सामग्री पर जाएँ

गीताभाष्यतात्पर्यचन्द्रिका/अध्यायः १

विकिस्रोतः तः
गीताभाष्यतात्पर्यचन्द्रिका
अध्यायः १
[[लेखकः :|]]
अध्यायः २ →

गीताभाष्यम् -तात्पर्यचन्द्रिकया

श्रीःतात्पर्यचन्द्रिका

श्रीमान्वेङ्कटनाथार्यः कवितार्किक केसरि। वेदान्ताचार्यवर्योमे सन्निधत्तां सदाह्मति।।

यतिपरिबृढो यद्गीतानामदर्शयदञ्जसा निगमपरिषन्नेदीयांसं निरामयमाशयम्।

जननपदवीयातायातश्रमापहरां धियं जनयतु स मे देवः श्रीमान् धनञ्जयसारथिः।।

अनुचितपदवीभिश्चिन्तयित्वा प्रयातान्यलमलमतिमात्रत्रासचिन्ताविषादैः।

उपनिषदमुदारामुद्वमन्पाण्डवार्थं शरणमुपगतान्नस्त्रायते शाङ्र्गधन्वा।।

सन्तः सारलिहश्चित्ततमः प्रमथिनीमिमाम्। भजन्तु भगवद्गीता भाष्यतात्पर्यचन्द्रिकाम्।।

श्रीमद्गीतां व्याचिख्यासुः, अविघ्नपरिपूरणप्रचयगमनार्थं परमाचार्यस्य संग्रहश्लोकनिर्माणमुखेन तदर्थोपदेष्टुतां तदनुवृत्तेः स्वाचार्यसंप्रीणनतामप्यनुसन्दधानः परमाचार्यभजनरूपं मङ्गलमाचरति - यत्पदाम्भोरुहेत्यादि। यच्छब्देन सर्वोत्तराचार्यगुणपौष्कल्यहेतुकां प्रसिदिं्ध सूचयति।अम्भोरुहशब्देन भोग्यत्वप्रतीतेर्भक्तिरूपत्वं ध्यानस्य व्यज्यते। यामुनाचार्यस्य,द्रोणाचार्यस्य एकलव्य इवाहमित्यभिप्रायेण ध्यानशब्दः। सकृत्सन्दर्शनेन प्रायशः कल्मषाणि विध्वस्तानि, तन्मूलनिरन्तरस्मरणेन तेषां सवासनोन्मूलनं कृतमित्यभिप्रायेण ' ध्यानविध्वस्ताशेषकल्मषः' इत्युक्तम् । वस्तुताम् ' अस्ति ब्राहृेति चेद्वेद सन्तमेनं ततो विदुः' (तै.उ 2.6.1) इत्याद्युक्तप्रकाराम्। अहं वस्तुतामुपयात इत्याश्चर्यगर्भम्। एवमनिष्टनिवर्तनेष्टप्रापणरुपोपकारस्मृतिप्रेरितवागादि त्रितयकरणकःप्रणामः शिष्यशिक्षणार्थं श्रोतृणां फलसिद्ध्यर्थं च ग्रन्थे निवेशितः। तेन स्वाचार्यवत्तदाचार्यपरम्पराया अपि भजनमत्यादरेण करणीयमित्यपि शिक्षतम्। तथा च श्रूयते,' स चाचार्यवंशो ज्ञेयो भवति, आचार्यांणामसावसावित्या भगवत्तः'(रह.ब्राा) इति।। अथाभिमतपरदैवतस्यभगवतःस्वरूपरूपगुणविभवादिभावनावर्णनाभ्यामर्थादभङ्गुरंमङ्गलमाचरन्,

'स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः(गी.सं)। नारायणः परं ब्राहृगीताशास्त्रे समीरितः' इति संग्रहानुरोधेन व्याख्येयशास्त्रप्रधानप्रतिपाद्यं च सप्रकारं दर्शयन्, शारुाप्रामाण्यस्थापनाय वक्तुः स्वतःसर्वज्ञत्वपरमकारुणिकत्वसाधुपरित्राणो-

न्मुखावस्थत्वसर्वशक्तित्वादिना भ्रमविप्रलम्भप्रमादाशक्तयाद्यभावप्रदर्शनेनाप्ततमत्वं समर्थयन्,अपवर्गप्रधानचतुर्वर्गोपाय-

बोधात्मकमवान्तरप्रयोजनम् अपवर्गदशानुभाव्यसप्रकारभगवत्स्वरुपं च परमप्रयोजनं प्रकाशयन्, शंकरादिपत्क्षे शास्त्रोपदेशारम्भाद्यनुपपत्तेर्वक्ष्यमाणआयाः स्वपक्षे प्रसङ्गाभावाय शस्त्रोपदेशशाद्यनुकूलजीवपरमात्मपारनार्थिकथनेन शास्त्रारन्भं समञ्जसयन्, कारणशोधकोपासनभेदाभेदघटकवचसां सर्वेषामपि मिख्यतां ख्यापयन्, गुणतनुजनिविभवविहरणादिविधिनिषेधोपनिषदामल्पक्श्रुतकुमतिविहितप्रतारणकृतकलहकूलङ्कषां विषयव्यवस्थामपि स्थापयन्, अवाप्तसमस्तकामस्यापि लीलामात्रविहितनिखिलव्यापरत्वेन शारीरकद्वितीयाध्यसिद्धं विरोधपरिहारमुपलक्षयन्,जित्ज्ञास्यजगत्कारणपरब्राहृभूतदेवताविशेषमपि सर्वशाखाप्रत्ययसामान्यविशेषादिन्यायैः त्रिमूत्र्यैक्यसाम्योत्तीर्णव्यक्त्यन्तरत्वव्युदासेन निरूपिताकारं निर्दिशन् 'बहु स्याम्' (छा.उ.6.2.3)इतिसंकल्पमारम्भ्य

सारथ्यचर्यापर्यन्तस्य सर्वस्य जगद्व्यापारस्याश्रितार्थतया व्याजमात्रलाभादपि परमपुरुषार्थभूतस्वात्मोपलम्भका- ध्यात्मशास्त्रावतरणादिना च सौलभ्यातिशयमुद्धोषयन्, प्राप्यत्वोपास्यत्वैकान्तपरत्वसौलभ्यस्थापनौपयिकगुण वर्ग द्वये जगत्पतित्वसर्वत्ज्ञत्वसर्वशक्तित्वसर्वेश्वरत्वादिकं परमरारुणिकत्वशुभाश्रयत्वाश्रितार्थावतारत्वविरोधि निरसन - शीलत्वासेचनकदर्शनत्वादिकं चोदाहरन्, पञ्जमवेदपरमप्रतिपाद्यस्य भगवतो नारायणस्य प्राक्तनोदन्तं गीतोपनिषदुपदेशेन संगमयति - श्रियः पति रित्यादिना अवतारयामासे त्यन्तेन। तत्रे त्यादिना चकारे त्यन्तेन द्वितीयेन वाक्येन बुभुत्सोर्धृतराष्ट्रस्य ज्ञातांशनिष्कर्षः। एवं ज्ञात्वापी त्यादिना तु तृतीयेन वाक्येन शारुाोपोद्धातारम्भ-

