सामग्री पर जाएँ

काशिकाविवरणपञ्जिका/प्रथमोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः
← द्वितीयः पादः काशिकाविवरणपञ्जिका
तृतीयः पादः
[[लेखकः :|]]
चतुर्थः पादः →


अथ प्रथमाध्यायस्य
तृतीयः पादः

1.भूवादयो धातवः। (1.3.1)
  भूरादिर्येषां ते भूवादयः। भूवादयो दशगणीपरिपठिता गृह्यन्ते। `भवति' इत्यादि। अत्र धातुसंज्ञायां सत्याम् `धातोः' (3.1.91) इत्यनुवर्त्तमाने `वर्त्तमाने लट्' (3.2.123) इति लट्‌प्रत्ययः। `भू इत्येवमादयः शब्दा धातुसंज्ञका भवन्ति' इत्यनेन गणपाठेनैवेयं धातुसंज्ञा विधीयत इति दर्शयति। तेन अणपयति, कड्ड्पयति इत्येवमादीनां धातुसंज्ञा न भवतीत्युक्तं भवति। यद्यवम्, या-वा- दिव-इत्येवमादीनां सर्वनाम--विकल्प-स्वर्गाभिधायिनां धातुसमानशब्दानामक्रियावचनानामपि धातुसंज्ञा प्राप्नोतीति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्त्तुमाह-- `धातुशब्दः' इत्यादि। लघ्वर्थं हि संज्ञाकरणमिच्छन्त्याचार्या इत्येकाक्षरायां संज्ञायां कर्त्तव्यायां महत्याः पूर्वाचार्यसंज्ञाया यदाश्रयणं तस्यैतत्प्रयोजनम्--यथाविधानां ते धातुसंज्ञां कृतवन्तः, तथाविधानमेवैषा संज्ञा यथा स्यादिति। ते च क्रियावचनानामेव धातुसंज्ञां विहितवन्तः। तदिहापि पूर्वाचार्यसंज्ञाश्रयणात् क्रियावचनानामेव धातुसंज्ञा विधीयते। तेन या-वा-दिव इत्येवमादीनां धातुसमानशब्दानामक्रियावचनानान्न भवतीति भावः।
ननु च भूरादिर्येषामिति बहुव्रीहौ कृते, आदिशब्दे परतो यदि संहितया निर्देशः, तदा `इको यणचि' (6.1.77) इति यणादेशे कृते `भ्वादयः' इति भवितव्यम्, अथासंहितया निर्देशस्तदा भू आदय इति, तत्कुतोऽयं वकारो यस्मिन् सति भूवादय इति निर्देशो भवतीत्यत आह-- `भवादीनाम्' इत्यादि। भूवादीनां संज्ञिनां निर्देशेऽयं वकारो मङ्गलार्थः प्रयुज्यते। मङ्गलमर्थः प्रयोजनं यस्य स तथोक्तः। स मङ्गलशब्दो धर्मपर्यायः, धर्मार्थ इति यावत्। यथा वेदे `त्रियम्बकं यजामहे' इत्यत्र यकारस्य दृष्टप्रयोजनं नास्त्रीत्यदृष्टार्थो धर्मार्थ एव पाठस्तस्य, तथेहापि वकास्य। अथ वा-- अपूर्वस्य वस्तुनो लाभो लोके मङ्गलं सम्मतम्, यथा प्रातर्दध्यादीनाम्; तथेहापि वकारस्यापूर्वस्यलाभो मङ्गलं प्रशस्तम्। प्रशस्तार्थो मङ्गलशब्दः। तथा चोक्तम्- `मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि च' (म.भा. 1.1.1) इति। इह चादौ वृद्धिशब्दो मङ्गलम्, मध्ये चायं वकारः, (1.3.) अन्ते च `स्वरिदतोयम्' (8.4.67) इत्युदयशब्दः।
`भुवो वार्थम्' इत्यादि। अथ वा-- भूवादय इत्यत्र निर्देशे नायमादिशब्द्स
प्रयोगः, नापि मङ्गलार्थस्य वकारस्य किं तर्हि? वादिशब्दस्यौणादिकस्य। वदन्तीति वादयः,वाचका इत्यर्थः। वदेर्थातोः `वसिवपियजिराजिव्रजिसदिहनिवाशिवादिवारिभ्य इञ्' (द.उ. 1.53) इति कर्तरीञ्‌प्रत्ययः। यद्यपि वादीति सूत्रण्यन्तस्योपदानाम्, तथापि बहुलवचनादण्यन्तादपि भवति।`भ्वर्थाः' इति। तेषां वदीनामिदं विशेषणम्,भवनं भूः, सम्पदादित्वाद्‌भावे क्विप्। भवतेरर्थः क्रियासामान्यम्। भूरर्थो येषां ते भ्वर्थाः।कस्मात् पुनस्ते भ्वर्थाः ? `भुवो वार्थं वदन्ति' इति। इतिकरणो हेतौ-- यस्माद्भृवो धातोरर्थ वदन्त्यभिदधति तस्मात् ते भ्वर्थाः। एवं विधा वादयो वाचकाः शब्दा भूवादयो धातुसंज्ञा भवन्तीत्युक्तं इतीह सूत्रे संज्ञिनः स्मृताः =अभिमताः, अभिप्रेता इत्यर्थः। तदेवं क्रियावचनाः शब्दा भूवादयो धातुंसज्ञा भवन्तीत्युक्तं भवति।तेन याव-वा- दिव प्रभृतीनां धातुसमानशब्दानां क्रियावचनानां धातुसंज्ञा न भवति। गणपाठसामर्थ्यात् पाठोऽप्यङ्गीक्रियते। तेनाणपयतीत्येवमादीनां क्रियावचनानामपि धातुसंज्ञा न भवतकीत्युक्तंभवति। अस्मिन् व्याख्याने भूवादय इति षष्ठीसमासो वेदितव्यः-- भुवोवादयो भूवादय इति।
अथ वा-- आदिशब्दस्यैवात्र `वा गतिगन्धनयोः'(धा.पा.1050)इत्यस्मात् परस्य प्रयोगः। वा आदिः येषां ते वादयः। आदिशब्दः प्रकारवाची, वाप्रकारा इत्यर्थः। प्रकारस्तु सादृश्यम्, तत्पुनः क्रियात्मकतया, यदाह-- `भ्वर्थाः' इति। भ्वर्थता तु भुवोऽर्थ वदतीति हेतोः। एवं विधा वाप्रकारकाः शब्दा इह सूत्रे संज्ञिनः स्मृता।?तदनेन प्रकारेण क्रियावचनानामेव भूवादीनां धातुसंज्ञा भवतीत्युक्तम्। तेन धातुसमानशब्दानां या-वा-दिव-प्रभुतीनां धातुसंज्ञा न भवति। न हि ते क्रियावचनाः; निष्पन्नवस्त्वभिधायित्वात्। साध्यमानस्वरूपा हि क्रिया निरवयवा क्वचित् पूर्वापरीभूतावयवाऽनिष्पन्नवस्तुस्वभावा। गणपाठस्तु पूर्ववदेवाङ्गीक्रियते। तेनाणपयतीत्येवमादीनां शब्दानां धातुसंज्ञा न भवतीति। अस्मिन्नपि व्याख्यानं `भूवादयः' इति षष्ठीसमासोऽयम्। षष्ठी च वाच्यवाचकसम्नब्धलक्षणा वेदितव्या।।

2.उपदेशेऽजनुनासिक इत्। (1.3.2)
`उपदिश्यतेऽनेनेत्युपदेशः' इति। `अकर्तरि च कारके संज्ञायाम्' (3.3.19) इति करणे घञ् ननु च संज्ञायामित्युच्यते, न चेयं संज्ञा ? नैतदस्ति; `कृत्यल्युटो बहुलम्' (3.3.113) इति बहुलवचनादसंज्ञायामपि भवतीत्यदोषः। `शास्त्रवक्यानि' इति. अस्येदं विवरणम्-- `सूत्रपाठः, खिलपाठश्च' इति। खिलपाठः = धातुपाठः। चकारात् प्रातिपदिकपाठश्च। अथ रगेलगेप्रभृतीनां कथमानुनासिक्यम्; न हि तेषामानुनासिक्यं गणे पठ्यते ? अथापरिपठितानामपि भवति, तदा `भू' इत्येवमादीनां कस्मान्न भवतीत्याह--- `प्रतिज्ञाननासिक्याः पाणिनीयाः' इत्यादि। प्रतिज्ञयाऽऽनुनासिक्यं येषां ते प्रतिज्ञानुनासिक्याः। यत्रैवानुनासिक्यं पाणिनीयाः प्रतिजानते, तत्रैव तदपठ्यमानमपि भवति, नान्यत्र। एतदपि प्रतिज्ञानं नानियमेन भवति, किं तर्हि ? यत्रैवाचार्याः स्मरन्ति तत्रैव तेन भवितवयम्, यथा स्वरितत्वमनुदात्तत्वञ्च स्मरणेन विज्ञायते, तथाऽऽनुनासिक्यमपि। यदि तर्ह्यानुनासिक्यं प्रतिज्ञामात्रभावि तत् किमर्थं तत् क्वचित् पठ्यते-- `डुपचँष् पाके ' (धा.पा.996) इत्यादौ ? एवंविधोऽर्थोऽनुनासिकः प्रतिज्ञेय इत्यर्थस्य प्रदर्शनार्थम्।
`अभ्र आँ अपः' इति। अत्रोपपदेशात्तूत्तरकालम् `आङोऽनुनासकिश्छन्दसि' (6.1.126) इत्यनेनानुनासिको विहितः, तेनेत्संज्ञा न भवति। ननु चानुनासिकविधानसामर्थ्यादेव न भविष्यति, तत् किमुपदेशग्रहणेन? इत्संज्ञायां हि सत्यां `तस्य लोपः' (1.3.9) इति लोपः स्यात्, ततश्चानुनासिकविधानमनर्थकं स्यात्, सत्यमेतत्; एवं मन्यते-- उत्तरार्थमवश्यमुपदेशग्रहणं कर्त्तव्यम्। उत्तरार्थ क्रियमाणमिहापि विस्पष्टार्थं भविष्यति। अथ वा-- प्रत्युदाहरणदिगियं वृत्तिकृता दर्शिता। इदन्त्वत्र प्रत्युदाहरणम्-- `अणोऽप्रगृह्यस्यानुनासिकः' (8.4.57), दधिं ब्राह्मणकुलम्। यद्यत्रेत्संज्ञा स्यात् `इदितो नुम् धातोः' (7.1.58) इति नुम् स्यात्। ननु च धातोरित्युच्यमाने धातोर्नुम् विधीयते, नचायं धातुः, किं तर्हि ? प्रातिपदिकम्,तत्कथं नुम् स्यात् ? नैतदस्ति; `क्विबन्ता धातुत्वं न जहति' (व्या.प.132) इति क्विबन्तत्वाद्धातुत्वं भवति। आत्मनो दधीच्छति `सुप आत्मनः क्यच्' (3.1.8) दधीयति, दधीयतेः क्विप्; दधिं ब्राह्मणकुलमिति। `अतो लोपः' (6.4.48) इत्यकारलोपः। `लोपो व्योर्वलि' (6.1.66) इत्यत्रादौ लोपग्रहणात् पूर्वं यकारस्य लोपो भवति। `वेरपृक्तस्य' (6.1.67) इति वकारस्य। प्रत्ययलोपलक्षणेन `अकृतसार्वधातुकयोः' (7.4.25) इति दीर्घः। `ह्रस्वो नपुंसके प्रातिपदिकस्य' (1.2.47) इति ह्रस्वत्वम्। `अणोऽप्रगृह्यस्यानुनासिकः'(8.4.57) इत्यनुनासिके कृते `क्वबन्ता धातुत्वं न जहति' (व्या.प.132) इति नुम् स्यात्। अश्मा,भस्मेति `आतो मनिन्' (3.2.74) इत्यत्र मकारस्येत्संज्ञा न भवति। यदि हि स्यात्, `अन्येभ्योऽपि दृश्यन्ते' (3.2.75) इति हलन्तेभ्यो विधीयमानो मनिन्नचोऽन्त्यात् परः स्यात्।
`सर्वस्याचो मा भूत्' इति। दरिद्राप्रभृतिसम्बन्धिनोऽपि।।

3.हलन्त्यम्। (1.3.3)
`अन्ते भवमन्त्यम्' इति। दिगादित्वाद्यत्। अन्तशब्दोऽयं समाप्तौ वर्त्तते। यथा-- एतदन्तं वनमिति। येन च समाप्यते समुदायः सोऽन्तः। त्तरान्ते = समाप्तौ भवमन्त्यम्। हलिति हल्शब्दस्योभयलिङ्गत्वादन्त्यमिति नपुंसकेन निर्देशः। `धात्वादेः' इत्यादि। आदिशब्देन सूत्रप्रातिपदिकप्रत्ययागमादेशानां ग्रहणम्। तत्र धातोः -- `डुकृञ्' (धा.पा.1472) इति ञकारः; सूत्रस्य-- `अइउण्' (मा.सू.1) इति णकारः; प्रातिपदिकस्य - `नवट्' इति टकारः; नदडिति पचादिषु पठ्यते। प्रत्ययस्य-- `गुप्तिज्किद्भ्यः सन्'
(3.1.5) इति नकारः; आगमस्य `त्रपुजतुनोः षुक्' (4.3.138) इति ककारः; आदेशस्य च -- `चक्षिङः ख्याञ्' (2.4.54) इति ञकारः।
`अग्निचित्, सोमसुत्' इति। चिनोतेः सुनोतेश्चाग्निं चितवान् सोमं सुतवानिति क्विप्, तुक्।
ननु च हलिति प्रत्याहारपाठे योऽन्त्यो लकारस्तस्येत्संज्ञा न प्राप्नोति; इतरेतराश्रयत्वात्। तथा हि-- इत्संज्ञायाम् `आदिरन्त्येन सहेता' (1.1.71) इति हलिति प्रत्याहारग्रहणं भवति। तस्मिंश्च तस्य लकारस्य हलन्त्यमितीत्संज्ञा। तदिदमितरेतराश्रयत्वं स्फुटतरमेव। `इतरेतराश्रयाणि कार्याणि शास्त्रे न प्रकल्प्यन्ते' (व्या.प.28) इत्यत आह-- `हस्य ल् हल्' इत्यादि। यदेकमावृत्तिभेदमन्तरेणाप्यनेकेषामुपकारं करोति तत् तन्त्रम्। यथा-- प्रदीपः सुप्रज्वलितो बहूनां छात्राणामुपकारं करोति। इह तु प्रयत्नविशेषस्तन्त्रशब्देन विवक्षितः। तेन तन्त्रेण द्वितीयमत्र हल्ग्रहणमुपात्तं परिगृहीतं वेदितव्यम्। यथा श्वेतो धावतीत्येकेन प्रयत्नेन द्वे वाक्ये उच्चारिते भवतः, तथेहाप्येकेनैव प्रयत्नेन द्वौ हल्शब्दावुच्चारितावित्यभिप्रायः। हस्य ल् हलिति समीपिसामीप्यसम्बन्धे षष्ठी। `तेन' इत्यादि। यतस्तन्त्रेण न्यायेन द्वितीयं हल्ग्रहणं कृतम्, तेन प्रत्याहारपाठे हलित्यस्य लकारस्य हकारसमीपवर्तिनः साक्षादेव संज्ञित्वेनोपात्तस्येत्संज्ञा क्रियते, न तु प्रत्याहारसमाश्रयणेन। एवञ्च सति `हलन्त्यम्' (3.3.3) इत्यत्र प्रत्याहारपाठे इतरेतराश्रयदोषो न भवति।

