एव ह्रुपपादकग्रन्थे ।यद्येषामित्यादिना
रजस्तमप्रचुराणामेव ग्रगहणम् । ।स्वगुणानुगुण्येनेति ।
यथा वातपित्तकफोपात्तशुद्धसमसङ्कीर्णप्रकृतीन् पुरुषान् आलोच्य
हितोपदेशिनो वैद्यास्तत्तत्प्रकृतत्यनुकूलं भोजनभेषजाति
विदधति, 2.अपथ्या(असात्म्या)दीनि च निषेधन्ति; तदभावे च यथा
दुरुपदेशादिमूढाचेतस: प्राणिनोपऽपथ्यगरलादिसेवया प्रणश्यन्ति,
यथा च ताम्बूलाद्यर्थिन: पुत्रा: पित्रादिभिस्तत्प्रदानभावो
चौर्यादिना प्रणश्यन्ति, तथाऽत्रापीति भाव: । ।मोक्षवैमुख्यं
।स्वापेक्षितफलसाधनज्ञानं च तम:कृत्यम् । ।कामप्रावण्यादिकं
तु यथांशं रजस्तम:कृत्यम्; ।कामप्रावण्यविवशा:
काम्यफलाभिसन्धिबलोनात्मानं नियन्तुमशक्ता: । अनुपादयेष्वित्यादि ।
यथा बद्धादय इति भाव्यम् । ।प्रणष्टा भवेयुरिति
दुष्कर्मविपाकेन स्थावरादिभावमप्याश्रित्याचित्कल्पतया
पुरुषार्थयोग्यतागन्धरहिता भवेयुरित्यर्थ: ।
।अत इति उक्तप्रकारेण काम्योपदेशस्य हिततमत्वादित्यर्थ:।
।त्वं त्विति तुशब्देननाधिकारिवैषम्यं द्योतयति । किमस्याधिकारिणो वैषम्यम्,
कथं च संसारिणिस्त्रैगुण्यनिषेध:; तथा सति ।नित्यतत्त्वस्थ: इत्यनेन
विरोधश्च स्यादित्यत्राह ।इदानीं सत्वप्रचुर इति । शिष्यस्तेऽहम् (2.7)
इत्यादिवचनपरामर्शादिदमुक्तम् । ।अर्जुनशब्दसबुद्धितात्पर्यलब्धो
विशेषोऽस्य सत्त्वप्राचुर्यम् । अर्जुनशब्दस्थावदातपर्यायत्वात्
सत्त्वस्यापि शुक्लशब्दव्यपदेशादधिकारिवैषम्यस्य चापेक्षितत्वत् तथा
प्रसिद्धयादिबलाच्चेदमेवात्र तात्पर्यम् । तदेव वर्धयेति ।
न तु सिद्धं सत्त्वप्राचुर्यं परित्यज्य विहिताकरणनिषिद्धकरणादिना
रजस्तमसी वर्धयेत्यर्थ: । निस्त्रैगुण्यो भव इति निषेधे
गुणत्रयसाधारणे सति कथं सत्त्वं वर्धयेत्युच्यत इत्यत्राह
।नान्योन्येति । सत्यं गुणत्रयसाधारणो निषेध:; स तु संकीर्णविषय:,
अन्यथा ।नित्यसत्त्वस्थ: इति वक्ष्यमाणानुपपत्ते: आशीरूपमिव दृश्यत
इत्यत्राह ।न तदिति । रजस्तम:प्राचुर्यहेतुभूताहासदिकं परित्यजेत्युक्तं भवति ।
इति भाव: । एतेन(?) फलस्वरूपं वा साधनाष्ठानदशासमकालीनस्वास्थ्यं
वा द्वन्द्वतितिक्षारूपेतिकर्तव्यता वा विवक्षिता । ।गुणद्वयारहितेति ।
नित्यसत्त्वस्थपदमब्भक्षादिवतवधारणगर्भमिति भाव: ।
यद्वा नित्यपदेन कदाचिदपि गुणान्तरानभिभूतत्वमिहाभिप्रेतम् ।
अत एव च ।प्रवृद्धत्वम् । गुणान्तराभिभवे हि नित्यप्रवृद्धिर्न स्यादिति भाव: ।
सत्त्वप्राचुर्यं वर्धयेति विधिश्च नोपपद्यते । न ह्रसौ----एतद्रज:,
इदं च तम:, इदमहं वर्धयामि इति बुद्धया प्रवर्तते; यतो
निषिद्धयेत, यतश्च सिद्धे रजस्तमसी शमयेत् । न चासौ सत्त्वतदुपायौ
जानाति, येन तत्र प्रवर्तेत । अत: किमसौ कथं कुर्यादित्यादभिप्रायेण
शङ्कते ।कथमिति चेदिति । तत्र निषेधस्य विधेश्चोपपादकतया
।निर्योगक्षेम आत्मवान् इति पदद्वयं क्रमाद्व्याचष्टे ।आत्मस्वरूपेत्यादिना ।
।निर्योगक्षेम: इति सामान्येन निषेधो मुमुक्षोर्विहितव्यतिरिक्तविषय
इति ज्ञापनाय ।बहिर्भूतानामित्यन्तमुक्तम् । ।आत्मवान् भव इत्यत्र
मत्वर्थानुपपत्तिमाशङ्कयाय---।आत्मस्वरूपान्वेषणपर इति ।
स्वस्यैवाप्रमत्ततागर्भस्वबुद्धिविशेषत: प्राप्त्यपेक्षया संबन्धविषय:
प्रत्यय: । यद्वा स्वरूपान्वेषणादेव ह्रमात्मानं लभते, अन्यथा
आत्महानिरेव स्यादिति भाव:।एवं निषेधस्य विधेश्चानुष्ठानाय विषय
उक्त: । तत: किमत्यत्र तदुभयाधीनं फलद्वयमाह ।एवमिति ।
न साक्षात् गुणान् विषयीकृत्य तव किञ्चित् कर्तव्यम् । तेषां तु
निर्योगक्षेमत्वत्वाभ्यामसात्त्विकाहारादित्यागहेतभ्यां स्वयमेव यथार्हं
नाशोन्मेषौ स्यातामिति भाव: ।।
02.46
अथ सनिदर्शनमधिकारिभेदं प्रतिभादयन्तं ।यावानर्थ: इति श्लोकं व्याचष्टे ।न चेति ।
वर्णाश्रमप्रवरचरणादिभेदेन प्रतिनियताधिकारिविषया हि वेदोदिता धर्मा इति भाव: ।
।सर्वार्थपरिकल्पित इति ततत्प्रयोजनाभिलाषिसर्वाधिकार्यर्थ परिकल्पिते ।
एतच्च ।सर्वतस्साप्लुतोदके इत्यनेनार्थसिद्धमुक्तम् ।
।उदपानं कूपतटाकादि । ।पिपासोरिति दाष्र्टान्तिकप्रस्थानानुरोधेनाध्याहार: ।
नन्वत्र दृष्टान्तदाष्र्टान्तिकयो: का सङ्गति:? नहि पिपासोरुदपाने
यावत्प्रयोजनं, तावदेव विजानसस्सर्वेषु वेदेषु इत्याशङ्कां परिहर्तुं
वाक्यपरणायाध्याह्मत्योक्तम् ।तावदेव तेनोपादीयत इत्यादि ।
।सर्वेषु चेति चकार उपादयानुपासदेयांशसङ्कलनद्योतनार्थ: ।
ननु ।ब्रााहृणस्येतत् प्रकरणासङ्गतम्, क्षत्रियायैव ह्रुपदिश्यते । कश्चात्र
ब्रााहृणस्य विशेष:, ब्राहृविद्याया अपि त्रैविर्णिकसाधारणत्वात् ।
।विजानत इति चायुक्तम्; विजानन्नेव हि कामाधिकारदिष्वपि प्रवर्तते ।
।ब्रााम्णशब्दश्चात्र न, "तदधिते' (अष्टा.4.59) इत्याद्यर्थान्तरपर: "ब्रााहृोऽजातौ'
(अष्टा.6.4.171) इति पररूपे कृते प्रज्ञादित्वादण्प्रत्यये च ब्रााहृण इति
रूपं भवति । ब्राहृचात्र वेद:, वेदेष्विति अत्रैव प्रसक्तत्वात् ।
अतोऽत्र ब्रााहृणशब्दो वैदिकमात्रपर इति न क्षत्रियार्थोपदेशाद्यनुपपत्ति: ।
ब्रााहृशब्दस्यात्र सन्न्यासिपरत्वेन ।शङ्करव्याख्या त्वतिमन्दा ।
""अमौनं च मौनं च निर्विद्याथ ब्रााहृण:(बृ5.5.1.)इति श्रुतिस्तु
योगिन: प्रकृष्टतरसत्त्वम(त्त्वा?)वस्थाविशेषमाह । विजानत इति च
विशिष्टज्ञानवत्त्वमुच्यते । विशिष्टत्वं च हेयोपादेझ्र्विभागटविषयतया ।
तथाविधज्ञानवांश्च मुमुक्षुरेव स्यादिति । ।तावानित्यस्य व्यवच्छेद्यमाह
।नान्यदिति । वेदोदितमपि न मोक्षसाधनव्यतिरिक्तमुपादेयम्, अनधिकृतत्वात् ।
न ह्रन्यवर्णाश्रमान्यफलकामुकादिधर्मोऽन्यस्योपादेय इति भाव: ।।