भूतप्रश्नसंगतिः। अत्र दिव्यात्मस्वरूपव्यतिरिक्तं समस्तमपि नारशब्दार्थतया विविच्य दर्शयिष्यन्,तदयनं स्वरूपमन्यपदार्थतया उत्तरपदार्थतया वा समासद्वयेऽपि प्रधानभूतं प्रथमं निष्कृष्य दर्शयति -

श्रियः पतिरित्यादिना।। विशेषज्ञप्तये भर्तुरभिगम्यत्वसिद्धेये। समस्तमङ्गलाप्त्यै च प्रथम श्रीरिहोदिना। 'एष नारायणः श्रीमान्क्षीरार्णवनिकेतनः। नागपर्यङ्कमुसृज्य ह्रगतो मधुरं पुरिम् ' (ह.वं.वि.प.54.50) 'अर्थो विष्णुरियं वाणी'(वि.पु.8.18) इत्यादिकमिह भाव्यम्। कतिपयहेयनिवर्तकतीर्थसेवादिव्युदासाय नुखिलेति विशेषणम्। अत्र

हेयशून्यत्वमर्थसिदधम्। न हि परगतनिखिलहेयनिराकरणसमर्थः स्वगतं हेयं क्षमते। यद्वा हेयविरोधिस्वभावतया हेयशून्यमित्यर्थः; तदा निखिल शब्दःसर्वाचिद्गतं विकारादिकं सर्वचिद्गतं क्लेशादिकं च संगृह्णाति। कुमतिपरिकल्पितमंशभेदेनाकल्यास्पर्शमपाकर्तुं कल्याणैकतान शब्दः। अत एव 'ज्ञानानन्दैकस्वरूपः' इत्यनेनापौनरुक्तयम्। अथवा सामान्यविशेषनिर्देशरूपत्वाद् पुनरुक्तिः। यद्वा कल्याणैकतानः कल्याणगुणानामेवा- श्रयभूत इति वक्ष्यमाणगुणप्रपञ्जस्य संग्रहः।।

त्रिविधानां चेतनाचेतनानां पराधीनत्वादिसाम्यादेवंभूतं वस्त्वन्तरं नास्तीत्यभिप्रायेणाह - स्वेतरेति । एतेन ज्ञानभोगसाम्येऽपि सर्वप्रकारसमत्वनिषेधः। 'नित्यं विभुं सर्वगतम्'(मु.उ.1.1.6) 'विश्वमेवेदं पुरुषं (तै.ना.11.1)

इत्यादिप्रसिद्धं त्रिविधपरिच्छेदराहित्यं प्राधान्यतः पृथगाह - अनन्तेति। अनन्तं त्रिविधपरिच्छेदरहितम्। 'अत्रैव देशेऽस्ति, अत्र तु नास्ति' इति देशपरिच्छेदः; 'अत्र कालेऽस्ति, अत्र तु नास्ति' इति कालपरिचछेदः;'इदम् इदं न भवति' इति वस्तुपरिच्छेदः, अल्पवर्णस्वर्णवत् स्वरुपापकृष्टत्वादिकं वा। एवंविधपरिच्छेदत्रयराहित्यं नाम सर्वदेशसर्वकालव्यापित्वसर्वान्तर्यामित्वरूपम्। वस्तुपरिच्छेदराहित्यं हि समस्तवस्तुसामानाधिकरण्ययोग्यत्वादिकम्; न पुनर्मिथोविरुद्धविविधवस्तुतादात्म्यं स्वव्यतिरिक्तसमस्तवस्तुमिथ्यात्वं वा, उभयोरत्यन्तासंभावितत्वात्। विस्तरस्तु शतदूषण्यां कृतोऽस्माभिः। आनन्दस्य ज्ञानविशेषत्वात् ज्ञानानन्दशब्दयोः सामानाधिकरण्यमुपपन्नम्। तर्हि आनन्दशब्दस्य विशेषशब्दत्वात् 'घटद्रव्यं' इत्यादिवत् 'आनन्दज्ञानम्' इति वक्तव्यमित् चेत्,तन्न; बहुलग्रहणेन सर्वोपपत्तेः। यद्वा आनन्दशब्दस्य अनुकूलवेदनीयेषु जडेष्वपि प्रयोगत्तद्विशेषणतया ज्ञानशब्दस्य पूर्वत्वोपपत्तिः। स्वरूपं प्रतीदं विशेषणद्वयं वा।।

स्वाभाविकेति। स्वरूपापेक्षया गुणविग्रहादिनामपृथक्सिद्धिसाम्येऽपि विग्रक्हादिधारणनियमनादौ ज्ञानादिगुणगणा-

पेक्षत्वप्रदर्शनाय उत्तरोत्तरसुग्रहत्वस्द्धये च प्रथमं गुणोक्तिः। समस्तगुणबृन्दप्रधानतया षाड्गुण्यस्य स्वरूपेणोपादानम्; इतरेषां च सौशील्यादीनां प्रभृति शब्देन संग्रहणं कृतम्। तवानन्तगुमस्यापि षडेव प्रथमे गुणाः। यैस्त्वयेव जगत्कुक्षावन्येऽप्यन्तर्निवेशिताः' इति ह्राहुः। संह्मतिसृष्टिस्थितिहेतुभूतसंकर्षणादिव्यूहत्रये ज्ञानबलादि द्वन्द्वत्रिकस्य यथाक्रमं तत्तत्कार्यविशेषोन्मुखत्वेनाविर्भावविशेषात् ज्ञानबलेत्यादिक्रमविशेषः कृतः। स्वतः सर्वं सर्वथा

सर्वदा साक्षात्करोति, तथा साक्षात्कृतं च सर्वं धारयति, धारयन्नेव नियच्छति,धारयन्नियच्छं श्चाशिथिलो भवति, अघटितं च घटयति, तत्र च सहकारिनिरपेक्षो न केनचिदभिभूयते किंतु सर्वाभिभूर्भवति,इति च गणक्रमपाठ विवक्षा। स्वाभाविकत्वमनन्याधीनत्वम्। मुत्तनित्ययोरपि हि तादृशं ज्ञानादिकं तदनुगुपरमात्मसंकल्पाधीनम्। अनवधिकत्वमत्रोत्कृष्टावधिराहित्यम्। द्वाभ्यां विशेषणाभ्यां 'परस्य शक्तिर्विविधैव श्रूयते, स्वाभाविकी ज्ञानबलकिरिया च' (श्वे.उ.6.8)इत्याम्नाते परत्वस्वाभाविकत्वे प्रतिगुणमन्विते प्रदर्शिते। असङ्ख्येयशब्देन महोदधिशब्देन च 'यथा रत्नानि जलाधेरसङ्ख्येयानि पुत्रक । तथाच गुणा ह्रनन्तस्य असङ्ख्येया महात्मनः' (वा.पु.74.40)इत्यादि स्मारितम्। कल्याणशब्देन गुणनिषेधवचनानां हेयगुणविषयत्वमुत्सर्गा पवादन्यायसिद्धं सूचितम्।।