4. न विभक्तौ तुस्माः। (1.3.4)
`वृक्षात्' इत्यत्र तकारस्येत्संज्ञायां सत्याम् `तित्स्वसितम्' ((6.1.185) इति स्वरितत्वं स्यात्।`अपचतात्, अपचतम्' इति। पचेर्लङ्, `तस्तथस्थमिपां तान्तन्तामः' (3.4.101) इति तान्तमादेशौ भवतः। `किमोऽत्' (5.3.12) इत्यत्राच्छब्दस्य `प्राग् दिशो विभक्तिः' (5.3.1) इत्यस्य मकारस्येत्संज्ञापरित्राणार्थादुकारानुबन्धाद्विज्ञायते। नित्यत्वे हि सत्येतस्मादेव प्रतिषेधान्मकारस्येत्संज्ञा न भविष्यतीत्युकारानुबन्धग्रहणमनर्थकं स्यात्।

5. आदिर्ञिटुडवः। (1.3.5)
अत्र टुग्रहणेन `अणुदित्सवर्णस्य चाप्रत्ययः' (1.1.69) इति टवर्गस्य ग्रहणं कस्मान्न भवति ? उकार्सयानुनासिकत्वाप्रतिज्ञानात्, `चुटू' (1.3.7) इत्यत्र टुग्रहणाच्च। यद्यत्र टवर्गस्य ग्रहणं स्यात्, तदानेनैव प्रत्ययादेरपि सिद्धत्वात् टुग्रहणमनर्थकं स्यात्। `मिन्नः' इति। `ञीतः क्तः' (3.2.187) , `आदितश्च' (7.2.16) इतीट्प्रतिषेधः। `वेपथुः'इति। `ट्वितोऽथुच'(3.3.89) । `पक्त्रिमम्' इति। `ड्‌वितः क्त्रिः' (3.3.88)। पाकेन निवृत्तम्, `क्त्रेर्मम् नित्यम्' (4.4.20) इति मप्। `उप्त्रिमम्' इति। वच्यादिसूत्रेण (6.1.15) सम्प्रासारणम्।
`पटूयति' इति। `सुप आत्मनः क्यच्' (3.1.8), `अकृत्सार्वधातुकयोः' (7.4.25) इति दीर्घः। `कण्डूयति' इति। `कण्‍ड्वादिभ्यो यक्' (3.1.27)। कथं पुनरत्रेत्संज्ञाप्राप्तिः, यावता सूत्रे टुडुशब्दौ ह्रस्वान्तावुपात्तौ,दीर्घान्ताविमौ ? नेतत्; यद्यपि दीर्घत्वे कृते दीर्घान्तावेतौ भवतस्तथाप्युदेशे ह्रस्वान्तावेव,`उपदेशे' (1.3.2.) इति चेहानुवर्तते। तत्र पटुशब्दस्य पृथ्वादिपाठात् टुशब्दस्योपदेशे ह्रस्वान्तता सिद्धा। कण्डूशब्दस्य `कण्डवादिभ्यो यक्' (3.1.27) इत्यत्र पाठात् डुशब्दस्यापि। द्विविधा हि कण्ड्वादयः-- धातवः, प्रातिपदिकानि च। तत्र धातुः कण्डुशब्दो ह्रस्वान्तः। प्रातिपदिकं तु कण्डुशब्दो दीर्घान्तः।
अथ वा-- यद्यप्युपदेश इति नानुवर्तते, तथापि दीर्घत्वे कृतेप्येकदेशविकृतस्यानन्यत्वादस्त्येव प्राप्तिः। `ञिकारीयति' इति। पूर्ववत् क्यच्। ञिकारशब्दो न क्वचित् पठ्यत इति तेनात्रेत्संज्ञा न भवति। यदि स्यात्, लोपे कृते रूपं न सिद्ध्येत्।।

6. षः प्रत्ययस्य। (1.3.6)
`रजकी' इति। षित्त्वात् `षिद्गौरादिभ्यश्च' (4.1.49) इति ङीष्। अथ केनात्रानुनासकिलोपः ? `अनिदिताम्' (6.4.24) इति चेत् ? न; तत्र क्ङितीत्युच्यते,न चात्र क्ङित्प्रत्ययोऽस्ति, नैष दोषः; `जनीजृष्क्नसुरञ्जौ।ञमन्ताश्च' (ग.सू.धा.पा.817) ितिमित्संज्ञाकरणं रञ्जेर्ज्ञापकम्- अक्ङित्यपि तस्यानुनासिकलोपो भवति, अन्यथा णौ रञ्जेरकारस्यानुपधत्वात् `अत उपधायाः' (7.2.116) इति वृद्ध्या न भवितव्यमिति मित्संज्ञाकरणमनर्थकं स्यातदित्येके।
`घञि च भावकरणयोः' (6.4.27) इत्यत्र चकार्सयानुक्तसमुच्चयार्थत्वादक्ङित्यपि क्कचिद्रञ्जेरनुनासकिलोपो भवतीत्यपरे।
`षोडः' इति। ष़ड् दन्ता अस्येति बहुव्रीहिः; `वयसि दन्तस्य दतृ' (5.4.141) इति दत्रादेशः, ऋकार उगित्कार्यार्थः; `षष उत्वं दतृदशधासूत्त्रपदादेः ष्टुत्वञ्च' (वा.765) पृषोदरादिपाठात् षषोऽन्त्यस्योत्वम्, `आद्गुणः' (6.1.87), उत्तरपदादिष्टु्तवमिति दकारस्य डकारः। षोडत् इति स्थिते षोडन्तमाचष्ट इति `तत्करोति तदादष्टे' (वा.200,201) इति णिच्, `णाविष्ठवत् कार्यम् प्रातिपदिकस्य' (वा.813) इतीष्ठवद्बावाट्टिलोपः-- षोडयतीति, ततः पचाद्यच्, णिलोपः।
`षण्‍डः' इति। `षणु दाने' (धा.पा.1464)। `ञमन्ताड्डः' (द.उ.5.7), `उणादयो बहुलम्' (3.3.1)इति बहुलवचनात् `धात्वादेः षः सः' (6.1.64) इति सत्वं न भवति। अथ वा-- `षण्ड' इत्येतदव्युत्पनन्नं प्रातिपदिकमिति।
`ष़डिकः' इति। षडङगुलिदत्तशब्दात् अनुकम्पायाम् `बह्वचोऽमनुष्यनाम्नष्ठज्वा' (5.3.78) इति ठच्। `ठाजादापूर्ध्वं द्वितीयादयः' (5.3.83) इति ङगुलिदत्तस्य लोपः; `ठस्येकः' (7.3.50) इतीकादेशः। ष़डशब्द्सय `यस्येति च' (6.4.148) इत्यकारलोपः, तस्य स्थानिवद्भावे सति व्यवधानात् षट्शब्दस्य `यचि भम्' (1.4.18) इति भसंज्ञा न भवति। अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वात् `झलां जशोऽन्ते' (8.2.39) इति जश्त्वम् = षकारस्य डकारः। यद्येषां षकारस्येत्संज्ञा स्यात्, स्त्रीविवक्षायां `षिद्‌गौरादिभ्यश्च' (4.1.41) इति ङीष् स्यात्। षण्डशब्दोऽयं यद्यपि बलीवर्दे वर्त्तते, तथापि स्त्रीगवीष्पपि षण्डधर्मयोगाद्वृत्तिरस्य सम्भवत्येव। यद्यप्येते षोडादयो लाक्षणिकाः, तथाप्युदेशग्रहणेन षकारो विशिष्यत इति भवन्त्येतानि प्रत्ययग्रहणस्य प्रत्यदाहरणानि। भवति ह्यत्राप्युदेशे षकारः।`अविषः, महिषः' इति। `अव रक्षणे' (धा.पा.600) `मह पूजायाम्' (धा.पा.1867), `अविमह्योष्टिषच्' (द.उ.9.3.) ननु च`उणादयो बहुलम्' (3.3.1) इति बहुलवचनात् प्रत्ययसंज्ञैवात्र न भवति, सत्यामपि तस्यामित्संज्ञा न भविष्यति, बहुलवचनात्, तत् कस्मादादिग्रहणमेतदनुवर्त्तते ? एवं मन्यते-- उत्तरार्थमवश्यमादिग्रहणमनुवर्त्तमानमिहापि स्पष्टार्थं भविष्यति।

7. चुटू। (1.3.7)
`कौञ्जायन्यः' इति। च्फञन्तात् `व्रातच्फञोरस्त्रियाम्' (5.3.113) इति स्वार्थे ञ्यः। `छस्येयादेशं वक्ष्यति' इति। इत्संज्ञापवादम्। `शाण्डिक्यः' इति। `शण्डिकादिभ्यो ञ्यः' (4.3.92) इति शण्डिकोऽभिजनोऽस्येत्यर्थे ञ्यः, तत्र हि `सोऽस्याभिजनः' इति वर्त्तते। `मन्दुरजः'इति। `ङयापोः संज्ञाच्छन्दसोर्बहुलम्' (6.3.63) इति मन्दूराशब्दस्य ह्रस्वत्वम्। `अन्नाण्णः- आन्नः' इति। `अन्नं लब्धा' इत्य्रथे णः।
तत्र हि `धनगणं लब्धा' (4.4.84) इत्यतो लब्धेत्यनुवर्त्तते। अथ किमर्थं पृथग्योगः
क्रियते, `चुटुषाः प्रत्ययस्य' इत्येक एव योगः क्रियतामित्यत आह-- `पृथग्योगकरणम्' इत्यादि। `तेन वित्तः' (5.2.26) इत्यादिनाऽस्य विधेरनित्यत्वज्ञापनस्य प्रयोजनं
दर्शयति।।

8.लशक्वतद्धिते। (1.3.8)
`प्रियंवदः' इति। `प्रियवशे वदः खच्' (3.2.38), `अरुर्द्विषदजन्तस्य' (6.3.67) इति मुम्। `जिष्णुः'- इति। `ग्लाजिस्थश्च क्स्नुः' (3.2.139) इति। ये तु क्स्नुप्रत्ययं गितमिच्छन्ति तन्मतेनेदं गकारस्योदाहरणम्। ये तु कितमिच्छन्ति तन्मतेनेमपि ककारस्योदाहरणं भवति।
`चूडाल०ः' इति। मत्वर्थे `प्राणिस्थादातो लजन्यतरस्याम्' (5.2.96) इति लच् प्रत्ययः। ननु च प्रयोजनाभावादत्रेत्संज्ञा न भविष्यति; लित्प्रत्ययात् पूर्वस्योदात्तत्वं प्रयोजनमिति चेत्, न; चित्स्वरस्य हि सर्वस्य रस्यापवादत्वात् प्रत्ययस्वरेणह्यन्तोदात्तत्वे सिद्धे चित्करणस्यैतत् प्रयोजनम्-- चित्स्वर एव यथा स्यात्, योऽन्यः स्वरः प्राप्नोति स मा भूदिति। इदं तु प्रत्युदाहरणम्-- लोमान्यस्य सन्तीति `लोमादिपामादि' (5.2.100) इत्यादिना शः, लोमशः ? एतदपि नास्ति, अत्रापि प्रोयजनाभावादेवेत्संज्ञा न भविष्यति। इदं तर्हि प्रत्युदाहरम्-- `कर्णललाटात् कनलङ्कारे' (4.3.65) इति भावार्थे कन्; कर्णिका, यद्यत्रेत्संज्ञा स्यात् `किति च' (7.2.118) इत्यादिवृद्धिः स्तात्, ततश्च रूपमेव न सिद्ध्येत ? यद्येवम् इवमेवोपन्यसनीयम्, नेतरे ? एवं मन्यते-- एतदर्थम् `अतद्धिते'इति क्रियमाणमिहापि मन्दधियां प्रतिपत्तिगौरवं परिहर्तु चूडालः, लोमश इत्येवमर्थमपि भवितुमर्हतीति।।

9. तस्य लोपः। (1.3.9)
अथ किमर्थम् `तस्य' इत्युच्यते, यवातेत्संज्ञायाः प्रकृतत्वाद्यस्येत्संज्ञा विहिता सामर्थ्यात्तस्यैव लोपो भविष्यतीति आह-- `तस्यग्रहणम्' इत्यादि। कः पुनरित्संज्ञको योऽलोन्त्यस्य निवृत्त्यर्थं तस्यग्रहणं प्रयोजनतीत्याह-- `आदिर्ञिटुडवः' इति। असति तस्यग्रहणे, एषामपि ञिप्रभृतीनाम् `अलोऽन्त्यस्य' (1.1.52)
इति वचनादन्त्यस्य लोपः स्यात्। तस्यग्रहणेन तु प्रकृत इत्संज्ञके सन्निधापिते सर्वस्य लोपो भवति, नान्त्यस्य; अन्यथा हि तस्यग्रहणमनर्थकं स्यात्। यदि तु `नानर्थकेऽलोऽन्त्यविधिः' (व्या.प.62) इत्येषा परिभाषाऽऽश्रीयते, तदा तस्यग्रहणमकर्तुं शक्यते। तत् क्रियते विस्पष्टार्थम्।

