काशिकाविवरणपञ्जिका/प्रथमोऽध्यायः/द्वितीयः पादः
← प्रथमः पादः | काशिकाविवरणपञ्जिका द्वितीयः पादः [[लेखकः :|]] |
तृतीयः पादः → |
अथ प्रथमाध्ययस्य
द्वितीय पादः
1.गाङ्कुटादिभ्योऽञ्णिन्ङित्। (1.2.1)
अत्र पक्षत्रयं सम्भाव्यते-- इत्संज्ञको वा ङकारोऽनेन भाव्यते,
गाङकुटादिभ्यः परे येऽञ्णितः प्रत्ययास्ते ङितो भवन्ति, इत्संज्ञको ङकार एषां सम्बन्धी भवतीति यावत्; एवं हि ते ङितो भवन्ति यदि हि तेषां ङकारोऽनुबन्धो विधीयते, नान्यथा; न हि विना चित्रगवीभिर्देवदत्तश्चित्रगुर्भवति। ङिदितीयं वा संज्ञाऽनेन
क्रियते, गाङकुटादिभ्यः परे येऽञ्णितः प्रत्ययास्ते ङितो भवन्ति, ङित्संज्ञका
भवन्तीति यावत्। अतिदेशोऽयं वा स्यात्, गाङकुटादिभ्यः परे येऽञ्णितः प्रत्ययास्ते ङितो भवन्ति, ङिद्वद्भवन्तीत्यर्थः। तत्राद्ये पक्षे `गाङकुटादिभ्यः' इत्यनया
पञ्चम्याऽञ्णिदित्यस्याः प्रथमायाः षष्ठ्यां परिकल्पितायां सत्याम्। `आदेः परस्य' (1.1.54) इति वचनादादेरलः स्थान आदेश एव ङकारः प्राप्नोति। द्वितीये तु पक्षे
`अनिदितां हल उपधायः क्ङिति ' (76.4.24) इत्यत्र संज्ञिनः संप्रत्ययो न स्यात्;
शब्दभेदात्। अन्योहि ङिच्छब्दः, अन्यो हि क्ङिशब्दः।
किञ्च, `ङिद्ग्रहणे ग्रह्यादौ' (6.1.16) सूत्र एषामेव संज्ञिनां ग्रहणं
प्राप्नोति, न यङादीनाम् `कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः' (व्या.प.6) इति वचनात्। अथापि कथञ्चिदेते दोषाः परिहर्तुं शक्येरन्, आद्ययोः पक्षयोर्यस्तु
तत्परिहारद्वारेण प्रवृत्तौ साध्यायां प्रतिपत्तिगौरवदोष आपद्यते सोऽपरिहार्य एव। तृतीये तु पक्षे न कश्चिद् दोष इति मत्वा तमेवाश्रित्याह-- `अतिदेशोऽयम्'इति।
यद्येवम्, वतिना निर्देशः कर्त्तव्यः, अन्यथा तदर्थो नावगम्येत; नैतदेवम्, परपदार्थेषुहि प्रयुज्यमानाः शब्दावतिमन्तरेणापि वत्यर्थ गमयन्ति, यथा-- सिंहो माणवकः,गौर्वाहीकः।
गाङितीङादेशो गृह्यते-- `इङश्च' (2.4.48), `गाङ लिटि' (2.4.49),
विभाषा लुङ लृङो' (2.4.50) इति। गाङादेशो य इङः स्थाने वक्ष्यते तस्येदं ग्रहणम्, न `गाङ गतौ' (धा.पा.950) इत्यस्य। अथ `गाङ गतौ' (धा.प.950) इत्यस्य धातोर्ग्रहणं कस्मान्न भवतीत्याह--`ङकारस्य' इत्यादि।इङादेशस्य यो ङकारस्तस्येदं प्रयोजनम्--इह सूत्रे तस्यैव ग्रहणं यथा स्यान्नान्यत् किञ्चिदात्नेपदार्थ स्यादिति चेत् ? न; आत्मनेपदस्य स्थानमिवद्भावेनैव सिद्धत्वात्। तस्मादिङादेश एव गृह्यते; अन्यथा ङकारस्य वैयर्थ्यं स्यात्। ननु चोभयोरपि सामान्यग्रहणार्थो ङकारः स्यात्, तत् कुतो वैयर्थ्यम्?नैतदस्त; यदि हि तौ समानौ स्यातां तदा सामान्यग्रहणार्थता तस्य, न च तौ समानौ; गत्यर्थस्य गाङो ङकारस्यात्मनेपदविधौ चिरार्थत्वात्. इतरस्य तु न क्विच्चरितार्थता। तस्मादसमानार्थत्वादयुक्तं सामान्यग्रहणमिति गाङादेश गृह्यते। किमर्थं पुनरिह उच्चार्यते, न गा इत्येवोच्येत ? चैवं शक्यम्; एवं हि सति निरनुबन्धकग्रहणे न सानुबन्धकस्य' (व्या.प.53) इति `कै गै शब्दे' (धा.पा. 916-917) इत्यस्यैव ग्रहणं स्यात्। कुटादयो हि `कुट कौटिल्ये' (धा.पा.1366) इत्यत आरभ्य `कुङ शब्दे' (धा.पा.1401) इति यावदिति। तदनन्तरं वृत्करणात् ततोऽधिकानां कुटादित्वानुपपत्तेः।
`अध्यगीष्ट' इति। सिचो ङित्त्वे घुमास्थागादि (6.4.66) सूत्रेणेत्त्वम्। अत्र हि `दीङो युडचि क्ङिति' (6.4.65) इत्यतः क्ङितीत्यनुवर्त्तते, `ईद् यति' (6.4.5) इत्यत ईदिति च। `अध्यगीषत' इति। `आत्मनेपदेष्वनतः' (7.1.5) इत्यदादेशः। अथ लिटि यो गाङादेशस्तस्य कस्मादुदाहरणं न प्रदर्शितम् ? एवं मन्यते-- लुङ एवायम्, नासाविह लिड्ग्रहणं प्रयोजयति; `अंसयोगाल्लिट् कित्' (1.2.5) इति वक्ष्यमाणेनैव सिद्धत्वात्। `उत्कुटिता' इति। `कुट कौटिल्ये' (धा.पा.1366)। `उत्पुटिता' इति। `पुट
संश्लेषणे'(धा.पा.1367)। अथेहोच्चुकुटितषतीति सनो ङित्त्वादात्मनेपदं कस्मान्न भवति? उपदेशाधिकारात्। तत्र हि `उपदेशेऽजनुनासिकः' (1.3.2) इत्यत उपदेशग्रहणमनुवर्त्तते। न चात्रौपदेशिकं ङित्त्वम्, किं तर्हि? आतिदेशिकम्।
`व्यचेः' इत्यादि। `व्यच व्याजीकरणे'(धा.पा.1293) इति तुदादौ कुटादिभ्यः
प्राक् पठ्यते। `विचिता' इति। ङित्त्वादिह ग्रह्यादिसूत्रेण (6.1.6) संप्रासरणम्। `उरुव्यचाः' इति। `सर्वधातुभ्योऽसुन्' (द.उ.9.49) इत्यसुन्प्रत्ययः। `अत्वसन्तस्य चाधातोः' (6.4.14) इति दीर्घः।
2.विज इट्। (1.2.2)
`इडादिप्रत्ययः' इति। इट आदिर्यस्य तृजादेः स तथोक्तः।अथोत्त्मपुरुषस्यैकवचनस्येटो ग्रहणं कस्मान्न भवति, `सार्वधातुकमपित्' (1.2.4) इत्यनेनैव तस्य कित्त्वस्य सिद्धत्वात् ?नैतदस्ति,यत्र हि तेन न सिद्ध्यति तत्रोत्तमपुरुषस्यैककवचनस्य ङित्त्वविधानार्थमिड्ग्रहणं स्यात्। क्व च तेन न सिद्ध्यति ? आर्धुधातुक आशिषि लिङि-- `उद्विजिषीय' इत्यत्र। अतो युक्तं चोत्तमपुरुषस्यैकवचनस्य ग्रहणम् नागमस्य;`अर्थवद्ग्रहणे नानर्थकस्य' (व्या.प.9), `प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम्' (व्या.प.72) इति परिभाषाद्वयात्। अथापि कथञ्चिदागमस्येटो ग्रहणं स्यात् ? एवमपि तन्मात्रस्यैव ङित्त्वं लभ्यते, न तु तदादेः प्रत्ययस्य, तत्किमित्याह-- `इडादिप्रत्ययो ङिद्भवति ' इति ? एवं मन्यते--- `वद्धिर्यस्याचामादिः' (1.1.73) इत्यत आदिग्रहणमनुवर्त्तते, तेन चेड् विशिष्यते। न चोत्तमपुरुषस्यैकवचनस्यादित्वमस्ति, किं तर्हि ? आगमस्यैव; तस्मात् स एव गृह्यते। तस्य च केवलस्यादिभूतस्य ङित्वे प्रयोजनं नास्तीति सामर्थ्यादिडादेः प्रत्ययस्य ङित्त्वं विज्ञायत इति। `उद्विजिता' इति। ङित्त्वात् `पुगन्तलघुपधस्य' (7.3.86) इति गुणो न भवति।
3.विभाषोर्णोः। (1.2.3)
`प्रोर्णुविता' इति। ङित्वाद् गुणे प्रतिषिद्धे `अचि श्नुधातु' (6.4.77) इत्यादिनोवङादेशः।।
4.सार्वधातुकमपित्। (1.2.4)
`अपित्' इति। किमयं प्रसज्यप्रतिषेधः ? उत पर्युदासः ? किञ्चात्र ? पूर्वस्मिन् पक्षे लोडुत्तमपुरुषस्यैकवचनस्य `आडुत्तमस्य पिच्च' (3.4.92) इत्याटि पिति कृते तुदानीत्यत्राड्विकरणाकारयोः पिदपितोरेकादेशः परं प्रति `अन्तादिवच्च' (6.1.85) इत्यादिद्भावात् पिद्ग्रहणेन गृह्यते इति पित्त्वम् , पित्त्वे च सत्यपिदिति ङित्त्वप्रतिषेधः स्यात्, ततश्च धातोर्गुणः प्रसज्येत। इतरत्र तु पक्षे `च्यवन्ते, प्लवन्ते' इत्यत्र शबन्तादेशाकारयोः पिदपितोर्य एकादेशस्तस्य पितोऽन्यत्वात् ङित्त्वमपाद्येत, ततश्च धातोर्गुणो न प्राप्नोति? पितोऽन्यत्वं त्वेकादेशस्य सर्वं प्रत्यादिवत्त्वात् परग्रहणेन ग्रहणात्, उच्यते,यथेच्छसि तथैवास्तु, उभयथाप्यदोषः। पूर्वत्र तावददोषः; यस्मादपितोरेव तुदानीत्यत्रैकादेशः, न पिदपितोः। तथा हि-- `आडुत्तमस्य पिच्च' (3.4.92) लोडुत्तमपुरुषस्यैव पित्त्वं विधीयते, न त्वाटः। इतरत्राप्यदोषः, यस्मादपिदित्यनेन सार्वधातुकं विशिष्यते-- पितोऽन्यत् सार्वधातुकमपिदिति। न चान्तशब्दाकारः सार्वधातुकम्, किं तर्हि ? तदेकदेशः। यच्चात्र सार्वधातुकं न च तेन सहैकादेशः, येन सहैकादेशो न च तत्सार्वधातुकम्;तेन यद्यप्ययमेकादेशः पितोऽन्यः; तथापि सार्वधातुकं न भवतीति तत्कुतो ङित्त्वस्य प्रसङ्गः ? अथ वा भवतु ङित्तवम्, सत्यपि तस्य ङित्त्वे तस्मिन् नास्ति गुणाभावप्रसङ्गः ? यस्मात् `वार्णादाङ्गं बलीयः' (व्या.प.39) इति वचनादेशाद्धि प्रागेव `च्यवन्ते, प्लवन्ते' इत्यत्र गुणेन भवितव्यम्।
`कुरुतः' इति। ततो ङित्त्वे सति विकरणस्य गुणो न भवति। करोतेरस्य `अत उत् सार्वधातुके' (6.4.130) इत्युत्त्वं भवति। तत्र हि `गमहन' (6.4.98) इत्यादिसूत्रात् क्ङितीत्यनुवर्तते।।
5.असंयोगाल्लिट् कित्। (1.2.5)
धातोरेव लिड् विधीयते, नान्यस्मादिति लिटा सामर्थ्याद्धातुः सन्निधापितः; स चासंयोगग्रहणेन विशिष्यते, विशेषणेन च तदन्तविधिर्भवतीत्याह-- `असंयोगान्ताद्धातोः' इति। यदि तर्ह्यसंयोगान्ताद्धातोः परस्य लिटः कित्त्वं विधीयते; तदा `ववृते, ववृधे' इति न सिध्यति, परत्वाद् गुणेन भवितव्यम्। कित्त्वस्यावकाशः -- `ईजतुरीजुः' इति, गुणस्यावकाशः-- `वर्त्तित्वा, वर्धित्वा इति; `ववृते,ववृधे' इत्यादावुभयप्राप्तौ परत्वाद् गुण एव स्यात्, नैतदस्ति; इष्टवाचित्वात्परशब्दस्य, कित्त्वमेवेष्टम्, कित्वमेव परम्, अतस्तदेव भविष्यतीत्यदोषः।
अत्र च यदि `असंयोगात्' इति पर्युदास आश्रीयते, तदा संयोगादन्यस्मिन् गृह्यमाणे नञिवयुक्तन्यायेन (व्या.प.65) सदृशस्यैव ग्रहणं स्यात्-- संयोगस्य सदृशो योऽन्योऽसहायो हल् इति हलन्तादेव कित्त्वं भविष्यति, नाजन्तात्,ततः `चक्रश्चक्रुः' इति न सिध्यति। तस्मात् प्रसज्यप्रतिषेधोऽयम्, न पर्युदासः-- न चेत् संयोगात् यजादीनां किति' (6.1.15) इति किति विधीयते, न ङिति।
`बिभिदतुः, बिभिदुः' इति। कित्त्वात् `पुगन्तलघूपधस्य' (7.2.86) इति गुणाभावः। `सस्त्रंसे, दध्वंसे' इति। कित्त्वाभावात् `अनिदिताम्' (6.4.24) इत्यरनुनासिकल्लोपो न भवति। `स्त्रन्सु ध्वन्सु अधः पतने' (धा.पा. 754-755), अनुदात्तेत्वादात्मनेपदम्, `लिटस्तझयोरेशिरेच्' (3.4.81) इत्येशादेशः। `बिभेदिथ' इति। सिप्,थल्, क्रादिनियमादिट्।
6. इन्धिभवतिभ्यां च। (1.2.6)
`समीघे' इति। `ञिइन्धी दीप्तौ', (धा.पा. 1448) पूर्ववदात्मनेपदम्, एशादेशः, कित्त्वात् `अनिदिताम्' (6.4.24) इत्यादिनानुनासिकलोपः, द्विर्वचनम्, अकः सवर्णे दीर्घत्वं च (6.1.101)। अथ `इजादेश्च गुरुमतोऽनृच्छः' (3.1.36) इत्याम् कस्मान्न भवति ? मन्त्रविषयत्वादस्य; तत्र च `अमन्त्रे' इत्यधिकारात। एवं तर्हि मन्त्रश्छन्द एवेति `च्छन्दस्युभयथा' (3.4.117) इति सार्वधातुकत्वम्, ततश्च सार्वधाकुमपित्' (1.2.4) इति ङित्त्वम्, अत एव ङित्त्वादनुनासिकलोपो भविष्यतीति तत् किमर्थमिन्धेःपरस्य लिटऋ कित्त्वं विधीयते ? ज्ञापनार्थम्। एतदनेन ज्ञाप्यते- अनित्योऽयमामिति। नित्ये ह्यामि तेन व्यवधानादेवेन्धेः परो लिण्न सम्भवतीति कित्त्वविधानं नोपपद्यते; तस्मादनित्योऽयमामिति। तेन भाषायामपि `समीधे' इति प्रयोग उपपन्नो भवति।
`बभूव, बभूविथ' इति। कित्त्वाद् यथाक्रमं वृद्धिगुणौ न भवतः।`भुवो वुग् लुङलिटोः' (6.4.88) इति वुक्। `भवतेरः' (7.4.73) इत्यभ्यासस्यात्त्वम्। ननु च कृतयोरपि गुणवृद्ध्योर्वुका भवितव्यम्, अकृतयोरपीति नित्यो वुक्; कृताकृतप्रसङ्गित्वात्, तत्र नित्यत्वाद् वुकि कृते गुणवद्धयोः प्राप्तिरेव नास्ति, भवतेरलघूपधत्वात्, अनजन्तत्वाच्चेति भवतिग्रहणमनर्थकम् ? नैतदस्ति; `शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति' (व्या.प.100) इति वुगप्यनित्यः। ततश्च परत्वात् गुणवृद्ध्योः कृतयोर्वङ न स्यात्। तस्माद् भवतिग्रहणं कर्त्तव्यम्। अथ कृतयोरपि गुणवृद्ध्योरेकदेशविकृतमनन्यवद्भवतीति नास्ति शब्दान्तरत्वम् ? एवं सति शक्यं भवतिग्रहणमकर्तुम्। तत् क्रियते विस्पष्टार्थम्।
अथ `बभूव' इत्यत्र `अचो ञ्णिति' (7.2.15) इति वृद्धेः कथं प्रतिषेधः, यावतेक इत्यनुवर्त्तते ? क्ङिति च' (1.1.5) इत्यनेनेग्लक्षणा वृद्धिः प्रतिषिध्यते, न चेयमिग्लक्षणा वृद्धिः, निर्दिष्टस्थानिकत्वात्। अत्र कित्त्वविधानसामर्थ्यादनिग्लक्ष
णा अपि वृद्धेर्भविष्यति प्रतिषेधः; अन्यथा कित्त्वविधानमनर्थकं स्यादिति चेत्, न; तस्य थल्युत्तमणलि च गुणुप्रतिषेधार्थत्वात्। एवं तर्हि ङिद्ग्रहणमप्यनुवर्त्तते, तदनुवर्त्तमाने न विद्यमानमन्यत् प्रयोजनम्, तेनानिग्लक्षणाया अपि वृद्धेः प्रतिषेधो भविष्यति। `इन्धेः संयोगार्थं (ग्रहणम्-- काशिका) वचनम्' इति। तस्य संयोगान्तत्वात् पूर्वेणासिद्धेः।
`भवतेः पिदर्थम्' इति। नापिदर्थम्; तस्यासंयोगान्तत्वादपिदिति पूर्वेण सिद्धेः। भवतेरिह श्तिपा निर्देशो यङलुग्निवृत्त्यर्थः-- यङलुगन्तल्लिटः कित्त्वं मा भूदिति। `बोभाव' इति। तथा चोक्तम्----
श्तिपा शपानुबन्धेन निर्दिष्टं यद् गणेन च।
यत्रैकाज्ग्रहणं किञ्चित् पञ्चैतानि न यङलुकि।। (पु.प.94) इति।
`अन्थिग्रन्थि' इत्यादि। `श्रन्थ ग्रन्थ सन्दर्भे' (धा.पा.1512,1513), `दम्भ,द्म्भे' (धा.पा. 1290) `ष्वन्ज परिष्वङ्गे' (धा.पा.973) एषामपि श्रन्थिग्रन्थिप्रभृतीनां लिटः कित्त्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- चकारोऽनुक्तसमुच्चयार्थः क्रियते, तेन श्रन्थिप्रभृतीनामपि संयोगान्तानां लि
टः कित्त्वं भविष्यतीति। `श्रेथतुः' इत्यादि। कित्त्वात् `अनिदिताम्' (6.4.24) इत्यनुनासिकलोपः । `तॄफलभजत्रपश्च' (6.4.122) इति चकारस्यानुक्तसमुच्चयार्थत्वादनेकहल्मध्यस्याप्येत्वाभ्यासलोपौ। `परिषस्वजे' इति। अनुदात्तेत्त्वादात्मनेपदम्। पूर्वस्य सकारस्य `स्थादिष्वभ्यासेन चाभ्यासस्य' (8.3.64) इति वर्त्तमाने, `उपसर्गात् सुनोति' (8.2.65) इत्यादिना षत्वम्। परस्य तु सकारस्य `सदिस्वञ्जयोः परस्य लिटि' (8.3.118) इति षत्वप्रतिषेधः।
7.मृडमृदगुधकुषक्लिशवदवसः क्त्वा। ल(1.2.7)
`मुड सुखने', (धा.पा.1516) `मृद क्षोदे' (धा.पा.1515) , `गुध रोषे ' (धा.पा.1517) , `कुष निष्कर्षे' (धा.पा.1518) `क्लिशू विबाधने' (धा.पा.1522), `वद व्यक्तायां वाचि' (धा.पा. 1009), `वस निवासे' (धा.पा.1942)। `न क्त्वा सेट् इति कित्त्वप्रतिषेधं वक्ष्यति' इति। नन्वेदतदेव नियमार्थं भविष्यतीति--- मृडादिभ्य एव सेट् क्त्वा किद् भवति, नान्येभ्य इति, ततश्च सिद्धं देवित्वा, सेवित्वेत्यादि, तत् किमर्थं `न क्त्वा सेट्'(1.2.18) इति प्रतिषेधं वक्ष्यतिर ? विस्पष्टार्थम्; अन्यथा हि
केचिद्विपरीतनियमं सम्भावयेयुः-- मृडादिभ्यः क्त्वाप्रत्यय एव किद् भवति, नान्य इति। `पुरस्तादपकर्षः' इत्यादि। अपकर्ष इत्यपवाद इत्यर्थः। `क्लिशित्वा' इति। `क्लिशः क्त्वानिष्ठयोः' (7.2.50) इतीट्। `उदित्वा'इति, `उषित्वा' इति। वच्यादिसूत्रेण (6.1.15) संप्रसारणम्। वसतेः `शासिवसिधसीनाञ्च' (8.3.60) इति षत्वम्, `वसतिक्षुधोः' (7.2.52) इतीट्।
8.रुदविदमुषग्रहिस्वपिप्रच्छः संश्च। (1.2.8)
`रुदिर् अश्रुविमोचने' (धा.पा.1067), `विद ज्ञाने' (धा.पा.1064), `मुष स्तेये' (धा.पा.1530), `ग्रह उपादाने' (धा.पा.1533), `ञिष्वप् शये (धा.पा. 1068) `प्रच्छ ज्ञीप्सायाम्' (धा.पा.1413)। `ग्रहेर्विध्यर्थमेव' इति। `न क्त्वा सेट' (1.2.18) इति प्रतिषिद्धस्य कित्त्वस्य पुनर्विधिर्यथा स्यात्। `स्वपिर्विध्यर्थमेव' इत्यादि। `सन्नर्थम्' इति। अथ क्त्वार्थं वचनं कस्मान्न भवतीत्याह--- `किदेव हि क्त्वा' स्वपिप्रच्छयोर्हि `एकाच उपदेशेऽनुदात्तात्' (7.2.10) इतीट्प्रतिषेधात् क्त्वा सेड् न भवतीत्यतः `न क्त्वा सेट्' (1.2.18) इति निषेधो न प्रवर्त्तते। तेन किदेव हि क्त्वेति। `रुदित्वा' इति। `समानकर्तृकयोः पूर्वकाले' (3.4.21) इति क्त्वा। `गृहीत्वा' इति। `ग्रहोऽलिटि दीर्घः' (7.2.37) ग्रह्यादिसूत्रेण (6.1.16) संप्रासरणम्। `जिघृक्षति' इति। `हो ढः' (8.2.31) इति तत्वम्, `ष़ढोः कः सि' (8.2.41) इति कत्वम्;
`एकाचो बसो भष्' (8.2.37) इत्यादिना गकारस्य घकारः, `सनि ग्रहगुहोश्च' (7.2.12) इतीट्प्रतिषेधः। `सुषुप्सति' इति। वच्यादिसूत्रेण (6.1.15) संप्रसारणम्। `पिपृच्छिषति' इति। अत्रापि ग्रह्यादिसूत्रेण (6.1.16) संप्रसारणम्; `छे च' (6.1.73) इति तुक्, `स्तोः श्चुना श्चुः' (8.4.40) इति श्चुत्वम्।।
9.इको झल्। (1.2.9)
`क्त्वेति निवृत्तम्' इति। झलादेः क्त्वाप्रत्ययस्यौपदेशिकं कित्त्वमस्त्येवेति तदनुवृत्तेरपार्थकत्वात्। सन्ग्रहणन्तु प्रथमान्तमिहानुवर्त्तते, तस्य झलित्यनेन सामानाधिकरण्यमुपपन्नम्। अतः सामर्थ्यात् तदादिविधिर्विज्ञायत इत्यत आह-- `झलादिः सन् किद्भवति' इति।
अथ तदन्तविधिः कस्मान्न भवति-- झलन्तः सन्निति ? एवं मन्यते-- वृद्धसंज्ञा (1.1.73) सूत्रादिहादिग्रहणमनुवर्त्तते, तेन झल् विशिष्यते; तस्मात् तदादिविधिरेव विज्ञायिते, न तदन्तविधिरिति। यदि पुनस्तदन्तविधिः स्यात् तदा किं स्यात् ? यत्रातो लोपे कृते झलन्तत्वं सनस्तत्रैव स्यात्-- चिकीर्षितेत्यादौ; चिकीर्षतीत्यादौ तदु न स्यात्, अदन्तत्वात्। अदन्तत्वन्तु सञ्शबकारयोर्द्वयोरेकादेशस्य पूर्वं प्रत्यन्तवद्भावात्।४
अथेक इति `इक् स्मरणे' (धा.पा.1047) इत्यस्य धातोर्ग्रहणं कस्मान्न भवति ? झलिति प्रत्याहारस्यैव युक्तत्वात्; किञ्च-- गर्गादिषु जिगीषुशब्दपाठाच्च। धातुग्रहणे हि सति जयतेः परस्य सनः कित्त्वं न स्यात्, तथा च जिगीषुशब्दो न सिद्ध्येत्। किञ्च-- धातुग्रहणे हि सतीको धातोः समीपगतो हल् न सम्भवतीति `हलन्ताच्च' (1.2.10) इत्येदप्यघटमानं स्यात्। तस्मात् प्रत्याहारस्यैव ग्रहणं न्याय्यम्, न धातोः। `चिचीषति' इति। `अज्झनगमां सनि' (6.4.16) इति दीर्घः। `एकाचः' (7.2.10) इत्यादिना पूर्वोक्तेनेट्प्रतिषेधः। उत्तरत्रापि यत्रेटः श्रवणं नास्ति, तत्राप्यनेनैव प्रतिषेधो वेदितव्यः। यत्र तु विशेषोऽस्ति, तत्रासौ वक्तव्य एव। `तुष्टूषति'इति। `शर्पूर्वाः खयः' (7.4.61) इति खयः शेषः। `शिशयिषते' इति। `पूर्ववत् सनः ' (1.3.62) इत्यात्मनेपदम्। एवमुत्तरत्रापीच्छासन्नन्तादात्मनेपदमनेनैव बोद्धव्यम्।