अथ कारणोपसनादिप्रकरणेष्वरुाभूषणाध्यायादिषु च प्रतिपन्नं विलक्षणविग्रहयोगं दर्शयति - स्वाभिमतेति। अभिमतेऽप्यननुरुपत्वस्य अनरूपेऽप्यनभिमतत्वस्य लोके दृष्टात्वात्तदुभयव्यवच्छेदाय स्वाभिमतानुरूपेत्युक्तम्। एकरूपेत्यनेन व्यूहविभवाद्यवस्थास्वपि हेयप्रत्यनीकत्वानन्दावहत्वमुमुक्षूपास्यत्वप्राप्यत्वादिस्वभावपरित्यागोऽभिहितः। यद्वा व्यूहादिपरिणामे सत्यपि परमव्योम निलयस्य विग्रहस्य प्राचीनसंस्थानावस्थितिरुक्ता। 'सावयवत्वादनित्यम्' इत्यादीनां धर्मिग्राहकबाधादिभिराभासतामभिप्रेत्य अचिन्त्यत्वोक्तिः। एको दिव्यशब्दः संस्थानवैलक्षण्यपरः, परमव्योमवर्तित्वमात्रपरो वा; इतरस्त्वप्राकृतत्वपरः। विचित्रावतारयोगः, प्रतिक्षणमपूर्ववदनुभाव्यमत्वम् वटपत्रशयनविश्वरूपाद्यवस्थागतमाश्चर्यं च, अद्भुतशब्देन विवक्षितम्। नित्यत्वं कालापरिच्छिन्नत्वम्। तथा चामानन्ति रहस्याम्नायविदः, 'नित्यालिङ्गा स्वभावसंसिद्धिरिन्द्रियाकाराङ्गप्रत्यङ्गव्यञ्जनवती'(रह.ब्राा) इति। श्रीपौष्करे च, 'नित्यसिद्धे तदाकारे तत्परत्वे च पौष्कर।यस्यास्ति सत्ता ह्मदये तस्यासौ संनिधिं व्रजेत्'(पा.पौ.सं) इति। निरवद्यत्वं जरादिराहित्यम्। उत्तरोत्तरनिरवद्यशब्देषु पूर्वपर्वेभ्यः सुग्रहत्वं वा विवक्षितम्। शुभाश्रयत्वभोग्यत्वाद्युपयुक्तमङ्गलगुणयोगोनिरतिशयौज्ज्वल्येत्यादिनोक्तः।निरतिशयत्वं स्वापेक्षया उत्कृष्टराहित्यम्,

अनुत्तमत्ववत्। तच्च प्रति गुणमन्वेतव्यम्। औज्ज्वल्यं भास्वरत्वम्। सौव्दर्यं अवयवशोभा। 'सर्वगन्धः'

(छा.उ.3.14.4)इति श्रुतिरनुकूल गन्धविषया; रुाक्चन्दनादि चात्र कृतकरमित्यभिप्रायेन सौगन्ध्यशब्दः। सौकुमार्यं महाबलत्वेऽपि 'पुष्पहासः'(भा.आ.स.102) इति नाम दुहानं मार्दवम्; यथोक्तम्,'सुकुमारौ महाबलौ'(रा.आ.19.14) इति। लावण्यं समुदायशोभा। यत्तदुच्यते भगवच्छारुो, 'विश्वमाप्याययन्कान्त्या पूर्णेन्द्वयुततुल्यया' (सा.सं.2.70) इति। 'भूयिष्टं तेज एवाद्भिर्बहुलाभिर्मृदूकृतम्। चक्षुरानन्दजननं लावणयमिति कथ्यते'(अहि.सं.52) इति ह्राहुः । यौवनं कौमारानन्तर्योपलक्षणीयः स्वभावविशेषः, न तु कौमारानन्तरभाविन्येव दशा; तद्यौवनस्यानादित्वात्, देवादिषु च केषांचित् युवत्वेनैवोत्पत्तिदर्शनात्। आदिशब्देन शुभाश्रयप्रकरणेषूक्ताः सर्वे विग्रहगपणाः संगृहिताः।।

एवं स्वरूपतद्गुणौ विग्रहतद्गुणौ च प्रतिपाद्य,विग्रहाश्रितमाभरणवर्गमायुधवर्गं च दर्शयति - स्वोचितेत्यादिपदद्वयेन। पूर्वोक्तविलक्षणविग्रहविशिष्टं स्वरूपमिह स्वशब्दार्थः। अत्र 'आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः। सर्वभूषण भूषार्हाः ' (रा.कि.3.15)इत्यादि भाव्यम्। किरिटहारादिरूपेण वैविध्यम्। एकजातीयोष्वपि मणिकाञ्चननादिद्रव्यविशेषवर्णसंस्थानादि- विशेषविशिष्टव्यक्तिभेदाद्वैचित्र्यम्। अपरिमितेत्यसंख्येयत्वोक्तेः अनन्तत्वमाश्चर्यविशेषणम्। अनवधिकाश्चर्यरसावहत्वमनन्ता- श्चर्यत्वम्; अथवा अनन्तानि आश्चर्याणि संस्थानविशेषसौगन्धयसुखस्पर्शत्वादीनि येषां भूषणानां तानि तथोक्तानि। नित्यनिरवद्यशब्दौ पूर्ववत्। अपरिमितत्वमसंख्येयत्वमेव,न तु ह्यस्वगदीर्खादिपरिमाणविरहः। यद्वा अनन्तेत्यसंख्येयत्वम्, अपरिमितेति च विग्रहानुरूपमहत्वं, विवक्षितम्। भूषणायुधयोर्दिव्यत्वमप्राकृतत्वम्। पूर्वोक्तगुणविग्रहाभरणविशिष्टः 'स्वानुरूप' इत्यत्र स्वशब्दार्थः। असंख्येयेति। पञ्चायुधत्वप्रसिद्धिः प्राधान्यादिति भावः। अचिन्त्यशक्तीति। कुठारटङ्ककुद्दा- लादिभिः प्रत्येकं कृच्छ्रसाध्यं सालशैलवसुधातलविदारणम् एकेन हि महेषुणा कृतमिति भावः। निरतिशयकल्याणत्वं निरतिशयानन्दावहत्वम्, भूषणकोटावप्यनुप्रवेशात्; यद्वा लोके यान्यायुधलक्षणानि मङ्गलावहताय प्रसिद्धानि, तैः सर्वैः संपूर्णत्वम्।।