10. यथासंख्यमनुदेशः समानम्। (1.3.10)
`संख्याशब्देनात्र क्रमो लक्ष्यते' इति। यत्रानेके उद्देशिनोऽनुदेशिनश्च, तत्रानियमेन सम्बन्धे प्राप्ते नियमार्थंमिदमारभ्यते। यत्रोद्देशिनोऽनुदेशिनोऽनेकसंख्याः; तत्रावश्यं संख्याभेदेन भवितव्यम्। यत्र च संख्याभेदः, तत्र नियतभावी क्रमः ; संख्याभेदवतां युगपदुच्चारयितुमशक्यत्वात्। अतः साहचर्यात् संख्याशब्देन क्रमो लक्ष्यते। अर्थधर्मत्वं तु शब्दे समारोप्य संख्याशब्देन क्रमो लक्ष्यत इत्युक्तम्। यथाक्रमग्रहणं कथं न कृतम्? वैचित्र्यार्थम्।
`यथासंख्यम्' इति। `यथाऽसादृश्ये' (2.1.7) इति वीप्सायामव्ययीभावः। `अनुदिश्यत इत्यनुदेशः' इति। `अकर्तरि च कारके संज्ञायाम्' (3.3.19) इति घञ्। `पश्चादुच्चार्यते' इति. अनुशब्दस्य पश्चादर्थवृत्तित्वाद्दिश्चोच्चारणक्रियत्वात्। `समसंख्यानम्' इति। समसंख्यतया समानत्वं दर्शयति। `{समं परिपठितानाम्'इति मूल (काशिका) पाठः। }समगणनपरिपठितानाम' इति। तमेवार्थं शब्दान्तरेण व्यक्तीकरोति। `उद्देशिनामनुदेशिनाञ्च्' इति। यथाक्रममित्येतदपेक्षया षष्ठी। उद्देशिनो यद्यपि सूत्रे न श्रूयन्ते, तथापि सम्बन्धित्वात् पश्चाद्भावस्यानुदेशग्रहणाल्लभ्यन्ते। `यथाक्रमम्' इति। पूर्ववद्वीपसायामव्ययीभावः, तृतीयान्तञ्चैतत्; तदयमत्रार्थः- उद्देशिनामनुदेशिनाञ्च योऽयं क्रमस्तेन क्रमेणानुदेशिनः सम्बध्यन्त उद्देशिभिः सहेति। यद्यप्युद्देशिनामिति षष्ठ्यन्तं प्रकृतम्, तथाप्यर्थाद्विभक्तेर्विपरिणामो भविष्यतीति तृतीयान्तं सम्पद्यते। `प्रथमात् प्रथमः' इत्यादिना यथाक्रमसम्बन्धं दर्शयति। आदिशब्दस्तृतीयात् तृतीयः, चतुर्थाच्चतुर्थ इत्यादिपरिग्रहाय। तौदेय इत्यादौ `सोऽस्याभिजनः' (4.3.90) इत्यत्रार्थे तद्धितः।
`इह' इत्यादि। `वेशोयशआदेर्भगात्' 94.4.131) इति द्वे प्रकृती, `यल्खौ' इति प्रत्ययावपि द्वावेव; अतो यथासंख्येन भवितव्यमित्यभिप्रायः। इह केनचिनदाचार्येण शिष्याः प्रतिग्राहिताः-- `वेशो यश आदेर्भगाद्यल् ख च' इत्येको योगः। अन्ये तु द्वावेतौ योगविति- `वेशोयश आदेर्भगात्' इत्येको योगः, `यल् ख च' इति द्वितीयः। तत्र य एक एवायं योग इत्येवं शिष्या ग्राहितास्तान्प्रत्ययं प्रश्नः। वृत्तिकारेणापि तन्मतमेवाश्रित्य`स्वरितेन' इत्यादिना परीहार उक्तः। ये तु द्वावेतौ योगावित्येवं ग्राहितास्तान् प्रत्येष प्रश्नो नास्ति; योगविभागेनैव यथासंख्यस्य स्यात्, योगविभागकरणमनर्थकं स्यादित्यभिप्रायः। कथं पुनः स्वरितेन लिङ्गेन यथासंख्यं लभ्यते, यावता नेह स्वरितग्रहणमस्तीत्याह-- `स्वरितेनाधिकारः' इत्यादि। `स्वरितेनाधिकारः' (1.3.11) इति योगं विभज्य `स्वरितेन' इत्येको योगः, `अधिकारः' इति द्वितीयः। तत्र प्रथमो योगः पूर्वेणापि `यथासंख्यम्' इत्यादिना सम्बध्यते। अपिशब्दात् परेणापि `अधिकारः' इत्यनेन। यदि तर्हि स्वरितेन लिङ्गेन यथासंख्यं भवति, एवं हि सति सन्देहः स्यात्। तथा हि-- यथासंख्यमिति स्वरितेनाधिकारोऽपि तत्र न ज्ञायते -- किमधिकारार्थः स्वरितानुषङ्गः ? अथ वा यथासंख्यार्थ इति ? सन्देहमात्रमेतत्। सर्वनसन्देहेष्विदमुच्यते-- `भवति व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्' (व्या.प.75) इति।।

11.स्वरितेनाधिकारः। (1.3.11)
`इत्थंभूतलक्षणे तृतीय' इति। स्वरितेन चिह्नेनाधिकारस्योपलक्षणीयत्वात्। यदि पारिभाषिकस्येह स्वतिस्य ग्रहणं स्यात्, `रषाभ्यां नो णः समानपदे' (8.4.1) इत्यत्र णकारण्णाकारस्याधिकारस्याधिकारता न स्यात्; परिभाषिकस्याज्धर्मत्वात्। णकारस्यानच्कत्वादिति मत्वा सर्वेषां वर्णानामचां हलाञ्च स्वरिताख्यो यो वर्णधर्मो गुणस्यस्येदं ग्रहणम्, न पारिभाषिकस्येति दर्शयन्नाह-- `स्वरितो नाम स्वरदोषो वर्णधर्मः' इति। वर्णधर्मस्य तु गर्हणमधिकारावगमाय। स इह हल्यपि स्वरितासरञ्जनाद्विज्ञायते। `अधिकारो विनियोगः' इति। व्यापारकरणम्। `अधिकृतत्वादुत्तरत्रोपतिष्ठते' इति। यथा पुरुषो यत्राधिकृतो नगरादौ तत्रैवोपतिष्ठते, तथा स्वरितगुणयुक्तं शब्दरूपं सूत्रकारेण नियुक्तं सूत्रकारेण तत्र तत्रोपतिष्ठते। `उत्तरत्र' इति वचनमुपलक्षणार्थम्। क्वचित् पूर्वत्राप्युपतिष्ठत एव।
क्व पुनरस्य सद्भावो भवति ? क्व च वा न भवति ? इत्याह-- `प्रतिज्ञास्वरिताः पाणिनीयाः' इति। प्रतिज्ञया स्वरितो येषां ते तथोक्ताः। तदेतदुक्तं भवति-- यत्रेव त आचार्याः स्वरितत्वं प्रतिजानते तत्रैवास्य सद्भावो भवति, नान्यत्रेति। तदपि प्रतिज्ञानं नानियमेन भवति, किं तर्हि ? यत्राचार्याः स्मरन्ति तत्रैव भवति। स चायं धर्मः कलागद्युपम इति वेदितव्यः। कार्यार्थमुपादीयते, कृतकार्यस्तु निवर्तते; न तु प्रयोगसमवायी भवति। `प्रत्ययः' (3.1.1) इत्यादिना येऽधिकाराः स्वरितनावच्छिद्यन्ते तेषामुदाहरणानि दर्शयति। अथ किमर्थोऽयमधिकारः क्रियते ? प्रतियोगं तस् ग्रहणं मा कार्षीदित्येवमर्थमिति चेत्, न; यथा देवदत्ताय गौर्दीयतां कम्बलश्चेत्युक्ते न च पुनरुच्यते देवदत्तायेति, अथ च प्रस्तुतत्वाद्देवदत्तस्य कम्बलश्चेत्यस्य साकाङ्क्षत्वात् तेनैव सम्बन्धो भवति; तथा च `सृ स्थिरे' (3.3.17)`भावे' (3.3.18) इत्येवमादीनामपि वाक्यानां साकाङ्क्षत्वाद्घञादीनाञ्च प्रस्तुतत्वात् तैरेव सम्बन्धो भविष्यति, तत्किमधिकरेण ? सत्यमेतत्; यत्रान्य निर्देशो नास्ति तत्रोपतिष्ठते, यत्र त्वन्यनिर्देशस्तत्रासौ प्रकृतस्य निवर्तक एव स्यात्। तथा हि-- गौर्दीयतां यज्ञदत्ताय कम्बलो विष्णुमित्रायेत्युक्तेऽन्यनिर्देशेन प्रस्तुतो देवदत्तो निवर्तत्ते। एवञ्चान्यनिर्देशेनास्य निवर्तकत्वे सति `अभिविधौ भाव इनुण' (3.3.44) इत्यस्येनुणो निर्देशेन प्रस्तुतस्य घञो निवर्तितत्वात् `आक्रोशेऽवन्योर्ग्रहः' (3.3.45) इत्यत्रानन्तरेणेनुणा सम्बन्धः स्यात्,न पुनर्व्यवहितेन घञा,घञ् त्विष्यते। ननु च दृष्टानुवृत्तिसामर्थ्याद् घञेवानुवर्तिष्यते तेनैवाभिसम्बन्धो भविष्यति, तथा च तत्र वक्ष्यति-- `दृष्टानुवृत्तिसामर्थ्यात्तत्र घञेवानुवर्त्तते, नानन्तर इनुण् ' इति नैतदस्ति; यदि दृष्टानुवृत्तिसामर्थ्यादघञ एवानुवृत्तिः स्यात्, तदा `ऋदोरप्' (3.3.57) इत्तत्रोत्तरेष्वपि योगेषु घञेवानुवर्त्तेत, नाप्प्रत्ययः। यत्पवुनर्वक्ष्यति-- `दृष्टानुवृत्तिसामर्थ्यात्' इति, तत्र दृष्टानुवृत्तिसामर्थ्यशब्देन स्वरितत्वमेवोक्तम्। दृष्टमनुवृत्तौ सामर्थ्यम्-- अधिकृतस्य शब्दरूपस्य यस्मादिति बहुव्रीहिकृत्वा।तस्मात् स्वरितत्वादित्ययमत्रार्थः। यद्येषोऽर्थः सूत्राकाराभिमतः स्यात्, स्वरितत्वादिति कस्मान्नोक्तमिति चेत्? न;स्वच्छन्दतो हि वचसां प्रवृत्तिः, अर्थस्तु परीक्षणीय इत्यचोद्यतमेतत्। तदेवं यतोऽन्यनिर्दशः प्रस्तुतस्य निवर्त्तको भवति तस्मादधिकारः कर्त्तव्यः। तस्मिंश्च क्रियमाणे तदवगमोपायदर्शनाय `स्वरितेनाधिकारः' इत्येतदिप कर्त्तव्यः।।
12. अनुदात्तङित आत्मनेपदम्। (1.3.12)
`तत्रायं नियमः क्रियते' इति। विधीयमानत्वात् प्रधानस्य प्रत्ययस्य न तु प्रकृतेरिति विज्ञायते। अत एवाह-- `अनुदात्तेतो ये धातवो ङितश्च तेभ्यः' इति। यदि पुनरयं प्रकृतिनियमः स्यात्, तदा किं स्यात् ? अनुदात्तङिद्भ्यः प्रत्ययान्तरं न स्यात्। कामं वचनसामर्थ्यात् प्रत्ययान्तरमपि भविष्यतीत्येष दोषः शक्यते परिहर्तुम्। यस्तु वचनसामर्थ्यद्वारेणाभीष्टेऽर्थे प्रतीयमाने प्रतिपत्तिगौरवदोषः स्यात्, सोऽपरिहार्य एव। यदि तर्हि प्रत्ययनियमोऽयम्, तदा प्रकृतीनामनियतत्वात् ताभ्यः परस्मैपदमपि स्यात् ? न भविष्यति; `शेषात्कर्त्तरि परस्मैदपदम्' (1.3.78) इति द्वितीयनियमविधानात् शेषादेव परस्मैपदम्, नान्यस्मादिति। `आस्ते' इत्यादि। `आस उपवेशने' (धा.पा.1021) `वस आच्छादने' (धा.पा.1023), `षूङ प्राणिगर्मविमोचने' (धा.पा.031) , `शीङ स्वपने' (धा.पा.1032), अदादित्वाच्छपो लुक्। `शेते' इति। `शीङः सार्वधातुके गुणः' (7.4.21)।।

13. भावकर्मणोः। (1.3.13)
भाव इति धात्वर्थः क्रियात्मक उच्यते, कर्म तु पारिभाषिकमेव। तत्रेदमुच्यते नियमार्थं इति विशेषः। अयमपि पूर्वत् प्रत्ययनियः-- भावकर्मणोरेवात्मनेपदं भवति, नार्थनियमः। अर्थनियमे सति `को भवता दायोदत्तः', `को भवता लाभो लब्धः' इति कर्मणि घञादिर्दुर्लभः स्यात्। `सुप्यते' इति। `ञिष्वप् शये' (धा.पा.1068) वच्यादिना (6.1.15) सम्प्रासरण्। `क्रियते' इति। `रिङ शयग्लिङक्षु' (7.4.28) इति रिङादेशः। `लूयते केदारः स्वयमेव' इति। `कर्मवत्कर्मणा तुल्यक्रियः' (3.1.87) इत्यत्र व्यपदेशातिदेशशासत्रातिदेशपक्षयोः कर्मकर्तरि परस्मैपदेन परत्वाद्भवितव्यमिति कस्यचिद्‌भ्रान्तिः स्यात्, अतस्तन्निराकर्तुमाह -- `कर्मकर्तरि' इत्यादि। `द्वितीयं कर्तरिग्रहणमुपतिष्ठते' इति। `कर्तरि कर्मव्यतिहारे' (1.3.14) इत्यतः। तेन कर्त्तैव यः कर्त्ता शुद्धः केवलः कर्मवद्भावरहितः, तत्र परस्मैपदं भवति; यत्र कर्मवद्भावस्तत्रात्मनेपदं भवति।कार्यातिदेशपक्षे `क्रमवत् कर्मणा तुल्यक्रियः' (3.1.87) इत्यनेनैवात्मनपेपदं भवति।
14. कर्त्तरि कर्मव्यतीहारे। (1.3.14)
`कर्मशब्दः क्रियावाची' इति। एतेन लौकिकमिह कर्म क्रियात्मकं गृह्यते, न पारिभाषिकमिति दर्शयति। कुत एतल्लभ्यते ? प्रत्यासत्तेः। क्रिया हि धातोः प्रत्यासन्ना, तत्र साक्षाद्‌वृत्तेः। साक्षाद्‌वृत्तिस्तु धातुवाच्यत्वात् क्रियायाः। पारिभाषिके तु साधनात्मके कर्मणि धातुः साक्षान्न वर्त्तते;तस्याधातुवाच्यत्वात्। तस्माद्धातुं प्रतिन तस्य प्रत्यासत्तिरिति न गृह्यते, तेन साधनकर्मव्यतीहारे न भवत्यात्मनेपदम्-- देवदत्तस्य धान्यं व्यतिलुनन्तीति। लुनातिरुपसंगर्हार्थे लवने वर्त्तते। देवदत्तेन यद्धान्यं सङगृहीतं पुरस्ताल्लवनेनोपसंगृह्णन्तीत्यर्थः। ततश्चान्यसम्बन्धिनो धानयस्यान्येन संग्रहणाद्भवति साधनकर्मव्यतीहारः। `अन्यसम्बन्धिनीम्' इति। अन्यस्य कर्त्तुरभीष्टया क्रियेमां क्रियां करिष्यामीति सेहान्यसम्बन्धिन्यभिप्रेता, अन्यथा यद्यन्येन निष्पादिता या क्रिया सेहान्यसम्बन्धिन्यभिप्रेता स्यात् तदा व्यतिहारो नोपपद्येत, न ह्यन्येन निष्पादितायाः पुनर्निष्पादनमुपपद्यते। `व्यतिलुनते' इति। `आत्मनेपदेष्वनतः' (7.1.5) इत्यदादेशः, `श्नाभ्यस्तयोरातः' (6.4.112) इत्याकारलोपः। अथ कर्तृग्रहणं किमर्थम् ? भावकर्मनिवृत्त्यर्थमिति चेत्, न; अभीष्टत्वाद्भावकर्मणोरात्मनेपदम्-- व्यतिभूयते सेनया, व्यतिगम्यन्ते ग्रामाः, व्यतिहन्यन्ते दस्यव इति। `भावकर्मणोः' (1.3.13) इत्यनेनैव यथा स्यात्, अनेन मा भूदित्येवमर्थमिति चेत्, न; विशेषाभावात्। न हि तेनात्मनेपदे सत्यनेन वा कश्चिद्विशेषोऽस्ति। यद्यनेन स्यात् तदा `न गतिहिंसार्थेभ्यः' (1.3.15) इति प्रतिषेधः स्यात्, तेन चात्मनेपदे विधीयमाने न भवत्येष दोष इति चेत्, सत्यम्; एषोऽस्तु विशेषः,तथापि न कर्त्तृग्रहणं कर्त्तव्यम्; यस्मात् `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' (व्या.प.19) इत्यनन्तरा या प्राप्तिः सा प्रतिषिध्यते, न पूर्वा। तेन भावकर्मणोरात्मनेपदं भविष्यति। अत आह--`कर्त्तृग्रहणमुत्तरार्थम्' इति। कः पुनरसावुत्तरो योगो यत्रास्य प्रयोजनमित्याह-- `शेषात्' इत्यादि।।