`किमर्थ पुनः' इत्यादि। अत्र वक्ष्यमाणोऽभिप्रायः। `गुणो मा भूत्' इति। यदर्थमिदमुच्यते तदाह। येनाभिप्रायेण पृष्टवांस्तमाविष्कर्तुमाह-- `अज्झनगमां सनि' इत्यादि। यदि दीर्घत्वे कृतेऽपि गुणः स्यात् तदा दीर्घत्वस्य वैयर्थ्यं स्यात्। तस्मान्मा भूतस्य वैयर्थ्यमिति दीर्घत्वं तद्गुणस्य बाधकं भविष्यतीति। अत्र दोषमापादयितुमाह-- `यथैव तर्हि' इत्यादि। असति कित्त्वेऽनवकाशं दीर्घत्वं यता गुणस्य बाधकं भवति, तथा-- `तस्मात्' इत्यादि। यत एवमनारभ्यमाण एतस्मिन्नेष दोषोऽनुषज्येत, तस्माद्दीर्घत्वस्यावकाशदानाय कित्त्वमिदमारभ्यते। अथारभ्यमाणेऽप्येतस्मिन् कस्मादेष दोषो न भवतीत्यत आह----`चिचीषति' इत्यादि। कित्त्वे सति तेनैव गुणस्य बाधितत्वात्। चिचीषति, तुष्टूषतीत्यादिषु सावकाशं दीर्घत्वं भवति; तेन च परत्वाण्णिलोपो न बाध्यते। न हि कित्त्वे सति शक्यमेवं वक्तम्-- यथा दीर्घत्वं गुणं बाधते, तथा णिलोपमपीति; यस्मान्न गुणो दीर्घत्वेन बाध्यते,किं तर्हि ? कित्त्वेन। अत्र दीर्घत्वस्यावकाशो दर्शितः णिलोपस्य त्वेषोवकाशः- पाचयतेः पाक्तिः, याजयतेर्याष्टिरित्यादि; ज्ञीप्सतीत्यत्रोभयप्राप्तौ दीर्घत्वं बाधित्वा परत्वात् णिलोप एव भवति। `ज्ञा अवबोधने' (धा.पा.1507), `मारणतोषणमनिशामनेषु' (धा.पा.811), `मिच्च' (धा.पा.1624)इति चुरादिपाठाण्णिच्। `अर्त्तिह्री' (7.3.36) इत्यादिना पुक्। `मितां ह्रस्वः' (6.4.92) इति ह्रस्वत्वम्। अन्ये तु-- `ज्ञप मारणतोषणनिशामनेषु' (धा.पा.1624) इति पठन्ति, ततो णिच्, तत इच्छासन्, `सनीवन्तर्द्ध' (7.2.49) इत्यादिना पक्षे इडभावः, क`आप्ज्ञपृधामीत्' (7.4.55) इतीत्वम्, `अत्र लोपोऽभ्यासस्य' (7.4.58) इत्यभ्यासलोपः। त`णेरनिटि' (6.4.51) इति णिलोपः।
`इकः कित्त्वम्' इत्यादि। अथ किमर्थमिक उत्तरस्य सनः कित्त्वं विधीयते, किमर्थमिको झलिति योगविभागः क्रियते, नन्वेकमेवेदं सूत्रं पठितव्यम्, `इको झल् हलन्ताच्च' इति ? प्रयोजनमाह--- `गुणो मा भूत्' इति। चिचीषतीत्यादौ `सार्वधातुकार्धधातुकयोः' (7.3.84) इति गुणः प्राप्नोति, स मा भूदित्येवमर्थं कित्त्वं विधीयते। नैतदस्ति प्रयोजनम्; यस्मात् `अज्झनगमां सनि' (6.4.16) इति नाप्राप्ते गुणे दीर्घत्वमारभ्यते, अतो दीर्घारम्भाद् गुणो न भविष्यतीति; अन्यथा हि दीर्घग्रहणमनर्थकं स्यात्। ननु च चुकूषते इत्यत्र दीर्घवचनस्य सार्थकत्वम्, अत्र हि गाङकुटादिसूत्रेण (1.2.1) ङित्त्वे सति गुणो न प्रवर्त्तते, नैतदस्ति; न ह्येकमुदाहरणं प्रति योगारम्भं प्रयोजयति। यदि ह्येतत् प्रयोजनमभिमतं स्यात्, णिग्रहणमेव कुर्यात्। समुदायामात्रादपेक्षया वा `पुरस्तादपदादाः' इत्यादिका परिभाषा नास्त्येवेति।
10. हलन्ताच्च। (1.2.10)
इक इत्यनुवर्त्तते। अत्र यदि चान्तशब्दोऽवयववाची स्यादिको हला सह सम्बन्धोन स्यात्, न हीको हलवयवः सम्भवति। यो हि येनारभ्यते, अपृथग्देशभूतः स तस्यावयवो भवति; यथा-- पटस्य तन्तव इति। न च हलेगारभ्यते, तस्मान्नायमन्तशब्दोऽवयववाची; अपि तु समीपवचनो युक्त इति मत्वाऽऽह-- `समीपवचनोऽऽयमन्तशब्दः' इति। ननु च धातुरत्र सामर्थ्यादाक्षिप्तः, अत्सतदपेक्षया हलोऽवयवत्वं भविष्यति, नैतदस्ति; एवं तर्ह्यन्तशब्दोऽतिरिच्येत, `येन विधिस्तदन्तस्य' (1.1.720 इत्यनेनैव तदन्तविधेर्लब्धत्वात्। हल् चासावन्तश्चेति विग्रहविशेषेण कर्मधारयत्वं दर्शयति। कस्य पुनरसावन्तः ? प्रकृतस्येकः। यद्येवम्, सापेक्षमसमर्थं भवतीतिकमपेक्षमाणस्यान्तशब्दस्य समासो नोपपद्यते, नैष दोषः; अन्तशब्दो ह्यत्र प्रधानः। भवति च प्रधानस्य सापेक्षस्यापि समास िति द्वितीयेऽध्याये ज्ञापयिष्यति `उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' (2.1.56) इत्यत्र सामान्याप्रयोगग्रहणेन।
`इगन्तात्'इति। षष्ठीसमासोऽयम्। ननु चेक इति प़ञ्चम्यन्तं प्रकृतम्, तत् कथं षष्ठीसमासः ? नैष दोषः; यद्यपि पञ्चम्यन्तं प्रकृतम्, तथापीह समीपसमीपिसम्बन्धे
सति विभक्तिविपरिणामेन षष्ठ्यन्ततामनुभवति-- `इकः समीपगतात्' इति। इकः समीपवर्तिन इति। `बुभुत्सते' इति। `बुध अवगमने' (धा.पा.1172), `एकाचो बशो भष्' (8.2.37) इत्यादिना भष्भावः। एवमुत्तरत्रापि यत्र भष्भावस्तत्रानेनैव बोद्धव्यः। `खरि च' (8.4.55)
इति चर्त्वम् = धकारस्य तकारः। `यियक्षते' इति। यजेर्व्रश्चादिना (6.1.15) इत्यादिना संप्रसारणं न भवति।
यदि समीपवचनोऽमन्तशब्दस्तदा दम्भेः परस्य सनः कित्त्वं न सिध्यति। तथा हि-- तस्य य इकः समीप गतो हल् न तस्मात् परः सन्, यस्मात् परः सन् नासाविकः समीपगत इत्यत आह-- `दम्भेः' इत्यादि। हलित्यनेन हल्जातिरुच्यते, न तु व्यक्तिः। तेन यदा `ता एव व्यक्तयस्त्यक्तभेदा जातिः' इति दर्शनम्; तदा तासां व्यक्तीनां हल्त्वेनाश्रितानां नास्ति व्यवधानम्। अतो यैव हल्जातिरिकः समीपवर्तिनी तत एव परः सन्निति दम्भेर्विहितस्य सनः कित्त्वं सिद्धमेव। यदाप्यर्थान्तरभूता जातिर्व्यक्तिषु प्रत्येकं परिसमाप्ता निरवयवैका, तदापि नास्ति व्यवधानम्; यस्माद्व्यक्तिर्व्यक्त्यन्तरस्य व्यवधायिका भवति, न तु जातेः; तस्या अशरीरिणीत्वात्। तस्मादिहापि दर्शने यैव हल्जातिरिकः समीपगता तत एव परः सन्निति दम्भेः परस्य सनः कित्त्वं भवति। तस्यास्तु व्यक्तिव्यतिरिक्ताया जातेर्यदिकमपेक्ष्य समीपवर्तिनीत्वम्, यच्च तज्जातिमपेक्षमाणस्य सनः परत्वम्-- तदुभयं व्यक्तिद्वारकं वेदितव्यम्। तत्र नकारव्यक्तिरिकः समीपगतेति तदाधारा हल्जातिरपीकः समीपगतेति भकारस्य व्यक्तेः परः सन्निति तदाधारभूताया जातेरपि परः सन्, न तु जातेर्व्यक्तिनिरपेक्षं समीपवर्तिनीत्वं सम्भवति। नापि जात्यपेक्षं सनः परत्वम्; तदुभयं व्यक्तिद्वारकं वेदितव्यम्। तत्र नकारव्यक्तिरिकः समीपगतेति तदाधारा हल्जातिपीकः समपीगतेति भकारस्य व्यक्तेः परः सन्निति तदाधारभूताया जातेरपि परः सन, न तु जातेर्व्यक्तिनिरपेक्षं समीपवर्तिनीत्वं सम्भवति नापि जात्यपेक्षं सनः परत्वम्; जातेरशरीरिणीत्वात्। यदि तर्हि व्यक्तिद्वारकमेतदुभयम् ? एवं तर्हि विपर्ययोऽपि व्यक्तिद्वारकः स्यात्। भकारव्यक्तिरिकः समीपगता न भवतीति जातिरपि न स्यात्; नकारव्यक्तेः परः सन् न भवतीति जातेरपि न स्यात्, ततश्च हल्ग्रहमस्य सत्यपि जातिवाचकत्वे दम्भेः परस्य सनः कित्त्वं न सिध्यत्येव ? नैतदस्ति; यद्यपि जातेर्व्यक्तिद्वारकमिकः समीपवर्तिनीत्वं तद्विपर्ययश्च, सनोऽपि यद्यपि व्यक्तिद्वारकं जात्यपेक्षं परत्वं
तद्विपर्ययश्च; तथापि यदत्र हल्त्वसामान्यस्येकः समीपगतत्वं यदपेक्षञ्च सनः परत्वं तदाश्रयं कित्त्वं भविष्यतीति विपर्ययस्तु विद्यमानोऽपि नापेक्ष्यत एव, लक्ष्यानुरोधात्।
ननु च हल्त्वं नाम जातिर्नासत्येव, तथा हि-- हलिति संज्ञाशब्दः संङ्केतवशादेव प्रवर्तते डित्थादिशब्दवत्। न हि यथा गवादिषु गोत्वादिकं नाम सामान्यमभिन्नमस्ति, तथा हकारादिषु वर्णेषु हल्त्वं नाम सामान्यमभिन्नमस्तीति शक्यमभ्युपगन्तुम्; तन्नबन्धनस्याभावात्। ततश्चायुक्तमुक्तम्-- दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्त सिद्धमिति, नैतदस्ति; जातिपदार्थवादिनां मते येऽपि तावदेकवस्त्वभिधायिनः संज्ञाशब्दा देवदत्तादयस्तदर्थानामप्यवस्थाभेदे परिकल्पितानानात्वेन जातिरभ्युपगम्यते, किं पुनर्हलित्येवमादीनामनेकवर्णविषयाणां संज्ञाशब्दानाम !अन्यथा ह्यतिव्यापिनी शब्दार्थस्य व्यवस्था स्यात्। इदञ्च तावद्भवान् प्रष्टव्यः-- गवादिषु जातेरस्तित्वस्य किं निबन्धनं येनासौ तत्राभ्युपगम्यत इति ? भिन्नेष्वभिन्नाभिधानप्रत्ययाविति चेत्, एतावितरत्रापि समानौ।यथैव हि गवादिषु भिन्नेष्वपि प्राक् सह्केतादुत्तरकालमनुयायिनौ तौ भवतः, तथा हकारादिष्वपि । प्राक् सङ्केताद्यथा तेषु तौ न भवतस्तथा गवादिष्वपि। तस्माद् यौ भिन्नेष्वभिन्नाभिधनाप्रत्ययौ जातिसद्भावसम्प्रत्ययहेतुभूतौ हल्ष्वपि स्त इति
तत्रापि हल्त्वं नाम जातिरभ्युपेया, न तु गवादिष्वेव गोत्वादिकमस्तीत्येकान्त एव।
`धिप्सति, धीप्सति' इति। `सनीवन्तर्ध' (7.2.49) इत्यादिना यत्र पक्ष इण् नास्ति तत्रेदमुदाहरणम्। `दम्भ इच्च' (7.4.56) इतीत्त्वम्, ईत्त्वञ्च, `अत्र लोपोऽभ्यासस्य' (7.4.58) इत्यभ्यासलोपः। `खरि च' (8.4.55) इति चर्तम् = भकारस्य पकारः।
कित्त्वे सति `अनिदिताम्' (6.4.24) इति न लोपः। दकारस्य भष्भावेन धकारः।।
11. लिङ्सिचावात्मनेपदेषु। (1.2.11)
`लिङसिचावात्मनेपदेषु परतः'इति। कथं पुनर्लिङात्मनेपदेषु परतो भवति, यावता सिच एवात्मनेपदेषु परत्वं सम्भवति, न लिङः ? एवं मन्यते-- लिङेकदेशेऽत्र सीयुटि लिङशब्दो वर्तते, यथा-- `न धातुलोप आर्धधातुके' (1.1.4) इत्यत्र धात्वेकदेशे धातुशब्दो वर्तते। तस्मात् सीयुट एवानेन प्रकारेण कित्त्वं विधीयते। अथ वा-- यथा हल्ङ्यादिसूत्रे (6.1.68) ययोरेव दीर्घत्वं सम्भवति तयोरेव ङ्यापो दीर्घादित्येतद्विशेषणम्, तथेहापि यस्मादात्मनेपदं परं सम्भवति सिचः, तस्यैवैतद्विशेषणम्। आत्मनेपदग्रहणं भवति परस्मैपदव्यवच्छेदार्थम्।
`भिस्तीष्ट'इति। `आशिषि लिङलोटौ' (3.3.173) इति लिङ्; स्वरितत्वादात्मनेपदम्। एवमुत्तरत्रापि स्वरितञितः कर्त्रयात्मनेपदमनेनैव वेतितव्यम्। `सुट तिथोः' (3.4.107) इति सुट्। कर्तरि श्नम्, `लिङ सलोपोऽनन्त्यस्य' (7.2.79) इति च न भवति, `लिङाशिषि' (3.4.116) इत्यार्धधातुकत्वात्, तयोश्च सार्वधातुके विधानात्। `भुत्सीष्ट' इति। बुधेः `अनुदात्तङितः' (1.3.12) इत्यात्मनेपदं वेदितव्यम्। उत्तरत्राप्यनुदात्तङिद्भ्यः कर्तर्यात्मनेपदमनेनैव वेदितव्यम्। `अभित्त' इति। `झलो झलि' 8.2.26) इति
सिचो लोपः। `अबुद्ध' इति। `झषस्तथोर्धोऽधः' (8.2.40) इति तकारस्य धकारः, `झलां जश् झशि' (8.4.53) इति पूर्वधकारस्य दकारः। `यक्षीष्ट' इति। स्वरितेत्त्वादात्मेपदम्। पूर्ववत् षत्वं कत्वञ्च। `संप्रसारणं हि स्यात्' इति। वच्यादिसूत्रेण (6.1.15)।
`अद्राक्षीत्' इति। `अस्ति सिचोऽपृक्ते' (7.3.96) इतीट्, `वदव्रजहलन्तस्याचः' (7.2.3) इति वृद्धिः। पूर्ववत् षत्वकत्वे।।
12. उश्च। (1.2.12)
लिङसिचाविहानुवर्तमानौ धातुं सन्निधापयतः, तत एव तयोर्विधानात्। न च ऋकारेण विशिष्यते। `येन विधिस्तदन्तस्य ' (1.1.72) इति ऋकारेण तदन्तविधिर्विज्ञायत इत्याह--`ऋकारान्ताद्धातोः' इत्यादि।
अथ `ऋ गतौ' (धा.पा.1098) इत्यस्य धातोर्ग्रहणं कस्मान्न भवति ? शैलीहेयमाचार्यस्य यत्र यस्य धातोर्ग्रहणमिच्छति तत्र यस्य श्तिपा निर्देशः करोति, यथा-- `अर्तिपिपर्त्योश्च' (7.4.77) `सर्तिशास्त्यर्तिभ्यश्च' (3.1.56) इति, न चेह श्तिपा निर्देशः कृतः; तस्मादृवर्ण्सयैवेदं ग्रहणम्, न धातोः। `अकृत' इति। `ह्रस्वादङ्गात् (8.2.27) इति सिचो लोपः। `वरिषीष्ट' इति। वृङो वृञो वैकस्य रूपम्। `लिङसिचोरात्मनेपदेषु' (7.2.42) इतीट्।
13. वा गमः। (1.2.13)
`संगसीष्ट' इति। `समो गमृच्छि' (1.3.29) इत्यादिनात्मनेपदम्। `समगत' इति।
ह्रस्वाङ्गात्' (8.2.27) इति सिचो लोपः।
14. हनः सिच्। (1.2.14)
`आहत' इति। ` आङो यमहनः' (1.3.28) इत्यात्मनेपदम्। पूर्ववत् सिचो लोपः।
`आहसत' इति। `आत्मनेपदेष्वनतः' (7.1.5 इत्यदादेश-। अथ सिज्ग्रहणे प्रकृते पुनः सिज्ग्रहणं किमर्थं क्रियत इत्याह-- `सिज्ग्रहणं लिङनिवृत्यर्थम्' इति। प्रकृतं हि सिज्ग्रहणं लिङा सह सम्बद्धम्, अतस्तदनुवृत्तौ सत्यां तस्याप्यनुवृत्तिराशङ्क्येत; तस्मात् तन्निराकर्तुं सिज्ग्रहणं क्रियते। ननु च हन्तेलिङि वधादेशेन भवितव्यम्; न च तत्र सत्यपि कित्त्वे किञ्चिदनिष्टमापद्यते, तत् कस्माल्लिङनिवृत्त्यर्थं सिज्ग्रहणं क्रियत इत्यत आह-- `उत्तरत्र' इत्यादि। यद्यत्र लिङनुवर्त्तते तत उत्तरत्र तस्यानुवृत्तिः स्यात्, ततश्चोत्तरसूत्रेण तस्यापि कित्त्वं स्यादित्यभिप्रायः।
इह तु वृत्तावात्मनेपदेन सिज् न विशेष्यत इत्यात्मनेपदं निवृत्तमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्तुमाह--- `आत्मनेपदग्रहणम्' इत्यादि। इहापि कस्मान्न भवतीत्यत आह-- `इह तु' इत्यादि। `लुङि च' (2.4.43) इति हन्तेः परस्मैपदेषु लुङि वधादेशः क्रियते, स च नित्यः। नित्यत्वन्तु तस्य `आत्मनेपदेष्वन्यतरस्याम्' (2.4.44) इत्यत्तरसूत्रेऽन्यतरस्यां ग्रहणात्। नच नित्ये वधादेशे कित्त्वस्य किञ्चित् प्रयोजनमस्ति अतो नेहात्मनेपदस्यानुवृत्तिरुपपद्यते।
अथ किमर्थं हन्तेः परस्य सिचः, कित्त्वं विधीयते, यावता `सार्वधातुकमपित्' (1.2.4) इति सिचः परस्य सार्वधातुकस्य ङित्त्वमस्त्येव ? तत्र `अनिदिताम्' (6.4.24) इत्यनुनासिकलोपः सिद्धः। सिच इदित्त्वान्न सिध्यतीति चेत् ? न; सिच इकारस्योच्चारणार्थत्वात्। तथा हि `च्लेः सिच्' (3.1.44) इत्यत्र वक्ष्यति-- `इकार उच्चारणार्थः' इति। एवमपि च्लेरिदित्वात् सिचोऽपि स्थानिवद्भावेनेदित्त्वमतो न सिध्यतीति चेत्, न ; च्लेरकारस्योच्चारणार्थत्वात्. तथा हि `च्लि लुङि' (3.1.43) इत्यत्र वक्ष्यति--- `इकार उच्चारणार्थः' इति। एवं तर्हि सिद्धे ङित्त्वे सति यत् पुनरिह हनः सिजिति सिचः कित्त्वं विदधाति तज्ज्ञापयति--बाह्य सार्वधातुकमाश्रित्य सिजन्तस्य `अनिदिताम्' (6.4.24) इत्यनुनासिकलोपो न भवतीति; तेनारंस्त,अमंस्त आयंस्त पादमिति सिद्धं भवति; अन्यथा ह्यनुनासिकलोपे कृत आयतेत्यनिष्टं रूपं स्यात्।
15.यमो गन्धने। (1.2.15)
ननु च `यम उपरमे' (धा.पा.984) इति पठ्यते, तत् कथमयं गन्धने वर्तते, इत्यत आह-- `अनेकार्थत्वात्' इति। `आङो यमहनः' (1.3.28) इत्यत्र `अकर्मकाच्च' (1.3.26) इत्यतोऽकर्मकग्रहणमनुवर्तते। तत् कथमिह सकर्मकत्वे सत्यात्मनेपदमित्यत आह-- `सकर्मकत्वेऽपि इत्यादि। सकर्मकत्वन्तु पदादेः क्रमणोऽत्र विद्यमानत्वात्। `उदायंस्त पादम्' इति। आकृष्टवानित्यर्थः।।
16. विभाषोपयमने। (1.2.16)
`दारकर्म' इति। कर्मशब्दः क्रियावाची। दारक्रियेत्यर्थः।।
17। स्थाघ्वोरिच्च। (1.2.17)
सिच्च किद्भवतीति चकारेण कित्त्वं समुच्चीयत इति दर्शयति। किमर्थं पुनः सिचः कित्त्वं विधीयते; यावता गुणप्रतिषेधस्तस्य फलम्, इकारविधानसामर्थ्यादेव गुणो न भविष्यति; अन्यथा ह्येकारमेव विदध्यात् ? नैतदस्ति; लाघवार्थं हीकारविधानं स्यात्। दीर्घोच्चारणाद्ध्रस्वोच्चारणं लघु भवति। `उपास्थित' इति। `समप्रविभ्यः स्थः' (1.3.22) इत्यतः स्थग्रहणेऽनुवर्तमाने `उपान्मन्त्रकरणे' (1.3.25) इत्यत उपादिति तेन `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' (व्या.प.12) इतीत्त्वं नोत्सहते सिचं विहन्तुम्, तत् कुतो लोपः ? नैतदस्ति;न हीत्त्वं सिचीत्युच्यते, किं तर्हि ? इकारश्चान्तादेशो भवति सिच्च किद्भवतीति। अथापि सिज्निमित्तकं स्यात् ? एवमप्यदोषः; तस्याः परिभाषायाश्चानित्यत्वात्। अनित्यत्वन्तु सप्तमेऽध्याये ज्ञापयिष्यते(काशिका.7.1.13)।
`इच्च' इत्यादि। हेतुशब्दोऽत्राध्याहार्यः। तेन `षष्ठी हेतुप्रयोगे' (2.3.26) इति हेतुशब्दप्रयोगे कस्येति षष्ठी भवति। तकार इत् तकारेत्, तकार एव वा इद् यस्य स तकारेत्, तकारेतो भावस्तकारेत्त्वम्। इच्चेत्यत्र निर्देशे कस्य हेतोरिकारस्य तकारेत्त्वं क्रियते ? किमर्थमिकारस्तपरः क्रियत इत्यर्थः। शेषलक्षणा वा कार्यसम्बन्धविवक्षायां षष्ठीयम्। कस्य कार्यस्य निष्पत्त्यर्थमिकारस्तपरः क्रियत इति यावत्।
`दीर्घो मा भूत' इति, असति हि तपरत्वेऽण् गृह्यमाणः सवर्णान् गृह्णातीतीकारेण सवर्णानां ग्रहणे सति स्थानेन्तरतमपरिभाषयोपास्थित, अदितेत्यत्र दीर्घस्थाने दीर्घो भवति, स मा भूदिति तपरत्वं क्रियते।
`ऋतेऽपबि सः' इति। स इत्यनेन दीर्घस्य प्रत्यवमर्शः। ऋतेऽप्यस्मादेव वचनाद् घुमास्थादिसूत्रेण (6.4.66) दीर्घः सिद्धः, तस्माद् वचनसामर्थ्याद्दीर्घो न भविष्यतीत्यभिप्रायः। `भाव्यमानोऽण् सवर्णान् न गृह्णाति' (व्या.प.30) इत्यतो दीर्घो न भविष्यतीति। एष तु परिहारो नोक्तः, भाव्यमानेनाप्यणा क्वचित् सवर्णानां ग्रहणात्। तथा हि-- अदस औप्रत्यये परतस्त्यदाद्यत्वे `वृद्धिरेचि' (6.1.88) इति वृद्धौ कृतायाम् भवति। `अदसोऽसेर्दादु दो मः' (8.2.80) इत्युकारो विधीयमानः सवर्णानां ग्रहणादौकारस्य दीर्घस्य स्थाने दीर्घ एव भवति-- अमू इति।
`अनन्तरे प्लुतो मा भूत्' इति। अनन्तरार्थे विसदृशार्थ आरम्भे सति।कुत एतत्? विसदृशस्य आकारस्य स्थाने क्रियमाणो ह्रस्वो भवति, न पुनः प्लुतः। तस्मात् प्लुतबाधनार्थं तपरत्वं कर्तव्यम्। एतदपि नास्ति प्रयोजनम्। `प्लुतश्च विषये स्मृतः' इति। चशब्दो हेतौ। प्लुतो हि दूराद्धूतादिविषयविशेषे (8.2.84) उक्त एव। तत्र यद्यनेन प्लुतो विधीयते तदा सर्वत्र दूराद्धूतादिविषयेऽन्यत्र चानेन भवितव्यम्, ततश्च दूराद्धूतादिविषयेऽपि तस्मिन् भवत्युक्तानुवाददोषः स्यात्; तस्य कृतस्य करणात्। तस्मात् पक्ष उक्तानुवाददोषो मा भूदिति ह्रस्व एव भविष्यति, न प्लुतः इति प्रत्याख्यातं भाष्ये तपरत्वम्।
अन्ये तु वर्णयन्ति-- `प्लुतश्च विषये स्मृतः' इत नानेन तपरत्वं प्रत्याख्यायते, किं तर्हि? तस्य प्रयोजनमाख्यायते। दूराद्धूतादिविषये प्लुत इष्टोऽभिप्रेतः, स न प्राप्नोति। स्थानेऽन्तरतमपरिभाषया( 1.1.50) दीर्घस्यैव स्थाने दीर्घ एव विधीयते। ननु चोक्तं सिद्ध एव दीर्घ इति ? सिद्धस्य पुनर्वचनं प्लुतस्य बाधनार्थं स्यात्। इष्यते च प्लुतो दूरादधूतादिविषये। तस्मात् तस्य बाधको दीर्घो मा भूदिति तपरत्वं कर्तव्यम्। तेन विचार्यमाणानामित्याष्टमिको भवत्येव प्लुत इति।
18. न क्त्वा सेट्। (1.2.18)
क्त्वाप्रत्ययस्यौपवेशिकं कित्त्वमस्त्येवेति तदिटः क्त्वाप्रत्ययेन ग्रहणात् सेटोऽपि प्राप्नोतीत्यतः प्रतिषेधऽयमारभ्यते। `क्त्वाप्रत्ययः सेट् किन्न भवति' इति। अथ किं ककारस्येत्संज्ञाप्रतिषेधात् कित्त्वन्न भवति ? कित्कार्यस्य प्रतिषेधाद्वा ? यदि ह्यत्र ककारस्येत्संज्ञाप्रतिषेधादकित्त्वं विधित्सितं स्यादित्संज्ञाप्रकरणे `लशक्वसेट्क्त्वातद्धितयोः' इति सूत्रं कुर्यात्। एवं हि द्विष्प्रतिषेधो न कर्त्तव्यो भवति। तस्मात् कित्त्वप्रतिबद्धं यत् कार्यं तत्प्रतिषेधादकित्त्वं सेटः क्त्वाप्रत्यस्यानेन क्रियते, न तु ककारस्येत्संज्ञाप्रतिषेधात्।
अथ सानुबन्धकस्य ग्रहणं किमर्थम् `न त्वा' इत्येवोच्येत,एवं हि लघु सूत्रं भवति? नैतदस्ति; ककारानुच्चारणे हि कश्चिद्द्वेष्यमपि विजानीयात्। सेटः क्त्वाप्रत्ययस्य ककारानुबन्ध एव नास्ति, निरनुबन्धकस्योच्चारणादिति। तदेवं मा विज्ञायीति सानुबन्धकस्योच्चारणम्।कः पुनः सेटो निरनुबन्धकत्वे विधौ निरनुबन्धक उच्चार्यते ? एवमपि सेट एव ग्रहणं स्यात्, नानिटः;सानुबन्धकत्वात्।