पूर्वं स्वरूपनिरूपकतया सामान्यतोऽभिहितां श्रियं विभूतिमध्येऽपि स्थितां विशेषतो दर्शयन्नार्थात्तत्स्वरूपादिकमप्याह- स्वाभिमतेति । स्वरूपं स्वासाधारणधर्मविशिष्टं श्रियो दिव्यात्मस्वरूपम्। रूपं दिव्यविग्रहः। रूपानन्तरो गुणशब्दस्तद्गत- निरतिशयौज्ज्वल्यसौन्दर्यादिपरः। विभवशब्दः परिजनपरिबर्हादिपरः। परत्वसौलभ्यौपयिकगुणवर्गद्वयम् ऐश्र्वर्यशीलपदाभ्या- मुपलक्षितम्। ततश्चादिशब्दः प्रत्येकमन्वयात् ज्ञानशक्त्यादिकं वात्सल्यादिकं च संगृह्णाति। ऐश्वर्यशीलादेर्गणत्वानौचित्यात्, अनवधिकातिशयत्वस्यापि गणविशेषणत्वे प्रतयेकं गुणानामुत्कर्षस्याशाब्दत्वात्, गुणविशेषणतयैव समास उचितः । स्वरूपम्,रूपम्,तद्गुणः,विभवः,ऐश्वर्यादिगुणगणश्च,इति द्वन्द्वः। स्वरूपादिपज्चकं भगवदभिमतानुरूपं नित्यं निरवद्यं यस्याः, सा स्वाभिमतेत्यादिगुणगणेत्यन्तनोक्ता। स्वरूपम्,रूपम्,तद्गुणः,विभवः,ऐश्वर्यम्,शीलम्, इत्यादिगुणगण इति योजनायां स्वरूपरूपयोरपि गुणानुप्रवेशप्रसङ्गः। स्वरूपादेःसर्वस्य परमात्माभिमतत्वं व्यक्तम्। स्वरूपस्य नित्यत्वं निर्विकारतया सर्वकालवर्तमानत्वम्। नितवद्यत्वं पूर्वं परमात्मस्वरूपे प्रतिपादितप्रकारम्, तद्वत् पितृत्वप्रयुक्तकदाचित्कोष्मलत्वादिराहित्यं वा। अनुरूपत्वं तु यथाप्रमाणं प्राग्वदेव कल्याणैकतानत्वाद्कम्। ' शान्तानन्त'(च.श्लो.4)इत्यादिकमिह भाव्यम्। रूपस्य नित्यत्वमवतारादिदशायामपि परमपदनिलयभगवदेकासनस्थितस्य तथावस्थितत्वम्। अनुरूपत्वं च,'अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम्। रामस्य च यथा रूपं तस्येयमसितेक्षणा' (रा.सु.15.51) 'विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुम्' (वि.पु.1.9.145)इत्यादिप्रतिपादितम्। विग्रहगुणानां नित्यत्वं नाम औज्ज्वल्यादेः कदाचिदप्यपकर्षाद्यभावः। निरवद्यत्वं च दुष्प्रेक्षत्दिराहित्यम्। अनुरूपत्वं, 'घनकनकद्युती युवदशामपि मुग्धदशाम्' (गु.र.को.29)इत्याद्युक्तप्रकारम्। विभवस्यानुरूपत्वं,

'देवतिर्यङ्मनुस्येषु पुन्नामा भगवान् हरिः। स्त्रिनाम्नीलक्ष्मीर्मैत्रेय नानयोर्विद्यते परम्' (वि.पु.1.8.35)इत्याजिभिरनुसंधेयम्। अनवधिकातिशयत्ववचनादीश्वरख्यतिरिक्ताशेषगोचरसियापि तदैश्वर्यस्य ईश्वराभिमतत्वान्न द्वैराज्यादिदोषः। 'अस्येशाना जगतो विष्णुपत्नी'(यजु.4.4.12.57)इति विष्णुपत्नीत्ववेषेण हि सर्वस्य जगत इयमीष्टे। 'ईश्वरी सर्वभूतानाम्'(श्रीसूक्ते) इत्यत्र तु,यद्यपि सर्वभूतानामिति प्रतिसम्बन्धिनिर्देशात् स्त्रीप्रत्ययानुसारेण ईश्वरपत्नीति विवक्षा न शक्या। तथापि वाक्यान्तर- बलादर्थस्य तथात्वसिद्धिः। निरवद्यत्वं भगवदैश्वर्यैकरसत्वं वा निग्रहादिप्रसङ्गाभावो वा। प्रतिकूल दण्डत्वं हि पुंस्वानुरूपं तद्वल्लभस्यैव भागः। शूलस्य नित्यत्वं महत्त्वे सत्यपि मन्दैः सह नूरन्र्धस्श्लेषे कदाचिदपि स्वोत्कर्षप्रकाशनाभावः; निरवद्यत्वं तत्र विप्रलम्भाभिप्रायादिविरहः। अनुरूपत्वम्, अनवधिकातिशयत्वं च, 'तुल्यशीलवेवृत्ताम्'(रा.सु.16.5) इत्याद्युक्तप्रकारम्। एवं श्रियः पृथङ्नित्यस्वरूपगुणविभवैश्वर्यशीलादिप्रतिपादनेन

ज्ञानादिगुणवदपृथक्सिद्धशक्तिमात्रत्वम्, व्यूहविशेषत्वम्,

स्वरूपैक्यम्, अन्यदपि, वदन्ते निरस्तः। शक्तित्ववादस्तु पत्नीत्वेन कार्योपयुक्तविशेषणत्वाभिप्रायाः। प्रयुज्यते हि शास्त्रेषु सर्वत्र स्त्रिपुंसात्मकेषु द्वन्द्वान्तरेष्वपि स्त्र्यंशे शक्तिशब्दः।एकत्ववादास्तु समस्तप्रञ्चप्रतियोगिकैकशेषित्वाश्रयत्वेन,विशिषटैक्येन, आत्महविः प्रत्युद्देश्यै कदेवतात्वादिवेषेण वा, निरवाह्राः। अत एव हि 'व्यापकावतिसंश्लेषादेकतत्त्वमिवोदितौ ' (भ.शा) अत्युच्यते। उक्तं च श्रीराममिश्रैः षडर्थसंक्षेपे ' उभयाधिष्टानं चैकं शेषित्वणम् ' (ष.सं)इत्यादि। एवंविधाया भगवत्याः श्रियो

वल्ल्भः प्रियतमः, श्रीः वल्ल्भा यस्येति वा। न चाभिमतशब्दपुनरुक्तिः, प्रत्येकसमुदायविषयतयाभिमतत्वातिशयव्यञ्जन- परत्वादिति।।

अथ नित्यपरिजनविशिष्टतां दर्शयति - स्वसङ्कल्पेति। स्वरूपं धम्र्यंशः। स्थितिः अप्रच्युततयावस्थानम्। प्रवृत्तिः व्यापारः।नित्यानां स्वरूपस्थित्योः परमात्मसंकल्पानुविधायित्वं नाम तननितयेच्छासिद्धत्वम्। तच्चानिच्छासम्भवे निवर्तयितुं शक्यतामात्रम्। तेषुत त्वनिच्छायाः कदाचिदप्यभावात् स्थितेः सदातनत्वम्। इदं च परमात्मसङ्कल्पानुविधायि स्वरूप- स्थितिप्रवृत्तित्वं बद्धमुक्तप्रकृतिप्राकृतकालादिष्वपि भाव्यम्। तच्च सर्वं प्रपञ्चयिष्यते। शेषता शेषवृत्तिरित्यर्थः। अशेषशेषता यथाभिमताकारता। अत्र 'शरा नानाविधाश्चापि धनुरायतविग्रहम्। अन्वगच्छन्न काकुत्स्थं सर्वे पुरुषविग्रहः'(रा.उ.109.7) 'निवासशय्यासनपादुका'(स्तो.र.40)इत्यादि द्रष्टव्यम्। एकैककृतस्यैव हि कैङ्कर्यस्य मिथः सर्वार्थतयाऽनुसन्धानात् सर्वेऽप्यस्य सर्वकैङ्कर्यकारिणो भवेयुः। यद्वा स्वरूपस्थितिप्रवृत्तिभेदा एव अशेषशब्देन संगृह्रन्ते;तेषामशेषाणां परमात्मानं प्रति शेषता शेषभावः। एवमुक्तप्रकारायां शेषतायामितरपरित्यागेन तदेकावलम्बिनी प्रीतिरेव रूपं स्वरूपं स्वभावो वा येषां ते अशेषशेषतैकरतिरूपाः। ते च सर्वे नित्याः। स्वरूपनित्यत्वस्य सर्वात्मसाधारणत्वात् मुक्तवत्कदाचिदाविर्भूत स्वरूपत्वमिह नित्यशब्देन व्युदस्यते,नित्यासंकुचितज्ञानादिगुणा इत्यर्थः। तत एव निरवद्याः क्लेशकर्मस्वातन्त्रयाभिमानादिदोषात्यन्ताभाववन्तः।एषां ज्ञानस्य निरतिशयत्वं परमात्मज्ञानतुल्यत्वम्। क्रियया निरतिशयत्वं स्वच्छन्दानन्तकैङ्कर्यात्मकत्वम्। ऐश्वर्यस्य निरतिशयत्वं परमात्मकैङ्कर्योपयोगिस्वेच्छागृहीत-