02.47
एवं तर्हि मोक्षसाधनेतरसकलपरित्यागे
नित्यनैमित्तिकनिषेधशास्त्रतिलङ्घनेन कामचारदोष: स्यात्; तावानितिज
च कियानुच्यत इति शङ्कयामुत्तरश्लोकमवतारयति ।अत इति ।
न कामचारोष:,तत्तत्फलपरित्यागेन साधारणस्वरूपमात्रस्योपादेयत्वादिति
भाव:। ।कर्मणि इति सामान्यशब्दस्य योग्यान् विशेषान् आह-।नित्य इत्यादिना ।
।केनचित् इत्यादिकं राशित्रयेऽपि संबध्यते ।
तेन नित्य नैमित्तिकयोरपूर्वमात्रार्थतामिच्छतां कुदृष्टीनां दृष्टिरपह्मता ।
कर्मान्तराधिकार---उपात्तदुरिक्षय-अकरणनिमित्तप्रत्यवायपरिहार-प्राजापत्यादिश्लोक
-पशुपुत्रादि यथासंभवं नित्यादे: फलम् । ।फलविशेषणेति ।
यथौत्पत्तिवाक्यै:स्वरूपेणैवोत्पन्नानां कर्मणां काधिकारे
स्वर्गादिफलविशेषेण संबन्धितया श्रुतत्वात्स्वर्गादिकं फलमिष्यते;
एवं मोक्षाधिकारेऽपि मोक्षाख्यफलविशेषेण संबन्धितया श्रुतत्वात्
सोऽपि फलमिति भाव: । ।ते इति शब्दस्य प्रकृतान्विततात्पर्यमाह
।नित्यसत्त्वस्थस्य मुमुक्षोरिति । मोक्षतत्साधनाविधि:;
किंत्वाभावमात्रबोधक इति ।न कदाचित्दित्युक्तम् । फलयोग्यतानिषेधात्
तत्स्ङ्गनिषेधोऽपि फलित:। कर्ममात्राधिकारे फलानधिकारे च
बुद्धिस्थक्रमेण हेतुद्वयमाह--।सफलस्येति । न हि मोक्षमिच्छतो
बन्धरूपफलाभिलाष उपपन्न:; न च तद्धेतुपरित्याग उचित इति भाव: ।
।केवलस्येत्येतन्न फलङाहित्यमात्रपरम्, ।फलहितस्येत्युक्तत्वात्;अपि
तर्हि स्वरूपत एव प्रयोजनत्वपरम् । तत्र हुतु: ।मदराधनरूपस्येति ।
।कर्मफलयोरिति । पुनरुक्तिप्रसञ्जकषष्ठीसादपि उभयपदार्थप्रधानो
द्वन्द्व एवोचित:; वक्ष्यमाणाकर्तत्वानुसन्धानसंग्रहश्चात्र युक्त इति भाव:।
"कर्मण्येवाधिकारस्ते', "मा ते सङ्गोऽस्त्वकर्मणि' इति
पूर्वोत्तरवचनाभ्यामयं कर्महेतुत्वनिषेधो व्याहन्येतेत्यत्राह ।त्वयेति ।
नात्र वस्तुतो हेतुत्वं निषिध्यते; अपितु हेतुत्वानुसन्धानमित्यर्थ: ।
ननु फलोहेतुत्वनिषेध: पुनरुक्त:;।मा फलेषु कदाचन इत्युक्ततत्वात् ।
यदि तु भोजनादिसाध्यक्षुन्निवृत्त्यादिफलनिषेध:; तदा तदुपायरागस्यापि
निवृत्तेश्शरीरधारणादेरप्यभावप्रसङ्गेनोपायानुष्ठानस्यैव
लोप: स्यादित्यात्राह ।फलस्यापीति । ।क्षुन्निवृत्त्यादेरित्यनेन पौनरुक्त्यं परिह्मतम् ।
।न त्वं हेतुरित्यनुसन्धेयमिति। नात्र क्षुन्निवृत्त्यादिस्वरूपं निषिध्यते;
अपि त्वात्मनसतद्धेतुत्वानुसन्धानमिति भाव: । ननु कथं कर्मफलयो:
स्वयं हेतुस्सन् न हेतुरित्यनुसन्धीयते? एवं च चार्वाकदिवत्
अनयोर्निर्हेतुकत्वमुसन्धेयं स्यात्; ततश्चोपायानुष्ठानमेव हीयते;
अहेतुकतया बुध्यमाने प्रयासायोगादित्यत्राह ।तदुभयमिति ।
।उभयं कर्महेतुत्वं फलहेतुत्वं च । ।उत्तरत्रेति । अयमेव हि तृतीयाध्यायप्रधानार्थ: ।
तथा हि ।संग्रह:, ""असक्त्या लोकरक्षायै गुणैष्वारोप्य कर्तृताम् सर्वेश्वरे वा
न्यस्योक्ता तृतीये कर्मकार्यता (7)इति । एवमहेतुकत्वचोद्यं तावत् परिह्मतम् ।
तथाऽप्यात्महेतुकत्वानुसन्धाननिषेधेन अननुष्ठानप्रसङ्गतदवस्थ
इति चेत्- मैवम्; न ह्रत्रानुष्ठानस्याननुष्ठाठतयाभ्रान्तिरुच्यते;
येन विरोध: स्यात्; किंत्वनेकहेतुके कÏस्मश्चिदेकस्यैव
हेतुत्वम्त्रैगुण्याद्युपाधिके स्वरूपप्रयुक्तत्वं च भ्रान्तिसिद्धमिति
तदुभयं निषिध्यते । वक्ष्यते हि "शरीरवाङ्मनभि:'(18.15)
इत्यादौ, तृतीयाध्याये च । किं च, साक्षात्कर्तृत्वाननुसन्धानविधावपि
नाकर्तृत्वानुसन्धान--कर्तृत्वपतिपत्तिनिषेधयोरप्यननुष्ठानप्रसङ्ग: ।
स हि कुर्वन्नेव स्वकृतोपकाररनिगूहनवत् आहार्य(र्याव)बोधन तथा
प्रतिपद्येते। 1.अन्यत्र वा कर्मणि क्रियमाण इति न कश्चिद्दोष:।
।सर्वेश्वर इति निर्देश: तस्मिन् कर्तृत्वाध्यवसायौचित्यार्थ: ।
जीवस्यापि हि कर्तृत्वं तत्त्वत: परमात्मायात्तमिति "परात्तु
तच्छØते:'(ब्रा.2.3.40) इत्यधिकरणे स्थापितम् । पूर्वोत्तरवाक्याद्यविरोधाय
कर्मफस्वरूपपरित्यागं परिहरति ।एवमिति । गुणेश्वराधीनत्वबुद्धावपि
किं मे परित्यक्तफलेन दु:खस्वरूपेण भोजनादिकर्मणेति त्वया
नोदासितव्यमिति भाव: । ।अननुष्ठानइति । ।अकर्मणीत्यत्र कर्मशब्द:
क्रियावाची, नञप्यत्र तदभावपर इति भाव: । अननुष् आनस्य प्रतिषेधार्थं
प्रसङ्गं स्मारयति 2.।न योत्स्यामीति । अकर्मकसङ्गनिषेधफलितमन्यत्र
सङ्गमाह ।उक्तेनेति ।।
02.48
अनन्तरग्रन्थं संगमयति ।एतदेवेति । अवधारणेनार्थान्तरपरत्वव्युदास: ।
।स्फुटीकरोतीति पौनरुक्त्यपरिहार:। ।राज्यबन्धुप्रभृतिष्विति ।
राज्यप्रभृतिषु सङ्ग: फलोद्वारा बाधक:; बन्धुप्रभृतिषु सङ्गस्तु युद्धाद्यननुष्ठानद्धारेति
तदुभयमपि त्याज्यतवादत्र ।सङगशब्देन संगृहीतामिति भाव: ।
युद्धादीनीति पूर्वोक्तानुसन्धाननाह ।विजयादीति । 3.योगस्थ:,
सिद्धयसिंद्धयोस्समोभूत्वेत्यनयोरेकवाक्यत्वे पौनरुक्त्यात् भिन्नवाक्यत्वे तु
तादृशश्रुतिवाक्यविशेषोपबंहणौपयिक।योगशब्दार्थव्याख्यानरूपत्वेनापौनरुकत्याच्च
।कुर्वितीदमावर्तितम् । विद्याविनयसंपन्ने(5.18)
इत्यादिप्रदेशान्तरोक्तसनत्वान्तरव्यावर्तनायोक्तम् ।तदिदं
सिद्धयसिद्धयोरिति । सार्वत्रिकयोगशब्दप्रयोगविषयव्यावृत्त्यर्थमुक्तम्
।योगस्थै इत्यत्रेति । योगशब्दस्य सिद्धयसिद्धिसाम्ये ।
क्वचिदपि प्रयोगो न दृश्यत इत्यत्राह ।योग इति । ।चित्तसमाधाने प्रयोगस्तावत्
।योगानुशासनादिसिद्ध:; इदमपि समत्वं दद्रूपमिति योगशब्दार्थ इत्याहूतम् ।।
02.49
अभ्यासरूपतात्पर्यलिङ्गविवक्षामभिप्रयन्
पौनरुक्त्यशङ्काद्वारेणोत्तरश्लोकमवतायति ।किमर्थमिति ।