`निगृहीतिः'इति। `स्त्रियां क्तिन्' (3.3.94) `तितुत्रतथ' (7.2.9) इति `ग्रहादीनां प्रतिषेधो वक्तव्यः (वा.831. ?) इति तितुत्रतथेत्यादिनेट्प्रतिषेधो न भवति।`उपस्निहितिः' इति। `स्निह प्रीतौ' (धा.पा.1200),`निकुचितिः' इति। `कुन्चु क्रुन्चु कौटिल्याल्पीभावयोः'(धा.प.185,186) एषु त्रिषूदाहरणेषु यथाक्रमं संप्रसारणगुणप्रतिषेधौ। `अनिदितां हल उपधायाः क्ङिति' (6.4.24) इत्यनुनासिकलोपश्च कित्त्वाद्भवति।
`न सेट्' इत्यादि। न सेडित्येतावता योगेनाकित्त्वे सति सिद्धं देवित्वेत्यादि,क्त्वाग्रहणं तु किमर्थम्, तेन विनाऽकित्त्वे सति `गुध परिवेष्टने' (धा.पा.1120) निगुधितो निगुधितो निगुधितवानित्यत्र निष्ठायां प्राप्नोतीति चेत् ? नैतदस्ति; निष्ठायामवधारणात्। `निष्ठा शीङस्विदिमिदि' (1.2.19) इत्यत्रावधारणान्निष्ठायां न भविष्यति-- शीङादिभ्य एव निष्ठा सेट् किन्न भवति नान्येभ्यो धातुभ्य इति। शीङादिभ्यो निष्ठैवेति विपरीत नियमस्तु नाशङ्कनीयः, न ह्यनिष्टार्था शास्त्रे प्रक्लृप्तिरिति न भविष्यति। लिटस्तर्हि कित्त्वस्य प्रतिषेधः स्यात्, ततश्च जग्मिव,जग्मित्येतत्र `गमहन' (6.4.98) इत्यादिनोपधालोपो न स्यादित्यत आह-- `ज्ञापकान्न परोक्षायाम्' इति। परोक्षे विहितत्तवाल्लिटः श्रुतिः परोक्षेत्युच्यते, तस्यां कित्त्वप्रतिषेधो न भविष्यति। कथम् ? ज्ञापकात् । किं तज्ज्ञापकम् ? इत्याह-- `सनि झल्ग्रहणं विदुः' इति। यदयम् `इको झल्' (1.2.9) इति सन्विशेषणं करोति,ततो ज्ञायते-- औपदेशिकस्य कित्त्वस्यन सेडिति प्रतिषेधोऽयम् नातिदेशिकस्येति। झल्ग्रहणं हिशिशयिषत इत्यत्र कित्त्वं मा भूदित्येवमर्थः क्रियते। यदि च न सेडिति प्रतिषेधः आतिदेशिकस्यापि कित्त्वस्य स्यात्; झल्ग्रहणमनर्थकं स्यात्। अस्त्वत्र कित्त्वम्, तस्य न सेडिति प्रतिषेधो भविष्यतीति तस्मादौदेशिकस्य कित्त्वस्य प्रतिषेधोऽयं नातिदेशिकस्येति। अस्यार्थस्य ज्ञापकं झल्ग्रहणं स्यात्, `स्थाध्वोरिच्च' (1.2.17) इत्यत्र झलादौ सिचीत्वं यथा स्यात्, अजादौ मा भूदिति-- उपास्थायिषातामिति। अत्र हि `स्यसिच्सीयुट्तासिषु' (6.4.62) इत्यादिना चिष्वद्भावः प्राप्नोति, इत्त्वञ्च; तत्र परत्वाच्चिण्वद्भावादिट्। चिण्वद्भावे सति `आतो युक् चिण्कृतोः' (7.3.33) इति युक्; तत्रासति झल्ग्रहण इडादावपीत्त्वं यकारस्थाने प्राप्नोति, नैतदस्ति; यस्मादित्त्वं कित्सन्नियोगेन विधीयते। कित्त्वं हि प्रधानभूतम्, इत्त्वमन्वाचयशिष्टम्। अतः कित्त्वाभावे तदित्त्वं न भविष्यतीति। अथ `स्थाध्वोरिच्च' (1.2.17) इत्यत्रापि कित्त्वं कस्मान्न भवति ? `न सेट्' इत्येतावता योगेन प्रतिषिद्धत्वात्।
`रेण तुल्यं सुधीवनि' इति। रेफेण तुल्यमेतदित्त्वम्। क्व चोदाहरणे ? सुधीवनीत्यत्र। शोभना धीवानो यस्यां सा सुधीवा। `अनो बहुव्रीहेः' (4.1.12) इति ङीपोऽत्र प्रतिषेधे कृते यथा `वनो र च' (4.1.7) इति रेफो ङीप्सन्नियोगेन विधीयमानस्तदभावे न भवति, तथा कित्तवसन्नियोगेन विधायमानमित्त्वं तदभावे न भविष्यति। किमर्थं तर्हि
क्त्वाग्रहणम् ? क्वसौ कित्त्वप्रतिषेधो मा भूदित्येवमर्थं क्त्वाग्रहणं कर्त्तव्यम्। क्वसौ त्वौपदेशिकं कित्त्वमस्ति, तस्य `न सेट्' इत्येतावता योगेन प्रतिषेधः स्यात्। ततश्च जग्मिवान्-- इत्यत्रोपधालोपो न स्यात्। `वस्वर्थं किदतीदेशात्' इति। न भविष्यतीत्यध्याहार्यम्। अस्तु क्वसावौपदेशिकस्य कित्त्वस्य प्रतिषेधः, सत्यपि तस्मिन् `असंयोगाल्लिट् कित्' (1.2.5) इति यदातिदेशिकं कित्त्वम्, तेनोपधालोपो भविष्यति। झल्ग्ररहणादातिदेशिकस्य कित्त्वस्य प्रतिषेधो न भविष्यतीत्युक्तं ह्येतत्। तस्माद्वस्वर्थं क्त्वाग्रहणं न भविष्यतीति।
एवं तर्हि-- निगृहीतिः प्रयोजनम्। क्तिनि तु प्रतिषेधो मा भूदित्येवमर्थं
क्त्वाग्रहणमित्यर्थः। जग्मिवानित्यत्र `विभाषा गमहनविदविशाम्' (7.2.68) इति क्वसोरिट्, `उगिदचाम्' (7.1.70) इति नुम्, हलङ्यादिसंयोगान्तलोपौ (5.1.68; 8.2.23)
`सान्तमहतः' (6.4.10) इत्यादिना दीर्घः।
19. निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः। (1.2.19)
`शीङ स्वप्ने' (धा.पा.1032) , `ञिष्विदा गात्रप्रक्षरणे' (धा.पा.1188), `ञिमिदा स्नेहने' (धा.पा.1243), `ञिक्ष्विदा स्नेहनमोचनयोः' (धा.पा.1244), `ञिधृषा प्रागल्भ्ये' (धा.पा.1269) । `शयिततवान्' इति। `अत्वसन्तस्य चाधातोः' (6.4.14) इति दीर्घः। `शयितः' इति। `गत्यथाकर्मक' (3.4.72) इत्यादिना कर्तरि क्तः। `प्रस्वेदितः' इत्यादौ `आदिकर्मणि क्तः कर्तरि च' (3.4.71) इत्यनेन प्रशब्द आदिकर्म = प्रारम्भं द्योतयति।`प्रधर्षितः' इति। वैयात्यादन्यत्रेदमुदाहरणम्। तत्र हि `धृषिशसीवैयात्ये' (7.2.19) इतीट्प्रतिषेधेन भवितव्यम्। प्रकृतिग्रहणे यङलुको ग्रहणं स्मरति। अतो यङलुको `एरनेकाचः' (6.4.82) इत्यादिना यणादेशः।।
20. मृषस्तितिक्षायाम्। (1.2.20)
तितिक्षा = क्षमा, क्षान्तिरिति। यद्येवम्, क्षान्तिग्रहणेव कर्त्तव्यम्,लघु ह्येवं सूत्रं भवति ? सत्यमेतत्; वैचित्र्यार्थं तु न कृतम्।
`अपमृषितम्' इति। अपरामृष्टमित्यर्थः, अनेकार्थत्वातद्धातूनाम्। अनेकार्थत्वं तु तितिक्षाग्रहणाद्विज्ञायते। असति हि तत्र मृषस्तितिक्षायामेव पठ्यत इति तन्न कुर्यात्, व्यवच्छेद्याभावात्।
21. उदुपधाद्भावदिकर्मणोरन्यतरस्याम्। (1.2.21)
`आदिकर्मणि वर्तमानः' इति। आदिभूतक्रियाक्षण आदिकर्म, तस्मिन् भूतत्वेन विवक्षते यः क्तो भवति, स आदिकर्मणि वर्तते। `द्योतितमनेन, द्युतितमनेन' इति। `द्युत
दीप्तौ' (धा.पा.741) नंपुसके भावे क्तप्रत्ययः। एवं `मोदितमनेन, मुदितमनेन' इत्यत्रापि ; `मुद हर्षे' (धा.पा.16) इत्यस्मात्। `प्रद्युतितः' इत्यादिषु तु `आदिकर्मणि क्त कर्त्तरि च' (3.4.71) इति क्तः कर्त्तर्येव विधीयते, न कर्मणि; धातोरकर्मकत्वात्. नापि भावे; भावोदाहरणादविशेषप्रसङ्गात्।कर्त्तर्यव्युत्पन्नः क्त आदिकर्मसम्बन्धादादिकर्मणीत्युच्यते।आदिकर्मसम्बन्धस्त्वर्थद्वारकः।
`रुचितम्' इति। `रुच दीप्तौ' (धा.पा. 745) अस्याकर्मकत्वात् `गत्यर्थाकर्मक' 3.4.72) इत्यादिना कर्त्तरि क्तः। दीप्तिमत् कार्षापणमित्यर्थः। आदिकर्मात्र न विवक्षितम्। `प्रभुक्त ओदनः' इति। `भुज पालनाभ्यवहारयोः' (धा.पा.1454) `तयोरेव कृत्यक्तखलर्थाः' (3.4.70) इति कर्मणि क्तः। तस्यादिकर्मसम्बन्धादादिकर्मणि वृत्तिः।
`गुध परिवेष्टने' (धा.पा.1120) इति दौवादिकः। निगुधितमिति भावे क्तः। यदि व्यवस्थितविभाषया शब्विकरणानामेव भवति, सेड्ग्रहणेन किमर्थमिह निष्ठा विशिष्यते ? अशब्विकरणत्वादेव हि प्रभुक्त इत्यत्र न भवति। न हि भुजिः शब्विकरणः, अपि तु श्नम्विकरणः, सत्यमेतत्; उत्तरार्थं सेड्ग्रहणमनुवर्त्तनीयम्। अतस्तदुत्तरार्थयनुवर्त्तमानमिहापि मन्दधियां सुखप्रतिपत्तिर्यथा स्यादित्येवमर्थम्। तकारोऽत्र मुखसुखार्थः, न दीर्घनिवृत्त्यर्थः; अलघूपधत्वादेव हि दीर्घोपधानां गुणप्रसङ्गाभावात्।।
22. पूङः क्त्वा च।(1.2.22)
`न सेट् वर्त्तते' इत्यक्तम्। `न क्त्वा सेट्' (1.2.18) इत्यतः। ननु च पूङः परयोः क्त्वानिष्ठयोरिटा न भवितव्यमेव; `श्रयुकः किति' (7.2.11) इति प्रतिषेधात्। तदपार्थिका सेड्ग्रहणानुवृत्तिरिति यश्चोदयेत् तं प्रत्याह-- पूङश्चेड् विहितः' इत्यादि। अत क्त्वाप्रत्ययस्योदाहरणं कस्मान्न प्रदर्शितमित्यत आह-- `क्त्वाप्रत्ययस्य' इत्यादि। यदि ह्यनेन योगेन क्त्वाप्रत्ययस्य कित्त्वं प्रतिषिध्येत, तदा तस्याप्युदाहरणं प्रदर्श्येत, न चानेन प्रतिषिध्यते, किन्तर्हि ? `न क्त्वा सेट्' (1.2.18) इत्यनेनैव प्रतिषिद्धत्वात्। तस्मात तस्योदाहरणं न प्रदर्शितमितित भावः। क्त्वाप्रत्ययस्य `न क्त्वा सेट्' (1.2.18) इत्यनेन प्रतिषेध इत्येतदेव द्रढयितुमाह-- `तथा च ' इत्यादि। `पूङ्श्च' (7.2.51) इत्यत्र सूत्रे द्वयोर्विभाषयोर्मध्ये ये विधयस्ते नित्या भवन्तीति मन्यमानैर्भारद्वाजीयैरिदमुक्तम्-- `नित्यमकित्त्वमिडाद्योः' इति। तौ पुनरिडादी क्त्वानिष्ठाप्रत्ययौ। यदि तर्हि नित्यमकित्त्वमिडाद्योः; तदा क्त्वाग्रहणमनर्थकं स्यात्। विकल्पेन ह्यत्राकित्तवसद्धये तस्य ग्रहणमर्थवद्भवति, नान्यथा। नित्यत्वं कित्त्वप्रतिषेधस्य `न क्त्वा सेट्' (1.2.18) इत्यनेनैव सिद्धत्वादिति चोद्यमाशह्क्येदमुक्तम्-- `क्त्वाग्रहणमुत्तरार्थम्' इति। `पूङः' इति सानुबन्धकस्योच्चारणं किमर्थम् ? पोपुवितः, पोपुवितवान्, पोपुवित्वेति यङलुगन्तात् कित्त्वप्रतिषेधो मा भूदिति। पूङनिवृत्यर्थं सानुबन्धक्सयोच्चारणं नोपपद्यते; `श्रयुकः किति' (7.2.11) इतीट्प्रतिषेधात्। पूञः परयोः क्त्वानिष्ठयोः सेटोरभावात्।।
23. नोपधात्थफान्ताद्वा। (1.2.23)
`निष्ठेति निवृत्तम्' इति। पूर्वसूत्रे चानुकृष्टत्वात्। `ग्रथित्वा' इति। कित्त्वपक्षे `अनिदिताम्' (6.4.24) इत्यनुनासकिलोपः। `गुफित्वा' इति। `गुफ गुन्फ ग्रन्थे' (धा.पा.1317,1318) `रिफित्वा' इति। `रिफ कत्थनयुद्धनिन्दाहिंसादानेषु' (धा.पा.1306)। ननु चैतद्विक्पाभावेऽपि `रलो व्युपधात्' (1.2.26) इत्यादिनैवात्र विकल्पेन भवतव्यम्, न चानयोर्विकल्पयोः कश्चिद्विशेषोऽप्यस्ति ? एवं तर्हि नोपधग्रहणसाम-
र्थ्याद्योगान्तरकृतोऽपबि विकल्पोऽनेन बाध्यते। ननु च ऋकारोपधो नोपधग्रहणस्य प्रत्युदाहरणविषयो भविष्यति, `ऋफ ऋन्फ हिंसायाम्' (धा.पा.1315,1316), अर्फित्वेति, नैतद्स्ति; इहास्माभिरनयोर्धात्वो रूपत्रयं साध्यम्-- अर्फित्वा, ऋम्फित्वा, ऋफित्वेति। एतत् तु सत्यसति वा नोपधग्रहणऽनेनैव सिद्ध्यत्येव। सति तावन्नोपधग्रहणे, अनोपधस्य ऋफेः `न क्त्वा सेट्' (1.2.18) इति प्रतिषेधे सत्यर्फित्वेति सिद्ध्यति। नोपधस्य तु ऋम्फेरस्मिन् विकल्पे सति, ऋम्फित्वा ऋफित्वेतीदमपरं रूपद्वयं सिद्धयति। असत्यपि नोपधग्रहणे सर्वथास्मिन् विकल्पे सतीदं रूपत्रयं सिद्ध्यत्येव। तस्माद् युक्तमुक्तं प्रत्युदाहरणं रेपित्वेति। `येन विधिस्तदन्तस्य' (1.1.72) इति तदन्तविधौ सिद्धेऽन्तग्रहणम् `इह क्त्वाप्रत्यकाण्डे यत्नमन्तरेण तदन्तविधर्न भवति' इति ज्ञापनार्थम्। तेनोत्तरसूत्रे `ऋत' इति धातुः स्वरूपेण गृह्यते, न तु तदन्त इति।
24. वञ्चिलुञ्च्यृतश्च।(1.2.24)
`वन्चु प्रलम्भने' (धा.पा.1703), `लुन्च अपनयने' (धा.पा.187), `ऋत' इति
सौत्रौ धातुः, यत्र `ऋतेरीयङ' (3.1.29) इतीयङ विहितः। `ऋतेरीयङ' आर्धधातुके
विकल्प्यते' इति। `आदाय आर्धधातुके वा' (3.1.31) इत्यनेन। `वचित्वा' इति। `अनिदिताम्। (6.4.24) इति नलोपः।
`वक्तवा' इति। `उदितो वा' (7.2.56) इतीडभावः पक्षे। चकारो वाग्रहणस्य स्वरितत्वविस्पष्टीकरणार्थः। तेनोत्तरसूत्रे काश्यपग्रहणस्य पूजार्थता; अन्यथा हि तस्य
विकल्पार्थता विज्ञायेत। तथा च द्वयोर्विभाषयोर्मध्यवर्त्तित्वान्नित्योऽयं विधिः स्यात।
25. तृषिमृषिकृशेः काश्यपस्य। (1.2.25)
`ञितृषा पिपासायाम्' (धा.पा.1228), `मृष तितिक्षायाम्' (धा.पा.1164), `कृश तनूकरणे' (धा.पा.1227)।
`काश्यपग्रहणं पूजार्थम्' इति। `काश्यपस्यैवैतद्विषयकं ज्ञानं नान्येषाम्' इत्यसाधारणज्ञानोद्भावनमेव पूजा। तस् तत्पूजाद्वारेण शास्त्रस्यापि महार्थतोद्भावनलक्षणा पूजा कृता भवति। एवन्नाम शास्त्रस्य महार्थत्वं येन तथाविधा मुमुक्षवोऽप्याद्रियन्त इति। तेन विकल्पार्थं काश्यपग्रहणं कस्मान्न भवतीत्यत आह-- वेत्येव हि
वर्त्तते' इति।।
26. रलो व्युपधाद्धलादेः संश्च। (1.2.26)
क्त्वाप्रत्ययश्च `न क्त्वा सेट्' (1.2.18) इति कित्त्वे प्रतिषिद्धे सनोऽप्यकित्वे स्वभावत एव व्यवस्थित उभयत्रेदं विधिमुखेनैव प्रवर्त्तत इतिपक्षे कित्त्वं भवतीति।
`{दिद्युतिषते' -- काशिका,पदमंजरी च} विदद्युतिषते' इति। `द्युतिस्वाप्योः संप्रासरणम्' (7.4.67) इत्यभ्यासस्य संप्रासरणम्। `एषिषिषति' इति। `इषु इच्छायाम्' (धा.पा.1351), इडागमे कृते `अजादेर्द्वितीयस्य' (6.1.2) इति द्वितीयस्यैकाचो द्विर्वनचम्। `बुभुक्षते' इति. `हलन्ताच्च' (2.1.10) इति नित्यं कित्त्वं भवति। लाघवार्थम् `इणुपधात्' इति वाच्ये, इण्ग्रहणानि सर्वाणि परेम णकारेणेति ज्ञापनार्थं `व्युपधात्' इत्युक्तम्। तेन `लण्' इत्यत्र यदुक्तम्-- `इण्ग्रहणानि सर्वाणि परेण णकारेण' इति तदुपपन्नं भवति।।
27. ऊकालोऽज्झ्रस्वदीर्घप्लुतः। (1.2.27)
ऊः कालो यस्याचः स ऊकालः। ननु चायुक्तोऽयं निर्देशः, तथा हि-- ऊ इति शब्दः कालस्तु क्रिया, तत् कुतोऽत्र सामानाधिकरण्यम् ? नैष दोषः; यस्मात् `ऊ' इत्येतत्सहचरितायामुच्चारणक्रियायामिह साहचर्यात् `ऊ' इत्येष शब्दो वर्त्तते, एवमप्ययुक्तम्; यतः `ऊ' इत्येतत्सहचरितं यदुच्चारणं तदूकारस्यैव, नान्यस्याचः। तत्कथं सोऽन्यसम्ब्नधिन्या क्रियया ऊकारलः स्यात्, न हि यज्ञदत्तसम्बन्धिनीभिश्चित्रगवीभिर्देवदत्तश्चित्रगुर्भवति ? अयमप्यदोषः; वत्यर्थस्येह गमयन्तीत्युक्तमेतत्। तदेतदुक्तं भवति-- `ऊ' इत्येतत्सहचिरतयोच्चारणक्रियया तुल्योच्चारणक्रिया कालालख्या यस्याचः स ऊकाल इति। ननु च ऊकाल इत्येकः संज्ञी, संज्ञास्तु तिस्त्रः, ततो वैषम्यात् संख्यातानुदेशो न प्राप्नोतीति यो मन्येत, तं प्रत्याह-- `ऊ इति त्रयाणाम्' इत्यादि। मात्रिकाणां
त्रयाणामकः सवर्णे (6.1.101) दीर्घत्वमेकादेशं कृत्वा `ऊ' इति निर्देशः कृत इत्यर्थः। कुतः पुनरेतद्विज्ञायते त्रयाणामेकः प्रश्लेषनिर्देश इति ? तिसृणां संज्ञानां विधानसामर्थ्यात्। न ह्येकस्य भिन्नप्रयोजनमन्तरेणानेकसंज्ञाविधानमर्थवद्भवति। न चेहैकस्यानेकसंज्ञाकरणे भिन्नप्रयोजनमस्ति। `ह्रस्वदीर्घप्लुत' इति यद्येक एवायं शब्दः संज्ञा स्यात्, लाघवार्थत्वात् संज्ञाकरणस्य, महत्याः संज्ञायाः करणमयुक्तं स्यात्। किञ्च-- आवृत्तिधर्माणः संज्ञाशब्दाः प्रदेशेषु भवन्ति, न चायं समुदाय संज्ञाशब्दाः प्रदेशेषु भवन्ति, न चायं समुदायः प्रदेशेष्वावर्त्यते,अपि तु प्रत्येकं ह्रस्वादिशब्दाः। तस्मात् तेषां द्वन्द्वं कृत्वा निर्देश इति मत्वाह- `ह्रस्वदीर्घप्लुतः' इत्यादिः। द्वन्द्वैकवद्भावस्तु `सर्वो द्वन्द्वो विभाषयैकवद्भवति' इति वचनात्। ननु च द्वन्द्वैकवद्भावे `स नपुंसकम्' (2.4.17) इति नुपंसकत्वेन भवितव्यम्, तत्कथं
पुंल्लिङ्गेन निर्देशः, सौत्रत्वान्निर्देशस्य। छन्दसि `व्यत्ययो बहुलम्' (3.1.85) इति लिङ्गव्यत्यय उक्तः। `छन्दोवत्सूत्राणि भवन्ति' (म.भा.1.1.1) इत्यविरुद्धास्य
पुंल्लिङ्गता। उ ऊ ऊ3 इत्यनया आनुपूर्व्यैषां प्रश्लेष इति दर्शयति। कुतः पुनरेष निश्चयः-- एषैवैषामानुपूर्वीति ? एवं मन्यते-- `विभाषा पृष्टप्रतिवचने हेः' (8.2.93) इत्येकमात्रिकस्य हेः प्लुतविधानाज्ज्ञायते-- न मात्रिकोऽन्त्य इति। अन्त्यत्वे हि सति तस्य प्लुतसंज्ञा स्यात्। एवञ्च प्लुतविधानमनर्थं स्यात्। द्विमात्रिकोऽप्यन्त्यो न भवति; `ओमभ्यादाने' (8.2.87) इति द्विमात्रिकस्य प्लुतविधानात्। तस्य चान्त्यत्वे हि सति यदि प्लुतसंज्ञा स्यात्, तदा च प्लुतस्य प्लुतविधानमनर्थकं स्यात्। तसमादन्ते एकमात्रिकद्विमात्रिकौ न भवतः। मध्येऽप्येकमात्रिको न भवति, `अतो दीर्घो यञि' (7.3.101) इति `सुपि च' (7.3.102) इतिच दीर्घविधानसामर्थ्यात्। यदि मध्य
एकमात्रिकः स्यात् तदा तस्य दीर्घसंज्ञा स्यात्,दीर्घस्य दीर्घवचनमकिञ्चित्करं स्यात्, तस्मादादावेकमात्रिकत्वे हि सति पारिशेष्यान्मध्ये द्विमात्रिकः, अन्ते त्रिमात्रिक इति। `उ ऊ ऊ3' इति। अत्राप्युकारादिसहचरितायामुच्चारणक्रियायमुकारादयो वर्त्तन्ते। एवं कालोऽजिति यकारस्य लोपः।
ननु चोकारोऽयमण् गृह्यमाणः सवर्णान् गृह्णातीत्यत उकारेण दीर्घप्लुतयोर्ग्रहणे सति तयोरपि ह्रस्वसंज्ञा भवतीत्यत आह- `कालग्रहणम्' इत्यादि। कालग्रहणे हि येषामेताःसंज्ञा विधीयते तेषां यथाक्रममेकमात्रिकत्व द्विमात्रिकत्वत्रिमात्रिकत्वानि विशेषणानि लभ्यन्ते। तथा हि, कालग्रहणेसति प्रत्येकं वाक्यपरिसमाप्तौ क्रियमाणायां त्रयो बहुव्रीहयो भवन्ति- उः कालो यसय् स उकालः, ऊः कालो यस्य स ऊकालः, ऊ3ःकालो यस्य सः ऊ3 कालः। एषां यथार्ममेकमात्रिकद्विमात्रिकत्रिमात्रिका अचोऽन्यपदार्थाः। यस्मान्मात्रिक एवाचः `उ' इत्येतत्सहचारिण्या उच्चारमक्रियायास्तुल्यकालः; एवं
द्विमात्रिक एवाच `ऊ' इत्येतत्सहचारिण्या उच्चारणक्रियायास्तुल्यकालः; एवं
त्रिमात्रिक एवाच `ऊ3' इत्येतत्सहचारिण्या उच्चारणक्रियायास्तुल्यकालः। एवं च सति
मात्रापरिमाणस्याचो ह्रस्वसंज्ञा विधीयमाना सत्यप्युकारेण दीर्घप्लुतयोर्ग्रहणे तयोर्न भवति, न हि तौ मात्रा परिमाणौ। तेन आलूय, परिणीयेत्यत्र ह्रस्वाश्रयस्तुङ न
भवति।
`प्रत्यक्ष्य, प्ररक्ष्य' इति। `तक्षू त्वक्षू तनूकरणे' (धा.पा.655, 656) `रक्ष पालने' (धा.पा.658) `कुगतिप्रादयः' (2.2.18) इति समासे कृते `समासेऽनञ्पूर्वे क्त्वो ल्यप्' (7.1.37) इति ल्यप्। तत्र परतो द्वयोरर्धमातर्योर्हलोः संयोगसंज्ञिनोरूकाल्त्वमस्तीत्यसत्यज्ग्रहणे ह्रस्वसंज्ञा स्यात्, ततश्च ह्रस्वाश्रयस्तुक
प्रसज्येत।
`तितउच्छत्रम्' इति। अत्राकारोकारचोः समुदायस्य ऊकालत्वाद् द्विमात्रिकत्वमस्तीति दीर्घसंज्ञा स्यात्। ततश्च `पदान्ताद्वा' (6.1.76) इति विकल्पितस्तुक्
प्रसज्येत। अज्ग्रहणे तु सति दीर्घसंज्ञा न भवति,अच्समुदायस्याज्ग्रहणेनाग्रहणात् । ननु च सत्यामपि तस्यां समुदायाश्रयायां दीर्घसंज्ञायायमवयवाश्रया ह्रस्वसंज्ञा भविष्यति। तदाश्रयस्तुङनित्य एव, नैतदस्ति; परत्वाद्दीर्घाश्रयस्तुग्विकल्पः
प्राप्नोति। न चैवं विधविषये पुनः प्रसङ्गविज्ञानमस्ति; यत्र पूर्वो विधिः प्रवर्त्तमानः परविधिविज्ञानं न बाधते तत्रैतद्भवति-- `पुनः प्रसङ्गविज्ञानात् सिद्धम्' इति, इह तु नित्यो विधिः परविधिविकल्पविज्ञानं बाधते; नित्यविकल्पयोर्विरोधात्। ततश्च `सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव' (व्या.प.40) इति परिभाषयैव विकल्पः स्यात्। तस्मादज्ग्रहणं