15. न गतिहिंसार्थेभ्यः। (1.3.15)
`व्यतिगच्छन्ति'इति। `इषुगमियमां छः' (7.3.77) इति छत्वम्, `छे च' (6.1.73) इति तुक्। `व्यतिसर्पन्ति' इति। `गम्लृ सृप्लृ गतौ' (धा.पा.982,983), लघूपधगुणः। `व्यतिहिंसन्ति' इति। `तृहि हिसि हिंसायाम्' (धा.पा.1348,1829)। `व्यतिघ्नन्ति' इति। `हन हिंसागत्योः' (धा.पा.1012) `गमहन' (6.4.98) इत्युपधापलोपः, `हो हन्तेर्ञ्णिन्नेषु' (7.3.54) इति कुत्वम्।
`प्रतिषेधे' इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। उपसंख्यानशब्दोऽत्रानेकार्थत्वाद्धातूनां प्रतिपादने वर्त्तते। तच्च प्रतिपादनं प्रकृतत्वात् प्रतिषेधस्येति गम्यते। तदयमर्थः-- प्रतिषेधे कर्त्तव्ये हसादीनामप्यात्मनेपदप्रतिषधस्य प्रतिपादनं कर्त्तव्यमिति। तत्रेदं प्रतिपादनम्-- नेति योगविभागः क्रियते, तेन हसादीनामपि भविष्यतीति। ततः `गतिहिंसार्थेभ्यः' इति द्वितीयो योगः, तत्र `न' इति वर्त्तते।किमर्थं पुनरयम् ? पूर्वयोगस्यासर्वविषयत्वज्ञापनार्थम्, तेन `न' इति योगविभागेन हसादीनामेव प्रतिषेधो भविष्यति, नान्येष्यमिति।

16.इतरेतरान्योऽन्योपपदाच्च। (1.3.16)
उपोच्चारितं पदमुपपदम्। इतरेतरान्योऽन्यशब्दावुपपदे यस्य स तथोक्तः। अथोपपदग्रहणं किमर्थम्, `नेतरेतरान्योऽन्याभ्याम्' इत्युच्यताम् ? अशक्यमेवं वक्तुम्; एवं ह्युच्यमाने पञ्चमीनिर्देशात् `तस्मादित्युत्तरस्य' (1.1.67) इत्युत्तरस्यैव स्यात्-- इतरेतरस्य व्यतिलुनन्तीति, इह तु न स्यात्-- व्यतिलुनन्तीतरेतरस्येति।
`परस्परोपपदाच्चेति वक्तव्यम्' इति। परस्परशब्द उपपदं यस्य तस्मात् प्रतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्‌- चकारोऽत्र क्रियते। स चानुक्तसमच्चयार्थः। तेन परस्परोपपदादपि प्रतिषेधो भविष्यतीति।

17.नेर्विशः। (1.3.17)
`निविशते' इति। `विश प्रवेशने' (1424) तुदादित्वाच्छः।
`न्यविशत' इति। अडागमेन व्यवधानमित्यात्मनेपदेन न भविव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्त्तुमाह-- `{यदागमास्तद्‌ग्रहणेन' इति-- काशिका.पदमञ्जरी च. अडागमः' इत्यादि। `मधुनि विशन्ति' इति। अत्र नेः परस्य विशतेरात्मनेपदं प्राप्नोति, तत्कस्मान्न भवतीत्याह-- `नेरुपसर्गस्य' इत्यादि। मधुशब्दस्य सप्तमेयकवचने `इकोऽचि विभक्तौ' (7.1.73) इति नुमि मधुनीति रूपं भवति, तस्य चावयवो निशब्दोऽनर्थकः।।

18. परिव्यवेभ्यः क्रियः। (1.3.18)

`परिक्रीणीते' इति। `ई हल्यघोः' (6.4.113) इतीत्त्वम्। `पर्यादय उपसर्गा गृह्यन्ते' इति। कथम् ? क्रिय इति सम्बन्धलक्षणा षष्ठी, न पञ्चमी-- क्रियो ये सम्बन्धिनः पर्यादय इति। अर्थद्वारश्च तेषां सम्बन्धो विशेषणविशेष्यभावलक्षणः। स चोपसर्गैरेव पर्यादिभिः सम्भवति; नान्यैरिति सामर्थ्यादुपसर्गग्रहणं भवति। `बहुवि क्रीणाति' इति। बहवो वयो यस्मिन्निति बहुव्रीहिः। विशब्दोऽत्र पक्षिणि वर्त्तते।।

19. विपराभ्यां जेः। (1.3.19)
`साहचर्यात्' इति। उपसर्गग्रहणए हेतुः `नेर्विशः' (1.3.17) इत्यत्र नेरुपसर्गस्य ग्रहणम्। अनन्तरसूत्रेऽपि (1.3.18) पर्यादीनामुपसर्गाणामेव ग्रहणम्। अतः प्रकरणसाहचर्यादद्विपराशब्दावुपसर्गौ गृह्येतेत-- इत्येके।
अपरे तु वर्णन्ति-- साहचर्य पर्त्यासत्त्युपलक्षणम्। येषां साहचर्यं तेषां नियोगतः प्रत्यासत्त्या भवितव्यमिति। अतः साहचर्यस्य प्रत्यासत्त्याऽविनाभावित्वात् तेन प्रत्यासत्तिर्लभ्यते। तदेतदुक्तं भवति-- प्रत्यासत्तेर्विपराशब्दावुपपसर्गौ गृह्येते इति। प्रत्यासत्तिश्च जयतेर्विपराशब्दाभ्यामुपसर्गाभ्यामेव, नानुपसर्गाभ्याम्। तथा हि-- ताभ्यामेव जयत्यर्थो जयत्यर्थो विशिष्यते,नेतरभ्यामिति।।

20. आङो दोऽनास्यविहरणे। (1.3.20)
ददातेरेवास्यविहरणे वृत्तिः सम्भवति, नान्येषां दारूपाणां धतूनामिति। अतस्तत्प्रतिषेधेन तस्यैव ग्रहणं विज्ञायत इत्यत आह-- `आङपूर्वाद्दाञः' इति। `आदत्ते' इति। पूर्ववदाकारलोपः, `खरि च' (8.4.55) इति चर्त्वम्।
`आस्यविहरणसमानक्रियादपि प्रतिषेधो वक्तव्यः' इत्युपसंख्यानध्याजेनास्यविहरणविषयं दर्शयति। कथम् ? विहरणग्रहणं न कर्त्तव्यम्, इह `आङो दोऽनास्ये' इत्येतद्वक्तव्यम्, तत्रास्ये दाञो वृत्तिर्न सम्भवतीति सामर्थ्यादास्यसमवायिन्यां क्रियायां वृत्तिर्विज्ञास्यते, तत्रैव प्रतिषेधः,तत् किं विहरणग्रहणेन ? ननु च `आङो दोऽनास्ये' इत्येतावत्युच्यमाने, स्वं मुखमादत्ते देवदत्त इत्यत्रापि प्रतिषेधः स्यात्, नैष दोषः, वा ह्यास्यविषयैव क्रिया तस्यां वर्त्तमानो ददातिरास्यवृत्तिर्भवति, विहरणमेवास्यविषयम्, ग्रहणं त्वास्यविषयं ग्रहीतृविषयञ्च। तदेवं विहरणमन्तेरणापि सिद्धे यद्विहरणग्रहणं क्रियते तस्यैतत् प्रयोजनम्-- आस्यविहरणसमानक्रियादपि प्रतिषेधोऽयं यथा स्यादित्येवमित्येके। `इतरेतरान्योऽन्योपपदाच्च' (1.3.16) इत्यतश्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः। तेनास्यविहरणसानक्रियादपि प्रतिषेधो भवतीत्यपरे।
`स्वाङ्गकर्मकाच्च' इति। वक्तव्यमिति शेषः। न चात्राद्रवमूर्तिमल्लक्षमं पारिभाषिकं स्वाङ्गं विवक्षितम्, किं तर्हि ? स्वमङ्गं स्वाङ्गमिति। तत् कर्म यस्य स स्वाङ्गकर्मकः,तस्मात् स्वाङ्गकर्मात् प्रतिषेधो भवतीत्येतदर्थरूपं वक्तव्यमित्यर्थः। तेन परसम्बन्धिना मुखेन यदा सकर्मको भवति तदा भवत्येवात्मनेपदम्-- `व्याददते पिपीलिकाः पतङ्गस्य मुखम्' इति। वक्तव्यशब्दस्य व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- कर्त्तरीति वर्त्तते, आस्यमिति च सम्बन्धिशब्दः, तत्रैवं विज्ञायते-- `यस्मिन् कर्त्तर्यैवात्मनेपदं भवति तस्य चेदास्यम्‌' इति। `आङ' इति योगविभागः क्रियते-- आगमयस्व तावन्माणवकम्, आनुते शृगालः, आपृच्छते गुरूनित्येवमर्थः। तेन `आगमेः क्षमायाम्' (वा.35) इति `आङि नुप्रसच्छयोः' (वा.40) इति च नोपसंख्येयं भवति।।

21. क्रीडोऽनुसंपरिभ्यश्च। (1.3.21)
`समा साहचर्यात्' इति। यद्यप्यन्वादिरुपसर्गत्वं व्यभिचरति, सम्शब्दस्तु न व्यभिचरति, अतस्तत्साहचर्यादन्वादिरुपसर्ग एव गृह्यते। `माणवकमनुक्रीडति' इति। माणवकेन सह क्रौडतीत्यर्थः। `तृतीयार्थे' (1.4.85) इत्यनुशब्दस्य कर्मप्रवचनीयसंज्ञा।
`आगमेः' इति। आङपूर्वस्य गमेर्ण्यन्तस्य ग्रहणम्। `क्षमा उपेक्षा कालहरण्' इति। कालप्रतिपादनं प्रतीक्षणमित्यर्थः। `आगमयस्व' इति। `जनीजृष्वनसुरञ्जौऽमन्ताश्च' (ग.सू.धा.पा. 817) इति मित्संज्ञायाम् `मितां ह्रस्वः' (6.4.92) इति ह्रस्वत्वम्। लोण्मध्यमपुरुषैकवचनम्, `थासः से' (3.4.80) `सवाभ्यां वामौ' (3.4.91) इति वादेशः। `शिक्षेः' इति। शकिः सन्नन्तो गृह्यते।`विद्यासु शिक्षते' इति। विद्यां जिज्ञासितुं घटत इत्यर्थः। शकेः सन्, `सनि मीमाघुरभलभ' (7.4.54) इत्यादिनेस्भावः। `अत्र लोपोऽभ्यासस्य' (7.4.58) इत्यभ्यासस्य लोपः। `स्कोः संयोगाद्योरन्ते च ' (8.2.29) इति सकारलोपः, शिक्ष इति स्थिते लट्। यस्तु `शिक्ष विद्योपादाने' (धा.पा.605) इति पठ्यते, ततोऽनदात्तेत्त्वादात्मनेपदं सिद्धमेव।
`आशिषि नाथः' इति। गतेस्ताच्छील्यं गतिताच्छील्यम्। ताच्छील्यम् = तत्स्वभावता। `पैतृकमश्वा अनुहरन्ते, मातृकं गावोऽनुहरन्ते' इति। पितृवन्मातृवद्‌गमनमेषां स्वभाव इत्यर्थः। `मातुरनुहरति, पितुरनुहरति' इति। मातुराकारं पितुराकारमनुकरोतीत्यर्थः। मातृसदृशः,पितृसदृशः इत्यर्थः। पैतृकमिति पितुरागतमिति `ऋतष्ठञ्' (4.3.78), `इसुसुक्तान्तात् कः' (7.3.51)। मातुरनुहरतीत्यत्र गतिताच्छील्यं न विवक्षितम्।
`किरतेः' इत्यादि। `कृ विक्षेपे' (धा.पा. 1409) अस्य विक्षेप एवार्थः। हर्षादयस्तस्य विषयभूताः। अत्र हर्षो विक्षेपस्य कारणम्, जीविकाकुलायकरणञ्च तत्फलम्। एतेष्वेवार्थेषु किरतेरात्मनेपदं भवति। `अपस्किरते' इति। `अपाच्चतुष्पाच्छकुनिष्वालेखने' (6.1.142) सुट्।
`आनुते' इति। `णु स्तुतौ' (धा.पा.1035), अदादिः। अयञ्चात्रोत्कण्ठापूर्वकशब्देन वर्तते। `आपृच्छते' इति। `प्रच्छ ज्ञीप्सायाम्' (धा.पा.1413) तौदादिकः, ग्रह्यादिना (6.1.16) सम्प्रसारणम्।
`वाचा शरीरस्पर्शनमुपलम्भनम्' इति। शपथविशेषः। तथा हि-- देवदत्तस्य शरीरं स्पृशामीति शपथं कुर्वाणो देवदत्ताय शपत इति प्रयुज्यते। `श्लाघह्नुङस्थाशपाम्'(1.4.34) इत्यादिना समप्रदानसंज्ञायाम्, देवदत्तायेति सम्प्रदाने चतुर्थी। शपतीत्याक्रोशतीत्यर्थः। `समोऽकूजने' (वा.34) इत्यादिग्रन्थस्य शप उपलम्भनपर्यन्तस्य योऽर्थः स इह चकारेणानुक्तसमुच्चयार्थेनोपात्तः, तस्यैवार्थस्य चकारोपात्तस्य स्पष्टीकरणायास्य ग्रन्थस्योपन्यासः कृतः।।

22. समवप्रविभ्यः स्थः। (1.3.22)
`सन्तिष्ठते' इति। पाघ्रादिसूत्रेण (7.3.78) तिष्ठादेशः।
`अस्तिं सकारमातिष्ठते' इति सकारमात्रमस्तिं धातुम् आपिशलिराचार्यः प्रतिजानीते। तथा हि -- न तस्य पाणिनेरिव `अस भुवि' (धा.पा.1065) इति गणपाठः, किं तर्हि?
`स भुवि' इति स पठति। `आगमौ गुणवृद्धी आतिष्ठते' इति। स त्वागमौ गुणवृद्धी आतिष्ठते। एवं हि स प्रतिजनीत इत्यर्थः।।