।इदं साम्यानुसन्धानरूपं चित्तसमाधानम् । तद्धयनन्तरं प्रशस्यते ।
कर्ममात्रनिन्दाभ्रमं परिजिहीर्षन् ।बुद्धियोग शब्दस्य प्रकरणविशेषितं वाच्यांशं
तावदाह ।योऽयमिति । अजहल्लक्षणया बुद्धिप्राचुर्यहेतुकतया लक्षितमाह
।
तद्युक्तात्कर्मण इति । ।इतरदित्यनेन प्रकरणविहितकर्मव्यतिरिक्तविषयाऽत्र
कर्मनिन्देति सूचितम् । ।दूरावरशब्योरत्र विवक्षितम् निष्कर्षयति
।महदिति । तृतीया प्रकारे । कृपणा: फलहेतवइत्यनन्तरवाक्येन,
।बुद्धियुक्त इत्यादिना च वक्ष्यमाणं श्रुतिस्मृत्यन्तरादितश्च सिद्धं
वैरूप्यप्रकारमाह ।उक्तेति । नीतिमन्त्रौषधकेवलयागादिव्यावर्तनाय
।निखिल2.(दु:ख?) शब्द:। तस्योपाधिविशेषावच्छिन्नत्वात् कार्त्स्न्येऽपि
प्रयोगादवच्छेदकोपाध्यन्तरव्यावर्तनायोक्तम् ।सांसारिकेति ।
केवलकर्मसाध्यस्वर्गादिव्यावर्तनाय ।परमशब्द:। ।अपरिमितशब्देन
स्वभावसंख्याकालादिप्रयुक्तसंभावितसमस्तपरिच्छेदनिरास: ।
।हिशब्दस्य हेत्वर्थतामभिप्रयन् आह ।अत इति ।
प्रकरणादिविरुद्धसाङ्खयाद्युक्तकर्मस्वरूपपरित्यागपूर्वकज्ञानमात्रोपादानभ्रमव्युदासायोक्तं
।कर्मणि क्रियमाण इति । ।उक्तायामिति । तात्पर्यातिशयव्यक्त्यर्थं
पूर्वोक्तमभ्यस्यत इति भाव: । "" उपाये गृहरक्षित्रो:
शब्द: शरणमित्ययम् (अहि.36.34) इत्यादिनाऽवगतं
।शरणशब्दस्य रक्षकाद्यर्थान्तरं व्यावर्तयन् विवक्षितं
वक्तुं वाच्यं तावदाह ।वासस्थानमिति । नन्विदमसङ्गतं
बुद्धेर्वासस्थानभूतगृहाद्याश्रयत्वाभावादित्यत्राह ।तस्यामेवेति ।
कर्मयोगनिष्ठा ह्रत्रोपदिश्यत इति भाव:
""कदर्ये कृपणक्षुद्रकिंपचानामितंपचा: (नाम.3.वि.49)
इति ।कृपणशब्दस्य पुरुषैविशेषे रूढत्वात्, ।बुद्धियुक्त इत्यादिना
फलाभिसन्धिरहितपुरुषाणां प्रशस्यमानत्वात्,"मा कर्मफलहेतुर्भू:'
(47) इति पुरुषे फलहेतुशब्दस्य प्रकृतत्वात् ।कृपणा: फलोहेतव:
इत्यत्रापि फलाभिसन्धिपूर्वककर्मकारिण: पुरुषा एव निन्द्यन्ते, न तु
फलहेतुमात्रमित्यभिप्रायेभणाह--फलसङ्गादिनेति ।
पुरुषाणामपि हि स्वकर्मद्वारा फलहेतुत्वमस्त्येव, ""जन्मबन्धविनिर्मुक्ता:
इत्यादे: प्रतिरूपतया परमनिश्श्रेयसबैध्धुर्यस्यात्र
।कृपणशब्देनाभिधातुमुचितत्वात् ।संसारिण इत्युक्तम् ।
अकृपणप्रदर्शनपरानन्तस्श्लोकपरामर्शाच्चायमेवार्थ उचित इति भाव:।।
02.50
"बुद्धियुक्तो जहातीह' इत्यस्य ।इह कर्मणि क्रियमाणे बुद्धियुक्त
इत्यन्वयमभिप्रेत्याह ।बुद्धियोगयुक्तस्तु कर्म इति । यद्वा, ।कर्म
कुर्वाण इति प्रकरणापन्नमुक्तम्, ।इहशब्दस्य तु ।जहातिना अन्वय:,"इहैव
तैर्जितस्सर्ग:' (5.19) इत्यादिवत् । ततश्च प्रतिबन्धकनिवृत्तिरुक्ता भवति ।
बुद्धिरहितकेवलकर्मादिभिरनिवत्र्यामाह ।अनादिकालसंचिते अनन्ते इति ।
अनादिकालसंचितत्वमनन्तत्वनिदानम् । सुकृतस्य हानिरपुरुषार्थ:
स्यादित्यत्रोक्तम् ।बन्धुहेतुभूते इति । न हि काञ्चनकालायसशृङ्खलयो:
बन्धुहेतुत्वे कश्चिद्विशेष:, मुमुक्ष्वपेक्षया च स्वर्गादिकारणं
सुकृतमपि दुष्कृअतमेव; अलौकिकत्वे सति अनिष्टफलसाधनत्वात् ।
स्वर्गादेरपि हि मुमुक्ष्वपेक्षया निरवयत्वम्, ""एते वै निरयास्तात
स्थानस्य परमात्मन:(भा.मो.19 66) इत्यादिभि: प्रतिपादितमिति भाव: ।
।बुद्धियुक्त: इत्यस्य,।योगाय इत्यस्य च भिन्नार्थपरत्वव्युदासायाह
।तस्मादुक्ताय बुद्धियोगायेति । ।युज्यस्व सन्नह्रस्व, उद्क्तो भवेत्यर्थ: ।
""समत्वं योग उच्यते इतिवत् योगशब्दव्याख्याभ्रमनिरासायाह
।कर्मस्विति । ।कौशलशब्दस्य तात्पर्यं वक्तुं वाच्यं तावदाह
।अतिसामथ्र्यमिति । बुद्धियोगस्य कर्मसामथ्र्यात्मकत्वं कथमित्यत्राह
।
अतिसामथ्र्यासाध्य इत्यर्थ इति । कार्ये कारणशब्द उपचरित:।
अनेन श्लोकेन बन्धकसुकृतदुष्कृतहानमुक्तम् ।।
02.51
अथ तत्फलभूतबन्धनिवृत्तिपूर्वकामृतत्वाप्राप्तिपरस्य ।कर्मजमिति
श्लोकस्य हेतुफलभावक्रमेणान्वयमाह ।बुद्धियोगयुक्ता इति ।
।कर्मजं फलं सांसारिकम्; जन्मबन्धो जन्मना बन्ध: स्वच्छन्दत्वहानि:;
अथवा जन्मैव बन्ध इति कर्मधारय:। ।अनामयं पदं स्थानविशेषो
वा ,परमप्राप्यं परमात्मस्वरूपों वा, प्रकरणवशादत्र
ब्राहृपर्यन्तजीवस्वरूपम् वा । पद्यते गम्यत इति ।पदम् ।
त्रयमपि हि साक्षादन्यथा वा मुक्तप्रायत्वात् ।पदशब्दवाच्यम् ।
।हिशब्दस्यात्र हेतुत्वादिपरत्वासंभवात् प्रसिद्धिपरत्वम्, प्रसिद्धिस्थलं चाह ।प्रसिद्धमिति ।।
02.52
एवमुक्तप्रकारे हेयोपादेयविभागो युक्त्यगमनिरपेक्षं तवैव स्पष्टो ।
भविष्यतीति चमत्कारार्थमुच्यते ।यदा इति श्लोकेन । मोहतरणहेतुं
प्रकृतं दर्शयति ।उक्तेति । पुण्यपापरूपसांसारिककर्मणा हि मोह:
(हकलुषम्?) । तच्च फलाभिसन्ध्यादिरहितकर्मणा निवत्र्यम्। तत:
कारणाभावात् कार्याभाव इति भाव: । ।अत्यल्पफलसङ्हेतुभूतमित्यनेन
मोहस्येदानींनिर्वेदप्रतिबन्धकत्वमुच्यते । मोहस्वरूपातिरिक्तस्य
तत्साध्यस्य कालुष्यस्याभावात्।मोहरूपमित्युक्तम् । ।कलुषशब्दोऽत्र
कालुषयपर: । ।अस्मत्त इति । आप्तमेभ्य इति भाव: ।
।त्याज्यतयेति निर्वेदयोग्यत्वायोक्तम् । न हि श्रोतव्येषु च
उपादेयांशो निर्वेदहेतु:2.। यद्वा ।श्रोतव्यस्येत्स्योपादेयविषयत्वाय
।श्रुतस्येत्यत्र त्याज्यतयेति विशेषणम् । हेयसङ्गमुपादेयवैतृष्ण्यं
च परामृश्य । भवति हि निर्वेद:।स च स्वावज्ञारूप: ।
यथाऽऽहु: ।गान्धर्ववेदिन:--""तत्त्वज्ञानापदीष्र्यादेनिर्वेद: स्वावमाननम्
(दश.4प.)इति । ।श्रोतव्यस्येत्यादे: संबन्धसामान्यषष्ठया विवक्षित
विशेषकथनम् ।कृत इति । स्वयमेवेति । अस्मद्वाक्यादिनिरपेक्ष इत्यर्थ:।
गन्तासि इत्यत्र पदभेदभ्रमं निरस्यति ।गमिष्यसीति ।