28.अचश्च। (1.2.28)
परिभाषेयं लिङ्गवती स्थानिनियमार्था प्रदेशेषु `ह्रस्वो नपुंसके प्रातिपदिकस्य' (1.2.47) इत्येवमादिषूपतिष्ठते;तदुपस्थाने च षष्ठीद्वयं प्रादुर्भवति; विशेषणविशेष्यभावं प्रति कामचारात्। `ह्रस्वो नपुंसके प्रातिपदिकस्य' (1.2.47) इत्यत्राचा प्रातिपदिकं गृह्यमाणं विशिष्यते-- अजन्तस्य प्रातिपदिकस्येति, न तु प्रातिपदिकेना-ज्विशिष्यते। यदि हि प्रातिपदिकेनाज्विशिष्येत-- प्रातिपदिकस्य योऽजिति, तदा मध्यस्थितस्याप्यचो ह्रस्वः स्यात्।
`सुवाग् ब्राह्मणकुलम्' इति। अचा तु प्रातिपदिके विशिष्यमाणे प्रातिपदिकस्यैवेत्येषा स्थानषष्ठी भवति, न चावयवषष्ठी, तेनालोऽन्त्यस्यैवाचो ह्रस्वो भवति। `वाक्यस्य टेः प्लुत उदात्तः' (8.2.82) इत्यत्र गृह्यमाणेन टिशब्देनाज्विशिष्यते-- टेर्योऽजिति। तेन टेर्मध्यवर्तिनोऽप्यचः प्लुतो भवति। यदि त्वचा टिर्विशिष्यते-- अजन्तस्य टेरिति, तदेहैव स्यात्-- देवदत्ता3 इति; इह तु न स्यात्-- अग्निचिदिति। चकारेणाजित्यनुकृष्यते, त्सय प्रयोजनमिहैव वक्ष्यति। अतिरि- इत्यादीन्युदाहरमानि `एच इग्घ्रस्वादेशे' (1.1.48) इत्यत्र व्युत्पादितानि। चीयते इति कर्मणि लकारः।
`संज्ञाविधाने नियमः' इत्यत्र युक्तिमाह-- `अजिति वर्त्तते' इति। अज्ग्रहणे ह्यनुवर्त्तमाने ह्रस्वादिशब्दा अनुवर्त्तमाना अच एवोपस्थानं प्रति व्याप्रियन्ते;तस्य स्वयमेवोपस्थितत्वात्। ततश्च स्वरूपमात्रपदार्थकाः सन्तो विधीयमानस्याचो विशेषणतामुपयान्ति। तत्रैवमभिसम्बन्धः क्रियते-- अः स्थानेऽज् भवति `ह्रस्वदीर्घप्लुतः इत्येवं संज्ञया विधीयमान इति। `द्यौः, पन्थाः, सः' इति। एतानि `इको गुणवृद्धी' (1.1.3) इत्यत्र व्युत्पादितानि। एषु च यथायोगं `दिव औत्' (7.1.84) `पथिमथ्यृभुक्षामात्' (7.1.85) `त्यदादीनामः' (7.2.102) इत्येभिरौकारादयः स्वरूपेण विधीयमाना दीर्घादिसंज्ञया न विधीयन्त इति हल एव स्थाने ते भवन्ति, नाचः। द्युभ्याम्, द्युभिरित्यत्रापि `दिव उत्(7.1.131) इत्युकारो ह्रस्वसंज्ञया न विधीयत इति हल एव स्थाने भवति, नाचः। ननु च द्यौरित्यादीनि त्रीण्युदाहरणानि `इको गुणवृद्धि' (1.1.3) इत्यनेनैव
संज्ञाविधाननियमेन सिद्धानि, तत्र हि तस्याप्येतानि प्रत्युदाहरणानि प्रागुपन्यस्तानि, तस्मान्नार्थ एतदर्थेन संज्ञया विधीयमानेन नियमेन ? सत्यमेतत्; एवं मन्यते--
द्युभ्याम्, द्युभिरित्येवमर्थं संज्ञाविधाने नियमः कर्त्तव्यः; न ह्युकारस्य गुणसंज्ञास्ति, नापि वृद्धिसंज्ञा; यतः पूर्वेणैव संज्ञाविधाननियमेनैतदपि सिद्ध्यति। तस्मादन्यार्थोऽयं संज्ञाविधाननियमः क्रियमाणो येऽपि विस्मरणशीलाः पूर्वस्य नियमस्य प्रयोजनं न स्मरन्ति ताननुग्रहीतुम्-- द्यौः, पन्था-, स इत्येवमर्थोऽपि भवति।।
29. उच्चैरूदात्तः। (1.2.29)
उदात्तादयो लोकवेदयोः प्रसिद्धाः। तत् किं संज्ञाकरणेनेति यश्चोदयेत् तं
प्रत्याह-- `उदात्तादिशब्दाः' इत्यादि। आदिशब्देनानुदात्तस्वरितयोः परिग्रहः।
एवकारो भिन्नक्रमो वर्णधर्मे इत्यस्यानन्तरं द्रष्टव्यः। लोकवेदयोरुदात्तादयः शब्दा वर्णनां यो धर्मः = गुणस्तत्रैव प्रसिद्धाः, न तु तद्वित्यचि। तस्मादिह व्याकरण उदात्तादयो धर्मा यस्याचस्तद्गुणेऽचि संज्ञाप्यन्ते = परिभाष्यन्ते; अन्यथा प्रदेशेषूदात्तादिशब्दश्रवणाद्वर्णधर्म एव गृह्येत, न तद्वानजित्यभिप्रायः।
उच्चैरिति श्रुतिप्रकर्षेऽस्ति-- श्रुतिप्रकर्षवत्युच्चैर्भाषते उच्चः पठतीति। अस्ति च प्रमाणाधिकरणवाची उच्चैः स्थितो देवदत्त इति, उच्चैर्नाम प्रमाणम्, तस्य तदधिकरणं तदिहोच्चैः शब्देनोच्यते। तदिह द्वितीयस्योच्चैः शब्दस्यार्थो गृह्यते, नेतरस्येति दर्शयितुमाह-- `उच्चैः' इति। उच्चैर्भाषते इत्येवमादौ तु वाक्ये प्रयुक्तस्योच्चैः शब्दस्य योऽर्थः श्रुतिप्रकर्षः स उच्चैरित्यत्र न गृह्यते। यदि
गृह्येत, उपांशुप्रयोग उदात्तादिसंज्ञा न स्यात्; प्रकर्षाभावात्, प्रकर्षस्थितत्वादुदात्तादयो न विशिष्येरन्। य एव हि कञ्चित् प्रत्युच्चैर्भवति, स एव हि कञ्चित्प्रतति नीचैर्भवति। एवञ्च सर्वमुदात्तं स्यात्, अनुदात्ततमोऽपि चेष्यत इत्यभिप्राय।
`स्थानकृतम्' इत्यादि। उच्यता नाम प्रमाणविशेषः, तदधिकरणभूतस्थानमुच्चैर्भवति। एवञ्च सर्वनमुदात्तं न स्यात्। अनुदात्तमुच्चैरुच्यत इत्यर्थः।
`भागवत्सु' इति। भागा अवयवा येषां तानि भागवन्ति। ते भागास्ताल्वादिषु स्थानेष्वौत्तराधर्येण व्यवस्थिताः। स्थानमुच्चैः शब्देनोच्यते, तत् कुतः संज्ञिन उच्चैस्त्वविशेषणम् ? उच्चैस्थाननिष्पन्नत्वात्। तत्र समाने स्थान उच्चैरूर्ध्वभागे यो
निष्पन्नः स उदात्तसंज्ञो भवति। यदि स्थाने य ऊर्ध्वभागनिष्पन्नोऽच् स उदात्तसंज्ञो भवतीत्येतावदुच्यते, एवञ्च स एवानवस्थितदोषः। तथा हि- अल्पशरीरेषु य एव ताल्वादिभाग उच्चैर्भवति, स एव महाशरीरेषु ताल्वादिभागापेक्षया नीचैर्भवति। अतः `समान' इत्येतत् स्थानविशेषणमुक्तम्। एतच्च् लघ्वर्थत्वात् संज्ञाकरणस्यैकाक्षरायां संज्ञायां कर्तव्यायामनेकाक्षरसंज्ञाकरणाल्लभ्यते। ग्रन्थाधिक्यादर्थाधिक्यं भवतीति। ननु च ग्रन्थाधिक्यादत्र कश्चिदाचार्यस्याधिकोऽर्थोऽभिप्रेत इत्येतावन्मात्रं प्रतीयते, समानत्वमित्येषोऽर्थ विशेषः कुतो लभ्यते ? अविच्छिन्नादुपदेशपारम्पर्यात्। तत् पुनः समानत्वं वक्त्रभिन्नत्वाद्वेदितव्यम्; न तु ताल्वादिस्थानस्याभिन्नत्वात्; अन्यथा तालव्यमेवापेक्ष्योदात्तः स्यात्, न तु कण्ठादीन्। वक्तुरभेदात् तद्द्वारेण भिन्नानामपि ताल्वादीनां समानत्वेऽपि विज्ञायमान एष दोषो न भवति। किंलक्षणः पुनरसावुच्चभागनिष्पन्नोऽजित्याह-- `यस्मिन्' इत्यादि। `आयामः' इत्यस्य विवरणं `निग्रहः' इति। निग्रहः = स्तब्धता। संवृतकण्ठता = कण्ठविवरस्य संवृतता। अत एव शनैर्निष्क्रामन् वायुर्गलावयवाञ्शोषयति। रूक्षता भवत्यस्निग्धता।
`ये ते के' इति। यत्तत्किंशब्देभ्यस्त्यदाद्यत्वम्, `अतो गुणे' (6.1.97) पररूपत्वम्,`जसः शी' (7.1.17), `आद्गुणः' (6.1.87)। अत्र प्रातिपदिकस्वरेण प्रकृतिरूदात्ता। `अनुदात्तौ सुप्पितौ' (3.1.4) इति विभक्तिस्वरः। एकादेशस्तु `एकादेश उदात्तेनोदात्तः' (8.1.5) इति।।
30. नीचैरनुदात्तः। (1.2.30)
अन्ववसर्ग इत्यस्य विवरणं मार्दवमिति। शैथिल्यमित्यर्थः। मृदुतेत्यस्य विवरणं स्निग्धतेति। उरुतेत्यस्यापि महत्तेति। महत्त्वादेव कण्ठविवरस्य पुनः शीघ्रं वायुर्निष्क्रामन् गलावयवान्न शोषयतीति। अतः स्वरस्य स्निग्धता भवति। त्व-सम-सिम-नेमेत्यनुच्चानीति सर्वादिष्वेव पठ्यन्ते। अनुच्चानि अनुच्चानि अनुदात्तानीत्यर्थः। `नमस्ते रुद्र' इत्यादि। तेशब्दः `तेमयावेकवचने' (8.1.22) इति `अनुदात्तं सर्वमपादादौ' (8.1.18) इत्यधिकारादनुदात्तः। रुद्रादयोऽपि `आमन्त्रितस्य च' (8.1.19) इत्यनेनाष्टमिकेन सर्वेऽनुदात्ता भवन्तीति।
31. समाहारः स्वरितः।(1.2.31)
उदात्तानुदात्तशब्दावज्विशेषयोः संज्ञे। संज्ञा हि प्रदेशेषूच्चारिताः
संज्ञिनं प्रत्याययन्ति। ताभ्यामिहानुवृत्ताभ्यामुदात्तानुदात्तयोरचोरुपस्थापितयोः प्रत्ययः। तस्मात् समाहारात्मकस्याचः स्वरितसंज्ञा विधीयते। समाहारशब्दश्चसमाहरणं समाहार इति भावसाधनोऽयं लोके समुदाये रूढः। न चोदात्तानुदात्तात्मकः कश्चिदच्समुदायः सम्भवतीति, ततश्च संज्ञिनोऽसम्भवात् संज्ञापि न सम्भवीति यश्चोदयेत्, तं प्रत्याह-- `सामर्थ्याच्च' इत्यादि। उच्यते चेदम्-- उदात्तानुदात्तसमाहारः स्वरितसंज्ञो भवतीति, न च पारिभाषिकोदात्तानुदात्तसमाहारत्मनोऽचः सम्भवोऽस्ति। तत्र सामर्थ्याल्लोकवेदप्रसिद्धौ यौ धर्मावुदात्तानुदात्तौ तावेव गृह्येते; नाचौ। नन्वेवमपि स एव दोषः, लोके प्रसिद्धोदात्तानुदात्तात्मनोऽच एषा संज्ञा विधीयते, कस्य तर्हि ? लोकवेदप्रसिद्धावुदात्तानुदात्तौ समाह्रियेते यस्मिन्नचि तस्य। सम्भवति चैकस्मिन्नप्यचि
तयोः समाहार इति कुतः संज्ञिनोऽसम्भवः। `समाह्रियेते यस्मिन्' इति ब्रुवताऽधिकरण
साधनोऽयं समाहारशब्दो न भावसाधन इति दर्शितम्। समाह्रियेते = संहन्येते, सहितावुपलभ्येते इत्यर्थः। `शिक्यम्' इति। `पूञो यण्णुग् ह्रस्वश्च' (द.उ.16) इति यदिति
वर्त्तमाने `श्रन्सेः शि कुट् किच्च' (द.उ.817) इति श्रंसतेर्यत्प्रत्यये शिशब्दादेशे कुडागमे च कृते रूपम्। तित्त्वात् स्वरितम्। `कन्या' इति। `तिल्यशिक्यमर्त्यकाश्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः' (फि.सू.4.76) इत्यन्तः स्वरितम्। `सामान्यः' इति। सामनि साधुः। `तत्र साधुः' (4.4.98) इति यत्प्रत्ययः। क्वेति किंशब्दात् सप्तम्यन्तात्`किमोऽत्' (5.3.12) इत्यत्प्रत्ययः। `क्वाति' (7.2.105) इति क्वादेशः।।
32. तस्यादित उदात्तर्धह्रस्वम्। (1.2.32)
आदौ = आदितः, सप्तम्य्रथे तसिः। अयमेव निर्देशो ज्ञापकः-- `आद्यादिभ्यस्तसिर्भवति' इत्यत्र। तेन तसिप्रकरणे `आद्यादिभ्यः उपसंख्यानम्' (वा.634) इत्येतन्न व्कतव्यं भवति। `अर्द्धह्रस्वम्' इति। ह्रस्वस्यार्द्धमित्यर्थः। `अर्धं नपुंसकम्' (2.2.2) इति समासः। ततश्च `परवल्लिङ्गम्' (2.4.26) इत्यादिना पुंल्लिङ्गेन भवितव्यम्, ह्रस्वशब्दस्य पुंल्लिङ्गत्वात्, नैतदस्ति; ह्रस्वशब्दो हि प्रमाणविशेषं गुणमुपादाय प्रवृत्तः, `गुणवनचानाञ्चाश्रयलिङ्गवचनानि' इति गुणवचनत्वाच् शुक्लशब्द एव ह्रस्वशब्दस्त्रिलिङ्गः। `ह्रस्वः' इति मात्रिकस्य संज्ञा कृता, तस्यैव विभागः स्यात्, न तु दीर्घप्लुतयोरित्याशङ्क्याह-- `अर्द्धह्रस्वम्' इत्यादि। ह्रस्वस्यार्द्धमर्द्धमात्रा भवति, अतोऽर्द्धमात्रा भवति, अतोऽर्द्धह्रस्वग्रहणेनार्द्धमात्रोपलक्ष्यते। तत एव च तस्येत्युक्तम्। त्रयाणां ह्रस्वदीर्घप्लुतानां स्वरितानां निर्देशार्थम्। यदि चार्द्धह्रस्वग्रहणमर्द्धमात्रोपलक्षणम्, अतस्त्रयाणां निर्देशोऽर्थवान् भवति; नान्यथा।
`ह्रस्वग्रहणमतन्त्रम' इति। अतन्त्रप्रधानम्, उपलक्षणार्थत्वात्। यथा काकेभ्यो दधि रक्ष्यतामित्यत्रकाकाः। तेन सर्वेषामेव ह्रस्वादीनामेष स्वरितविभागो भवति। नन्वेवमप्याष्टमिकस्य स्वरितस्य विभागो न सिध्यति, तस्यासिद्धत्वात्, नैतदेवम्; यस्मात् परविधिः पूर्वविधावसिद्धः। न चायं विधिः, किं तर्हि ? तस्य विहितस्य विभागाख्यानार्थः। अथ वा-- `न मु ने' (8.2.3) इत्यत्र नेति योगविभागात् सिद्धं भवति।।.`एवश्रिर्वा' इति। पूर्वो भागोऽयमुदात्तः पटुतरः। तेनोपरज्यमानस्तद्रूपतामिवापन्नः परो
भागः स्फटिकमणिरिवोपधानेनोपरक्तः शुद्धेनोदात्तेन भिन्नश्रुतिकत्वादनुदात्तव्यपदेशं नार्हति। उदात्तव्यपदेशमपि नार्हति; उपरागमात्रत्वात्। तस्मादेकश्रुतिरिति केचित्। अन्ये त्वाहुः-- पूर्वेण भागेनानुपजातरूपातिशयेन नोपरज्यते यदोत्तरभागस्तदा स्वेन रूपेण प्रतिभानादनुदात्त इति व्यपदिश्यते। यदा तूपधानेन स्फटिकमणिरिव पूर्वेण भागेन पटीयसोदात्तेनाभिभूयानुरज्यमानस्तद्रूपतामिवोपपद्यते तदैकश्रुतिरिति व्यपदिश्यते। पूर्वभागश्रुतेरभिन्नैका तुल्याकारा श्रुतिर्यस्येति कृत्वा। न हि तदानीं पूर्वोत्तरयोः स्वरितश्रुतिं प्रति कश्चित् भेदोऽस्ति; द्वयोरप्युदात्तगुणवत्तया प्रतीयमानत्वनादिति।
33. एकश्रुति दूरात्सम्बुद्धौ। (1.2.33)
`एकश्रुति वाक्यं भवति' इति। वाक्यग्रहणेन पदपदैकदेशयोर्निरासं करोति; तयोःसम्बोधनं प्रत्यसामर्थ्यात्। वाक्यस्य सम्बुद्धौ कर्तव्यायां करणभावोपगमादस्ति
सामर्थ्यम्। ततस्तस्यैकश्रुत्यं विधीयते। कुतः पुनस्तद्वाक्यमित्याह-- `दूरात् सम्बोधयति येन' इति। एतेन सम्बुद्धिं प्रति वाक्यस्य करणभावो दर्शितो भवति। दूरादिति-- `दूरान्तिकार्थेभ्यो द्वितीया च' (2.3.35) इति पञ्चमी। `सम्बोधनं सम्बुद्धिः' इत्यादिना सम्बुद्धिरित्कयन्वर्थग्रहणम्, न पारिभाषिकं सम्बुद्धिग्रहणमिति दर्शयति। यदि पारिभाषिक्याः सम्बुद्धेर्ग्रहणं स्यात् तदा `देवा {ब्राह्मणाः इति पदंजरीपाठः}
ब्रह्माणःट इत्यत्रैकश्रुत्यं न स्यात्; पारिभाषिक्याः सम्बुद्धेरसत्त्वात्। अन्वर्थग्रहणे तु भवति; सम्बोधनलक्षणक्रियारूपायाः सम्बुद्धेरिहापि विद्यमानत्वादिति भावः। कुतः पुनरेतदन्वर्थग्रहणं व्यवसितम् ? दूरग्रहणात्। अन्वर्थग्रहणे दूरादित्यनेन सम्बुद्धिरुत्पद्यते। `{पंक्तिरियं नास्ति-काशिका} दूरात् सम्बोधने कर्त्तव्ये' इति। तेनार्थवद्भवति दूरशब्दस्यपादानम्। पारिभाषिक्यास्तु ग्रहणे तदसम्बद्धमेव स्यात्। न ह्यामन्त्रितविभ्कतेर्दूरत्वमस्ति। दूरत्वञ्च यद्यप्यनवस्थितम्, तथापि यत्र प्राकृतप्रयत्नसंस्थापितं वचनं न श्रूयते, तदिह दूरं वेदितव्यम्। `स्वराणाम्' इत्यादि। `{पंक्तिरियं नास्ति-काशिका}एकश्रुतिस्वरूपाख्यानमविभागः' भेदतिरोधानमित्यनन्तरं विवरणम्। उदात्तादिस्वरविशेषानुपलब्धिरकारादिवर्णमात्रावबोध एकश्रुतिरित्युक्तं भवति। `आगच्छ भो माणवक देवदत्ता3' इति। `दूराद्धूते च' (8.2.84) इत्यत्रैवार्थे प्लुतः, स चोदात्तः; `वाक्यस्य टेः प्लुतः उदात्तः' (8.2.82) इत्यधिकारात्। तस्यैकश्रुत्योदात्तस्य समावेश इष्यते, प्लुतनिवृत्त्यर्थम्। यथा चासौ लभ्यते तथा वक्ष्यति। प्रत्युदाहरणे त्रैस्वर्यमेव भवतीति तत्र आकारः `निपाता आद्युदात्ताः' (फि.सू.4.80) `उपसर्गाश्चाभिवर्जम्' (फि.सू.4.81) इत्युदात्तः। गच्छेत्यस्य `तिङङतिङः' (8.1.28) इति
निघातः। भो इति `निपाता आद्युदात्ताः' इत्युदात्तः। माणवक-- देवदत्तशब्दयोः `आमन्त्रतस्य च' (8.1.19) इत निघातः।
34. यज्ञकर्मण्यजपन्यूङ्खसामसु। (1.2.34)
`अग्निर्मूर्धा दिवः' इत्यादि। `अगि रगि गत्यर्थाः' (धा.पा.146,144)। `वीज्याज्वरिभ्यो निः' (द.उ.1.18) इत वर्त्तमाने `अङ्गेर्निर्नलोपश्च' (द.उ.1.20) इति निप्रत्ययः; नलोपश्च भवति। अग्निशब्दः प्रत्ययस्वरेणान्तोदात्तः। `मुर्वी बन्धने' (धा.पा.575),`aकनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः' (द.उ.6.51) इत्यतः कनिन्निति वर्त्तमाने `श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिज्मन्मातरिश्वन्मघवन्' (द.उ.6.55) इति मूर्धन्शब्दः कनिन्प्रत्यान्तो निपातित इति निपातनादाद्युदात्तः। वकारस्य धकारोऽत्र निपातनादेव। `दिवु क्रीडादौ' (धा.पा.1107) डिविन् प्रत्ययः। इकार उच्चारणार्थः। डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् `ट
ेः' (6.4.143) इति टिलोपः। `दिव्' इति स्थिते `ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः' (6.1.171) इति विभक्तेरन्तोदात्त्वम्। ककुच्छब्दः `{फिषोन्त उदात्तः- िति मुद्रितं सूत्रम्}प्रातिपदिकमन्तोदात्तं भवति' (फि.सू. 1.1)इत्यन्तोदात्तः। पतिशब्दः `पातेर्डतिः' (द.उ.1.27) इति डतिप्रत्ययान्तः प्रत्ययस्वरेणाद्युदात्तः, ततः ककुदः पतिः ककुत्पतिरिति षष्ठीसमासः, स`समासस्य' (6.1.223) इत्यन्तोदात्तत्वम्। `प्रथ प्रख्याने' (धा.पा.1553), `प्रथेः षिवन् संप्रसारणञ्च' (द.उ.8.124)। `षिद्गौरादिभ्यश्च'(4.1.41) इति पृथिवशब्दान्ङीष्। प्रत्ययस्वरेण धातुप्रत्यङीष आद्युदात्तोदात्तः। षष्ठ्यैकवचनम् ङस्। `आण्नद्याः'इत्यनुदात्तत्वम्। सवर्णदीर्घः। `इको यणचि' (6.1.77) इति यणादेशः. `उदात्तयणो हल्पूर्वात्' (6.1.174) इति विभक्तिरुदात्ता। `अयम' इति। `इदि परमैश्वर्ये' (धा.पा.63) `इदितो नुम् धातोः' (7.1.58) इति नुम्, `इन्देः कमिर्नलोपश्च' (पं.उ.596) इति कमिप्रत्ययो नलोपश्च; इदम्शब्दः कमिप्रत्ययेनान्तोदात्तः। सौ परतः `इदोऽय् पुंसि' (7.1.111) इतीदम इद्रूपस्यादेशः। `अपाम्' इति। `आप्लृव्याप्तौ' (धा.पा.1260), `आप्नोतेर्ह्रस्वश्च' (द.उ.1.127) इति क्विप्, ह्रस्वश्च, षष्ठीबहुवनचम्। `ऊडिदं पद' (6.1.171) इति विभक्तेरुदात्तत्वम्। तेनापामित्यस्यान्तोदात्तत्वम्। `रि गतौ' (धा.पा.1404), `स्त्रुरिभ्यां तुट् च' (द.उ.9.62) इत्यसुन् प्रत्ययः। तुडागमः। `रेतांसि' इति नित्स्वरेणाद्युदात्तः। `जिन्वति' इति। `जि जये' (धा.पा.561) लट्,शत्रादेशः। `व्यत्ययो बहुलम्' (3.1.85) इति व्यत्ययेन श्नुप्रत्ययः।`हुश्नुवोः सार्वधातुके' (6.4.87) इति यणादेशः। `उगितश्च' (4.2.6) इति ङीप्। `अम्बार्थनद्योर्ह्रस्वः' (7.3.107) इति ह्रस्वः। `एङ ह्रस्वात् सम्बुद्धेः' (6.1.69) इति सुलोपः। `ये यज्ञकर्मणि' (8.2.88) इति वर्त्तमाने `प्रणवष्टेः'(8.2.89) इति प्रणवादेशः। स च प्लुत
उदात्तश्च,`वाक्यस्य टेः प्लुत उदात्तः' (8.2.82) इत्यधिकरात्। प्रणव इत्योकारम्, ओङ्कारं वाऽऽचक्षते। प्रणवस्योदात्तविधानसामर्थ्यादसिद्धत्वाच्च पदादुत्तरस्य `आमन्त्रितस्य च' (8.1.19) इत्यनुदात्तं न भवति; शेषस्य तु भवति। एषु स्वरेषु प्राप्तेष्वेकश्रुतिर्विधीयते।
`संपाठे मा भूत्' इति। संपाठ= स्वाध्यायकालः। `ममाग्ने' इत्यादि। `असु क्षपणे' (धा.पा.1209), `युष्यसिम्यां मदिक्' (द.उ.6.50) इति मदिक्। अस्मच्छब्दः
प्रत्ययस्वेरणान्तोदात्तः। षष्ठ्येकवचनस्य `युष्मदसमद्भ्यां ङसोऽश्' (7.1.27) इत्यशादेश-, `तवममौ ङसि' (7.2.96) इत्यस्मदो ममादेशः। स्था4निवद्भावादन्तोदात्तः। `अतो गुणे' (6.1.97) पररूपत्वम्। `एकादेश उदात्तेनोदात्तः' (8.2.5) अग्निशब्दस्य `आमन्त्रितस्य च' (8.1.19) इति निघातः। `वर्च दीप्तौ' (धा.पा.162), `असुन्' (द.उ.9.49) इतिअसुन् प्रत्ययः। वर्चशब्दो नित्स्वरेणाद्युदात्तः। `ह्वेञ् स्पर्धायाम्' (धा.पा.1008) । `ह्वः संप्रासारण़ञ्च न्यभ्युपदिषु (3.3.72) इत्यप् प्रत्ययः। `उपपदमतिङ' (2.2.19) इति समासः। `गतिकारकोपपदात् कृत्' (6.2.139) इत्युत्तरपदप्रकृतिस्वरत्वे