23. प्रकाशनस्थेयाख्ययोश्च। (1.3.23)
`तिष्ठन्त्यस्मिन्नति स्थेयः' इति। `कृत्यल्युटो बहुलम्'(3.3.113) इत्यधिकरणे `अचो यत्' (3.1.97)। `ईद्यति' (6.4.65) इतीत्त्वम्। गुणः। `विवाद' इति। सन्देहविषये। `निर्णेता' इति। निश्चेता, प्रमाणभूत इत्यर्थः। कथं पुनः स्थेयशब्दात् तस्य प्रतीतिर्भवति, यावता स्थेयशब्दो भावसाधनोप्यस्ति गतिनिवृत्तिवचन इत्याह-- `तस्य' इत्यादि। यस्य `स्थेय' इत्याख्या, लोके तस्य प्रतीतिर्यथा स्यादित्येवमर्थमाख्याग्रहणम्। तेनाख्याग्रहणेन तस्य प्रतीतिर्भवतीति दर्शयितुमाख्याग्रहणं कृतम्। `तिष्ठते कन्या छात्रेभ्यः' इति। पूर्ववत् सम्प्रदानसंज्ञायां सत्यां छात्रेभ्य इति चतुर्थी। `प्रकाशयत्यात्मानमित्यर्थः ' इति। अनेकार्थद्धातूनां तिष्ठतिरत्र प्रकाशने वर्त्तते। `संशय्य' इति।
जहातु नैनं कथमर्थसिद्धः
संशय्य कणादिषु तिष्ठते यः।
असाधुयोगा हि जयान्तरायाः
प्रमाथिनीनां विपदां पदानि।। (किरा-3.14)
इत्यस्य श्लोकस्यायमेकदेश इहोपन्यस्तः। संशय्येति विवादपदभूते वस्तुनि संशयित्वो भूत्वा कर्णादिषु तिष्ठत इति। कर्णशकुनिप्रभृतिषु निर्षेतृत्वेनाभिमतेषु तत्सु पक्षान्तरं परित्यज्य तिष्ठते; तदुपदर्शितस्यैव पक्षस्याश्रयणात्।।

24. उदोऽनूर्ध्वकर्मणि। (1.3.24)
अनुर्ध्वकर्मणि वर्त्तमानादित्युक्ते, यश्चोदयति--- `ननु च तिष्ठतेरकर्मकक्रियावचनत्वान्न कर्मणि वृत्तिरुपपद्यते। तत्किमुच्यते-- `अनूर्ध्वकर्मणि वर्त्तमानात्' इति, तं प्रत्याह-- `क्रियावाची' इति। यदुक्तम्-- अनूर्ध्वकर्मणि वर्त्तमानादिति, तस्यार्थं विस्पष्टीकर्त्तुमाह-- `अनूर्ध्वकर्मविशिष्टात् क्रियावचनात्' इति।
`उद ईहायामिति वक्तव्यम्'इति। उत्पूर्वात् तिष्ठतेरीहायां परिस्पन्दने
वर्त्तमानादात्मेपदं भवतीत्येतदर्थरूपं व्याख्येमित्यर्थः। तत्रेदं व्याख्यानम्-- अन्तरेणापि कर्मग्रहणं क्रियामात्रवृत्तित्वे तिष्ठतेः सिद्धे यत् कर्मग्रहणं तल्लोके या क्रिया कर्मत्वेन प्रसिद्धा तस्याः प्रतिपत्तयर्थं कृतम्, सा तु परिस्पन्दनात्मकैव परिस्पन्दनात्मिकैव घटनभ्रमणादिका, तथा हि--तां कुर्वाणः `सक्रियः' इत्युच्यते। स्थानासनादिकां त्वपरिसम्पन्दनात्मिकां कुर्वाणोऽपि `निष्क्रियः' इति। तस्मादात्मनेपदमिदं कर्मग्रहणादीहायामेव वर्त्तमानाद्भविष्यति। उद ईहायामित्युक्ते, ईहाग्रहणमनूर्ध्वकर्मणोऽपवाद इति कस्यचिद्‌भ्रान्तिः स्यात्, अतस्तन्निराकर्तुमाह-- `ईहाग्रहणम्' इत्यादि। विशेषणं व्यक्तीकरणमिहाभिप्रेतम्। एतदुक्तं भवति-- यदिदमुक्तम् `उद ईहायामिति वक्तव्यम्' इति, तत्र यदीहाग्रहणं तदनूर्ध्वकर्मण एव विशेषणं सूत्रोपात्तस्य व्यक्तीकरणार्थम्। ईहात्मकमिहानूर्ध्वकर्म विवक्षितमिति प्रतिपादनार्थमित्यर्थः।।

25. उपान्मन्त्रकरणे। (1.3.25)
`मन्त्रकरणे'इति। मन्त्रः करणं साधकतमं यस्य धात्वर्थस्य स तथोक्तः। `उपात्' इत्यादि। अत्र वक्तव्यशब्दस्य व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- उत्तरसूत्रे चकारोऽनुवर्त्तते, स चानुक्तसमुच्चयार्थः, तेन उपपूर्वात्तिष्ठतेर्देवपूजादिष्वप्यात्मनेपदं भवति।
`वा लिप्सायाम्' इति। लब्धुमिच्छा लिप्सा। लिप्सायां गम्यमानायामित्येषोऽर्थोवेदितव्यः,न तु तत्र वर्त्तमानात् तिष्ठतेरिति, न लिप्सा तिष्ठरेरर्थः। तथा हि-- `भिक्षुको ब्राह्मणकुलमुपतिष्ठते'इत्यत्र तिष्ठतिरुपसंक्रमणे वर्त्तते। लिप्सा तूपसंक्रमणस्य हेतुभूता गम्यते। लिप्सायां हेतुभूतानां ब्राह्मणकुलमुपसंक्रामतीत्यर्थः।।

26. अकर्मकाच्च। (1.3.26)
`अकर्मकात्' इति। नास्य कर्मास्तीति बहुव्रीहिः। `डुकृञ् करणे'(धा.पा.1472), `अन्यभ्योऽपि दृश्यन्ते' (3.2.75) इति मनिन्, धातोर्गुणः, `शेषाद्विभाषा' (5.4.154) इति कप्। ननु धातोः क्रियावचनादकर्मकत्वं न सम्भवतीति तस्मादयुक्तमकर्मकादिति विशेषणम्, व्यवच्छेद्याभावादित्यत आह-- `अकर्मकक्रियावचनात्'इति। अकर्मिका चासौ क्रिया चेत्यकर्मकक्रिया, तस्या वचनो यः, तां वक्ति सोऽकर्मकक्रियावचनः। एतेनार्थद्वारकं विशेषणमिदं दर्शयति-- अकर्मको यो धात्वर्थस्तसत्साहचर्यादभिधेयधर्मस्याभिधान उपचारात् धातुरकर्मक इति। अर्थस्य च युक्तमेतद्विशेषणम्,तस्य सकर्मकत्वाकर्मकत्वसम्भवात्। `यावद्भुक्तम्' इति। यावच्छब्दो निपातोऽव्ययम्, तस्य यथार्थे वीप्सायामव्ययीभावः, सप्तम्यन्तञ्चैतत्।अत एवाह-- `भोजने भोजने सन्निधीयते' इति। `भावे क्तः' इति।
`नपुंसके भावे क्तः' (3.3.114) इत्यनेन।।

27. उद्विभ्यां तपः। (1.3.27)
`स्वाङ्गकर्मकाच्चेति वक्तव्यम्' इति। स्वाङ्गं कर्म यस्य तस्मात् तपतेरात्मनेपदं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः, तत्रेदं व्याख्यानम्-- पूर्वसूत्राच्चकारोऽनुवर्त्तते, तस्यानुक्तसमुच्चयार्थत्वात् स्वाङ्गकर्मकादपि भविष्यति। स्वाङ्गञ्चेह न पारिभाषिकम्, किं तर्हि ? स्वमङ्गं स्वाङ्गमिति। आत्मीयमङ्गमित्यर्थः।
`निष्टपति' इति। `निसस्तपतावनासेवने' (8.3.100) इति मूर्धन्यः।।

28. आङो यमहनः। (1.3.28)
`आहते' इति। `अनुदात्तोपदेश' (6.4.37) इत्यादिनानुनासिकलोपः। `आघ्नते' इति। `गमहन' (6.4.98) इत्युपधालोपः, `हो हन्तेः' (7.3.54) इत्यादिना कुत्वम्।
`स्वाङ्गकर्मकाच्चेति वक्तव्यम्' इति। अस्य पूर्ववदर्थः। व्याख्यानमपि पूर्ववदेव ।।

29. समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः। (1.3.29)
`संस्वरते' इति। `स्वृ शब्दोपतापयोः' (धा.ता.932)। `समरन्त' इति। अर्त्तेः `सर्तिशास्त्यर्तिभ्यश्च' (3.1.56) इत्यत्र पुषादिसूत्रात् परस्मैपदग्रहणानुवृत्तेरात्मनेपदेष्वङागेशेन न भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्तुमाह-- `तत्र हि' इत्यादि। `संशृणुते'इति। `श्रु श्रवणे' (धा.पा.942), `श्रुवः शृ च' (3.1.74) इति श्नुप्रत्ययः, शृभावश्च।
`ऋच्छेरनादेशस्य ग्रहणम्' इति। `ऋच्छ गतीन्द्रियप्रलयमृर्तिभावेषु' (धा.पा.1296) इत्यस्य। `स्मृच्छिष्यते' इति लृट्। स्यप्रत्ययः। यद्यादेशस्य ग्रहणं स्यात् तदेतन्न सिध्येत्। प्राध्रादि (7.3.72) सूत्रेणार्त्तेर्ऋच्छादेशस्यच्छादशस्य शितीत्येवं विधानात्। अथार्त्त्यादेश्यापि ग्रहणं कस्मान् भवतीत्याह-- `अर्त्त्यादेशस्यत्वर्त्तीत्येवम्' इत्यादि।
अथ वा-- यद्यनादेशस्य ग्रहमं स्यात्, आदेशस्यात्मनेपदं न सिध्यतीत्यत आह--
अर्त्त्यादेशस्य त्वर्तीत्येवम्' इत्यादि। स्थानिवद्भावेनेत्यभिप्रायः।
`न लाभार्थस्य' इति। `विद्लृ लाभे' (धा.पा.1432) इत्यस्य। अथ `न तु सत्तार्थस्य, नापि विचारणार्थस्य' इत्येवमपि कस्मान्नोक्तम् ? एवं मन्यते-- नित्यात्मनेपदित्वादनयोरात्मनेपदार्थग्रहणं नाशङ्क्येतैवेति।
`दृशेश्चेति वक्तव्यम्' इति। `दृशिर् प्रेक्षणे'(धा.पा.988) इत्यस्मात् संपूर्वादात्मनेपदं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याखानं तु पूर्वपदेव। `सम्पश्यते इति। पाध्रादिना(7.3.72) पश्यादेशः।।

30. निसमुपविभ्यो ह्वः। (1.34.30)
`ह्वः' इति `ह्वेञ् स्पर्द्धायां शब्देन च' (धा.पा.1008) इत्यस्य कृतात्त्वस्य `आतो धातोः' (6.4.140) इत्यकारलोपं कृत्वा निर्देशः। `निह्वयते' इति। ननु च कृतात्त्वस्य निर्देशादत्रात्मनेपदेन न भवितव्यम्, न हि विकृतिः प्रकृतिं गृह्णाति; अन्यत्वात्, नैष दोषः; क्वचिद्विकृतिरपि प्रकृतिं गृह्णात्येव। कथं ज्ञायते ? यदयं `न व्यो लिटि' (6.1.46) इति कृतात्त्वस्य व्येञो निर्देशोनात्त्वप्रतिषेधं शास्ति, ततो ज्ञायते-- विकृतिरपि प्रकृतिं गृह्णातीति; अन्यथा `व्यः' इति निर्देशेन व्येञो ग्रहणाभावात् कस्यायं प्रतिषेधः स्यात् !
`उपसर्गादस्यत्यूह्योर्वा वचनम्‌' इति। वक्तव्यमित्यर्थः। `असु क्षेपणे
' (धा.पा.1209), `ऊह वितर्के' (धा.पा.648) अस्यतीति श्यना निर्देशाद्दैवादिकस्य ग्रहणम्, न त्वादादिकस्य-- `अस भुवि' (धा.पा.1065) इत्यस्य।।

31. स्पर्द्धायामाङः। (1.3.31)
`स्पर्द्धायां विषये' इति। स्पर्धेह धात्वर्थस्य विषयोऽभिमतः, न धातोः। अत एवाह-- `स्पर्धा सङ्घर्षः। `पराभिभवेच्छा' इति। स्पर्धायाः स्वरूपं दर्शयित्वा धात्वर्थस्य विषयं दर्शयितुमाह- `स विषयो धात्वर्थस्य' इति। कः पुनर्धातोरर्थो नाम यस्यैवं विषयः ? इत्याह-- `धातुस्तु शब्दक्रियः' इत्यादि। शब्दनं शब्दः। सा क्रिया यस्य स तथोक्तः। शब्दनक्रियावाचीति यावत्। यद्यपि ह्वयतिः स्पर्द्धायामपि पठ्यते, तथाप्याङपूर्वस्तत्र न वर्त्तते, यथा-- तिष्ठतिर्गतिनिवृत्तौ पठ्यते, अथ च प्रपूर्वो गतावेव वर्त्तते, न गतिनिवृत्तौ; तथा हि प्रतिष्ठित इत्युक्ते गच्छतीत्यर्थः। तस्मादाङपूर्वस्य ह्वयतेः स्पर्द्धायां वृत्त्यभावात् स्पर्द्धा धात्वर्थस्य विषयः। धात्वर्थविषयत्वं तु तद्धेतुभावेन वेदितव्यम्।।

32. गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः। (1.3.32)
`अपकारप्रयुक्तम्' इति। तृतीयासमासोऽयम्। अपकारमुद्दिश्य यत्प्रवर्तते तदपकारप्रयुक्तं वेदितव्यम्। `हिंसात्मकम्' इति। हिनस्तीति हिंसः, पचाद्यच्, हिंस आत्मा यस्य तत् तथोक्तम्। पीडाकरणमित्यर्थः। `सूचनम्' इति दोषाविष्करणम्। कथमेतद्विज्ञायत एंविधं सूचनं गन्धनमित्याह-- `तथा ह' इत्यादि। `वस्त' इत्यादिनना गन्धयतिधातुरर्दयतेरर्थे वर्त्तते इति दर्शयति। `अर्द हिंसायाम्' इत्यादिना अर्दयतेर्हिसात्मकत्वम्। एवञ्च हिंसार्थेनार्दयतिना गन्धयतेः समानार्थतां दर्शयता गन्धनशब्दवाच्यस्यार्थस्य हिंसात्मकत्वं दर्शितं भवति। भर्त्सनं तिरस्करणम्। अनुवृत्तिः परचितावधारणम्। `साहसिक्यं साहसं कर्म' इति। `ओजः सहोऽम्भसा वर्त्तते' (4.4.27) इति ठक्, साहसिकः। तस्य कर्मेति तस्माद्गुणवचनब्राह्मणादित्वात् (5.1.124) ष्यञ्, साहसिक्यम्। `उपयोगो धर्मादिप्रयोजनो विनियोगः' इति। धर्मादिषु प्रयोजनं यस्य स तथोक्तः। आदिशब्दः कामापरिग्रहाय। `एधो दकस्योपस्कुरुते' इति। `उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु' (6.1.139) इति सुट्। `कृञः प्रतियत्ने' (2.3.53) इति षष्ठी।।