गन्तासि इत्यत्र द्वतीयान्वयात् तृजन्तत्वं न युज्यते ।
तृन्नन्तत्वे तु भविष्यत्वविवक्षा न स्वारसिकी । अतो लुडन्ततयैकपद्यं युक्तम् ।
एवं ।जेतासि (11.34) इति वक्ष्यमाणेऽपि । अनद्यतनविहितलुडन्तोऽपि शब्दो
।व्यतितरिष्यतीत्येतत्तुल्यतया भविष्यन्मात्रार्थेन व्याख्यात:।।
02.53
""नित्यात्मासङ्गकर्मेहागोचरा साङ्खयुयोगधी: । द्वितीये स्थितधीलक्षा
प्रोक्ता तन्मोहशान्तये ।। (6) इति ।संग्रहश्लोकमनुसन्दधानो
ज्ञानोयोगाभिधानोपक्रमभूतमुत्तरश्लोकमवतारयति ।योगे त्विति ।
।बुद्धिविशेषो "व्यवसायात्मिका' इत्यादिना पूर्वोक्त: ।
।लक्ष(क्ष्य)भूतम् उद्देश्यभूतमित्यर्थ: । ।श्रुतिविप्रतिपन्ना इत्यस्य
प्रकृतानुपयुक्ताप्रकृतवैदिकवाक्यविरोधार्थताभ्रमं ।श्रोतव्यस्य श्रुतस्य
च इति प्रकृतानुरोधेनव्युदस्यति ।श्रुति: श्रवणमित्यादिना । ।अस्मत्त इति ।
सार्वज्ञ्यसर्वशक्तिपरमाकारुण्यादिभिरनाघ्रातभ्रमविप्रलम्भमादादिदोषगन्धाद-
व्याजबन्धोरीश्वरादिति भाव: । ।विशब्दस्य विरुद्धार्थता व्युदासाय
वैशिष्ट¬ार्थतामीश्वराच्छ्रवणेन सिद्धां दर्शयति ।विशेषत इति ।
।स्थास्यतीति स्थायित्वं ह्रुक्तम् । विशेषं पूर्वोक्तं व्यनक्ति
।सकलेतरेति ।
"अर्थैनैव विशेषो हि निराकारतया धियाम्' इति हि प्रतिद्धमिति भाव: ।
।निश्चलशब्दयो: पौनरुक्त्यपरिहारायोक्तम् ।स्वयमित्यादि । उद्देश्यान्तर्गतमचलत्वम्,
निश्चलत्वं तु तत्र विधेयो विशेष इति ।स्वयंशब्दस्य भाव: । ।
एकरूपार्थविषयत्वादेकरूपा विषयान्तरसञ्चाररहिता चेत्यर्थ: ।
अथवा ।श्रुतिविप्रतिपन्नेति श्रवणस्योक्तत्वान्मननस्थिरीकृतत्वं
कुतर्कैरकम्पनीयत्वञ्च पदान्तराभ्यां विवक्षितम् ।
यद्वा पूर्वोक्तबहुशाखात्वानन्तत्वनिषेधपरोऽ।चलशब्द इत्यभिप्रायेणोक्तम्
।एकरूपेति । समाधीयते अस्मिन् आत्मज्ञानमिति ।समाधिर्मन इति निर्वचनेन
तैलधारावदविच्छिन्नस्थितिहेतुतामभिप्रयतोक्तम् ।असङ्गतेत्यादि ।
।समाधिशब्दस्यात्र ज्ञानयोगरूपनिश्चलबुद्धिसाध्यफलविषयत्वात्
।आत्मावचलोकनमित्युक्तम् । "योगस्सन्नहनोपायध्यानसङ्गतियुक्तिषु'
(नाम.3.ना.179) इत्यादिभिरनेकार्थतया प्रसिद्धोऽयं
शब्दस्तत्तद्वाक्यानुकूलमनुसंधेय: । ननूपायतया हि योगो विहित:,
स कथं फलतयाऽत्र निर्दिश्यते (1) । आत्मज्ञानपूर्वकस्य
च कर्मयोगस्यात्मज्ञानमेव साध्यं चेत्, आत्माश्रयादिदोष: (20)।
श्रवणमननाभ्यां स्थितप्रज्ञस्य ह्रनुष्ठानम्; तथा च कथमनुष्ठानसाध्या
स्थितप्रज्ञता (3) । निश्चलप्रज्ञास्थितिमन्तरेण च कोऽसावपरस्तदापाद्यो
योग: (4) इत्यत्राह ।एददुक्तमिति । तत्र 1प्रथमचोद्यं
।कर्मयोगशब्देन ।योगाख्यमात्मावलोकनमित्यनेन च परिह्मतम् ।
शास्त्जन्यात्मज्ञनात्मावलोकनशब्दाभ्यासामात्मश्रयादिनिरास: ।
आत्मज्ञानज्ञानमनिष्ठाशब्दाभ्यां
श्रवणमात्रसिद्धतत्त्वनिश्चय-ज्ञानयोगविषयाभ्यां तृतीयस्य परिहार: ।
1.चतुर्थोऽ(र्थम?)प्युक्तप्रकारेण साक्षात्कारतद्धेतुस्मृतिसन्ततिभेदात्
परिह्मत:(तम्?) । प्रथमं शास्त्रतस्तत्त्वज्ञानम्, तत:
स्मृतिसन्ततिरूपमुपासनम्, ततस्तन्मूलस्साक्षात्कार इति ज्ञानपर्वभेद:
प्रदर्शित:ल ।।
02.54
प्रश्नरूपस्योत्तरश्लोकस्यावतारं तत्र पूर्वोत्तरार्धयो:
क्रमान्निष्कृष्टप्रश्नार्थं चाह ।एवमिति । पूर्वार्धस्याभिप्रेतं वक्तुमन्वयं
तावदाह ।समाधीति । ।समाधिरत्र पूर्वनिरुक्तप्रकारं मन:।
तत्र स्थिति: तद्वशीकरणेनावस्थानम् । ।किं प्रभाषेतेत्यनेन
पुनरुक्तिपरिहाराय स्थितप्रज्ञस्य का भाषा इत्यत्र
कर्तृतयाऽन्वयशङ्कामपाकरोति ।को वाचकश्शब्द इति ।
ननु स्थितप्रज्ञ: इत्येव वाचके सिद्धे किं वाचकान्तरं पृच्छयते, किं
चात्र वाचकप्रश्नस्य प्रयोजनमित्यत्राह ।तस्येति । केनचिद्वाचकेन हि
कस्यचित्प्रकारभूतप्रवृत्तिनिमित्तमिविशिष्टं(ष्ट)स्वरूपं निर्देष्टव्यमिति भाव: ।
स्थितप्रज्ञशब्दात् ।स्थितधीशब्दस्यार्थन्तरपरत्वभ्रमनिरासाय
स्थितप्रज्ञ: इति पूर्वार्धोक्तशब्द एवात्राऽऽवर्तित: ।
।किंच भाषणादिकमिति । किं प्रभाषेत इत्यादय: ।किंशब्दा:
क्रियाविशेषणतयाऽन्वीयमाना: क्रियाप्रकारप्रश्नपरा इति भाव: ।
।किं प्रभारेतेति वाचिके, ।किं व्रजेतेति कायिके च पृष्टे, ।किमासीतेति
मानसपरम्, ध्यानार्थत्वादत्राऽऽसनस्य ।।
02.55
एवं करणत्रयानुष्ठानप्रकारप्रश्नस्य साक्षादुत्तरेषु प्रजहाति
इत्यादिषु चतुर्षु लोकेषु प्रथमस्य स्वरूपप्रश्नोत्तरतामपि दर्शयति
।वृत्तिविशेषेति 3.प्रकृष्टानुकूल्ययोगिन्यात्मनि प्रीतिरूपस्य तोषस्य
कामान्तरप्रहाणहेतुत्वात् तथाऽन्वयमाह ।आत्मन्येवेति । ।सर्वशब्दस्य
आत्मनि तुष्ट: इत्येततसन्निधानसिद्धं सङ्कोचमाह तद्व्यतिरिक्तानिति ।
यद्वा आत्मन्येवात्मना तुष्ट: इति यथाक्रमवेवान्वय:; आत्मैकविषयेण
मनसाऽन्यतोजातालंबुद्धिरूपसन्तोष इत्यर्थ: । एतदभिप्रायेणोक्तम्
।मनसाऽऽत्मैकावलम्बनेन तुष्ट इति । ।तेन तोषेणेति ।
""न विवदात्मनो गात्रं तत्स्मृत्याह्लादसंस्थित: (वि.1.17.39) इतिवत् ।
1।प्रकर्षेणेति अपुनरङ्कुरमित्यर्थ: । स्थितप्रज्ञविषयश्लोकचतुष्टयं
तदवस्थाचतुष्टयविषयमिति मन्वानाश्चतुर्थीयमवस्येत्याह ।ज्ञाननिष्ठाकाष्ठेयमिति ।
उक्तं च ।हैरणयगर्भै: ""दृष्टानुश्रविकविषयवितृष्णस्य ।वशीकारसंज्ञा
वैराग्यम् (पा.सू.1.16) इति । ऐहिकामुष्मिकसकलफलविमुखस्य यस्तेषु
फलेषु सवासनरागत्याग:, सा ।वशीकारसंज्ञेत्युच्यत इत्यर्थ: ।।
02.56
अथै।केन्द्रियसंज्ञाख्यतृतीयावस्थोच्यत इत्याह ।ततोऽर्वाचीनेति ।
ओ विजी भयचलनयो: इति धातुरत्र चलनार्थ:, वीतरागभय इति भयस्य
