काशिकाविवरणपञ्जिका/सप्तमोऽध्यायः/प्रथमः पादः
काशिकाविवरणपञ्जिका प्रथमः पादः [[लेखकः :|]] |
द्वितीयः पादः → |
श्रीबोधिसत्त्वदेशीयाचार्थजिनेन्द्रबुद्धिपादविरचिता
न्यासापरपर्याया
काशिकाविवरणपञ्जिकाख्या
काशिकाव्याख्या
- - -
सप्तमोऽध्यायः
प्रथमः पादः
1. युवोरनाकौ। (7.1.1)
शास्त्रस्य लाघवार्थमिह, युवू प्रत्ययावुपदिष्टौ, तयोः स्थानेऽनाकावादेशौ विधीयते। यदि हि यत्र यत्र युवोरुपदेशस्तत्र तत्रानाकावादेशो विधियेयाताम्, तदा शास्त्रस्य गौरवं स्यात्; तयोः प्रभूतवर्णसमुदायात्मकत्वात्। इह युवोरनुनासिकयणोः प्रत्यययोरिदं ग्रहणम्, न च तथाविधावननुबन्धकौ युवू शास्त्रे सम्भवतः; तत्र सामर्थ्याद्विशेषकराननुबन्धानुत्सृज्य सामान्येन तयोर्ग्रहणं विज्ञायते? इत्याह---`युवु--इत्येतयोरुत्सृष्टविशेषणयोः' इति। इदं ग्रहणमिति वक्ष्यमाणेन सम्बन्धः। विशेषणं यद्योयोगं लकारादि, तदुत्सृष्टं परित्यक्तं ययोस्तौ यथोक्तौ। एतेन `युवो' इति ल्युडादीनां सामान्येन निर्देश इति दर्शयति। यद्यत्र युवोरित्याविशेषेण ग्रहणं स्यात् तदा `यु मिश्रणे' (धा.पा.1033) [`यु मिश्रणेऽमिश्रणें च'--धा.पा.] युतः, युतवान्, युत्वा; `दिषु क्रीडादौ (धा.पा.1107) द्यूतः, धूतवान्, धूत्वा; `ऊर्णाया युस्' (5.2.123) ऊर्णायुरित्येवमादावप्यनाकौ स्याताम्, अतोऽस्यातिप्रसङ्गनिरासायाह--`अनुनासिकयणोः' इति। अनुनासिको यण्ययोरिति बहुव्रीहिः। सन्ति हि यणः सानुनासिकाः निरनुनासकाश्च, तत्र हि ययोरनुनासिको यण् तयोरिदं ग्रहणम्। अनुनासिकयणौ च यौ युवू तौ प्रत्ययावेव, नाप्रत्ययाविति दर्शयितुमाह--`प्रत्यययोः' इति। अन्ये ,त्वप्रत्ययनिवृत्त्यर्थं प्रत्यययोरित्युक्तमिति वर्णयन्ति, तदयुक्तम्; अनुनासिकयणोरित्यनेनैवाप्रत्ययनिवृत्तेः सिद्धत्वात्। तन ह्यप्रत्ययावनुनासिकयणौ युवू शास्त्रे स्तः। तस्मादनुनासिकयणौ यो यूवू तौ प्रत्ययावेव, नाप्रत्ययाविति सम्भवप्रदर्शनार्थं प्रत्यययोरित्युक्तमिति विज्ञायते। अनुनासिकयणोश्च प्रत्ययोर्ग्रहणे सत्यङ्गस्येति सम्बन्धलक्षणेयं षष्ठी वित्रेया। ङ्गसम्बन्धिनोर्युवोरिति सम्बन्धः। स पुनर्निमित्तिनिमित्तभावलक्षणः। प्रत्ययनिमित्तो ह्यङ्गस्यात्मलाभ इत्यङ्गं निमित्ति, प्रत्ययो निमित्तम्। `योरनो वोरकः' इति। अनेन यथाक्रमं स्थान्यादेशसम्बन्धमाचष्टे'। `नन्द्यादिभ्यो ल्युः' इति। `नन्दिग्रहि' (3.1.134) इत्यादिना। `नन्दनः, रमणः' इति। `टु नदि समुद्धौ' (धा.पा.67), `रमु `क्रीडायाम्' (धा.पा.853)। हेतुमति णिच्, तदन्ताल्लयुः। `सायन्तनः' इति। सायमादिभ्यष्ट्युट्यलादिति। `सायञ्चिरम्' (4.3.23) इत्यादिना। जातादौ शैषिकेऽर्थे तद्धितः। `वासुदेवकः, अर्जुनकः' इति। वसुदेवस्यापत्यं वासुदेवः, वासुदेवो भक्तिरसयेति `वसुदेवार्जुनाभ्यां वुन्' (4.3.98) इति वुन्--वासुदेवकः, अर्जुनकः।
ऊर्णा अस्य सन्तीत्यूर्णायुः, तत्रानुनासिकयणत्वाभावान्न भवति। किं पुनः कारणमेवमादीनीं यणोऽनुनासिकत्वं नास्ति? इत्याह--`एवमादीनाम्' इत्यादि। `प्रतिज्ञानुनासिक्याः पाणिनीयाः' इति। यत्र तैरनुनासिकत्वं प्रतज्ञायते तत्रैव भवति, नान्यत्र। न च युस्प्रभृतीनां तैस्तत् प्रतिज्ञायते, लक्ष्यानुरोधात्। तेन तेषां यणोऽनुनासिकत्वं न भवति। आदिशब्देन `अहं शुभमोर्युस्' (5.2.140) इत्येवमादयो गृह्यन्ते। ननु च `अहंशुभमोर्युस्' `कंशंभ्यां वभयुस्तितुतयसः' (5.2.138) इत्यतर, सित्करणादेव न भविष्यति, सित्करणं हि पदसंज्ञार्यम्, पदसंज्ञा चानुस्वारार्था--तस्यां सत्यां `मोऽनुस्वारः' (8.3.23) इत्यनुस्वारो यथा स्यात्। यदि चात्रानादेशः स्यात् तदा सित्करणमनर्थकं स्यात्, न ह्यनादेशे कृतेऽनुस्वारो भवति, तद्विधौ `हलि सर्वेषाम्' (8.3.22) इत्यतो हलीत्यनुवृत्तेः। आदेशे कृते न भवति; हलादित्वाभावात्? नैतदस्ति; वचनसामर्थ्यादजादावप्यनुस्वारः स्यात्। सित्करणस्यान्यदपि प्रयोजनम्--पदसंज्ञा। तत्प्रजनम्--भसंज्ञाबाधः। भसंज्ञायामध्ययानां भमात्रे टिलोपः स्यात्। अवग्रहार्थे वा सित्करणं स्यात्, कुतस्यानर्थक्यम्!
इह युवोरिति निर्देशे समाहारे वा द्वन्द्व आश्रीयते, इतरेतरयोगे वा; तत्र पूर्वस्मिन् पक्षे षष्ठ्येकवचने कृते `स नपुंसकम्' (2.4.17) इति नपुंसकत्वात् `इकोऽचि विभक्तौ' (7.1.73) इति नुमा भवितव्यम्, ततश्च `युवुनः' इति निर्द्देशः स्यात्। इतरस्मिंस्तु पक्ष ओसि परतो यणादेशे कृते युष्वोरिति द्वितीयवकारश्रवणमापद्येत? इत्येतच्चोद्यनिरासायाह--`इह युवोरिति निर्देशः' इत्यादि। `अनित्यमागमशासनम्' इति। आगमानां शासनम्=विधानम्, तदनित्यमिति; क्वचित् तदभावात्। अथ वा--आगमाः शिष्यन्ते विधीयन्ते येन शास्त्रेण तदागमशासनं शास्त्रम्, तदनित्यम्, अविद्यमानं नित्यं कार्यमस्येति कृत्वा। अनित्यता पुनरागमशासनस्य `घोर्लोपो लेटि वा' (7.3.70) इत्यत्र वाग्रहणाल्लिङ्गाद्विज्ञायते। तद्धि ददद्, ददादित्यत्र नित्यं घोर्लोपो मा भूदित्येवमर्थं क्रियते। यदि च नित्यमागमशासनं स्याद्वाग्रहणमनर्थकं स्यात्। भवतु नित्यो लोपः, सत्यपि तस्मिन् `लेटोऽडाटौ' (3.4.94) इत्यटि कृते ददद् ददादिति सिद्ध्यत्येव। अनित्यत्वे त्वागमशासनस्याडागमाभावान्न सिध्यति। ततो वावचनमर्थवद्भवति।
`नपुंसकलिङ्गता वा' इत्यादि। अथ वा नपुंसकलिङ्गतैवात्र नास्ति। किं कारणम्?इत्याह--`लिङ्गमशिष्यम्' इत्यादि। लिङ्गस्य हि लोकधर्मत्वाल्लोक एवाश्रयः। तस्माल्लोकत एव सिद्धत्वात् तदश्रिष्यं न विधातव्यम्। लिङ्गशास्त्रमेवात्र तादर्थ्याल्लिङ्गशब्देनोच्यते। लिङ्गार्थ शास्त्रमशिष्यं न कर्त्तव्यम्, तत्साध्यस्य लिङ्गस्य लोकाश्रयत्वात्। तदनेन `स नपुंसकम्' (2.4.17) इत्यादेः प्रत्याख्यानं दर्शयति। तस्मिंश्च प्रत्याख्याते सति तद्द्वारेण तस्य नपुंसकत्वं न भवतीति कुतो नुम्प्रसङ्गः! `इतरेतरपक्षे तु च्छान्दसत्वाद्वर्णलोपः' इति। `छन्दोवत् सूत्राणि भवन्ति' इति। छान्दसत्वम्। तेन यथेष्कर्त्तारमध्वर इत्यत्र निसो नकारलोपः तथेहापि वकारस्यापि लोपो द्रष्टव्यः।।
2. आयन्नेयीनीयियः [`आयनेयीनीयियः'--इति काशिका पाठः] फढरवच्छघां प्रत्ययादीनाम्। (7.1.2)
फादयोऽपीह शास्त्रे लाघवार्थमुपदिष्टाः, ततस्तेषामायन्नादय आदेश विधीयन्ते। तेन च विधीयमानाः फकारादेर्हल्मात्रस्य भवन्तीति वेदितव्यम्। कुत एतत्? अन्ते घामित्यनच्कनिर्द्देशात्; इतरथा हि घानामित्येवं ब्रूयात्। अन्यत्र त्वागन्तुकोऽकार उच्चारणार्थ एव। अत एव प्रत्ययादौ वर्त्तमानस्य फादेर्व्यञ्जनमात्रस्य स्थानित्वेनोपादानान्निरनुबन्धकपरिभाषात्र (व्या.प.53) नोपतिष्ठते; सर्वत्र हि फादयो निरनुबन्धकाः। यत्र चोभयं सम्भवति तत्रैवास्या उपस्थानम्, `नाडायनः' इति। `नडादिभ्यः फक्' (4.1.99) अपत्यार्थे फक्प्रत्ययः। उत्तरेष्वप्युदाहरणेष्वीयादेशोदाहरणादन्यत्रापत्यार्थे वेदितव्यः। `सौपर्येणः, वैनतेयः' इति। सुपर्णाविनताभ्यां ढक्। `आठ्यकुलीनः' इति। `अपूर्वपदादन्यतरस्यां यङ्ढकञौ' (4.1.140) इत्यत्रापूर्वपदादिति वचनात् `कुलात्खः' (4.1.139) इत्यनेन सपूर्वपदादपि खो भवति। `गार्गीयः, वात्सीयः' इति। गार्म्यवात्स्यशब्दाभ्यां यञन्ताभ्यां `तस्येदम्' इत्यर्थविवक्षायां छः, `यस्येति च' (6.4.148) इत्यकारालोपः, `आपत्यस्य च तद्धितेऽनाति' (6.4.151) इति यकारलah_>
`फक्कति, ढौकते' इति। `फक्क नीचैर्गतौ' (धा.पा.116), `ढोकृ गतौ' (धा.पा.98), `खनु अवदारणे' (धा.पा.878), `छिदिर् द्वैधीकरणे' (धा.पा.1440), `घूण घूर्ण भ्रमणे'[`घुण'--धा.पा.] (धा.पा.437,438)-इत्येतेषां रूपाणि। ढौकतिधूर्णत्योरनुदात्तेत्त्वादात्मनेपदम्। `ऊरुदध्नम्, जानुदध्नम्' इति। ऊरू प्रमाणमस्य `प्रमाणे द्वयसच्' (5.2.37) इत्यादिना दध्नच्।
इहैत आयन्नादयोऽह्गाधिकारे विधीयमानाः प्रकृतिप्रत्ययावपेक्ष्य भवतीति बहिरङ्गाः, प्रत्ययाद्युदात्तत्वं तु प्रकृत्यनपेक्षत्वात् प्रत्ययमात्रमाश्रित्य भवतीत्यन्तरङ्गम्; ततो बहिरङ्गा यावदायन्नादयो न भवन्ति तावदेव प्रत्ययाद्युदात्तत्वेन भवितव्यम्, तस्मिन् कृते सत्यादेशा भवन्तो यत्र स्वरार्थोऽनुबन्धो न विधीयते `शिलाया ढः' (5.3.102), `वृद्धाच्छः' (4.2.114) इत्यादौ तत्रानियतस्वराः प्राप्नुदन्तीत्यस्य चोद्यस्य निरासायाह--`इहैत आयन्नादयः' इत्यादि। अयमभिप्रायः-आयन्नादयोऽप्यन्तरङ्गा एव। यदि हि `अङ्गस्य' (6.1.4) इत्यत्राभिसम्बध्यते तदा स्यात् तेषां प्रकृतिप्रत्ययापेक्षया बहिरङ्गत्वम्। न चात्र तदभिसम्बध्यते; प्रयोजना भावात्। तथा हि--अङ्गस्य निमित्तं ये प्रत्ययास्तदादीनां फादीनामायन्नादयो यथा स्युः, अन्येषां मा भूवन्नित्येतत् प्रयोजनम्। एतच्च विनाप्यङ्गाधिकारं सामर्थ्यादेव लभ्यते। न हि फादीनां मद्ये सोऽस्ति प्रत्ययो योऽङ्गस्य निमित्त न भवति। तस्मात् प्रयोजनाभावादङ्गस्येत्येतन्नाभिसम्बध्यते। तेन स्थानिमात्रमेवादेशा अपेक्षन्ते, न प्रकृतिमिति तेऽप्यन्तरङ्गा एव। ततश्च परत्वात् प्रत्ययोपदेशकाले तैरेव तावद्भवितव्यम्, ततश्च प्रत्ययाद्युदात्तत्वेनेति प्रत्ययोपदेशकाल एवायन्नदयो भवन्तीति तेषु कृतेषु प्रत्ययाद्युदात्तत्वं भवतीति। अत्र ज्ञापकमप्याह--`तथा च' इत्यादि। एवञ्चेत्यर्थः। घचश्चित्कारणस्यैतत् प्रयोजनम्--`चितः' (6.1.163) इत्यन्तोदात्तत्वं यथा स्यात्। यदि च प्रत्ययोपदेशावस्थायामेवायन्नादयो भवन्ति, एवं सति घचश्चित्करणमर्थवद्भवति; नान्यथा। अन्यथा हि यद्युपदेशादस्थाया उत्तरकालमेते स्युस्ततो यत्रैवासति चित्करण उदात्तत्वं भवति, धकाराकारे सत्यपि चित्करणे तत्रैव तेन भवितव्यमिति चित्करणमनर्थकं स्यात्। तस्माच्चित्करणादवसीयते--प्रत्ययोपदेशकाल एवैत आयन्नाद्यादेशास्तावद्भवन्ति, पश्चात् प्रत्ययाद्युदात्तत्वमिति भावः।
ननु च व्यञ्जनस्यैते विधीयन्ते, तच्च व्यञ्जनमस्वरम्, एवाञ्चावश्यं येन केनचित् स्वरेण भवितव्यम्, उदात्तादिगुणरहितस्याचोऽसम्भवात्। तत्र स्थानिनः स्वराभावादान्तरतम्यं नास्तीति स्थानेन्तरतमपरिभाषया (1.1.50) अनुपस्थाने सत्यनियतस्वरैरेभिर्भवितव्यम्, ततश्च यदि चित्त्वं न स्यात्, पश्चाद्विधीयमानानामेषां यदाद्युदात्तस्वरो भवति तदा स एव स्वरः प्रसज्येत; सतिशिष्टत्वात्। तस्मात् तमपि सतिशिष्टस्वरं बाधित्वाऽन्तोदात्तत्वं यथा स्यादित्येवमर्थं घचश्चित्करणम्। ततः कुतो ज्ञापकत्वमेतच्चिन्त्यम्। अथ `शमेः खः' (प्.उ.1.104) शङ्खः, `षणो ढः' (पं.उ.4.104) षण्ढः--इत्येवमादीनां कस्मादादेशा न भवन्ति? इत्याह--`शङ्खः, षण्ढः' इत्यादि। `लशक्वतद्धिते' (1.3.8), `चूटू' (1.3.7) इतीत्संज्ञापि बहुलवचनादेव न भवतीति वेदितव्यम्। `ऋतेरीयङ' इत्यादि। यदयं `ऋतेरीयङ' (3.1.29) इतीयङं शास्ति तज्ज्ञापयति--धातुप्रत्ययानामायन्नादयो न सन्तीति। यदि हि स्युः, `ऋतेश्छङ' इति। ब्रूयात्। ननु सिद्धे विधिरारभ्यमाणो ज्ञापकाय भवतीति? न च च्छङा सिध्यतीति, छङि हि सति वलादिलक्षण इट् प्रसज्येत, ततश्चानादित्वादादेशो न स्यात्? नैतदस्ति; यस्मादन्तरङ्गत्वादादेशेनैव भवितव्यम्। अन्तरङ्गत्वन्तु तस्योपदेशावस्थायामेव विधीयमानत्वात्। आदेशे च कृते वलादित्वाभावादिट्प्रसङ्गो नास्ति। तदेतदीयङ्वचनं ज्ञपकमेव।
`एजेः खश्' इत्यादि। तु शब्दः शङ्खः, षण्ढ इत्येदमादिभ्यो विशेषप्रदर्शनार्थः। यत्रेत्संज्ञा नास्ति--शङ्खादौ, तत्रादेशप्रसङ्गे सति तन्निरासार्थं बहुलवचनमिति, `ऋतेरीयङ्' (3.1.29) इति वावचनमुपन्यस्तम्। `एजेः खश्' (3.2.28) इत्येवमादौ तु `लशक्वतद्धिते' (1.3.8) इतीत्संज्ञया भवितव्यमित्यादेशप्रसङ्गो नास्त्येव। ततो न तत्र तदभावार्थं बहुलवचनम्, `ऋतेरीयङ' इति वावचनमुपन्यसनीयमिति भावः। आदिशब्देन `प्रियवसे वदः खच्' (3.2.38), `पुंसि संज्ञायां घः प्रायेण' (3.3.118) इत्येवमादीनां ग्रहणम्। स्यादेतत्--अनवकाशं खकारघकारयोरादेशवचनम्, अतस्तेन बाध्यमानेत्संज्ञा कथमत्र स्यात्? इत्याह--`तद्धिते' इत्यादि। `खित्यनव्ययस्य' (6.3.66) इति ह्रस्वविधानम्, `चजोः कु घिण्ण्यतोः' (7.3.52) इति कुत्वविधानं ज्ञापकम्--न ह्यादेशविधानेनेत्संज्ञायां बाधितायां तदुपपद्यते; खितो घितश्चात्यन्तासम्भवात्। `आयन्नीनोर्नकारस्य' इत्यादि। आयन्नीनोर्नकारोऽन्ते वर्त्तत इति तस्य `हलन्त्यम्' (1.3.3) इतीत्संज्ञा प्राप्नोति, तस्याञ्च स्त्यां `तस्य लोपः' (1.3.9) इति कृते नाडायनः, आढ्यकुलीन इत्यादि न सिध्यति। तस्मादायस्रीनोर्नकारस्येत्संज्ञायां प्राप्तायां तत्प्रतिविधानं कर्त्तव्यम्। स्यादेतत्। प्रयोजनाभावादेवेत्संज्ञा न भविष्यति? इत्यत आह--`नित्कार्थं हि' इत्यादि। तत्पुनः `ञ्नित्यादिर्नित्यम्' (6.1.197) इत्याद्युदात्तत्वम्। प्रतविधानं पुनरत्र `प्राचामवृद्धात् फिन् बहुलम्' (4.1.160) इत्यत्र फिनो नकारानुबन्धकरणम्। तस्यांतत् प्रयोजनम्--नित्त्वादाद्युदात्तत्वं यथा स्यात्। तत्र यद्यायन्नीनोर्नकारस्येत्संज्ञा स्यात्, नित्त्वे सत्याद्युदात्तत्वस्य सिद्धत्वात् फिनो नित्करणमनवर्थकं स्यात्। ननु `फेश्छ च' (4.1.149) इत्यततर सामान्यग्रहणार्थं स्यात्, तस्मिन्नसति निरनु बन्धकपरिभाषयास्यैव ग्रहणं स्यात्, न फिञः? नैतदस्ति; तत्र हि `वृद्धाट्ठक् सौवीरेषु बहुलम्' (4.1.148) इति बहुलग्रहणानुवृत्तेः फिञ एव ग्रहणमिष्यते, न फिनः। तदेतत् फिनो नित्करणमित्संज्ञाभावस्य ज्ञापकमेव। योगपक्षं चेदं ज्ञापकम्--अनेन योगेन विहितस्यादेशस्य यो नकारस्तस्मेत्संज्ञा न भवतीति। तेनेनोऽपि नकारस्येत्संज्ञाऽभावो न भवति सिद्धः।।
3. झोऽन्तः। (7.1.3)
`प्रत्ययग्रहणमनुवर्त्तते' इति। अनन्तरसूत्रात्। यद्येवम्, एकयोगनिर्दिष्टत्वादादिग्रहणमप्यनुवर्त्तेत, ततश्च शयान्तै--इत्यत्र न स्यात्, चकारस्यादित्वाभावात्? इत्यत आह--`आदिग्रहणं निवृत्तम्' इति। एवं मन्यते--स्वरितत्वप्रतिबद्धा हि शब्दानामनुवृत्तिः, तच्च स्वरितत्वं प्रतिज्ञाधर्मः--`प्रतिज्ञास्वरिताः पाणिनीयाः' इति--यत्रैव तैः स्वरितत्वं प्रतिज्ञायते तत्रैव भवति, नान्यत्रेति। तेनैकयोगनिर्द्दिष्टानामप्येकतरस्यानुवृत्तिर्न विरुध्यते। इह च प्रत्ययस्यैव स्वरितत्वं प्रतिज्ञायते, नादिग्रहणस्य। तेन सत्यप्येकयोगनिर्द्दिष्टत्वे प्रत्ययग्रहणमनुवर्त्तते। `आदिग्रहणं निवृत्तम्' इति। `अन्त इत्ययमादेशो भवति' इति। अकारसहित एवादेशः करणीयः। अकारः--तकारेत्संज्ञा मा भूदित्येवमर्थः। स च जरन्तः, वेशन्त इत्यत्र। कुर्वन्तीत्यादौ `न विभक्तौ तुस्माः' (1.3.4) इति प्रतिषेधादेवेत्संज्ञा न भवति। अथ तु `उणादयो बहुलम्' (3.3.1) इति वचनाज्जरन्तः, वेशन्त इत्यादौ न भवति? तथा च सत्यकार उच्चारणार्थः। `न विभक्तौ तुस्माः' (1.3.4) इत्यस्यानित्यत्वज्ञापकार्थं वाऽकारोच्चारणम्। `तेन किमोऽत्' (5.3.12) इत्यादीनां तकारेत्संज्ञा भवति। `कुर्वन्ति' इति। `अत उत्सार्वधातुके' (6.4.110) इत्युत्त्वम्। `शयान्तै' इति। शीङः `लिङर्थे लेट्' (3.4.7), `लेटोऽडाटौ' (3.4.94) इत्याट्, टेरेत्त्वम्, `एत ऐ' (3.4.93) इत्यनुवर्त्तमाने `वैतोऽयन्त्र' (3.4.96) इत्यैत्त्वम्। `उज्झिता' इति। `उज्झ उत्सर्गे' (धा.पा.1304) तृच्। `ऋदुशनस्' (7.1.94) इत्यादिनानङ्, `नोपधायाः' (6.4.7) `सर्वनामस्थाने च' (6.4.8) इति दीर्घः। `उज्झितुम्' इति। तुमुन्। `उज्झितव्यम्' इति। तव्यः।
`अस्मिन्नपि' इत्यादि। ननु चान्तरङ्गत्वात् प्रत्ययाद्युदात्तत्वेन प्राग्भवितव्यम्, पश्चादादेशेन? नैवम्; अन्तादेशस्याप्यन्तरङ्गत्वात्। अन्तरङ्गत्वं तु तस्यायन्नादिवद्वेदितव्यम्। उभयोरन्तरङ्गत्वात् पूर्वमन्तादेशः, पश्चात् प्रत्ययाद्युदात्तत्वम्। अत्रैव ज्ञापकमाह--`तथा च' इत्यादि। एतच्च "`घच्छौ च' (4.4.117) इति घचश्चित्करणमनर्थवद्भवति"--इत्येतद्वाख्यानेन व्याख्यातमिति। प्रत्ययाद्युदात्तत्वात् पूर्वमन्तादेशस्य भावे सति द्विषन्तीत्यत्र मध्योदात्तत्वम्; अन्यथाऽन्तोदात्तता स्यात्। सा चानिष्टेति पूर्वमन्तादेशः क्रियते।।
4. अदब्यस्तात्। (7.1.4)
अनात्मनेपदार्थं आरम्भः; आत्मनेपदेषूत्तरसूत्रेणैव सिद्धत्वात्। `ददति' इति। `श्नाब्यास्तयोरातः' (6.4.112) इत्याकारलोपः। `ददतु' इति। लोट्, `एरुः' (3.4.86) इत्युत्वम्। जक्षति, जाग्रतीत्यत्र `जक्षित्यादयः षट्' (6.1.6) इत्यभ्यस्तसंज्ञः।
युक्तं जक्षित्यादिकमुदाहरणम्, ददतीत्याद्ययुक्तम्; अत्र झकारस्यात्मलाभकालसमनन्तरमेव ताददन्तरङ्गत्वादन्तादेशेन भवितव्यम्, ततः शपः श्लुः, `श्लौ (6.1.10) इति द्विर्वचनम्, ततोऽभ्यस्तसंज्ञा तदा झकारस्य स्थानिनोऽभावादद्भादो न प्राप्नोति। न च शक्यते वक्तुम्--स्थानिवद्भावाद्भविष्यति। न ह्यत्र स्थानिवद्भावोऽस्ति; अल्विधित्वात्। नापि बहिरङ्गोऽनवकाशत्वादन्तादेशं बाधित्वाऽदादेशो भविष्यतीति युक्तं परिकल्पयितुम्। जक्षित्यादिषूपदेशावस्थायामेव लब्धाभ्यस्तसंज्ञकेषु तस्य सावकाशत्वादिति चोद्यमपाकर्तुमाह--`अन्तादेशापवादोऽयम्' इति। अन्तादेशस्य सामान्येन सर्वत्र प्रसक्तस्यायमद्भावोऽपवाद आरभ्यते। न चापवादविषयमुत्सर्गोऽवगाहते। तथा चोक्तम्--`पूर्वमपवादाः प्रवर्त्तन्ते पश्चादुत्सर्गाः, परिहृत्यापवादविषयमुत्सर्गः प्रवर्तते' (पु.प.56) इति। अत एव तर्हि जुस्भावो न स्यात्। यथैव ह्यन्तादेशस्य सामान्येन प्रवृत्तस्य विशेषोऽद्भाव आरभ्यमाणोऽपवादः, तथा जुत्भावस्यापीत्याह--`जुसादेशेन तु बाध्यते' इति। `जुसादेशस्यानवकाशत्वादित्यदादेशो बाध्यते। `अददुः' इति। लङ्, `सिजभ्यस्तविधिभ्यश्च' (3.4.109) इति झेर्जुस्। `अजागरुः' इति। जागर्त्तेर्या गुणप्राप्तिस्तस्याः `अविचिण्णल्ङित्सु' (7.3.85) इति प्रतिषेधल्लक्षणान्तरेण, `जुसिच' (7.3.83) इत्यनेन गुणः। `अत्राप्यादेशे कृते प्रत्ययाद्युदात्तत्वं भवति' इति। तेन पुनत इत्यादिकं पदं मध्योदत्तं भवतीति भावः। यदि तु विपर्ययः स्यात्, अन्तरङ्गत्वात्प्रत्ययाद्युदात्तत्वे कृते व्यञ्जनमात्रस्याद्भावो विधीयमानोऽनियतस्वरः प्रसज्येत। तत्र यदासावनुदात्तः स्यात्, तदा पुनत इत्यादेः पदस्यान्तोदात्तता प्रसज्येत; यदा स्वरितस्तदा मध्यस्वरितता, मध्योदात्तता चेष्यते। ननु च प्रत्ययाद्युदात्तत्वं प्रत्ययमात्रापेक्षयाऽन्तरङ्गम्, आदेशस्तुप्रकृतिप्रत्ययापेक्षत्वाद्बहिरङ्गः। `अन्तरङ्गबहिरङ्गयोरन्तरङ्गं बलीयः' (व्या.प.94) इति प्रत्ययाद्युदात्तत्वेनैव पूर्वं भवितुं युक्तम्, पश्चादादेशेनेति, तत्कथमुच्यते--अदादेशे कृते प्रत्ययाद्युदात्तत्वं भवतीति? नैतदस्ति उक्तं हि `उपदेशिवद्वचनं कर्त्तव्यम्' इति। किञ्च--आदेशो नित्यः, कृताकृतप्रसङ्गित्वात्। स हि कृते प्रत्ययाद्युदात्तत्वं पुनरनित्यम्, शब्दान्तरप्राप्त्या। तथा ह्यकृतेऽदादेशे झेरिकारस्य प्राप्नोति, कृते स्वदादेशाकारस्य `शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति' (व्या.प.106)। `नित्यानित्ययोर्नित्यं बलीयः' (व्या.प.93) इति बलीयस्त्वमस्य। तदेतन्नित्यत्वादनयोर्बलपीयसोः परत्वाददादेशेन पूर्वं भवितव्यम्, ततः प्रत्यायाद्युदात्तत्वेन । तस्मात् सुष्ठूक्तम्--आदेसे कृते प्रत्ययाद्युदात्तत्वं भवतीति।।
5. आत्मनेपदेष्वनतः। (7.1.5)
`चिन्चेते' इति। लट्, स्वरितत्वादात्मनेपदम्। `चिन्वताम्' इति। लेट्, झः टेरेत्त्वम्, `आमेतः' (3.4.90)। `अचिन्वत' इति। लङ्, अडागमः, `हुश्नुवोः सार्वधातुके' (6.4.87) इति यणादेशः। `पुनते, लुनते' इति। पूर्ववदाकारलोपः।
`च्यवन्ते, प्लवन्ते' इति। अत्र शपि कृतेऽनकारान्तादङ्गादुत्तरो झकारो न भवति।
ननु परत्वाददादेशेन भवितव्यम्, पश्चाद्विकरणेन? इत्यत आह--`नित्यत्वादतद्र' इत्यादि। नित्यत्वं तु कुताकृतप्रसङ्गित्वात्। विकरणो हि कृतेऽप्यदादेशे प्राप्नोत्यकृतेऽपि, न तु तस्मिन् कृतेऽद्भावस्य प्राप्तिरस्तीत्यनित्यत्वमस्य। `अनकारान्तेन' इत्यादि। प्रत्ययः कस्मादनकारान्तेनाङ्गेन न विशिष्यते? इति मन्यमान आह--`इह' इत्यादि। यदि प्रत्ययो विशिष्येत शयान्तं--इत्यत्रापि स्यात्, भवति ह्यत्राप्यनकारान्तादङ्गादुत्तरो झप्रत्ययः। आटा व्यवहितत्वान्न भवतीति चेत्? न; तस्य तद्भक्तत्वान्न हि तदेकदेशेन व्यवधानं युक्तम्। झकारे तु विशिष्यमाणे न दोषः; आटा व्यवहितत्वात्। समुदायभक्तो ह्याट् समुदायमेव न व्यवदध्यात्। अवयवं तु व्यवदधात्येव; न ह्यवयवोऽवयवान्तरस्याव्यवधायको दृष्टः।
`तङ्यनतः', `झस्यानतः' इति वा वक्तव्ये `आत्मनेपदेष्वनतः' इति वैचित्र्यार्थम्।।
6. शीङो रुट्। (7.1.6)
`झादेशस्यातो रुडागमो भवति' इति। ननु न चेहाद्ग्रहणमस्ति, यदपि प्रकृतं तदपि प्रथमान्तम्, षष्ठीनिर्देशेन चेहार्थः, तत् कथं झादेशस्यातो रुडागमो भवतीति शक्यं विज्ञातुम्? नैतदस्ति; `तस्मादित्युत्तरस्य' (1.1.67) इति शीङ इत्येषा पञ्चमी अदित्यस्याः प्रथमायाः षष्ठीत्वं परिकलपयिष्यतीत्यदोषः। `शेरते' इति। `शूङः सार्वधातुके गुणः' (7.4.21)। ननु चात्र रुटा व्यवहितं सार्वधातुकम्, तत्कुतो गुणः, न ह्ययं सार्वधातुकभक्तस्तत् कथं व्यवधायको न स्यात्, अचछब्दस्य सार्वधातुकावयवस्यायमवयव इति तद्ग्रहणेन गृह्यते, न सार्वधातुकग्रहणेन; अवयवावयवस्य समुदायानवयवत्वात्; तथा हि--`छे च' (6.1.73) इत्यत्रोक्तम्--`नावयवावयवः समुदायावयवो भवति' इति? नैष दोषः; अवयवावयवोऽपि समुदायावयवो भवत्येव। तथा हि--देवदत्तोऽलंक्तियतामित्युक्ते देवदत्तस्य येऽवयवा हस्तपादायस्तवयवाश्चङ्गुल्यादयोऽलंक्रियन्ते। तस्मात् सार्वधातुकावयवस्याच्छब्दस्य योऽवयवो रुडागयः, सोऽपि सार्वधातुकावयव इति तद्ग्रहणेन गृह्यते, अतो नास्ति व्यवधानम्।
यत्पुनः `छे च' (6.1.73) इत्यत्रोक्तम्--नावयवावयवः समुदायावयवो भवतीति, तत् तत्सूत्रविहितमेव तुगागममभिप्रेत्योक्तम्, स तुगवयवावयवोऽपि समुदायग्रहणेन न गृह्यत इति कृत्वा। कस्मात् पुनर्न गृह्यते? ह्रस्वानुकर्षणसामर्थ्यात्। तत्र हि चकारेण ह्रस्वोऽनुकृष्यते--ह्रस्वमात्रस्यागमित्वं यथा स्यात्, ह्रस्वन्तस्य मा भूदिति। यदि ह्रस्वान्तस्यागमित्वं स्यात्, चिच्छिदतुः, चिच्छिदुरित्यत्र तुकोऽभ्यासग्रहणेन ग्रहणाद्धलादिशेषेण निवृत्तिः स्यात्। यदि च तत्सूत्रविहितस्तुगवयवावयवः समुदायग्रहणेन न गृह्यते, तदा ह्रस्वमात्रस्यायमित्वे हलादिशेषेण निवृत्तिः स्यादेव; ह्रस्ववयवस्य तुकोऽभ्यासग्रहणेन ग्रहणात्। ततश्च ह्रस्वानुकर्षणमनर्थकं स्यात्।