शरीरेन्द्रियादिनियमने निर्वघातत्वम्; न तु सर्वविषयत्वम्, 'जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च' (ब्रा.सू.4.4.17) इति न्यायात्। अत्र निरतिशयज्ञानक्रियैश्वर्यादिरनन्तो गुणगणो यषामिति विग्रहः। ते च अपरिमिताः असङ्ख्येयाः सूरयः। 'सदा पश्यन्ति सूरयः, तद्विप्रासो विपन्यवोजगृवाँसः समिन्धते'(सा.वे.3.18.2.4) इत्याद्यनुसन्धानेनाह - अनवरताभिष्टत- चरणयुगल इति । विपन्यवः विशेषेण स्तुतिशीलाः। 'पण व्यवहारे स्तुतौ च।पन च।' (धा.भ्वा)अभिष्टुतेत्यभिर्विशब्दार्थः। स्तुतिशीलत्वादनवरतत्वोक्तिः।।

स्तुतिविषयत्व प्रसक्तमैश्वर्यादेरियत्तारूपं परिच्छेदमपाकरोते - वाङ्मनसेति। एतेन 'यस्यामतं तस्य मतं मतं यस्य

न वेद सः।अविज्ञातं विजानतां विज्ञातमविजानताम्'(के.उ.2.3) 'सो अङ्ग वेद यदि वा न वेद'(ऋ.वे.अ.8.7.11.11, कृ.य.2.8.9) 'यतो वचो निवर्तन्ते,अप्याय मनसा सह' (तै.उ.आ.4.1)इत्यादीनां वाङ्मनसयोरवेद्यत्वार्थतांवदन्तो निरस्ताः। तथा सति टतद्विजिज्ञासस्व' (तै.उ.भृ.1.1) 'मनसा तु विशुद्धेन'(म.व्या.1.8) 'ब्राहृवित्'(तै.उ.आ.1.1) 'आनन्दं ब्राहृणो विद्वान्'(तै.उ.आ.4.1) इत्यादिभिः 'यतो वाचो निवर्तन्ते' इत्यत्र यच्छब्दादिभिश्च , विरोधप्रसङ्गः। विरोधपरिहाराय मुख्यवृत्तिनिषेधविषयतया व्यवस्थाप्य इति चेत्,आगतोऽसि पन्थानम्; विषयव्यवस्था तु यथाप्रमाणमस्माभिः क्रियत इति विशेषः। वाङ्मनसेत्यादिकं परमव्योमविशेषणतया केचिद्व्याचक्षते, श्रीवैकुणठगद्ये तथोक्तेः।

वयं तु अत्रैव षष्ठाध्याये, 'योयिनामपि' इति श्लोके'वाङ्मनसापरिच्छेद्यस्वरूपस्वभावम्'इति परमात्मविशेषणत्वेनैवाभिधानात्,

कुमतिनिरासार्थमपेक्षितत्वाच्च,अत्रापि तथा विवक्षामाचक्ष्महे।।

श्रीभगवद्गीतायां प्रथमोऽध्य़ाय:




स्वोचितेत्यादि । अत्राप्यनन्ताश्चर्यशब्द: पूर्ववत् । विभवशब्देन वाहनरत्नादिग्रह: । अनन्तपरिमाणत्वं तिर्यगूध्र्वादिदेशापेक्षया प्र्अधस्तात् प्रकृत्यवच्छिन्नत्वात् । अनन्तशब्दावृत्ति: प्रत्येकमानन्त्ये तात्पर्यातिरेकात् । नित्यत्वं प्राकृतव्यामोवत् लयरहितत्वम् प्र्निरवद्यत्वं शुद्धसत्त्वमयत्वेन रजस्तमस्तत्कार्यराहित्यम् । अक्षरत्वम् अंशतोऽपि सृष्टिसंहारविरह: । परमशब्देन परनिर्दिष्टप्रक्रियया प्राकृतव्योमव्यवच्छेद: । एतेन "तदक्षरे परमे व्योमन्' (तै.ना.) इत्यादिश्रुतिसूचनम् । एवं नित्यविभूतियोग उक्त: प्र्प्र्


अथ लीलाविभूतियोगप्रतिपादनमुखेन, "यतो वा इमानि' (भृ 1) इत्यादिवाक्यै:, "जन्माद्यस्य यत:' (ब्रा. 1. 1. 2)

इति सूत्रेण च निरूपितं जिज्ञास्यब्राहृलक्षणयोगं दर्शयति--।विविधेति । शब्दस्पर्शादिरूपेण दिव्यादिव्यादिभेदेन

चात्र भोग्यवैविध्यवैचित्र्ये । "इमानि' इतयादिश्रुत्या हस्तप्रसारणेन तत्तत्प्रमाणसिद्धसमस्तकार्यप्रकारनिर्देशात् बहुवचनासङ्कोचाच्च भोक्तृणां ज्ञानसुखादितारतम्यहेतुभूतं देवादिरूपेण वैविध्यम् ,तदवान्तरविधाभूतब्रााहृणादिरूपेण वैचित्र्यं च दर्शितम् । यद्वा ।विविधशब्द एव सावान्तरभेदं समस्तं वैविध्यं संगृह्णाति । । विचित्र शब्दस्वाश्चर्य(पर)रूपत्वेन अन्या (मनना)शक्यत्वपर:,"मेघोदय:' इत्यारभ्य "विष्णोर्विचित्रा: प्रभवन्ति माया:' (स.भा. 303) इत्यादिवत् । ज्ञानसुखादितारतम्याभावेन परमव्योम्नि भोक्तृवैविध्याभावात् परभोग्यतैकरसानां नित्यसूरीणां पृथगुक्तत्वाच्च तत्र भोक्तृवर्गानुक्ति: । भोगोपकरणभोगस्थानानि अत्राप्यर्थसिद्धानि । एवंविधायाश्च