प्राप्ते, `अन्तः' (6.2.143) इत्यनुवर्तमाने `थाथघञ्क्ताजवित्रकारणाम्' (6.2.144) इत्यन्तोदात्तत्वम्, सप्तमीबहुवचने `बहुवचने झल्येत्'(7.3.103) इत्येत्त्वम्, स्थानिवद्भावादेकारोऽपब्यदात्त एव। `अस भुवि' (धा.पा.1065) , लोट्, तिप्, `एरुः' (3.4.86) इत्युत्वम्, अदादित्वाच्छपो लुक्। `तिङङतिङः' (8.1.28) इति निघातेन `अस्तु' शब्दोऽनुदात्तः। `जपोऽनुकरणमन्त्रः' इति। `जप' इत्यक्तेरर्थकथनमनुकरणमन्त्र इति। अनुकृतिः = अनुकरणम्। सर्वत्र मन्त्रे स्फुटमुच्चारणमित्यनुकरणमन्त्रः। अत एवाह-- `उपांशुप्रयोगः' इति। यता जले निमग्नस्य पाठः।
क्वचिदकरणमन्त्र इति पाठः। तत्रायमर्थः-- ईषत् करणमुच्चारणं यस्य सोऽकरणमन्त्र इति; नञ ईषदर्थत्वात्।
एशब्दो निपातः। `निपाता आद्युदात्ताः' (फि.सू.4.80)। `विश प्रवेशने' (धा.पा.1424),`अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्' (द.उ.125) इति क्वप्रत्ययान्तत्वाद्विश्वशब्दो नित्स्वरेणाद्युदात्तः। समञ्च तत् अत्रिणञ्चेति विशेषणसमासः। समासान्तोदात्तत्वम्। `दह भस्मीकरणे' (धा.पा.991), लोट्,सिप्, सेर्हिरादेशः,`अतो हेः' (6.4.105) इति हेर्लुक्, `तिङङतिङ' (8.1.28) इति निघातविधानात् दहशब्दोऽनुदात्तः। केचिद् वहा3 इति प्लुतान्तं पठन्ति; तेषां साहसमनिच्छतां `सर्वत्र विभाषा प्लुतो वक्तव्यः' (म.भा.3.420) इत्यतो वचनात् प्लुतो वक्तव्यः, स चोदात्तः।
अन्ये त्वाकारान्तं पठन्ति, तेषां छान्दसत्वादाकारः। ह्रस्वोऽपि हि वर्णो व्यत्ययेन दीर्घो भवति,`पुरुषः' `नारकः' इति यथा। `वाक्यविशेषस्था गीतयः' इति। यथोक्तं जैमिनिना-- `गीतिषु सामाख्या' इति। गीतिः = ध्वनिविशेषः।
कर्मग्रहणं किमर्थम्,यज्ञ इत्येवोच्येत, यज्ञमन्त्राणां यज्ञक्रियार्थत्वाद्यज्ञकर्मणि भविष्यति ? सत्यमेतत्; विस्पष्टार्थ हि कर्मग्रहणम्। अथ वा -- योऽपि न प्रसिद्धो यज्ञः पञ्चयजनादिः, तत्रापि यथा स्यादित्येवमर्थम्; अन्यथा `यज्ञे' इच्युच्यमाने प्रसिद्धो यो यज्ञोऽश्वमेधादिस्त्तत्रैव स्यात्।।
35. उच्चैस्तरां वा वषट्कारः। (1.2.35)
`वषट्शब्देनात्र वौषट्शब्दो लक्ष्यते'इति। समानार्थ्वादित्यभिप्रायः। द्वावपि तौ देवानां दानवचनौ। यथा `वषट्' शब्देन देवानां दानं दीयते तथा वौषट्शब्देनापि। तस्मात् समानार्थत्वात् `वषट्' शब्दो `वौषट्' शब्दं लक्षयति। कारशब्दग्रहणमर्थपदार्थकत्वं विहाय शब्दपदार्थकत्वेन दानक्रियायामुपयुज्यमानस्य तस्योदात्ततरत्वं यथा स्यादित्येवमर्थम्। कारग्रहणे शब्दपदार्थतया दृष्टा, यथा एवकार इति।
अन्ये कारग्रहणमन्यस्यापि यथा स्यादिति वर्णयन्ति। तेन `अस्तु श्रौषट्' इत्यत्रायमुदात्ततरो भवति। उच्चैस्तरामिति प्रकर्षप्रत्ययो वौषट्शब्दे `ब्रूहिप्रेष्यश्रौषडावहानामादेः' (8.2.91) इति यः प्लुतो विहितस्तदपेक्षया वेदितव्यः; स ह्युदात्तः, `याज्यान्तः' (8.2.90) इत्यनेन य उदात्तः प्लुतो विहितस्तदपेक्षया प्रकर्षस्य सत्त्वात्। अथ वा-- प्रकर्षप्रत्यान्तः स्वरूपशब्दान्तरमेवैतदिति।
अपरे त्वाहु-- `अनुदात्तं पदमेकवर्जम्' (6.1.158) इति वचनेन प्लुतश्चोदात्तः। अन्यस्त्वनुदात्ततर इति।
36. विभाषा छन्दसि।(1.2.36)
`इषे त्वा' इत्यादि। `इषु इच्छायाम्' (धा.पा.1351), `अन्येभ्योऽपि दृश्यते' (3.2.178) इति क्विप्। इडस्यास्तीति लुगधिकारस्य `अप्रत्ययः' (वा. 492) इत्यनेनोपसंख्यानेन अकारप्रत्ययः, प्रत्ययस्वरेणाद्युदात्तः, इषशब्दात् सप्तम्येकवचनम्, `आद्गुणः' (6.1.87) , `एकादेश उदात्तेनोदात्तः' (8.2.5) । युष्मच्छब्दस्य द्वितीयान्तस्य `त्वामौ द्वितीयायाः' (8.1.23) इति त्वामादेशः, स त्वनुदात्तः; `अनुदात्तं सर्वमपादादौ' (8.1.18) इत्यधिकारात्। `अग्ने' इति। `आमन्त्रितस्य च' (6.1.198) इति षाष्ठिकमाद्युदात्तत्वम्। आङपूर्वात् `या प्रापणे' (धा.पा.1049) इत्यस्माल्लोट, सिप्,
सेर्हिरादेशः, आङ `उपसर्गाश्चाभिवर्जम्' (फि.सू.4.81) इत्युदात्तः। `तिङङतिङ' (8.1.28) इति याहीत्यस्य निघातः। `वी गत्यादिषु' (धा.पा.1019) `मन्त्रेवृषेषपच' (3.3.96) इत्यादिना क्तिन्नुदात्तः, चतुर्थ्येकवचने प्रत्यये `घेर्ङिति' (7.3.111) इति गुणः, अयादेशः, द्वावपि स्थानिवद्भावेनोदात्तौ, शेषमनुदात्तम्। अग्निशब्दः पूर्ववन्निप्रत्ययस्वरेणान्तोदात्तः। द्वितीयैकवचनेऽमि पूर्वत्वम्। `एकादेश उदात्तेनोदात्तः' (8.2.5)। `ईड स्तुतौ' (धा.पा.1019)। अनुदात्तेत्त्वादात्मनेपदम्। `तिङङततिङः' (8.1.28) इतीडेशब्दस्य निघातः। पुरः पूर्वस्मिन् देश इति विगृह्य `पूर्वापराधरावराणामसि पुरधवश्चैषाम्' (5.3.39) इत्यसिप्रत्ययः, पूर्वशब्दस्य पुरादेशः। पुरः शब्दः प्रत्ययस्वरेणान्तोदात्तः। दधातेर्निष्ठायां `दधातेर्हिः' (7.4.42) इति हिरादेशः। `पुरोऽव्ययम्' (1.4.67) इति गतिसंज्ञायां सत्यां `कुगतिप्रादयः' (2.2.18) इति समासः। समासस्यान्तोदात्तत्वे प्राप्ते `गतिरनन्तरः' (6.2.49) इति पूर्वपदप्रकृतिस्वरेण पुरः शब्दोऽन्तोदात्तः। शंशब्दश्चादित्वान्निपातः। निपातस्वरेणाद्युदात्तः। अस्मच्छब्दस्य षष्ठी, `बहुवचनस्य वस्न सौ' (8.1.21) इति नसादेशोऽनुदात्तः,अनुदात्ताधिकारात्। दिवः पचाद्यच्।। पचादिषु देवडिति पठ्यते। 'टिड्ढाणञ्' (4.1.15) ङीप् अनुदात्तः,`यस्येति च' (6.4.148) इत्यकारलोपः। `अनुदात्तस्य च यत्रोदात्तलोपः' (6.1.161) इति ङीबुदात्तः। द्वितीयाबहुवचने `प्रथमयोः पूर्वसवर्णः' (6.1.102) इति पूर्वसवर्णदीर्घत्वम्। `एकादेश उदात्तेनोदात्तः' (8.2.5)। `ष्टुञ् स्तुतौ' (धा.पा.1043), अभिपूर्वात्`ऋदोरप्' (3.3.57) इत्यप्, गुणावादेशौ। वर्णव्यत्ययेन वकारस्य यकारः। `गतिकारक' (6.2.139) इत्त्युत्तरपदप्रकृतिस्वरत्वे प्राप्ते `अन्तः' (6.2.143) इति वर्तमाने `थाथघञ्क्ताजवित्रकाणाम्' (6.2.144) इत्त्युत्तरपदान्तोदात्तत्वम्। सप्तम्येकवचम्। `आद्गुणः' (6.1.87) `एकादेश उदात्तेनोदात्तः' (8.2.5) तस्मात् `अभिष्टये' शब्दोऽन्तोदात्तः।।
37. न सुब्रह्मण्ययां स्वरितस्य तूदात्तः। (1.2.37)
`सुब्रह्मण्या नाम निगदः' इति। अपादबन्धे गदतिर्वर्तते। अपादबन्धं हि गद्यमुच्यते। निशब्दः प्रकर्षे। यदुच्चैरविच्छिन्नमपादबन्धं मन्त्रवाक्यं निगद इति तस्य व्यपदेशः। तस्य च सुब्रह्मण्योपलक्षमत्वात्, `सुब्रह्मण्या' इति स्त्रीलिङ्गनिर्देशः। `सुब्रह्मण्योम्' इति। सुब्रह्मणि साधुः।`तत्र साधुः' (4.4.98) इति यत्। `तत् स्वरितम्' (6.1.185) इति स्वरितत्वम्, `प्रणवष्टेः' (8.2.89) इत्योङ्कार आदेश इति केचित्, तदयुक्तम्; `पादस्य वार्द्धर्चस्य वान्त्यमक्षरमुपसंहृत्य तदाद्यक्षरशेषस्य स्थाने् त्रिमात्रमोकारमोङ्कारं वा विदधति तं प्रणवमित्याचक्षते' इति {काशिका-8.2.89}वक्ष्यति। न च निगदे पादव्यवस्था, नाप्यर्द्धर्चव्यवस्था। तस्मादोशब्दोऽस्ति निपातोऽनर्थकः। तस्य स्वरितेन सहैकादेशः स्वरितः। `आमन्त्रितमाद्युदात्तम्' इति। `आमन्त्रितस्य च' (6.1.198) इत्यनेन षाष्ठिकेन। `त्सयानेनोदात्तः क्रियते' इति। ननु चासिद्धोऽसौ स्वरितः; वचनात् तस्यासिद्धत्वं न भवति। ननु च वचनस्य सुब्रह्मण्योमिति प्रयोजनं वक्तुं शक्यम् ? न हि समस्ते निगदे सुब्रह्मण्याशब्दनोपलक्षिते सतीदमेकमुदाहरणं युक्तम्। `अकार उदात्तः' इति। निपातस्वरेण। `ततः परोऽनुदात्तः स्वरितः' इति। `तिङङतिङ' (8.1.28) इति निघाते कृते, `उदात्तादनुदात्तस्य स्वरितः' (8.4.66) इत्यनेन। `पश्चिम एकः' इति। छकाराकारः। `चत्वार उदात्ताः' इति। वकारच्छाकाराभ्यामन्ये। `द्वावनुदात्तौ' इति। वकारच्छकारौ। `द्वितीयमक्षरम्' इति। मेधाशब्दाकारः। `शेषमनुदात्तम्' इति। मेधाशब्दे यावचौ ताभ्यामन्यत्। `पूर्वेण' इति। मेधातिथेर्मेषेत्यनेन। `तथैव द्वे आद्ये अक्षरे उदात्ते' इति। `यदि गौरावस्कन्दिन्' इति समस्तमामन्त्रितमाद्युदात्तमिति। अथापि गौरेति शब्दान्तरमामनन्ति, तथापि तस्यापि प्रवेशे कृते सकलस्यामन्त्रितस्याद्युदात्तत्वे `उदात्तादनुदात्तस्य' (8.4.66) इत्यादिना पूर्वोक्तेन विधिना द्वे उदात्ते भवतः। `अहल्यायै जार' इति। षष्ठ्यर्थे चतुर्थी, `बहुलं छन्दसि' (2.3.62) इत्यत्र `षष्ठ्यर्थे चतुर्थी वक्व्या' (वा.142) इत्युपसङ्ख्यानात्; `व्यत्ययो बहुलम्' (3.1.85) इति व्यत्ययेन वा। `समस्तमामन्त्रितमाद्युदात्तम्' इति। कौशिकशब्दस्य परामन्त्रितानुप्रवेशात्। `एवं गौतमब्रुवाण' इति। एतदपि कौशिकब्राह्मणेत्यनेन तुल्यमित्यर्थः। `द्वावुदात्तौ' इति। अनन्तरयोरुदाहरणयोः प्रत्येकमाद्यवित्यर्थः। `श्वः शपब्द उदात्तः' इति। प्रातिपदिकस्वरेण। `उदात्त इति वर्तते' इति. `मन्त्रे वृष' (3.3.96) इत्यादेः सूत्रात्। `द्वावुदात्तौ' इति। तौ पुनरादी आगच्छेत्यत्र दर्शितौ। `पदात् परमामन्त्रितं निहन्यते' इति। `आमन्त्रितस्य च' (8.1.19) इत्यनेन।
38. देवब्रह्मणोरनुदात्तः। (1.2.38)
`द्वयोरपि पदयोरामन्त्रिताद्युदात्तत्वे कृते' इति। `विभाषितं विशेषितं विशेषवचने बहुवचनम्' (8.1.74) इति पूर्वस्याविद्यामानत्वात् `आमन्त्रितस्य च' (8.1.19) इति पदात् परस्यापि निघातो न भवति। तेन द्वयोरपि पृथगेव षाष्ठिकमाद्युदात्तत्वं भवति। `शेषनिघातः' इति। `अनुदात्तं पदमेकवर्जम्' (6.1.158) इत्यनेन।
39. स्वरितात्संहितायामनुदात्तानाम्। (1.2.39)
`अनुदात्तानाम्' इति जातौ बहुवचनम्। तेन द्वयोरपि भवति। `इममित्यन्तोदात्तम्' इति। इदंशब्दस्य कमिप्रत्ययान्तत्वात् प्रत्ययस्वरेणान्तोदात्त्त्वम्, तस्य त्यदात्यत्वे `अतो गुणे' (6.1.97) पररूपत्वे तस्याप्येकादेश (8.2.5) उदात्तेनोदात्तत्वात्। `विधिकल एव' इति। `तेमयावेकवचनस्य' (8.1.22) इति विधिकाल एव निघातविधानात्। `सर्व एत आमन्त्रितनिघातेनानुदात्ताः' इति। यद्यपि ``आमन्त्रितं पूर्वमविद्यमानवत्' (8.1.72) इति, तथापि मेशब्दापेक्षया सर्वेषां निघातापत्तेः। `प्रथमामन्त्रितमाद्युदात्तम्' इति। `आमन्त्रितस्य च' (6.1.198) इति षाष्ठिकेन। `तस्य द्वितीयमक्षरं स्वरितम्' इति। `उदात्तादनुदात्तस्य स्वरितः' (8.4.66) इति। `ततः परेषामनुदात्तानाम्' इति। `नामन्त्रिते समानाधिकरणे सामान्यवचनम्' (8.1.73) इत्यविद्यमानत्वस्य प्रतिषेधे सति माणवकात् परयोः `आमन्त्रितस्य च' (8.1.19) इति निघातविधानात् परेऽनुदात्ताः। `अवग्रहे मा भूत' इति। अवग्रहः = असंहितापाठः। ननु च स्वरितादिति पञ्चमी, तेन `तस्मादित्युत्तरस्य' (1.1.67) इत्यत्र निर्दिष्टग्रहणस्यानन्तरर्यार्थकत्वादवग्रहे प्राप्तिरेव नास्ति, यथैव हि वर्णो व्यवधायकस्तथा कालोऽपि, तत् किं संहिताग्रहणम्? पञ्चमीनिर्देशकालो न व्यवधायक इति ज्ञापनार्थम्। तेन `तिङङतिङः' (8.1.28) इत्यत्रावग्रहेऽतिङन्तात् परं तिङन्तं निहन्यते।।
40. उदात्तस्वरितपरस्य सन्नतरः। (1.2.40)
`मातर इत्यनुदात्तः' इति। अनुदात्तत्वं तु विभक्तिस्वरेण। मातर इति मातृशब्दाज्जस्, `ऋतो ङिसर्वनामस्थानयोः' (7.3.110) इति गुणः। जसः सकारस्य रुत्वम्। तस्याप्यशब्दे शसन्ते परतः `अतो रोरप्लुतादप्लुते' (6.1.113) इत्युत्वम्। `आद्गुणः' (6.1.87) `उडिदम्' (6.1.171) इत्यादिना विभक्तेरन्तोदात्तत्वे कृते `एङः पदान्तादति' (61.109) इतिय ओकारः, सोऽपि स्थानिवद्भावेनानुदात्तो भवति। `तस्योदात्ते परभूते' इति। विभक्त्यकारे। `इकारोऽनुदात्तः' इति। सरस्वतीतिशब्दसम्बन्धी; `आमन्त्रित्सय च' (8 .1.19) इति सरस्वतीशब्दस्य निघातविधानात्। `तस्मान्न निहन्यते' इति। `अनुदात्तं सर्वमपादादौ' (8.1.18) इत्यत्रापादादाविति निघातप्रतिषेधात्। `प्रथममक्षरम्' इति। शकारोकार उदात्तः, `आमन्त्रितस्य च' (6.1.198) इति षाष्ठिकेन।
41. अपृक्त एकाल्प्रत्ययः। (1.2.41)
`घृतस्पृक्' इति। `क्विन्प्रत्ययस्य कुः' (8.2.62) इति कुत्वम् = शकारस्य खकारः, तस्य जश्त्वम् = खकारस्य गकारः। `अर्द्धभाक्' इति। `चोः कुः' (8.2.30) इति जकारस्य गकारः। उभयत्र `वाऽवसाने' (8.4.56) इत चर्त्वं ककारः। त्तरापृक्तसंज्ञायां सत्याम् ` वेरपृक्तस्य' (6.1.67) इति वकारलोपो भवति। प्रत्युदाहरणेषु हि तदभावान्न भवति।
`दर्विः' इति। `दृ विदारणे' (धा.पा.1493) `वृ दृभ्यां विन्' (द.उ.1.23) इति विन्। `जागृविः' इति। `जागृ निद्राक्षये' (धा.पा.1072), `जृशृस्तृजागृभ्यः क्विन्' (द.उ.1.24) इति क्विन्। `सुराः' इति। `षूञ् अभिषवे' (धा.पा.1247), सुरां सुनोतीति `अन्यभ्योऽपि दृश्यते' (3.2.178) इति क्विप्; सुरासुत्, ह्रस्वस्य तुक्। `तमाचष्टे
' (वा. 201) इति णिच्। `णाविष्टवत् कार्यं प्रातिपदिकस्य' (वा.813) इति टिलोपः। सुरासवतेः पुनः क्विप्, णिलोपः, प्रथमैकवनचम्, हल्ङ्यादिना(6.1.68) सुलोपः; रुत्वविसर्जनीयौ। अत्रापि णिलोपे कृतेऽसति प्रत्ययग्रहणे धातुकारस्यापृक्तसंज्ञा स्यात्। तस्यां च सत्यां `हल्ङ्याब्भ्यः' (6.1.68) इति धातुसकारलोपऋः स्यात्। ननु चासत्यपि प्रत्ययग्रहणे `प्रत्याप्रत्ययोः प्रत्ययस्यैव ग्रहणम्' (व्या.प.72) इति संज्ञा विज्ञास्यते, तत् किमर्थं प्रत्ययग्रहणम् ? क्रियते विस्पष्टार्थम्।
अथैकग्रहणं किमर्थम् ? अल्समुदायस्य मा भूदिति, नैतदस्ति; अल्ग्रहणसामर्थ्यान्न भविष्यति, अन्यथा ह्यल्ग्रहणमनर्थकं स्यात्- यदि हल्समुदायस्यापि संज्ञा स्यात्। एवं तर्ह्यल्ग्रहणेनात्र जातिग्रहणं भवतीति ज्ञापनार्थमेकग्रहणमम्। तेन `हलन्ताच्च' (1.2.10) इत्यत्र यदुक्तम्--`दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम्' इति तदुपपन्नं भवति।
42.तत्पुरुषः समानाधिकरणः कर्मधारयः (1.2.42)।
`तत्पुरुषः' इति समासविशेषस्याख्या। स च एक एवशब्दः। अनेकस्य च
शब्दस्य भिन्नप्रवृत्तिनिमित्तकस्यैकस्मिन्नर्थे वृत्तिः =सामानाधिकारण्यम्। ततश्च यत्र बाह्येन पदेन तत्पुरूषस्य सामानधिकरण्यम्, तत्रैवेयं संज्ञा स्यात्--राजपुरुषः शोभन इत्यादौ,अस्ति ह्यत्र तत्पुरुषस्य केनचित् सामानाधिकरण्यमस्ति; शोभनशब्देन सह। पाचकवृन्दारिकेत्यादौ तु न स्यात्, न ह्यत्र तत्पुरुषस्य केनचित् सामानाधिकरण्यमस्ति; शब्दान्तरस्य प्रयोगाभावादिति चोद्यमपाकर्त्तुमाह- `समानाधिकरणपदः' इति। समानम् = अभिन्नम्, एकमधिकरणम् = वाच्यं येषां पदानां तानि समानाधिकरणानि पदानि, तान्याश्रयभूतानि यस्य तत्पुरुषस्य स समानाधिकरणपदस्तत्पुरुषः। एतेन तत्पुरुषार्थानां पदानां समानाधिकरणत्वादुपचारेण तत्पुरुषोऽत्र सूत्रे समानाधिकरणशब्देनोक्त इति दर्शयति। कथं पुनर्बाह्यन्यपदापेक्षया तत्पुरुषस्य मुख्ये सामानाधिकरण्ये सम्भवति सत्यौपचारिकस्य ग्रहणमुपपद्यते ? `कर्मधारयः' इति महत्याः संज्ञायाः करणात्। इह हि लाघवार्थत्वात् कसंज्ञाकरणस्य, लघीयस्यां संज्ञायां कर्त्तव्यायां `कर्मधारयः' इति महतीं संज्ञां कुर्वता-- `अन्योऽप्यत्र कश्चित् विपर्ययः संज्ञायामाश्रितः' इत्येषोऽर्थः सूचितः। तेन `गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः' (व्या.प.4) इति मुख्यस्य समानाधिकरणस्य ग्रहणं न विज्ञायते।
`समानाभिधेयः' इति. तदर्थानां पदानां समानाभिधेयत्वात् तत्पुरुषोऽप्युपचारेण समानाभिधेय इत्युक्तः। `परमराज्यम्, उत्तमराज्यम्' इति। `सन्महत्' (2.1.61) इत्यादिना समासः। कर्मधारये सति `अकर्मधारये राज्यम्' (6.2.130) इत्युत्तरपदाद्युदात्तमत्वं न भवति। `पाचकवृन्दारिका' इति। वृन्दारकनागकुञ्जरैः' (2.1.62) इति पुंवद्भावः। `पाचिकाभार्यः' इति। बहुव्रीहिरयम्। तेनात्र `न कोपधायाः' (6.3.37) इति प्रतिषेधो भवत्येव। `ब्राह्मणराज्यम्' इति। षष्ठीतत्पुरुषोऽयम्। तेनात्र समासान्तोदात्तमेव न भवति, अपि तूत्तरपदाद्युदात्तत्वम्।।
43. प्रथमानिर्दिष्टं समास उपसर्जनम्। (1.2.43)
`समासे' इत्यधिकरणनिर्देशोऽयम्। कष्टश्रितादयः समासाः न किञ्चित् प्रथमानिर्दिष्टं शब्दरूपमस्ति। तथा हि-- समासे कृते तत एव समासाद् विभक्तिरुत्पद्यते, न तु तत्र स्थाच्छब्दात्। न च वाक्यकाले समासार्थात् पदाद् या प्रथमोत्पन्ना तदाश्रयं प्रथमानिर्दिष्टत्वं समासावयवस्य कल्पयितुं युक्तम्, यतः `समासे' इत्यधिकरणनिर्देशोऽयम्। तत्र समासे कृते यस्मात् प्रथमोत्पद्यते, तदेव समासे प्रथमानिर्दिष्टं भवति; न तु यस्मात् वाक्यकाले विभक्तिकाले विभक्तिरुत्पद्यते। तद्धि वाक्य एव प्रथमानिर्दिष्टम्, न तु समासे; प्रागेव समासात् तस्य प्रथमानिर्दिष्टत्वात्। ततश्च समासे कृते प्रथमानिर्दिष्टस्य संज्ञिनोऽसम्भवात् संज्ञा न सम्भवीत्येतच्चोद्यमपाकर्तुमाह- `प्रथमया विभक्त्या यन्निर्दिश्यते' इति। समासार्थं यच्छास्त्रं तत् समासशास्त्रं गृह्यते। तत्र प्रथमानिर्दिष्टस्येयं संज्ञा विधीयते, न तु कष्टश्रितादौ; समासे प्रथमानिर्दिष्टस्याविद्यामानत्वात् विद्यते च समासशास्त्रे प्रथमानिर्दिष्टं संज्ञीति कुतः संज्ञाया अप्रसिद्धिः ? कथं पुनः `समासे' इत्युच्यमाने समासशास्त्रे यत् प्रथमया निर्दिश्यते तस्य संज्ञित्वं लभ्यत इत्यत आह-- `समासे' इति। `समासशास्त्रं गृह्यते इति। कथं पुनः `समासे' इत्युच्यमाने समासशास्त्रं ग्रहीतुं शक्यम् ? तादर्थ्यात् तत्र समासशब्दस्य प्रवृत्तेः। भवति हि तादर्थ्यात् तावच्छब्द्यम् , यथा-- प्रदीपार्था मल्लिका `प्रदीपः' इति, इन्द्रार्था स्थूणा `इन्द्रः' इति। कष्टश्रितादिषूपसर्जनसंज्ञयायाः कार्यम्-- `उपसर्जनं पूर्वम्' (2.2.30) इति पूर्वनिपातः।