अथ किमर्थमदादेशस्य रुङ् विधीयते, न झकारस्य विधीयताम्, तत्रायमर्थः--अत िति षष्ठी प्रकल्पयितव्या न भवति; झ इत्यस्य षष्ठ्यन्तस्य प्रकृतत्वात्? अत आह--`रुडयम्' इत्यादि। यदि ककारमनुबन्धमासन्य पूर्वान्तः क्रियत, तदा शेरत इत्यत्र गुणो न स्यात्; अनिगन्तत्वात्। तस्मान्मा भूदेष दोष इति रुडयं परादिः क्रियते; परादिरपि क्रियमाणो यदि झकारस्यैव स्यात् किमनिष्टं स्यात्? इत्याह--`यदि' इत्यादि। झकारस्यैव रुट् स्यात् तदाऽदादेशो न स्यात्। ततो यथा शयान्तै--इत्यत्राटा व्यवहितत्वाददादेशो न भवति; तथा शेरते इत्यत्रापि न स्यात्; रुटा व्यवहितत्वात्। तस्मादस्य दोषस्य परिहारार्थम्--अत एव रुडागमो विधीयते, न झकारस्येति केचिद्व्याचक्षते, एतच्चासम्यक्; झकारस्य क्रियमाणो रुट् तस्यैव भक्तो भवति, तत्कथं तेन व्यवधानं भवेत्! न हि स्वावयवेन व्यवदधात्येव। तस्मादसद्व्याख्यनमेतदित्यन्यथा व्याख्यायते--अदादेशो न स्यादित्यत्र झकारस्येत्येतदपेक्षते, तदयमर्थो भवति--यदि रुडागमो झकारस्यैव स्यात् तदादादेशस्तस्यैव न स्यात्। कस्य तर्हि स्यात्? तस्यैव रुटः स्यात्; `आदेः परस्य' (1.1.54) इति वचनात्। अनेकाल्त्वेऽपि सर्वादेशो न भवति; रुट आनर्थक्यप्रसङ्गात्। रुटो विधानसामर्थ्यान्न भविष्यतीति चेत्? नैतदस्ति; उत्तरार्थ रुङविधानंस्यात्। `बहुलं छन्दसि' (7.1.8) इत्यत्र रुजागमो यथा स्यात्। न ह्यदृश्रन्नित्यतटा सिध्यति। तस्माज्ताकश्रवणं रुङ्विधेः प्रयोजनम्। तदेतस्य दोषस्य निरासायादादेशस्य रुङ्विधीयते; न झकार्सय। `शीङः' इत्यनुबन्धेन निर्देशे यङ्लुग्निवृत्त्यर्थः--व्यतिशेस्यत इति।।
7. वेत्तेर्विभाषा। (7.1.7)
`संविद्रते, संविदते' इति। `विद ज्ञाने' (धा.पा.1064)। `समोभ्यृच्छि' (1.3.29) इत्यादिनाऽत्मनेपदम्, अदादित्वाच्छपो लुक्। `संविद्रताम्, संविदताम्' इति। लोट्। देरेत्त्वे कृते `आमेतः' (3.4.90) इत्याम्।
`वेत्तेरिति लुग्विकरणस्य ग्रहणं किम्' इति। एवं मन्यते--विधेरिति सामान्यनिर्देशेन सर्वविदीनां ग्रहणमस्तु, लघु ह्येवं सूत्रं भवति, सत्यपि सर्वविधीनां ग्रहणे लुग्विकरणादेव भविष्यति, नान्यतः, विकरणेन व्यवधानात्। यद्यविशेषेण विदीनां ग्रहण स्यात् `विद विचारणे' (धा.पा.1450) इत्यस्मादपि रौधादिकात् स्यात्, न ह्यत्र विकरणो व्यवधायकः; धात्वन्तःपातित्वात्? इत्यत आह--`इह' इत्यादि। `विन्ते, विन्दाते, विन्दते' इति। अनुदात्तेत्त्वादात्मनेपदम्, `श्नसोरल्लोपः' (6.4.111)। अत्र तु `विन्दते' इति बहुवचनान्तं प्रत्युदाहरणम्। एकवचनद्विवचनयोरुपन्यासो विदेर्विचारणार्थस्य रूपमिति प्रदर्शनार्थः; अन्यथा `विन्दते' इत्येताचत्युच्यमाने लाभार्वस्य विदेरेकवचनान्तमिदं रूपमिति कस्यचिद्भ्रान्तिः स्यात्।
श्तिपा निर्देशाद्यङ्लुकि न भवति--संवेविदते, व्यतिवेविदते।।
8. बहुलं छन्दसि।
`अदुह्र' इति। स्वरिरेत्त्वादात्मनेपदम्। ननु च विभाषाग्रहणानुवृत्तेरेवादुह्रतेत्यादि सिद्धम्, किं बहुलवचनेनेति यश्चोदयेत् तं प्रत्याह--`बहुलवचनात्' इत्यादि। विभाषानुवृत्त्या हि विकल्पमात्रं लभ्यते, न त्वन्यत्रापि भवति। बहुलवचनादन्यत्रापि भवति। तेन विभाषायां प्रकृतायां बहुलवचनमिति भावः। `अदृश्रन्' इति। दृशेर्लुङ्, झेरन्तादेशः, `इरितो वाट (3.1.57) इति च्लेरङ्, तस्य रुट् `इतश्च' (3.4.100) इतीकारलोपः, `संयोगन्तस्य' (8.2.23) इति तकारस्य च, `अतो गुणे' (6.1.97) पररूपत्वम्। अथात्र `ऋवृशोरङि' (7.4.16) इति गुण कस्मान्न भवति? `क्ङिति च' (1.1.5) इति प्रतिषेधादिति चेत्? न; तसय ङित्येव विधानात्। सार्वधतुकस्य ङितमाश्रित्य प्रतिषेधः प्राप्नोतीति चेत्? न; एकादेशः पूर्वविधौ स्थानिवद्भवतीति यश्चोदयेत्, तं प्रत्याह--`ऋदृशोऽङि गुणः' इति।।
9. अतो भिस ऐस्। (7.1.9)
`समासे कृते' इत्यादि। `कुगतिप्रादयः' (2.2.18) इति क्रान्ताद्यर्थेऽतिशब्दस्य। `ह्रस्वत्वे च' इति। `गोस्त्रियोरुपसर्जनस्य' (1.2.48) इति ह्रस्वः। ननु यदि ह्रस्वः क्रियते, तदा जराशब्दस्योच्यमानो जरसादेशो जरशब्दस्य न प्राप्नोतीति चोद्यमपाकर्तुमाह--`एकदेशविकृतम्' इत्यादि।
ननु चैकदेशविकृतस्यानन्यत्वेऽपि नैवात्र जरसादेशेन भवितव्यम्, `सन्निपातलश्रणो विधिरनिमित्तं तद्विधातस्य' (व्या.प.12) इति परिभाषया जरशब्दसन्निपातलक्षणो ह्यैस् विधीयते, स कथं तस्य विधातस्य तद्विधातस्य' (व्या.प.12) इति परिभाषया जरशब्दसन्निपातलक्षणो ह्यैस् विधीयते, स कथं तस्य विघातस्य निमित्तं स्यात्? इत्याह--`सन्निपात' इत्यादि। अनित्यत्वं पुनरस्याः `कष्टाय क्रमणे' (3.1.14) इत्यतः कष्टायेति निर्देशाद्वेवितव्यम्। यदि ह्येषा नित्या स्यात्, ततोऽकारान्तलक्षणो विधिरकारान्तताविधातस्य निमित्तं न स्यादिति `सुपि च' (7.3.102) इति दीर्घत्वं न स्यात्, ततश्च `कष्टाय' (3.1.14) इति निर्देशो नोपपद्यत इति। अथ किमर्थमैस् विधीयते, न एसेव विधीयताम्, तत्रापि `वृद्धिरेचि' (6.1.88) इति वृद्धौ कृतायाम्--वृक्षैः, प्लक्षैरित्यादि सिध्यति? कः पुनरेवं सतदि गुणो लभ्यते? न ह्यैस्येसि वा क्रियमाणो कश्चिल्लाधवकृतो विशेषः, प्रक्रियागौरवमेव तु स्यात्; एवं विधाय लक्षणान्तरेण वृद्धेर्विधानात्? अजितरसैरिति तु न सिद्ध्यति; वृद्ध्यभावात्। वृद्ध्यभावसत्वकारान्तताभावदिति यत्किञ्चिदेतत्।
इह वृक्षैरित्यत्र भिसि परभूते `अतो भिस ऐस्' इत्यैस्भावः प्राप्नोति, `बहुवचने झल्येत्' (7.3.103) इत्येस्वञ्च, उभयञ्चैतत् सावकाशम्, तत्रैस्भावस्य सावकाशत्वम्--कृतेऽप्येत्त्वे भूतपूर्वमकारान्तत्वामाश्रित्य, एवत्त्वस्यावकाशः--भ्यसादिः' परत्वादेत्त्वेनात्र भवितव्यमिति यो मन्येत, तं प्रत्याह--`एत्त्वं भिसि परत्वात्' इत्यादि। भिसि परत्वादेत्त्वञ्चेन्मन्यसे, अत ऐस् क्व भविष्यति? अकारान्तात् परस्य भिस ऐस् विधीयते, तत्र यदि परत्वादेत्त्वं भवेत् क्वेदानीमैस् भविष्यति? न क्वचित्; अकारान्ततायाः सर्वत्रैत्त्वेन विहितत्वादिति भावः। ऐस्भावस्य विषयं दर्शयितुमाह--`कृतेऽप्येत्त्वे' इत्यदि। कथं पुनः कृत एत्त्व ऐस् भवति, यावताऽकारान्तादङ्गादुत्तर्स्य भिस ऐसिकति, न च परत्वादेत्त्वे कृतेऽकारान्तादुत्त्रो भिस् भवति, तत्र वचनप्रमाण्यात् कृतेऽप्येत्त्वे भूतपूर्वमकारान्तत्वमाश्रित्यैस्मभविष्यति। `ऐस्तु नित्यस्तथा सति' इति। एवं कृतेऽप्येत्त्व ऐस्भावेन भवितव्यमकृतेऽपीति कृताकृतप्रसङ्गित्वात्; ऐस्तु नित्यः, एत्त्वं त्वनित्यम्; न हि तदैस्भावे कृते प्राप्नोति; झलो निमित्तस्याभावात्। नित्यानित्ययोश्च तुल्यबलत्वाद्विप्रतिषेधो नोपपद्यते। ततश्च परमप्येत्त्वमपास्य बलवानैस्भविध्यतीति भावः।।
10. बहुलं छन्दसि। (7.1.10)
बहुलग्रहणं विस्पष्टार्थम्। शक्यते हि मण्डूकप्लुतिन्यायेन बहुलग्रहणमनुवर्त्तयितुम्।।
11. नेदमदसोरकोः। (7.1.11)
अविद्यमानः ककारो ययोस्तवकौ। `एभिः' इति। इदमस्त्यदाद्यत्वम्, `बहुवचने झल्येत्' (7.3.103) इत्येत्त्वम्, `हलि लोपः' (7.2.113) इतीद्रूपस्य लोपः। `अमीभिः' इति। अदस एत्त्वे कृते `एत ईदवहुवचने' (8.2.81) इतीत्त्वम्, दस्य च मत्वम्।
`इमकैः' इति। `अव्ययसर्वनाम्नामकच्प्रक्टोः' (5.3.71) इत्यकच्, `दश्च' (7.2.109) इति दकारस्य मत्वम्। `अमुकैः इति। `अदसोऽसोर्दादु दो मः' (8.2.80) इति मत्वोत्वे।
अथ `नेदमदसोः' इत्येवं कस्मान्नोक्तम्, किमकोरत्यनेन, अकोरित्यनुच्यमाने सककारयोरपि अतिषेधः स्यादिति चेत्? नैतदस्ति; इदमदसोर्हि प्रतिषेध उच्यमानः कः प्रसह्गो या सककारयोः स्यात्? नैव प्राप्नोति शब्दान्तरत्वादित्याह--`अकोरित्येत्' इत्यादि। ज्ञापकस्य प्रयोजनम्--अकज्वतां सर्वनामसंज्ञा सर्वादीनाम्, स्वरादीनाञ्चाव्ययसंज्ञा।
अथ `इदमदसोः कात्' इति कस्मान्नोक्तम्, तत्र पूवणैव सिद्धे नियमार्थ भविष्यति--इदमदसोः सम्बन्धो यो भिस् तस्य कादेव परस्यैस् भवति, इत्येवं विज्ञायमाने नियमे सर्वमभीष्टं नियमे सर्वमभीष्टं सिध्यत्येव, लघु च सूत्रं भविष्यति? सत्यमेतत्; किन्त्वस्मिन् सूत्रविन्यासे `तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' (व्या.प.21) इत्येषा न ज्ञापिता स्यात्। विपरीतनियमोऽपि भन्दधीभिराशङ्क्येत--इदमदसोरेव कादिति। तत्रायं नियमार्थः स्यात्--इदमदसोरेव यः ककारस्तस्मात् परस्य भिस ऐस्भवतीति। ततो विश्वकैः, सर्वकैरित्यत्र न स्यात्; नियमेन व्यावर्त्तितत्वात्। इह च स्यादेव--एभिः, अमीभिरिति। नियमेनाव्यावर्त्तितत्वात्। तस्माद्यथान्यासमेवास्तु।।
12. टाङसिङसामिनात्स्याः। (7.1.12)
`अतिजरसिना' इत्यादि। पूर्ववत् समासे कृते ह्रस्वत्वे च जरसादेशः। `केचित्' इति। सूत्रकारमतानुसारिणः। यदि ह्यतिजरसिनेत्येतत् सूत्रकारस्य साधुत्वेनाभिमतं न स्यात्, टेत्येतस्य नादेशमेव कुर्यात्। तत्राप्येत्वे कृते वृक्षेणेत्यादि सिध्यति। कथमेतत्वमिति चेत्? एवमेत्त्वविधौ योगविभागः करिष्यते। इदमस्ति--`बहुवचने झल्येत्' (7.3.103), ततः `ओसि च' (7.3.104), ततः `आङि चापः' (7.3.105) इति; तत्राङीति योगविभागः कर्त्तव्यः--आङि परतोऽत एत्वं भवति--वृक्षेण, प्लक्षेण; ततः `आपः', `सम्बुद्धौ च' (7.3.106) इति। ननु च नादेशे सतीदम इद्रूपस्य हलि लोपः प्रसज्येत, ततश्चानेनेति न सिध्यति? नैष दोषः; `हलि लोपः' (7.2.113) इत्यत्र `जराया जरसन्यतरस्याम्' (7.2.101) इत्यतोऽन्यतरस्यांग्रहणमनुवर्त्तते, सा च व्यवस्तितविभाषा विज्ञायते तेन नादेशे कृते सतीद्रूपस्य लोपो न भवति। तदेवं नादेशेनैव वृक्षेणेत्यादि। सिध्यति। ततः स एव कर्त्तव्यः, नेनादेशः; कृतश्चासौ, अतोऽवगम्यते--नूनं सूतद्रकारस्याति जरसिनेत्येतत्साधुत्वेनाभिमतम्, यस्य सिद्ध्यर्थमिनादेशं कृतवानितिति। तथा यद्यतिजरसादित्यस्य साधुत्वमभीष्टं न स्यात् ङसेरद्भावं विदध्यात्। तत्रापि अकः सवर्णे दीर्घत्वेन (6.1.101) वृक्षादित्येवमादि सिद्ध्यत्येव। ननु चाकः सवर्णावपवादः `आतो गुणे' (6.1.97) पररूपत्वं प्राप्नोति, तत् कथं सिद्ध्यति? नैतदस्ति; अकारोच्चारणसामर्थ्यान्न भविष्यति पररूपम्, अन्यथा तकारमेव विदध्यात्। अत्र हि `आदेः परस्य' (1.1.54) इत्यकारस्य तकारे विहिते संयोगान्तलोपे वृक्षादित्येवमादि सिध्यत्येव। अत्र हि `आदेः परस्य' (1.1.54) इत्यकारस्य तकारे विहिते संयोगान्तलोपे वृक्षादित्येवमादि सिध्यत्येव। तस्मादकारोच्चरणसामर्थ्यात् पररूपत्वं न भविष्यतीत्यद्भावो विधेयः, किमाद्भावेनेति? विहितश्चाद्भावः, ततोऽवसीयते--नूनमतिजरसादित्यस्य साधुत्वं सूत्रकारस्याभिमतं यत्सिद्ध्यर्थमाद्भावं विहितवानिति। एवं सूत्रकारस्य मतमनुसरन्तः केचिदतिजरसिना, अतिजरसादित्यस्य साधुत्वमिच्छन्ति। `यथा तु' इत्यादि। भाष्ये हि--`अथ किमर्थमिनादेश उच्यते, न नादेश एवोच्येत' इत्येवं ग्रन्थसन्दर्भेणेनादेशं प्रत्यख्याय नादेश एव व्यवस्थापितः। `अथ किमर्थमादिप्युच्यते, न अदेवोच्येत' इत्येवमादिना ग्रन्थसन्दर्भेण आदादेशं प्रत्याख्याय अदादेश एव व्यवस्थापितः। यदि चातिजरसिना, अतिजरसादित्यस्य साधुत्वमिष्टं स्यादिनादेशमाद्भावं च भाष्यकृन्न प्रत्याचक्षीत। न हि प्रयोजने सति प्रत्याख्यानं युक्तम्, कृतञ्च तयोः प्रत्याख्यानम्, ततोऽवगम्यते--`नैतदिव्यते' इति।।
13. ङेर्यः। (7.1.13)
`ङेः' इति। चतुर्थ्यकवचनस्येदं ग्रहणम्। कस्मान्न भवति सप्तम्येकवचनस्य ग्रहणम्? यदि हि तस्य ग्रहणं स्यात्, तदा--अत्यन्तसंयोगे, भावे अपवर्गे, कारकमध्ये--इत्येवमादि न सिद्ध्यति। तस्मादेतेभ्यो निर्देशेभ्यो नेदमिह सप्तम्येकवचनस्य ग्रहणम्। अतः परिशेष्याच्चतुर्थ्येकवचनस्य ग्रहणं न निश्चीयत इति। `तस्मै हितम्' (5.1.5) इति निर्देशाच्च लिङ्गादत्तरत्राप्येतदेवानुवर्त्तते। `वृक्षाय' इति। `सुपि च' (7.3.102) इति दीर्घः।
ननु `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' (व्या.प.12) इति परिभाषया उपस्थाने सति सन्निपातलक्षणो यविधिरकारविधातं प्रति निमित्तं नोपपद्यते, कुतो दीर्घत्वम्? इत्याह--`सन्निपातलक्षणः' इत्यादि। अनित्यत्वं त्वस्याः प्रागेव प्रतिपादितम्। अथ ङकारोच्चारणं किमर्थम्? एकारमात्रस्य ग्रहणं मा भूदिति। यदि स्यात्, पचे, यजे--इत्येवमादावपि स्यात्। ननु च `अतो गुणे' (6.1.97) इति पररूपत्वे कृते निमित्ताभावान्न भविष्यति? नैतदस्ति; नाप्राप्ते ह्यतो गुणे पररूपत्वेऽयमादेश उच्यते; स यथा वृक्षाय इत्यत्र `अतो गुणे' (6.1.97) पररूपत्वं बाधते तथा पचे, यजे--इत्यत्रापि बाधेत प्रतिपदोक्तस्येकारस्य ग्रहणादिह न भविष्यतीति चेत्? न; अस्याप्येकारस्य प्रतिपदोक्तत्वात्। `टित आत्मनेपदानां टेरे' (3.4.79) इति निर्द्देशादेकारः प्रतिपदोक्तो भवति। तस्माद्विशेषणार्थो ङकार कर्त्तव्यः।।
14. सर्वनाम्नः स्मै। (7.1.14)
`भवते' इति। त्यदाद्यत्वं न भवति। `द्विपर्यन्तास्त्यदादयः' (वा.7.2.102) इति भवच्छब्दस्य त्यदादित्वाभावादकारान्तता न भवति।
`अथो अत्र' इत्यादि चोद्यम्। अत्र इदम् ए इति स्थिते `इदमोऽन्वादेशे' (2.4.32) इत्यशादेशे कृते परमपि स्मैभावं बाधित्वा नित्यत्वादेकादेशोऽकः सवर्णे दीर्घत्वं (6.1.101) प्राप्नोति। नित्यत्वं पुनरस्य कृताकृतप्रसङ्गित्वात्। एकादेशे च कृतेऽनकारान्तत्वात् स्मैबावो न प्राप्नोति। `तत्र' इत्यादि परीहारः। तत्रैकादेशे प्राप्तेऽन्तरङ्गत्वात् पूर्वं स्मैभावो विधीयते, पश्चादेकादेशः। अन्तरङ्गत्वं तु स्मैभावस्यैकपदाश्रयत्वात्। एकादेशस्य द्विपदाश्रयत्वात् बहिरङ्गत्वम्।।
15. ङसिङ्योः स्मात्स्मिन्नौ। (7.1.15)
ङेरल्पाच्तरस्य पूर्वनिपाते प्राप्ते परनिपातो वैचित्र्यार्थः।।
16. पूर्वादिभ्यो नवभ्यो वा। (7.1.16)
पूर्वेण नित्यं प्राप्तयोः स्मात्स्मिनोर्विकल्पार्थ वचनम्।
ननु च `पूर्वापरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्' (1.1.34), `स्वमज्ञातिधनाख्यायाम्' (1.1.35), `अन्तरं बहिर्योगोपसंव्यानयोः' (1.1.36) इति नवैव सूत्रे पूर्वादीनि पठ्यन्ते, तदपार्थकं नवग्रहणम्, नैतदस्ति; न हीह सूत्रपरिपठितानि पूर्वादीनि गृह्यन्ते, किं तर्हि? गणपठितानि। कुत एतत्? जसि हि सूत्रपरिपठितानां तेषां सर्वनामसंज्ञा, न ङसिङ्योः। `सर्वनाम्नः' (7.1.14) चेतीहानुवर्त्तते, किं प्रयोजनम्? विद्यमाने स्वे यजते, स्वाद् बिभेतीत्यत्र मा भूत्। तस्मात् गणपरिपठितान्येव पूर्वादीनि गृह्यन्ते; तत्रासति नवग्रहणे त्यदादिभ्योऽपि स्यात्। तस्मान्नवग्रहणं कर्त्तव्यम्।।
17. जसः शी। (7.1.17)
शकरः सर्वादेशार्थः, असति तस्मिन् `आदेः परस्य' (1.1.54) इति वचनादकारमात्रस्य स्यात्। अथ दीर्घोच्चारणं किमर्थम्, न ह्रस्व एव विधीयताम्, अकारान्ताद्ध्ययं विधीयते। अत्राद्गुणेन' (6.1.87) भवितव्यमिति नास्ति गुणे कृते ह्रस्वस्य दीर्घस्य वा विधाने विशेषः? इत्याह--`दीर्घोच्चारणम्' इत्यादि। `नपुंसकाच्च' (7.1.19) इति वक्ष्यति; तत्र त्रपुणी, जतुनी--इत्यत्र दीर्घस्य श्रवणं था स्यादित्येवमर्थं दीर्घोच्चारणम्।
सर्वनाम्न इत्येव--दक्षिणा इमे गाथकाः। अत इत्येव--भवन्तः।।
18. औङ आपः। (7.1.18)
`वृद्धिरेचि' (6.1.88) इति वृद्धौ प्राप्तायामयमारम्भः। `औङः' इति प्रथमाद्वितीयाद्विवचनयोः सामान्येन ग्रहणम्। `आपः' इति टाड्डाप्चापाम्। `खट्वे' इति। `अजाद्यतष्टाप्' (4.1.4) तिष्ठतः, पश्येति यथाक्रममनुप्रयोगयोरुपन्यासः प्रथमान्ततां द्वितीयान्तताञ्च प्रतिपादयितुम्च अन्यथा खट्वे इत्युभयत्र रूपस्य तुल्यत्वात् प्रथमान्ततादौ विशेषे सन्देहः स्यात्। `बहुराजे' इति। करीषस्येव गन्धोऽस्येति बहुव्रीहिः, `उपमानाच्च' (5.4.137) इतीच्। करीषगन्धेरपत्यमित्यण्, तस्य `अणिञोः' (4.1.78) इत्यादिना ष्यङादेशः। `यङश्चाप्' (4.1.74) इति चाप्।
`औकारोऽयम्' इत्यादि। शीविधौ=शीविधाने। औकारोऽयं स्थानी ङिद्गृहीतो ङकारानुवन्ध उपात्त इत्यर्थः। ङकार इद्यस्य स ङित्। ङिच्चास्माकं वैयाकरणानां मतेन शास्त्र औकारो नास्ति। ततः कोऽयं प्रकारः, किंशब्द कुत्सायां वर्त्तते। कुत्सितोऽयं सूत्रप्रणयनप्रकार इत्यर्थः। कुत्सितत्वं त्वसत एवोपादनात्।
ङकारासञ्जनप्रयोजनप्रदर्शनद्वारेण कुत्सितत्वं सूत्रप्रणयनस्य निरकर्त्तुमाह--`सामान्यार्थः' इति। यदि ह्यौकारोऽनुबन्धरहितः स्थानित्वेनोपादीयेत, ततः `निरनुबन्धकग्रहणे न सानुबन्धकस्य' (व्या.प.53) इति द्वितीयाद्विवचनं न गृह्येत। अथ त्सय टकारोऽनुबन्ध उपादीयेत, एवमपि प्रथमाद्विवचनं न गृह्येत। तस्मात् सामान्येन द्वयोरपि ग्रहणं यथा स्यादित्येवमर्थं ङकार आसज्यते। ननु च द्वितीयाद्विवचने यष्टकारो नासौतस्यानुबन्धः, कस्य तर्हि? समुदायस्य। प्रत्याहरार्था हि येऽनुबन्धास्ते समुदायानुबन्धा एव विज्ञायन्ते, यथा--महिङो ङकारः, सुपश्च पकारः। तस्मान्निरनुबन्धकग्रहणे द्वयोरप्नुबन्धकत्वात् सामान्येन ग्रहणं भविष्यति, तत् कि ङकारेण? नैतदस्ति; समुदायानुबन्धकत्वेषऽवयवानुबन्धकत्वमपि ह्येषां प्रतिज्ञायते। न हि समुदायानुबन्धकत्वे प्रत्ययानुबन्धकत्वं विरुध्यते। हत्संज्ञको ह्यनुबन्ध उच्यते, हलश्चान्त्यस्येत्संज्ञा निधीयते। औटश्च टकारो यथा समुदायं प्रतयन्तस्तथा प्रत्ययं प्रत्यपि। तस्मात् तस्य `हलन्त्यम्' (1.3.3) इतीत्संज्ञायां विहितायां यथासौ समुदायं प्रत्यनुबन्धस्तथा प्रत्ययमपि। प्रयोजनाभावात् प्रत्ययानुबन्धकत्वमनुपपन्नमिति चेत्? न; इहास्ति प्रयोजनम्--द्वितीयाद्विवचनस्य सानुबन्धकत्वं यथा स्यात्। यदि तर्हि प्रत्ययानुबन्धस्तदा सत्यपि ङकारासञ्जने `तदनुबन्धकग्रहणे नातदनुबन्धकस्य' (व्या.प.54) इति `एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य' (व्या.प.52) इति च प्रथमाद्विवचनस्यैव ग्रहणं स्यात्, तस्य हि ङकार एवैकोऽनुबन्धः; द्वितीयाद्विवचनसय तु स चान्योऽपि टकारः? नैष दोषः, ङकारोच्चारणसामर्थ्याद्द्वितीयाद्विवचनमपि ग्रहीष्यते। अन्तरेणैव ङकारं प्रथमाद्विवचनस्यैव ग्रहणे सिद्धे ङकार उपदिश्यते सामान्यार्थः। यदि च सत्यपि ङकारे प्रथमाद्विवचनमेव गृह्यते ङकारोऽनर्थकः स्यात्। कथं पुनरस्य ङ्कारस्येत्संज्ञा, यावतोपदेशे योऽन्त्यो हल् तस्येत्संज्ञा विहिता, न चायमुपदेशेऽन्त्यः? भवतु वा तस्येत्संज्ञा, टकारस्य औटस्तर्हि न स्यात्; कथं ह्येकस्मिन्नुपदेशे द्वावन्त्यौ स्याताम्? नैष दोषः, औङिति वचनात्। द्वयोरप्यौकारयोरौङित्ययमादेशो विज्ञायते, तस्य चोपदेशोऽस्ति यथा `चक्षिङः ख्याञ्' (2.4.54) इति ञकार उपदेशेऽन्त्य इति, यथा तस्येत्संज्ञा तथा ङकारस्यापि। टकारस्य तु पूर्वमेव क्रमेणेत्संज्ञा लोपश्च क्रियत इति नास्ति दोषः। यश्चासावादेश औकारः स एव शोभाषस्य स्थानित्वेननोपात्त इति वेदितव्यम्।
`तस्य च' इत्यादिना--ङकारासञ्जने यो दोषः प्राप्नोति तं दर्शयति। अनुबन्धभूतसय ङकारस्योपादानमासञ्जनम्। ङिति यत् कार्यं तत् `ङित्कार्यम्'--`सप्तमी' (2.1.40) इति योगविभागात्समासः। तत्पनः कार्यं `याडापः' (7.3.113) इति आट्। यदि सामान्यार्थोऽयं ङकार आसज्यते, एवं सति ङकारस्यासञ्जने ङिति यत्कार्यं तत् ते=तव सूत्रकारस्य मतेन `श्यां प्रसक्तं' प्राप्तम्, `स दोषः'। `याडापः' (7.3.113) इति याडागमे सति खट्वे--इति रूपं न सिध्येत्। अत श्यामिति कथमामाटौ स्याताम्? कथञ्च न स्याताम्? अनदीत्वात्; अनदीत्वं च तस्यास्त्र्याख्यत्वात्? नैतदस्ति; यथैव हि खट्वादयः स्त्रियां वर्त्तन्ते तथा शीशब्दोऽपि। तथा चाह लिङ्गकारिकाकारः--`ईदूदन्तं यच्चैकाच् शरद्दरद्दृषत्प्रावृषश्च' इति। तस्मात् स्त्र्याख्यत्यादयमपि नदीसंज्ञक एव; श्रुतितामानाधिकरण्यात्। श्रुतौ वर्त्तमानः शीशब्दो नदोसंज्ञां प्रतिपद्यते। श्रुतिः स्वरूपमेव।
`ङित्त्वे' इत्यादि। `याडापः' (7.3.113) इत्यत्र `धेर्ङिति' (7.3.111) इत्यतो ङिद्ग्रहणमनुवर्त्तते। तत्र ङिदिति नायं बहुव्रीहिः--ङकार इद् यस्य स ङिदिति, किं तर्हि? तत्पुरुषः--ङकार एव इद् ङित्। तस्मादौकारो यो ङित् तस्मिन्नभ्युपेते सति ङितीत्यस्मिन्निर्देशे ङकारस्येत्संज्ञकस्य वर्णमात्रसक्य निर्देशं विद्यादवगच्छेत् प्राज्ञः। मात्रशब्दस्ततोऽन्यव्यवच्छेदाय। यदि ङितीत्यत्र ङकारस्य वर्णमात्रस्य निर्द्देशो न ङकारानुबन्धस्य प्रत्ययस्य तत् किमिति श्यां ङित्कार्यं न भवति? इत्याह--`वर्णे' इत्यादि। वर्णे परभूते यत् कार्यं विधीयते तत् `यस्मिन् विधिस्तदादावल्ग्रहणे' (व्या.प.127) इति परिभाषया तदादौ वर्णादौ विद्यात्। ततश्च यत्र ङकार आदावित्संज्ञकस्तत्रैव भवितव्यं याटा, न श्याम्। न ह्यत्रादौ ङकारः, क्व तर्हि? अन्ते। एवमयं ङित्त्वमभ्युपेत्य परीहार उक्तः।
इदानीं ङित्त्वमनभ्युपेत्य परोहारान्तरमाह--`वर्णश्चायम्' इत्यादि। वार्थे चशब्दः। वर्णो वायमिति यावत्। औङित्यौवर्णौऽयमुपत्तः प्रत्यविशेषणार्थः, न तु प्रत्ययः। अह्गाधिकारादादन्तात् परो यः सामर्थ्यप्राप्तः प्रतययः स औकारेण विशेष्यते, विशेषणेन च तदन्तविधिर्भवतीति। तेनायमर्थो जायते--औकारान्तेऽस्य प्रत्ययस्येति। औकारान्तत्वं व्यपदेशिवद्भावात्। ङकारश्चायं नानुबन्धः, मुखसुखार्थस्त्वयम्, यथा--`ऋदोरप्' (3.3.57) इत्यत्र दकारः। वर्णरूपतया च तथौकारस्य ग्रहणे सति द्वयोरप्यौकारयोः शीभावः सिद्धौ भवति। प्रत्ययग्रहणे हि निरनुबन्धक (व्या.प.53) परिभाषोपतिष्ठते, न चेह प्रत्ययग्रहणम्। किं तर्हि? वर्णमात्रस्य। ननु च द्वावप्येतौ प्रत्ययौ, तत्किमिति नोपतिष्टते? सत्यम्; यद्यपि तौ प्रत्यौ, तथधापि नात्र शास्त्रे प्रत्यरूपेणौकार उपात्तः? किं तर्हि? वर्णरूपेणेति, अतस्तस्या नेहोपस्थानम्।
ङित्त्वमनभ्युपेत्य परीहारान्तरमाह--`निर्द्देशोऽयम्' इत्यादि। नेह व्याकरण औकारसय ङकारोऽनुवग्ध उपादीयते। पूर्वाचार्याणां तु सूत्रे द्वे अप्येते द्विवचने ङिती पठ्येते। तथा हि `आबौटावौङ्' इति तत्र सूत्रपाठः। अतस्तत्सत्रानुरोधेनायं निर्द्देशः, तस्येह ग्रहणं यथा स्यात्। तस्मान्ङित्त्वाभावान्नास्ति ङित्कार्यस्य प्रसङ्गः। न हि पूर्वाचार्यसूत्रानुरोधेनेहानुबन्धकार्याणि क्रियन्ते। `तेन ङित्त्वेऽप्यदोषः' इति। किं पुनर्यत्र नास्त्येव ङित्त्वमित्यपि शब्दस्यार्थः। तदेतदुक्तं भवति--ङित्त्वेऽब्युपेते सति ङित्त्वे विद्याद्वर्णनिर्देशमात्रम्। `वर्णे यत्स्यात् तच्च विद्यात्तदादौ' इत्येवं ङित्कारयप्रसङ्गनिरासाय यस्मातद् परीहार उक्तः। यस्माद्वर्णश्चायमित्यनेन, `निर्देशोऽयं पूर्वसूत्रेण वा स्यात्' इत्यनेन चौकारयोङित्त्वभावः प्रतिपादितः। तेन हेतुना सत्यपि ङित्त्वेऽप्यदोषः। किं पुनर्नास्त्येव यत्र ङित्त्वमिति।।
19. नपुंसकाच्च। (7.1.19)
`दधिनी' इति। `इकोऽचि विभक्तौ' (7.1.73) इति नुम्।।