पृथगभिधानात् । यद्वा अनुद्विग्न इति निर्दु:खत्वमात्रं विवक्षितम्, तत
एव दु:खेषु इत्येतदपि दु:खहेतुपरमिति मन्वान आह ।दु:खनिमित्तेष्विति ।
।आदिशब्देनाप्रियागमनसंग्रह: । भयहेतुव्यावृत्त्यर्थमुक्तम्
।उपस्थितेष्विति । दु:खोत्पादनप्रवृत्तेष्वित्यर्थ: । ।दु:खशब्दवदेवात्र
।सुखशब्दस्यापि हेतुपरतां तत्रापि पृथङनिर्दिष्टरागविषयाद्विलक्षणतां
चाह ।प्रियेषु सन्निहितेष्विवपीति । ।विगतस्पृहवीतरागशब्दयोरपुरुक्तितां
व्यनक्ति ।अनागतेषु स्पृहा राग इति । ।स्पृहारागशब्दौ सामान्यविशेषयौ ।
ततश्च विशेषशब्दसन्निधाने गोबलीवर्दन्यायात् सामान्यशब्द: तद्व्यतिरिक्तपर
इति भाव: । पुनरुक्तिपरिहाराय भयस्य दु:खविशेषतामाह ।प्रियेत्यादिना
।हेतुदर्शननिमित्तं दु:खमित्यन्तेन ।
प्रियविश्लेषाप्रियागमनयोर्दु:खरूपयोस्सामग्रीदशामापन्नो यो हेतु: सूचकश्च निमित्तादि;,
तस्य यद्दर्शनं सकलसहकारिसंपत्तयुत्प्रेक्षगर्भम्, दर्शनमिति ज्ञानमात्रपरं वा;
तेन यद्दु:खं तदानीमेवाङ्गकम्पादिहेतुरुत्पद्यते, तद्भयमित्यर्थ: ।
क्रोधलक्षणे प्रियविश्लेषादिरुौकालिक:, सर्वत्रक्रोधोत्पत्तिदर्शनात् ।
अचेतनेषु वातातपकण्टकादिषु बाधकेष्वपि क्रोधभावात् ।चेतनेत्युक्तम् ।
यस्तून्मतस्तत्रापि कुप्यति, सोऽपि चेतनत्वाध्यासेन । ।अन्तरशब्देन
स्वदु:खहेतुस्वमनोविकारव्यावर्तनम् । स हि तथाविधो निर्वेदादिरूपस्यात् ।
क्रोधादाद्महननाद्यपि परपीडाभिसन्धिगर्भम् । ।मनोविकारोऽत्र
रजस्तमस्समुन्मेषकृतो व्यापारवुशेष: । तदधीनो ज्ञानविशेष इह
तच्छब्दोनोपचर्यते । ।मुनि: मननशील इति व्युत्पत्ति: ।
तस्य मननस्यात्र साक्षात्करिष्यमाणात्मविषयत्व्यक्त्यर्थंमुक्तं
।आत्मननशील इति । एवमस्यास्तृतीयावस्थाया
उद्वेगस्पृहादिविरहसाम्येऽप्यौत्सुक्यमात्रक्षमवासनाशेषस्य
भस्मच्छन्नदहनवदवस्थितत्वात् चतुर्थावस्थातो विशेष:।।
02.57
अथ ।व्यतिरेकसंज्ञाख्या द्वितीया दशोच्यत इत्याह-।ततोऽर्वाचीनदशेति।
अप्रियेषु स्नेहप्रसङ्गाभावात् प्रियमात्राविषय: ।सर्वत्रेतिशब्द इति दर्शयति प्रियेष्विति ।
अभिस्नेहस्य प्रवृत्तिपर्यन्ततया तदभावोऽत्र तद्विषयोपादानप्रवृत्तिराहित्यपर्यन्त इत्याह
।उदासीन इति । ।एतेन,प्रियेत्यादिना च व्यतिरेकसंज्ञात्वं व्यनक्ति ।
।अपक्वान् कषायान् पक्वेभ्य: पृथगनुसन्धाय तेषामपि पाकापादनदशा व्यतिरेकसंज्ञा ।
तत्र स्वयं प्रियेषु प्रवृत्तिरहितो दैवागतप्रियसंश्लेषविश्लेषयोश्चाभिनन्दनादिरहित
इत्युक्ते पक्वेतरेषां रागादीनां पाकाभिलाषेण मनोव्यापारविशेषनिवारणमुक्तं स्यात् ।
।अभिनन्दनं चात्रभितो नन्दनम्; अनुबन्धिषु कालान्तरे च
प्रीत्यनुवृत्तिहेतुभूतनन्दनमित्यर्थ:; एवं ।द्वेषेऽपि ।।
02.58
अथ ।यतमानसंज्ञाख्या प्रथमा दशोच्यते इत्याह
।ततोऽर्वाचीनदशेति ।
प्रसक्तप्रतिषेधार्थमाह ।स्प्रष्टुमुद्यक्तानीति ।
तेन वार्धकरोगादिप्रयुक्ताशक्तिसुष्टुप्तयादिकृतनिवृत्तिव्यवच्छेद: ।
।तदैवेति भोगानन्तरनिवृत्तिव्युदास: । ।कूर्मोऽङ्गानीवेत्यनेनेन्द्रियाणां
सङ्कल्पविशेषमात्रनियाम्यत्वमुच्यते ।
।सर्वश इति विलोकनभाषणविलासपरिहासादिनिवृत्तिपर:;
विषयदोषदर्शनादिहेतुप्रकारपरो वा । ।प्रतिसंह्मत्येत्यनेने
इन्द्रियनिरोधस्यात्ममननाङ्गता दर्शिता ।
अत्र च ज्ञाननिष्ठावस्थाविशेषप्रकरणे सुषुप्तयादिविलक्षणा
व्यापारोपरतिस्तत्साध्यात्मगोचरमनोवस्थापनपर्यन्ता ।
विवक्षितेत्याह ।मन आत्मनीति ।
02.59
किमर्थमिदमवस्थाचतुष्टयं विभज्योपदिश्यत इत्यत आह ।एवमिति ।
प्रथमं बाह्रेन्द्रियाणि विषयेभ्य: प्रतिसंह्मत्य मन आत्मनि व्यवस्थापयितुं यतेत;
।इयं यत्तमानसंज्ञा । अथ बलात्संह्मतान्यपि बाह्रेन्द्रियाणि
सावशेषरागद्वेषादिदोषादिदोषकलुषितं मन: पुन:पुन: पुनरवसरे प्रेरयेत्
स्वयं चात्मनि स्थातुं न शक्नुयात्; अत:
पक्वावशिष्टररागद्वेषादीन् औदासीन्य--अनभिनन्दनादि क्रमेण पचेत् ।
।इयं व्यतिरेकसंज्ञा । तत: पक्वेऽपि दोषशेषेण
अनादिविषयानुभवभावितवासनामात्रमात्मानमुबुभूषन्तीं शेमुषीं
प्रतिबिभन्त्सेत् । तत्र निरतिशयानन्दरूपमात्मानम्, पुरुषद्वेषिण्या
योषित इव युवानम्, प्रदर्शय प्रदर्शय क्रमादात्मनि
तोषमुत्पाद्य तेन तोषविशेषेण,दवीयसा च स्मृतिविधुरेण कालेन
बाह्रविषयवासनाजालमुन्मूलयितुमीहते । ।सेयमेकेन्द्रियसंज्ञा । या
पुनस्समस्तवासनाविलयादौत्सुक्यमात्रस्याप्यसंभवेन परमवैराग्यदशा;
।सा वशीकारसंज्ञा ज्ञाननिष्ठाकाष्ठा योगाख्मात्मावलोकनं साधयति ।
तच्चावलोकनं परम्परया निरतिशयपुरुषार्थभूतामृतत्वाय
कल्पत इति दर्शितं भवति । कामानां तथात्वेनादर्शनं, तथा
दृश्यमानेष्वपि निस्सङ्गता, सङ्गलेशेन भुज्यमानेष्वपि नातिस्नेह:,
प्रचुरेऽपि रागेतन्निरोधसंरम्भ इति चावस्थावैषम्यम् । 2.आत्मरतित्वं
तस्य स्वरूपम्, आश्चर्यवद्वदति (2-29) इति तस्य तदेकभाषणं,
तदनुसन्धानरूपं तदासनं, तत्प्राप्त्यर्थप्रवृत्तिरूपं तस्यवज्रनं
चेति प्रश्नचतुष्कोत्तरं सिद्धम् ।।
अथोत्तरप्रकरणम् पूर्वेण पृथगर्थं प्रदश्र्य सङ्मयन्नवतारयति ।इदानीमिति ।
ज्ञाननिषायाश्चतुर्विधाया अपीति शेष: । ।निरहारस्येत्येत्यनेन भोजननिषेधभ्रमं
व्युदस्यति ।इन्द्रियानामित्यादिना । न चैकान्तमनश्नत:', "युक्ताहारविहारस्य'
(6.16,17) इति हि वक्ष्यते । अन्यत्रापि ""अत्याशनादतीपानात्
(तै.ना.1.64) इति ह्रुच्यते । ।मोक्षधर्मे च----"दशैतानीन्द्रियोक्तानि
द्वाराण्याहारसिद्धये' इति सर्वेन्द्रियविषयाणामाहारशब्देन ग्रहणं दृष्टम् ।
न च प्रसिद्धाहारनिषेधमात्रात् अशेषविषयनिवृत्ति:,तस्य