विषमसृष्टेर्विचित्रानादिचेतनकर्मप्रवाहमूलत्वान्न वैषम्यादिदोष: । ।

निखिलशब्देनकतिपयसृष्टयादिनिमित्तोपादानभूतचतुर्मुखादिव्यावर्तनम् प्र् । उदयशब्देन सद्वारकाद्वारकसमस्तसृष्टिसंग्रहणम् । एवं ।विभवशब्देन विष्ण्ववतारान्तर्यामित्वादिकृतविविधस्थितिसंग्रह: । ।लयोऽपि नित्यनैमित्तिकादिरूप: । निखिलसृष्टयादिष्वन्यतमस्यैव ब्राहृलक्षणत्वे संभवत्यपि उपात्तव्यतिरिक्तयो: किमन्य: कतेंति शङ्काव्यावर्तनाय सृष्टयादित्रयोपादानम् । जगद्गतानां त्रयाणामुदयविभवलयानामेतद्गतलीलात्वेन व्यपदेशादुपादानत्वं सूचितम् । जगदाकारेण जायमानत्वादीनि अस्य लीला:, "बहु स्यां प्रजायेय' (त.उ.आ.6., छा.6.2.) इति हि जगत्कारणस्य तस्य संकल्प: । सूक्ष्मचिदचिद्विशिष्टस्यैवोपादानत्वात्, बालस्येव युवत्वादिप्राप्तौ, न

स्वरूपगतो विकार इति निर्विकारझ्र्त्वटश्रुत्यविरोध: अवाप्तसमस्तकामस्य कथं जगद्वयापार इति शङ्कां परिहरता ।लीलाशब्देन निमित्तत्वमपि तस्यैवेति सिद्धम् । एतेन निमित्तोपादानभेदं वदन्तो निरस्ता: । न च

लोके निमित्तोपादानभेददर्शनमात्रात् विरोध:, लौकिककारणविलक्षणत्वात् श्रुतिसिद्धस्य ब्राहृण: । अन्ततो वैशेषिकादिभिरपि घटेश्वरगतसंयोग-विभाग-द्वित्व-द्विपृथक्त्वादिकार्येष्वीश्वरस्यैव

निमित्तत्वमुपादानत्वं च अभ्युपगतमिति न कश्चिदस्मन्मते दोष: ।

तथा बुद्धि(द्धयपूर्व)पूर्वकस्वसुखोत्पादनादावपि द्रष्टव्यम् प्र्प्र्

एवं ब्राहृणलक्षणयोगान्नारायणस्यैव परब्राहृत्वं दर्शयन्, सद्ब्हृात्मादिसामान्यशब्दानां नारायणाख्यविशेषपर्यवसानं च सूचयन्, "नारायण परं ब्राहृ'(तै.ना) इति श्रुत्यनुकारिण:, "नारायण: परं ब्राहृ गीताशास्त्रे समीरित:' इति गीतार्थ(शास्त्रार्थ)संग्रहश्लोकस्य प्रपञ्चनमिह क्रियत इति ज्ञापयन्,उक्तै: प्रकारै: समाख्यात्रयमस्यैव

संगतमिति चोदाहरन्,उक्तेष्वर्थेषु वा समाख्यात्रयं प्रमाणयन्, "परं धाम पवित्रं परमं भवान्' (गौ. 10.12) "प्रथित: पुरुषोत्तम:' (गी. 15.18) "एष नारयण: श्रीमान्' (ह.वि. 54.50) इत्यमीषां कृष्णैकविषयत्वं च दर्शयन्, अभेदश्रुतीनां भेदश्रुतीनां घटकश्रुतीनां कारणशोधकोपासनश्रुतीनां च निष्कृष्टमर्थं संगृह्णाति--। परं ब्राहृ पुरुषोत्तमो नारायण इति प्र्

सर्वसामानाधिकरण्यं सर्ववैलक्षण्यं च सर्वान्तर्यामित्वेनोपपन्नमिति पदत्रयाभिप्राय: । अत एव अत्र

प्रपञ्चबाध-भेदाभेदादिना सामानाधिकरण्यं वदन्तो निरस्ता: । "एको ह वै नारायण आसीन्न ब्राहृ नेशान:' इत्यारभ्य,"तत्र

ब्राहृा चतुर्मुखोऽजायत' (महोप. 1.2.1), "यो ब्राहृाणं विदधाति पूर्वं यो वै वेदांश्ट्ठच प्रहिणोति तस्मै'( श्वे. 6. 18)

इत्याद्युक्तकरणकलेबरप्रदान-हितोपदेष्टृत्वादिकमभिप्रेत्याह---।ब्राहृादि स्थावरान्तमखिलं जगत् सृष्ट्वेति । ब्राहृसृज्यस्य

स्थावरपर्यन्तस्य जगत: परमात्मसृज्यत्ववचनात् ब्राहृादिकञ्चुकित: परमात्मा तत्तत् सृजतीति सिद्धम् प्र्प्र्

अथ स्वेच्छयाऽवतारं तत्प्रयोजनं च वक्तुमनवतारदशायां तत्प्रयोजनानिर्वृतिं्त दर्शयति---। स्वेनेत्यादिना

।अगोचर इत्यन्तेन । अगोचरत्वम् अव्यक्तत्वात् । यथोच्यते--- यैर्लक्षणैरुपेतस्सहरिरव्युक्तरूपधृत् ।

तैर्लक्षणैरपेतौ हि व्यक्तरूपधरौ युवाम् (भा.भो. 344. 49) इति । ।ब्राहृादिदेवेति वचनात्, "तदुपर्यपि बादरायण:

संभवात्'(ब्रा. 1.3.25) इत्यधिकरणेऽर्थित्वसामथ्र्याभ्यां समर्थितं ब्राहृरुद्रेन्द्रादिदेवजातीनामपि परमात्मोपासनाधिकारित्वं

सूचितम् प्र् स्वप्रयोजनाभावे कथं प्रवर्तेतेत्यत्राह ।अपारेति । स्वार्थनिरपेक्षया परदु:खासहिष्णुतया, महत्त्वाप्रतिरुद्धया

मन्दै: सह निरन्तरसंश्लेषरसिकतया, स्वाभाविकेन परदोषतिरस्कारिणा संबन्धविशेषेण, पिशाचगोपालगोपिकादिभ्य:

स्वात्मसमर्पणे कृतेऽपि कियद्दत्तमिति भावयता महौदार्येण च प्रेरितोऽवतरतीत्यर्थ:(वि.पु.1.22) अस्त्रभूषणाध्यायोक्तं विग्रहम्, ""समस्ता: शक्तयश्चैता नृप यत्र प्रतिष्ठिता: । तत् विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् इति परामृश्य, ""समस्तशक्तिरूपाणि तत् करोति जनेश्वर । देवतिर्यङ्मनुष्याख्याचेष्टावन्ति स्वलीलया (वि.6..7 70.71)

इत्युक्तप्रकारेणावतारविग्रहस्याप्यप्राकृतपरमपदनिलयविग्रहांशविशेषत्वं दर्शयितुं ।स्वमेव रूपम् इत्यादि उपन्यस्तम् (उक्तम्) । "नैष गर्भत्वमापेदे न योन्यामवसत् प्रभु:' (भा.स. 61.32), "न तस्य प्राकृता मूर्तिर्मांसमेदोस्थिसंभवा (वायु. पू. 34.40,वरा. 4.41.) "न भूतसंघसंस्थानो दोहोऽस्य परमात्मन:' (भा.उद्यो) इति चोच्यते । "अजोऽपि सन्' (गी.4.6.) इत्यादिवक्ष्यमाणमनुसंदधान आह---।स्वस्वभावमजहदेवेति । "यदा यदा हि धर्मस्य ग्लानिर्भवति