20. जसिशसोः शिः। (7.1.20) [`जश्शसीः शिः' इति मूले पठ्यते। अयं तु `जसिशसोः शिः' इति न्यासकाराभिप्रायेण पाठः। आज्जसेरसुक्' (7.1.50) इति सूत्रेऽपि जसिरेव दृश्यते]
जसीत्यत्रेकार उच्चारणार्थः। `कुण्डानि' इति। `नपुंसकस्य झलचः' (7.1.72) इति नुम्, `सर्वनामस्थाने च' (6.4.8) इति दीर्घ-।
अथेह कस्मान्न भवति--कुण्डं कुण्डं ददाति, `संख्यैकवचनाच्च वीप्सायाम्' (5.4.43) इति शस्, कुणअडशो ददाति? इत्याह--`जसा साहचर्यात्' इत्यादि। एतच्चोद्यपरिहारवचनं यदार्थप्रकरणादेर्वृत्तो कुण्डादिशब्द एकवचनो भवति तदा वेदितव्यम्, न त्वन्यदा। शस्विधौ हि वृत्तिस्थैकार्थताऽऽश्रीयते, न वाक्यस्था। अर्थप्रकरणादिरहितः कुण्डादिशब्दो वृत्तौ निवृत्तायां विभक्तावेकार्थो न भवतीति शसा न भवितव्यम्। कस्मात् पुनः कुण्डादिशब्दो वृत्तौ निवृत्तायं विभक्तावेकार्थो न भवतीति शसा न भवितव्यम्। कस्मात् पुनः कुण्डादिशब्दो वृत्तावेकार्थो न भवति? जातिशब्दत्वात्। जातिशब्दा हि नैकसयामेव जात्याधारभूतायां व्यक्तौ वर्त्तन्ते। किं तर्हि? अनेकस्यामपि। एवञ्च यत्तत्र शस्विधौ प्रत्युदाहरणमुपन्यस्तम्--`संख्यैकवचनादिति किम्? घटं घटं ददाति', तदुपपद्यते। यद्यर्थप्रकरणादिरहितो जातिशब्दो वृत्तावेकार्थो न भवति, तदा न भवितव्यमेव शसा।।
21. अष्टभ्य औश्। (7.1.21)
`कृताकारोऽष्टन्शब्दो गृह्यते' इति। यत्रात्वं तत्रौश्त्वं यथा स्यादित्यभिप्रायः। `अष्टौ तिष्ठन्ति' इति। आत्वे कृत औश्त्वम्।
`अष्ट तिष्ठन्ति' इति। अत्रात्वाभावादौश्त्वं न भवति। कथं पुनरत्रात्वाभावः, यावता न तत्रात्वविधौ विकल्पस्य प्रतिपादकं किञ्चिदन्यतरस्यांग्रहणादिकमसति? इत्याह--`एतदेव' इत्यादि। कृतात्वनिर्देशस्थैतदेव प्रयोजनम्--यत्रात्वं तत्रैवौशत्वं यथा स्यात्, अन्यत्र मा भूदिति। यदि च नित्यमात्वं स्यात् तदा कृतात्वस्य निर्देशोऽनर्थकः स्यात्; व्यवर्त्त्याभावात् `अष्टनः' इत्येवं ब्रूयात्। तदेवं लघुनिर्देशे सम्भवति सति यत् कृतात्वस्य निर्देशो गरीयान् क्रियते, तज्ज्ञापयति--विकल्पेनात्वं भवतीति। यद्यपि चायमर्थः `अष्टनो दीर्घात्' (6.1.172) इत्यत्रापि ज्ञापितः, तथापि विस्मरणशीलानामनुग्रहाय पुनरिह ज्ञाप्यते।
अथाष्टपुत्रः, अष्टभार्य इत्यत्र कस्मान्न भवति, `सुपो धातुप्रातिपदिकयोः' (2.4.71) इति लुका बाधितत्वादिति चेत्? न; इहापि तर्हि न स्यात्--अष्टौ तिष्टन्ति, अष्टौ पश्येति। `षङ्भ्यो लुक् (7.1.22) इति लुका बाधितत्वात्। अथौश्भावस्य लुगपवादत्वादत्र लुक्रं बाधित्वा स एव भवति। पूर्वत्रापि तर्हि स एव स्तात्, अत एव हेतोः? इत्याह--`षङ्भ्यो लुगित्यस्यापवादोऽयम्' इति। अत्रैवोपपत्तिमाह--`नाप्राप्ते' इत्यादि। `षङ्भ्यो लुक्' (7.1.22) इत्यसमासे प्राप्नोति--अष्टौ तिष्ठन्तीत्यादौ, समासे च--अष्टपुत्र इत्यादौ। तस्मान्नाप्राप्ते अष्टभार्यः--इत्यत्र सुब्लुकैव भवितव्यमित्यौशत्वं न भवति।
`तदन्तग्रहणम्' इत्यादि। किं पुनरिष्यमाणमपि लभ्यते? `अङ्गाधिकारे तस्य तदुत्तरपदस्य च' (पु.प.वृ.85) इति वचनात्। अथ वा--अष्टाभ्य इत्यर्थप्रधाननिर्देशोऽ
यं बहुवचननिर्द्देशादवसीयते। शब्दप्रधाने हि निर्देशे `अष्टनः' ब्रूयात्। अर्थाच्च शब्दद्वारेणैव जश्शसोः परत्वं विज्ञायत इति केवलाच्चाष्टनो भवति। तदन्ताच्चातदन्तेऽपि हि शब्दद्वेरेणार्थात् परौ जश्शसौ भवत इति। यदि तदन्तग्रहणमत्रेष्यते, प्रियाष्टन इत्यत्रापि प्राप्नोति? अत आह--`प्रियाष्टनः' इत्यादि। प्रिया अष्टौ येषामिति बहुव्रीहिः। ननु च विकल्पेनात्वम्। तत्र यदात्वं न भवति तदा मा भूदौश्त्वम्; यदात्वं तदा स्यादेव; व्यवस्थितविभाषयात्रात्वं न भविष्यतीत्यदोषः।।
22. षङ्भ्यो लुक्। (7.1.22)
`पञ्च, सप्त' इति। `नलोपः प्रातिपदिकान्तस्य' (8.2.7) इति नलोपः। `षट्परधानात् तदन्तादपि भवति' इति। अत्र पूर्वको हेतुर्वकतव्यः। `यत्र तु' इत्यादि। अर्थस्येदं ग्रहणं बहुलवचनादवसितम्। स चार्थो द्विविधः--प्रधानोऽप्रधानश्च। तत्र `प्रदाने कार्यसम्प्रत्ययः' (व्या.प.120) इति यत्रार्थस्य प्राधान्यं तत्रैव भवति, न तु यत्रार्थस्याप्राधान्यं तत्र। एष च हेतुः प्रियाष्टान इत्यत्रौश्त्वाभावेऽपि वेदितव्यः। `प्रियषषः' इति। प्रियाषडेषामिति बहुव्रीहिः। अत्रान्यपदार्थस्य प्राधान्यम्, षडर्थस्तु तत्र गुणभावादप्रधानः।।
23. स्वमोर्नपुंसकात्। (7.1.23)
`सु' इति यद्यपि सप्तमीबहुवचनमस्ति, तथाप्यमा द्वितीयैकवचनेन सहचर्यात्प्रथमैकवचनमेव गृह्यते।
तदब्राह्मणकुलमित्यत्र परत्वात् त्यदादयत्वेनैव भवितव्यम्, त्यदाद्यत्वे कृते लुग्न प्राप्नोति; `अतोऽम्, (7.1.24) इत्यम्भावप्रसङ्गात्, तस्मात्त्यदाद्यत्वात्प्राग् लुग्वक्तव्यः? इत्याह--`तद्ब्राह्मणकुलमित्यत्र' इत्यादि। लुकोऽवकाशः--दधि, मध्वित्यत्र, त्यदाद्यत्वस्यावकाशः--ब्राह्मण इति; इहोभयं प्राप्नोति--तदब्राह्मणकुलमिति, लुग्भवति पूर्वविप्रतिषेधेन। न च पूर्वविप्रतिषेधो वक्तव्यः; इष्टवाचित्वात्परशब्दस्य। `नित्यत्वाद्वा' इति। वाशब्दः समुच्चये। यद्यपि लुक्, त्यदाद्यत्वञ्चोभयं प्राप्नोति, तथापि लुक एव नित्यत्वं विज्ञायते। कुतः? सामर्थात्। `लुका त्यदाद्यत्वे बाध्यते' इत्यत्र हीदं हेत्वन्तरमुक्तम्। एवञ्चेदमत्रार्थे हेत्वन्तरं सम्भवति यदि लुको नित्यत्वं भवति, नान्यथा, नित्यत्वं पुनः कृताकृतप्रसङ्गित्वात्। त्यदाद्यत्वं हि विभक्तावुच्यमानं कृते लुकि विभक्त्यभावान्न प्राप्नोति। प्रत्ययलक्षणेन चास्य प्राप्तिनं युक्ता; `न लुमताङ्गस्य' (1.1.63) इति प्रतिषेधात्। लुक्पुनः कृते त्यदाद्यत्वे प्राप्नोत्यकृतेऽपि।
ननु च कृते त्यदाद्यत्वे लुकः प्राप्तिरेव नास्ति; `अतोऽम्' (7.1.24) इत्यपवादविधानात्। तस्मात्सोऽप्यनित्य एव? इत्याह--`लुको हि' इत्यादि। असति `अतोऽम्' (7.1.24) इति लक्षणेऽकारान्तमप्यङ्गं लुको निमित्तमासीत्, तदनेन लक्षणेनोपजायमानेनापवादविधानाल्लुकं प्रत्यनिमित्तभावमापद्यते। लुग्निमित्ताभावापादनमेव विघातः। `न पुनस्त्यदाद्यत्वेन' इति। लुको निमित्तभावो विहन्यत इति सम्बन्धनीयम्। यदि `अतोऽम्' (7.1.24) इत्यपवादविधायि लक्षणान्तरं न स्यात्, कृते त्यदाद्यत्वे स्यादेवाकारान्तमङ्गं लुको निमित्तम्। तच्च `अतोऽम्' (7.1.24) इत्यपवादेनैव लुको निमित्तं व्याहन्यते, न पुनस्त्यदाद्यत्वेन। यद्येवम् तत्किमित्यनित्यो लुग्न भवति? इत्याह--`यस्य च' इत्यादि। लक्षणान्तरत्वं लक्षणान्तरत्वं पुनरम्भावशास्त्रस्य त्यदाद्यत्वशास्त्रापेक्षया वेदितव्यम्।।
24. अतोऽम्। (7.1.24)
पूर्वेण प्रापतसय लुकोऽयमपवादः। तपरकरणं मुखसुखार्थम्; न तु दीर्घनिवृत्त्यर्थम्। दीर्घस्याभावात्। अभावस्तु `ह्रस्वो नपुंसके प्रातिपदिकस्य' (1.2.47) इति ह्रस्वविधानात्। अथ किमर्थमम्भाव उच्यते, न मकारादेश एवोच्येत? न चैवम्; `आदेः परस्य' (1.1.54) इति द्वितीयैकवचनाकारस्य मकारे कृते द्वयोर्मकारयोः श्रलणं प्राप्नोति; एकस्य संयोगान्तलोपेनापहृतत्वात्। नापि `सुपि च' (7.3.102) इति यञादौ सुपि विधीयमानं दीर्घत्वं प्राप्नोति; `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' (व्या.प.12) इति वचनात्। अकारान्तसन्निपाते हि मकारविधिः, स कथमकारविघातस्य निमित्तं स्यात्? एवं तर्हि मकारादेशे विघातव्येऽमा देशं कुर्वन्नेतज्ज्ञापयति--नित्यैषा परिभाषेति। तेनातिजरसात्, अतिजरसैरिति जरसादेशः सिद्धो भवति।।
25. अद्ड्डतरादिभ्यः पञ्चभ्यः। (7.1.25)
द्विडाकारोऽयं निर्द्दशः--तत्रैको डतरसम्बन्धी द्वितीयस्त्वादेशम्बन्धी। डतरादयश्चैते सर्वाद्यन्तःपातिनो गृह्यन्ते; न तु `द्वयोरेकस्य डतरच्' (5.3.92) इत्येवमादयः प्रत्ययाः। कुत एतत्? नेतराच्छन्दसि' (7.1.26) इति प्रतिषेधात्। प्रत्ययग्रहणे हीतरशब्दात् प्राप्तेरेव नास्तीति प्रतिषेधोऽनर्थकः स्यात्। तेषां डतरादीनां मध्येऽन्त्यानि त्रीणि प्रातिपदिकानि; डतरडतमौ च प्रत्ययौ; तत्र प्रत्यग्रहणपरिभाषया (भो.प.सू.7) तदन्तयोर्ग्रहणं भवति। `कतरत्' इति। `किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच्' (5.3.92)। `कतमत्' इति। `वा बहुनां जातिपरिप्रश्ने डतमच्' (5.3.93)। `कतरत् तिष्ठतीत्यत्र' इत्यादि। असति हि ङित्करणे कतरत् तिष्ठतीत्यत्र `अकः सवर्णे दीर्घः' (6.1.101) इत्यनुवर्त्तमाने `प्रथमयोः पूर्वसवर्णः' (6.1.102) इति दीर्घः स्यात्, अतः स मा भूदित्येवमर्थं ङित्करणं क्रियते। अत्र हि कृते दीर्घत्वप्रसङ्गो न भवति; टिलोपेनाऽकोऽपहृतत्वात्।
किं पुनः कारणम्--प्रथमैकवचनस्यैव ङित्करणस्य दीर्घाभावः प्रयोजनमुच्यते, न तु द्वितीयैकवचनस्य? इत्यत आह--`इह तु' इत्यादि। अमो हि स्थाने य आदेशस्तस्य `स्थानिवदादेशोऽनल्विधो' (1.1.56) इति स्थानिवद्भावादमि पूर्वत्वेनापि सिध्यति--कतरदित्येतत्, तस्मात् तत्र ङित्करणस्य दीर्घत्वाभावः प्रयोजनमिति नोच्यते। `तकारादेश एव कस्मान्न क्रियते' इति। यद्यत्र दीर्घत्वं नेष्यते तदा तकारादेश एव कर्त्तव्यः। तत्राप्ययमर्थः--दीर्घनिवृत्त्यर्थं ङित्करणं न कर्त्तव्यमिति। `हे कतरत्' इत्यादि। यदि तकारादेश एव क्रियते तदा तस्य स्थानिवद्भावेन सम्बुद्धिभावोऽस्तीति `एङ् ह्रस्वात् सम्बुद्धेः' (6.1.69) इति लोपः प्राप्नोति, अतः स मा भूदित्येवमर्थं तकारादेशो न क्रियते।
`अपृक्तश्च' इत्यादि। `हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तम्' (6.1.69) इत्यतश्चेदपृक्तग्रहणं सम्बुद्धिलोपेऽनुवर्त्तते तदामो दोषः--हे कुण्डेत्यत्र। निवृत्तेऽपृक्ताधिकारे डतरादिषु दोषः--हे कतरदिति। तस्माड्डित्करणादेवाकारलोपे कृते ह्रसवाभावान्न लोपः, न च दीर्घतेति।।
26. नेतराच्छन्दसि। (7.1.26)
पूर्वेणाद्डादेशस्य प्रसकतस्यायं प्रतिषेधः।
अथ `अतोऽम्' (7.1.24) इत्यस्यानन्तरं ` इतराच्छन्दसि' इति कस्मान्नोक्तम्, एवं हि नेति प्रतिषेधः कर्त्तव्यो न भवति, अमादेशोऽद्डादेशस्यापवादो भविष्यति? इत्याह--`अतोऽमित्यस्मादनन्तरम्' इत्यादि। `योगविभागार्थम्' इति। नेत्येकयोगविभागो यथा स्यादिति। किमर्थं पुनर्योगविभाग इष्यते? इत्याह--`एकतराद्धि' इत्यादि। एकशब्दाद्धि सर्वत्र प्रतिषेध इष्यते, स च नेति योगविभागाल्लभ्यते। तस्माद्योगविभाग इष्यते। स च यथान्यासे सिध्यति; नान्यथेति `नेतराच्छन्दसि' इत्युच्यते।।
27. युष्मदस्मद्रभ्यां ङ्सोऽश्। (7.1.27)
यदि `शेषे लोपः' (7.2.90) इत्यन्तलोपः, तदास्य भावे प्राप्त इदं वचनम्। अथ टिलोपः, तदा विभक्तेः श्रवणप्राप्त आदेशार्थं वचनम्। `तद स्वम्, मम स्वम्' इति। `तदममौ ङसि' (7.2.96) इति मपर्यन्तयोर्युष्मदस्मदोस्तवममादेशौ भवतः। `शेषे लोपः' (7.2.90) इति दकरलोपे कृते `अतो गुणे' (6.1.97) पररूपत्वम्। `शित्करणं सर्वादेशार्थम्' इति। असति शित्करणे `आदेः परस्य' (1.1.54) इत्याकारस्यादेशोऽकारः स्यात्। ननु चाकारस्याकारवचने प्रयोजनं नास्तीत्यन्तरेणापि शित्करणं सर्वादेशो भविष्यति, अन्तस्य वा। तत्र द्वयोरकारयोरतो गुणे पररूपत्वेनेष्टं सिध्यति? अत आह--`अन्यथा हि' इत्यादि। अन्यथा यदि शित्करणं न स्यात् तदाऽऽदेश इति योऽयं व्यपदेशस्तस्य या प्रक्लृप्तिः=निष्पत्तिस्तदर्थमादेरेव स्यात्; `आदेः परस्य' (1.1.54) इति वचनात्। स्यादेतत्--यद्यादेशव्यपदेशप्रक्लृप्तितः कश्चिदर्थः सम्पद्यते तदा स्यात् तदर्थमादेरेव वचनम्, न च ततः कश्चिदर्थः सम्पद्यते तस्मादयुक्तमेवेति? इत्यत आह--`ततश्च' इत्यादि। चशब्दो हेतौ। लिङ् सम्भावनायाम्। तत आदेशव्यपदेशप्रक्लृप्तेः `योऽचि' (7.2.82) इति कार्यं न स्यात्। एतद्धि यत्र विभक्तावादेशो नास्ति तत्र विधीयते; `अनादेशे' (7.2.86) इत्यधिकारात्। तस्मात् प्रयोजनवत्यादेशवयपदेशप्रक्लृप्तिरिति तदर्थमादेरेव स्यात्, ततश्चेटं रूपं न सिध्येत्। तस्मात् सर्वादिशार्थः शकारः कर्त्तव्यः।।
28. ङे प्रथमयोरम्। (7.1.28)
`ङे इत्यविभक्तिकोऽयं निर्देशः' (इति)। `सुपां सुलुक्' (7.1.39) इति षष्ठ्या लुप्तत्वात्। प्रथमयोरिति षष्ठीद्विवचनान्तम्--प्रथमा च प्रथमा च ते प्रथमे, तयोः प्रथमयोः। षष्ठीनिर्देशस्योभयत्र तुल्यत्वात् प्रथमयोः प्रत्यययोः स्वौकारयोर्ग्रहणमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह--`विभक्त्योः' इति। एतदेव स्पष्टीकर्तुमाह--`प्रथमाद्वितीययोः' इति। कथं पुनर्द्वितीया प्रथमाशब्देनोच्यते? उपदेशे प्रथमासामीप्यात्। भवति हि सामीप्यात् ताच्छब्द्यम्, यथा--गङ्गायां घोष इति। अथ विभक्त्योरिदं ग्रहणं न प्रत्ययोः--इति कुतोऽयं निश्चयः? लिङ्गात्। तत्पुनर्लिङ्गं `द्वितायायाञ्च' (7.2.87) इत्यत्त्वविधानम्। तद्ध्यादेशार्थमुच्यते; अनादेशे हि `युष्मदस्मदोरनादेशे' नान्यथा। ननु च `योऽचि' (7.2.89) इति यत्वबाधनार्थम् `द्वितीयायाञ्च' (7.2.87) इत्याद्वचनं स्यात्? नैतदस्ति; तदर्थे द्विवचने यकारमेव विशेषणं विदध्यात्--`योऽच्यद्वितीयायाम्' इति, `योऽच्यनचि' इति वा द्रूयात। अतो द्वितीयायामात्त्वविधानं ज्ञापकमेवैतद्विभक्तिग्रहणस्य। `तभ्यम्, मह्यम्' इति। मपर्यन्तयोर्युष्मदस्मदोस्तभ्यमह्यावादेशौ। `शेषे लोपः' (7.2.90), `अमि पूर्वः' (6.1.107)।
`त्वम्, अहम्' इति। `त्वाहौ सौ' (7.2.94)। `युवाम्, आवाम् इति। `युववौ द्विवचने' (7.2.92) इति युवावौ, `प्रथायश्च' (7.2.88) इत्यादिनाऽत्त्वम्। `यूयम्, वयम्' इति। `यूयवयौ जसि' (7.2.93)। `त्वाम्, माम्' इति। त्वमावेकवचने' (7.2.97), `द्वितीयायाञ्च' (7.2.87) इत्यात्त्वम्। अथ किमर्थममादेश उच्यते, न मकार एवोच्यते? स चैकाल्त्वादादेर्भविष्यति, तत्र परस्य संयोगान्तलोपेन सिद्धम्, `शेषे लोपः' (7.2.90) इति टिलोपान्न सिध्यतीति चेत्? नैष दोषः; सेषे लोपो यद्यपि टिलोपः स्यात्, तथापि `त्वाहौ सौ' (7.2.94) इत्येवमादीनामकारान्तत्वात् सिद्ध्यत्येव; ते चावश्यकमकारान्ता विधेयाः, अन्तोदात्तत्वं यथा स्यात्। न च मकारादेशे `सुचि च' (7.3.102) इति दीर्घत्वं प्राप्नोति; `अङ्गवृत्ते पुनरङ्गवृत्ताविधिर्निष्ठितस्य' (व्या.प.38) इति वचनात्। एवं तर्हि वैचित्र्यार्थममादेशविधानम्। अथ वा--मकार एवादेशः, अकारस्तूच्चारणार्थः; न ह्यन्यथास्मिन्निर्देश आदावन्ते वाऽकारमकृत्वा मकार उचचारयितुं शक्यते। `ङेत्सुटोः' इति। वक्तव्ये `ङे प्रथमयोः' इति वचनं वैचित्र्यार्थम्।।
29. शसो न। (7.1.29)
पूर्वेणामादेशे प्राप्ते शसो न विधीयते। `युष्मान् ब्राह्मणान्। अस्मान् ब्राह्मणान्' इति। `आदेः परस्य' (1.1.54) इत्यकारस्य नकारः, संयोगान्तलोपः, पूरववदात्त्वम्। ननु चैतदुदाहरणद्वयममादेशे कृत आत्त्वे च `प्रथमयोः पूर्वसवर्णः' (6.1.102) इति दीर्घत्वे च `तस्माच्छसो नः पुंसि' (6.1.103) इति नत्वेमैव सिध्यति? नैतदस्ति; न ह्यत्र पूर्वसवरणदीर्घत्वं प्राप्नोति, अमिपूर्वत्वेन बाधितत्वात्।।
30. भ्यसो भ्यम्। (7.1.30)
`युष्मभ्यम्, अस्मभ्यम्' इति। `शेषे लोपः' (7.2.90) इत्यन्तलोपः।
यदि भ्यमादेशोऽयम्, एवं सति तत्र विहिते शेषेलोपे च `बहुवचने झल्येत्' (7.3.103) इत्येत्त्वं प्राप्नोति, ततश्चानिष्टरूपमापद्येत? इत्यत आह--`भ्यमादेशे कृते' इत्यादि। वर्त्तनं वृत्तम्, अङ्गे वृत्तं यस्य तदङ्गवृत्तं कार्यम्, तस्मिन्नङ्गवृत्ते कार्ये पुनरत्तरकालमङ्गवृत्तावपरस्य कार्यस्य प्राप्तौ तस्य कार्यस्यादिधिः;=अविधानम्। निष्ठितस्येत्यनेन यत्समम्बन्धिनः कार्यस्याविधिर्भवति तदङ्गं विशिष्यते। निष्ठितम्=परिसमाप्तम्, प्रयोगार्हमङ्गम्। तत्सम्बन्धिनः कार्यस्याविधिर्भवति, नान्यसम्बन्धिन इत्यर्थः।
`केचित्' इत्यादि। तेषामन्त्यलोपे कृते `अतो गुणे' (6.1.97) पररूपत्वं भवति। `येषां तु' इत्यादि। यैः `शेषे लोपः' (7.2.90) इत्यन्तलोपः क्रियते, तेषां मतभेदः--ते हि केचिद्भ्यमादेशमिच्छन्ति, केचिदभ्यमादेशम्। येषां तु शेषेलोपष्टिलोपः तेषां मतेनायमभ्यमादेश एव, न भ्यमादेशः; अन्यथा युष्मब्यमिति न सिध्येवितयभिप्रायः। यदि तर्हि शेषेलोपष्टिलोपः, एवं सति `अनुदात्तस्य यत्रोदात्तलोपः' (6.1.101) इत्यनेनाभ्यम्शब्दस्यान्तोदात्तत्वं स्यात्? इत्यत आह--`उदात्तनिवृत्तिस्वरश्च' इत्यादि। पूर्वपक्षवादिनोदात्तनिवृत्तिस्वरविधौ `कर्षात्वतो घञोऽन्त उदात्तः' (6.1.159) इत्यतोऽन्तग्रहणमनुवर्त्तत इति मन्यमानेन चोदितन्। उत्तरपक्षवादिना तु `अन्तग्रहणं तत्र निवृत्तमुच्चारणक्रमप्रतयासत्त्या चादेरेवोदात्तत्वेन भवितुं युक्तम्' इति। मन्यमानेन परिहृतम्।।
31. पञ्चम्या अत्। (7.1.31)
पूर्वेण प्राप्तस्य भ्यमोऽयमपवादः।।
32. एकवचनस्य च। (7.1.32)
चकारोदादेशानुकर्षणार्थः, भ्यसपेक्षया समुच्चयार्थो वा। `ङसेश्च' इति। वक्तव्ये, एकवचनक्तेति वचनं वैचित्र्यार्थम्।।
33. साम आकम्। (7.1.33)
`सम इति षष्ठीबहुवचनमागतसुट्कं परिगृह्यते' इति। युष्मदस्मद्भ्यामुत्तरस्यान्यस्य सामशब्दस्यासम्भवात्। आगतः सम्प्राप्तः सुट् यत्र येन वा तत्तथोक्तम्।
`अथ' इत्यादौ वाक्य `आगतसुट्कः' इत्याम्प्रत्ययापेक्षया पुंल्लिङ्गत्वं वेदितव्यम्! `अथ किमर्थमागतसुट्कः परिगृह्यते' इति पृष्टस्य ससुट्कस्यादेशो यथा स्यादिति प्रतिवचनमाशह्क्याह--`न हि' इत्यादि। `आमि सर्वनाम्नः सुट्' (7.1.52) इत्यत्र `आज्जसेरसुक्' (7.1.50) इत्यत आदिति वर्त्तते, तेनाकारान्तात् सर्वनाम्नः सुङ् विधीयते। अकारान्तता च युष्मदस्मदोः `शेषे लोपः' (7.2.90) इत्यन्तलोपे सति भवति। शेषेलोपेनाप्याकमादेशे कृते भवितव्यम्। तस्मादादेशविधानकाले सुण्न विद्यते। ततश्च ससुट्कस्यादेशो यथा स्यादित्येतत्प्रयोजनं नोपपद्यत इत्यन्यद्वक्तवयमित्यभिप्रायेणाह--`तस्यैव' इत्यादि। यद्यसुट्को गृह्यते `निर्दिश्यमानस्यादेशा भवन्ति' (व्या.प.106) इत्यसुट्कस्यैवादेशः स्यात्। एवञ्चाभिनिवृत्ते स्थान्यादेशभावे पश्चाद्भवतः सुटः केन निवृत्तिः स्यात्? इष्यते च तस्यापि निवृत्तिः। अतस्तस्य भाविनोऽपि निवृत्तिर्यथा स्यादित्येवमर्थं समुट्को गृह्यते। ननु च युष्मदस्मद्भ्यामुत्तरस्यामः सुडेव न प्राप्नोति, अकाराद्धि सर्वनाम्नः सुङ् विधीयते, युष्मदस्मादोश्च त्यदाद्यत्वं नास्ति, `द्विपर्यन्तास्त्यदादयः' इति त्यदाद्यत्वस्याभावाच्छेषेलोपस्य च टिलोपादकारान्तता न सम्भवति; अतो भाविनोऽपि सुटो निवृत्तिर्नैव प्रयोजनमुपपद्यते? एतच्चोद्यमपाकर्त्तुम् "`शेषे लोपः' इत्यन्तलोपः" इति हृदि कृत्वाऽऽह--`कृते हि' इत्यादि। अथ क्रियमाणे समुट्कस्य ग्रहणे कथमसौ निवर्त्तते, शास्त्रान्तराद्धि प्रसक्तस्य शास्त्रेण निवृत्तिः क्रियते, न चादेशविधानकले सुट्प्रसङ्गोऽस्ति? इत्याह--`स च स्थान्यन्तर्भूतत्वात्' इत्यादि। यद्यादेशविधानकाले सुटः प्रसङ्गः सम्भवेत् ततो भावी न निवर्त्तते, न चासावादेशकाले सम्भवति। तस्माद्भाविनः सुटः ससुट्कग्रहणेन स्थान्यन्तर्भूतत्वाद्यस्यामवस्थायां तस्य प्राप्तिस्तस्यां प्रसक्तः स निवर्त्तते; मन्यथा हि तस्य स्थान्यन्तर्भावोऽनर्थकः स्यात्। स्यादेतत्--यदि `शेषे लोपः' (7.2.90) इत्यन्तलोपस्ततः समुटकस्योपादानमर्थवद्भवति, यदा तु सेषेलोपष्टिलोपस्तदा नार्थः कस्मान्नाश्रीयते, तस्यानुपपत्तेः। अनुपपत्तिस्तु लक्षणाभावात्। अन्त्यलोपस्यास्यैतदेवास्ति लक्षणमिति स एवाश्रितः। यद्येवम्, युष्मद्ब्राह्मणीभ्योगच्छतीत्यन्त्यलोपे सति `अजाद्यतष्टाप्' (4.1.4) इति टाप्प्रसज्येत? `अलिङ्गे युष्मदस्मदी' इति नैषोऽस्तप्रसङ्गः।
`दीर्घोच्चारणम्' इत्यादि। ननु चाकम्यपि अकः सवर्णदीर्घत्वे (6.1.101) न सिध्यत्येव? न; सिध्यति। `अतो गणे' (6.1.97) इति पररूपत्वमपवादः प्राप्नोतीति चेत्? न; अकारोच्चारणसामर्थ्यात्। यदि अतो गुणे' (6.1.97) पररूपत्वं स्यात् तदाकारोच्चारणमनर्थकं स्यात्, कमित्येव ब्रयादित्यत आह--`अकमि तु' इत्यादि। तुशब्दो दीर्घोच्चारणापेक्षया समुच्चयार्थः। इतिकरणो हेतौ।
यदि ह्यकारोच्चारणस्य प्रयोजनं न स्यात्, शक्यते वक्तुम्--अकारोचचारणसामर्थ्यान्न भविष्यतीति; अस्ति च तसय प्रयोजनम्, किं तत्? `ब्रहुवचने झल्येत्' (7.3.103) इत्येत्त्वं मा भूत्। तस्मात् सत्यप्यकारोच्चारण एतत्त्वनिवृत्त्यर्थे `अतो गुणे' (6.1.97) पररूपत्वं स्यात्, न सवर्णदीर्घत्वम्। अतस्तदर्थं दीर्घोच्चारणं क्रियते।।
34. आत औ णलः। (7.1.34)
`तस्यौ' इति। `शर्पूर्वाः खयः' (7.4.61) इति खयः शेषः। `जग्लौ' इति। `कहोश्चुः' (7.4.62) इति चुत्वम्।
इह `पा' इत्यादिभ्यो णलि परत्रवस्थिते युगपत् त्रीणि कार्याणि प्राप्नुवन्ति--द्विवचनम्, एकादेशः, औत्वञ्च। तेषाञ्च तथा प्राप्तानां युगपत्प्रवृत्तिः सम्भवतीति सामर्थ्यात् प्राप्तः क्रम आश्रीयते। तत्र येन क्रमेण तानि कर्त्तव्यानि, तं दर्शयितुमाह--`अत्र' इत्यादि। अत्रेत्यनेन पपवित्यादीन्युदहरणानि प्रत्ययमुश्यन्ते। यदि द्विर्वचनादेकादेशः पूर्वं क्रियते तदा `वृद्धिरेचि' (6.1.88) इति वृद्धावेकादेशे कृते निमित्तनिमित्तिनोविंशेषाभावाल्लिटि परतः पूर्वस्योचयमानं द्विवचनं न प्राप्नोतीति तस्य निरासायेदमुक्तम्--स्थानिवद्भावो द्विर्वचनमिति। केन पुनरत्र स्थानिवद्भावः? `द्विर्वचनेऽचि' (1.1.59) इत्यनेन? नैवम्; द्विर्वचननिमित्तेऽपि परतः पूर्वस्योच्यमानं द्विवचनं न प्राप्नोतीति तस्य निरासायेदमुक्तम्--स्थानिवद्भावो द्विर्वचनमिति। केन पुनरतर स्थानिवद्भावः? `द्विर्वचनेऽचि' (1.1.59) इत्यनेन? नैवम्; द्विर्वचननिमित्तेऽचि परतः पूर्वसय स्थानिवद्भाव उच्यते, न चात्र द्विर्वचननिमित्तं परमचं पश्यामः।
अत्र क्चिदाहुः--अचीत्युपलक्षणम्, अचि य आदेशो दृष्टः स द्विर्वचने कर्त्तव्ये स्थानिवद्भवतीतीमं सूत्रार्थमाश्रित्यैतदुक्तम्। इह सम्प्रत्यनच्परत्वेऽप्येकादेशकरणकालेऽचः परस्य निमित्तभावेनश्रयणादच्ययमादेशः कृतः। तस्माद्भवितव्यं स्थानिवद्भावेन।
अन्ये त्वाहु--`एकादेशः पूर्वविधौ स्थानिवद्भवतीति वक्तव्यम्' इत्यनयेष्ट्या स्थानिवद्भावः।
`द्विर्वचनेऽचि' (1.1.59) इति योगाविभागाद्वा स्थानिवद्भावः इत्यपरे।
कथं पुनरयमेषां कार्याणां क्रम उपलभ्यते? इत्यत आह--`एकादेशात्' इत्यादि। पा+अ इति स्थितेऽकः सवर्णे दीर्घत्वं (6.1.101) प्राप्नोति, औत्वञ्च। तत्रैकादेशः--दण्डाग्रमित्यादौ सावकाशः, औत्वं तु न क्वचित् सावकाशम्; अतस्तावदनवकाशत्वात् प्रागौत्वं क्रियते, ततर कृते वृद्धिः प्रापनोति, द्ववचनञ्च, तत्र परत्वाद्वृद्धिर्भवति। द्विवचनं हि--पपाचेत्यादौ सावकाशम्, वृद्धेस्त्ववकाशः--खट्वैडकेत्यादौ। अतो वृद्धौ कृतायां पश्चाद्भवति द्विर्वचनं स्थानिवद्भावेन!