तत्रेदं चोद्यते-- राज्ञः कुमारीं पश्य राजकुमारीं पश्येत्यत्र राजन्शब्दः `षष्ठी' (2.2.8) इति समासशास्त्रे प्रथमानिर्दिष्टः; `द्वितीया श्रितातीतपतित' (2.1.24) इति द्वितीयासमासशास्त्रे कुमारीशब्दश्च। समसाशास्त्रे तत्रोभयोरप्यस्यां संज्ञायां सत्यां पूर्वनिपातानियम उपसर्जनह्रस्वस्वत्वञ्चेत्येतद्दोषद्वयं प्राप्नोतीति। इह च राज्ञः कुमार्याः स्वं राजकुमारीस्वमिति द्वयोरपि षष्ठ्यन्तयोः समासशास्त्रे प्रथमानिर्दिष्टत्वादुभयोरप्युपसर्जनसंज्ञायां सत्यां तदेव दोषद्वयं प्राप्नोति ? नैष दोषः; यस्मादुसर्जनमिति महत्याः संज्ञायाः करणस्यैतदेव प्रयोजनम्-- अन्वर्थसंज्ञा यथा विज्ञायेतेति। अप्रधनामुपसर्जनम्, प्रधानमनुपसर्जमिति। अप्रधानञ्च प्रधानमपेक्षते; सम्बन्धिशब्दत्वात्। तत्र सम्नब्धादेतवगन्तव्यं यत् प्रति यदप्रधानं तत् प्रतितदुपसर्जनमिति। श्रितादींश्चापेक्ष्य द्वितीयान्तमुपसर्जनं भवति, न तु द्वितीयान्तमात्रम्। न चेह श्रितादयः सन्ति। राज्ञः कुमार्याः स्वं राजकुमारीस्वमित्यात्राप्येष परीहारः। अत्रापि कुमारीशब्दमपेक्ष्य राजन्शब्दस्याप्राधान्यम्; न तु राजन्शब्दमपेक्ष्य कुमारीशब्दस्य। तस्मात् राजन्शब्दस्योपसर्जनसंज्ञा, न तु कुमारीशब्दस्य। यदि ह्यन्वर्थसंज्ञेयम्, पाचकवृन्दारिका, पुरुषव्याघ्रः, अर्धपिप्पली, पूर्वकायः-- इत्येतेषु पूर्वपदार्थ एव प्रधानमिति पाचिकादीनामिह प्राधान्यम्। अतो यद्यप्येते `वृन्दारकनागकुञ्जरैः पूज्यमानम्' (2.1.62), `उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' (2.1.56), `अर्धं नपुंसकम्' (2.2.2), `पूर्वापराधरोत्तरमेकदेशिकनैकाधिकरणे' (2.2.1) इत्येतेषु समासशास्त्रेषु प्रथमानिर्दिष्टाः, तथापि तेषामुपसर्जनसंज्ञा न प्राप्नोति; कुतः ? तेषां प्राधान्यात्। एवं तर्ह्युत्तरसूत्रेऽनुक्तसमुच्चयार्थत्वाच्चकारस्य भविष्यतीत्यदोषः।
अन्यस्त्वेवं मन्यते-- `पाचकवृन्दारिकेत्येवमादिषु पूर्वोक्तेषु समासेष्वाद्यौ `विशेषणं विशेष्येण बहुलम्' (2.1.57), `उपमानानि सामान्यवचनैः' (2.1.55) इत्येताभ्यामेव सिद्धौ; शेषौ तु `षष्ठी' (2.2.8) इत्यनेनैव। तस्मात् `वृन्दारकनागकुञ्जरैः' (2.1.62) इत्यादीनां न तदर्थ आरम्भः; किं तर्हि ? उपसर्जन संज्ञार्थः; तेनासत्यपि पाचिकादीनामप्रधानत्वे तेषामियं संज्ञा भविष्यति" इति, एतच्चासम्यक्, तथा हि -- `पूज्यमानम्', `सामान्याप्रयोगे', `नपुंसकम्', `एकाधिकरणम्'-- इत्येतान् विशेषान् वक्ष्यामीत्येतदर्थ आरम्भः स्यात्। सति चैतदर्थ आरम्भेऽत्राप्रधानस्योपसर्जनसंज्ञा विधीयमाना प्रधानस्य न स्यात्।।
44. एकविभक्ति चापूर्वनिपाते। (1.2.44)
अप्रधमानिर्दिष्टार्थोऽयमारम्भः। विभक्तिशब्दः सुपां वाचकः, विभागवचनो वा। कारकशक्तिर्विभागः--विभज्यते प्रातिपदिकार्थोऽनयेति कृत्वा। `समासे विधीयमाने'
इति। समासार्थवाक्यकाले। तदा हि तस्य समासस्य विधीयमानता भवति। एतेन समासग्रहणमनुवर्तमानं समासार्थे वाक्ये वर्त्तते, न समासशास्त्र इति दर्शयति। समासशास्त्रे हि सर्वमेव शब्दरूपमेकविभक्तिकमेव भवतीत्येकविभक्तिग्रहणमनर्थकं स्यादिति भावः। सर्वमेव हि प्रातिपदिकं पर्यायेणैकया विभक्त्या प्रयुज्यते। तस्मादेकविभक्तिग्रहणसामर्थ्यादवधारणमत्र विज्ञायत इत्यत आह-- `यन्नियतविभक्तिकम्' इति। तदेव स्पष्टीकुर्वन्नाह-- `द्वितीये सम्बन्धिति' इत्यादि। `पूर्वपदेनानाविभक्तिकेऽपि' इति। निष्क्रान्तशब्दः कर्तृशक्त्युपसर्जनीभूतं द्रव्यमाह। तच्चानेकसाधनशक्त्युपचितमिति क्रियान्तरसम्बन्धादेनेकसाधनविभक्तिकं भवति। `उत्तरपदंद तु पञ्चम्यन्तमेव भवति' इति। निषक्रमणक्रियापेक्षयाऽऽविर्भूतापादानशक्तिकत्वात्। `निष्कौशाम्बिः' इत्यत्रोपसर्जनसंज्ञाकार्यम्`गास्त्रियोरुपसर्जनस्य' (1.2.48) इति हस्वत्वम्। अथ निसोऽत्र केनोपसर्जनसंज्ञा विधीयते, ययोऽस्य पूर्वनिपातः ? पूर्वसूत्रेणेति चेत्, नैतदस्ति; तेनाप्रधानस्योपसर्जनसंज्ञाविधानात्, निसश्चात्र प्राधान्यात्। एवं तर्हि चकारस्यानुक्तसमुच्चायार्थत्वात् भविष्यति।
अन्ये त्वाहुः-- मा भून्निस उपसर्जनसंज्ञा, असत्यामपि तस्यां पूर्वनिपातो भविष्यति, `एकविभक्ति चापूर्वनिपाते' (1.2.44) इति वचनादिति, एतच्चायुक्तम्; पूर्वनिपाते हि कर्त्तव्य एकविभक्तिकस्योपसर्जनसंज्ञा नास्त्येव। तत्र यदि निस उपसर्जनसंज्ञा न स्यात्, तदोदहरणे द्वयोरप्यसत्यां तस्यां पर्यायेणानियः पूर्वनिपातः प्रसज्येत। अथ कथमर्धपिप्पल्यादीनामूपसर्जनसंज्ञा न भवति ? अत्र च `विभाषा च्छन्दसि' (1.2.36) इत्यतो विभाषाग्रहणं मम्डूकप्लुतन्यायेनानुवर्तते, सा च व्यवस्थितविभाषा। तेनार्ध पिप्पल्या अर्धपिप्पलीत्यादौ विषये पिप्पल्यादीनामेकविभक्तियुक्तानामप्युसर्जनसंज्ञा न भवति। यदि हि स्यात्, तदा ह्रस्वत्वं स्यात्।।
45. अर्थवदगधातुरप्रत्ययः प्रातिपदिकम्। (1.2.45)
`अभिधेयवचनोऽयमर्थशब्दः' इति। एतेन प्रयोजनादिवचनाद्वयवच्छिनत्ति। अर्थशब्दो हि प्रयोजनवचनोऽप्यस्ति, यथा-- अनेनार्थनागतः, अनेन प्रयोजनेनेति गम्यते। निवृत्तिवचनोऽप्यस्सि, यथा-- मशकारर्थो धूम इति, मशकनिवृत्त्यर्थ इति गम्यते। धनवचनोऽप्यस्ति,यथा--अर्थवान् देवदत्त इति, धनवानिति गम्यते। अभिधेयवचनोऽप्यस्ति, यथा-- अस्य वचनस्यायमर्थ इति, इदमस्याभिधेयमिति गम्यते। इह त्वभिधेयवचनस्यैव ग्रहणम्। तत् पुनरभिधेयं जातिगुणक्रियाद्रव्यभेदेन चतुर्विधम्।अत एव चतुष्टयी शब्दानां प्रवृत्तिर्भवति। तत्र जातिशब्दानां जातिरभिधेया-- गौरिति। यद्यर्थवतः प्रातिपदिकसंज्ञा विधीयते तदाऽभाववचनशशविषाणादिशब्दानां प्रातिपदिकसंज्ञा नोपपद्यते, अर्थाभावात्, नैतदस्ति; `अर्थशब्दोऽभिधेयवचनः' (का.1.2.45) इत्युक्तम्, अभावोऽप्यभिधेयो भवत्येव। अन्यथा ह्यर्थाभावादितीदं वचनमनुच्चारणीयं स्यात्, अनर्थकत्वात्, न ह्यनर्थकं वचनं प्रयोगर्हति। तस्मादबाववचनानामपि प्रातिपदिकसंज्ञा भवत्येव।
`नान्तस्याधेर्मा भूत्' इति। ननु चाधातुरिति प्रतिषेधो भविष्यति, तथा हि `वन सम्भ्कतौ' (धा.पा.463), `धन धान्ये' (धा.पा.1104) इत्येतयोः धरात्वोरेते रूपे, नैतदस्ति; अव्युत्पन्नावपि वनधनशब्दौ स्तः, तयोरेवायं प्रयोगः। अत्र यदि नान्तस्यावधेः प्रातिपदिकसंज्ञा स्यात् तदा सुबुत्पत्तिः स्यात्, ततश्च पदसंज्ञायां सत्यां नलोपः स्यात्। ननु च `अधातुः' `अप्रत्ययः'-- नैतदस्ति; अनर्थकस्यापि धातोर्विद्यमानत्वात् यथा-- `इङ अध्ययने' (धा.पा.1046), `इक् स्मरणे' (धा.पा.1047) इति-- एतयोरधिपूर्वयोरेवार्थवत्त्वम्, न केवलयोः। यस्तु गणपाठेऽनयोरर्थनिर्देशः, स समुदायार्थमवयवेऽध्यारोप्य कृत इति वेदितव्यम्। अध्यारोपितार्थयोरपि तयोर्गणपाठसामर्थ्याद्धातुसंज्ञा भवत्येव। एवं प्रत्ययोऽप्यनर्थकोऽप्यस्ति। यथा-- `यावादिभ्यः कन्' (5.4.29), याव एव यावक इति। न ह्यत्र प्रत्ययस्यान्वयव्यतिरेकाभ्यां शक्यतेऽर्थवत्त्वं प्रत्येतुम्। विनापि तेन कन्प्रत्ययेन यावशब्दादेव तदर्थः प्रतीययते। तस्मादर्थवदिति युक्तमुक्तम्।
`अहन्' इति। अदादित्वाच्छपो लुक्, तिपो हल्ङ्यादिना (6.1.68) लोपः, अट्। स च हन्तिग्रहणेन गृह्यत इति कृतेऽपि तस्मिन् हन्तिर्दातुरेव। अत्र विना धातुग्रहणेन प्रागेव प्रत्ययोत्पत्तेः प्रातिपदिकसंज्ञा स्यात्। नलोपस्तु प्रत्ययोत्पत्तौ पदत्वे सत्युत्तरकालम्। अथ वा-- प्रातिपदिकसंज्ञाऽपि प्रत्ययोत्पत्तेरुत्तरकालमेव स्यात्, तस्माद्धातुग्रहणं कर्तव्यम्। ननु चात्र प्रत्ययलक्षणेन `अप्रत्ययः' इति प्रतिषेधेन भवितव्यम्,तत् किमधातुग्रहणेन ? नैतदस्ति; प्रातिपदिकसंज्ञायां नलोपः कार्यः, नलोपे च `न ङिसम्बुद्धयोः' (8.2.8) इति प्रतिषेधो ज्ञापकः- प्रत्ययलक्षणेन `अप्रत्ययः' इति प्रतिषेधो न प्रवर्तत इति। यदि ह्यप्रत्यय इति प्रत्ययलक्षणेन हे राजन्नित्येवमादिषु प्रातिपदिकसंज्ञायाः प्रतिषेधः स्यात्, `न ङिसम्बुद्धयोः' (8.2.8) इति प्रतिषेधो अनर्थकः स्यात्; प्राप्त्यभावात्। अथ भिद्-छिद्-लूः- पूरित्येवमादीनां कथं प्रातिपदिकसंज्ञा, यावता क्विबन्ता धातुत्वं न जहतीति धातव एवैत इति, अत्राधातुरिति प्रतिषेधेन भवितव्यम् ? नैष दोषः; मा भूदनेन, कृदन्तत्वादुत्तर सूत्रेण भविष्यति। न चोत्तरस्याः प्राप्तेरयं बाधकः; वाक्यान्तरस्थत्वात्। `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्' (व्या.प.10) इति वा।
`काण्डे, कुड्ये' इति। प्रथमाद्विवचनान्ते एते रूपे। `नपुंसकाच्च' (7.1.19) इति शीभावः। अत्र च `प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य' (भा.प.सू.7) इति तदन्तस्य प्रतिषेधो भविष्यति, न प्रत्ययमात्रस्य। ननु च `सुप्तिङन्तं पदम्' (1.4.14) इत्यत्रान्तग्रहणेन `अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति' इति ज्ञापितत्वात् `अप्रत्ययः' इति प्रत्ययान्तस्य प्रतिषेधो न लभ्यते, नैष दोषः; संज्ञाविधौ स प्रतिषेधः, न चायं संज्ञाविधिः, किं तर्हि ? प्रतिषेधविधिः। अथ किमर्थमप्रत्यय इत प्रतिषेध उच्यते, यावतोत्तरसूत्रे कृत्तद्धितग्रहणं नियमार्थं भविष्यति-- `कृत्तद्धितान्तस्यैव प्रातिपदिकसंज्ञा, नान्यप्रत्ययान्तस्य-- काण्डे,कुड्ये इत्येवमादेः'इति ? नैतदस्ति, असत्यस्मिन् प्रतिषेधेऽन्यत्र`संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति' इति कृत्तद्धितयोरेव प्रातिपदिकसंज्ञा स्यान्न तदन्तस्य; तदन्तस्य चैवेष्यते-- भिच्छिल्लूःपूरित्येवमादीनां प्रातिपदिकसंज्ञार्थम्। सत्यप्रत्यय इत्येतस्मिन् प्रतिषेधे प्राप्ते यथा कृत्तद्धितान्तस्य प्रातिपदिकसंज्ञा लभ्यते तथोत्तरसूत्रे प्रतिपादयिष्यामः। ननु च `काण्डे' `कुड्ये'-- इत्येतयोः पूर्वमेव प्रकृतेः प्रातिपदिकसंज्ञा प्रवृत्ता, विभक्त्या च सहैकादेशे कृतेऽन्तादिवद्भावादस्त्येव प्रातिपदिकत्वमिति सत्यप्यप्रत्ययग्रहणे ह्रस्वत्वं प्राप्नोत्येव, नैतदस्ति; अप्रत्ययग्रहणसामर्थ्यान्न भविष्यति,अन्यथा ह्यप्रत्ययग्रहणमनर्थकं स्यात्।
`अधातुरप्रत्ययः' इति द्विष्प्रतिषेधः षष्ठीतत्पुरुषाशङ्कानिरासार्थः `अधातुप्रत्ययः' इत्युच्यमाने षष्ठी तत्पुरुषोऽप्याशङ्क्येत-- धातोर्यः प्रत्ययस्य न भवतीति।।
46. कृत्तद्धितसमासाश्च। (1.2.46)
अत्र `अन्यत्र संज्ञाविधौ प्रत्ययग्रणे तदन्तविधिर्नास्ति' इत्यतन्नोपतिष्ठते, यस्मादप्रत्यय इति प्रतिषेधे प्राप्ते वचनमिदम्। `अप्रत्ययः' इति प्रत्ययान्तस्य प्रतिषेधः उक्तः। तेन यत्र संज्ञायाः प्रतिषेधस्तत्रेयमारभ्यमाणा तदन्तस्यैव भवतीत्येतच्चेतसि कृत्वाऽऽह-- `अप्रत्यय इति पूर्वसूत्रे पर्युदासात् कृदन्तस्य' इत्यादि।
अथ समासग्रहणं किमर्थम् ? यावता समासस्यार्थवत्त्वात् पूर्वेणैव संज्ञा
सिद्धेत्यत आह-- `अर्थवत्समुदायानाम्' इत्यादि। निर्धारणषष्ठीयम्-- अर्थवन्तो ये समुदायास्तेषां मध्ये समासस्यार्थवतः समुदायस्य प्रातिपदिकसंज्ञा यथा स्यादिति नियमार्थं समासग्रहणम्।
यद्येवम्, प्रकृतिप्रत्ययसमुदायस्यार्थवतः प्रातिपदिकसंज्ञा न स्यात्-- बहुपटव उच्चकैरिति ? कोऽत्र दोषः ? `चितः' (6.1.163) इत्यस्मिन् सूत्रे चितः सप्रकृतेर्बहुजकजर्थमिति वचनादेतद्वयवस्थाप्यते-- प्रकृतिमन्तर्भाव्य चित्स्वरो विधीयत इति। बहुपटव इत्यत्र बहुचि विहिते यदि प्रातिपदिकसंज्ञा न स्यात्,तदा प्रातिपदिकत्वाभावात् यथा सुबुत्पत्तिर्न स्यात् तथोत्पन्नाया अपि विभक्तेः `सुपो धातुप्रातिपदिकयोः' (2.4.71) इति लुका न भवितव्यम्। ततश्च बहुपटव इत्यत्र जस्विभक्तेरकारस्य स्वरः स्यात्; उकारस्य चेष्यते। प्रातिपदिकत्वे तु सति पूर्वोत्पन्नाया विभक्तेर्लुकि कृते याऽन्या विभक्तिरुत्पद्यते, सा बहुजुत्पत्तेरुत्तरकालभाविनीत्वात् प्रकृतौ नान्तर्भवति। तेन तामुत्सृज्य पूर्वो भागः स्वरभाग भवति। अत उकारस्य स्वरः सिध्यति। उच्चकैरित्यत्र प्रातिपदिक्तवाभावाकज्वतः समुदायाद्विभक्तिर्न स्यात्, तस्याञ्चासत्यां पदत्वं न स्यात्। ततश्चोच्चकैः पठतीति `तिङङतिङः' (8.1.28) इति निघातो न स्यात्। तस्मात् प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञा वक्तव्या ? न वक्तव्या, यस्मात् तुल्यजातीयानां नियमः, तेन तुल्यजातीयो नियमेन व्यवच्छिद्यते। तुल्यजातीयश्चच समाससुबन्तसमुदायादन्यः वाक्यसमुदाय एव, न तु प्रकृतिप्रत्ययसमुदायः। तेनायं तस् नियमेन व्यवच्छेदो न करिष्यते, नैतदस्ति; सुबन्तासुबन्तसमुदायोऽपि समासोऽस्ति, यथा-- प्रकर्त्ता, प्रकारक इति। अत्र हि `गतिकारकोपपदानां कृद्भिः समासवचनं प्राक्सुबुत्पत्तेः' (व्या.,प.वृ 138) इति कृदन्तेनासुबन्तेन गतिकारकं सुबन्तं समस्यते, तेन सुबन्तासुबन्तसमुदायोऽयं समास इति तुल्यजातीयस्यापि नियमे विज्ञायमाने बहुपटवः, उच्चकैरित्यत्र प्रातिपदिकसंज्ञा न स्यात्। एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति-- भवति प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञेति; यदयमप्रत्यय इति प्रत्ययान्तस्य प्रतिषेधं शास्ति।।
47. ह्रस्वो नपुंसके प्रातिपदिकस्य। (1.2.47)
`नपुंसकलिङ्गे' इति। नुपुंसकं लिङ्गं यस्येति बहुव्रीहिः। स पुनर्नपुंसकलिङ्गोऽर्थो द्रव्यभूतो वेदितव्यः; न पुंसकिलिङ्गस्य द्रव्यधर्मत्वात्। `अलोऽन्त्यस्य' इति। `अलोऽन्त्यस्य' (1.1.52) इति परिभाषा।
`ग्रामणीः' इति। `सत्सूद्विष' (3.2.61) इत्यादिना क्विप्। `अग्रग्रामाभ्यां च' (का.वा.5064) इत्युपसंख्यानाण्णत्वम्। काण्डे, कुड्ये-- इत्यत्रापि `अप्रत्ययः' इति प्रतिषेधात्प्रातिपदिकसंज्ञा नास्ति, तेन ह्रस्वत्वं न भवति। ननु च प्रातिपदिकाप्रातिपदकयोरेकादेशोऽन्तादिवद्भावात् प्रातिपदिकग्रहणेन गृह्यते, ततश्च क्रियमाणे प्रातिपदिकग्रहणे ह्रस्वत्वं प्राप्नोतीत्यत आह-- `प्रातिपदिकगर्हणसमर्थ्यात्' इत्यादि। इह यदन्तवद्भावः स्यात्, प्रातिपदिकगर्हणमनर्थकं स्यात्,व्यवच्छेद्याभावादिति भावः।।
48. गोस्त्रियोरुपसर्जनस्य। (1.2.48)
`स्त्रीति स्त्रीप्रत्ययग्रहणम्' इति। अत्र हेतुमाह-- `स्वरितत्वात्' इति। स्त्रीग्रहणस्येह स्वरितत्वं क्रियत इति स्वरितेनाधिकारादवगतिर्भवति। तेन `स्त्रियाम्' (4.1.3) इत्यधिकृत्य ये प्रत्यया विहिताष्टावादयस्तेषां ग्रहणं भवति; न स्त्रर्थाभिधायिनः शब्दमात्रस्य, नापि स्त्रीशब्दस्यैव स्वरूपस्य उपसर्जनग्रहणं द्वयोर्विशेषणमित्यादेः स्पष्टीकरणयाह-- `गोरुपसर्जनस्य, स्त्रीप्रत्ययस्योपसर्जनस्य' इत्यादि। ताभ्यां प्रातिपदिकस्यत्यादेरपि स्फुटीकरणायाह--`उपसर्जनगोशब्दान्तस्य' इत्यादि। उपसर्जनगोशब्दोऽन्तो यस्येति विग्रहः। एवं गोशब्देनोपसर्जनेन स्त्रीप्रत्ययेन च प्रातिपदिकस्य तदन्तविधो सति गोः कुलं गोकुलम्, राज्ञः कुमार्याः पुत्रो राजकुमारीपुत्र इत्यत्र गोशब्द्य कमारीशब्दस्य च ह्रस्वत्वं न भवति, अन्यथा इहापि स्यात्। भवति ह्यत्र गोशब्दस्य राजकुमारीशब्दस्य चोपसर्जनत्वमित्यभिप्रायः।
`चित्रगुः' इति। `प्रथमानिर्दिष्टम्' (1.2.43) इत्यादिना गोशब्दसयोपसर्जनसंज्ञा, निष्कोशाम्बिरित्यादौ तु `एकविभक्ति चापूर्व' (1.2.44) इत्यादिना। `अतितन्त्रीः' इत्यादि। `तत्रि कुटुम्बधारणे' (धा.पा.1678), `इदितो नुम्' (7.1.58), `अवितृस्तृतन्त्रीभ्यः' (द.उ.1.82) इतीः- तन्त्रीः। `लक्ष दर्शनाङ्कनयोः' (धा.पा.त1538), `लक्षेर्मुट् च' (द.उ.1.84) इति मुट् ईप्रत्ययश्च-- लक्ष्मीः। `श्रिञ् सेवायाम्' (धा.पा. 897), `क्विब वचिप्रच्छि'(वा.288) इत्यादिना क्विप्, दीर्घः- श्रीः। `अत्यादयः क्रान्त्याद्यर्थे द्वितीयया' (वा.91) इति प्रादिसमासः।
यदि स्त्रीति स्त्र्यधिकारविहिताः प्रत्यया गृह्यन्ते ततश्च `प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य' (भो.सू.7) इति तदन्तग्रहणेऽतिराजकुमारीरित्यत्र ह्रस्वत्वं न सिध्यति; न हि राजकुमारशब्दात् `वयसि प्रथमे' (4.1.20) इति ङीप्प्रत्ययो विहितः,किं तर्हि ? कुमारशब्दात्, नैष दोषः; एषा परिभाषा `यस्मात्प्रत्ययविधिस्तदादि' (1.4.13) इत्यत्र सूत्रे प्रतिपादिता। तत्र च `वाऽऽमि (1.4.5) इत्यतः `वा' ग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन व्यवस्थिविभाषावतीयं क्वचिन्नोपतिष्ठत एव। अथ वा-- `कृत्तद्धितसमासाश्च' (1.2.46) इत्यतश्चकारोऽनुवर्तते,स चानुक्तसमुच्चयार्थः, तेनातिराजकुमारिरित्यत्रापि ह्रस्वत्वं भविष्यतीत्यदोषः।
`ईयसो बहुव्रीहौ प्रतिषेधः' इति। ईयसन्ताद्यो विहितः स्त्रीप्रत्ययः,तदन्तस्य बहुव्रीहौ प्रतिषेध इति। कथं पुनरसौ लभ्यते ? ` विभाषा च्छन्दसि' (1.2.36) इत्यतो विभाषाग्रहणानुवृत्तेः। न चैवं सत्यतिप्रसङ्गः; व्यवस्थितविभाषाविज्ञानात्।
`बहुश्रेयसी' इति। अतिशयेन प्रशस्येति `द्विवचनविभज्योपपदे तरबीयसुननौ' (5.3.57) इतीयसुन्प्रत्ययः। `प्रशस्यस्य' (5.3.60) इति प्रशस्यशब्दस्येयसुनि परतः श्रादेशो भवति, `प्रकृत्यैकाच्' (6.4.163) इति प्रकृतिवद्भावः, `आद्गुणः' (6.1.87), `उगितश्च' (4.1.6) इति ङीप्। बह्व्यःश्रेयस्यो यस्येति बहुश्रेयसीति `नद्युतश्च' (5.4.153) इति कप् न भवति; `ईयसश्च' (5.4.156) इति कपो निषेधात्।
49. लुक्तद्धितलुकि। (1.2.49)
अदर्शनं (1.1.60) लुक्, तच्चाभावः। अभावे पौवापर्यन्नोपपद्यते। तस्माल्लुकीति सति सप्तमीयम्, न परसप्तमीति मत्वाहऽऽह-- `तद्धितलुकिसति' इति। `पञ्चेन्द्रः' इति। `तद्धितार्थ' (2.1.51) इत्यादिना समासे कृते `साऽस्य देवता' (4.2.24) इत्यण्, तस्य `द्विगोर्लुगनपत्ये' (4.1.88) इति लुक्, `इन्द्रवरुण' (4.1.49) इत्यादिना विहितस्य ङीषोऽनेन लुक्। तस्मिन्निवृत्ते सन्नियोगशिष्टानामेकतरापाय उभयोरप्यपाय इत्यानुको निवृत्तिः। `पञ्चशष्कुलिः' इति। `अध्यर्द्धपूर्वद्विगोर्लुगसंज्ञायम्' (5.1.28) इत्यार्हीयस्य ठकस्तेन क्रीतार्थे विहितस्य लुक्। `आमलकम्' इति। आमलक्याः फलं विकार इति `नित्यं वृद्धशरादिभ्यः' (4.3.44) इत्यञ्। पूर्ववल्लुक्। शष्कुली, बदरी, आमलकी, कुवली-- गौरादिपाठदेते ङीषन्ताः।
`गार्गीकुलम्'इति। गार्ग्यशब्दात् `यञश्च' (4.1.16) इति ङीप्; `यस्येति च' (6.4.148) इत्यकारलोपः; `हलस्तद्धितस्य' (6.4.150) इति यकारस्य च लोपः, गार्ग्याः कुलमिति षष्ठीसमासः, षष्ठ्या लुक्। गार्गीशब्दस्य समासशास्त्रे प्रथमानिर्दिष्टत्वाच्छास्त्रीयमुपसर्जनत्वम्, मूलोदाहरणेषु त्विन्द्रणी प्रभृतीनां लौकिकमात्रोपसर्जनमत्वम्। उभयगतिरिह शास्त्रे सम्भवतीति लौकिकमप्रधानत्वमुपसर्जनत्वम्। लोके ह्यप्रधानमुपसर्जनमित्यच्यते। `गार्गीत्वम्' इत्यत्रापि गार्गीशब्दस्य लौकिकमेवोपसर्जनत्वम्. `अवन्ती, कुन्ती कुरूः' इति। अवन्तेरपत्यं गोत्रं स्त्री, कुन्तेरपत्यं गोत्रं स्त्री-- `वृद्धेत्कोशलाजादाञ्ञ्यङ' (4.1.171) । कुरोरपत्यं स्त्री-- `कुरुनादिभ्यो ण्यः' (4.1.172) इति ण्यः। `स्त्रियामवन्तिकुन्तिकुरुभ्यश्च' (4.1.176) इति लुक्।