कतिपयेन्द्रियविषयत्वादिति भाव: । ।रसवर्जमित्येतावति
वाक्यतात्पर्यमिति द्योतनाय ।विवर्तमाना इत्यनूदितम् ।
आत्मगोचररागव्यवच्छेदायाह ।विषैयराग इति । प्रस्तुता एव विषया:
।परमिति निर्देशस्यावधित्वर्महन्तीति । विषयेभ्य: परमित्युक्तम् ।
कालादिकृतपरत्वमात्रस्यात्रानुपयुक्तत्वात् विषयरागनिवर्तनौपायिकं
।परशब्दार्थमाह ।सुखतरमिति । विषया हि सुखरूपा:; आत्मस्वरूपं तु
ततोऽप्यतिशयेन सुखरूपम् । अत्र ।दृष्ट्वा निवर्तते इति दर्शनस्य
रागकर्तृकतया निर्देश औपचारिक:। यद्वा,।दृष्ट्वा स्थितस्य ।अस्य देहिनो
रागो निवर्तत इत्यन्वय: । एवमात्मदर्शनेन विना विषयरागो न निवर्तत
इत्युक्तम्।।
02.60
अथानिवृत्ते विषयरागे दुर्जयानीन्द्रियाणीत्युच्यते ।यतत इति श्लोकेन ।
।विपश्चित्वं यतमानत्वे हेतुरिति द्योतनायोक्तं
।विपश्चितो यतमानस्यापीति
। अत्र ।विपश्चित्वं शारुाजन्यहेयोपादेयविवेकवत्त्वं । बलवतां
प्रमाथित्वं हि "बालवानिन्द्रियग्रामो विद्वांसमपि कर्षति' (मनु.2.215)
इति स्मर्यते इति ज्ञापनाय ।बलोवन्तीत्युक्तम् । इन्द्रियाणां बलं च
रागादिरेव । उक्तश्लोकद्वयतात्पर्यसिद्धमन्योन्याश्रयणं तत्फलं
चाह ।एवमिति ।।
02.61 पूर्वमुपदिष्ट इत्यत्रोच्यते।तानि
सर्वाणि इति । ।अस्येति अन्योन्याश्रयादिदोषस्येत्यर्थ: । ।संयम्येति
विषयस्पर्शनिवारणमात्रमत्रोच्यते, न त्विन्द्रियजयावस्था
। ।मत्पर: इत्यत्र वक्तृविग्रहवैशिष्टयविवक्षया सिद्धं
शुभाश्रयविग्रहविशेषवत्त्वं ।चेतस इत्यादिना विवृतम् । शुभशब्देन
हिरण्यगर्भादे: ।आश्रयशब्देन परिशुद्धात्मस्वरूपस्य च व्यवच्छेद: ।
।युक्तशब्देनात्र विषयस्भावात् सुकरं चित्तसमाधानं विवक्षितमित्याह
।समाहित इति । ।मत्पर: इत्येतावता कथमन्योन्याश्रयादिपरिहार
इत्यत्राह ।मनसीति । अत्रा।शेषशब्देनोपायविरोधिसर्वकर्मसंग्रह: ।
।निर्मलीकृतं रजस्तमोविरहितं; तत एव शब्दादि।विषयानुरागरहितम् ।
अत्र ।प्रज्ञाशब्दस्य ज्ञाननिष्ठाफलपर्यन्तत्वमात्मदर्शन।शब्देनोक्तम्
। शुभाश्रयानुसन्धानस्य कल्मषनिनाशकत्वे स्मृत्यन्तरसंवादमाह
।यथेति । आत्मदर्शनमन्तरेणैवेन्द्रियजयसिद्धेर्नान्योयाश्रय: । अत:
पूर्वोक्तसाध्यसाधनभावोपपत्तिरित्युत्तरार्धेनोच्यत इत्याह ।तदाहेति ।।
02.62
उक्तान्योन्याश्रयणफलभूताया इन्द्रियजयात्मदर्शनयोरसिद्धे: प्रकार:
श्लोकद्वयेन प्रपञ्च्यत इत्यताह ।एवमिति । अदृष्टात्मस्वरूपस्य
।विषयान् ध्यायत इत्यनुवादसिद्धां विषयेषु स्वरसवाहितां सहेतुहमाह
।अनिरस्येति । अत्र ।संयम्येति निमीलादिमात्रकृतं निवारणमुच्यते ।
।उपजायत इत्यत्रोपसर्गाभिप्रेतं विवच्य दर्शयति ।अतिप्रवृद्धो जायत
इति । सङ्कामयोरभेदात् कार्यकारणभावानुपपत्तिरित्यत्राह ।कामो नामेति
। ।विपाकदशब्दे सामान्यत उक्ते।झ्पि व्यावृत्तकारप्रतिपत्तिर्नस्यादिति
तल्लक्षणमाह ।पुरुष इति । सर्वदा कामस्य क्रोधहेतुत्वं नास्तीत्यत
उक्तं ।विषये चासन्निहित इति । न केवलं कामप्रतिबन्धकानेव
पुरुषान् प्रति क्रोध:, अपि तु कृत्याकृत्यविवेककान्धतया तस्यां
दशायामुपलभ्यमानान् सर्वान् प्रत्यपीति द्योतनाय ।सन्निहितानित्युक्तम्
। ईश्वरो।झ्पि क्रोधवेगमभिनयन् कÏस्मश्चिदेव रक्षसि द्रुह्रति,
""सदेवगन्धर्वमनुष्यपन्नगं जगत् सशैलं परिवर्तयाम्यहम्
(रा.आ.64.76) इत्याह । अयं च अभिजायत इत्यत्रोपसर्गाभिप्रेतार्थ:; अभितो
जायत इत्यर्थ: । समित्येकीकारे, ततो।झ्त्र ।संमोह:कृत्याकृत्याविवेकात्मा
मोह इत्यभिप्रायेणाह ।कृत्वेति । संमोहस्य स्मृतिभ्रंशहेतुत्वे
अवान्तरव्यापारमाह ।तयेति । ""क्रुद्ध: पापं न कुर्यात् क:
क्रुद्धो हन्याद्गुरूनपि (रा.सु.55.4) इत्याद्यनुसारेणोक्तम्
।सर्वमिति । तत्श्चेति । 1.सावान्तरव्यापारात्संमोहादित्यर्थ:
। स्मर्तव्ये प्रस्तुतविषये स्मृतिभ्रंशं योजयति ।प्रारब्धेति ।
।स्मृतिभ्रंशादित्युत्तरवाक्यशृङ्खलावशात् ।स्मृतिविभ्रमशब्दस्य
तदेकार्थत्वायोक्तं ।स्मृतिभ्रंशो भवतीति । ।बुद्धिनाश इत्यत्र
प्रकृतं बुद्धिविशेषमाह ।आत्मेति । न तावदिह सामान्यतो
ज्ञानमात्रं बुद्धिशब्दार्थ:,न च इत:पूर्वमात्मदर्शनम् सिद्धम्;
न च भविष्यदात्मदर्शनादिकमिदानीं नाशयोग्यम् । अतस्तल्लिप्सा
कृतस्तदुपायानुष्ठानाध्यवसाय इहोपास्मृतिसाध्यो ।बुद्धि शब्देनोच्यत
इति भाव: । ।प्रणश्यतीत्यत्र नित्यस्या।झ्।झ्त्मनो नाशो ह्रसत्समत्वम् ।
तच्च यथावस्थिताकारानुलम्भ:। सच देहात्मभ्रमादिकृत:,तत्र (था)पि
हेतुर्देहसंबन्ध इत्यभिप्रायेणोक्तं ।संसारे निमग्न इति ।।
02.64
अथ ""तानि सर्वाणि (61) इत्युक्तार्थकरणे।झ्न्योन्याश्रयपरिहाराप्रकार:
परमप्रयोजनभूतसंसार निवृत्तिश्च श्लोकद्वयेन
प्रपञ्च्यते ।रागद्वेषति । रागद्वेषवियोगो।झ्पि कुत
इत्यत्र पूर्वोक्त एव हेतुरित्यभिप्रायेणाह ।उक्तेनेति ।
रागद्वेषयोगोत्रेन्द्रियाणामात्मवश्यताहेतु:। ।विषयांश्चरन्नित्यनेन
विषयभोगभ्रमव्युदासायात्मवश्यकत्वफलितमाह ।विषयांस्तिरस्कृत्य
वर्तमान इति । चरतित्र गत्यर्थ:,आक्रमणरूपगतिपर:,भक्षणार्थोवा
संहरणपर इत्युभयथा।झ्पि तत्तिरस्कारार्थत्वमत्र विवक्षितम्
। ।तिरस्कारो।झ्त्र अनादर: । तथा च नैघण्टुका:,"अनादर: परिभव:
परीभावस्तिरस्क्रिया' (नाम.?.ना. ना. 208)इति । बाह्रन्द्रियतद्विषयविजयो
हि मनोविजयार्थं इत्यभिप्रायेणाह ।विधेयमाना इति । ।वीधेयात्मेति
मनस: प्रसक्तत्वात् प्रसन्नचेतस इति वक्ष्यमाणत्वाच्च प्रसादो
मनोनैर्मल्यमित्याह ।निर्मलेति ।।
- 02.65द्यण् ड़दृथ्र्थ्र्ड्ढदद्यठ्ठद्धन्र् त्द्म थ्र्त्द्मद्मत्दढ़!