`णलः' इति। णकारोच्चारणं प्रत्ययग्रहणं यथा स्यात्। णलो णकारोच्चारणे हि णल्प्रत्ययोऽस्तीति तस्य ग्रहणं भवति। तस्मिंश्चासत्यल इत्युच्यमाने सत्यल्प्रत्ययस्याभावात् प्रत्याहारग्रहणं विज्ञायेत।
लकारोच्चारणं `श्याद्व्यध' (3.1.141) इत्यादिना विहितस्य णप्रत्ययस्य ग्रहणं मा भूदित्येवमर्थम्। अथ `एकवचनस्य' (7.1.32) इत्यनुवर्त्तते? तथा सति मुखसुखार्थम्।।
35. तुह्योस्तातङाशिष्यन्यतरस्याम्। (7.1.35)
`जोवताद्भवान्' इति। `आशिषि लिङ्लोटौ' (3.3.173) इति लोट् तिप्, शप् `एरुः' (3.4.86) इत्युत्वम्, तस्य तुशब्दस्य तातङ्। जीवतात्त्वम्' इति। सिप्, `सेर्ह्यपिच्च' (3.4.87) इति हिरादेशः; तस्य तातङ्। `जीव त्वम्' इति। `अतो हेः' (6.4.105) इति हेर्लुक्। अथ जीवतात् त्वमित्यत्र स्थानिवद्भावेन तातङो हिग्रहणेन ग्रहणाल्लुक्कस्मान्न भवति? `हुझल्भ्यो हेर्घिः (6.4.101) इत्यतो हेरित्यनुवर्त्तमाने पुनः `अतो हेः' (6.4.105) इति ग्रहणात्। तस्य ह्येतत् प्रयोजनम्--हिरूपावस्थितस्यैव हेर्लुग्यथा स्यात्। स्थानिवद्भावेन यच्छब्दान्तरं हिग्रहणेन गृह्यते तस्य मा भूत्।
अथ `ङिच्च' (1.1.53) इति वचनात् तातङ्यमन्त्यस्य कस्मान्न भवति? इत्याह--`ङित्करणम्' इत्यादि। गणप्रतिषेधार्थम्--ब्रूयात् भवानित्यत्र। वृद्धिप्रतिषेधार्थम्--मृष्टादित्यत्र। इतिकरणो हेतौ। यस्माद्गुणवृद्धिप्रतिषेधार्थं ङित्करणं तस्मात्सर्वादेशस्तातङ् भवति। यदि हि तस्यान्यत् प्रयोजनं न स्यात्, स्यादेवान्त्यस्य तातङ्। अस्ति च तस्यान्यत् प्रयोजनं गुणवृद्धिप्रतषेधः। तस्मिन् सति किं `ङिच्च' (1.1.53) इत्यन्त्यस्य भवतु, अथ `अनेकाल्शित्सर्वस्य' (1.1.55) इति सर्वस्य वा? तत्र परत्वात् सर्वादेशेनैव युक्तं भवितुम्। तस्मात् `अनेकाल्शित्सर्वस्य' (1.1.55) इति सर्वस्य वा? तत्र परत्वात् सर्दादेशेनैव युक्तं भवितुम्। तस्मात् `अनेकाल्शित्सर्वस्य' (1.1.55) इति सर्वस्यैव स्यादिति सर्वादेशो भवति। ननु च तुस्थानिकस्य तातङः स्थानिवदभावेन पित्त्वं प्राप्नोति; ततश्च हलि पिति सार्वधातुके यता ब्रवीत्वित्यत्रेङ् भवति, तथा ब्रूताद्भवानित्यत्राणीटा भवितव्यम्?--एतच्चोद्यमपाकर्त्तमाह--`ङित्त्वाच्च' इत्यादि। अस्येति तातङः। किं कारणं निवर्तते? इत्याह--`ङिच्च' इत्यादि। चकारो हेतौ। तुस्थानिकस्य तातङो नाप्राप्ते पित्त्वे ङित्त्वमारभ्यत इति ङित्त्वेन हि पित्त्वं बाध्यते। तथासौ ङिद्भवत यदि स्थानिवद्भावेन प्राप्तं पित्त्वं निवर्त्तते। `तेन' इत्यादि। यत एवं पित्त्वं निवर्त्तते तेन पित्त्वाश्रय ईण्न भवति। ग्रामं गच्छतु भवान्। त्वं गच्छेति। `लोट् च' (3.3.62) इति बिध्यादौ लोट्।।
36. विदेः शतुर्वसुः। (7.1.36)
यद्यपि विदेरिति सामान्यनिर्देशोऽयम्, तथधापि ज्ञानार्थस्य ग्रहणं विज्ञायते। तस्यैव हि शतानन्तरः सम्भवति, नान्येषां विदीनाम्। तत्र सत्ताविचारणार्थयोः शतुरसम्भव एव; आत्मनेपदित्वम्। लाभार्थस्य तूभययदित्वात् सम्भवत्यसौ, न त्वनन्तरः; शप्रत्ययेन व्यवधानात्। ज्ञानार्थस्य तु लुग्विकरणत्वाच्छतुर्विकरणकृतं व्यवधानं नास्ति, अतस्तस्यैव ग्रहणमित्याह--`विद ज्ञाने' इति। `विद्वान्' इति। उगित्त्वान्नुम्, `सान्तमहतः संयोगस्य' (6.4.10) इति दीर्घः। अन्यतरस्यांग्रहणमनुवर्त्तते। तेन पक्षे विदन्, विदन्तौ, विदन्त इत्याद्यपि भवति। एचच गम्यमानत्वाद्वृत्तौ नोक्तम्।
अथ किमर्थमुकारोऽनुबन्धः क्रियते, नुमाद्युगित्कार्यं यथा स्यादिति चेत्? न; तस्य स्थानिवद्भावेनैव सिद्धत्वादित्यत आह--`स्थानिवद्भावात्' इत्यादि। `क्वसोऽपि' इति। अपिशब्दादस्यापि। असत्युकारे सामान्यार्थे क्वसोरेव ग्रहणं स्यात्, नान्यस्य। अथ `वसोः सम्प्रसारणम्' (6.4.131) इति सूत्रं क्रियत एवास्यैव ग्रहणार्थम्, न क्वसोः; ननु च सत्यप्युकारकरणे सामान्यग्रहणं नोपपद्यते, एकानुबन्धकपरि(व्या.प.52) भा,यास्यैव ग्रहणं स्यात्, न क्वसोः? इत्याह--`एकानुबन्धकग्रहणे' इत्यादि। एतत् परिभाषासूत्रम्। न भवति। नोपतिष्ठत इत्यर्थः। किं कारणं न भवति? इत्याह--`तथा च सति' इत्यादि। एवञ्च सतीत्यर्थः। यदि क्रियमाणेऽप्युकार एकानुबन्धपरिभाषोपतिष्ठते, एवं सत्युकारकरणमनर्थकं स्यात्। विनाऽपि तेन `वसः सम्प्रसारणम्' इत्युच्यमाने केवलस्यास्य ग्रहणं लभ्यत एव। तस्मादुकारकरणसामर्थ्यादियं परिभाषा नोपतिष्ठते।।
37. समासेऽनञ्पूर्वे क्त्वो ल्युप्। (7.1.37)
`अनञ्पूर्वे' इति। न नञ् अनञ् अनञ् पूर्वो यसय सोऽनञ्पूर्वः। `प्रकृत्य' इत्यादि। `समानकर्त्तुकयोः पूर्वकाले' (3.4.21) क्त्वा, `कुगतिप्रादयः' (2.2.18) इति समासः, `ह्रस्वस्य पिति कृति तुक्' (6.1.71) इति तुक्। `पार्श्वतःकृत्य' इति। `स्वाङ्गे तस्प्रत्यये कृभ्वोः (3.4.61) इति क्त्वा, `तृतीयाप्रभृतीन्यन्यतरस्याम्' (2.2.210 इति समासः। `नानाकृत्य' इति। `नाधार्थप्रत्यये च्व्यर्थे' (3.4.62) इति क्त्वा, पूर्ववत्समासः।
`कृत्वा, हृत्वा' इति। एतत् प्रत्युदाहरणम्। अत्र कृत्वाशब्दोऽनञ्पूर्वोऽस्ति; किन्तु समासो न भवतीति ल्यबभावः। `परमकृत्वा, उत्तमकृत्वा' इति। `सन्प्रहत्' (2.1.61) इत्यादिना समासः। कथं पुनरनेन समासः? कथञ्चं न स्यात्? सामानाधिकरण्याभावात्? वार्त्तमेतत्; कर्त्तरि क्त्वा विहितः, स एव च परमोत्तमशब्दाभ्यां विशिष्यते, तत् कथं सामानाधिकरण्याभावः! अथ क्रियाविशेषणत्वं तयोराश्रित्य सामानाधिकरण्यभाव उच्यते, एवमपि `विशेषणं विशेष्येण बहुलम्' (2.1.57) इत्यतो बहुलग्रहणानुवृत्तेरसामानाधिकरण्येऽपि समासो भवति।
ननु चानञ्पूर्वावेतौ समासौ, तत् कथमेतत्प्रत्युदाहरणमुपपद्यते? इत्याह--`अनञ्' इत्यादि। अनञिति नायं प्रसज्येपरतिषेधः, किं तर्हि? पर्युदासः--नञोऽन्यदनञ्। तत्र नञिवयुक्तन्यायेन (व्या.प.65) नञो यदन्यन्नञ्सदृशमव्ययं तदनञिति परिगृह्यते। तेन कारणेन नञव्ययमनव्ययञ्च परमशब्दादिकमुभयमप्येतदनञ् न भवति, न तत्राव्ययेन नञा सादृश्यमस्ति। अत्यन्ताभेदादनव्ययत्वाच्च यथाक्रमम्। तस्माद् यथा अकृत्वा, अहत्वेत्येतत् प्रत्युदाहरणमुपपन्नरूपम्, एवं परमकृत्वा, उत्तमकृत्वेयपि। यदि तर्हि अनञिति नञ्सदृशमध्ययं परिगृह्यते--स्नात्वाकालकः, पीत्वास्थिरक इत्यादावपि स्यात्, अस्ति ह्यत्रापि नञ्सदृशमध्ययं पूर्वपदम्; क्त्वाप्रत्ययस्याव्ययत्वादित्याह--`स्नात्वाकालकः' इत्यादि। मयूरव्यंसकादिषु समाससंज्ञार्थमेते समुदायाः पठ्यन्ते, तस्मान्निपातनाल्ल्यबादेशो न भवति।
`अथ वा' इत्यादि। `समासे' इत्यधिकरणसप्तम्यां सत्यां स्नात्वाकालकादिषु ल्यबादेशप्रसङ्गो भवतीति। तथा ह्यधिकरणसप्तम्यामयमर्थो भवति--समासेऽनञ्पूर्वे यः क्त्वा वर्त्तते तस्य ल्यब्भवति। एवञ्च सति देशविशेषपरिग्रहाभावाद्यथा समासस्यान्ते वर्त्तमानस्य क्त्वो ल्यब्भवति, तथा मध्येऽपि स्यात्। तस्मान्न चेयमधिकरणसप्तमी, किं तर्हि? निर्घारणसप्तमी। तस्मिंश्च पक्षे `समासे' इति जातावेकवचनम्, यथा--`कारके' (1.4.23) इति। अथ वा `व्यत्ययो बहुलम्' (3.1.85) इति सुब्व्यत्ययेन बहुवचनस्य स्थान एकवचनं वेदितव्यम्। `तेन' इत्यादि। यतो निर्धारण इयं सप्तमी, तेन क्त्वान्तः समास एव गृह्यते, न समासावयवः--स्नात्वेति। निर्घारणं हि समानजातीयस्यैव भवति, यथा--कृष्णा गवां सम्पन्नक्षीरतमेत्युक्ते गौरेव निर्धार्यमाणा प्रतीयते, तथाऽत्रापि `समासोऽनञ्पूर्वे' इत्युक्ते समासेष्वनञ्पूर्वेषु मद्ये यः क्त्वान्तः समासः स एव निर्धायमाणः प्रतीयते। तेन समासस्यैव क्त्वान्तस्य ग्रहणमिति तस्यैव ल्यबादेशेन भवितव्यम्, न च स्नात्वाकालकादिषु क्त्वान्तः समासः। स्नात्वाकालकादयो यद्यपि समासाः, न तु क्त्वान्ता इति ल्यबादेशो न भवति। स च समासः `येन विधिसतदन्तस्य' (1.1.72) इति तदन्तविधिना क्त्वान्तो गृह्यते। कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणेन (व्या.प.126) वा प्रत्ययग्रहणपरिभाषया (भो.प.सू.7) तदन्तग्रहणं न शक्यते वक्तुम्। न हि क्त्वाप्रत्ययः समासादुत्पद्यते। तत्र यदि कृद्ग्रहणपरिभाषया (व्या.प.126) तदन्तो गृह्यते, नानाकृत्येत्यत्र न स्यात्; न ह्ययं गतिकारकपूर्वः। इहैव तु स्यात्--प्रकृत्य, पार्श्वतःकृत्येति। असिति ह्यत्रापि गतिः कारकश्च पूर्वोऽवयवः, `येन विधिस्तदन्तस्य' (1.1.72) इत्यनेन तदन्तविधौ गम्यमाने सर्वत्र भवतीति मन्यमान आह--`स च' इत्यादि। अत्रैवोपपत्तिमाह--`तथा च' इत्यादि। यस्मात् `येन विधिस्तदन्तस्य' (1.1.72) इत्यनेन क्त्वान्तः समासो गृह्यते, एवञ्च कृत्वा `अनञ्पूर्वे' इत्युच्यते। `येन विधिस्तदन्तस्य' (1.1.72) इत्यनेन क्त्वान्तः समासो गृह्यते, एवञ्च कृत्वा `अनञ्पूर्वे, इत्युच्यते। `येन विधिस्तदन्तस्य' (1.1.72) इत्यनेन हि सामान्येन तदन्तविधौ सति नञ्पूर्वस्यापि प्रसज्येत। तस्मात् तन्निवृत्त्यर्थम् `अनञ्पूर्वे' इति युक्तमुक्तम्। यदि कृद्ग्रहणपरिभा,या (व्या.प.126) क्त्वान्तः समासो गृह्यते, तदा गतिकारकपूर्वस्यैव ग्रहणं स्यात्। एवञ्च गतिकारकपूर्वस्य ग्रहणे सति नञ्पूर्वस्य प्रसङ्ग एव नास्ति। `नञ् न गतिर्न च कारकम्' इति। अतो हेतोर्यथैव परमकृत्वेत्यत्र प्रसङ्गो नास्ति, परमशब्दस्यागतित्वादकारकत्वाच्च्; तथाऽकृत्वेत्यत्रापि, नञोऽगतित्वादकारकत्वाच्च। ततश्च प्रसङ्गाभावात् `अनञ्पूर्वे' इति न वक्तव्यं स्यात्, उक्तञ्च। तदेतस्मादनञ्पूर्व इति वचनात् `येन विधिस्तदन्तस्य (1.1.72) इत्यनेन क्त्वान्तः समासो गृह्यते, न तु कृद्गहणपरिभाषयेति स्थितमेतत्।
`प्रधाय' इति। अत्रान्तरङ्गत्वात् `दघातेर्हिः' (7.4.42) इति हिः प्राप्नोति। `प्रस्थाय' इति--अत्रापि `द्यतिस्यतिमास्थामित्ति किति' (7.4.40) इतीत्त्वम्। `प्रखन्य' इति। `जनसनखनाम्' (6.4.42) इत्यात्त्वम्। `प्रणभ्य' इति। `अनुनासिकस्य क्विझलोः क्ङिति' (6.4.15) इति दीर्घः। `आपृच्छ्य' इति `च्छ्वोः शूडनुनासिके च' (6.4.19) इति शत्वम्। `प्रतिदीव्य' इति। तेनैवोट्। `प्रपठ्य' इति। `आर्थधातुकस्येङ् वलादेः' (7.2.35) इतीट्। अन्तरङ्गत्वं पनरेषामेकपदाश्रयत्वात्। ल्यबादेशस्य तु बहिरह्गत्वम्, समर्थानेकपदाश्रयसमासापेक्षत्वात्। हिप्रभृतिषु कृतेषु प्रधायेत्यादीनि रूपाणि न सिध्यन्ति? इति यश्चोदयेत्, तं प्रत्याह--`प्रधाय' इत्यादि। `ज्ञापितमेतत्' इति। `अदो जग्घिर्ल्यप्ति किति' (2.4.36) इत्यत्र।
अथ पूर्वग्रहणं किमर्थम्। नानञोत्येवमुच्येत? नैवं शक्यम्; अनञोत्युच्यमाने बहुव्रीहिरयं स्यात्--अविद्यमानो नञ् यत्रासावनञिति। ततश्चेहापि न स्यात्--स्त्रैणीकृत्येति। स्त्रिया इदं स्त्रैणम्, `स्त्रीपुंसाभ्यां,नञ्स्नञौ भवनात्' (4.1.87) इति नञ्। तदन्तात् `अभूततद्भावे' (5.4.50) इत्यादिना च्विः, `अस्य च्वौ' (7.4.32) इतीत्त्वम्। `कुगतिप्रादयः' (2.2.18) इति समासः। पूर्वग्रहणे तु सति पूर्वशब्द आदिभूतावयवमाचष्टे। तेन यत्र समासादिभूतो नञ् तत्र न ल्यपा भवितव्यम्, तत्र स्त्रैणीकृत्येत्यत्र भवत्येव। न ह्यत्र समासादिभूतो नञवयवः, किं त्रिह? मध्यभूतः।
लित्करणम्--प्रतिकीर्ष्येत्यत्र लित्प्रत्ययात् पूर्वस्योदात्तत्वं यथा स्यात्। प्रकृत्येत्येवमादावृदात्तार्थं लित्करणं नोपपद्यते, धातुस्वरेणैव पूर्वस्योदात्तत्वं सिध्यति। तस्मादनेकाझवयव एव धार्लित्त्वं प्रयोजयति।।
38. क्त्वापि छन्दसि। (7.1.38)
`परिधापयित्वा, प्रत्यर्ययित्वा' इति। दधातेः, अर्त्तेश्च हेतुमण्णिच्, `अर्त्तिह्री' (7.3.36) इत्यादिना पुक् `पुगन्तलघूपपधस्य' (7.3.86) इति गुणः, क्त्वा, इट् अयादेशः। `उद्धृत्य' इति। `हृञ् हरणे' (धा.पा.899), `झयो होऽन्यतरस्याम्' (8.4.62) इति हकारस्य धकारः।
`वा छन्दसि' इति। वक्तव्ये `क्त्वापि छन्दसि' इति। वचनमसमासेऽपि यथा स्यात्--अर्च्य तान् देवान् गत इति।।
39. सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः। (7.1.39)
`पन्थाः' इति। पथिन्नित्येतस्माज्जस्, तस्य सुः, `पथिमथ्यृभुक्षामात्' (7.1.85) इत्यात्त्वम्, `इतोऽत्सर्वनामस्थाने' (7.1.86) इतीकारस्यात्त्वम्, `थो न्थः' (7.1.87) इति न्थादेशः।
`सुपाम्' इत्यादिना सुपां स्थाने सुप आदेशा भवन्तीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--पूर्वसूत्रादपिशब्दोऽनुवर्त्तते, स चानुक्तसमुच्चयार्थः, तेन सुपामन्येऽपि सुपो भवन्ति। `धुरि दक्षिणायाः' इति। सप्तम्येकवचनस्य स्थान पञ्चम्येकवचनम्, षष्ठ्येकवचनं वा।
`तिङाम्' इत्यादि। तिङाञ्च तिङो भवन्तीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्वपदेव वक्तव्यम्।
`आर्द्रे चर्मन्' इति। सप्तम्येकवचनस्य चर्मन्शब्दाल्लुक्।
`यत्' इति। अत्रापि यच्छब्दात्, तच्छब्दाच्च।
`धीती' इत्यादि। `धीति-मति-सुष्टुतिशब्देभ्यः परसय तृतीयैकवचनस्य पूर्वसवर्ण इकारः, उभयोरकः सवर्णे (6.1.101) दीर्घत्वम्।
`उभा' इति। उभशब्दात्प्रथमाद्विवचनस्याकारः। `प्रथमयोः पूर्वसवर्णः' (6.1.102) इत्येकादेशः।
`न ताद् ब्राह्मणाद् निन्दामि' इति। तच्छब्दाद् ब्राह्मणशब्दाच्च द्वितीयैकवचनस्यात्। निशब्दे परतः `यरोऽनुनासिकेऽनुनासिको वा' (8.4.45) इति तकारस्य नकारादेशः।
`युष्मे, अस्मे' इति। युष्मदस्मच्छब्दाभ्यां परस्य च जसः `शे' (1.1.13) इत्ययमादेशः। शकारः सर्वादेशार्थः। अथेह `यूयषयौ जसि' (7.2.93) इति यूयवयादेशौ कस्मान्न भवतः? इत्याह-`यूयादेशः' इत्यादि।
`उरुया, धृष्णुया' इति। उरुधृष्णुशब्दाभ्यां परस्य तृतीयैकवचनस्य यादेशः।
`नाभा' इति। नाभिशब्दात् सप्तम्ये कवचन्सय डादेशः डकारष्टिलोपार्थः।
`अनुष्ट्या' इति। अनुष्टुप्शब्दात् तृतीयैकवचनस्य ड्यादेशः।
`साधुया' इति। साधुशब्दात् परस्य प्रथमैकवचनस्य याजादेशः। चकारोऽन्तोदात्तार्थः। `सोर्लुकि प्राप्ते इति। याजित्ययमादेशो विधीयत इति शेषः। लुक्प्राप्तिस्तु `स्वमोर्नपुंसकात्' (7.1.23) इत्यनेन।
`वसन्ता' इति। वकन्तशब्दात् परस्य सप्तम्येकवचनस्यालित्ययमादेशः। लित्करणं लित्प्रत्ययात् पूर्वस्योदात्तत्वं यथा स्यात्।
`उपसंख्यानम्' इति। प्रतिपादनमस्यार्थः। उत्तरत्राप्युपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनं त्वपिशब्दमाश्रित्य कर्त्तव्यम्। उर्विया, दार्विया' इति। उरुदारुशब्दाभ्यां परस्य तृतीयैकवचनस्येयादेशः। `सुक्षेत्रिया' इति। सुक्षेत्रिन्नित्यादेर्मत्वर्थीयेनिप्रत्ययान्तात् परस्य तृतीयैकवचनस्य ङियाजादेशः। डकारष्टिलोपार्थः। चकारोऽन्तोदात्तार्थः। `सरसी' इति। सरःशब्दात् सप्तम्येकवचनस्य ईकारः। `प्रबाहवा' इति। प्रबाहुशब्दात् तृतीयैकवचनस्याङादेशः, `घेङिति' (7.3.111) इति गुणः, अवादेशः। ननु च
`ङित्त्वे विद्याद्वर्णनिर्देशमात्रं वर्णे यत्स्यात्तच्च विद्यात्तदादौ।।' (म.भा.3.247)
इत्युक्तम्, न चेहादौ ङकारः, तत् कथं गुणः? ङित्करणसामर्थ्याद्भविष्यतीत्यदोषः। `स्वप्नया' इति। स्वप्नशब्दात् परस्य तृतीयैकवचनस्यायाच्, `अतो गुणे' (6.1.97) पररूपत्वम्। चकारः स्वरार्थः। `नावया' इति। मौशब्दात् परस्य तृतीयैकवचनस्यायारादेशः। रेफः `उपोत्तमं रिति' (6.1.217) इत्युपोत्तमाकारस्योदात्तत्वार्थः।।
40. अमो मश्। (7.1.40)
`अमिति मिबादेशो गृह्यते' इति द्वितीयैकवचनाशङ्कां निराकारोति। द्वितीयैकवचनस्याग्रहणम्; छन्दसि यथादृष्टानुविधानात्। अपिशब्दानुवृत्तेर्वा, तदनुवृत्तौ ह्येषं सम्बन्धः क्रियते--अमो मश्च भवति, अपिशब्दात् क्वचिच्छ्रवणमपीति। `वधीम्' इति। हन्तेर्लुङ, `चलेः सिच्' (3.1.44) सिप्, तस्य `तस्थस्थ' (3.4.101) इत्यादिनाऽम्, तस्य मशादेशः--अकार उच्चारणार्थः, `लुङि च' (2.4.43) इति हन्तेर्वधादेशा, `आर्धधातुकस्य' (7.2.35) इत्यादिनेट् `अस्तिसिचोऽपृक्ते' (7.3.96) इतीट् `इट ईटि (8.2.28) इति सिचो लोपः, सवर्णदीर्घतद्वलम्। `क्रमीम्' इति। `क्रमु पादविक्षेपे' (धा.पा.473) सर्वं पूर्ववत्। अयमत्र विशेषः--`स्नुक्रमोरनात्मनेपदनिमित्ते' (7.2.36) इतीट्। अवधिवम्, अक्रमिषमिति प्राप्ते।
`शित्ककरणं सर्वादेशार्थम्' इति। असति तस्मिन् `अलोऽन्त्यस्य' (1.1.52) स्यादिति भावः। ननु च मकारस्य मकारवचने प्रयोजनं नास्तीत्यन्तरेणापि शकारं सर्वादेशो भविष्यति? इत्याह--`मकारस्य' इत्यादि। अस्ति हि मकारविधाने प्रयोजनम्। किं तत्? `मोऽनुस्वारः' (8.3.23) प्राप्नोति; स मा भूदिति। सत्येतस्मिन् प्रयोजने यदि शकारो न क्रियेत, तदाऽन्त्यस्यैव स्यात्, न स्यात्, न सर्वस्य। तस्मात् सर्वादेशार्थः शकारः कर्त्तव्यः।।
41. लोपस्त आत्मनेपदेषु। (7.1.41)
`अदुह्र' इति। दुहेर्लङ, अदादित्वाच्छपो लुक्, `आत्मनेपदेष्वनतः' (7.1.5) इत्यादेशः, `बहुलं छन्दसि' (7.1.8) इति रुट्, तकारलोपे कृते द्वयोरकारयोः `अतो गुणे' (6.1.97) परूपत्वम्। दुह्राम्' इति। लोट्, बहुवचनं झः, टेरेत्वम्, आमादेशः, झादेशस्याते रुडागमः, पूर्वच्छपो लुक्, तकारलोपे कृते `अकः सवर्णे दीर्घः, (6.1.10)। `शये' इति। लट्, एकवचनान्तः, `शीङः सार्वधातुके गुणः' (7.4.21), शपो लुक्। `दुहाम्' इति। लोट् एकवचनान्तः, टेरेत्त्वम्, `आमेतः' (3.4.90) इत्याम्। `दुग्धाम्' इति। `दादेर्धातोर्धः (8.2.32), `झषस्तथोर्धोऽधः' (8.2.40) इति धत्वम्, `झलां जश् शशि' (8.4.56) इति धकारस्या गकारः।
`अपीत्यधिकरात्' इत्यादि। `क्त्वादि छन्दसि' (7.1.38) इत्यतोऽपीत्यनुवर्त्तते, तत्रैवमभिसम्बन्धः क्रियते--लोपो भवति श्रवणमपीति; तेन कुरुत इत्यत्र न भवति। करोतेर्गुणे कृते `अत उत्सार्वधातुके' (6.4.110) इत्युत्त्वम्। यदि अपिशब्दानुवृत्तेः क्वचिच्छ्रवणमिप भवति, अत एव हेतोः परस्मैपदेषु न भवतीति किमात्मनेपदग्रहणेन? एवं तर्हि विस्पष्टार्थमात्मनेपदग्रहणम्।।
42. ध्वमो ध्वात्। (7.1.42)
`वारयध्वात्' इति। वृञो वृङो वा हेतुमण्णिजन्तात् `वृञ् आवरणे' (धा.पा.1813) इत्यस्माद्वा चुरादिणअयन्ताल्लोट्, तस्य ध्वम्, तस्य ध्वात्। `वारयध्वम्' इति। टेरेत्त्वे कृते `सवाभ्यां वामौ' (3.4.91) इत्यमादेशः।।
43. यजध्वैनमिति च। (7.1.43)
44. तस्य तात्। (7.1.44)
`लोण्मध्यमपुरुषबहुवचनस्य' इति। अथ प्रथमपुरुषस्पैकवचनं कस्मान्न भवति? छन्दसि यथादृष्टानु विधानात्, अपिशब्दानुवृत्तेर्वा। `कृणुतात्' इति। `कृवि हिंसाकरणयोः' (धा.पा.598) इत्यस्यैदित्त्वान्नुम्, `धिन्विकृण्व्योर च' (3.1.80) इत्युप्रत्ययः, अकारश्चान्तादेशः, अतो लोपः (6.4.48)। `संसृजतात्' इति। सृजेस्तुदादित्वाच्छः। `गमयतात्' इति। णिच्, `मितां ह्रस्वः' (6.4.92)।।
45. तप्तनप्तनथनाश्च। (7.1.45)