अवन्तिकुन्तुशब्दाभ्याम्, `इतो मनुष्यजातेः' (4.1.65) इति ङीष्। कुरुशब्दात् `ऊङुतः' (4.1.66) इत्यूङ। अत्र ङीषा ऊङा च तद्धितार्थो गोत्रापत्यं स्त्रीप्रधानमेवाभिधीयत इत्युपसर्जनत्वं नासति लौकिकम्। शास्त्रीयमपि नास्ति; अप्रथमानिर्दिष्टात् समासशास्त्र इति।।
50. इद्गोण्याः। (1.2.50)
`पञ्गोणिः' इति। `तद्धितार्थ' (2.1.51) इति समासे कृत आर्हीयष्ठक्। तस्य
पूर्ववल्लुक्। `इदिति योगविभागः' इति. एतस्येद्ग्रहणमेव लिङगम्। तथा हि गोणी इत्येतावति सूत्रे ह्रस्वग्रहणानुवृत्तौ ह्रस्वत्वे कृते पञ्चगोणिरिति सिद्ध्यत्येव;किमिद्ग्रहणेन ? तदेतदिद्ग्रहणं क्रियमाणं योगविभागर्थं विज्ञायते। ननु चानन्तरसूत्राल्लुक एवानुवृत्तिः स्यात्, न ह्रस्वस्य, नैतदस्ति; लुगनुवृत्तौ हि सूत्रमिदमनर्थकं स्यात्; लुकोऽनन्तरसूत्रेणैव सिद्धत्वात्। तस्माद्ध्रस्वग्रहणमेवानुवर्त्तते, न लुग्ग्रहणम्।
`पञ्चसूचिः' इति। पञ्चगोणिरित्यनेन तुल्यम्। यदि योगविभागः क्रियते, तदातिप्रसङ्गः स्यात्। अन्येषामपि प्रसज्यत इत्यत आह-- `स च' इत्यादि। यदि सर्वत्रेत्त्वं पूर्वयोगेणैव स्यात्, तदा `गोण्याः' इति वचनमनर्थकम्। तस्मादगोणीग्रहणादस्यासर्वविषयत्वम्। तेन योगविभागः सूचीविषय एव, नान्यविषय इति। तपरकरणं दीर्घानिवृत्त्यर्थम्। दीर्घस्य दीर्घकरणमनर्थकं स्यात्। अतो विना तपरकरणेन दीर्घो न भविष्यीति चेत्, न; लुग्ह्रस्वबाधनार्थत्वाद्दीर्घकरणस्य। भाव्यमानोऽण् सवर्णान् न गृह्णातीति, तस्माददीर्घनिवृत्त्यर्थं तपरत्वं नोपपद्यत इति चेत्, न; तस्याभाव्यमानत्वात्। अपूर्वस्य हि विधानं भाव्यमानत्वम्। न चात्रापूर्वस्य विधानम्। तथा हि-- लुग्घ्रस्वयोः प्राप्तयोः पुनः स एव ईकारः प्रतिप्रसूयते। तस्मात् तपरकरणं कर्त्तव्यम्।।
51. लुपि यक्तवद्वयक्तिवचने। (1.2.51)
अभिधेयस्य लिङ्गसङख्ययोः प्राप्तयोरयमारम्भः। लुबिति प्रत्ययस्यादर्शनम्,तच्चाभावात्मकम्। न चाभावे व्यक्तिवचनयोः शक्यतेऽतिदेशः कर्त्तुम्। तस्माल्लुप्संज्ञया लुप्तस्य प्रत्ययस्यार्थो लुप्शब्देन विवक्षित इति मत्वाऽह--`लुपीति लुप्संज्ञया' इत्यादि। कथं पुनरेतल्लभ्यते, यावता प्रत्ययादर्शनस्यैषा संज्ञा, न तु प्रत्ययार्थस्य ? साहचर्यात्। साहचर्य्यन्तु यत्र लुप्, तत्रावश्यं प्रत्ययार्थस्य सद्भावात्। `युक्तवदिति निष्ठाप्रत्ययेन क्तवतुना प्रकृत्यर्थ उच्यते' इति। अत्र कारणमाह-- `स हि' इत्यादि। युनक्ति = अभिसम्बध्नाति, विशेषणविशेष्यभावलक्षणसम्बन्धेनात्मसम्बन्धिनं करोतीत्यर्थः। तत्र `तस्य निवासः' इत्यादि प्रत्ययार्थो विशेष्यः,पञ्चालादिशब्दस्यार्थः प्रकृत्यर्थो विशेषणम्। तेन हि पूर्व विज्ञातेन स्वाम्यन्तरव्यवच्छेदेन
प्रत्ययार्थो विशिष्यते।
`अथ वा' इत्यादि। पूर्वं `युजिर् योगे' (धा.पा.1444) इत्यस्माद्धातो
क्तवतुप्रत्यये सति युक्तवदित्यतद्रूपं प्रदर्शितम्, इदानीं तस्यैव धातोः क्तप्रत्ययाद्वतिप्रत्यये सति युक्तवदित्येतद्रूपं दर्शयति। यद्यपि द्विष्ठत्वात् सम्बन्धस्य -- यथा प्रत्ययार्थेन प्रकृत्यर्थो युक्तः, तथा प्रकृत्यर्थेनापि प्रत्ययार्थः; तथापि प्रत्ययार्थसम्बन्धिनोर्व्यक्तिवचनयोः प्रत्ययार्थ एवातिदेशोऽनर्थक इति प्रकृत्यर्थ एवात्र युक्तशब्देन विवक्षित इति मत्वाऽह-- `युक्तः प्रकृत्यर्थः' इति। `सप्तम्यर्थे वतिः' इति। लुपीति सप्तमीनिर्देशात्।
व्यक्तिशब्दः प्रादुर्भावादावप्यर्थे वर्त्तते, वचनशब्दो हि भाषणादिषु, अतस्तत्संप्रत्ययो मा भूदित्यत आह-- `व्यक्तिवचने' इति। किं पुनः कारणं पूर्वाचार्यनिर्देश आश्रीयत इत्यत्र आह-- `तदीयम्' इत्यादि। कुत एतदित्यत आह-- `तथा च' इत्यादि। न हि स्वकीयस्यैव प्रत्याख्यानं युक्तमिति भावः।
`पञ्चालाः क्षत्रियाः' इति। पञ्चालस्यापत्यानि बहूनीति विवक्षायाम् `जनपदशब्दात् क्षत्रियादञ्' (4.1.168), तस्य `तद्राजस्य बहुषु तेनैवास्त्रियाम्' (2.4.62) इति लुक्। `तेषां निवासो जनपदः' इत्यस्य वक्ष्यमाणेन `पञ्चालानाम्' इत्यनेन सम्बन्धः। `पञ्चालानां निवासो जनपदः' इति। तस्य `जनपदे लुप्' (4.2.81) इति लुक्। कुरुशब्दादपत्यार्थे `करुनादिभ्यो ण्यः' (4.1.172) इति ण्यप्रत्ययः। मत्स्यादिशब्देभ्योऽप्यपत्यार्थे `द्वयञ्मगध' (4.1.170) इत्यादिनाण्। शेषं पूर्ववत्।
`लवणः सूपः' इति। लवणेन संसृष्ट इति प्राग्वहतीष्ठक् (4.4.1), तस्य `लवणाल्लुक्' (4.4.24) इति लुक्। अत्राभिधेयवल्लिङ्गवचने भवतः। शिरीषाणामदूरभदो ग्राम इति
शिरीषाः। `अदूरभवश्च' (4.1.70) इति शरीषशब्दादण्, तस्य `वरणादिभ्यश्च ' (4.2.82)
इति लुप्। णत्वन्न भवतीति व्यक्तिवचनग्रहणस्य फलम्। यदि `व्यक्तिवचने' इति नोच्येत, तदा शिरीषेषु यद्वनस्पतित्वं तस्यापि ग्रामेऽतिदेशः स्यात्। एवञ्च शिरीषवनमित्यत्र `विभाषौषधिवनस्पतिभ्यश्च' (8.4.6) इति णत्वं प्रसज्येत्।
`हरीतक्यः फलानि' इति। हरीतकीशब्दो गौरादिषु पिप्पल्यादिदर्शनान्ङीषन्तः। ततः फले विकारे `अनुदात्तादेरञ्' (4.2.44) इत्यञ्; तस्य `हरीतक्यादिभ्यश्च' (4.3.167) इति लुप्। अत्र व्यक्तिरेव युक्तवद्भावेन भवति, वचनन्त्वभिधेयवदिति। एतच्च विभाषाग्रहणानुवृत्तेर्व्यवस्थितविभाषाविज्ञानाच्च लभ्यते। `खलतिकं वनानि' इति। `अदूरभवश्च' (4.2.70) इत्यण्, तस्य `वरणादिभ्यश्च' (4.2.82) इति लुप्। अत्र वचनमेव
युक्तवद्भावेन भवति, व्यक्तिस्त्वभिधेयवदेवेति। एतदपि पूर्ववदेव लभ्यते।।
52. विशेषणानां चाजातेः। (1.2.52)
पूर्वं प्रकृत्यर्थगतयोर्लिङ्गसंख्ययोर्लुबर्थेऽतिधेशात् तद्विशेषणानामपि रमणीयादीनां व्यक्तिवचनातिदेशः सिद्ध एव। यद्यपि भिन्नं विशेषणानां प्रवृत्तिनिमित्तम्; तथापि तेन भिन्नेनापि तत्र प्रवर्त्तमानानां स एव लुबर्थोऽतिदिष्टव्यक्तिवचनस्तेषामभिधेयः, तस्मात् तद्गतेनैव लिङ्गसंख्याभिधाने सिद्धे जातिप्रतिषेधार्थमिदं वचनम्। `गोदौरमणीयौ' इति। गोदौ नाम ह्रदौ, तयोरदूरभवो ग्राम इत्यर्थेऽण्। `वरणादिभ्यश्च' (4.2.82) इति लुप् तस्य।
`पञ्चालाः जनपदः'। `गोदौ ग्रामः 'इति। जनपदग्रामशब्दौ जातिवचनौ। ताभ्यां जातिनिमत्ताभ्यां स एव लुबर्थो जातिरूपेणोच्यत इति तयोरपि व्यक्तवचने युक्तवत् स्याताम्। ततो `जातेः' इति प्रतिषेधः।
`जात्यर्थस्य' इत्यादि। जातिशब्दस्यार्थो जात्यर्थः, तस्यायम् `अजातेः' इति युक्तवद्भावप्रतिषेधः, न जातिशब्दस्यैवेत्यर्थः। किमेव सति सिद्धं भवतीत्यत आह- `तेन' इत्यादि। अर्थस्य युक्तवद्भावप्रतिषेधे सति यथा जातिशब्दस्य तत्रार्थे वर्त्तमानस्य तदीये लिङ्गसंख्ये न भवतः, तथा तद्विशेषणानामपि युक्तवद्भावो न बह्वन्न इत्यादौ न स्यात्, रमणीयादीनामजातिशब्दत्वात्। द्वारग्रहणं लुबर्थे जातिशब्द्स्य प्रवृत्तत्वात्, लुबर्थे जातिविशेषणानां साक्षादप्रवृत्तेः। तानि हि साक्षाज्जातिमेव विशेषयन्ति। तस्यां तु विशेषितायां लुबर्थोऽपि विशिष्ट एव प्रतीयत इति जातिद्वारेण तस्य तानि विशेषणानि भवन्ति।
`मनुष्यलुपि' इति। मनुष्यलक्षणो यो लुप् तस्य विशेषणानां युक्तवद्भावप्रतिषेध इति। स च विभाषाग्रहणानुवृत्तेर्व्यवस्थितविभाषाविज्ञानाल्लभ्यते। `चञ्चाभिरूपः' इति। चञ्चेव मनुष्यश्चञ्चा-- `इवे प्रतिकृतौ' (5.3.96) इति कन्। तस्य `लुम् मनुष्ये' (5.3.98) इति लुप्। `अभिरूपः' इति विशेषणस्याभिधेयवल्लिङ्गवचनानि भवन्ति। `
वर्ध्रिका' इति। पूर्ववत् कँल्लुपौ।।
53. तदशिष्यं संज्ञाप्रमाणत्वात्। (1.2.53)
`तदशिष्यम्' इति प्रतिज्ञा, `संज्ञाप्रमाणत्वात्' - इति हेतुः। यस्मात् संज्ञाभूतानां पञ्चालादिशब्दानां प्रमाणत्वम्, तस्मात् तदशिष्यम्। प्रमाणत्वं पुनः प्रत्ययलक्षणम्। सर्वेषामेव शब्दानामेवं विधे स्वविषये प्रमाणत्वमस्ति, उच्यते चेदम्, तत्र विशेषो विज्ञायते, स पुनरभिधेयगतलिङ्गसंख्यानपेक्षया भिन्नलिङ्गसंख्यानामपि तेषां स्वार्थे प्रत्यायकत्वम्। अत एवाह-- `संज्ञाशब्दा हि नानालिङ्गसंख्याः' इति। `प्रमाणम्'इति। प्रमाणं प्रत्यायका वाचका इत्यर्थः। तत्रैतत् स्यात्-- संज्ञाशब्दा एवामी पञ्चालादयो न भवन्ति, किं तर्हि ? योगनिमित्तका इत्यत आह-- `पञ्चाला वरणाः' इत्यादि। योगनिमित्तकाः शब्दा योगशब्दाः। न हि पञ्चालादयः शब्दाः क्षत्रियादिसम्बन्धेन जनपदादौ वर्त्तन्ते; किं तर्हि ? संज्ञा एता जनपदादीनाम्।
यदि संज्ञाशब्दा एते, ततः किमिति ? तदशिष्यमित्यत आह-- `तत्र लिङ्गं वचनञ्च' इत्यादि। कुत एतत् ? यत् संज्ञाशब्दानां लिङ्गं वचनञ्च तत्स्वभावसिद्धमित्यत आह-- `यथा' इत्यादि। एकस्यामपि जलकणिकायां बहुवचनान्तः स्त्रीलिङ्गोऽप्शब्दः प्रयुज्यते, एकस्यामपि योषिति दारशब्दः पुंल्लिङगो बहुवचनान्तः, गृहशब्दश्चैकस्मिन् वेश्मनि बहुवचनान्तः पुंल्लिङ्गश्च, एकस्यामपि वालुकायां बहुवचनान्तः सिकताशब्दः स्त्रीलिङ्गः, वर्षा इत एकस्मिन् विशिष्टकालेऽपि प्रवर्त्तमानः स्त्रीलिङ्गो बहुवचनान्तश्च वर्त्तते। तस्मात् यथैवेषामप्प्रभृतिशब्दानां स्वाभाविकं लिङ्गं वचनञ्च तथा पञ्चालादिशब्दानामपीति नार्थो युक्तवद्भावचनेन। यद्येवम्, कस्मात् पूर्वं तदुक्तम् ? प्रतिषेधविषयोपदर्शनार्थम्। न ह्यनिर्दिष्टविषयस्य प्रतिषेधः शक्यते कर्त्तु ज्ञातुं वा।।
54. लुब्योगाप्रख्यानात्। (1.2.54)
`योगप्रख्यानात्' इति।योगो जनपदादेः क्षत्रियादिभिः सह सम्बन्धः, तस्याप्रख्यानादनुपलब्धेरित्यर्थः। ये हि योगनिमित्तिकाः शब्दा योगमभिधाय तद्वति द्रव्ये वर्त्तन्ते, तेभ्यो योग उपलभ्यते; यथा-- दण्डिशब्दादिभ्यः। न च पञ्चालादिभ्यो दण्ड्यादिशपब्दवद्योग उपलभ्यते, तस्मान्नैते योगशब्दा इत्यत आह- `न हि' इत्यादि। प्रख्यायते = कथ्यते, प्रकाश्यते, बुद्धेर्विषय आपद्यत इति यावत्। यत एवं पञ्चाला वरणा इति सम्बन्धो न प्रख्ययते अत एव नैतदुपलभामहे वृक्षयोगान्नगरे वरणा इति, किं तर्हि ? संज्ञा एता अनपेक्षितप्रवृत्तिनिमित्ताः। यदि संज्ञाश्बदा एते, ततः किमित्याह-- `तस्मादत्र' इत्यादि। गतार्थम्। ननु च संज्ञा शब्दानामपि व्युत्पत्त्यर्थ तद्धित उत्पद्यत ए, यथा `हस्ताज्जातौ' (5.2.133) हस्ती, `कम्बलाच्च संज्ञायाम्' (5.1.3) कम्बल्यमिति, तत्किमुच्यते-- " तस्मादत्र `तस्य निवासः' (4.2.69) `अदूरभवश्च' (4.2.70) इति तद्धितो नोत्पद्यते" इति ? सत्यम्, संज्ञाशब्दव्युत्पत्त्यर्थं तद्धित उत्पद्यते। स च क्वोत्पद्यते ? यत्र श्रुतिकृतो विशेषो विद्यते, न चेह तद्धितोत्पत्तौ लुपि सति
कश्चिद्विशेष इति न तद्धितोत्पत्तिः।।
55. योगप्रमाणे च तदभावेऽदर्शनं स्यात्। (1.2.55)
`योगप्रमाणे' इति। योगस्य प्रमाणं योगप्रमाणम्, येन योगः प्रत्याय्यते। तत् पुनरिह प्रकृतत्वात् पञ्चालादिशब्दः। स हि परमतेन पञ्चालादिसम्बन्धं स्वप्रवृत्तिनिमित्तमभिधायैव जनपदादौ वर्त्तते, नानभिधाय। तेन योगस्य प्रमाणं प्रत्यायको वाचक इत्यर्थः। `तदभावेऽदर्शनं स्यात्' इति। यो हि योगनिमित्तकः स योगाभावे न प्रयुज्यते, दणड्यादिशब्दवदित्यभिप्रायः। `योगप्रमाणे हि' इत्यादि। हिशब्दं हेत्वर्थं प्रयुञ्जानश्चशब्दो हेत्वर्थवृत्तिः सूत्रे उपात्त इति दर्शयति। स्यादेतत्, भवत्येव योगाभावे पञ्चालादिशब्दस्यादर्शनमित्यत आह-- `दृश्यते च' इत्यादि। गतार्थम्।
56. प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्। (1.2.56)
`अन्यप्रमाणत्वात्' इति। अन्यत् प्रमाणम् अवगतिहेतुर्यस्यार्थाभिधानलक्षणस्य तदन्यप्रमाणम्, तस्य भावोऽन्यप्रमाणत्वम्। `प्रधानं समासे किञ्चित् पदम्' इति। यथा राजपुरुषशब्दे पुरुष इत्येतत्। `प्रधानोपसर्जने' इत्यादि। राजपुरुष इत्यत्र पूर्ववदुपसर्जनम्, इतरत् प्रधानम्। ते च प्रधानार्थ सह ब्रूतः। `प्रकृतिप्रत्ययौ' इत्यादि। अशक्यत्वं त्वनन्तप्रकारत्वात्। तथा हि-- चित्रगुरिति बहुव्रीहौ कृते गुणगुणिभ्यामन्यपदार्थ उच्यते। अत्र गुणपदं चित्रशब्दोऽप्रधानम्, विशेषणत्वात्; गुणिपदं गोशब्दः प्रधानम्, विशेष्यत्वात्। क्वचिदुपसर्जनाभ्यामन्योऽर्थोऽभिधीते-- प्लक्षन्यग्राधाविति। तथा हि, न केवलं प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः अपि तु, क्वचित् प्रकृत्यर्थमपि, यथा-- स्वार्थिकेषु शुक्लतरम्, शुक्लतममिति। तथा केचिदाख्यातेषु स्वभावात् प्रधानमाहुः प्रकृत्यर्थम्-- `क्रियाप्रधानमाख्यातम्' इति।
अन्ये तु मन्यन्ते- आख्यातेषु प्रधानभूतः प्रत्ययार्थ एव शक्तिरूपेणोच्यते, यथा विभक्तिभिः क्वचित् प्रत्यये; न तु शक्तिमान् पदार्थो द्रव्यभावमापन्न उच्यते। अतः क्रियान्तरेण च सम्बन्धे शक्त्यन्तरमाविर्भवति कर्त्तारं पश्येति। एवमाद्यनन्तप्रकारमर्थाभिधानशक्यं सर्वमुपदेष्टुम्, तस्माल्लोकत एवार्थावगतिः। कथं पुनरेतद्विज्ञायत इत्यत आह-- `यैरपि' इत्यादि। सुगमम्।।
57. कालोपसर्जने च तुल्यम्। (1.2.57)
अर्थस्यान्यप्रमाणत्वादित्युक्तम्। कथं पुनरत्राप्ययं हेतुर्लभ्यत इति
प्रश्नावसर इत्याह-- `तुल्यशब्दो हेत्वनुकर्षणार्थः' इति। कथं पुनस्तुल्यशब्दो हेत्वनुकर्षणार्थो भवति ? मन्यते-- तुल्यमिति प्रत्याख्यानक्रियाविशेषणमेतत्। अनन्तरोक्तेन प्रत्याख्यानेन तुल्यमेतत् प्रत्याख्यानम्। एवञ्च् तुल्यं भवति यदि यस्तस्य हेतुः स एवास्यापि भवति। तस्मात् तुल्यग्रहणसामर्थ्यात् पूर्वको हेतुत्रानुवर्त्तते। तेन तुल्यशब्दो हेत्वनुकर्षणार्थो भवतीति। `आन्याय्यादुत्थानात्' इत्यादि। उत्थानं शयनाद्रात्रेः पश्चिमे यामे न्याय्यमुक्तम्। संवेशनम् = शयनम् तदपि रजन्याः प्रथमे यामे न्याय्यम्। तदेवं सकलो दिवसः; पूर्वस्याश्च रात्रेः पश्चिमो यामः, आगमिन्याश्च प्रथमो याम इत्येषोऽद्यतनः काल इत्युक्तं भवति। `अहरुभयतोऽर्द्धरात्रम्' इत्यादि। कृत्स्नो दिवस उभयश्चार्द्धरात्रम्। अतिक्रान्तायाश्च रात्रेरागामिन्याश्च रात्रेरद्यतनः काल इत्यपरे।।
58.जात्याख्यामेकस्मिन्बहुवचनमन्यतरस्याम्। (1.2.58)
`जातिर्नामायमेकोऽर्थः इत्यादिना सूत्रारम्भस्य प्रयोजनमाह। ननु जातेः संख्या न विद्यते ? तस्या द्रव्यधर्मत्वात्। यद्यपि वैशेषिकसिद्धान्तप्रसिद्धा गुणपदार्थसंगृहीता या संख्या सा न विद्यते; तथापि `भेदका गुणाः' इत्यस्मद्दर्शने' भेदमात्रा या संख्या सा विद्यत एवेत्यदोषः। `जातेराख्या' इति। आख्यानमाख्या = प्रत्यायनम्। `एकस्मिन्नर्थे' इति। जात्याख्योऽर्थो `जात्यर्थो बहुवद्भवतीति यावत्' इति। एतेनैतद्दर्शयति-- न हि जातिविशेषणेभ्यः सम्पन्नादिभ्यस्तन्न स्यात्। तेषामजातिशब्दत्वादित्यभिप्रायः। कथं पुनर्जात्यर्थस्य बहुवद्भावो लभ्यते ? अन्वर्थग्रहणात्। बहुवचनमिह न पारिभाषिकं बहुवचनं गृह्यते, किं तर्हि ? अन्वर्थम्। उक्तिः = वचनम्। बहूनां वचनं बहुवचम्. न चैकस्मिन्नर्थे बहूनां वचनं सम्भवति, अतः सामर्थ्याद्वित्यर्थो गम्यते-- एकस्मिन्नर्थे बहुविदिति। तदनेन प्रकारेण जात्यर्थो बहुवद्भवति। `तेन' इत्यादि। यत ए जात्यर्थस्य बहुवद्भावो विधीयते, तेन जातिविशेषणानामजातौ वर्तमानानां बहुवचनमुपपद्यते, जातिशब्दवत्।
`देवदत्तः' इति। देवदत्तशब्दो यदृच्छाशब्दः। नानेनैकं वस्त्वनेकव्यक्त्यनुगतमभिधीयते। अनेकव्यक्त्याधारा हि जातिः। ततो न देवदत्तत्वं नाम जातिरस्तीति न भवत्यत्र बहुवद्भावः। ननु चात्रावस्थाभेदेनानेकाधारं देवदत्तत्वमस्ति, नैतदस्ति; एवं हि जातिग्रहणमनर्थकं स्यात्, सर्वत्र जातेः सम्भवात्। तस्माज्जातिग्रहणसामर्थ्याल्लोके ये जातिशब्दाः, प्रतीताः, तदर्था एवात्र जातिशब्देन विवक्षिता इति विज्ञायते, न च देवदत्तशब्दो लोके जातिशब्दः प्रतीतः।
`काश्यपप्रतिकृतिः काश्यपः' इति। काश्यपस्यापत्यम् `अनृष्यानन्तर्ये विदादिभ्योऽञ्' (4.1.104) इत्यञ्-- काश्यप इति। तत इवार्थे `एवे प्रतिकृतौ'(5.3.96) इति कन्। `लुम् मनुष्ये' (5.3.98)इति लप् भवति। `अयं जातिशब्दः' इति। `गोत्रञ्च चरणैः सह' (4.1.63म.भा) इति लक्षणात्, तस्य च गोत्रप्रत्ययान्तत्वात्। न त्वयं जातिरूपेणोच्यते, किं तर्हि ? प्रतिकृतिरिति। एवं तर्हि जातिप्रत्यायने हि चिकीर्षिते बहुवद्भावेन भवितव्यम्। न चेह जातिप्रत्यायनं चिकीर्षितम्, किं तर्हि ? प्रतिकृतिप्रत्यायनम्।`व्रीहियवौ' इति। एकस्मिञ्जात्यर्थे बहुवद्भावोऽनेन विधीयते। इह तु द्वौ जात्यर्थो विवक्षितौ। वक्तव्यशब्दस्य व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- अन्यतरस्यामिति व्यवस्थितविभाषेयम्। तेन संख्याप्रयोगे न भविष्यति। अथ वा- एको व्रीहिः सम्पन्न इत्यत्रैकशब्दः प्रयुज्यमानो जात्यर्थस्यैकत्वमुद्भावयति,तच्च बहुत्वेन विरुध्यते। तस्मादेकत्वबहुत्वयोर्विरोधाद्बहुवद्भावो नेह भविष्यति।।
59. अस्मदो द्वयोश्च। (1.2.59)
अत्राप्यर्थस्य बहुत्वातिदेशः। `अस्मदो योऽर्थः स बहुवद्भवति' इति। तेन तिङन्तस्यापि तत्र वर्तमानस्य बहुवचनान्तत्वं भवति। `वयं ब्रूमः' इति। `एकत्वे द्वित्वे च' इत्यादि। युक्तं यदेकत्वे भवति, द्वित्वे तु कथम् ? न हि द्वित्वमस्मदर्थस्य सम्भवति; अस्मच्छब्दस्यात्मविषयत्वात्, आत्मनश्चैकत्वात्, नैष दोषः; आत्मत्वं परत्र यदोपचर्यते `अयं मे द्वितीय आत्मा' इति तदा अस्मच्छब्दस्य तत्रापि वृत्तेद्वर्यर्थविषयत्वं सम्भवति। अथ वा-- त्यदादीनां मिथो यद्यत् परं तच्छिष्यत इत्यस्मच्छब्द एव शिष्यमाणो युष्मदर्थमप्याहेति द्वयर्थतोपपद्यत इति युज्यते द्वयर्थता। अथ यद्यस्मच्छब्दो बहुवचनान्तः प्रयुज्यते तदैकार्थविषयोऽयम्, न द्वयर्थविषय इति; अथ द्व्यर्थविषयोऽयं नैकार्थविषय इति कुतस्यस्यैकार्थद्वयर्थविषये वृत्तिरवसीयते ? प्रकरणात्। यथा-- आराच्छब्दस्य दूरान्तिकार्थयोर्वृत्तिरिति। `अहम्' इति। `ङे प्रथमयोरम्' (7.1.28) इत्यम्भावः, `त्वाहौ सौ' (7.2.94) इत्यहारदेशः। `वयम्' इति। जसि `मपर्यन्तस्य' (7.2.91) `यूयवयौ जसि' (7.2.93) इत वयादेशः, `शेषे लोपः' (7.2.90) `आवाम्' इति। औप्रत्यये `युवावौ द्विवचने' (7.2.92) इत्यावादेशः। `प्रथमायाश्च' (7.2.88) इत्यादिनात्वम्। वक्तव्य इति व्याख्येय इत्यर्थः। व्याख्यानां तु-- अन्यतरस्यांग्रहणं यदनुवर्ततते तस्य व्यवस्थितविभाषात्वमाश्रित्य कर्त्तव्यम्। `युष्मदि गुरावेकेषाम्' इति। एतदपि चकारस्यानुक्त समुच्चयार्थत्वात् सूत्रेणैव संगृहीतम्।।