02.66
अथ पूर्वोक्तान्योन्याश्रयफलभूतामात्मदर्शनासिदिं्ध
"बुद्धिनाशात्प्रणश्यति' (66) इत्येतत्द्विवरणरूपेणानूद्य तत:
परमयोजनस्याप्याप्लाभपकार उच्यते ।नास्तीति । युक्त आसीत
मत्पर: (61) इति पूर्वोक्तस्य निवृत्ति।रयुक्तशनब्देनोच्यत इति
तात्पर्येणाह ।मयीति । ।यततो ह्रपीति (60) पूर्वोक्तं स्मारयति
।स्वयत्नेनेति । ।नास्तीत्यनेनाभिप्रेतमाह ।कदाचिदपीत्यादिना ।
अतिचिरकालप्रयासेनापीत्यर्थ: । द्वितीयपादस्थ।मयुक्तस्येति पदं
शृङ्खलौचित्यायायुक्तत्वफलभूतबुद्धयभावलक्षमिति तात्पर्येणाह ।अत एवेति
। यद्वा ।तस्येत्युक्तपरामर्श:, ।अत एवेति तु बुद्धयभावादेवेत्यर्थ:
। अथवा परम्परया हेतुत्वमभिप्रेत्यायुयक्तत्वादेवेति विवक्षा;
भिन्नविषयभावान्तरनिषेधायोगात् ।तद्भावनेत्युक्तम् । "रसो।
झ्प्यस्य परं
दृष्ट्वा निवर्तते' (59) "रागद्वेषवियुक्तौ' (54) "सुखेषु विगतस्पृह:'(57)
इत्याद्यानुगुण्येन शाÏन्त विशिनष्टि ।विषयस्पृहाशान्तिरिति । अशान्तस्यैव
स्वर्गादिसुखलाभादमृतत्वप्रकरणसिद्धं सुखस्य विशेषणमाह
।नित्यनिरतिशयेति ।। 2.अनेन श्लोकेन प्रत्याहारादियोगावयवचेतुष्टयस्य
तत्फलस्य नि:श्रेयस्य च यथासंभवमभिधातात्पर्याभ्यां
पूर्वपूर्वाभावादुत्तरोत्तरस्यालाभस्यसूचितो भवति ।।
02.67
अथेन्द्रियनिग्रहाभवे बुद्धयभावस्य पूर्वोक्तस्य
प्रकार:।इन्द्रियाणाम् इत्यनन्तरश्लोकेनोच्यत इत्यपुनरुक्ति:; आदरार्थं वा
पुनरुक्तिरित्यभिप्रायेणाह ।पुनरपीति । केवलस्पन्दादिमात्रव्युदासाय
।विषयेष्वित्युक्तम् । इन्द्रियाणां सर्वेषां न विषयेषु संचारो।झ्स्ति,
अतस्तदौन्मुख्यमर्थ इति व्यञ्जनाय ""इन्द्रियाणीद्रियार्थेषु वर्तन्ते
(गी.5.9) इति प्रयोगान्तरानुसारेण ।वर्तमानानामित्युक्तम् ।
यत्तच्छब्दयोर्मनोविषयत्वमेवोचितम् । प्रज्ञाहरणे तस्यैव
प्रधानत्वात्; 3.मनसो बाह्रेन्द्रियस्य मनोनुविधाने प्रज्ञाहरणाभावाच्च
। "यद्येकं क्षरतीन्द्रियम्' (मनु.2.99) इति मनुवचने तु
मनसो।झ्नुक्तत्वादिन्द्रियशब्दाभ्यासादेकशब्दबलाच्च निर्धारणार्थतैव
। न च तत्तुल्यत्वमस्यापि वाक्यस्य निर्नबन्धनीयमिति इति भाव: ।
अनभिसंहितदेशप्रापणं हि दृष्टान्ते
।झ्भिप्रेतमिति प्रदर्शयन् हरतेर्विनाशनार्थताभ्रमव्युदासाय
चाह ।विषयप्रवणामिति । ।अम्भसीत्यस्य
।हरतिना।झ्न्वयभ्रान्तिमपाकरोति ।अम्भसि नीयमानामिति ।
02.68
अनिष्टविषयप्रापणनिदर्शनत्वायोक्तं "यदा संदरते'
इत्याद्युपक्रान्त: इन्द्रियनिग्रहोपदेश उपसंह्यियते
।तस्मादिति श्लोकेन ।। ।तस्मादिति इन्द्रियानुविधायिनो
मनस: प्रज्ञाप्रतिष्ठाविरोधित्वादित्यर्थ: । निग्रहहेतुं
प्रागुक्तमनकर्षति ।उक्तेनेत्यादिना ।।
02.69
एवमुपायमुपदिश्य पलमुपदिशतीत्याह ।एवमिति । प्रागुक्तस्यैव
फलस्य प्रशंसापरत्वादपुनरुक्ति:। अतो ।या निशेत्यादिभि: त्रिभि: श्लोकै:
।प्रजहातीत्यादिनोक्तावस्थाचतुष्टयसिद्धिर्निगम्यते । "विहाय कामनान्,
नि:स्पृह:' इत्युभाभ्यां ।यतमानव्यतिरेकसंज्ञयोरुपलक्षणम् । यद्वा
श्लोकद्वयेनावस्थाचतुष्टयफलं, तृतीयेन त्ववस्थाचतुष्टयं निगम्यतइति
भाव: । ।या इति प्रसिद्धतया निर्देशो।झ्त्र प्रस्तुतप्रज्ञाविषय: ।
साक्षान्निशाया देशकालभेदेन विपरिवर्तमानाया: सर्वभूतसाधारण्याभावादिति
तात्पर्येणाह ।या आत्मविषयेति । उपचारनिमित्तं व्यनक्ति ।निशेवाप्रकाशेति
। स्वप्रकाशाया अपि बुद्धेरप्रसृतदशायामप्रकाशत्वमुपपद्यते ।
इन्द्रियनिग्रहस्य प्रकृतत्वात् स एवात्र ।संयमिशब्दार्थ इत्यभिप्रायेणोक्तम्
।इन्द्रियसंयमीति । या पुन:,""त्रयमेकत्र संयम: (3.4) इति
धारणाध्यानसमाधीनां समुच्चितानां संयमत्वेन ।पातञ्जलपरिभाषा,
सा।झ्त्र न विवक्षितेति भाव:। इन्द्रियसंयमस्य बुद्धिजनने
अवान्तरव्यापारं पूर्वोक्तमाह ।प्रसन्नमना इति। ।जागर्तीत्यत्र
मुख्यार्थयोगादाह ।आत्मनमिति । बुद्धौ जागरणशब्दनिर्दिष्टं प्रबुद्धत्वं
प्रकाशमानप्रसृतबुद्धिविशिष्टत्वमेव; सा च सविषया प्रकाशत इति
भाव: । बुद्धिप्रकरणत्वात् ।यस्यामिति निर्देशो।झ्पि बुद्धिविषय:; सा च
बुद्धि: ।भूतानीत्यसंयमनिष्ठतया व्यपदेशात् आत्मदर्शिनो निशात्ववचनाच्च
।शब्दादिविषयेत्युक्तम् । ।सर्वभूतानामित्यत्र समासनिमग्नो।झ्पि ।सर्वशब्दो
।भूतानीत्यत्रापि बुद्धया निष्कृष्यान्वेतव्यइति ।सर्वाणीत्युक्तम् । ।पश्यत
इत्यत्र कर्माकाङ्क्षायाम् ।आत्मानमिति प्रकरणसिद्धमुक्तम् ।।
02.70
एवं शब्दाद्यदर्शनपर्यवसितात्मदर्शनमयी
सिद्धिरुक्ता; एतस्या एव सिद्धेर्वाचीनामदूरविप्रकृष्टां
शब्दादिविषयदर्शने।झ्प्यविकारतारूपामवस्थामाह ।आपूर्यमाणमिति ।
अत्र प्रवेशयोरिविशेषोपलम्भस्य विवक्षितत्वात् ।आपूर्यमाणमिति न