भारत.... संभवामि युगेयुगे' (गी.4.7.8.) इत्यादिवीप्सार्थम्, "बहूनि मे व्यतीतानि जन्मानि' (गी.4.5) इत्यादिश्लोकार्थं च भावयन् आह---।तेषुतेषु लोकेष्ववतीर्यावतीर्येति प्र् ठसर्व उ श्रेयान् भवति

जायमान:'(यजु.3.अ.6.1.3) "यस्यावताररूपाणि समर्चन्ति दोवौकस: । अपश्यन्त: परं रूपम्' (वि.1.19.80) इत्यादिकं स्मारयितुम्।अवतीर्यावतीर्य तैस्तैराराधित: इत्युक्तम् । ।तत्तदिष्टानुरूपम् इति वचनात् फलप्रदाने वैषम्यदोष: परिह्मत: । "तस्मिन् प्रसन्ने किमिहास्त्यलभ्यम्' (वि1.17.91) इत्यादि चात्रानुसंधेयम् प्र्प्र्

एवमवतारसामान्यं तत्प्रयोजनं च दर्शितम् । अत्र तद्विशेषं प्रस्तुतान्वितं दर्शयति--।भूभारावतारणेत्यादिना । भूभारावतारणं व्याजमात्रम्; सर्वसमाश्रयणीयत्वं तु साक्षादुद्देश्यम् प्र्दुष्कृद्विनाशस्य साधुपरित्राणख्यमहाप्रयोजनानुषङ्गिकत्वात्।भूभारावतारणापदेशेन इत्युक्तम् । ।अस्मदादीनामिति । अयोगिनामित्यर्थ:

। सर्वसमाश्रयणीयत्वम् विवृणोति--।सकलेति । ""यन्न देवा न मुनयो न चाहं न च शंकर: । जानन्ति परमेशस्य तत् विष्णो: परमं पदम् (वि.1.9.55) इत्यादिप्रतिपादितप्रकारेण महायोगिनां

परिशुद्धेन मनसाऽपि दुग्र्रह: सौलभ्यातिरेकात् मनुष्याणां तत्राप्यागोपालम्, अवधीरितविरुद्धविभागानां मांसचक्षुषा

ग्राह्रोऽभूदिति भाव: । एवमतरण-नयन-विषयत्वयोर्न केवलमाराध्यत्वमेव प्रयोजनम्, किंतु तदनुभवोऽपीत्यभिप्रायेणाह।परावरेति । ।परा:---उपासनसमर्था: ब्राहृरुद्रभीष्माक्रूरादय:। ।अवरास्तु आभीरप्रभृतय: ।। निखिलजनेति स्त्रीपुंसादिविभागोऽपि नास्तीत्यभिप्रेतम्; "पुंसां दृष्टिचित्तापहारिणम् (रा.अ.3.29) इतिवत् । ।दिव्यचेष्टितानि नवनीतनटनादीनि । एवं विशेषणद्वयं साधुपरित्राणप्रकारविशेषतयाऽभिहितम्

। अथ साधुपरित्राणानुषङ्गिकं दुष्कृद्विनाशनप्रकारं प्रपञ्चयति--।पूतनेति । भगवतो बलभद्रस्याप्येतदंशरूपत्वात्

प्रलम्बमुष्टिकादिहननमप्येतत्कर्तृकतयोपात्तम् । पुन: साधुपरित्राणान्तर्गतां भोग्यतां दर्शयति---।अनवधिकेति ।

प्रियतमस्वरूपसंदर्शनं धारकम्; तच्चेष्टितदर्शनं पोषकम्; तेन सहाऽऽलापादि: भोगप्रकार: इति

नयनविषयत्व---चेष्टितालोकनादिविभागनिर्देशाभिप्राय:प्र्।दया---स्वार्थनिरपेक्षा परदु:खनिराकरणेच्छा;

।सौहार्दं---हितैषित्वम्; ।अनुराग:--प्रीति: । एवं साधुपरित्राणं तदौपयिकं दुष्कृद्विनाशनं चोक्तम्;

अथ धर्मसंस्थापनम् आराध्यस्वरूपप्रदर्शनेन, देशकालविप्रकृष्टानामपि परम्परयाऽनुग्राहकेणोपदेशेन च

दर्शयति प्र्---।निरतिशयेत्यादिना वाक्यशेषेण । एतच्चाखिलम्, "परित्राणाय' (4.8) इति श्लोके व्याख्यास्यते(ति) । तत्र हि साधूनां लक्षणस्भावादिकमुक्त्वाऽनन्तरमेवमुक्तम्---मत्स्वरूपचेष्टितावलोकनालापादिदाने

न तेषां परित्राणाय, तद्विपरीतानां विनाशाय च, क्षीणस्य वैदिकस्य धर्मश्य मदाराधन रूपस्य आराध्यस्वरूपप्रदर्शनेन

स्थापनाय च, देवमनुष्यादिरूपेण युगेयुगे संभवामि इति। उपदेशतो धर्मस्थापनं व्यासादिमुखेनापि कर्तुं शक्यम् ।

आराध्याकारप्रदर्शनेन स्थापनं तु स्वेनैवावश्यकर्तव्यमिति भाव: । बाह्रान्तरकरणग्राह्रगुणवर्गद्वयप्रदर्शनतया

।सौन्दर्यसौशील्ययोग्र्रहणम् । ।परमभागवतान् कृत्वेति प्र्
भगवद्भक्तिरूपपरधर्मनिष्ठान् कृत्वेत्यर्थ: प्र्प्र्

एवं प्राचीनभगवच्चरितस्य श्रीमद्गीतार्थोपदेशेन संगति: प्रदर्शिता। ।पाण्डुतनययुद्धप्रोत्साहनव्याजेनेति तु भारतकथासंगति: ।अत्र ।व्याजशब्देन, "अस्थानस्नेहकारुण्यधर्माधर्माधियाऽऽकुलम् ।

पार्थ प्रपन्नमुद्दिश्य शास्त्रावतरणं कृतम्' (गी.सं. 5) इत्यत्र उद्दिश्य इति पदस्याभिप्रायो विवृत: । ।परमपुरुषार्थ

इत्यादिना शास्त्रस्य परमप्रयोजनाभिधानम् । तेनात्र भूमविद्यायामिवात्मानुभवोक्तिरपि ऐश्वर्योक्तिवत् भगवदनुभवापेक्षया

निकृष्टपुरुषार्थझ्र्पर्वटत्वज्ञापनायेति सूचितम् । ।मोक्षसाधनतयेति साध्यसाधनभावनिर्देशेन सांसार्यात्मन एव नित्यमुकिं्त

वदन्तो निराकृता: । ।वेदान्तोदितं---वेदान्तविहितम्, न तु वेदान्तोत्पादितमित्यर्थ: प्र् एतेन अविधेयज्ञानवादिन:निरस्ता:

। वेदान्तोदितस्यार्थस्योपबृंहणमत्र क्रियत इति भाव:। ।स्वविषयमिति---मोक्षार्थोपासनवाक्यानामन्यपरतया