`श्रृणोतेः' इति। `श्रुवः शृ च' (3.1.74) इति श्नुप्रत्ययः, शृभावश्च। पित्त्वे ङित्त्वाभावाद्गुणः। `सुनोत' इति। `स्वदिभ्यः श्नुः' (3.1.73)। `दधातन' इति। दधातेः `श्लौ' (6.1.10) इति द्विर्वचनम्। अत्रापि पूर्वलत् ङित्त्वाभावात् `श्नाब्यस्तयोरातः' (6.4.112) इत्याकारलोपो न भवति। `धत्त' इति। `दधस्तथोश्च' (8.2.38) इत्यभ्यासादकारस्य धकारः। धातोरकारलोपे कृते `झलां जश् झशि' (8.4.53) इति जश्त्वम्--डकारः, तस्य `खरि च' (8.4.55) इति चर्त्वम्--तकारः। `जुजुष्टन' इति। इषेरिच्छार्थात् पूर्ववच्छः, `बहुलं छन्दसि' (2.4.73) इति तस्य लुक्। `यदिच्छत' इति। `इषुगमियमां छः' (7.3.77)। चकार स्तस्येत्यस्येहानुकर्षणार्थः।।
46. इदन्तो मसि। (7.1.46)
`इदन्तः' इति। तकारोऽसन्देहार्थः। असति हि तकारे यणादेशे कृते `यन्तः' इति भवितव्यम्, तत्र सन्देहः स्यात्--किमयं यकारान्तः, उतेकारान्त इति। इद् अन्तो यस्य इदन्तः। मसित्ययं शब्दोऽन्यपदार्थः। सकारान्तमसीत्यविभक्तिकोऽयं निर्द्देशः; `सुपां सुलुक्' (7.1.39) इति प्रथमैकवचनस्य लुप्तत्वात्। इकार उच्चारणार्थः। भसीत्ययं शब्द इकारान्तो भवतीत्यस्यार्थं `मसः सकारान्तस्य' इत्यादिना व्यक्तीकरोति। `सकारान्तस्य' इत्यनेन मन्त्रं वोचेमेत्यत्राकारान्तस्य न भवतीति दर्शयति। कथं पुनः सकारान्तस्योपादानेऽसकारान्तस्य प्राप्नोति? एकदेशविकृतस्यानन्यत्वात्। यद्येवम्, कस्मान्न भवति? छन्दसि यथादृष्टानुविधानात्। अपौत्यधिकाराद्वा। `वोचेम' इति। वचेः परस्याशिषि लिङो मस्, यासुट्, `लिङ्याशिषि' (3.1.86) इत्यङ्, `अतो येयः' (7.2.80) इतीयादेशः, वचेः परस्याशिषि लिङो मस्, यासुट् `लिङ्याशिषि' (3.1.86) इत्यङ्,`अतो येयः' (7.2.80) इतीयादेशः, `वच उम्' (7.4.20) इत्युमागमः। `छन्दस्युभयथा' (3.4.117) इति सार्वधातुकत्वात् `लिङः सलोपोऽनन्त्यस्य' (7.2.79) इति सलोपः, `नित्यं ङितः' (3.4.99) इत्युत्तमस्य सलोपः, `लोपो व्योर्वलि' (6.1.66) इति यकारसय च, `आदगुणः' (6.1.87)। `आगम इकारो भवति' इति। कथम्पुनरयमागमः? कथञ्च न स्यात्? आगमलिङ्गाभावात्। टित्त्व--कित्त्व-मित्त्वान्यागमलिङ्गानि, अत्र चैषामेकमपि नास्ति, ततो नासावागमः, यथा--`अस्तेर्भूः' (2.4.52) इति भूभावः। यद्येवम्, `न य्वाभ्यां पदान्ताभ्यां पूर्वौ च ताभ्यामैच्' (7.3.3) इत्यैजागमो न स्यात्। अथ पूर्वग्रहणात् तस्यागमत्वमवसीयते? अस्याप्यन्तग्रहणादवसीयताम्। यथैव हि पूर्वशब्दोऽवयववचनो नियतदेशमदयवमाचष्टे, तथान्तशब्दोऽपीति समानमेतत्। `स च तस्यान्तो भवति' इति। अन्त एकदेशोऽवयव इति यावत्। अत एवासौ तद्गरहणेन गृह्यत इत्याह--`तद्ग्रहणेन च प्रयोजनम्--पृथक् स्वरनिवृत्तिरिति; `तिङ्ङतिङा' (8.1.28) इति निघातश्च। `मस इक्' इति नोक्तम्; असन्देहार्थम्। एवं ह्युच्यमाने सन्देहः स्यात्--किमिगागमः, उत प्रत्याहार इति। `दीपयामसि, जम्भयमसि' इति। `दीपी दृप्तौ' (धा.पा.1150),जभि जृभी गात्रविनामे'?[`जभी, जृभि--धा.पा] (धा.पा.388,389)--आभ्यां णअयन्ताभ्यां लट्, `रधिजभोरचि' (7.1.61) इति लुम्। क्वचित् भञ्जयामसीति पाठः। स च `भञ्जो आमर्दने' (धा.पा.1453) इत्यस्य ण्यक्तस्य वेदितव्यम्।।
47. क्त्वो यक्। (7.1.47)
`दत्त्वाय' इति। `दो दद् घोः' (7.4.46) इति ददादेशः।
`क्त्वापि छन्दसि' इत्यादि। एवमुच्यमाने द्विः क्त्वाग्रहणं न कर्त्तव्यमिति भावः। `समास इत्यत्रानुवर्त्तते' इति। `समासेऽनञ्पूर्वे' (7.1.37) इत्यतः। यदि तस्यानन्तरमिदमुच्यते, तत्रापि समासग्रहणमनुवर्त्तत इत्याशङ्का स्यात्, ततस्तस्यानुवृत्तिनिवृत्त्यर्थं तस्यानन्तरमिदं नोक्तमित्यभिप्रायः।।
48. इष्ट्वीनमिति च। (7.1.48)
`इष्ट्वीनम्' इति। वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम्। `पीत्वीनम्' इति। `धुमास्था' (6.4.66) इत्यादिनेत्त्वम्। एतच्चेतिकरणादाद्यर्थाच्चकरास्यानुक्तसमुच्चयार्थत्वाद्वा लभ्यते। अनयोरन्यतरोपादानेनैव सिद्ध उभयोरुपादानं वैचित्र्यार्थम्।।
49. स्नात्व्यादयश्च। (7.1.49)
`स्नात्वी, पीत्वी' इति। आकारस्य स्थान ईत्त्वन्निपात्यते। ननु च स्नात्व्यादयः शब्दाः प्रातिपदिकगणे न पठ्यन्ते, तत्कथं ते वेदितव्याः? कथं चादिशब्देन ते शक्या लक्षयितुम्? इत्याह `प्रकारार्थोऽयमादिशब्दः' इति। एवम्प्रकारा य एतत्सदृशाः शब्दास्ते स्नात्व्यादयो वेदितव्यः।।
50. आजजसेरसुक्। (7.1.50)
जसेरिति पूर्वाचार्यनिर्द्देशः। पूर्वाचार्या हि जसिरित्येवं विहतवन्तः। `ये पूर्वासो ये परास इत्यत्र' इत्यादि चोद्यम्। एतच्च जातौ पदार्थे। तत्रान्यत्र चरितार्थत्वाच्छास्त्रयोस्तुल्यबलयोर्विरोधे सति परस्पर प्रतिबन्धादप्रवृत्तौ प्राप्तायां `विप्रतिषेधे परं कार्यम्' (1.4.2) इति क्रियते--विप्रतिषेधे परं भवति, तत्र कृते यदि पूर्वमपि प्राप्नोति तदपि भवतीति जातिपदार्थः पुन प्रसङ्गविज्ञानस्य विषयः। `सकृत्' इत्यादिना परीहारः। एव च ष्यक्तो पदार्थेऽन्यत्राकृतार्थत्वाद्द्वयोरपि शास्त्रयोरीदृशे विषये पर्यायेण प्रवृत्तौ प्राप्तायामयं नियम आरभ्यते--विप्रतिषेधे परमेव भवति, न पूर्वमिति। तेन पुनः प्रसङ्गविज्ञानाभावाद्बाधितः शोभावो न भवति। न ह्यसति पुनःप्रसङ्गे यद्वाधितं तदुत्सहते पुनर्भवितुम्।।
51. अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि। (7.1.51)
`आत्मप्रीतौ' इति। विषयसप्तमीयम्। अत एवाह--`आत्मप्रीतिविषये क्यचि' इति। आत्मप्रीतिर्विषयो यस्य क्यचः स तथोक्तः। `अश्वस्यति' इति। आत्मनोऽश्वमिच्छतीति `सुपः आत्मनः क्यच्' (3.1.8) अनेनासुक्, अतो गुणे' (6.1.97) पररूपत्वम्। एवं `क्षीरस्यति' इत्यादावपि वेदितव्यम्। सर्वत्रात्मप्रीतिविषये क्यच्। यो ह्यात्मनोऽश्वादिकमिच्छति स नियोगत आत्मनः प्रोत्यर्थमिच्छति। यद्येवम्, इच्छायां क्यच्विधीयमानः सर्वत्रात्मप्रीतिविषये भविष्यतीतीच्छायां वक्तव्यम्? प्रसिद्ध्युपसंग्रहार्थमात्मप्रीताविति लौकिकस्यार्थस्योपादानम्, तेन यत्रात्मप्रीतावसुग्लोके प्रयुज्यते तत्रैव भवति, नान्यत्र। तेनाश्ववृषयोर्मैथुनेच्छायां क्षीरलवणयोर्लालसायामित्युपपन्नं भवति।
`अश्वीयति' इति। अश्वमिवाचरतीति `उपमानादाचारे' (3.1.10) इति क्यच्, `क्यचि च' (7.4.33) इतीत्त्वम्।
`अश्ववृषयोः' इत्यादि। ` अश्ववृष्योर्मेथुनेच्छायामसुग्भवति' इत्येतदर्थरूपं व्याख्येयमित्यर्थः।
`क्षीरलवणयोः' इत्यादि। वक्तव्यमित्येतदपेक्षते। `क्षोरलवणयोर्लालसायामसुग्भवति' इत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु कृतमेव। `अन्यत्रात्मप्रीतावपि न भवति' इति। आत्मनोऽश्वादिकमिच्छत्यश्वीयतीति। लवणीयति। `तृष्णातरेकः' इति। तृष्णाया अतिरेकः=अतिशयः, प्रकर्षः, अधिक्यमित्यर्थ-।।
52. आमि सर्वनाम्नः सुट्। (7.1.52)
`ह्रस्वनद्यापो नुट्' (7.1.54) इति प्राप्ते वचनम्।
`आमीति षष्ठीबहुवचनं परिगृह्यते' इति। इह बहव आमः सम्भवन्ति--षष्ठीबहुवचनम्, `ङेराम्नद्याम्नीभ्यः' (7.3.116) इति, `किमेत्तिङव्ययधादाम्वद्रव्यप्रकर्षे' (5.4.11) इति, `कास्प्रत्ययादाममन्त्रे लिटि' (3.1.35) इत्याम्; एतेषां यदि सर्वेषां ग्रहणं स्यात् तदा सर्वेषाम् `ह्रस्वनद्यापो नुट्' (7.1.54) इति नुट् प्रसज्येत, तत्राप्येतदेवाम्ग्रहणमनुवर्त्तते, षष्ठीबहुवचनस्यैवेष्यते अतस्तदेव गृह्यत इत्याह--`तस्य हि परत्वात्' इत्यादि। सुटो नुटश्च षष्ठीबहुवचनमवकाशः, आट्प्रभृतीनां तु चतुरर्थ्येकवचनादिः ङेराम्नद्याम्नीभ्यः' (7.3.116) इति परत्वादाडादयो भवन्ति। तत्र `आण्नद्याः' (7.3.112) इत्याट्--कुमार्यामिति। `याडापः' (7.3.113) इति याट्--खट्वायामिति। `तर्वनाम्नः स्याङ्ढ्रस्वश्च' (7.3.114) इति स्याट्--सर्वस्यामिति। यस्तर्हि घान्तादाम् विधीयते यश्च लिट्याम् तौ कस्मान्न गृह्येते? इत्याह--`यश्च किम्' इत्यादि। तयोर्ह्यको घान्ताद्विधीयतेऽपरो घातोः। न च घान्तस्य सर्वनामसंज्ञा, नापि घातोरिति। न तौ सर्वनाम्नः परौ सम्भवत इति न गृह्येते। अथ तु सर्वनाम्नः परौ न सम्भवत इति कृत्वैतदर्थं तयोर्ग्रहणमनुपपन्नम्, तथाऽप्युत्तरार्थं तूपपद्यते, विद्येते तौ हि हरस्वान्तात् परौ--पचतितराम्, पचतितमाम्, चिकीर्षाञ्चकार, कारायाञ्चकार? इत्यत आह--`सानुबन्धकादिति वा तौ न गृह्येते' इति। निरनुबन्धकपरिभाषयेति भावः। तत्र घादामोरुकारोऽनुबन्धः, इतरस्य त्वकारः। तथा चोक्तदम्--आमोऽमित्त्वमदन्तत्वादिति।
`उत्तरार्थः' इत्यादि। `त्रेस्त्रयः' (7.1.53) इत्यामि परतो यथा स्यात्। एतदर्तोऽप्यामीति सप्तमीनिर्द्देशः कस्मान्न भवति, अस्ति ह्यत्रापि प्रयोजनम्--आमि परतः सर्वनाम्नः सुङ् यथा स्यात्? इत्यत आह--`इह तु' इत्यादि। `उभयनिर्देशे पञ्चमीनिर्द्देशो बलीयान्' (शाक.प.97) इति `तस्मादित्युत्तरस्य' (1.1.67) इति `सर्वनाम्नः' इत्यनया पञ्चम्या आमीत्यस्याः सप्तम्याः षष्ठ्यां परिकल्पितामाम एव सुटा भवितव्यमिति नास्तीह निर्द्देशस्य प्रयोजनम्।।
53. त्रेस्त्रयः। (7.1.53)
`ह्रस्वनद्यापो नुट्' (7.1.44) इति प्राप्ते वचनम्। `त्रयाणाम्' इति। `सुपि च' (7.3.102) इति दीर्घः. ननु च `णिजां त्रयाणां गुणः श्लौ' (7.4.75) इति निपातनादेव सिद्धम्, तत्किमर्थमिदमारभ्यते? एवं सिद्धे सतीदमारभ्यमाणमेतज्ज्ञापयति--`अबाधकान्यपि निपातनानि भवन्ति (पु.प.वृ.99) इति, तेन पुरातनमिति सिद्धं भवति; अन्यथा `पुराणप्रोक्तेषु' (4.3.105) इति निपातनेन बाधित्त्वान्न सिध्यति।
`त्रीणामपीष्यते छन्दसि' इति। एतच्चापीत्यधिकाराद्वा, `सर्वे विघयश्छन्दसि विकल्प्यन्ते (पु.प.वृ.56) इति वा लभ्यते।।
54. ह्रस्वनद्यापो नुट्। (7.1.54)
`कुमारीणाम्' इति। `वयसि प्रथमे' (4.1.20) इति ङीष्। `गौरीणाम्' इति। `षिद्गौरादिभ्यश्च' (4.1.41) इति ङीष्। `शार्ङ्गरवीणाम्' इति। `शार्ङ्गरवाद्यञो ङीन्' (4.1.73) इति ङीन्। `लक्ष्मीणाम्' इति। `अवितॄस्तॄतन्त्रिभ्य ईः' (पं.उ. 3-158) इत्यनुवृत्तौ `लक्षेर्मुट् च' (पं.उ.3.160) इतीर्मुट् च। `ब्रह्मबन्धूनम्' इति। ब्रह्मा बन्धुरासामिति बहुव्रीहिः। `ऊङुतः (4.1.66) इत्यूङ्। `खट्वानाम्' इति। `अजाद्यतष्टाप्' (4.1.4)। `बहुराजानाम्' इति। `डाबुभाभ्यामन्यतरस्याम्' (4.1.13) इति डाप्। `कारीषगन्ध्यानाम्' इति। कारीषगन्धेरपत्यमित्यण। तस्य `अणिञोरनार्षयोः' (4.1.78) इत्यादिना ष्यङादेशः, `यङ्श्चाप्' (4.1.74) इति चाप्।।
55. षट्चतुर्भ्यश्च। (7.1.55)
`पञ्चानाम्' इति। `नोपधायाः' (6.4.7) इति दीर्घः, `नलोपः प्रातिपदकान्तस्य' (8.2.7) इति नलोपः। `षष्णाम्' इति। `झलां जशोऽन्ते' (8.2.39) इति षकारस्य डकारः, `यरोऽनुनासिकेऽनुनासिको वा' (8.4.45) इति डकारस्य णकारः, `ष्टुना ष्टुः' (8.4.41) इति नकारस्य णकारः।
`ष्णान्ता षट्' (1.1.24) इति रेफान्ताया अपि संख्यायाः कस्मान्न विहिता षट्संज्ञेति, एवं सतीह चुतुर्ग्रहणं न कर्त्तव्यं भवति? इत्याह--`रेफान्तायाः' इत्यादि। गतार्थम्। `बहुवचननिर्देशात्' इत्यादि। यदि हि शब्दस्य प्रधानस्य ग्रहणं स्यात्, तदेतरेतवयोगपक्षे `षट्चतुर्भ्याम्' इति द्विवचने निर्देशं कुर्यात् समाहारपक्षे त्वे कवचनेन `षट्चतुरः' इति बहुवचनेन तु निर्देशः कृतः। तस्माद्बहुवचननिर्देशात् संख्याप्रधानस्यैव षठ्संज्ञकस्य चतुःशब्दस्य च ग्रहणम्। तस्य चेदं प्रयोजनम्--यत्र संखक्यायाः प्राधान्यम्, तेन तदन्तादपि भवति। अर्थप्रधाने हि निर्देशेऽर्थग्रहणेतद्भवति, अर्थाच्च शब्दद्वारेणैवामः परत्वं विज्ञायते। अतः केवलेभ्यः षद्चतुर्भ्यो भवति, तदन्ताच्च। तदन्तादपि शब्दद्वारेणैवामः परत्वं भवत्येव।
`उपसर्जनोभूतायास्तु' इत्यादि। बहुवचननिर्देशाद्वि संख्यार्थस्येदं ग्रहणम्। स चार्थो द्विविधः--प्रधानः अप्रधानश्च। तत्र प्रधाने कार्यसम्प्रत्ययाद्यत्र संख्यायाः प्राधान्यं तत्र तदन्तादपि भवति। यत्र तूपसर्जनीभूता संख्या तत्र न भवति--प्रियषषामित्यादौ। अन्यपदार्थस्य ह्यत्र प्राधान्यम्, संख्यायास्त्वप्राधान्यम्। `प्रियपञ्च्ञाम' इति। अल्लोपे (6.4.134) कृते `स्तोः श्चुना श्चुः' (8.4.40) इति श्चुत्वम्।।
56. श्रीग्रामण्योश्छन्दसि। (7.1.56)
श्रीग्रामण्योरिति सम्बन्धलक्षणा षष्ठी। `नित्यार्थं `वचनम्' इति। श्रीशब्दस्य, न तु ग्रामणीशब्दस्य। तस्तु तु प्राप्त्यर्थमेव। यथैव हि भाषायां नदीसंज्ञापक्षे `ह्रस्वनद्यापो नुट्' (7.1.54) इति सिध्यति तथा छन्दस्यपि। तस्मान्नित्य यथा स्यादित्येवमर्थम्। असति ह्यस्मिन् यदा नदीसंज्ञा, तदैव स्यात्, नान्यदा।
`यदा सूताश्च' इत्यादि। एतेनैतद्दर्शयति--यदा सूतशब्दस्य ग्रामणीशब्देन सह कर्मधारयः क्रियते तदा सूतग्रामणीशब्दो न ह्रस्वान्तः न नद्यन्तः, नाप्याबन्त इति न प्राप्नोति, इष्यते च, ततो यथा स्यादित्यवमर्थं वचनम्। यदा सूतग्रामणीशब्दयोः `सर्वो द्वन्द्वो विभाषयैकवद्भवति' (पु.प.वृ.50) इत्येकवद्भावी द्वन्द्वः, तदा `स नपुंसकम्' (2.4.47) इति नपुंसकत्वात्, `ह्रस्वो नपुंसके प्रातिपदिकस्य' (1.2.47) इति ह्रस्वत्वं कृत्वा बहूनां सूतग्रामणीशब्दानामेकशेषञ्च, ततः षष्ठीबहुवचनं विधीयते। तदा ह्रस्वान्तत्वादेव सिद्धमिति नार्थस्तवर्थेन वचनेन।।
57. गोः पदान्ते। (7.1.57)
`ऋक्पादान्ते वर्त्तमानात्' इति। छन्दसि ऋक्पाद एव सम्भवति, न श्लोकपाद इति ऋक्पादग्रहणम्।।
58. इदीतो नुम् धातोः।
`कुण्डिता, हुण्डता' इति। `कुडि दाहे' (धा.पा.270), `हुडि सङ्घाते' (धा.पा.269)--आभ्यां तृच्, इट्, `ऋदुशनस्' (7.1.94) इत्यादिनानङ्।
`किमयं धातूपदेशावस्थायामेव नुमु विधीयते? इत्याह--`कुण्डा, हुणडा' इत्यादि। यदि प्रत्यय उत्पन्ने नुम् स्यात्, तद प्रत्ययविघधानवेलायं कुडिडुड्योरगुरुत्वात् क्तिन्नेव स्यात्, न त्वकारप्रत्ययः, स चेध्यते। तस्मात् तदर्थं धातूपदेशावस्थायामेव नुम् भवतीत्यवसीयते। कथं पुनर्धातूपदेशावस्थायां नुम् भवतीत्यवसीयते, यावतात्रोपदेशग्रहणं नास्ति? इत्याह--`तथा हि' इत्यादि। `धिन्विकृण्ष्योर च' (3.1.80) इत्युप्रत्ययविधानकाले नुमनुषक्तयोर्ग्रहणं सनुम्कयोरेव प्रकृततवं यथा स्यात्। एवं सनुम्कयोः परकृतत्वं भवति यद्युपदेशावस्थायामेव नुम् भवति, नान्यथा। तस्मान्नुमनुषक्तयोर्ग्रहणाज्ज्ञापकादवसीयते--धातूपदेशावस्थायामेव नुम् भवतात्। तस्य ह्यतत् प्रयोजनम्--उपदेशावस्थायामेव नुम् यथा विज्ञायेतेति। न हि तन्नुमर्थं प्रयुज्यते; नुम् भवतीति। तस्य ह्यतत् प्रयोजनम्--उपदेशावस्थायामेव नुम् यथा विज्ञायेतेति। न हि तन्नुमर्थं प्रयुज्यते; नुम भवितव्यम्, तत्र लक्षणवशादेव `धिन्विकृच्च्योर च' (3.1.80) इति नुमनुषक्तयोर्ग्रहणम्, तत्कथमस्यार्थस्य ग्रहणं ज्ञापकम्? नैतदस्ति; न हि `धिन्विकृण्व्योर च' (3.1.80) इत्ययमिका निर्देशः, स हि `रोगाख्यायां ष्वुल् बहुलम्' (3.3.108) इति बहुलवचनेन सन्निधानात् क्वचिदेव भवति न सर्वत्र। एवञ्च `गुप्तिज्किद्भ्यः सन्' (3.1.5) इत्येवमादयो निर्देशा उपपद्यन्ते। तस्मात् `धिन्विकृण्व्योः' (3.1.80) इति नायमिका निर्द्देशः, किं तर्हि? उच्चारणार्थेनेकारेण, यथा--`इन्धिभवतिभ्याम्' (1.2.6) इत्यत्रेकारेण निर्द्देशः; अन्यथा `अनिदिताम्' (6.4.24) इत्यादिनानुनासिकलोपः स्यात्।
अथापि हि `धिन्विकृण्व्योः' (3.1.80) इतीका निर्देशः स्यात्, एवमपि यदि धातूपदेशावस्थायामेव नुम्भवतीत्ययमर्थो ज्ञापयितुं नाभीष्टः स्यात्, ततो लाघवार्थमनितयत्वादागमशासनस्य नुममकृत्वैव निर्द्देशं कुर्यात्, यथा--`युवोरनाकौ' (7.1.1) इत्यत्र द्वन्द्वैकवद्भावपक्ष उक्तम्। तस्मान्नुमनुषक्तयोर्ग्रहणं ज्ञापकमेव धातुग्रहणादप्यवसीयते। नुमुपदेशावस्थायामेव भवतीति दर्शयितुमाह--`धातुग्रहणं च' इत्यादि। धातुसंज्ञाप्रवृत्तिकालो धातूपदेशकालः, तत्रैव नुम् भवतीत्येवमर्थमिह धातुग्रहणं क्रियते। तस्मादतोऽपि धातुग्रहणादुपदेशवस्थाया मेव नुम् भवतीति ज्ञायते, न ह्यन्यद्धातुग्रहणस्य प्रयोजनमस्तीत्यभिप्रायः। ननु च भेत्ता, अभैत्सोदित्यत्राघात्वोस्तासिस्चोरिदितीर्नुम् मा भूदित्येवमर्थं धातुग्रहणं स्यात्? इत्याह--`तासिसिचोः' इत्यादि। यदि तासिसिचोरिदित्कार्यं स्यात्, तदेकारस्येत्संज्ञार्थमनुनासिकत्वं प्रतिज्ञायेत, न चास्ति प्रयोजनमिति न प्रतिज्ञायते; ततश्च निरनुनासिकोऽप्रतिलब्धेत्संज्ञक उच्चारणार्थं एवानयोरिकारः पठ्यत इति नुमः प्रसङ्ग एव नास्ति, तत् किं तन्निवृत्त्यर्थेन धातुग्रहणेन! ननु चारंस्त, अमंस्त, मन्ता, संगन्तेत्यत्र `अनिदिताम्' (6.4.24) इत्यनुनासिकलोपो मा भूदित्येवमर्थं तासिसिचोरिदित्कार्यम्, तत् किमुच्यते इदित्कार्यं तासिसिचोर्नास्ति? इत्यत आह--`अरंस्त, अमंस्त' इत्यादि। `हनः सिच्' (1.2.14) इति कित्त्वविधावस्यैतत्प्रयोजनम्--आहतेत्यत्रानुनासिकलोपो यथा स्यात्। यदि सिज्न्तस्यानुनासिकलोपः सार्वधातुकङित्त्वमाश्रित्य स्यात् `हनः सिच्' (1.2.14) इति कित्त्वमनर्थकं स्यात्, प्रयोजनाभावात्? नैतदस्ति; अस्ति ह्यन्यत् कित्त्वविधानस्य प्रयोजनम्--`अनुदात्तोपदेश' (6.4.37) इत्यादिना सिच्यनुनासिकलोपो यथा स्यादिति; `अनिदताम्' (6.4.24) इत्यादिना सिजन्तस्य सार्वधातुके मा भूदिति। कः पुनरत्र विशेषः--सार्वधातुके ङिति वा? सिचि किति वा? अयमस्ति विशेषः--समानाश्रये सिच्यनुनासिकलोपस्यासिद्धत्वादतो लोपो (6.4.48) न भवति; सार्वधातुके तूपधालोपे तस्य व्याश्रयत्वेनासिद्धत्वाभावादतो लोपः स्यादेव। नैषोऽस्ति विशेषः; अतो लोपविधौ `अनुदात्तोपदेश' (6.4.37) इत्यादेः सूत्रादुपदेशग्रहणमनुवर्त्तते, तेनार्थधातुकोपदेशे यदकारान्तमङ्गं तस्य लोपो विज्ञायते; न चाहतेत्यत्रोपदेशेन्कारान्तमेतत्। तस्मात् `हनः सिच्' (1.2.14) इति कित्त्वविधानसामर्थ्यादरंस्तेत्यादौ नकारलोपो न भवति। तदेवं सिच इदित्कार्यं न भवतीति प्रतिपादितम्।
इदानीं तासेरप्यनुनासिकलोपाभाव इदित्कार्यं न भवतीति प्रतिपादयितुमाह--`मन्ता' इत्यादि। नकारलोपो न भवतीति प्रकृतेन सम्बन्धः। उपधानकारस्य `अनिदिताम्' (6.4.24) इत्यादिना लोप उच्यते। न च मक्तेत्यत्र नकार उपधा भवति; टिलोपस्यासिद्धत्वात्। तस्मात् तासेरपीदित्कार्यं न विद्यते। ततश्च युक्तमुक्तम्--`तासिसिचोरिदित्कार्य नास्ति' इति। अथ नुमागम इदित्कार्यं कस्मान्न भवति? अनिष्टत्वात्। न ह्यनिष्टं कार्यं शास्त्रे परिकल्पयितुं युक्तम्। यदि तर्हि तासेर्निरनुनासिक इकारः उच्चारणार्थः, एवं तर्हि `स्यतासी लृलुटोः' (3.1.33) इत्यत्र यदुक्तम्--`इदित्करणमनुनासिकलोपप्रतिबन्धर्थम्', तत्कथं न विरुध्यते? यथा न विरुध्यते तदा तत्रैवोक्तम्।
अथ भिदिरित्येवमादीनां नुम् कस्मान्न भवति, स्ति ह्येषामपीकार इत्संज्ञकः? इत्याह--`हरिताम्' इत्यादि। भिदिर्प्रभृतयो हीरितः, न त्विदितः; यस्मात् `इर उपसंख्यानम्' (1.3.7.वा) इति रेफेकारस्य समुदायस्य तेषामित्संज्ञा, न प्रत्येकमवयवस्य। तत्रेदितामुच्यमानो नुम् कः प्रसङ्गो यदिरितां स्यात्!