प्रविशन्तीभिर्नादेयीभिरद्भिरापूरणं विवक्षितम्, अपि तु दाष्र्टान्तिके
विवक्षिताया: स्वात्मवलोकनतृप्ते: प्रतिनिर्देश: क्रियते इति दर्शयति
।स्वेनैवेति । ।अचलप्रतिष्ठ शब्दो।झ्त्र
सीमातिलङ्घनादिहेतुभूतवृद्धिह्नासराहित्यपर इत्याह ।एकरूपमिति ।
।नादेय्य इत्यनेन समुद्रप्रयत्ननिरपेक्षं स्वतस्समुद्रप्रावण्यं
सूच्यते । दृष्टान्ते निर्मथितार्थमाह ।आसामिति ।।कामा इत्यत्र कर्मणि
व्युत्पत्तिमभिप्रेत्याह । शब्दादयो विषया इति । अविकारतासिद्धयर्थं
।यच्छब्दस्य पूर्वोक्तसंयमित्वाभिप्रायतामाह ।शब्दादयो विषया इति ।
अविकारतासिद्धयर्थं यच्छब्दस्य पूर्वोक्तसंयमित्वाभिप्रायतमाह
।यं संयमिनमिति । रूपादिविषयाणां पुरुषे प्रवेशौ
नान्नपानादिवच्छरीरान्त:प्रवेश: । अत: तत्तदिन्द्रियद्वारा
ज्ञानविषत्वमेव विवक्षितमित्यभिप्रायेणाह ।इन्द्रियेति ।
यस्येति शेष:। ।तद्वदित्यनेन सिद्धमाह ।शब्दादिष्विति।
नित्यनिरवद्यनिरतिशयस्वात्मानुभवानन्दसन्देहमग्नो
नश्व-दु:खमिश्रसातिशयविषयानुभवानन्दबिन्दुषु न सज्जत
इति भाव: । ।न कामकामी इत्येतत् पूर्वोक्तस्यार्थस्य व्यतिरेकेण
दृढीकरणमिति व्यञ्जयति ।य इति । विकारस्य प्रसक्तत्वात्
कामित्वं स्वकार्यं विकारमप्यजहल्लक्षणया लक्षयतीति
।विक्रियत इत्युक्तम् । कामान् कामयितुं शीलं यस्य स कामकामी ।
कदाचिदपीति । यावत्कामपरित्यागमित्यर्थ: । एतेन,यो विक्रियते,
स न शान्तिमनाप्नोतीत्नयौरैकाथ्र्यशङ्का परिह्मता । विषयदर्शने
विक्रियमाणो।झ्न्यदापि स्पृहारहितो न स्यादित्यर्थ:।।
02.71
किं कामकामिन: सर्वदा शान्तिर्न स्यादिति
शङ्कामपाकुर्वन् अदर्शनाविकारत्वावस्थयो: कारणभूतां
विषयस्ग्रहण-स्पृहा-ममकार-देहात्मभ्रमाणां क्रमात्
कार्यकारणभावनिबन्धनानुलोमप्रतिलोमान्वयव्यतिरेक
द्वयानां निवृत्तिरूपामवस्थामाह ।विहायेति । पूर्वत्रात्र च
श्लोके प्रयुक्तं ।कामशब्दं निर्वक्ति काम्यन्त इति । ।चरतीति
वर्तत इत्यर्थ: ।आत्मदर्शिपुरुषपर्वभेदविषयौ पूर्वश्लोकौ;
अयं त्वात्मदर्शनार्थिपुरुष विषय इति विवेकं द्योतयति
।आत्मानं
दृष्टेति । अनयो: श्लोकयोर्विषयानुभवनिवृत्तिलक्षणा "सा निशा'इति
पूर्वश्लोकोक्तझ्र्आटशान्तिरुक्ता ।।
02.72
।एषा इति श्लोकेन परमप्रयोजनतया प्रकृताया:
संसारनिवृत्तिलक्षणशान्तेरुपसंहार: क्रियते; यद्वा
श्लोकत्रये ।शान्तिनिर्वाणशब्दाभ्यामेकमेव फलमुच्यते ।
"ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति' (4.39) इत्यत्र
।परं निर्वाणमाप्नोतीति हि व्याख्यास्यति । ।एषा ब्रााहृी इति
श्लोकेनाध्यायार्थस्य निगमनं फलव्यभिचारस्थापनं च ।
।एषा इति निर्देशस्य पूर्वोक्तनिखिलप्रकारपरामर्शित्वात् तं
प्रकारमाह ।नित्येति । स्थितधीर्लक्षं यस्यास्सा ।स्थितधीलक्षा
ज्ञानयोगाख्यस्थितप्रज्ञतासाधनभूतेत्यर्थ: । ब्राहृीत्यत्र
तद्दितविवक्षितसंबन्धविशेषं दर्शयति ।ब्राम्हप्रापिकेति ।
।एनामित्यन्वयादेशो।झ्पि सप्रकारपरामर्शीति व्यञ्जयति ।ईदृशीमिति
। मोहनिषेधफलितमाह ।पुनरिति । ।अन्तकाल इत्युत्क्रान्तिकालभ्रम
ब्युदासायाह ।अन्तिमे।झ्पि वयसीति । ""उत्तमे चेद्वयसि साधुवृत्त: (बो.सू)
इत्यादिवत् । एतेन बाल्यादिषु विषयप्रवणस्यापि पश्चान्निर्विण्णस्याधिकार:
सूचित: । किंपुन्ब्राहृचर्यादिकालमारभ्य स्थित इति च भाव: ।
स्थिति:--तत्संबन्ध: । षष्ठीसमाससभ्रमापाकरणायाह ।निर्वाणमयं
ब्राहृेति । ।निर्वाणब्राहृ श्ब्दयोरत्रारवाचीनविषयतामाह ।सुखेति ।।
ननु नित्यात्मज्ञानतत्साक्षात्कारयोरपि प्रकृतत्वात्
कर्मनिष्ठमात्रनिगमनपरो।झ्यं श्लोक इत्युक्तमिति
शङ्कायां प्रधानभूततदनबन्धेनान्यकथनमिति दर्शयन्
उत्तराध्यायचतुष्टयसङ्गतिं वक्तुमुक्तमर्थं च सङ्कल्य्य वदन्
नित्यामेत्यादिकं द्वितीयाध्यायार्थसंग्रहश्लोकमपि व्याख्याति ।एवमिति ।
मोहस्य हेतुस्वरूपकार्याणि विशदयति ।आत्मेत्यादिना ।निवृत्तस्येत्यन्तेन
। व्याख्यानव्याख्ययेयात्मना संग्रहश्लोकस्थसमासान्तर्गत
पदद्वय(द्वन्द)स्य यथासङ्खयं संबन्धं व्यनक्ति ।नित्यात्मेत्यादिना ।
।साङ्खयबुद्धिरिति कर्मययोगात्प्राक् "एषा ते।झ्भिहिता साङ्खये बुद्धि:' (39)
इत्युक्तमात्मतत्त्वज्ञानमुच्यते; तद्व्यक्त्यर्थं हि ।नित्यात्मविषयेत्युक्तम्
। ज्ञानयोगस्तु कर्मयोगसध्यतया।झ्नन्तरं पृथगेवोपादीयते ।
।स्थितधीलक्षेति । अत्र ।स्थितधी शब्दो भावप्रधान: ;तल्लक्षत्वं च
तत्साधनत्वम् । ।स्थितप्रज्ञतायोगेत्यत्र स्थितप्रज्ञताशब्दो योगशब्देन
सह विशेषणविशेष्यभावेन द्वन्द्वेन वा।झ्त्र समस्यते; ""योगाख्यं फलम्
इत्यपि पूर्वं (2.53) पृथगुक्ते: । सांप्रदायिकत्वायाह ।तदुक्तमिति ।।
।। इति श्रीमद्गीताभाष्यटीकायां तात्पर्यचन्द्रिकायां द्वितीयोध्याय: ।।