60. फल्गुनीप्रोष्ठपदानाञ्च नक्षत्रे। (1.2.60)
`चकारो द्वयोरनुकर्षनार्थः' इति। ननु च फल्गुन्यौ नक्षत्रे द्वे एव, तथा प्रोष्ठपदे अपि द्वे; अत्रानयोर्दित्वाद्वित्व एव बहुवचनं भविष्यति, तत् किं चकारेण द्वयोरित्यनुकर्षणार्थेन ? एवं तर्ह्येतज्ज्ञापयति-- नक्षत्रग्रहणं ज्योतिष उपलक्षणार्थमिति। तेनैतदपि सिद्धं भवति-- उदिताः पूर्वाः फल्गुण्यः, उदिते पूर्वे फल्गुन्याविति। यदि नक्षत्रग्रहणं ज्योतिष उपलक्षणार्थमिति न ज्ञाप्यते, तदिह तु न स्यात्, यतो ज्योतिषामावस्थिकी नक्षत्रता चन्द्रमसा योगे सति भवति, नान्यदा; अन्यदा तु ज्योतिष्ट्वमेव। न च नक्षत्राभिधायिनः `उदिताः पूर्वाः फल्गुन्यः' इत्यत्र फल्गुनीशब्दस्य प्रयोगः, किं तर्हि ? ज्योतिर्मात्राभिधायिन इति। अत्र ज्योतिष्ट्वमेक्सयाप्यस्तीति तन्निवृत्यर्थं द्वयोरित्यनुकर्षणार्थं चकारकरणं युक्तम्। यदि पुनर्ज्योतिष
उपलक्षणार्थं नक्षत्रग्रहणं न स्यात्, तदा क्व स्यात् ? तदेहैव स्यात्-- अद्य पूर्वाः फल्गुन्यः, अद्य पूर्वे फल्गुन्याविति। अस्ति ह्यत्र फल्गुन्योर्नक्षत्रता, चन्द्रमसा युक्तत्वात्। तथा ह-- `नक्षत्रेण युक्तः कालः' (4.2.3) इत्यण् भवति। श्रवणं तस्य न भवति; `लुबविशेषे' (4.2.4) इति लुप्तत्वात्।
`फल्गुन्यौ माणविके' इति। फल्गुन्योर्जाते इति। `फल्गुन्याषाढाभ्यां टानौ' (वा.451) इत्युपसंख्यानाट्टप्रत्ययः। `टिड्ढाण़ञ्' (4.1.15) इति ङीप्।।
61. छन्दसि पुनर्वस्वोरेकवचनम्। (1.2.61)
62. विशाखयोश्च। (1.2.62)
63.तिष्यपुनर्ववस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्। (1.2.63)
`तिष्यपुनर्वसवो माणवकाः' इति। तिष्यपुनर्वसुशब्दाभ्यां `नक्षत्रेण युक्तः कालः' (4.2.3) इत्यण् भवति। तस्य `लुबविशेषे' (4.2.4) इति लुप्। ततस्तिष्ये जातो माणवकः पुनर्वस्वोर्जातौ माणवकाविति `सन्धिवेलादि' (4.3.16) इत्यादिनाऽण्, तस्य `श्रविष्ठाफल्गुन्यनुराधा' (4.3.34) इत्यादिना लुप्। `पर्यायाणामपि यथा स्यात्' इति। नक्षत्रग्रहणे सत्यर्थग्रहणादेतद्भवति। शब्दग्रहणे च `स्वं रूपम्' (1.1.68) इत्यषा परिभाषा भवतीत्युक्तमेतत्। तदभावे पर्यायाणामपि भवति। `सिद्ध्यपुनर्वसू' इति। सिद्ध्यशब्दस्तिष्यपर्यायः। `यस्तिष्यस्तौ पुनर्वसू येषाम्' इत्यवयवेन विग्रहं दर्शयति। समुदायस्तु समासार्थो वेदितव्यः। अथ तिष्यपुनर्वसव इति ? बहुव्रीहिणा विपर्यस्तमतयः पुरुषा एवैवमुच्यन्ते । ततश्च नक्षत्रसमास एवायं न भवति। तत् किमेतन्निवृत्त्यर्थेन द्वन्द्वग्रहणेनेत्येवं यो देशयेत् तं प्रत्याह-- `तिष्यादय एव' इत्यादि। स्वदर्णनापराधादन्यथा तिष्यादीन् दृष्ट्वा प्रतिपत्तृभिस्त ए तिष्यादयो विपर्ययेण दृश्यमाना
बहुव्रीहिणैवमुच्यन्ते, न तु पुरुषाः। तस्मान्नक्षत्रसमास एवायम्। `तिष्यपुनर्वस्विदम्' इति। केन पुनरत्रैकवद्भावः ? `जातिरप्राणिनाम्' (2.4.6) इति चेत्, न; संज्ञाशबद्त्वात्, देवदत्तादिशब्दवत्। नायं जातिशब्दः,अनेकधारा हि जातिर्भवति, न च तिष्यादिस्तथा। किञ्च वक्ष्यति-- `जातिप्रधानपरत्वे च जातिद्रव्याणामयमेकवद्भावः, न नियतद्रव्यविवक्षायाम्' इति; नियतद्रव्यविवक्षा चात्र, तस्मान्न `जातिरप्राणिनाम्' इत्यनेनैकवद्भाव उपपद्यते। न चान्यदेकवद्भावलक्षणमस्ति। तत्र तिष्यपुनर्वस्वोर्नक्षत्रे
द्वन्द्वसमासे बहुत्वाद्बहुवचनेन भवितव्यम्। एवञ्च बहुवचनग्रहणमनर्थकमित्यत आह-- `सर्वो द्वन्द्वो विभाषा' इत्यादि। यदयमेकवचननिवृत्त्यर्थं बहुवचनग्रहणं करोति, ततोऽवसीयते-- अस्तीयम्परिभाषा `सर्वो द्वन्द्वो विभाषैकवद्भवतिट (व्या.प.91) इति। तेनेह बहुवचनग्रहणमेकवचननिवृत्त्यर्थं कृतिमित्यभिप्रायः।
64. सरूपाणामेकशेष एकविभक्तौ। (1.2.64)
`सरूपाणाम्' इति बहुव्रीहौ कृते `ज्योतिर्जनपद' (6.3.85) इत्यादिना समानस्यसभावः। रूपशब्दोऽत्र स्वभावे वर्त्तते। `सरूपाणां शब्दानाम्' इति निर्धारणे षष्ठी। तेन स्वरूपाणां मध्ये समानजातीयो यः सरूपः, स एक एव शिष्यते, न विरूपः। समानजातीयस्यैव हि निर्धारणं भवति, न विजातीयस्य। अथ वा-- समुदायलक्षणैषा षष्ठी, सरूपसमुदायान्तः पाती च सरूप एव भवति, न विरूपः। तेन सरूप एव शिष्यते। `एक विभक्तौ' इति। एकशब्दः समानार्थः, एकधनाविति यथा। एका चासौ विभक्तिश्चेति `पूर्वकालैक' (2.1.49) इत्यादिना समासः। एकमेकशेष इत्यत्रापि। अत्र त्वेकशब्दः संख्यावचनः, शेषशब्दोऽयं निवृत्त्या विशिष्टवस्थानमाह, नावस्थानमात्रम्। अत एवाह-- `एकः शिष्यते, अपरे निवर्त्तन्ते' इति। `वृक्षश्च वृक्षश्च वृक्षौ' इत्यादि। अविभक्तिकानामयमेकशेषः; अनैमित्तकत्वाद्विभक्तेः। न ह्ययं परां विभक्तिमाश्रित्य विधीयते। एकविभक्तावितीहसारूप्योपलक्षणमेतत्, न निमित्तनिर्देशः। एकस्यां विभक्तौ परतो यानि रूपाणि दृष्टानि, तेषामनुत्पन्नायामेव विभक्तौ प्रातिपदिकानामेकशेषो भवति। ततः कृत एकशेषे विभक्तिरुपपद्यते। अथ वा -- सविभक्तिकानामेवैकशेषः, कथम् ? विभक्तिशब्देन हि कारकमभिधीयते, विभज्यते प्रातिपदिकार्थोऽनयेति कृत्वा। तदेतदुक्तं भवति-- एकस्मिन् समानेऽभिन्ने कारके यानि सरूपाणि तेषामेवैककारकाणामेकशषो भवतीति। यद्येवम्, `परतः' इति वृत्तिग्रन्थो नोपपद्यते, कारकं ह्यर्थसमवायिनी शक्तिः, न च तया शब्दानां पौर्वापर्यं सम्भवति, कथञ्च विभक्तिशब्देन कारकेऽभिधीयमाने सविभक्तिकानामेकशेषो लभ्यते ? उच्यते; वृत्तिग्रन्थस्तावदुपपद्यते-- परशब्दो ह्ययमिष्टवाची, एकविभक्तौ परतः = एकस्यां विभक्ताविष्टायामित्यर्थः। विषयसप्तमी चेयम्, सति सप्तमी वा। एकस्मिन् कारके विषयभूत इष्टे सति सप्तमी वा। एकस्मिन् कारके विषयभूत इष्टे सति चेत्यर्थः। किञ्चेष्टं कारकं भवति ? यद्विवक्षितम्। अत ए विवक्षितत्वात् कारकं स्वनिमित्तां विभक्तिकानामेकशेषो लभ्यते।
सहभावविवक्षायाञ्चायमेकशेषो भवति। यद्येकेन युगपत् सर्वेषामर्थोऽभिधातुमिष्यत एवं सति भवति; नान्यथा। ननु च जातिः पदार्थः, जातिश्चैकैव; तत्रैकत्वाज्जातेर्बहूनां शब्दानां प्रसङ्ग एव नास्ति,तत्किमेकशेषारम्भेण ? इति चोद्यावसरे `द्रव्यं पदार्थः' इत्येतद्दर्शनमाश्रित्याह-- `प्रत्यर्थम्' इत्यादि। प्रत्यर्थम् = एकैकस्मिन्नर्थे यस्माच्छब्दानां निवेशप्रवृत्तिस्ततोऽकेन शब्देनानेकार्थ्सयाभिधानम्। तत्रैतद्दर्शनेऽकेषामर्थाभिधाने प्रत्येकेनैव कर्तव्येऽनेकशब्दत्वं प्रसज्यत इति यावन्तस्तेऽर्थास्तावतां शब्दानां प्रयोगः प्राप्नोति, इष्यते चैकशब्दता। तस्मादेकशेष आरभ्यते।
`रूपग्रहणं किम्' इति। एवं मन्यते-- रूपग्रहणे क्रियमाणे पदद्वयसमनुगम्योऽर्थेः प्रतिपत्तव्य इति प्रतिपत्तिगौरवं भवति । समानानामित्युच्यमाने सत्येकपदसमनुहम्योऽर्थः प्रतीयत इति प्रतिपत्तिलाघवं भवति; तस्मात् समानग्रहणमेव कर्त्तव्यमिति ? भिन्नेऽप्यर्थे यथा स्यादिति रूपग्रहणम् । यदि रूपग्रहणं न क्रियेत तदा विशेषानभिधानाद्यत्र सर्व समानं शब्दोऽर्थश्च तत्रैव स्याद्वृक्षा इत्यादौ, अक्षा इत्यादौ तु न स्यात्; अर्थभेदात्। तथा ह्यक्षशब्द इन्द्रियाख्ये, शकटाङ्गे, बिभीतकादावर्थे च वर्ततेष पादशब्दोऽपि कार्षापण-- श्लोकपाद-- पाणिपदादावर्थे वर्तते, माषशब्दोऽपि व्रीह्यादौ। `द्विबह्वोः शेषे मा भूत्' इति। ननु च `शेष' इत्येकत्वसंख्याविवक्षायां द्वयोर्बहूनाञ्च शेषो न भविष्यति,नैतदेवम्; इह विधीयमानत्वाच्छेष एव प्रधानम्, न च प्रधाने संख्या विवक्ष्यते। तथा हि-- `कर्त्तुरीप्सिततमं कर्म' (1.4.49) इति
कर्मसंज्ञा; ईप्सिततमस्य प्राधान्यात्। असत्यां संख्याविवक्षायां द्वयोर्बहूनाञ्च कर्मसंज्ञा भवति। गुणे तु संख्या विवक्ष्यते, यथा-- `ङयाप्प्रातिपदिकात्' (4.1.1)
इति स्वादयो विधीयमानत्वात् प्रधानम्; ङयाप्प्रातिपदिकमप्रधानमिति तत्र संख्या विवक्ष्यते। तेनैकैक्मादेव स्वादय उपपद्यन्ते। लक्षणानुरोधाद्गुणेऽपि क्वचित् संख्या न विवक्ष्यते, यथा इहैव-- सरूपाणामिति। तेन द्वयोरपि सरूपयोरेकः शिष्यते।
`आदेशो मा भूत्' इति। असति शेषग्रहणे सरूपाणामिति स्थानषष्ठीयं स्यात्; ततशचादेशः स्यात्। एव़ञ्च `अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्' (द.उ.8.125) इति क्वन्प्रत्ययान्तोऽश्वशब्दो नित्स्वरादाद्युदात्त इति द्वयोरश्वशब्दयोराद्युदत्तयोः स्थान आद्युदात्तद्वयवानेवादेशः स्यात्; आन्तरतम्यात्।
`पयः' इत्यादि। एकः पयः शब्दः प्रथमान्तः कर्तृपदम्, द्वितीयो द्वितीयान्तः कर्मपदम्, ततो भिन्नविभक्तिकत्वम्;नैकविभक्तिपरत्वमित्येकशेषो न भवति।
` ब्राह्मणाभ्याम्' इति। प्रथमो ब्राह्मणशब्दस्तृतीयान्तः,द्वितीयस्तु चतुर्थ्यन्तः। तेनात्रापि समानविभक्तिकत्वं नास्ति।।
65. वृद्धो यूना तल्लक्षणश्चेदेव विशेषः। (1.2.65)
वृद्धशब्दोऽयमस्ति लौकिकः, यश्चरमे वयसि वर्तते; अस्ति च शास्त्रीयः-- `वृद्धिर्यस्याचामादेस्तद्वृद्धम्' (1.1.73) इति; अस्ति च पूर्वाचार्यसंज्ञा-- अपत्यमन्तर्हितं वृद्धमिति। तत्र यदि लौकिको गृह्येत ? युवशब्दस्यापि तत्साहचर्याल्लौकिकस्यैव वयोविशेषवाचिनो ग्रहणं स्यात्, ततश्चाजश्च वर्करश्चेत्येवमादौ प्रसज्येत। वृद्धावस्थो हि पशुविशेषोऽज इत्युच्यते, युवा तु वर्करः। अथ शास्त्रीय उपादीयते ? औपगवश्चौपगविश्चेत्यादावपि स्यादित्येतदालोच्याह-- `वृद्धशब्दः' इत्यादि। एतेन पूर्वाचार्यप्रणीतायाः संज्ञाया वृद्धस्येदं ग्रहणमिति दर्शयति। कथं पुनरेतल्लभ्यते ? उपदेशात्। अथ वा एवं मन्यते-- युवशब्दो यद्यपि लोके द्वितीये वयसि रूढः, तथापि `जीवति तु वंश्ये युवा' (4.1.163) इति परिभाषाबलादपत्ये यो वर्त्तते स एव गृह्यते। तेन तत्साहचर्यात् वृद्धशब्दस्यापत्यार्थवृत्तेरेव ग्रहणं युक्तमिति। गोत्रग्रहणं तु न कृतम्, वैचित्र्यार्थम्। `यूना सह वचने' इति। सहग्रहणेन यूनेति सहयोग एषा तृतीयेति दर्शयति। अत ए सहयोगे तृतीयाविधानादवगम्यते- सहभावविवक्षायामेकशेषो भवतीति। `समानायाम्' इत्यादिना यत्र वृद्धयुनिमित्तमेव वैरूप्यं तद्विषयं दर्शयति। आकृतिः= शब्दस्य प्रवृत्तिनिमित्तम्, गार्ग्यात्वादि, तस्यां समानायाम् = अभिन्नायां यत्र वृद्धयुवप्रत्ययादेव केवलं भिद्येते, नान्यत् प्रकृत्यादिकम्, तत्र वृद्धयुवप्रत्ययनिमित्तमेव वैरूप्यं भवतीति भावः। `गार्ग्यश्च' इत्यादि । गर्गवत्सशब्दाभ्यां गर्गादित्वाद् यञ्, गार्ग्यः, वात्स्यः, ताभ्यां यून्यपत्ये `यञिञोश्च' (4.1.101) इति फक्। गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ, वात्स्यश्च वात्स्यायनश्च वात्स्यौ। प्रकरणादिनात्र युवार्थो गम्यते। `गर्गश्च' इति। गर्गशब्दोऽयं मूलप्रकृततिः; न वृद्धे वर्त्तते, नापि यूनि। `गार्ग्यवात्स्यायनौ' इति। अत्र न केवलं वृद्धयुवप्रत्ययनिमित्तको विशेषोऽस्ति, अपि तु प्रकृतिनिमित्तकोऽपि। भागवित्तिशब्दो गोत्रापत्ये भगवित्तशब्दादिञन्तः। `भागवित्तिकश्च' इति। भागवित्तिशब्दाद्यून्यपत्ये `गोत्रस्त्रियाः कुत्सने ण च' (4.1.147) इत्यतः `कुत्सने' इत्यनुवृत्तौ `वृद्धाट्ठक् सौवीरेषु बहुलम्' (4.1.148)
इति ठक्।।
66.स्त्री पुंवच्च। (1.2.66)
स्त्र्यर्थस्य वैरूप्यकारणस्याधिक्यात् पूर्वेण न सिध्यतीति वचनम्। `पुंवच्च' इति वचनादतदेशोऽयम्। `स्त्री' इति। स्त्रीप्रत्ययग्रहणं वेदं स्यात् ? स्त्र्यर्थवृत्तिशब्दस्य वा ग्रहणम् ? अर्थग्रहणं वा ? यदि स्त्रीप्रत्ययस्य ग्रहणं स्यात्, ततोऽनेन तस्यैव निवृत्तिः क्रियते-- पुंवत् स्त्रीप्रत्ययो भवतीति; न तु स्त्र्यर्थस्य निवृत्तिः क्रियते; ततो गार्ग्यश्च गार्ग्यायणश्चेति गर्गा इत्यत्र `अस्त्रियाम' (2.4.62) इत्यनुवर्त्तमाने `यञञोश्च' (2.4.64) इति लुङन स्यात्; इह तु गर्गान् पश्यतीति `तस्माच्छसो नः पुंसि' (6.1.103) इति नत्वं न स्यात्। द्वितीये तु पक्षे स्त्र्यर्थवृत्तेः शब्दस्यानेन पुंवद्भावः क्रियते, न तु स्त्रीत्वस्य निवृत्तिः; तथापि स एव दोषः स्यात्। अर्थगर्हणे तु न कश्चिद्दोष इत्यतः स्त्र्यर्थस्येदं ग्रहणमिति मत्वाऽऽह-- `स्त्र्यर्थः पुंवद्भवति' इति। कथं पुनरर्थस्येदं ग्रहणं लभ्यते ? उच्यते; स्त्रीप्रत्ययानां तु तस्याभिधेयपातन्त्र्यात्। अर्थस्याप्राधान्यमपारतन्त्रयात् । प्रधानगुणन भवति; अप्राधान्यात्। अप्रधान्यं तु तस्याभिधेयपारतन्त्र्यात्। अर्थस्याप्राधान्यमपारतन्त्र्यात्। प्रधानगुणसन्निपाते तु प्रधानस्य ग्रहणं न्याय्यम् अतः स्त्र्यर्थं एव गृह्यते। `गार्गी, वात्सी च' इति। गार्ग्यवात्स्यशब्दाभ्यां
`य़ञश्च' (4.1.16) इति ङीप्,पूर्ववदकारयकारलोपो। `दाक्षी' इति। पूर्ववन्ङीप्। `दाक्षायणश्च' इति। दाक्षेरपत्यमिति `यञिञोश्च' (4.1.101) इति फक्।।
67. पुमान् स्त्रिया। (1.2.67)
`स्त्रीपुंसलक्षणश्चेदेव विशेषः' इति। यद्येवम्, इह न स्यात्-- गौश्चायं गौश्चेयमित्येतौ गावौ तिष्ठत इति, न ह्यत्र स्त्रीपुंसकृतः कश्चिद्विशेषोऽस्ति ? मा भूदनेन , `सरूपाणाम्' (1.2.64) इत्यादिना भविष्यति ? नैतदस्ति; यदि हि तेन स्यात् स्त्रीशब्दस्याप्येकशेषः प्रसज्येत। ततश्च स्त्रीलिङ्गतापि स्यात् लिङ्गमशिष्यं लोकाश्रयत्वात्। स्त्रीलिङ्गस्यैकशेषे कृते पुंसत्वं विवक्षितव्यमित्यदोषः।
अथ वा, पुमानिति योगविभागः क्रियते। तेनेहाप्यसत्यपि स्त्रीपुंसकृते विशेषे पुंस एवैकशेषो भवति। न चैवं सत्यतिप्रसङगो भवति; योगविभागादिष्टसिद्धेरिति। `ब्राह्मणी, कुक्कुटी, मयूरी' इति। `जातेरस्त्रीवषयादयोपघात्' (4.1.63) इति ङीष्। `कुक्कुटमयूर्यौ' इति। अत्र न केवलं स्त्रीपुंसकृतो विशेषः,किं तर्हि ? आकृतिश्रुतिकृतोऽपि। `इन्द्राणी' इति। `इन्द्रवरुण' (4.1.49) इत्यादिना ङीष्, आनुगागमश्च। `प्राक् च प्राची' इति। प्राञ्चीति प्रपूर्वादञ्चतेः `ऋत्विक्' (3.2.59) इत्यादिना क्विन्, `क्विन्प्रत्ययस्य कुः' (8.2.62) इति कुत्वम्। क्विनन्तात् `दिक्छब्देभ्यः' (5.3.27) इत्यादिनाऽस्तातिप्रत्ययः। तस्य `अञ्चेर्लुक्' (5.3.3)) इति लुक्। `प्राची' इति। प्राक्छब्दात् `उगितश्च' (4.1.6) इत्यत्राञ्चतेश्चोपसंख्यानान्ङीप्। `प्रागित्यव्ययम्' इति। `तद्धितश्चासर्वविभक्तिः' (1.1.38) इत्यव्ययत्वम्।।
68. भ्रातृपुत्रौ स्वसृदुहितृभ्याम्। (1.2.68)
69. नपुंसकमनपुंसकेनैकवच्चान्यतरस्याम्। (1.2.69)
`अनपुंसकेन' इति। `किम' इत्यादि। ननु च विना नपुंसकेनापि सहवचनेन सरूपाणामित्यादिनैकशेषो भवत्येव; तत् कोऽत्र विशेषः, यस्तेनैकशेषो विधीयमानः, अनेनैव चेत्यत आह-- `एकवच्चेति न भवति' इति। यद्यनेनैकशेषः स्यात्, पक्ष एकवद्भावः स्यात्। तेन त्वेकशेषे सति न भवति। अथास्येति किमर्थमुच्यते ? यद्यस्येति नोच्येत, उत्तरत्राप्येकवच्चेत्यनुवृत्तिः स्यात्। ततश्चोत्तरत्र तु यस्यैकशेषः करिष्यते, तस्यैकवद्भावः प्रसज्येत। तस्मादस्यैव नपुंसकस्यैकवद्भावो यथा स्यात्। उत्तरत्र तु यस्यैकशेषः करिष्यते, तस्य मा भूदित्येवमर्थमस्येति वचनम्। अस्येति हि वचने सति मा भूदस्य वैयर्थ्यमित्युत्तरत्राप्येकवच्चेति नानुवर्तते। ननु चास्वरितत्वादेव नानुवर्तष्यते। एवं तर्हि तदेवास्वरितत्वमनेन प्रकारेणाख्यायते विस्पष्टार्थम्। एकारोऽत्रानुवर्त्तते। तेन हिमञ्च हिमानी च हिमहिमान्यौ, अरण्यञ्चारण्यानी चारण्यारण्यान्यावित्यत्र न भवति। इन्द्रवरुणादिसूत्रेण (4.1.49) `हिमारण्ययोर्महत्वे' (वा. 352) इति वचनात्
महत्त्वमपरो विशेषः।।
70.पिता मात्रा। (1.2.70)
`पितरौ' इति। `ऋतो ङि' (7.3.110) इति गुणः। `मातापितरौ' इति। `आनङृतो द्वन्द्वे' (6.3.25) इत्यानङ, अभ्यर्हितत्वन्मातुः पूर्वनिपातः।।
71. श्वशुरः श्वश्वा। (1.2.71)
`श्वश्रूश्वशुरौ' इति। पूर्ववत्पूर्वनिपातः।।
72. त्यदादीनि सर्वैर्नित्यम्। (1.2.72)
`सर्वग्रहणं साकल्यार्थम्' इति। विना तेनानपुंसकेनेत्यस्यानुवृत्तिराशङ्क्येत, ततश्च नपुंसकेन सह न स्यात्। अथ वा-- तल्लक्षमश्चेदेव विशेष इत्येतदिहानुवर्त्तत इत्याशङ्क्येत, ततश्च यत्र त्यदादिकृत एव विशेषस्तत्रैव स्यात्-- स च यश्च यावित्यादि, इहि तु न स्यात्- स च देवदत्तशच् ताविति। अतः सर्वग्रहणम्। `स च देवदत्तश्च तौ' इति। यदा विशेषविवक्षा तदैतदुदाहरणम्, यदा तु सामान्यविवक्षा , तदा देवदत्तोऽपि तच्छब्देन सम्बध्यत इति `सरूपाणाम्' (1.2.64) इत्यनेननैव सिध्यति। `यद्यत्परम्' इति। गणपाठापेक्षं परत्वं वेदितव्यम्।।
73. ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री। (1.2.73)
`ग्राम्याणाम्' इति। ग्रामे भवा ग्राम्याः। `ग्रामाद्यखञौ (4.2.94) इति यः। ननु च सङ्घस्य तरुमत्वं न सम्भवति, नापि तद्वयवच्छेद्यं तरुणत्वम्। अतः `अतरुणेषु ' इत्ययुक्तं विशेषणमित्याह- `अतरुणग्रहणम्' इत्यादि। उच्यते चेदं विशेषणम्, न च सङ्घस्य तत्सम्भवति, तत्र सामर्थ्यादन्येषां सङ्घो विज्ञायते। `गावः इमाः' इति। इमा इत्यनुप्रयोगः स्त्रीत्वाभिव्यक्तये। `एतौ गावौ' इति। कथं पुनरिदं प्रत्युदाहरणम्, यावता द्वाभ्यामपि सङ्घो भवत्येव ? नैष दोषः, यस्मात् मतं स्यात् सङ्घग्रहणमनर्थकं स्यात्, व्यवच्छेद्याभावात्। `अनेकशफेषु' इत्यादि। अनेकानि शफानि खुरा येषां तेष्वयमेकशेषो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- अन्यतरस्यांग्रहणमिहानुवर्त्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेनानेकशफेष्वेव भवति,
नान्यत्रेति।।
इति श्रोबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायां
प्रथमाध्यायस्य
द्वितीयः पादः
------------