33. अधेः प्रहसने। (1.3.33)
`तमधितक्रे' इति। कृञो लिट्, तस्य चैशादेशः। `द्विर्वचनेऽचि (1.1.59) इति स्थानिवद्भावाद्‌द्विर्वचनम्, `उरत'(7.4.66) इत्यत्त्वम्, रपरत्वञ्च, `हलादिः शेषः' (7.4.60) `कुहोश्चुः' (7.4.62) इति चुत्वम्।।

34.वेः शब्दकर्मणः। (1.3.34)
`कर्तरि कर्म' (1.3 .14) इत्येवमादौ क्वचित् कर्मशब्दस्य क्रियावाचिना दृष्टा। इहापि तस्य क्रियावाचिता मा विज्ञायीत्याह- `कर्मशब्द इह कारकाभिधायि'इति। अथ
क्रियाभिधायी कस्मान्न भवति ? विपूर्वस्य करोतेः शब्दनक्रियायां वृत्त्यसम्भवात्। `शब्दकर्मणः' इति। धातोरर्थद्वारकं चेदं विशेषणम्-- शब्दः कर्मास्येति; शब्दकर्मा धात्वर्थः। तदर्थस्य शब्दकर्मत्वात्तद्द्वारेण धातुरपि शब्दकर्मेति; अन्यथा हि क्रियावाचित्वाद्धातोः कतं शब्दः कर्मास्येति सम्बन्ध उपपद्यते।।

35. अकर्मकाच्च। (1.3.35)
`ओदनस्य {पूर्णाः' इत्येव-- काशिका, पदमञ्जरी च।} परिपूर्णाः' इति। सुहितार्थयोगे षष्ठी। `पूरणगुणसुहितार्थ'(2.2.11) इत्यादिना षष्ठीसमासप्रतिषेधेन ज्ञापितमेतत्-- सुहितार्थयोगे षष्ठी भवतीति। सुहितार्थाः = तृप्त्यर्थाः। पूर्णास्तृप्ता इत्यर्थः।।

36. सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः। (1.3.36)
`सम्माननादिषु विशेषणेषु' इति। किंस्विदत्र विशिष्यते नयत्यर्थोऽनेनेति विशेषणम् ? किंस्विन्नयत्यर्थ एव विशेषणम् ? विशिष्यते व्यावर्त्त्यतेऽर्थान्तरादिति कृत्वा। तत्र सम्माननमाचार्यकरणं भृतिश्चेति पूर्वेणैवार्थेनैतानि विशेषणानि, परिशिष्टानि तु नयत्यर्थस्वभावानि द्वितीयेन विशेषणानि। `नयते चार्वी लोकायते' इति। अत्र नयतेः प्रापणमर्थो विशेष्यः, शिष्यसम्माननन्तु तस्य फलभावेन विशेषमम्। तत्सम्बन्धादाचार्योऽपि चार्वीत्युच्यत इति। यथा कुन्तान्न प्रवेशयेत्युक्ते कुन्तशब्दः कुन्तसम्बन्धात् पुरुषेष्वपि वर्त्तते, तथेहापि चार्वीशब्दश्चार्वीसम्नब्धादाचार्येऽपि। `स्थिरीकृत्य' इति। निशच्लीकृत्येत्यर्थः। निश्चलत्वन्तु तेषामनन्यार्थभावः। `स्थाप्यमानाः' इति। लोकायते शास्त्रे पदार्थानां सम्यगवबोधः। `पूजिता भवन्ति' इति। अभिलषितार्थसम्पादनमेव तेषां पूजा। अभिलषितोऽर्थस्तु लोकायते शास्त्रे पदार्थानां सम्यवबोधः। `उत्क्षिपतीत्यर्थः' इति। एतेनोपत्सञ्जनं नयतेरर्थः, न तु तस्य विशेषणमिति दर्शयति। एवं `निश्चिनोतीत्यर्थः' इत्यादिभिरपि ज्ञानादीनां यथासम्भवं नयत्यर्थतां दर्शयतीति वेदितव्यम्। `ईदृशेन' इति। यादृशः शास्त्रोक्तो विधिः, तादृशेनेत्यर्थः। अत्राप्याचार्यकरणं नयत्यर्थस्य फलभावेनैव विशेषणम्। `कर्मकरानुपनयते' इति। अत्र हि भृतिर्हेतुभावेन नयत्यर्थस्य समीपकरणस्य विशेषणम्। `ऋणादेः' इति। आदिशब्देन करशुल्कदण्डादीनां ग्रहणम्। करो नाम राजग्राह्यो भागः कर्षकैः रक्षार्थं परिकल्पितः। `धर्मादिषु' इति। आदिशब्देन कामादिष्वपि।।

37. कर्तृस्थे चाशरीरे कर्मणि। (1.3.37)
`नयतेः कर्त्ता' इति। अर्थद्वारकः सम्बन्धो वेदितव्यः। `तदेकदेशोऽपि शरीरम्' इति। समुदायेषु हि प्रवृत्ताः शब्दाः क्वचिदवयवेष्वपि वर्त्तन्त इति भावः। कथं पुनर्मुख्ये सति गौणस्यापि ग्रहणं लभ्यते ? शरीरग्रहणात्। इह लघुत्वात् कायग्रहणं कर्त्तव्ये यच्छरीरग्रहणं कर्त्तव्ये यच्छरीरग्रहणं करोति तच्छरीरैकदेशोऽपि शरीरश्रुत्या नाम गृह्येतेत्येवमर्थम्। `क्रोधं विनयते' इति। अत्र नयतेर्यः कर्त्ता स हि बुद्धीन्द्रियदेहसमुदायस्वभावो देवदत्तादिः। तत्रैव कर्म क्रोधो वर्त्तत इति कर्त्तृस्थं कर्माशरीरं भवति। एवं गडुं विनयतीत्यादौ गड्वादैः शरीरैकदेशस्य कर्मणः कर्त्तृस्थाभावो वेदितव्यः। अत्र च क्रोधाद्यपगमः क्रियाफलं कर्त्रभिप्राय एवेति ` स्वरितञितः कर्त्रभिप्राये' (1.3.72) इत्यनेनैव सिद्धे नियमार्थमेतद्वचनं वेदितव्यम्-- कर्त्तृस्थे कर्मण्यशरीर एव, नान्यत्रेति।।

38. वृत्तिसर्गतायनेषु क्रमः। (1.3.38)
शेषलक्षणेन क्रमेः परस्मेपदे प्राप्त आत्मेपदं विधीयते। वृत्त्यादयोऽर्था अप्रतिबन्धोत्साहस्फीततासु प्रसिद्धाः।।

39. उपपराभ्याम्। (1.3.39)
`संक्रमति' इति। `क्रमः परस्मैपदेषु' (7.3.76) इति दीर्घः।

40. आङ उद्गमने। (1.3.40)
`आक्रामति माणवकः कुतपम्' इति।अवष्टभ्नातीत्यर्थः। `ज्योतिरुद्गमन इति
वक्तव्यम्' इति। ज्योतिषां ग्रहनक्षत्रादीनामुद्गमन एवात्मनेपदं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- `अनुपसर्गाद्वा' (1.3.43) इत्यतो वाग्रहणमनुवर्त्तते सिंहावलोकितन्यायेन, सा च व्यवस्थितविभाषा; तेन ज्योतिरुद्गमन् एव भविष्यति, नान्यत्रेति। यदि तर्हि `वा' ग्रहणमनुवर्त्तते, उभयोरपि योगयोरनुवर्त्तेत ? मण्डूकप्लुतिन्यायेन नानुवर्तिष्यत इत्यदोषः।

41.वेः पादविहरणे। (1.3.41)
`विक्रामत्यजिनसन्धिः' इति। द्विधा भवति। स्फुटतीत्यर्थः।।

42.प्रोपाभ्यां समर्थाभ्याम्। (1.3.42)
`प्रकर्मते, उपक्रमते' इति। आरभत इत्यर्थः।

43. अनुपसर्गाद्वा। (1.3.43)
`अप्राप्तविभाषेयम्' इति। वृत्यादीनां निवृत्त्वात्।

44. अपह्ववे ज्ञः। (1.3.44)
`शतमपजानीते' इति। `ज्ञाजनोर्जा' (7.3.79) इति जादेशः श्ना, पूर्ववत् `ई हलघोः' (6.4.113) इतीत्त्वम्।।

45. अकर्मकाच्च। (1.3.45)
`कथञ्चायमकर्मकः' इति। एवं मन्यते-- सर्पिरादि ज्ञेयत्वेन विवक्षितं कर्म, अतस्तेन कर्मणा सकर्मक एवायमित्यभिप्रायः। `कथम्' इति। न कथञ्चिदित्यर्थः। तथा चेत्यादिना `नात्र सर्पिरादि कर्मत्वेन, अपि तु करणत्वेन विवक्षितम् इत्यत्र युक्तिमाह-- `सर्पिषोपायेन' इत्यादि। यस्य सर्पिःष्वभिष्वङगो विना तेन भुजिक्रियायामभिलाषो न भवति तस्य भोजने प्रवृत्तिं प्रति सर्पिरुपायभावं प्रतिपद्यत इति तेनोपायेन स प्रवर्तत इति।
`अकर्मकादिति किम्' इति। `नात्र सर्पिरादि ज्ञेयत्वेन विवक्षितम्। किं तर्हि? करणत्वेन' इति ब्रुवता वृत्तिकृता साक्षाच्छब्दोपात्तेन करणेन सकरणादात्मनेपदं भवतीत्युक्तं भवति। एवञ्च सकरणादित्येवं वाच्यम्, किमकर्मकग्रहणेनेति भावः। एवमुच्यमाने करणयुक्तात् सकर्मकादपि स्यादिति दर्शयितुमाह--- `स्वरेण पुत्रं जानाति' इति।।

46. संप्रतिभ्यामनाध्याने। (1.3.46)
`उत्कण्ठास्मरणम्' इति। उत्कण्ठापूर्वकस्मरणमिति। `मातुः' इति। `अधीगर्थदयेशां कर्मणि' (2.3.52) इति षष्ठी।।

47. भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रमेषु वदः। (1.3.47)
`{भासनादिषु विशेषणेषु' इत्येव-काशिका, पदमञ्जरी च।} भासनादिष्वर्थेषु विशेषणेषु' इति। अत्रापि किंस्विद्विशिष्यते वदत्यर्थोऽनेनेति विशेषणम् ? किंस्विद्वदत्यर्थ एव, विशेषणं ह्यर्थान्तराद्विशिष्यते व्यवच्छिद्यत इति कृत्वा ? तत्रोपसम्भाषोपलसान्त्वनमुपमन्त्रणञ्च द्वितीयेनार्थेन वदत्यर्थ एव विशेषणम्। परिशिष्टानि तु भासनादीनि प्रथमेनार्थेन विशेषणानि। `भासनमान' इत्यादिना भासनं वदत्यर्थस्य लक्षणभावेन हेतुभावेन वा विशेषणमिति दर्शयति। तथा ह्यत्र भासमान इति `लक्षणहेत्वोः क्रियायाः' (3.2.126) इत्यनेन शानजादेशो विहितः। `जानाति' इत्यादिना ज्ञानं वदत्यर्थस्य विषयिभावेन विशेषणमिति दर्शयति। ज्ञानेन ह्यसौ वदितुं जानाति। अत्र येन ज्ञानेन वदनं
वदत्यर्थस्य हेतुभावेन तत्र तेनैव विषयेण परिच्छेद्येन विषयीभवति। `तद्विषयम्' इत्यादिना यत्र आविष्करणस्य वदत्यर्थस्य हेतुभावेन विशेषणमित्याचष्टे। उत्साहो ह्याविष्क्रियमाण आदिष्करणक्रियायाः कर्माख्यं साधनं भवति, साधनं च हेतुः; कारकाणां क्रियानिमित्तत्वात्। `विमतिपतिताः' इत्यादिना विमतिर्भाषणस्य वदत्यर्थस्य हेतुभावेन विशेषणमिति दर्शयति। सत्यां विमतौ विचित्रं नानाप्रकारं भाषन्ते। यदि ह्यभिन्ना मतिः स्यादभिन्नमेव भाषेरन्। `उपच्छन्दयति' इति। `भद्रे भजस्य मामिदं ते दास्यामि' इत्येवमादिभिरभिष्टेऽर्थे प्रवर्त्तयतीत्यर्थः।।

48. व्यक्तवाचां समुच्चारणे। (1.3.48)
`प्रसिद्ध्युपसंग्रहार्थम्' इति। यदि तदर्थं व्यक्तवाचामिति नोच्येत,`वरतनु सम्प्रवदन्ति कुक्कुडा {अयि विजहीहि दृढोपगूहनं त्यज नवसङ्गमभीरु वल्लभम्।
अरुणकरोद्गम एष वर्त्तते वरतनु सम्प्रवदन्ति कुक्कुटाः।इत्येवं सयग्रः श्लोकः।}। कुक्कुटाः अपि व्यक्तवाच एव। तथा हि -- कुक्कुटेनापि लपिते विशेषपरिच्छेदादुच्यते- कुक्कुटा लपन्तीति। वरतन्विति तनूशब्दस्य `अम्बार्थनद्योर्ह्रस्वः' (7.3.107) इति ह्रस्वः। ह्रस्वकवचनसामर्थ्यात् `ह्रस्वस्य गुणः' (7.3.108) इति गुणो न भवति। नृणामिति न कृतं वैचित्र्यार्थम्।।

49. अनोरकर्मकात्। (1.3.49)
`अनुवदति' इति। अनुशब्दः पुनरित्यस्यार्थे वर्त्तते। पुनर्वदतीत्यर्थः। यजुषात्र कर्मणा सकर्मकत्वम्।
 
50. विभाषा विप्रलापे। (1.3.50)
`विप्रलापात्मके' इति। परस्परप्रतिबन्धेन विरुद्धः प्रलापो विप्रलापः, स यस्यात्मा स्वभावः स तथोक्तः। `प्राप्तविभाषेयम्' इति। `व्यक्तवाचां समुच्चारणे' (1.3.48) इत्यस्यानुवृत्तेः।

51. अवाद्ग्रः। (1.3.51)
`अवगिरते' इति। `ऋत इद्धातोः' 97.1.100) इतीत्त्वम्, रपरत्वञ्च।

52. समः प्रतिज्ञाने। (1.3.52)