साक्षात्परमपुरुषाराधानविषयत्वमेव । अथर्वशिर:प्रतर्दनविद्यादिषु रुद्रेन्द्रादिभि: स्वस्य मुमुक्षूपास्यत्ववचनेऽपि

रुद्रेन्द्राद्यन्तर्यामिभूत: परमात्मैवोपास्य इति, "शास्त्रदृष्टया तूपदेशो वामदेववत्' (1.1.31) इति ।सूत्रकारैरेव प्रतिपादितमिति भाव: प्र् एतेन वेदान्तोदितस्वमाहात्म्यत्वादिनो भगवत: "स्वगुणाविष्क्रियादोषो नात्र भूतार्थशंसिन:' (काव्या.1.24) इति सूचितम् । ।स्वविषयमिति भक्तियोगस्य सिद्धरूपपरमप्रतिपाद्यानुबन्धित्वं दर्शितम् प्र् प्रधानविधेयांशनिष्कर्षाय ।भक्तियोगमित्युक्तम् । ज्ञानकर्मानुगृहीतत्वं ज्ञानकर्मसाध्यत्वम् । एतेन तत्समुच्चयादिपक्षा

निरस्ता: । वैराग्यस्य संग्रहश्लोके(1)पृथगुक्तस्यापि निष्ठाद्वयानुप्रविष्टत्वादिहानुक्ति: । एवमुपायोपेयात्मकमुभयमपि

शास्त्रप्रतिपाद्यमिति संग्रहश्लोकतात्पर्यमुक्तं भवति । ।मोक्षसाधनतया वेदान्तोदितं भक्तियोगमिति वचनात्

उपासनस्यार्वाचीनब्राहृप्राप्त्यादिसाधनत्वं वाक्यार्थज्ञानमात्रस्य मोक्षसाधनत्वं च वदन्त:प्रत्युक्ता: प्र् ज्ञानध्यानादिसामान्यवचसां भक्तिरूपविशेषे पर्यवसानमिति च भाव: प्र् एतच्चाखिलमुत्तरत्र व्यक्तं भविष्यति प्र्प्र्

एवं शास्त्रं संगमय्य, शास्त्रोपोद्घातं संगमयितुं।पाण्डुतनेयत्यादिना सूचितं पूर्ववृत्तान्तं प्रकटयन्,

सारथित्वेनावस्थायाऽऽचार्यकृत्यकरणे प्रतारकत्वशङ्कां च वारयति-।तत्रेति । (13द्यण् द्रठ्ठढ़ड्ढढददृ2. तत्र-भक्तियोगावतारे निमित्ते इति प्रथमपक्षेऽर्थ:। द्वितीये पक्षे तत्रेति युद्धविशेषणं सामानाधिकरण्येव ।)

।तत्रउप्रथमं भक्तियोगमवतारयितुमेवं चकारेत्यर्थ:; यद्वा ।तत्रउयुद्धे प्रारब्धे इत्यन्वय:; भक्तियोगावतरणव्याजभूतप्रोत्साहनविषयभूते युद्धे प्रारब्धे इत्यर्थ: । भगवतोऽवतारदशायामपि पूर्णत्वस्वाच्छन्द्यादिकं

वात्सल्यादिमूलसारथ्याद्यपकृष्टकर्मानुष्ठानस्य गुणरूपत्वादिकं च प्रदर्शयितुं ।स भगवान् इतयादि उक्तम् प्र्

।स भगवान् पुरुषोत्तम: सर्वेश्वरेश्वर: इति चतुर्भि: पदै: स्वरूपगुणवैलक्षण्यविभूत्यादिप्रतिपादनेन परत्वसंग्रह: प्र्

।सर्वेश्वरेश्वर: इत्यनेन, "सर्वेश्वरेश्वर: कृष्ण:' (वि.ध. 75.43) इत्यादिवचनोक्तं स्वाच्छन्द्यं जगत्कुटुम्बित्वं च ज्ञापितम् ।

।जगदुपकृतिमत्र्य आश्रितवात्सल्यविवश: इति सौलभ्यसंग्रह: प्र्अविप्रलम्भकत्वं चानेन व्यञ्चितम्; "जगतामुपकाराय' (वि.पु6.7.72) जगदुपकृतिमत्र्यं को विजेतुं समर्थ: (वि.5.30.80) इत्यादिकमिह

स्मारितम् प्र् जगदुपकृतिमत्र्यत्वेऽप्युत्कृष्टचरितं परित्यज्य निकृष्ट सारथ्यादिकृत्यं किमर्थं कुरुते इत्यत्रोक्तम्---।आश्रितवात्सल्यविवश: इति । ।पार्थ रथिनमात्मानं च सारथिमिति । अपकृष्टं पार्थमुत्कृष्टकृत्ये

स्वयमेवस्थाप्य आ(स्वा)त्मानमुत्कृष्टं निकृष्टकृत्ये चकारेति भाव: । ।पार्थशब्देन वात्सल्यौपयिकलौकिकसंबन्धविशेषोऽपि सूचित:; पितृष्वसा हि पुथा भगवत: प्र् ।सर्वलोकसाक्षिकमिति

। न चासौ निकृष्टकृत्यं सापत्रपो रहस्ये कृतवान्; अत इदमपि आश्रितवात्सल्यस्य नैरपेक्ष्यस्य अर्थापह्नवाद्यसंभवस्य च लिङ्गमिति भाव: । यद्वा सर्वेषां स्वसमाश्रयणेन पुरुषार्थलाभाय स्वस्य शास्त्रैकसमाधिगम्ययाश्रितपारतन्त्र्यं सर्वलोकप्रत्यक्षं चकारेति भाव: प्र्प्र्अथ "त्वां शीलरूप' (स्तो.5) इत्यादिक्रमेण अनन्यसाधारणशील-रूपो-चरित-परमसत्त्व-प्रबलशास्त्र-देवतापारमाथ्र्यवेदिशान्तनवसञ्जयादिवचनैरप्यासुरप्रकृतीनां

यथावदवगन्तुमशक्यतां प्रदर्शयन्,गीतोपनिषत्प्रस्तावनार्थं प्रथमश्लोकमवतारयति-।एवमिति । ।श्रिय:पतिरित्यादिना

पूर्वोक्तप्रकारेणेत्यर्थ: । ।सर्वात्मनेति---न केवलं चक्षुषा, परत्रेह च हितमजानता मनसाऽपीत्यर्थ: । एवंविधमान्ध्यं सुयोधनविजयाभिलाषेण प्रश्ने हेतु: । अत्र ।मामका: इति प्रथमोक्त्या, ममकारेण, "यत्र योगेश्वर:' (18.78) इत्यादिप्रतिवचनप्रक्रिया च सूचितं प्रष्टुरिभिप्रायं दर्शयितुं ।सुयोधनेत्यादिकमुक्तम् । ।सञ्जयमिति ।

व्यासप्रसादलब्धसकलभारतसमरवृत्तान्तसाक्षात्कारम् "शुद्धभावं गतो भक्त्याशास्त्रात् वेद्मि जनार्दनम्' (भा.उ.68.5) इत्यादिवादिनम् । एवं यथार्थदर्शित्व---यथादृष्टार्थवादित्वाभ्यामाप्ततमतया निर्णीतमिति भाव:

प्र्।पप्रच्छ समरवृत्तान्तमिति शेष: प्र्