स्यादेतत्--`उपदेशेऽजनुनासिक इत्' (1.3.2) इतीत्संज्ञेकारस्य, `हलन्त्यम्' (1.3.3) इति रेफस्य, तस्मादस्त्येव तेषामिदित्त्वम्? इत्याह--`अवयवस्यापि' इति। गतार्थम्।।
59. शे मुचादीनाम्। (7.1.59)
मुचादयस्तुदादौ पठ्यन्ते `मुच्लृ मोक्षणे' (धा.पा.1430) इत्यतः प्रभृत्या गणपरिसमाप्तेः।
`मोक्ता' इति। तृच्, `एकाचः' (7.2.10) इतीट्प्रतषेधः, `चो कुः' (8.2.30) इति कुत्वम्।
`के पुनस्तृम्फादयः' इति। एवं मन्यते--तृम्फादिषु तृफादयो निरनुषङ्गा अपि गणे पठ्यन्ते--`तृफतृन्फ तृप्तौ' (धा.पा.1307,1308) इत्येवमादयः। तत्र यदि तेऽपि तृफादिग्रहणेन गृह्येरन्, तृफतीत्यादि रूपं नोपपद्यत इत्यत आह--`ये तत्र सानुषङ्गाः पठ्यन्ते, ते तृम्फादयः' इति। आदिशब्दो।़यं प्रकारार्थः, प्रकारस्तु सादृश्यम्, तस्मात् तृम्फतिना सानुषङ्गेण ये सदृशाः, त एवादिग्रहणेनोपलक्ष्यन्त इत्यभिप्रायः। `सानुषङ्गाः' इति। नकारोऽनुषङ्गः, तेन सह वर्त्तन्त इति सदृशाः, त एवादिग्रहणेनोपलक्ष्यन्त इत्यभिप्रायः। `सानुषङ्गाः' इति नकारोऽनुषङ्गः, तेन सह वर्त्तन्त इति सानु,ङ्गाः। यदि तर्हि ये सानुवङ्गाः पठ्यन्ते ते तृम्फादयः, तेषां नुमि कृते परस्यानुस्वारे कृते तस्य परसवर्णे द्वयोर्नकारयोः श्रवणं प्राप्नोति? इत्यत आहृ--`तेषाम्' इत्यादि। कृते हि नकारलोपे नुम् विधीयते। अतो न भवत्येव दोष इति भावः। अथ सोऽपि नुम् कस्मान्न लुप्यते? इत्याह--`स च' इत्यादि। यदि सोऽपि लुप्येत, नुमो विधानमनर्थकमेव स्यादिति मन्यते। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्--`धातोः' (7.1.58) इत्यनुवर्त्तते, `शे' इति योगविभागः क्रियते, तेन तृ-म्फादीनाञ्च नुम् भविष्यति। मुचादीनामित्येवमनर्थकं स्यात्, `शे' इत्यनेन सिद्धत्वात्? नानर्थकम्, `शे' इत्यस्यासर्वविषयत्वज्ञापनार्थत्वात्। एवपं ह्यतिप्रसङ्गो न भवति। कथं मुचादिष्वेव तृम्फादयो न पठिताः? येऽत्र निरनुषङ्गाः पठ्यन्ते तेषां नुमागमो मा भूदित्येवमर्थम्।।
60. मस्जिनशोर्झलि। (7.1.60)
`मङ्क्ता' इति। `टुमस्जो शुद्धौ' (धा.पा.1415), तृच्, पूर्ववदिडभावः, कुत्वञ्च, अन्त्याज्जकारात् पूर्वो नुम्, `स्कोः' (8.2.29) इत्यादिना सकारलोपः, अनुस्वत्रपरसवर्णो। `नेष्टा' इति। `रधादिभ्यश्च' (7.2.45) इति यदेण्नास्ति तदायं नुम्, व्रश्चादिसूत्रेण (8.2.36) षत्वम्, ष्टुत्वम्। इट्पक्षे झलादित्वाभावान्नुम् नास्ति--नशितेति।
`मज्जनम्, नशनम्' इति। ल्युट्, `झलां जश् झशि' (8.4.53) इति जश्त्वम्--सकारस्य दकारः, तस्य चत्वं जकार-।
`मस्जेः' इत्यादि। यदि मस्जेरन्त्यादचः परो नुम् स्यात्, असंयोगदित्वात् मलोपो न प्राप्नोति, अनुपधत्वान्न नलोपः, स चेष्यते; अन्यथा मग्नो मानवानिति न सिध्यत्। तस्मादन्त्यात्पूर्वमाचार्या मस्जेर्नुममिच्छन्ति। कथं पुनरिष्यमाणोऽप्ययमर्थो लभ्यते? नशेरल्पाच्तरस्य पूर्वनिपातलक्षमव्यभिचारचिह्नात्। स हि लक्षणनिरपेक्षतां सूचयन् `मिदयोऽन्त्यात्परः' (1.1.47) इत्येतदपीह लक्षणं नापेश्रत इति सचयति। तस्मिंश्चानपेक्षिते लक्ष्यानुरोधाद्यत्र मस्जेर्नुमि कृते सतीष्टं सिध्यति तत्रैव विधीयते। तेन मस्जेरन्त्यास्पर्वं नुम् सिद्धो भवति। `मग्नः' इति। `ओदितश्च' (8.2.45) इति निष्ठानत्वम्।।
61. रधिजभोरचि। (7.1.61)
`रन्धयति' इति। `रध हिंसासंराद्ध्याः' (धा.पा.1193) हेतुमण्णिच्। `रब्धकः' इति ण्वुल। `साधुरन्धी' इति। `सुप्यजातौ णिनिस्ताच्छील्ये' (3.2.78) इति णिनिः। `रन्धंरन्धम्' इति। `आभीक्षण्ये। णमुल्' (3.4.22), `आभीक्षण्ये द्वे भवतः' (वा.887) इति द्विर्वचनम्। `रन्धो वर्त्तते' इति। भावे घञ्। अथ रन्धयतीत्यादिषु परत्वात् `अत उपधायाः' (7.2.116) इति वृद्धिः प्राप्नोति, सा कस्मान्न भवति? इत्यत आह--`परापि सती' इत्यादि। नित्यत्वं पनः कृताकृतप्रसङ्गित्वान्नुमः। स हि कृतायां वृद्धौ प्राप्नोत्यकृतायामपीति नित्यः; वृदधिस्तु नुमि कृते न प्राप्नोत्यकारस्यानुपधत्वादित्यनित्या।
`रद्धा' इति। `झषस्तथोर्धोऽधः' (8.2.40) इति तकारस्य धकारः, धातुधकारस्य जश्त्वम्--दकारः।।
62. नेट्यलिटि रथेः। (7.1.62)
पूर्वेण प्राप्तस्य नुमः प्रतिषेध उच्यते। `रधिता' इत्यादि। `रधादिभ्यश्च' (7.2.45) इतीट्। `ररन्धिव, ररन्धिम' इति। क्रादिनियमादिट् (7.2.13) `परस्मैपदानाम्' (3.4.82) इत्यादिना वस्मसोर्वमादेशौ।
ननु रधिरयमसंयोगान्तः पठ्यते, तत्र `असंयोगाल्लिट् कित्' (1.2.5) इति कित्त्वे `अनिदिताम्' (6.4.24) इति नलोपः प्राप्नोति, स कस्मान्न भवति? इत्याह--`नुमि कृते' इत्यादि। `उपदेशावस्थायामेव नुम् भवति' इत्युक्तमेतत्, तेनोपदेशावस्थायामेव नुमि कृते संयोगान्तत्वं जातमिति कित्त्वं नास्तीति न भवति नलोपः।
`अथ क्वसौ कथं भवितव्यम्' इति। किं रराध्वानिति भवितव्यम्, उत रेधिवानिति पृच्छति। अपर आह--`रेधिवात्' इति। लिटः `क्वसुश्च' (3.2.107) इति क्वसुः, द्विर्वचनम्, `अत एकहल्मध्ये'(6.4.120) इत्यादिनैत्त्वांभ्यासलोपौ, `वस्वेकाजाद्घसाम्' (7.2.67) इतीट् नुम्, `सान्तमहतः संयोगस्य' (6.4.10) इति दीर्घः। `कथम्' इत्यादि। एवं मन्यते--यदेङ् भवति तस्मिंश्च नुमा भवितव्यम्, नुमि च सत्येकहल्मध्यता नास्तीत्येत्त्वेऽब्यासलोपयोः पुनः प्रत्यापत्त्या भवितव्यम्, ततश्च कृतद्विर्वचन एकाण्न भवतीतीटा न भवितव्यम्; तस्माद्ररध्वानिति युक्तं भवितुमिति। इतरस्तु कृतसयापि नुमोऽत्रि लोपेन भवितव्यम्, ततश्चैकहल्मध्यताभावो नोपपद्यते, कुतः पुनरेत्त्वाभ्यासलोपयोः प्रत्यापत्तिः? इत्याह--`एत्त्वाभ्यासलोपयोः कृतयोः' इत्यादि। कृतद्विर्वचनानामेकाचां क्वसोरिङ् विधीयते। `ततो नुमागमः' इति। अचि तद्विधानात् तस्यौपदेशिकत्त्वाश्रयो लोप इत्यौपदेशिकग्रहणान्नुमि कृते संयोगान्तत्वादातिदेशिकस्य कित्त्वस्यासम्भवात्।
`अथ' इत्यादि। इटि `नेटि' (7.2.4) इत्युच्यमाने पुर्वेण सिद्धे सति नियमर्थमेतद्भविष्यति--लिट्येवेडादौ, नान्यस्मिन्निडादाविति। तेन ररन्धिव, ररन्धिमेत्यादौ भविष्यति, न रधितेत्येवमादौ। तस्मादिटिलिटीति कस्मान्नोक्तम्, एवं सतीष्टं सिध्यति, लघु च सूत्रं भवतीति भावः। `लिट्येव' इति। नियमस्वरूपं दर्शयति। `नान्यत्र' इत्यनेनापि तस्य व्यवच्छेद्यम्। यतो हेतोर्नियमो न क्रियते, तं दर्शयितुमाह--`विपरीतम्' इत्यादि। `इट्येव लिटि' इति। विपरीतनियमसय स्वरूपकथनम्। `नान्यत्र' इत्यनेनापि तद्ध्यवच्छेद्यं दर्शयति। कस्माद्विपरीतमवधारणं नेष्यते? इत्याह--`तथा हि' इत्यादि। इट्येव लिटीत्यस्य नियमस्यानिडादिर्ल्लिङ्व्यावर्त्त्य इतीडादावेव लिटि भवति, नानिडादाविति। ततश्चानिडादित्वाद्ररन्धेत्यत्र नुम् न स्यात्। रधितेत्यत्र पूर्वेम स्यादेव; नियमेनाव्यावर्त्तितत्वात्। तस्मात्तद्दोषपरिजिहीर्षया नियमो न क्रियते।।
63. रभेशब्लिटोः। (7.1.63)
`आरेभे' इति। `रभ राभस्ये' (धा.पा.974) लिट्, अनुदात्तेत्त्वादत्मनेपदम्। `लिटस्तझयोरेशिरेच्' (3.4.81) इत्येशू, पूर्ववदेत्त्वाभ्यासलोपौ।।
64. लभेश्च। (7.1.64)
`पृथग्योगकरणमुत्तरार्थम्' इति। उत्तरत्रूत्रेण लभेरेव कार्यं यथा स्यात्। रभेर्मा भूदिति। यदि `रभिलभ्योरशव्लिटोः' इत्येको योगः क्रियते, ततो रभिरित्यनुवृत्तिरुत्तरत्र स्यात्। अतश्च तस्याप्युत्तरत्र कार्यं प्रसज्येत।।
65. आङो यि। (7.1.65)
`यकारादौ प्रत्यय' इति। अनेन `यि' इत्यस्याः सप्तम्या विषयसप्तमीत्वं दर्शयन् यकारादौ प्रत्यये ववयभूतेऽनुत्पन्न एव नुम् भवतीति दर्शयति।
`प्राक्' इत्यादिना विषयसप्तम्यां सत्यां यदिष्टं सम्पद्यते तदाचष्टे। परसप्तम्यां हि पूर्वं प्रत्ययेन भवितव्यम्, पश्चान्नुमा, ततश्च `अदुपधात्' (3.1.98) इति यत् प्रसज्येत। विषयसप्तम्यां तु प्रागुत्पन्नेन नुमाऽदुपधत्वस्य विहतत्वात् `ऋहलोर्ण्यत्' (3.1.124) इत ण्यदेव भवति। कः पुनर्ण्यति यत वा विशेषः; यावतोभयत्रापि तदेव रूपमिति, व्यत्प्रत्ययेऽपि वृद्ध्या न भवितव्यम्, तथा च प्रागुक्तम्--`परापि सती वृद्धिर्नित्यत्वाभुमा बाध्यते' इति? अत आह--`तत्र' इत्यादि। तत्र ण्यति सति तित्स्वरितत्वात् `गतिकारकोपपदात् कृत्' (6.2.139) इति प्रकृतिस्वरः; तेनालम्भ्य इत्युदाहरणमन्त्यस्वरितं भवति। यति तु `यतोऽनावः' (6.1.213) इत्याद्युदात्तत्वे सति प्रकृतिवद्भावेनाप्युदात्तत्वमित्यस्ति विशेषः।
`लभ्यम्' इति। यदन्तमेतत्।
`एवमालभ्य' इत्येतदपि। आलभ्यत इति भावे कर्मणि वा लकारः।
`अनुषङ्गलोपः क्रियते' इति। `अनिदताम्' (6.4.24) इत्यादिना।।
66. उपत्प्रशंसायाम्। (7.1.66)
`प्रशंसायाम्' इति। उपलभ्य इति स्तुतौ। अतिप्रशंस्य इत्यर्थः। `उपलभ्यम्' इति। प्रप्तव्यमित्यर्थः।।
67. उपसर्गात्खल्घञोः। (7.1.67)
`ईषत्प्रलम्भः' इति `ईषद्दुःसुषु' (3.3.126) इत्यादिना खल्। `दुष्प्रलम्भः' इति। `इदुदुपधस्य' (8.3.41) इत्यादिना षत्वम्। `विप्रलम्भः' इति। भावे घञ्। ननु च `लभेश्च' (7.1.64) इत्यनेन नुम् सिद्धः, तत्किमर्थोऽयमारम्भः? इत्याह--`सिद्धे' इत्यादि। `अन्यत्र न भवति' इति तद्व्यवच्छेद्यम्। `उपसर्गात् खल्घञोरेव' इत्येष तु विपरीतनियमोऽत्र न सम्भावनियः; `गृधिवञ्च्योः प्रलम्भने' (1.3.69) इति निर्देशात्।।
68. न सुटुर्भ्यां केवलाभ्याम्। (7.1.68)।
`उपसृष्टस्य' इति। उपसर्गेण सम्बद्धस्येत्यर्थः, `सुलाभः' इति। सुशब्दोऽयमाधिक्यार्थः, नाकृच्छ्रार्थः, यथा--सुषिक्तं नाम किं तवात्रेत। `दुर्लाभः' इति। `दुशब्दो निन्दार्थः, न कृच्छ्रार्थः, यथा--दुर्ब्रह्यण इति। तेन घञेव भवति, न खल्।
`सुदुर्म्यामिति तृतीयां मत्वा केवलग्रहणं क्रियते' इति। `सुदिर्भ्याम्' इति। तृतीयायामभ्युपेतायां सुदुर्भ्यामुपसृष्टस्य लभेर्नुम् न भवतीत्येषोऽर्थः सम्पद्यते। व्यवहितेनाऽप्युपसृष्टो भवत्येव। तत्रासति केवलग्रहणे सुप्रलम्भः, दुष्प्रलम्भ इत्यत्रापि प्रतिषेधः स्यात्। तस्मात् तृतयायामभ्युपेतायां केवलग्रहणं क्रियते। अथ पञ्चत्र्यां केवलग्रहणं कस्मान्न क्रियेतेति प्रश्नावसरत आह--`पच्चम्यां हि' इत्यादि। पञ्चम्यां ह्यस्यां निर्दिष्टग्रहणस्यानन्तर्यार्थत्वादनन्तरस्यैव प्रतिषेधेन भवितव्यम्, इह च प्रशब्देन व्यवधानम्, अतः प्रसङ्ग एव नास्ति, तत् किं केवलग्रहणेन? यद्येवम् न कर्त्तव्यमेव केवलग्रहणम्, पञ्चमीमेनां प्रतिज्ञास्याम इति? नैतदस्ति; सुप्रलम्भः दुष्प्रलम्भ इति--प्रत्युदाहणद्वयमभिप्रेत्यैतदुक्तम्। `पञ्चम्यां हि व्यवहितत्वादेवाप्रसङ्गः' इति। अतिसुलम्भ इत्यत्र यदाभिशब्दोऽप्युपसर्गस्तदा ह्यसति केवलग्रहणे प्रतिषेधः प्रसज्येत; अव्यवधानात्। तस्मात् सर्वधा केवलग्रहणस्य कर्त्तव्यत्वात्, कमव्यतिक्रमे च प्रयोजनाभावात् तृतीयैवेषा युक्ता प्रतिज्ञातुम्।
अतिसुलभमित्यत्रातिनोपर्गेन सुशब्देन लभिरुपसृष्टः, तस्मात् प्रतिषेधेन भवितव्यमिति कस्याचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह--`अतिसुलभमित्यत्र' इत्यादि। कर्मप्रवचनीयत्वं पुनरतिशब्दस्य `अतिरतिक्रमणे च' (1.4.95) इति कर्मप्रवचनीसंज्ञाविधानात्। यस्य कर्मप्रवचनीयसंज्ञा तस्योपसर्गसंज्ञा नास्ति; एकसंज्ञाधिकारात्, कर्मप्रववनायसंज्ञयोपसर्गसंज्ञाया बाधतत्वात्। कथं पुनः कर्मप्रचवनीयस्य हि तस्यापि केवलत्वमुपपद्यते? एवं मन्यते--केवग्रहणात् स्वशब्दोपात्तादन्यत् तुल्यजातीयमेव व्यवच्छेद्यम्, न तु विजातीयम्। तथा हि--`केवलभ्यां विझातीयेन कर्कटादिना सहितौ प्रविशत एव। अत एवान्योपसर्गरहिताभ्यामित्यनेन तुल्यजातीयनिवृत्तयर्थता केवलग्रहणस्य दर्शिता। यदि तु सर्वस्य तुल्यजातीयस्य विजातीयस्यापि केवलग्रहणेन निवृत्तिः कर्त्तु शक्यते, तदोपसर्गगरहणमनर्थकं स्यात्, अन्यरहिताभ्यामित्येवं ब्रूयात्। तस्माद्विजातीयेन केवलग्रहणेन निवृत्तिः कर्त्तु शक्यते, तदोपसर्गग्रहणमनर्थकं स्यात्, अन्यरहिताभ्यामित्येवं ब्रूयात्। तस्माद्विजातीयेन सहितावपि तौ केवलावेवेत्यतिसुलभमित्यत्र कर्मप्रवचनीयसहितेनापि सुशब्देनोपसृष्टस्य भवत्येव प्रतिषेधः। यत्र तर्हि पूजातिक्रमणाभ्यामन्यत्र वृत्तिः, अतिशब्दसय तत्र कर्मप्रवचनीयसंज्ञा न भवति, तदा कथम्? इत्याह--`यदा तु' इत्यादि। पञ्चमीनिर्देशेऽप्येवमर्थं केवलग्रहणं कर्त्तव्यमिति; अन्यथा ह्यत्र व्यवधानाभावात् प्रतिषेधः प्रसज्येतेत्यभिप्रायः। ननु च प्रसुलम्भः--इत्येवमर्थं केवलग्रहणं कर्त्तव्यम्? नैतदस्ति; उक्तं हि भाषेय--`नैषोऽस्ति प्रयोगः' इति।।
69. विभाषा चिण्णमुलोः। (7.1.69)
`अलाभि' इति। लुङ्, `चिण्भावकर्मणोः' (3.1.66) इति चिण्, `चिणो लुक्' (6.4.104) इति तकारसय लुक्।
`अनुपसृष्टस्य' इति। उपसर्गेणासम्बदधस्येत्यर्थः।।
70. उगिदचां सर्वनामस्थानेऽघातोः। (7.1.70)
उगिति प्रत्याहारग्रहणम्--उक् इद् येषां तान्युगिन्ति, अङ्गविशेषणञ्चैतत्, अत आह--`उगितामङ्गानाम्' इति। अजिति प्रत्याहारस्य ग्रहणमेवेदं वा स्यात्, अञ्चतेर्वा लुप्तनकारस्य? तत्र यदि प्रत्याहारग्रहणं स्यात्, `नपुंसकस्य झलचः' (7.1.72) इत्यत्र सूत्रे पुनरज्ग्रहणं न कुर्यात्, तद्धि प्रत्याहाग्रहणम्, नाञ्चेः; झला साहचर्यात्। तस्मादञ्चतेरिदं ग्रहणमित्यालोच्याह--`अञ्चतेश्च' इत्यादि। `भवान्' इति। `अत्वसन्तस्य चाधातोः' (6.4.14) इति दीर्घः। `श्रेयान्' इति। प्रशस्यशब्दात् `द्विवचनविभज्योपपदे तरबीयसुनौ' (5.3.57) इतीयसुन्, `प्रशस्यस्य श्रः' (5.3.60) इति श्रादेशः, `प्रकृत्यैकाच्' (6.4.163) इति प्रकृतिवद्भावाट्टिलोपाभावः, `आद्गुणः' (6.1.87), `सान्तमहतः संयोगस्य' (6.4.10) इति दीर्घः। ननु चात्र नाङ्गमुगित्, किं तर्हि? प्रत्ययः? नैतदस्ति; अङ्गमप्युगिदेव। कथम्? अवयवावयवेनापि समुदायस्य सम्बन्धो भवत्येव, यथा--देवैदत्तस्याङ्गुलिरित्यत्र देवदत्तस्यावयवस्य हस्तस्य योऽवयवोऽङ्गुलिस्तेन देवदत्तस्य सम्बन्धः। तस्मादिहापि प्रत्ययस्यावयवो य उक् इत्संज्ञकस्तेनाङ्गस्यापि सम्बन्धोऽस्त्येवेत्यङ्गमप्युगिदेव। `प्राङ्' इति। प्राञ्चतति ऋत्विगादिसूत्रण (3.2.59) क्विन्, नुम्हल्ङ्यादि(6.1.68) संयोगान्तलोपौ (8.2.23), `क्विन्प्रत्ययस्य कुः' (8.2.62) इति कुत्वम्--नकारस्य ङकारः। `प्राञ्चौ, प्राञ्चः' इति। चुत्वम्--नकारस्य ञकारः।
अथाञ्चतिग्रहणं किमर्थम्, यावतोगित्त्वादेव तस्य नुम् सिद्धः? इत्यत आह--`अञ्चतिग्रहणम्' इत्यादि। उखास्रत्, पर्णध्वत्' इति। `स्रून्सु ध्वन्सु `अधः पतने' (धा.पा.754,755), [`अवस्रंसने'--धा.पा.] उखायां स्रंसते, पर्णानि ध्वंसते। `क्विप्च' (3.2.76) इति क्विप्, नलोपः, `वसुस्रंसुध्वंस्वनडुहां दः' (8.2.72) इति सकारस्य दकारः, तस्य `वाऽवसाने' (8.4.56) चर्त्वम्--तकारः।
`अधातोरिति किम्' इति। अञ्चतिग्रहणादेव नियमार्थाद्धातेर्न भवतीत्यभिप्रायः। अधातोरिति नायं प्रसज्यप्रतिषेधः, किं तर्हि? पर्युदास इति मन्यमान आह--`अधातुभूतपूर्वस्यापि यथा स्यात्' इति। पूर्वपक्षवादिनाऽधातोरिति प्रसज्यप्रतषेधोऽयमिति मन्यमानेन चोदितम्। सिद्धान्तवादिना पर्युदासेन परिहृतम्। `गोमत्यति' इति। गोमच्छब्दात् `सुप आत्मनः क्यच्ट (3.1.8)। `गोमत्यतेरप्रत्ययः' इति। अश्रावी प्रत्ययोऽप्रत्ययः, स पुनः क्विप्, `अतो लोपः' (6.4.48) इति दीर्घः--गोमान्। कस्मात् पुनरसत्यधातुग्रहणेऽत्र न सिध्यतीत्यत आह--`अत्र हि' इत्यादि। असत्यधातुग्रहणेऽञ्चतिग्रहणान्नियमाद्यथोखस्रदित्यादौ न भवति, तथात्रापि न स्यात्। भवति ह्ययमपि धातुः--सतद्यपि धातुत्वे क्विबन्तत्वे `क्विबन्ता धातुत्वं न जहति' (व्य.प.132) इति कृत्वा। तस्मादधातुग्रहणं क्रियते--योऽप्यवस्थान्तरेऽधातुरासीत् तस्य गरहणं यथा स्यात्। अथ गोमानिति कथमत्र दीर्घत्वम्? कथं च न स्यात्? अधातोरिति प्रतिषेधः, नात्वन्तस्य। अत्र ह्यधातोरिति किम्? पिण्डं प्रसत इति पिण्डग्रः, चर्म वस्त इति चर्मवः--इत्यसन्तस्यैव प्रत्युदाहरणमुपनयस्तम्, नात्वन्तस्य। अथ वा--चकारन्तत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन क्वचिद्धातोरयीति भविष्यति।।
71. युजेरसमासे। (7.1.71)
`युङ, युञ्जौ, युञ्जः' इति। पूर्ववत् क्विन्नादि।
`अश्वयुक्' इति। अश्वं युनक्तीति `सत्सूद्विष' (3.2.61) इत्यादिना क्विप्। कथं युजेर्नुब्युच्यमाने समासेऽपि स्यात्? तदन्तविधिना। कथमत्र तदन्तविधिः? एतेदेव ज्ञापकम्--अस्तीह तदन्तविधिरिति। उक्तञ्च--`अङ्गाधिकारे तस्य तदुत्तरपदस्य' (पु.प.वृ.85) इति वचनात्।
`युजेः' इत्यादि। इकारेण निर्देशो ह्येवमर्थः क्रियते--यस्य युजेरिकारोऽनुबन्धस्तस्य ग्रहणं यथा स्यात्, अन्यस्य मा भूदिति। तेन `युज समाधौ' (धा.पा.1177) इत्यस्य ग्रहमं न भवति, न हि तस्येकारोऽनुबन्धोऽस्ति। `युजम्' इति। सम्पदादित्वात्क्विप्। `आपन्नाः' इति। प्राप्ता इत्यर्थः।।
72. नपुंसकस्य झलचः। (7.1.72)
`पर्यासि, श्रोयांसि' इति। `सान्तमहतः संयोगस्य' (6.4.10) इति दीर्घः। `बहुपुरि, बहुधुरि' इति। बह्व्यः पुरः, बह्व्यो धुरो येषामिति बहुव्रीहिः। `ऋक्पुरब्धूः पथामानक्षे' (5.4.74) इत्यकारः समासान्तो न भवति--`समासान्तविधिरनित्यः' (व्या.प.94) इति कृत्वा। `विमलदिवि' इति। विमला द्यौर्येषामिति तानि। विमलदिवि वकारो दन्त्यौष्ठ्यो झल् न भवति, झलः पूर्वेण पठितत्वात्। `चत्वारि' इति। `चतुरनडुहोरामुदात्तः' (7.1.98) इत्याम्।
इह यदुगिन्नपुंसकं झलन्तं नुमि कृते `उगिदचाम्' (7.1.70) इत्यादिना द्वितीयो नुम् प्राप्नोति; सम्भवति हि विधानकालेनेकस्य परत्वम्, यथा--पचतीत्यत्र लकारविकरणयोरेकस्माद्धातोरिति। अत्र तुदन्ति, नदन्तीत्यत्र परसय नुमोऽनुस्वारे कृते तसय परसवर्णे च द्वयोर्नकारयोः श्रवणमापद्येत? भवतु नाम, हल्परस्य व्यञ्जनस्यैकस्यानेकस्य श्रुतिं प्रति नास्ति विशेषः शक्यते वक्तुम्। इह त्वस्ति विशेषः--कुर्वन्ति, कृषन्तीत्यत्र परस्य नुमोऽनुस्वारसवर्णयोः कृतयोः पूर्वस्याझल्परत्वादनुस्वारपरसवर्णौ न स्त इति अट्कुप्वादिना (8.4.2) णत्वं प्राप्नोति। एकस्मिंस्तु नुमि तस्यानुस्वारे परसवर्णे कृते न भवति णत्वप्रसङ्गः; परसवर्णस्यासिद्धत्वात्। तस्मादुगिल्लक्षणस्य नुमः प्रतिषेधो वक्तव्य इत्याह--`उगितो झलन्तस्य' इत्यादि। झलन्तलक्षणस्य नुमोऽवकाशो यदनुगिन्नपुंसकम्--सर्पीषीति, उगिल्लक्षणस्यावकाशो यदुगिदनपुंसकम्--गोमान् यवमानिति; यदुगिज्झलन्तं नपुंसकं तस्योभयप्रसङ्गे सति परत्वादनेनैव नुमा भवितव्यम्, तस्मिन् सति पुनरुगिल्लक्षणो नुम् न भवति--`सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेव' (व्य.प.40) इति कृत्वा। `भूयांसि' इति। बहुशब्दादीयसुन्, `बहोर्लोपो भू च बहोः' (6.4.158) इतीकारस्य लोपः, बहोश्च भूभावः। `कुर्वन्ति, कृषन्ति' इति। शत्रन्तात् `जश्शसोः शिः' (7.1.20) इति शिभावः।
`बहुर्जि' इत्यादि। बहूर्जीत्यस्मिन् नुभः प्रतिषेधो वक्तव्यः, व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्--`विभाषा चिण्णमुलोः' (7.1.69) इति विभाषाग्रहणमनुवर्त्तते, सा च व्यवस्थितविभाषा, तेन बहूर्जीत्यत्र न भवति। `उर्ज बलप्राणधारणयोः (धा.पा.1549) [`बलप्राणनयोः' धा.पा.] इत्येतस्मात् `भ्राजभ्रास' (3.2.177) इत्यादिना क्विप्, बहव ऊर्जो बलानि येषां तानि बहूर्जि ब्राह्मणकुलानि।
`अन्त्यात्पूर्वम्' इति। अन्त्यो जकारः, तस्मात्पूर्वं नुममिच्छन्ति केचित्--बहूर्ञ्जीति।।
73. इकोऽचि विभक्तौ। (7.1.73)
`विभक्तौ' इति वचनात् `सर्वनामस्थाने' (7.1.70) इति निवृत्तम्।
`अचीति किम्' इति। एवं मन्यते--त्रपुभ्याम्, त्रपुभिरित्यत्र व्यञ्जनादौ मा भूदित्येवमर्थमज्ग्रहणं क्रियते, एतच्चाप्रयोजनम्; अस्त्वन्न नुम्, `नलोपः प्रातिपदिकान्तस्य' (8.2.7) इति लोपो भविष्यति। इतरो विदिताभिप्राय आह--`उत्तरार्थम्' इति। `अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः' (7.1.75) इत्यजादौ यथा स्यात्, इह मा भूत्--अस्थिभ्याम्, अस्थिभिरिति, एवमर्थमज्ग्रहणम्। इहासय करणस्य यत्प्रयोजनं तन्मया पृष्टम्, अतस्तदेव कथ्यताम्? इत्यभिप्रायेणाह--`यद्येवम्' इत्यादि। इतरो विदिताभिप्राय आह--`इह तु करणस्य' इत्यादि। त्रपुशब्दात् सम्बोधने प्रथमैकवचने कृते यद्यचीति नोच्येत, तदात्रापि नुम् स्यात्, तदत्र नुम् मा भूदित्येवमर्थमचीत्युच्यते। स्यादेतत्--भवतु नाम नुम्, तस्य `स्वमोर्नपुंसकात्' (7.1.23) इति सोर्लुकि कृते `नलोपः प्रातिपदिकान्तस्य' (8.2.7) इति नलोपो भविष्यति? इत्याह--`न ङिसम्बुद्ध्योः इत्यादि।
`ननु च' इत्यादि। एवकारोऽत्र भिन्नक्रमः प्रतिषेधानन्तरं द्रष्टव्यः। स चौपचारिकमपि दिभक्तेरस्तित्वम् `न लुमताङ्गस्य' (1.1.63) इति प्रतिषेधान्नास्तीति प्रतिपादयति। द्विविधं हि विभक्तोरस्तित्वम्--मुख्यम्, औपचारिकञ्च। तत्र मुख्यं श्रूयमाणाया विभक्तेर्भवति, इतरत् तु लुप्ताया अपि। कार्यस्यास्तित्वाद्विभक्तेरप्युपचारेणास्तित्वमुच्यते, यथा--अस्त्यतीतं कर्मेति तत्रातीतेन कर्मणा यदाहितं फलदानसामर्थ्यं तस्यस्तित्वात् तत् कर्मान्तीत्युच्यते। तदिह `स्वमोर्नपुंसकात्' (7.1.26) इति विभक्तेर्लप्तत्वान्मुख्यं तावदस्तित्वं नास्ति। `न लुमताङ्गस्य' (1.1.63) इति प्रत्ययलक्षणप्रतिषेधादौपचारिकमपि नास्त्वेव। तत्र विभक्तावुच्यमानो नुम् कः प्रसङ्गो यः सर्वथैवासत्यां विभक्तौ हे त्रपो इत्यत्र स्यात्! नैव प्राप्नोति; तस्मान्नैतदज्ग्रहणस्य प्रयोजनम्। `एतदेव' इत्यादि। यदि ह्यत्र प्रत्ययलोपलक्षमप्रतिषेधः स्यात्, अज्ग्रहणमनर्थकं स्यात्, कुतश्च, तस्मादेतदेवाज्ग्रहणं ज्ञापयति--प्रत्ययलोपलक्षणप्रतिषेधोऽत्रेगन्ते नपुंसके सम्बुद्धिविषये नास्तीति। `तथा च' इत्यादिना ज्ञापकस्य प्रयोजनमाह। सम्बुद्धिविषयो गणः `सम्बुद्धौ च' (7.3.106) इति वर्त्तमाने यः `ह्रस्वस्य गुणः' (7.3.108) इत्यनेन गुणः स वेदितव्यः।
`तौम्बुरवं चूर्णम्' इति। तुम्बुरुणो विकारः `औरञ् (4.2.71), `ओर्गुणः' (6.4.146)।
क्वचित्--`इकोऽचि व्यञ्जने मा भूवस्तु लोपः स्वरः कथम्' इत्यादिकं श्लोकद्वयं पठ्यते। `इकोऽचि विभक्तौ' (7.1.73) इत्यत्राचीति किमर्थमुच्यते, न `इको विभक्तौ' इत्येवोच्येत? प्रयोजनमाह--`व्यञ्जने मा भूत्' इति। प्रकरणान्नुमिति विज्ञायते। त्रपुभ्याम्, त्रपुभिरित्यत्र व्यञ्जनादौ मा भूदित्येवर्थमज्ग्रहणं क्रियते। यद्येवम्, नार्थस्तेन, व्यञ्जनादौ नुमस्तु, न च तस्य श्रवणं प्रसज्यते; यस्मात् `नलोपः प्रातपदिकान्तस्य' (8.2.7) इति नलोपो भविष्यति। पञ्चत्रपुभ्याम्, पञ्चत्रपुभिरित्यत्र कथं स्वरः? पञ्चभिस्त्रपुभिः क्रीताभ्यां क्रीतैर्वेति `तद्धितार्थोत्तरपदसमाहारे च' (2.1.51) इति तद्धितार्थे समास; `संख्यापूर्वो द्विगुः'(2.1.52) इति द्विगुसंज्ञा, `आर्हादगोपुच्छ' (5.1.19) इत्यादिना ठक्, तस्य `अध्यर्द्धपूर्वद्विगोर्लुगसंज्ञायाम्' (5.1.28) इति लुक्, ततो विभक्तो नुम्, नकारलोपः, तस्य `नलोपः सुप्सवरसंज्ञातुग्विधिषु कृति' (8.2.2.) इत्यसिद्धत्वात् `इगन्तकालकपालभगालशरावेषु द्विगौ' (6.2.29) इत्यनेन पूर्वपदप्रकृतिस्वरो न प्राप्नोति; अनिगन्तत्वात् `भ्रः संख्यायाः' (फि.सू.2.28) इत्याद्युदात्तत्वं स्यात्। `भ्रः' इति नकाररेफान्तयोग्रहणमिति। `खरो षै' इत्यादि। वैशब्दोऽक्षमायाम्। पञ्चत्रपुण इत्यत्र श्रूयमाणे नुमि स्वरो भवति। `लुप्ते किं न भविष्यति' ? (इति)। भविष्यत्येवेत्यर्थः। किं पुनः कारणं श्रूयमाणे नुमि स्वरो भवति? स्वरविधौ व्यञ्जनस्यादिद्यमानत्वात्। अथ वा--समुदायभक्तो ह्यसौ नुम् नोत्सतेऽवयवस्य त्रपुशब्दस्येगन्ततां विहिन्तुम्।
इह तर्हि रायमतिक्रान्ताभ्यां ब्राह्मणकुलाभ्याम्--अतिराभ्यामिति `कुगतिप्रादयः' (2.2.18) इति समासे कृते `ह्रस्वो नपुंसके प्रातिपदिकस्य' (1.2.47) इति ह्रस्वत्वे च कृते यदि व्यञ्जनादौ नुम् स्यात्, तदा तस्य लोपे कृते नलोपस्यासिद्धत्वात् `रायो हलि' (7.2.85) इति हलादावुच्यमानमात्वं न प्राप्नोति, नुमा व्यवदानात्, समुदायभक्तोऽसौ समुदायमेव न व्यवदव्यात्, अवयवं तु व्यवदधात्येव। तथा प्रियास्तिस्रोऽनयोर्ब्राह्मणकुलयोरिति बहुव्रीहौ कृते प्रियतिसृभ्यामिति--यदि व्यञ्जनादौ नुम् स्यात्, तदा `त्रिचतुरोः स्त्रियां तिसृचतसृ' (7.2.99) इत्यनेन तिस्रादेशो न प्राप्नोति, समुदायभक्तेन नुमा त्रिशब्दस्य व्यवधानात्? नैतदस्ति;
`रायात्वं तिसृबावं [`तिसृभावश्च'--मूलपाठः] च व्यवधानान्नुमापि हि' (इति)। भवतीति शेषः। व्यवधानादिति ल्यब्लोपे पञ्चमी, यथा--प्रासादात् प्रेक्षत इति। प्रासादमारुह्येत्यर्थः। तदयमर्थः--नुमा व्यवधानमपि प्राप्य राय आत्त्वं तिसृभावञ्च भवतीति। कस्मात् पुनर्व्य्रवधाने तौ भवतः'? `रायो हलि' (7.2.85) इत्यत्र रायो या विहिता विभक्तिः, त्रिशब्दाच्च या विहिता विभक्तिस्तस्यामिति विहितविशेषणपक्षस्य तत्रश्रयणात्। अथ वा--किं व्यवधानचिन्तया, परत्वादेव हि तौ भविष्यतः, तयोस्तु कृतयोः `सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेव' (व्या.प.40) इति पुनर्नुम् न भवति। नुम्परत्वमनङ्गीकृत्य `व्यवधानान्नुमापि हि' इत्युक्तम्। अत एवापिशब्दः पक्षान्तरद्योतनाय प्रयुक्तः। व्यवधाने च यथा भवति, तथोक्तमेव। एवं तर्हि नुम्नुटोर्विप्रतिषेधार्थमज्ग्रहणमिति नुटि कृते नुम्न क्रियते। `ह्रस्वनद्यायो नुट्' (7.1.54) इति अस्यावकाशः--अग्नीनाम्, वायूनमिति, इगन्तनुमोऽव काशः--त्रपुणे, जतुन इति; इहोभयं प्राप्नोति--त्रपूणाम्, जतूनामिति, पूर्वविप्रतिषेधे नुडागमो भवति, नुटि च सति `नामि' (6.4.3) इति दीर्घत्वं प्राप्नोति, अस्मिंस्तु सति न स्यात्; अनजन्तत्वात्, यथा--वर्मणामित्यत्र। स चायं विप्रतिषेधोऽज्ग्रहणे सत्युपपद्यते। नुटि कृते नुम् न प्राप्नोति; अनजादित्वात्। नुम्यपि कृते नुण्न प्राप्नोति, ह्रस्वान्ताभावादित्येवमभयोस्तुल्ययोर्विप्रतिषेध उपपद्यते। अक्रियमाणेऽज्ग्रहणे नुटि कृतेप्यकृतेऽपि हलादावजादौ च नुमा भवितव्यमिति तस्य नित्यत्वम्। नुमि कृते ह्रस्वान्तत्वाभावान्नुटा न भवितव्यमिति तस्यानित्यत्वम्। नित्यानित्ययोश्चातुल्यबलत्वादयुक्तो विप्रतिषेध इति नित्यत्वान्नुमैव भवितव्यमिति। तस्मादज्ग्रहणं विप्रतिषेधार्थमिति।
अत्र परीहारान्तरमाह--`नुड् वाच्यः' इति। लाघवार्थम्। नुडर्थः पूर्वविप्रतिषेधः। तादर्ध्यन्नुदित्युक्तः। क्रियमाणेऽप्यज्ग्रहणे विप्रतिषेदेन नुमेव प्राप्नोति, ततोऽवश्यं पूर्वविप्रतिषेधेन नुड् वाच्यः--`नुमचिरतृज्वद्भावेभ्यो नुङ् भवति पूर्वविप्रतिषेधेन' (वा.11;7.1.96) इति। क्रियमाणेऽप्यज्ग्रहणे पूर्ववप्रतिषेधो वक्तव्यः। अक्रियमाणे तस्मिंस्तेनैव यत्नेन नुड् भविष्यतीति किं यत्नद्वयेन, तस्मादज्ग्रहणमनर्थकम्? ननु चेष्टवाची परशब्दः, इष्टवाचित्वाद्भविष्यति, अलं यत्नेन/ असदेतत्, अवश्यं पूर्वविप्रतिषेधः परिगणयतव्यः, अन्यथेदमिष्टमिदमनिष्टमित्येतदेव न ज्ञायते। ननु च त्रपूणामित्यत्र पूर्वविप्रतषेधेन नुटि कृते नुम् मा भूदित्येवमर्थमज्ग्रहणं कर्त्तव्यम्? नैतदस्ति; अस्त्वत्र नुम् तस्य लोपो भविष्यति। नलोपस्य दीर्घविधावसिद्धत्वात् `नामि' (6.4.3) इति दीर्घत्वमनजन्तत्वान्न स्यादिति चेत्? मा भूदनेन, `नोपधायाः' (6.4.7) इत्यनेन भविष्यति। इह तर्हि शुचीनामित्यतर "इन्हन्पूषार्यम्णां शौ" (6.4.12) इति नियमाद्दीर्घत्वं न स्यात्? नैतदस्ति; लक्षणप्रतिपदोक्तपरिभाषया (व्य.प.3) प्रतिपदोक्तस्येन्नन्तस्य स नियमः। अयञ्च नुमि कृते सतोन्नन्त इति लाक्षणिकत्वादेवास्य नियमेन प्रत्याख्यानं करिष्यते। एवं प्रत्याख्यातेऽज्ग्रहणे अत उत्तरतोऽज्ग्रहणस्य प्रयोजनं दर्शयितु माह--`उत्तरार्थं तु' इति। तुशब्दस्तर्ह्यर्ते। तर्हिशब्दः पक्षान्तरोपन्यासे। यद्येतत् प्रयोजनं नोपपद्यते, उत्तरार्थं तर्ह्यज्ग्रहणं कर्त्तव्यम्।
`इह तु करणस्य यत्प्रयोजनं तदुच्यताम्? इत्याह--`इह' इत्यादि। अपिशब्दोऽत्र गम्यमानार्थत्वान्न प्रयुक्तः। इहापि प्रयोजनमस्ति, किं पुनस्तत्? इत्याह--`त्रपो' इति। हे त्रपो इत्यस्योदाहरणस्य साधुत्वार्थमज्ग्रहणम्। अक्रियमाणे त्वज्ग्रहणे प्रत्ययलोपलक्षणमिहास्तीति न ज्ञाप्येत; यतश्च हे त्रपो इत्यत्र लुपतायां सम्बुद्धावुच्यमानो गुणो न स्यात्, अज्ग्रहणे सत्यत्रापि प्रत्ययलोपलक्षणो भवति। तस्मादेतदर्थमज्ग्रहणं कर्त्तव्यम्, उत्तरार्थञ्च।।
74. तृतीयादिषु भाषितपुंस्कं पुंवदूगालवस्य। (7.1.74)
`इगन्तं नपुंसकम्' इति। नपुंसकस्येक इत्यनुवर्त्तते। तच्च यद्यपि षष्ठ्यन्तं प्रकृतम्, तथाप्येतदर्थाद्विभक्तिविपरिणामो भवतीति प्रथमान्तं सम्पद्यते। `पुंवद्भवति' इति। अस्यार्थं स्पष्टीकर्त्तुमाह--`यथा' इत्यादि। कथं पुनः `पुंवद्भवति' इत्यनेन प्रतिषेधातिदेशः शक्यते वक्तुम्। एवं मन्यते--पुंसि तृतीयादिष्वजादिषु न किञ्चित् कार्यं विधीयते यन्नपुंसकेऽतिदश्येत। तस्मान्नपुंसकाश्रयस्य कार्यस्य पुंस्यभावात् प्रतिषेधातिदेश एवायं विज्ञायते। एवमपि नुम् एव प्रकृतस्याभावातिदेशः पक्षे स्यात्, ह्रस्वस्य; तस्याप्रकृतत्वात्, ततश्च ह्रस्वाश्रयाणि गुण नाभाव नुडौत्त्वात्त्वानि प्रसज्येरन्--`घेर्ङिति' (7.3.111) इत्यौत्त्वात्त्वम्--ग्रामण्यां ब्राह्मणकुल इति? नैतदस्ति; नुमभावमात्रातिदेशे ह्यतिदेश एवानरथकः स्यात्। नुम एव गालवस्य मतेन प्रतिषेधं कुर्यात्। तस्मादतिदेशासामर्थ्याद् ह्रस्वाभावोऽप्यतिदिश्यते। `ग्रामणीर्ब्राह्मणः, ग्रामाणि ब्राह्मणकुलम्' इति। भाषितपुंस्कत्वदर्शनार्थमिदमुक्तम्, न तूदाहरणम्। इदमत्रोदाहरणम्--`ग्रामण्या ब्राह्मणकुलेन' इति। अत्र पुंवद्भावेन ह्रस्वो न भवति, नुमपि। `एरनेकाचः' (6.4.82) इति ह्रस्वत्वम्, `आङो नाऽस्त्रियाम्' (7.3.120) इति नाभावः। `ग्रामणीनाम्' इति। पूर्वविप्रतिषेधेन नुटि कृते `नामि' (6.4.3) इति दीर्घत्वम्।
न्नुचिशब्दस्य तृतीयैकवचनं नोदाहृतम्; विशेषाभावात्। सत्यसति वा पुंवद्भावे `आङो नाऽस्त्रियाम्' (7.3.120) इति नाभावेन भवितव्यम्। `शुचये' इति। पुंवद्भावपक्षे न नुम्, `घेर्ङिति' (7.3.111) इति गुणः। `शुचिने' इति। पुंवद्भावाभावपक्षे नुम्।
`ग्रामणिनी ब्राह्मणकुले' इति। पुंवद्भावाभावादिह ह्रस्वनुमौ भवतः। `त्रपुणे, जतुने' इति। सर्वकालं नपुंसकत्वमेवानयोरिति भाषितपुंस्कत्वाभावः। तेनात्र पुंवदेभावाभावान्नुम्भवत्येव।
`इह कस्मान्न भवति' इति। भाषितपुंस्कशब्दस्य बहुव्रीहेः शब्दोऽन्यपदार्थः। पोलुशब्दश्चायं पुंसि वृक्षे वर्त्तित्वा पीलोर्विकारः फलमिति विवक्षिते सति `ओरञ्' (4.2.71) इत्यागतस्याञः `फले लुक्' (4.3.163) इति लुक् क्रियते, तदा नपुंसके फले वर्त्तत इति भाषितपुंस्को भवति, न चेह कश्चिद्विशेष उपात्तः, तस्माद्भवितव्यमेदात्र पुंवद्भावेनेति मन्यमानस्य प्रश्नः। `समानायामाकृतौ' इत्यत्तरम्। अस्यैवार्थं स्पष्टीकर्त्तुमाह `तुल्य प्रवृत्तिनिमित्ते' इति। अत्र `तस्य पुंवद्भावो विधीयते' इत्यध्याहार्यम्। आक्रियेते व्युत्पाद्येते परिच्छिद्येते अनया वृद्धिशब्दादिति `आकृतिः'। शब्दस्य प्रवृत्तिकारणमिहाकृतिरभिप्रेता, न सन्निदेशः, नापि जातिमात्रम्। तस्मिंस्तु तुल्ये प्रवृत्तिनिमित्ते यद्भाषितपुंस्कं तस्य पुंवद्भावो विधीयते। तथा च--ग्रामणीशब्दस्य, शचिशब्दस्य च समासे प्रवृत्तिनिमत्ते पुंवद्भाव उदाहृतः, यथा--ग्रामणीशब्दस्य पुंसि नपुंसके च वर्त्तमानस्य ग्रामनयनं प्रति कर्त्तुत्वं समानाकृतिः प्रवृत्तिनिमित्तम्। शुचिशब्दस्यापि शुचित्वं गुणः तत्रैवैतत् स्यात्। इहापि समानैवाकृतिः? इत्याह--`इह तु' इत्यादि। तु शब्दो ग्रामणीशब्दादेर्विशेषं दर्शयति। अनेन पीलुशब्दस्य भिन्नायामाकृतौ भाषितपुंस्कत्वं दर्शयति। वृक्षाकृतिः=वृक्षजातिः। फलाकृतिः=फलजातिः। तदेवं समानायामाकृतौ यद्भाषितपुंस्कं तस्य पुंदद्भावो विधीयते। न तु पीलुशब्दः समानायमाकृतौ भाषितपुंस्क इति न भवति तस्य पुंवद्भावः। `तदेतदेवम्' इत्यादि। यदेतदुक्तम्--`समानायमाकृतौ' इत्यादि, तदेतदेवम्प्रकारमर्थरूपं कथम्भवति? न कथञ्चिदित्यर्थः। `समानायामाकृतौ' इत्यस्य विशेषस्यानुपादानादित्यभिप्रायः। `भाषितपुंस्कग्रहणात्' इत्यादिना यथैतदेव भवति तथा दर्शयति। शब्दे ह्यन्यपदार्थे समाश्रीयमाणे सत्येतन्नोपपद्यते। न चात्र शब्दोऽन्यपदार्थत्वेनाश्रितः, किं तर्हि? अर्थः। सोऽपि न सर्वः, अपि तु प्रत्यासत्तेर्यस्य शब्दस्य यत् प्रवृत्तिनिमित्तं स एव विज्ञायत इति स एव भाषितपुंस्कशब्दोनोच्यते; अन्यथा सर्व एव ह्यर्थो भाषितपुंस्को भवति, अन्ततोऽर्थशब्देनापि भाषितपुंस्कत्वसम्भवात्। तत्र यदि येन केनचिच्छब्देन यो भाषितपुंस्कः स इहाश्रीयते, तदा भाषितपुंस्कग्रहणमनर्थकं स्यात्; व्यावर्त्त्याभावात्। तस्माद्यस्य नपुंसकाभिधायिनः शब्दस्य पुंवद्भाव इह विधातुमिष्टस्तेनैव स्वमिन् प्रवृत्तिनिमित्ते पुमान् भाषितः, स एव भाषितपुंत्कोऽत्राक्षीयते। `तेद्योगात्' इत्यादि। तेन प्रवृत्तिनिमित्तलक्षणेनार्थेन योगात् सम्बन्धादभिधेयं यन्नपुंसकं तदपि भाषितपुंस्कमितयुच्यते। भवति हि तद्योगात् ताच्छब्द्यम्, यथा--यष्टीः प्रवेशयेति। योगः पुनरत्र समवायसमवायिलक्षणः; शब्दप्रवृत्तिनिमित्तस्यार्थस्य नपुंसकेन समवायात्। `यत् तस्य' इत्यादि। तस्य नपुंसकस्य यत् प्रतिपादकं शब्दरूपं तदापि भाषितपुंत्केन नपुंसकेन योगाद्भाषितपुंस्कमित्युच्यते। योगः पुनरनयोर्वाच्यवाचकभावः। तत्र यद्यपि सूत्रेऽर्थो भाषितपुंस्कशब्देनोपात्तः, तथाऽप्यर्थे कार्यासम्भवात् यथोक्तन प्रकारेण यो भाषितपुंस्कः शब्दस्तस्यैवायं पुंवद्भावो विधीयते, एवञ्च स विधीयमानः समानायामाकृतौ यो भवितपुंस्कः शब्दः सामर्थ्यात् तस्य भवतीति विज्ञायते। यो ह्येवं भाषितपुंस्केन शब्दप्रवृत्तिनिमित्तेन सम्बद्धं नपुंसकमाह स नियोगतः समानायामाकृतौ भाषितपुंस्को भवति। यथा स एव ग्रामणीशब्दः, शुचिशब्दश्च। पीलुशब्देन यत्र भाषितः पुमान् प्रवृत्तिनिमित्ते वृक्षाकृतौ न तत्सम्बद्धमसौ नपुंसकमाह। किं तर्हि? फलाकृतिसम्बन्धम्। तस्मात् पीलुशब्दो न समानायामाकृतौ भाषितपुंस्क इति न भवति तस्य पुंवद्भावः। `कीलालपा' इति। `अतो मनिन्क्वनिब्वनिपश्च' (3.2.74) इति विच्। कोलालपाशब्दोऽयं समानायामाकृतौ भाषितपुंस्कः--उभयत्रापि वर्त्तमानः कीलालपात्वं प्रवृत्तिनिमित्तमादाय प्रवर्त्तत इति कृत्वा। इगन्तस्तु न भवतीति न भवति पुंवद्भाव; तेन ह्रस्वत्वं भवत्येव। तस्मिन् सतदि `टाङसिङसामिनात्स्याः' (7.1.12) इतीनादेशे कृते कीलालपेनेति भवति। यदि पुनरत्र पुंवद्भावः स्यात् तदा ह्रस्वत्वं न स्यात्, ततश्च `आतो धातोः' (6.4.140) इत्यकारलोपे कृते कोलालापेति स्यात्।।
75. अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः। (7.1.75)
`इकोऽचि विभक्तौ' (7.1.73) इति नुमि प्राप्तेऽस्ध्यादीनामनङ विधीयते। ङकारोऽन्त्यादेशार्थः। अकार उच्चारणार्थः। अस्थ्यादयश्चैते `नब्विषयस्यानिसन्तस्य' (फि.सू.2.26) इत्याद्युदात्ताः, शेषमनुदात्तम्। तत्रानङ् विधीयमानः स्थानिवद्भावादनुदात्तत्वं प्राप्नोतीत्युदात्तत्वामुच्यते--नब्विषयस्येति। नपुंसकविषयस्येत्यर्थः। `अस्थ्ना' इति। अनङि कृते `अल्लोपोऽनः' (6.4.134) इत्यकारलोपः।
`एतैः' इत्यादि। कथं पुनरोतल्लभ्यते, यावता प्रकृतस्यास्थ्यादिभिर्विशेषणाद्विशेषणेन तदन्तविधिरिति विज्ञानात् `अङ्गाधिकारे तस्य सदुत्तरपदस्य' (पु.प.वृ.85) इति वचनाद्वा यद्यपि तदन्तविधिर्भवति, तथापि सत्यपि तस्मिन्नस्थ्याद्यन्तत्यानपुंसकस्य ग्रहणं नोपपद्यते, नपुसकस्येत्यनुवृत्तेः? नैष दोषः; न ह्यत्र नपुंसकेनाङ्गं विशिष्यते, अपि तु श्रुतत्वादस्थ्यादय एव। एवञ्च तदन्तस्याङ्गस्य लिङ्गान्तरेपि वर्त्तमानस्यास्थ्यादीनां नपुंसकत्वं विद्यत एव। तेन नपुंसके ये वर्त्तन्तेऽस्थ्यादयस्तदन्तस्यानपुंसकेऽपि वर्त्तमानस्य ग्रहणमुपपन्नं भवति। यदि तर्हि तदन्तस्य ग्रहणम्, केवलानां न सिध्यति? अयमप्यदोषः; व्यदेशिवद्भावात् केवलानां न भविष्यति। `व्यपदेशिवद्भावोऽयतिपदिकेन' (शाक.प.65) इत्येषा परिभाषा प्रत्ययविधिविषयेतीह नोपतिष्ठत एव।
नपुंसकेनास्थ्यादिविशेषणं किम्? यदा ते पदुच्छाशब्दाः सन्तोऽपि लिङ्गान्तरे वर्त्तन्ते तदा मा भूत्--दधिर्नाम कश्चित् तेन दधिनेति।।
76. छन्दस्यपि दृश्यते। (7.1.76)
`यतो विहितः' इत्यादिनाऽपिशब्दस्य सर्वोपाषिण्यभिचारार्थतां दर्शयति। `अस्थभिः' इति। अनङि कृते नलोपः। `अस्थान्युत्कृत्य' इति। शस्यनङ्। `अक्षण्वता' इति। अत्रापि मतुपि `अनो नुट्' (8.2.16) इति नुल्यम्। द्वितीयान्तमेतत्। `यदनस्थः' इति। अस्थि यसय नास्तीति सावनङ, `सर्वनामस्थाने च' (6.4.8) इति दीर्घः।।
77. ई च द्विवचने। (7.1.77)
चकारश्छन्दसीत्यनुकर्षणार्थः। `अक्षी ते' इति अक्षि औ इति स्थिते `नपुंसकाच्च' (7.1.19) इति शीभावः, ईकारे कृते `प्रथमयो पूर्वसवणः' (6.1.102) इती दीर्घः, `दीर्घाज्जसि च' (6.1.105) इति प्रतिषिद्धोऽपि छान्दसत्वाद्भवति। ननु सवर्णे दीर्घत्वेनाऽप्येतत् सिद्ध्यति? यद्यपि रूपं सिद्ध्यति, उदात्तत्वं तु न सिध्यति। एतेनोदत्त ईकारो विधीयते। अथ वा--रूपमपि न सिध्यति। पूर्वसवर्णाद्धि परत्वात् पूर्वं नुमि कृते नैव सवर्णदीर्घः स्यात्। अथाक्षी इत्यत्र `इकोऽचि विभक्तौ' (7.1.73) इति नुम् कस्मान्न भवति? इत्याह--`अक्षी इत्यत्र' इत्यादि। नुमोऽवकाशः--त्रपुणे, जतुन इति इकरस्यावकाशः--अक्षीभ्यमिति; प्रथमाद्विवचन उभयप्रसङ्गे परत्वादीकार एव भवति। अथेदानोमीकारे कृते पुनःप्रसङ्गविज्ञानान्नुम् कस्मान्न भवति? इत्याह--`सकृद्गतो इति।।
78. नाभ्यस्तच्छतुः। (7.1.78)
`उदत्त, ददत्तौ' इति। `श्नभ्यस्तयोरात्तः' (6.4.112) इत्याकारलोपः। अक्षितिजागर्त्त्याः `जक्षित्यादयः षट्' (6.1.6) इत्यभ्यस्तसंज्ञा।
कथं पुनरयं नुमः प्रतिषेधो विज्ञायते, यावता `अनन्तस्य विधिर्वा भवति प्रतिषेधो षा' (व्या.प.19) इतीकारस्य प्रतिषेधो युक्तः? इत्याह--`शतुरनन्तरः' इत्यादि। लक्षणान्तरेण विहितस्य प्रतषेधो भवति, न तु शतुरनन्तर ईकारः केनचिद्विहितः। अङ्गस्येति वर्त्तते, न च नुमोऽन्यत् कार्यं शतुः सम्भवति। अतः सामर्थ्याद्व्य वहितस्यापि `उगिवचाम्' (7.1.70) इति नुमः प्रतिषेधो विज्ञायत इति।।
79. वा नपुंसकस्य। (7.1.79)
शतुप्रत्ययमात्रं नपुंसके न वर्त्तत इत्यभ्यस्तादह्गादुसरो यः शता तदन्तस्य नपुंसकस्य विकल्पो विज्ञायत इत्याह--`अभ्यास्तादङ्गात्' इत्यादि।।
80. आच्छीनद्योर्नुम्। (7.1.80)
`तदुन्ती कुले' इति। `नपुंसकाच्च' (7.1.19) इति शीभावः। `तुदती ब्राह्मणी' इति। `उगितश्च' (4.1.6) इति ङीप्, `याती ब्राह्मणी' इति। अवादित्वाच्छपो लुक्, `उगितश्च' (4.1.6) इति ङीप्। `करिष्यन्ती कुले' इति। `लृटः सद्वा' (3.3.14) इति शत्रादेशः, `ऋद्धनोः स्ये' (7.2.70) इतीट्।
`अत्रान्तरङ्गत्वात्' इत्यादि चोद्यम्। अकारान्तादङ्गात् परे शतरि व्यवस्थिते ईकारे च किं नुम् क्रियताम्? उत्तैकादेशः? अत्रान्तरङ्गत्वात् `अतो गुणे' (6.1.97) पररूपमेकादेशः। अन्तरङ्गत्वं पुनस्तस्य वर्णाश्रयत्वाकत् नुमस्तु बह्वपेक्षत्वाद्वहिरङ्गत्वम्। स ह्यकरान्तमङ्गं शतृप्रत्ययान्तं ततश्च परतः शीनद्योर्भावमपेक्षते। `वार्णादाङ्गम्' (व्य.प.39) इत्यादीह नास्ति; भिन्नकालत्वात्--शीनद्योर्हि परभावे सति नुम् प्राप्नोति, एकादेशस्तु ततः प्रागेव। `यत्र च वार्णाङ्गयोर्युगपत् प्राप्तिः, तत्रेयमुपतिष्ठते' इत्युक्तं प्राक्। व्यपवर्गाभावादवर्णान्तादङ्गादुत्तरस्य शतुरिति शक्यते वक्तुम्। भेदे हि सत्यवध्यवश्रिमतोरिदमस्मादुत्तरमिदञ्च पूर्वमित्येव व्यवहारो भवति, नान्यथा। स्यादेतत्--`अन्तादिवच्च' (6.1.85) इत्यन्तादिवदभावेनैकादेशः पूर्वं प्रत्यन्तवद्भवति परञ्च प्रत्यादिवदित्येकादेशस्य पूर्वं प्रत्यन्तत्त्वात् परञ्च प्रत्यादिवत्त्वाद्युज्यत एवावर्णादङ्गादुत्तरस्य शतुः? इत्याह--`उभयत आश्रये' इत्यादि। अत्र ह्यकारान्तमङ्गं शता चोभयमाश्रितम्। `उभयत आश्रये' इत्यादि। अत्र ह्यकारन्तमङ्गं शता चोभयमाश्रितम्। `उभयत आश्रये नान्तादिवत्' (व्या.प.51) इति नास्त्यन्तादिवद्भावः। न ह्येकस्यैकदा पूर्वं प्रत्यन्तवद्भावः परञ्च प्रत्यादिवद्भाव उपपद्यते। तथा हि--यदि पूर्वं प्रत्यन्तवद्भवति, तदा शतृरूपं न सम्पद्यते; अथ परं प्रत्यादिवद्भवति, तदाऽकारान्तताऽङ्गस्य न परिकल्प्यते; उच्यते चेदमाच्छीनद्योर्नुमिति, न चवर्णान्तादङ्गादुत्तरः शता क्वचित् सम्भवति; तत्र वचनप्रामाण्याद्भूतपूर्वगतदिराश्रीयते--अवर्णान्तादुत्तरो यः शत पूर्वमासीदिति। अत आह--`भूतपूर्वगत्या' इत्यादि। यदि हि भूतपूर्वगतिराश्रीयते, अवती, ध्नतीत्यादावतिप्रसङ्गः स्यात्; अत्राप्यवर्णान्तादङ्गादुत्तरः शता पूर्वमासीत्? इत्याह--`अत्र केचित्समाधिमाहुः' इति। समाधिः=परीहारः। परीहारश्च--शतुरवयव इति। शतुरवयवस्तकारः। तत्रेह शतृशब्दो वर्त्तते, यथा--पटो दन्ध इत्यत्र पटावयवे पटशब्दः, समुदायेषु प्रवृत्ताः शब्दाः क्वचिदवयेष्वपि वर्त्तन्त इति। स च शत्रवयव एकादेशे हि कृतेऽवर्णान्तादङ्गादुत्तरो भवतीति `अन्तरङ्गत्वादेकादेशे कृते' इत्यादिना यत् कृतञ्चोद्यं तत् परिहृतं भवति। किं पुनरनच्कसय तकारस्य नुम्? रुथञ्च नुम् स्यात्? कथञ्च न स्यात्? `मिदचोऽन्त्यात् परः' (1.1.47) इति वचनात्। मा भूत् तकारस्य, तदन्तस्य भविष्यति। एवञ्च सूत्रार्थं वर्णयिष्यामः--अवर्णान्तादङ्गादुत्तरो यः शत्रवयवस्तदन्तस्याङ्गस्य नुम् भवतीति। अङ्गग्रहणञ्च द्विरावर्त्तयिष्यामः-- अवर्णान्तादङ्गदुत्तरो यः शत्रवयवस्तदन्तस्याङ्गस्य नुम् भवतीति। अङ्गग्रहणञ्च द्विरावर्त्तयिण्यामः--शत्रवयवविशेषणार्थम्, अङ्गकार्यप्रतिपत्त्यर्थञ्च। कथं पुनस्तुदतीत्यादी तकारात् पूर्वस्याङ्गत्वम्, यावता यतः प्रत्ययो विहितस्तदादेः प्रत्यये परतोऽङ्गसंज्ञा, न च तकारः प्रत्ययः असत्याञ्चाङ्गसंज्ञायां यदुक्तमवर्णान्तादङ्गादुत्तरो यः शत्रवयव इति तन्नोपपद्यते? नैष दोषः; यथैव हि शत्रवयवे शतृशबदो वर्त्तते, तथाङ्गवयवे तकारात् पूर्वस्मिन्नङ्गशब्दः। किं पुनस्तदङ्गम्? यस्यावयवः शत्रन्तम्। तस्य हि शौनद्योः परतोऽङ्गत्संज्ञा विधीयते।
इहापि तर्हि कस्मान्न भवति--अदती, ध्नतीति, अत्रापि ह्यवर्णान्तादङ्गादुत्तरः शत्रवयदो भवति? यद्यत्रापि स्यात्, आदिति विशेषणमनर्थकं स्यात्, शीनद्योरित्येवं ब्रूयात्। यत्र च शीनद्योः परतः शत्रन्तमङ्गं भवति, तत्र नियोगत एवाकारान्तादङ्गादुसरो शत्रवयवो भवति। तस्मात् `आतः' इति विशेषणोपादानसामर्थ्यात् विशेषपरिग्रहो विज्ञायते--शत्रवयवदकारात् पूर्षो योऽकारस्तदन्तादुत्तरो यः शत्रवयव इति नेह नुमः प्रसङ्गः। `अवर्णान्तादङ्गादुत्तरे ये शीनद्यौ' इति। अत्रापि पूर्ववदङ्गावयवेऽङ्गशब्दो वर्त्तते। ननु च तुदन्तीत्यादाववर्णान्तादङ्गादुत्तरे शीनद्यौ न सम्भवत एव; तकारेण व्यवधानात्? इत्याह--`तत्र येन' इत्यादि। गतार्थम्। अथ नुम्यनुवर्त्तमाने किमर्थ पुनर्नुम्ग्रहणम्? नेति, वेति च प्रकृतम्। तत्र नुम्ग्रहणमन्तरेणानिष्टमपि विज्ञायते--शीनद्योर्विभाषा नुमवर्णान्तान्न भवतीति। किञ्च स्यात्? कुर्वती, तन्वतीत्यत्र विभाषा स्यात्, करिष्यन्तीत्यत्र न स्यात्। केन पुनः प्राप्तस्य नुमः शोनद्योः प्रतिषेधः क्रियते? एतदेव ज्ञापयति--अस्तिशीनद्योर्दिभाषा नुमिति। नुम्ग्रहणे तु क्रियमाणे विधिरेवायं विज्ञायत इत्यदोषः।।
81. शप्श्यनोर्नित्यम्। (7.1.81)
82. सावनडुहः। (7.1.82)
83. दृक्स्ववस्स्वतवसां छन्दसि। (7.1.83)
`ईदृङ्, कीदृङ्' [नास्ति--काशिकायाम्] इति। `त्यदादिधु' (3.2.60) इत्यादिना क्विन्, `इदंकिमोरीश्की' (6.3.90) इतीश्की--आदेशो, हल्ङ्यादिसंयोगान्तलोपौ (6.1.68,8.2.23), `क्विन्प्रत्ययस्य कुः' (8.2.62) इति कुत्वाम्। `यावृङ्, तादृङ्' इति। `आ सर्वनाम्नः' (6.3.91) इत्यात्वम्। `सदृङ्' इति। `दृग्दुशवतुषु' (6.3.89) इति समानस्य सभावः।।
84. दिव औत्। (7.1.84)
`द्यौः' इति। औत्त्वे कृते यणादेशः। इहाक्षद्यूरित्यक्षैर्दीष्यतीति क्विपि कृते तदाश्रये चान्तरङ्गत्वात् `च्छ्वोः शूजनुनासिके च' (6.4.19) इत्युठ्। एकदेशविकृतसयानन्यत्वाद्दिव्शब्दं एवायमित्यूकगारस्योत्त्वं प्राप्नोति, तत् कस्मान्न भवति? इत्याह--`दिविति प्रातिपदिकम्' इत्यादि। अस्त्येवायं दिव्शब्दो धातुः, अस्ति चाव्युत्पन्नं प्रातिपदिकम्। तत्र धातुः सानुबन्धकः, अस्य `उदितो वा' (7.2.56) इत्युदित्कार्यम्। प्रातिपदिकं तु निरनुबन्धकम्, न हि तस्य किञ्चिदनुबन्धकार्यमस्ति। तत्र निरनुबन्धकपरिभाषया (व्या.प.56) धातुरिह गृह्यते। तेनान्नद्युरित्यत्र न भवत्योत्त्वप्रसङ्गः। तकारो मुखसुखार्थः।।
85. पथिमथ्यृभुक्षामात्। (7.1.85)
हल्ङ्यादिलोपे प्राप्ते नलोपे चात्त्वं विधीयते। `पन्थाः' इति। `थो न्थः' (7.1.80) इति न्यादेशः, `इतिऽसर्वनामस्थाने' (7.1.86) इत्यत्त्वम्। ननु चास्य स्थान्यनुनासिको नकारः, तत्र `तपरसतत्कालस्य' (1.1.70) इति सवर्णानां ग्रहणे सत्यान्तरतम्यादनुनासिकेनैवाकारेण भवितव्यम्। किमिह शुद्धोऽयमुदाह्रियते? इत्याह--`स्थानिन्यनुनासिकेऽपि' इत्यादि। अत्रैव कारणमाह--`भाव्यमानः' इत्यादि। यदि च तपरेणापि भाव्यमानेनाणा सवर्णानां ग्रहणं न भवति, एवं सति `विङ्वनोरनुनासिकस्यात्' (6.4.41) इत्यत्रापि न स्यात्, तथा `जनसनखनां सञ्झलोः' (6.4.42) इत्यत्रानुनासिकाकारो न स्यात्। एवं तर्हि नैवायमाकारस्तपरः, किं तर्हि? दकारः। दकारस्तु मुखसुखार्थः, स चर्त्वभूतत्वान्न श्रूयते। स्यादेतत्--यद्यपि भाव्यमानोऽण् सवर्णान्न गृह्णातीति (व्या.प.35) सवर्णानां ग्रहणं न भविष्यति, तथाप्यनुनासिकविशिष्टस्योच्चारणादनुनासिकेनैव युक्तं भवितुम्? इत्याह--`शुद्धो हि' इत्यादि। अयं ह्यकारः शुद्धो निरनुनासिक उच्यते तस्माच्छुद्ध एवेति नानुनासिकविशिष्टः। अथायं किमर्थं दीर्घ उच्यते, न ह्रस्व एव क्रियताम्, अत्रापि `अकः सवर्णे' (6.1.101) इति दीर्घत्वेन सिध्यत्येव? न सिध्यति; `अतो गुणे' (6.1.97) इति पररूपत्वं स्यात्। अकारोच्चारणसामर्थ्यान्न भविष्यतीति चेत्? न; अस्ति ह्यन्यदकारोच्चारणस्य प्रयोजनम्। किं तत्? नकारस्य श्रवणं न स्यादिति। लोपो हि क्रियमाणे गौरवं स्यात्, तस्माद्दीर्घो विधीयते।।
86. इतोऽत्सर्वनामस्थाने। (7.1.86)
अथ `आत्' (7.1.85) इत्यनुवर्त्तमाने किमर्थमद्वचनम्, ह्रस्वस्य श्रवणं यथा स्यादिति चेत्? नैतत्; कृते हि ह्रस्वत्वे सौ परतौऽकः सवर्णे दीर्घत्वेन (6.1.101) भवितव्यमन्यत्र `नोपधायाः' (6.4.7) इत्यनेन, तत्कुतो ह्रस्वस्य श्रवणम्? इत्याह--`आदिति वर्त्तमाने' इत्यादि। षपूर्वोऽर्थः प्रयोजनं यस्य तत् तथोक्तम्। कथं पुनरिवं षपूर्वार्थं भवति? इत्याह--`ऋभुक्षणम्' इत्यादि। यदि प्रकृतो दीर्घ एव विधीयते, तदा ऋभुक्षमिन्द्रमित्यत्र ह्रस्वस्य श्रवणं न स्यात्। ह्रस्वविधाने तु `वा षपूर्वस्य निगमे' (6.4.9) इति दीर्घविधानात् पक्षे भवति। स्थानिन्यादेशे च तपरकरणं मुखसुखार्थमित्येके। पथीरित्यत्र दीर्घनिवृत्त्यर्थमितयन्ये। पन्थानमिच्छति `सुप आत्मनः क्यच्' (3.1.8), `अकृत्सार्वधातुकयोः' (7.4.25) दीर्घः--पथीयति; पथीयतेः क्विप्, `अतो लोपः' (6.4.48) इत्यल्लोपः, `क्यस्य विभाषा' (6.4.50) इति यकारसय लोपः--पथीः।।
87. थो न्थः। (7.1.87)
थः, न्थः--इति द्वावपि स्थान्यादेशावनच्कौ। यत्त्त्वन्थ इत्यत्राकारः श्रूयते स उच्चारणार्थः। सत्यप्यादेशस्यानेकाल्त्वे `निर्दिश्यमानस्यादेशा भवन्ति' (व्या.प.106) इति थकारमात्रस्यादेशो विज्ञायते, न सर्वस्य।।
88. भस्य टेर्लोपः। (7.1.88)
`सर्वनामस्थाने' इत्यादि। `यचि भम्' (1.4.18) प्रत्यत्र `स्वादिष्वसर्वनामस्थाने' (1.4.17) इत्यतः `असर्वनामस्थाने' इत्यनुवर्त्तमाने भसंज्ञा विहिता, तत्र यदि सर्वनामस्थाने परतः पथ्यादीनां टिलोपः स्यात्, तदा भसंज्ञकास्ते न स्युः, अथ भसंज्ञकास्ते स्युस्तदा सर्वनामसथानं परं तेब्यो न स्यादिति भसंज्ञकानां सर्वनामस्थानस्य च सहानवस्थानलक्षणो विरोधः। तस्माद्यद्यप्युत्तरार्थं सर्वनामस्थानग्रहणमनुवर्त्तते, तथापीह नाभिसम्बध्यते।।
89. पुंसोऽसुङ्। (7.1.89)
असुङो ङकारोऽन्त्यादेशार्थः। उकार उगित्कार्यार्थः। `पुमान्' इति। `उगिदचाम्' (7.1.70) इत्यादिना नुम्, `सान्तमहतः संयोगस्य' (6.4.10) इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ।
`इह परमपुमान्' इत्यादि। परमश्चासौ पुमांश्चेति `सन्महत्' (2.1.61) इत्यादिना समासे कृते यावद्विभक्तिर्नोत्पद्यते तावदसुङादेशेन न भवितव्यम्; तस्य तदाश्रयत्वात्। समासान्तोदात्तत्वं तु न किञ्चिदपेक्षत इति अन्तरङ्गत्वात् प्रागेव विभक्तेरन्तोदात्तत्वं भवति। पश्चादुत्पन्नायां विभक्तावसुङ् अस्वरस्य व्यञ्जनस्य स्याने भवन्न नियतस्वरः स्यात् ततश्चानिष्टोऽपि स्वरः प्राप्नोति, अन्तोदात्तमेव चोत्तरपदमिष्यते, आद्युदात्तत्वं प्राप्नोति। `तदर्थम्' इत्यादि। अर्थशब्दो निवृत्तिवाची, यथा--मशकार्थो धूम इति। तदर्थं तस्यानिष्टस्य स्वरसय निवृत्त्यर्थमुपदेशिवद्ववचनं कर्त्तव्यम्, अकृते समासान्तोदात्तत्वं उपदेशावस्थायामेव विभक्त्युत्पत्तेः प्रागसुङ् यथा स्यात्। तेनासुङि पूर्वं कृते पश्चात् समासान्तोदात्तत्वेन परमपुमानित्ययं शब्दोऽन्तोदात्तो भवति। यद्येवम्, पुमानित्ययं शब्दोऽप्यन्तोदात्तः स्यात्, उपदेशावस्थायामेवासुङि कृते पश्चात् प्रातिपदिकस्वरेण भवितव्यम्? इत्याह--`पुमानित्ययं पुनः' इत्यादि। पुम्स्शब्दोऽयं पुनातेः `मुक्सुनो ह्रस्वश्च' (द.उ.9.48) [पातेः डुम्सुन्-द.उ. पातेडुस्सुन् पं.उ.4.177] इति मुक्सुन्प्रत्ययान्तो व्युतपादितः। तेन नित्स्वरेणायमाद्युदात्तो भवति, नान्तोदात्तः।।
90. गोतो णित्। (7.1.90)
णिदिति संज्ञा वाऽनेन क्रियते--गोतः परं सर्वनामस्थानं णिद्भवति, णित्संज्ञं भवतीत्यर्थः; अथ वा--गोतः परस्य सर्वनामस्थधानस्य णकार इत्संज्ञको भाव्यते, तेन गोतः परसक्य सर्वनामस्थानस्य णकार इत्संज्ञको भवतीति; आदेशो वा विधीयते--गोतः परस्य सर्वनामस्थानस्य णिणकारानुबन्धवानादेशो भवति; अतिदेशो क्रियते--गोतः णिद्भवति, णिद्वद्भवतीत्यर्थः, विनापि वतिना वत्यर्थो गम्यते, यथा--गाङकुटादिसूत्रे (1.2.1)। तत्राद्ये पशे संज्ञोच्चारिता संज्ञिनं प्रत्याययतीति णित्प्रदेशेषु कृत्रिमत्वादस्यैव सर्वनामस्थानस्य ग्रहणं प्राप्नोति, न ण्वुलादीनाम्। द्वितीये तु णकार इत्संज्ञकः सर्वनामस्थानस्य प्रसज्येत। तृतीये तु पुनर्णित् सर्वनामस्थानं न क्वचिद्दृष्टमिति। य एवैते ष्वुलादयस्य एवादेशाः प्रसज्येरन्नित्येते दोषा आद्येषु त्रिषु पक्षेषु यथाक्रमं प्रतिविधेयाः। तत्प्रतिविधाने प्रतिपत्तिगौरवं स्यात्, अतिदेशपक्षे तु न किञ्चित् प्रतिविधेयम्, अतः स एव साधुरिति। तमेवाश्रित्याह--`गोशब्दात्' इत्यादि। `णित्कार्यम्' इत्यादिना णिद्भवतीत्यस्यार्थं व्याचक्षणः कार्यातिदेशोऽयमित्याचष्टे। गौरिति वृद्धिर्णित्कार्यम्।
`चित्रगुः' इति। यत्र बहुव्रीहौ कृते `गोस्त्रियोरुपसर्जनस्य ' (1.2.48) इति ह्रस्वः। तत्रासति तपरकरणे `अङ्गाधिकारे तस्य तदुत्तरपदस्य' (पु.प.वृ.85) इति वचनात्तदन्तविधिमभ्युपगम्य स्थानिवद्भावेन गोशब्दान्तमेतदङ्गं भवतीति णिद्भावः प्राप्नोति। तपकरणे तु ततकालनियमे सति न भवति; भिन्नकालत्वात्। `तपरस्तत्कालस्य' (1.1.70) इत्यत्राण्ग्रहणस्य निवृत्तत्वादनणोऽपि तत्कालनियमो भवत्येव।
`कथम्' इत्यादि। सत्यपि तपरकरणं `ह्रस्वस्य गुणः' (7.3.108), `जसि च' (7.3.109) इति सम्बुद्धिजसोर्गुणे कृते हे चित्रगो, हे चित्रगव इत्यत्र प्राप्नोति। तत्कालत्वादित्यभिप्रायः। ननु च लक्षमप्रतिपदोक्तपरिभाषया (व्या.प.3) न भविष्यति? नैतदस्ति; यत्र हि स्थानिवद्भावस्तत्रैवा नोपतिष्ठते; अध्यया हि स्थानिवद्भावोऽनर्थकः स्यात्। `अङ्गवृत्ते पुन' इत्यादि परीहारः। एष तु हे चित्रगवित्यत्र परीहारः, न तु चित्रगव इत्यत्र; अनिष्ठितत्वात्। अवादेशे हि कृते निष्ठितत्वमत्र भविष्यति, न च गुणमात्रे; अप्रयोगार्हत्वात्।
अत एवाव्यापकत्वादस्य परीहारस्यापरितुष्यन् परिहारान्तरमाह--`अथ वा' इत्यादि। स्यादेतत्--अत्रापि गोः सम्बन्धि सर्वनामस्थानमानन्तर्यलक्षणेन भवति सम्बन्धेनेति/ अत आह--`यच्च' इत्यादि। यद्यानन्तर्यलक्षणेन गोः सम्बन्धि सर्वनामस्थानं गृह्यते तदा षष्ठ्याश्रयणामनर्थकं स्यात्, पञ्चम्येवाश्रयितव्येति; क्रमव्यतिक्रमे प्रयोजनाभावात्। तस्मात् षष्ठ्याश्रयणसामर्थ्याद्गोशब्दस्यार्थस्य य एकात्वादयस्तेषु यत्सर्वनामस्थानं तद्गोः सर्वनामस्थानमित्युच्यते। तत् पुनर्गोशब्दस्यैकत्वादीनां वेदितव्यम्। आदिशब्देन द्वित्वादिपरि ग्राहः। तत्रैतत् स्यात्--चित्रगुशब्दादपि यत् सर्वनामस्थानं तद्गोशब्दस्यार्थस्यैकत्वादिषु वर्त्तते? इत्याह--`चित्रगुशब्दात्' इत्यादि।
यदि यद्गोः सम्बन्धि सर्वनामस्थानं तस्य णिद्भावो विधीयते, तदा तपरकरणमनर्थकं स्यात्, तद्धि चित्रगुरित्यादौ मा भूदित्येवमर्थं क्रियते। न चात्र प्राप्तिः, न ह्यत्र गोः सम्बन्धि सर्वनामस्थानम्, किं तर्हि? अन्यपदार्थस्येत्याह--`तपरकरणं' तु इत्यादि।
`केचित्' इत्यादि। किमर्थं पुनस्त एवं पठन्ति? इत्याह--`द्योशब्दोऽपि' इत्यादि। य त्वेदं न पठन्ति `गोतः' इति, तेषां द्योशब्दात् परस्य सर्वनामस्थानस्य णिद्भावो न सिध्यतीत्याह--`गोत इत्येतदेव' इत्यादि। कथं पुनरेतदोकारान्तोपलक्षणार्थं शक्यं विज्ञातुम्? इत्याह--`वर्णनिर्देशेषु' इत्यादि। यथा `वृद्धिरादैच्' (1.1.1), `अदेङ्गुणः' (1.1.2) इत्यवमादिषु योगेषु वर्णस्तपरो निर्दिश्यत इति तपरकरणं वर्णनिर्देशेषु हि प्रसिद्धम्। तस्मादिहापि तपरनिर्देशात् `गोतः' इत्येतदोकारान्तोपलक्षणं द्रष्टव्यमिति। अतो वचनात् तपरकरणं वर्णनिर्देशार्थ मेवेत्यस्यैवौकारान्तोपलक्षणार्थं विज्ञायते।।
91. णलुत्तमो वा। (7.1.91)
`णित्कार्यं वा भवतोत्यर्थः' इति। अनेन णित्कार्यस्य पक्षेऽबावाण्णिद्वा भवतीत्युच्यते, न तु णित्त्वस्यैव प्रतिषेध इति दर्शयति। न तु णल उपदेशावस्थायां सिद्धं णित्त्वं तद्वचनशतेनापि शक्यं तिषेद्धुमिति भावः। `चकार, चकर' इति। यदा णित्त्वं तदा `अचो ञ्णिति' (7.2.115) इति वृद्धिः, अन्यदार्धधातुकलक्षणो गुणः। `पपाच, पपच' इति। यदा णित्त्वं तदा `अकत उपधायाः' (7.2.116) इति वृद्धिः, अन्यदा तदभावः।।
92. सख्युरसम्बुद्धौ। (7.1.92)
`असम्बुद्धौ' इति पर्युदासः--सम्बुद्धेरन्याऽसम्बुद्धिः। `हे सखे' इति। `ह्रस्वस्य गणः' (7.3.108) इति गुणः।।
93. अनङ् सौ। (7.1.93)
पूर्वेण णित्त्वे प्राप्तेऽनङ् विधीयते। तस्य ङकारोऽन्त्यादेशार्थः। अकार उच्चारणार्थः। `सखा' इति। `सर्वनामस्थाने चासम्बुद्धौ' (6.4.8) इति दीर्घः, हल्ङ्यादिसुलोपः, (6.1.68), `नलोपः प्रातिपदिकान्तस्य' (8.2.7) इति नकारस्य। आकारे विदातव्येऽनङ्वचनं सोर्लोपो यथा स्यात्। अकारविधाने तस्य लोपो न स्यात्, यथा--पन्था इति।।
94. ऋदुशनस्पुरुदंसोऽनेहसां च। (7.1.94)
ऋकारान्तस्य `ऋतो ङिसर्वनामस्थानयोः' (7.3.110) इति गुणे प्राप्ते। इतरेषामपि हल्ङ्यादिलोपे (6.1.68) कृते रुत्वविसर्जनीयसान्तदीर्घेषु प्राप्तेषु।
`उशनसः सम्बुद्धावपि पक्ष इष्यते' इति। तत्कथम्? चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः। तेन तम्बुद्धावप्युशनसोऽनङ् भविष्यति। यद्येवम्, नित्यं स्यात्? नैतत्; `णलुत्तमो वा' (7.1.91) इत्यधिकारात् पक्षे भविष्यति। व्यवस्थित विभाषाविज्ञानाच्चान्येषां नित्यम्।
`नलोपप्रतिषेधोऽपि पक्ष इष्यते' इति। कथमेतल्लभ्यते? तत्र हि स्वरितो वाऽनुदात्ते पदादौ' (8.2.6) इत्यतौ वेत्यनुवर्त्तते, तेनैवं विज्ञायत--न ङिसम्बुद्ध्योर्नलोपप्रतिषेधो वा भवतीति। व्यवस्थितविभाषादिज्ञानाच्चोशनसः सम्बुद्धिनकारस्य लोपो वा भविष्यति। अन्येषां तु नित्यमेव लोपो न भविष्यतीति।
`तथा चोक्तम्' इत्यादिनाऽनन्तरोक्तमर्थमागमवचनन द्रढयति। `सान्तम्' इति। यदाऽनङ न क्रियते। `नान्तम्' इति। न तु नलोपः। `अदन्तम्' इति। यदा नलोपः क्रियते।
`तपरकरणमसन्देहार्थम्' इति। असति हि तस्मिन्नुशनसि परतो यणादेशे कृते सन्देहः स्यात्--किमृकारन्तस्य ग्रहणम्? उत्त रेफान्तस्येति?।।
95. तृज्वत्क्रोष्टुः। (7.1.95)
`क्रोष्टुशपब्दस्तुन्प्रत्ययान्तः संज्ञाशब्दः' इति। `क्रुश आह्वाने' (धा.856)[`अह्वाने रोदने च'--धा.पा.] इत्येतस्मात् `सितनिगमिमसिसच्यविघाञ्कृशिभ्यस्तुन्' (द.उ.1.122)[`पसि'--द.उ] इति तुन्प्रत्ययान्तस्य संज्ञायां व्युत्पादितत्वात्। संज्ञा पुनरियं जम्बुकस्य। `तृज्वद्भवति' इति। तृचा तुल्यं वर्त्तत इति तृज्वत्। `रूपातिदेशोऽयम्' इति वक्षयति। तत्र `तृज्वद्भवति' इत्युक्ते तृच्छब्दसय यद्रूपं तदतिदिश्यत इति कस्यचिद्भ्रान्तिः स्यात् अतस्तां निराकर्त्तुमाह--`तृजन्तसय यद्रूपम्' इत्यादि। एतच्च `प्रत्ययग्रहणे यस्मात्म विहितस्तदादेस्तदन्तस्य ग्रहणं भवति' (पु.प.वृ.44) इत्यतो लभ्यते। यद्यपि शास्त्रातिदेशेऽप्यदोषो बहुधा भाव्ये प्रदर्शिताः--तस्यादुष्टत्वेन प्रातिपादनात्, कार्यातिदेशोऽपयदीषवानेव व्याख्यातः--तस्य शास्त्रातिदेशेनाभिन्नत्वात्; तथापि शास्त्रातिदेशकार्यातिदेशयोररूपार्थत्वाद्रूपे गुणाभावः। रूपस्य तु प्राधान्यम्; ताभ्यां तस्य संस्कार्यत्वात्। अतो रूपातिदेशोऽयं युक्त इत्याह--`रूपातिदेशोऽयम्' इत्यादि। यदि तर्हि तृजन्तस्य यद्रूपं तत् क्रोष्टुशब्दस्यातिदिश्यते तदा यत्किञ्चिदेव तृजन्तस्य रूपम्--वक्तृ, पक्तृ--इत्येवमाद्यपि प्राप्नोति? अत आह--`प्रत्यासत्तेश्च' इत्यादि। इह धात्वन्तरस्य पचतिप्रभृते स्तृजन्तस्य रूपमस्ति, क्रुशेरपि, तत् किमश्रुतसय धातोस्तृजन्तस्य यद्रूपं तदतिदिश्यते, उत्त श्रुतस्य क्रुशेरिति? तत्र श्रुतस्यैव यद्रूपं तदेवातिदेष्टुं इति। चकारोच्चारणसामर्थ्यात् स्वरोऽप्यतिविश्यते। अन्यथा `तृवत्' इत्येव ब्रूयादिति भावः। `क्रोष्टा' इति। तृज्वद्भावे कृते पूर्वसूत्रेणानङ्। `क्रोष्टारौ' क्रोष्टारः' इति। `ऋतो ङिसर्वनामस्थानयोः' (7.3.110) इति गुणः, रपरत्वम्, अप्त्रादिसूत्रेण (6.4.11) दीर्घः। `क्रोष्टन्' इति। `प्रथमयोः पूर्वसवर्णः' (6.1.102) इति दीर्घः। `तस्माच्छसो नः पुंसि' (6.1.103) इति नत्वम्।।
96. स्त्रियाञ्च। (7.1.96)
`क्रीष्ट्रीभिः' इति। तृज्वद्भावे कृते यणादेशः।
केन पुनः क्रोष्टुशब्दादीकारः, तृज्वद्भावे कृते `ऋन्नेभ्यो ङीप्' (4.1.5) इत्यनेनेति चेत्? न; अनुदात्तत्वप्रसङ्गादित्यत आह--`क्रोष्टुशब्दं केचित्' इत्यादि। `पञ्चभिः क्रोष्ट्रीभिः क्रीतैः' इति। `तद्धितार्थोत्तरपदसमाहारे च' (2.1.51) इति समासः। `आर्हादगोपुच्छ' (5.1.19) इत्यादिना ठक्, तस्य `अध्यर्द्धपूर्व' (5.1.28) इत्यादिना लक्, `लुक्तद्धितलुकि' (1.2.49) इति स्त्रीप्रत्ययस्य लुक्, तस्मिंल्लुप्ते ये ङीष्प्रत्यये कृते तृज्वद्भावं कुर्वन्ति तेषां तृजवद्भावो न भवति, तस्मात् `प्रतिविषेयम्' इति। प्रतिविधानं कर्त्तव्यमित्यर्थः। तत्रेदं प्रतिविधानम्--चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन लुप्तेऽपि स्त्रीप्रत्यये भविष्यति।
ये तर्हि गौरादिषु न पठन्ति तेषामीकारः कथम्? इत्याह--`गौरादिषु' इत्यादि। तेषां पञ्चक्रोष्टुभिरित्यत्र न किञ्चित् प्रतिविधेयम्; परस्य स्त्रीप्रत्ययस्य निमित्तत्वेनानाश्रितत्वात्। ननु च तेषामपि स्त्रीप्रत्ययस्य लुप्तत्वादसस्यामङ्गसंज्ञायामङ्गस्योच्यमानस्तृण्वद्भावो न प्राप्नोतीति प्रतिविधेयमेव? नैतदस्ति; लुप्ते हि स्त्रीप्रत्यये प्रत्ययलक्षणेनाङ्गसंज्ञा भवत्येव। `न लुमताङ्गस्य' (1.1.63) इति यः प्रतिषेधः सोऽङ्गाधिकार विहितस्यैव कार्यस्य। न चाङ्गसंज्ञाऽङ्गाधिकारे विहिता। `कृतेऽतिदेशे' इत्यादि। `इकोऽचि विभक्तौ (7.1.73) इत्यनुवृत्तेर्विभक्तावुत्पन्नायां तदाश्रयायाञ्चाङ्गसंज्ञायां स्त्रियां वर्त्तमानस्य क्रोष्टुशब्दस्यातिदेशः क्रियते। तस्मिन् कृते ऋकारान्तत्वात् `ऋन्नेभ्यो ङीप्' (4.1.5) इति ङीब्भवति। ननु च ङीप्प्रत्यये कृतेऽन्तोदात्तः क्रोष्ट्रीशब्दो न सिध्यति? इत्याह--`तत्र' इत्यादि। क्रोष्ट्रीशब्दोऽन्तोदात्तोऽतिदिश्यत इति तृसम्बन्धिन ऋकारस्य स्थाने यणादेशो भवन्नुदात्तयण् भवति, ततश्च `शतुरनुमो नद्यजादी' (6.1.173) इत्यनुवर्त्तमाने `उदात्तयणो हल्पूर्वात्' (6.1.174) इत्यन्तोदात्तो भवति क्रोष्ट्रीशब्दः।।
97. विभाषा तृतीयादिष्वचि। (7.1.97)
`स्त्रियाम्' (7.1.96) इति नानुवर्त्तते, तेनेयमप्राप्तविभाषा। `क्रोष्टुना' इति। `आङो नास्त्रियाम्' (7.3.120) इति नाभावः। `क्रोष्टवे' इति। `घेर्ङिति' (7.3.111) इति गुणः। `क्रोष्टुः' इति। `ऋत उत्' (6.1.111) इत्युत्त्वम्, रपरत्वम्, `रात् सस्य' (8.2.24) इति सलोपः। `क्रोष्टोः' इति। पूर्ववद्गुणः, `ङसिङसोश्च' (6.1.110) इति पूर्वरूपत्वम् `क्रोष्टरि इति। `ऋतो ङिसर्वनामस्थानयोः' (7.3.110) इति गुणः। `क्रीष्टौ' इति। `अच्च घेः' (7.3.119) इत्यत्त्वम्, औत्त्वञ्च। `तृज्वद्भावात्' इत्यादि। तृज्वद्भावस्यावकाशः--पुंसि क्रोष्ट्रो इति, नुमोऽवकाशः--त्रपुणे, जतुन इति; प्रियक्रोष्टुने वनायेत्यत्रोभयप्रसङ्गे सति नुम्भवति पूर्वविप्रतिषेधेनेति। नुटोऽवकाशः--अग्नीनाम्, वायूनामिति, तृज्वद्भावस्यावकाशः स एव; क्रोष्ट्रनामित्यत्रोभयप्रसङ्गे सति नुङ् भवति पूर्वविप्रतिषेधेनेति। पूर्वविप्रतिषेधस्तु परशब्दस्येष्टवाचित्वा ल्लभ्यते।।
98. चतुरनडुहोरामुदात्तः। (7.1.98)
`सर्वनामस्थाने' (7.1.86) इति स्वर्यते, न `तृतीयादिषु' (7.1.97) इति। `आगमा अनुदात्ता भवन्ति' (व्या.प.105) इत्यनुदात्तत्वे प्राप्ते, उदात्तत्वार्थं वचनम्।
`तदन्तविधिरत्रेष्यते' इति। `अङ्गाधिकारे तस्य तदुत्तरपदस्य' (पु.प.वृ.85) इति वचनात्। `प्रियचत्वाः' इति। बहुव्रीहिः। `सर्वनामसंख्ययोरुपसंख्यानम्' (वा.113) इति संख्यायाः पूर्वनिपाते प्राप्ते `वा प्रियस्य' (वा.114) इति प्रियशब्दस्य पूर्वनिपातः।।
99. अभ्सम्बुद्धौ। (7.1.99)
पूर्वेणामि प्राप्ते वचनम्। `हे प्रियचत्वः। हे प्रियानढवन्' इति। अत्र चतुःशब्दस्य केवलस्य सम्बुद्धिर्न भवतीति दतन्तस्योदाहरणम्। अनजुहस्तु यदयपि केवलस्य सम्भवति, तथापि तदन्तविधिरत्रेष्यत इति तदन्तस्योदाहरणम्।।
100. ऋत इद्धातोः। (7.1.100)
`किरिति, गिरति' इति। `कॄ विक्षेपे' (धा.पा.1409), `गु निगरणे' (धा.पा.1410)। `तुदादिभ्यः शः' (3.1.77)। `आस्तीर्णम्' इति। `स्तॄ आच्छादने' (धा.पा.1484),[स्तॄञ्--धा.पा.] `रदाभ्याम्' (8.2.42) इति नत्वम्, `रषाभ्याम्' (8.4.1) इति णत्वम्, `हलि च' (8.2.77) इति दीर्घः। `विशीर्णम्' इति। `शॄ हिंसायाम्' (धा.पा.1488)।
`मातॄणाम्, पितॄणाम्' इति। `नामि' (6.4.3) इति दीर्घः। सत्यपि ऋकारान्तत्वेऽधातुत्वादिह न भवति। ननु च लक्षणप्रतिपदोक्तपरिभाषयै (व्या.प.3) वत्र न भविष्यति, तत्किमेतन्निवृत्त्यर्थेन धातुग्रहणेन? इत्याह--`लाक्षणिकस्यापि' इत्यादि। किमर्थं पनर्लाक्षणिकस्य ग्रहणम्? इत्याह--`चिक्रीर्वति' इत्यादि। कथं पुनरिष्यमाणमपि लाक्षणिकस्यात्र ग्रहणं लभ्यते? अत एव धातुग्रहणाज्ज्ञापकात्। तस्य ह्येतत् प्रयोजनम्--मातॄणाम्, पितृणामित्यत्र मा भूदिति। यदीह लाक्षणिकस्य ग्रहणं न स्यात् तदा मातॄणाम्, पितॄणामित्यादौ लाक्षणिकत्वादेव न भविष्यतीति धातुग्रहणमनर्थकम्। तस्माल्लाक्षिकस्याप्यत्र ग्रहणम्। तेन चिकीर्षतीत्येव मादिषु `अज्झनगमां सनि' (6.4.16) इति दीर्घत्वे सत्यपि भवत्येव।
तपरकरणमसन्देहार्थम्। `र' इत्युच्यमाने सन्देहः स्यात्--किमयं रेफस्य निर्देशः? उत्त यणादेश ॠकारस्येति?
101. उपधायाश्च। (7.1.101)
ॠकारान्तस्य धातोरित्त्वमुक्तम्। उपधाभूतस्य धातोॠकारस्य न प्राप्नोति, इष्यते; तदर्थमेतत्। `कीर्त्तयति' इति। `कॄत संशब्दने' (धा.पा.1656) चुरादौ ण्यन्तः। ननु च `ऊतियूतिजूतिसातिहेतिकीर्त्त यश्च' (3.3.97) इति निपातनादेवेत्त्वं भविष्यतीति कथं तदर्थो योगरम्भः? नैतदस्ति; क्तिन्विषय एव निपातनं स्यात्। एवं तर्हि पूर्वयोगे धातुना ॠकारं विशेषयिष्यामः, अत्र तत्स्थस्येति? एतदपि नास्ति; एवं सति ॠकारमिच्छति ॠकारीयतीत्यत्रापि स्यात्। तस्माद्वक्तव्यमिदम्।
`कॄतश्च' इति वक्तव्ये `उपधायाश्च' इति वचनं वैचित्र्यार्थम्। `कृतश्च' इत्युच्यमाने तकारस्य स्यात्? नैतदन्ति; `ॠतः' इति पूर्वसूत्रे विशेषणत्वेन प्रककृतम्; न शक्यते तद्धि विशेष्यत्वेन विवक्षितुमिति। तस्य `उपधाया ॠकारस्येकारादेशो भवति' इत्येष वृत्तिग्रन्थो विरुध्यते। अत्र हि ऋकारस्य विशेष्यता दर्शिता। तस्माद्यथाङ्गस्यैतत् क्वचिद्विशेषणम्; तथा `ॠतः' इत्येतदपि पूर्वसूत्रे विशेषणम्, इह तु विशेष्यम्।।
102. उदोष्ठ्यपूर्वस्य। (7.1.102)
`ॠत इद्धातोः] (7.1.100) इतीत्त्वे प्राप्त उत्त्वं विधीयते। `पूर्त्तः' [`पूर्त्ताः'--काशिका, पदमञ्जरी च] इति। `पॄ पालनपूरणयोः' (धा.पा.1086), क्तः। `न ध्याख्या' (8.2.57) इत्यादिना प्रतिविषद्धत्वान्न निष्ठानत्वं भवति। `वुवूर्षति' इति। `वॄ वरणे' (धा.पा.1490)। `मुमूर्षति' इति। `मॄ हिंसायाम्' (धा.पा.1492)। `सूस्वूर्षति' इति। `स्थॄ शब्दोपतापयोः' (धा.पा.932), `अज्झनगमां सनि' (6.4.16) इति दीर्घत्वं ऋकारान्तत्वमस्य।
अथेह कथमुत्त्वम्--`वृङ् सम्भक्तौ' (धा.पा.1509), `वृञ् वरणे' (धा.पा.1254)--प्रावुवूर्षते, प्रावुवूर्षतीति, न ह्यत्र ऋकार ओष्ठ्यपूर्वः किं तर्हि? दन्त्योष्ठ्यपूर्वं इति? तदेतदाह--`दन्त्यौष्ठ्यपुर्वोऽप्योष्ठ्यपूर्वो भवति' इत्यादि। यो ह्युभयस्थाने निष्पद्यते लभतेऽसावन्यतरव्यपदेशम्। तेन दन्त्यौष्ठ्यो यो भवति सोऽप्योष्ठ्यो भवत्येव। दन्त्यौष्ठ्यपूर्वोऽपयोष्ठ्यपूर्व एव। अथ समीर्णमित्यत्र कस्मान्नि भवति, अस्ति ह्यत्राप्योष्ठग्रपूर्वता? इत्याह--`ओष्ठ्यो ह्यत्र' इत्यादि। ओष्ठ्यो ह्यत्राङ्गावयवोऽपि। तत्रेह प्रत्यासत्तेरङ्गावयवो गृह्यते, नोपसर्गवयवः। प्रत्यासन्नत्वं पुनाप्रसङ्गस्य प्रकृतत्वात् उपसर्गस्य तु नास्ति प्रत्यासन्नत्वम्; विपर्ययात्।
`इत्त्वोत्त्वाभ्याम्' इत्यादि। इत्त्वोत्त्वयोरवकाशः--आस्तीर्णम्, पूर्त्त इति; गुणवृद्ध्योरवकाशः--चयनम्, चायक इति; इहोमयं प्राप्नोति--आस्तरणम्, आस्तारकः, निपरणम्, निपारक इति, अत्र गुणवृद्धी भवतो विप्रतिषेधेन।।
103. बहुलं छन्दसि। (7.1.103)
`ततुरिः, जगुरिः' इति। तरतेर्गिरतेश्च `आदृगमहनजनः किकिनौ लिट् च' (3.2.171) इति किकिनोरन्यतरः, ततश्चोत्त्वे `द्विर्वचनेऽचि' (1.1.59) इति स्थानिवद्भावात् `तॄ गॄ', इति द्विरच्यते, `उरत्' (7.4.66) इत्यत्त्वम्। `पप्रितमम्, वव्रितमम्' इति। `पॄ, वॄ' इत्येतयोः किकिनोरन्यतरः, यथदेशः। किप्रत्ययान्तात् `अतिशायने तमप्' (5.3.55) इत्यादिना तमप्।।
इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्चिकायां सप्तमाध्यायस्य
प्रथमः पादः।।
- - -