53. उदश्चरः सकर्मकात्। (1.3.53)
`गेहेमुच्वरते' इति। चरिर्गत्यर्थः। `गुरुवचनमुच्चरते' इति। अत्रोत्क्रमणात्मिकायां गतौ वर्त्तमानश्चरतिर्गुरुवचनेन कर्मणा सकर्मकः। `बाष्पमुच्चरति' इति। उपरिष्टाद्‌गच्छतीत्यर्थः। नात्र किञ्चित्कर्म विवक्षितमित्यकर्मकत्वम्।

54. समस्तृतीयायुक्तात्। (1.3.54)
यद्यत्र तृतीयेति गृह्यते, तदेहापि स्यात्-- उभौ लोकौ सञ्चरति इमाञ्चामुत्र देवलेति। अत्रापि तृतीयार्थो गम्यत एव। तपसा श्रुतेन वा विद्यत एवेत्येतच्चेतसि कृत्वाह-- `तृतीया' इति। ` तृतीयाविभक्तिर्गृह्यते' इति। यद्येवं तया सह धातोः सम्बन्धो नोपपद्यते। न हि तृतीय धातुवाच्येत्याह-- `तया' इत्यादि। अर्थो द्वारं मुखमुपायो यस्य स तथोक्तः। तृतीयार्थेन धात्वर्थस्य युक्तवादौपचारिको धातोस्तृतीयीर्थेन योग इति दर्शयति। `यत्रप्यत्र तदर्थेन योगः सम्भवति' इति। विना करणेन क्रियानिष्पत्तेरभावात्, तथापि न भवति। `तृतीय तु' इत्यादि। तृतीयायपुक्तग्रहणं ह्येवमर्थं क्रियते-- श्रूयमाणतृतीययुक्ताद्यथा स्यादिति, अन्यथा सम इत्येवं वक्तव्यं स्यात् ? अनुक्तेऽपि सिद्ध्वतात् तृतीयाप्रयोगस्य। न हि तेन विना क्रियानिष्पत्तिरुपपद्यते। तस्माद्यत्र तृतीया श्रूयते तन्मूलोदाहरणम्, यत्र तु न श्रूयते तत्प्रत्युदाहरणम्।।

55. दाणश्च सा चेच्चतुर्थ्यर्थे। (1.3.55)
कथं पुनस्तृतीया चतुर्थ्यर्थे स्यादिति ? न कथञ्चिदित्यर्थः। तद्विधायिनः शास्त्रस्याभावादिति भावः। `वक्तवयमेवैतत्' इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- तदेव सम्प्रदानं यदा साधकतमत्वेन विवक्ष्यते तदा साधकतमत्वेन विवक्ष्यते तदा चतुर्थ्येऽपि तदा चतुर्थ्येऽपि तृतीया भवति, विवक्षातः कारकाणि भवन्तीति कृत्वा; न तु स्वभाववतः। सा च विवक्षा लौकिकी समाश्रीते, न तु प्रोयोगिकीति। लोके चाशिष्टव्यवहारे एव सा सम्भवति, नान्यत्र। लौकिकविवक्षात्र समाश्रीयत इति अस्यैवार्थस्य द्योतनाय चेच्छब्दः प्रयुक्तः। `दास्या मालां सम्प्रच्छते' इति। यो हि धर्मशास्त्रविरुद्धां दासीं कामयितुं तस्यै मालां ददाति तस्यासावशिष्टव्यवहारो भवतीत्यस्त्यत्राशिष्टव्यवहारः। सम्प्रयच्छत इति पाध्रादिसूत्रेण (7.3.78) दाणो यच्छादेशः। कथमात्मनेपदं भवतीति। न कथञ्चिदित्यर्थः। `तस्मादित्युत्तरस्य' (1.1.67) इत्यत्र निर्दिष्टग्रहणस्यानन्तर्यार्थत्वादिति। एवं मन्यते-- `सम इति विशेषणे षष्ठी' इत्यादि। यदि `समः' इति पञ्चमी स्यान्न षष्ठी, तदा प्रशब्देन व्यवधानादात्मननेपदं न स्यात्; तस्मान्नेयं पञ्चमी, किं तर्हि ? षष्ठी-- समो विशेषणस्य सम्बन्धी यो विशेष्यो दाणिति। ततश्च व्यवहितोऽपि विशेषणविशेष्यभावो भवतीति तेन व्यवधानेऽपि भवत्यात्मनेपदम्।।

56. उपाद्यमः स्वकरणे। (1.3.56)
यदि स्वकरणमात्र आत्मनेपदं भवति शाकटकादिस्वीकारेऽपि स्यादिति चोद्यमपाकर्त्तुमाह-- `पाणिग्रहणम्' इत्यादि। एवं मन्यते-- प्रतिनियतविषया हि शब्दशक्तयो भवन्ति, यस्मादुपपूर्वो यमिरात्मनेपदान्त एवंविध एव स्वीकारे वर्तते; न तु सर्वस्मिन्। तस्मात् पाणिग्रहणात्मकमेव स्वीकरणं गृह्यते। उपयच्छत इति पूर्ववद्यच्छादेशः।।

57. ज्ञाश्रुस्मृदृशां सनः। (1.3.57)
`त्रिभिः सूत्रेः' इति। `अपह्नवे ज्ञः' (1.3.44) इत्यादिभिः। `धर्मं जिज्ञासते' इति। `ज्ञा अवबोधने' (धा.पा.1507), सन्, द्विर्वचनम्, अभ्यासस्य ह्रस्वत्वम्, `सन्यतः' (7.4.79) इतीत्त्वम्। `शुश्रूषशते' इति । श्रु श्रवणे' (धा.पा.942), `इको झल्' (1.2.9) इति सनः कित्तम्, `श्रयुकः किति' (7.2.11) इतीट्प्रतिषेधः, `अज्झनगमां सनि' (6.4.16) इति दीर्घः। `सुस्मूर्षते' इति।`स्मृ आध्याने' (धा.पा.807) ; पूर्ववत् कित्त्वात् `उदोष्ठ्यपूर्वस्य' (7.1.102) इत्युत्त्वम्, रपरत्वम्। `दिदृक्षते' इति। `हलन्ताच्च' (1.2.10) इति कित्त्वम्, ततश्च व्रश्चादिना (8.2.36) षत्वम्, `षढोः कः सि' (8.2.41) इति कत्वम्।।

58. नानोर्ज्ञः। (1.3.58)
`पूर्वेण' इति। अनन्तरसूत्रप्राप्तं यत्तत्प्रतिषिध्यते-- `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा ' (व्या.प.19) इति कृत्वा। `तथा च' इत्यादि। यस्मादनन्तरसूत्रेणआत्मनेपदं ेयत्प्राप्नोति, तस्यायं प्रतिषेधः सम्पद्यते। एवंसति सकर्मकस्यैवायं प्रतिषेधः; अनन्तरसूत्रेण सकर्मकादात्मनेपदविधानात्। अकर्मकाद्धि `अकर्मकाच्च' (1.3.45) इत्यनेन प्रागेवात्मनेपदं विहितमित्यनन्तरातीतो योगः सकर्मकार्थो विज्ञायते; यतश्चैवम्, तेनाकर्मकात् `पूर्ववत्सनः' (1.3.62) इत्यात्मनेपदं भवत्येव-- औषधस्यानुजिज्ञासत इति।।

59. प्रत्याङ्भ्यां श्रुवः। (1.3.59)
`उपसर्गग्रहणञ्चेदम्' इति। कथं श्रुव इति ? विशेषणविशेष्यभावसम्बन्धे षष्ठी। तेनायं सम्बन्धो भवति-- शृणोतेर्यौ विशेषणभूतौ प्रत्याङौ तत्पूर्वाच्छरुवः सम्बन्धात् सन्नन्तादात्मनेपदं न भवति। उपसर्गादेवार्थं द्वारेण शृणोतेर्विशेषणभूताविति सामर्थ्यादुपसर्गयोर्ग्रहणम्। `देवदत्तं प्रति शुश्रूषते' इति। प्रतिशब्दस्य `लक्षणे त्यम्भूताख्यान' (1.4.90) इत्यादिना लक्षणे कर्मप्रवचनीयसंज्ञा, तेन प्रतिना देवदत्त् एव सम्बध्यते; न धात्वर्थ इति।।

60. शदेः शितः। (1.3.60)
यदि `शदेः शितः' इति व्यधिकरणे एते पञ्चम्यावित्यभ्युपगम्यैवं व्याख्यायते-- शदेः परो यः शित् तस्मादात्मेपदं भवतीति, तदा सार्वधातुकाश्रयत्वाच्छितः प्रागेव तदुत्पत्तेर्धातोः शेषत्वादस्य लावस्थायां परस्मैपदं स्यात्, ततस्तन्निमित्तकः व्याचिख्यासुराह-- शदिर्यः शिदिति। एतेन `शदेः शितः' इति समानाधिकरणे एते पञ्चम्याविति दर्शयति। कथं पुनः शदिः शिद्भवति, यावता विकरणस्य शकार इत्संज्ञक इत्संज्ञासम्बन्धी, न तु शदेः ? इत्यत आह-- `शद्भावी' इति। भाविशब्दोऽयम् `भविष्यति गम्यादयः'(3.3.3) इति भविष्यत्कालविषयः। शिद्भावीति यतः शिद्भविष्यति स शिद्भावी।एतदुक्तं भवति-- शिन्निमित्तत्वादुपचारेण शदिः शिदित्युक्तमिति। भवति हि कारणे कार्योपचारात् तथा व्यपदेशः, यथा-- ऩड्वलोदकं पकादरोग इति। शितो वा सम्बन्धी' इति। एतेन `शितः' इत्यस्य षष्ठ्यन्ततां दर्शयति। कः शदेः शित्सम्ब्नधी ? यस्तस्य प्रकृतिः। प्रागपि शितः शदेस्तत्प्रकृतित्वमस्त्येवेति शित्प्रकृतेः शदेरात्मनेपदं भवति। `शीयते' इति। पाघ्रादिसूत्रेण (7.3.78) शीयादेशः।।

61. म्रियतेर्लुङलिङोश्च । (1.3.61)
`नियमार्थमिदं वचनम्'इति। म्रियतेर्लुङलिङोः शित एव यथा स्यात्। यद्येवम्, ङिद्‌ग्रहणं किमर्थम् ? यावताऽन्यत्रात्मनेपदेन न भवितव्यमिति ? उच्यते; स्वरार्थमुपदिश्यते-- मा हि मृतेति लुङि `तास्यनुदात्तेन्ङिदुपदेशाल्ल सार्वधातुकस्य' (6.1.186) इति अनुदात्तत्वे कृते धातोरन्तोदात्तत्वं भवति। `तिङङतिङः' (8.1.28) इति निघातोऽत्र `हि च' (8.1.34) इति प्रतिषिध्यते। अडागमोऽपि `न माङयोगे' (6.4.74) इति। `अमृत' इति। `ह्रस्वाद्ङात्' (8.2.27) इति सिचो लोपः। `मृषीष्ट' इति। आशिषि लिङ, तस्य `लिङाशिषि' (3.4.116) इत्यार्द्धधातुकत्वाद्विकरणाभावः; `सुट् तिथोः' (6.4.107) इति सुट्; वलि (6.1.66) यलोपः। `म्रियते'इति। तुदादित्वाच्छः; `रिङ शयग्लिङक्षु' (7.4.28) इति रिङादेशः, `अचि श्नुधातु' (6.4.77) इत्यादिनेयङ। `मरिष्यति'इति। `ऋद्धनोः स्ये' (7.2.70) इतीट्।।

62. पूर्ववत्सनः। (1.3.62)
`पूर्ववत्' इति। `तेन तुल्यं क्रिया चेद्वतिः' (5.1.115) इति वतिः।. पूर्वशब्दः सम्बन्धिशब्दत्वादवधिमपेक्षते। स चावधिः श्रुतत्वात्सन्नेव विज्ञायत इत्याह-- `सनः पूर्वो यो धातुः' इति। यद्येवम्, अवधिभावोपगम एव सन्ग्रहणस्योपयुक्तत्वात्त सन्नन्तादात्मनेपदं भवतीति, न तत्रैतल्लभ्यते; कुतस्तर्हि स्यात् ? धातुमात्रात्, नैतदस्ति; एवं ह्यात्मनेपदं परस्मैपदानुक्रमणमनर्थकं स्यात्। अथ प्रत्ययान्तात् स्यात् ? एवमपि सन्ग्रहणमनर्थकं स्यात्, पूर्ववत् प्रत्ययादिति वाच्यं स्यात्। तस्मात् पर्त्यासन्नं सनं त्यक्त्वा न युक्त्वा न युक्ताऽन्यन्यस्याश्रुतस्य परिकल्पनेति सन्न्तादेव भवतीति विज्ञायते। `येन' इत्यादिना वत्यर्थमाचष्टे। `तदेव निमित्तम्' इति। अनुदात्तेत्वं ङित्त्वञ्च धात्वन्तरावस्थायामपि सन्नन्ताद्वचनसामर्थ्यान्निमित्तं भवति। `असिसिषते' इति। इटि कृते `अजादेर्द्वितीयस्य' (6.1.2) इति सिशब्दस्य द्विर्वचनम्। `निविविक्षते' इति। `विश प्रवेशने' (धा.पा.1424), पूर्ववत् कित्त्वषत्वकत्वानि। `आचिक्रंसते' इति। आत्मनेपदनिमित्तत्वात् `स्नुक्रमोरनात्मनेपदनिमित्ते' (7.2.36) इतीण् न भवति।
`शिशत्सति', मुमूर्षति'इति। अत्र सनो यः पूर्वो भागः, तस्यात्मनेपदनिमित्तत्वमस्ति; शीयते, म्रियत इत्यात्मनपददर्शनात्। तत आत्मनेपदेन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह-- `इह न भवति' इत्यादि। किं कारणमित्याह-- `न हि' इत्यादि। किं तर्हि ? `शिदाद्यपि'इति। शिच्छब्देनात्र शिद्भावित्वं शित्सम्बन्धित्वञ्चोक्तम्। आदिशब्देन लुङलिङोर्ग्रहणम्, तच्चेह नास्तीति न ह्यत्र सनः पूर्वभागस्य शिद्भावित्वं शित्सम्बन्धित्वं वास्ति; शित्प्रत्ययस्यास्मिन् विषयेऽत्यन्तासम्भवात्, नापि म्रियतेः परौ लुङलिङौ स्तः; तस्मान्नेह शदिम्रियत्योरात्मनेपदनिमित्तत्वमस्तीति न भवत्यात्मनेपदम्।
इह तर्हि कस्मान्न भवति-- अनुचिकीर्षति, पराचिकीर्षतीति ? करोतेर्हि गन्धनादिष्वर्थेष्वात्मनेपदं विहितम्, अतस्त्दविवक्षायां सनन्तादपि तेन भवितव्यमित्याह-- `यस्य च' इत्यादि। गन्धनादिष्वर्थेषु पूर्वत्रासनन्तावस्थायाम् `अनुपराभ्यां कृञः' (1.3.79) इत्यनेन परस्मैपदविधानात् करोतेरात्मनेपदाभावः क्रियते। तस्मादाभ्यां सनन्तादप्यात्मनेपदनिमित्ताभावान्न भवति।
`अथ जुगुप्सते, मीमांसत इत्यत्र कथमात्मनेपदम्, यावता `पूर्ववत्सनः' (1.3.62) इत्युच्यते, न च गुपादिषु सनः प्रागेवात्मनेपदं भवतीति; अतः पूर्ववदित्यतिदेशाभावान्न भवितव्यमात्मनेगदेनेत्यत आह-- `इह' इत्यादि। `जुगुप्सते'इति। `गुप्तिज्किद्भ्यः सन्' (3.1.5) इति सन्। `मीमांसते' इति। `मानबध' (3.1.6) इत्यादिना सन्, अभ्यासस्य `सन्यतः' (7.4.79) इतीत्वे दीर्घः। कथं पुनरिह `अनुदात्तङित आत्मनेपदम्' (1.3.12), यावता गुपादाववयवेऽनुदात्तेत्वं लिङ्गम्, न जुगुप्सादौ समुदाय इत्यत आह -- `अवयवे कृतम्' इत्यादि। यथा गोः कर्णादाववयवे कृतं लिङगं समुदायस्य विशेषकं भवति, तथा गुपादाववयवे कृतमनुदात्तेत्त्वं समुदायस्य जुगुप्स इत्येवमादेर्विशेषक्रं भवति। यद्येवम्, गोपयति, तेजयति, सङ्केतयतीत्येवमादावपि प्राप्नोति, सत्यम्; स्यादेतत्-- अवयवेकृतं लिङगं तस्य समुदायस्य गोर्विशेषकं भवति, यं समुदायं सोऽवयवो न व्यभिचरति; सनन्तं पुनर्न व्यभिचरति; णिजन्तन्तु व्यभिचरतीत्यतोऽत्रात्मनेपदेन न भवितव्यम्; वार्त्तमेतत्, सनन्तमपि व्यभिचरतीति विनापि तेन गोपयतीत्यादौ सम्भवात्। तस्मात् समुदायं यं गुपादिर्न व्यभिचरति, तस्यासम्भवात् सर्वस्य गुपादावयवे कृतमनुदात्तेत्त्वं लिङ्गं समुदायस्य विशेषकं भविष्यति। ततश्च गोपयतिप्रभृतिभ्योऽप्यात्मनेपदं प्राप्नोतीत्येव। एवं तर्हि `निगरणचलनार्थेभ्यश्च' (1.3.87) इत्यत्र चकारोऽनुक्तसमुध्चयार्थः क्रियते। तेन गुपादिभ्यो ण्यन्तेभ्यः परस्मैपदात्मनेपदापवादो भविष्यति।।

63. आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य। (1.3.63)
`आम्प्रत्ययवत्'इति। `तत्र तस्येव' (5.1.116) इति षष्ठीसमर्थाद्वतिः। `कृञोऽनुप्रयोगस्य' इति समानाधिकरणे षष्ठ्यौ। `ईक्षाञ्चक्रे' इत्यादि। `ईक्ष दर्शने' (धा.पा.610), `ईह चेष्टायाम्' (धा.पा.632), `ऊह वितर्के' (धा.पा.648) लिट्, `इजादेः' (3.1.36) इत्यादिऽऽनाम्, `आमः' (2.4.81) इति लेर्लुक्; प्रातिपदिकत्वात् सुप प्राप्तः; सुः, स्वरादित्वादव्ययत्वात् सुब्लुक्, `कृञ्च' (3.1.40) इत्यादिना कृञो लिट्परस्यानुप्रयोगः। `अकर्त्रभिप्रायायर्थोऽयमारम्भः' इति ब्रुवता विध्यर्थमेतदित्युक्तं भवति। तत्रास्मिन्विध्यर्थे यो दोषस्तमुद्भावयितुमाह-- `यदि' इत्यादि। `उदुब्जाञ्चकार' इति। `उब्ज आर्जवे'(धा.पा. 1303), उत्पूर्वाल्लिट्, पूर्ववदाम्। `परस्मैपदानाम्' (3.4.82) इत्यादिना तिपो णल्। `उदुम्भाञ्चकार' इति। `उभ उम्भ पूरणे' (धा.1319, 1320) `उभयम्' इत्यादिना परिहारः। `कथम्'इति ? एकेन प्रयत्नेनाशक्यमेतदुभयं कर्त्तुमित्यत आह-- `पूर्ववत्' इत्यादि। नैवात्रेको यत्नः, किं तर्हि ? द्वौ-- `आम्प्रत्ययवत्' इत्येको यत्नः,पूर्ववद्ग्रहणमनुवर्त्तमानं द्वितीयः। तत्र पूवण यत्नेन विधिः क्रियते, इतरेण नियमः। यद्यनुप्रयोगस्य कृञ आत्मनेपदं भवति, पूर्ववदेव; नान्यथा। तेनोदुब्जाञ्चकारेत्येनमादौ न भवति। न ह्युब्जादीनामात्मनेपदं सम्भवति, परस्मैपदित्वात्।
`ईक्षामास' इति। आम्, अस्तेरनुप्रयोगः। `ईक्षाम्बभूव' इति। `भवेतरः' (7.4.73) `कृञ्च' (3.1.40) इत्यत्र करोतेरेव ग्रहणमित्यभिप्रायेणाह-- `कथं पुनः' इत्यादि। `कृञिति प्रत्याहारग्रहणम्' इत्यादि। तत्र प्रत्याहरे।डस्तिभवत्योरपि सन्निदेशः। ्तस्तयोरप्यनुप्रयोगो भवतीति भावः। यद्यवम्, सम्पदोऽप्यनुप्रयोगः प्राप्नोति,तस्यापि तत्र सन्निवेशोस्त्येव; `अभिविधौ सम्पदा च' (5.4.53) इति वचनात्। सत्यपि सन्निवेशे नासौ प्रत्याहारग्रहणन गृह्यत इत्यदोषः। यथा तस्याग्रहणं ततोत्तरत्र प्रस्तावान्तरे प्रतिपदायिष्यामः। अथाम्प्रत्ययवदिति किम् ? असति हि तस्मिन्ननुप्रयोगमात्रस्यात्मनेपदं स्यात्-- देवदत्तः करोतीति ? अत्रापि पूर्ववदित्यनुवर्त्तते। तथापीह स्यात्-- ईहते, करोतीति ? `आम्प्रत्ययम्' इत्युच्यमाने प्रत्यासत्तेराम एवानुप्रयोगस्येति गम्यते, नानुप्रयोगमात्रे, तेनातिप्रसङ्गो न भवति।।

64. प्रोपाभ्यां युजेरयज्ञपात्रेषु। (1.3.64)
`युज समाधौ'(धा.पा.1177) इत्यस्यानुदात्तेत्त्वात् सिद्धमात्मनेपदमित्यतस्तस्येह ग्रहणमयुक्तमित्यभिप्रायेणाह-- `युजिर् योगे' इति। `प्रयुङ्कते' इति। रुधादित्वात् `श्नसोरल्लोपः' (6.4.111) इत्यकारलोपः। `चोः कुः' (8.2.30) इति कुत्वम् = जकारस्य गकारः, `खरि च' (8.4.55) इति चर्त्त्वम् = ककारः, `नश्च' (8.3.24) इत्यादिनाऽनुस्वारः, `अनुस्वारस्य ययि परसवर्णः' (8.4.58) इति ङकारः।
`स्वराद्यन्तोपसृष्टाविति वक्तव्यम्' इति। स्वरोऽज् आदिरन्तो वा यस्य स स्वराद्यन्तः, तदुपसृष्टात् = तत्सम्बन्धाद्युजेरात्मनेपदं भवति-- इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्- इह सूत्रे प्रशब्दोऽजन्तोपसर्गलक्षणार्थः, उपशब्दोजाद्युपलक्षणार्थः, उपशब्दोऽजाद्युपलक्षणार्थः, तेन सर्वेणाजन्तेनाजादिना चोपसर्गेण चयुक्ताज्युजेरात्मनेपदं भवतीति। स्वराद्यन्तोपसृष्टादिति किम् ? निर्युनक्ति।।

65. समः क्ष्णुवः। (1.3.65)
`अकर्मकादिति तत्रानुवर्त्तते' इति। सकर्मकादपि क्ष्णुव आत्मनपदमिष्यत इति मन्यते। अत एव सकर्मकस्योदाहरणमुपन्यस्तम्। `संक्ष्णुते शस्त्रम्' इति। अदादित्वाच्छपो लुक्। `संक्ष्णुवाते' इति। `अचि श्नुधातु' (6.4.77) इत्यादिनोवङ। `संक्ष्णुवते' इति। पूर्ववदादेशः।

66. भुजोऽनवने। (1.3.66)
`अवनप्रतिषेधेन' इत्यादि। अवनं पालनम्। तत्प्रतिषेधेन रौधादिकस्य भुजेर्ग्रहणं विज्ञायते; न तौदादिकस्य-- `{भुजौ-- धातुपाठः} भुज कौडिस्ये' (धा.पा.1417) इत्यस्य। यथैव हि सवत्सा धेनुरानीयतामित्युक्ते यस्या हि वत्सेन सह सम्बन्धः सम्भवति सैव गोधेनुरानीयते, न महिष्यादिधेनुः; तथेहाप्यवनप्रतिषेधेन यस्य भुजोऽनवने वृत्तिः सम्भवति, स एव रौधादिकः प्रतीयते; तस्मात् तस्यैव ग्रहणं विज्ञायते। तेन निर्भुजति, विभुजतीति तौदादिकस्यात्मनेपदं न भवति।।

67. णेरणौ यत्कर्म णौ चेत्स कर्त्तानाध्याने। (1.3.67)
`आरोहन्ति हस्तिनं हस्तिपकाः' इति। अणौ कर्मप्रदर्सनार्थमेतदुक्तम्। इदं त्वत्रोदाहरणम्-- `आरोहयते हस्ती स्वयमेव' इत। आरोहन्ति हस्तिनं हस्तिपका इत्यत्राङपूर्वस्य तु `रुह बीजजन्मनि प्रादुर्भावे' (धा.पा.859) इत्यस्य द्वे क्रिये वाच्ये-- न्यगम्भवनम्, न्यग्भावनञ्च। तत्र न्यग्भवनस्य हस्ती कर्त्ता, न्यगम्भावनस्य हस्तिपका इति। न्यग्भवन्तं हस्तिनं न्यग्भावयन्तीत्यर्थः। स यदा तु सुशिक्षितत्वात् सुविधेयत्वाच्च न्यग्भावनक्रियायामत्यन्तमानुकूल्यं प्रतिपद्यते हस्ती स्वयमेव; तदासौ हस्ती हस्तिपकान् प्रति प्रयोजनकत्वेन विवक्ष्यते, हस्तिपकास्तु प्रयोज्यत्वेन। हस्ती हस्तिपकान् प्रयुङ्क्ते-- मामारोहतेति, ततश्च प्रयोज्यप्रयोजकभावे विवक्षिते हेतुमण्णिच्। एवमुत्तरत्रापि कर्मणः कर्त्तृत्वस्य विवक्षितत्वात् प्रयोजकभावविवक्षायां णिज्विधेयः। ततस्तस्मिन्नुत्पन्ने यदा निर्ज्ञातस्वरूपत्वाच्चरितार्थत्वात् प्रयोज्या न विवक्ष्यन्ते, तदा निवृत्तत्वात् प्रयोज्यप्रयोजकभावस्य न्यग्भवनमात्रे रुहिर्वर्तते। अत्रेदमुदाहरणम्-- आरोहयते हस्ती स्वयमेवेति। तथा हि यदेवाण्यन्ते कर्मासीत् स एव ण्यन्ते हस्ती कर्त्ता भवति। न च प्रयोज्यप्रयोजकभावे निवृत्तेऽपि णिचो निवृत्तिर्भवतिः निवृत्तिकारणाभावात्। यथैव हि देवदत्तस्य व्यापारे निवृत्तेऽपि पचिः पाकान्न निवर्त्तते-- पच्यत ओदनः स्वयमेवेति, तथेहापि निवृत्ते प्रयोज्यप्रयोजकव्यापारे णिचो निवृत्तिर्न भवतीति वेदितव्यम्।
`सिञ्चन्ति' इत्यादि। अत्रापि सिच्यमानो हस्ती कर्म यदा सुशिक्षितत्वात् सुविधेयत्वाच्च सेचनक्रियां प्रति प्रकृष्टमानुकूल्यं भजते, तदा तस्य प्रयोजकत्वे विवक्षिते हस्तिपकानाञ्च प्रयोज्यत्वे णिच्। तत्र कृते पूर्ववत् प्रयोज्येष्वविवक्षितेषु यदेवाण्यन्ते कर्म स एव ण्यन्ते कर्त्ता भवति। `पश्यन्ति' इत्यादि। अत्रापि दृश्यमानस्य राज्ञः दर्शनक्रियायामतिशयेनानुकूल्यभावोपगमनात् प्रयोजकत्वे विवक्षिते भृत्यानाञ्च प्रयोज्यत्वे णिच्। तत्र विहिते पूर्ववत् प्रयोज्याविवक्षायां यदेव दृशेरण्य्नते कर्म राजा, स एव ण्यन्ते कर्त्ता। क्रियपि च सर्वेष्वेतेषूदाहरणेषु यैवाण्यन्तावस्थायाम्, सैव ण्यन्तेऽपि। सत्यपि च णिचि प्रयोज्यप्रयोजकभावस्य निवर्त्तितत्त्वात् क्रियान्तरस्य चानुत्पत्तेः।
`गणयति' इत्यादि। `गण संख्याने' (धा.पा.1853) चनुरादवदन्तः पठ्यते। ततो णिच् , `अतो लोपः' (6.4.48) इत्याकारलोपः। तस्य पूर्वविधौ कर्त्तव्ये स्थानिवद्भावात् `अत उपाधायाः' (7.2.116) ति वृद्धिर्न भवति। `गणयति गोगणं गोपालकः। गणयति गणः स्वयमेव' इति। अत्र स गण्यमानो यदा गणनं प्रत्यानुकूल्यं भजमानः प्रयोजकत्वेन विवक्ष्यते, गोपालकस्तु प्रयोज्यत्वेन; तदा हेतुमण्णिच्। तस्मिन् कृते पूर्ववत् प्रयोज्याविवक्षायां यदेव कर्म स एव कर्त्ता भवति। तथाप्यणाविति वचनादात्मनेपदं न भवति; न हि गणःप्रागणौ कर्मासीत्, किं तर्हि ? ण्यन्त एव। ननु च "अणावकर्मकाच्चित्तवत्कर्तृकात्' (1.3.88) इत्यत्र `अणौ' इति किम् ? चेतयमानं प्रयोजयति चेतयते इति केचित् प्रत्युदाहरन्ति" इत्युक्त्वा प्रत्युदाहरन्ति" इत्युक्त्वा वृत्तिकारो वक्ष्यति, तदयुक्तम्, `हेतुमण्णिचो विधिः। प्रतिषेधोऽपि प्रत्यासत्या तस्यैव न्याय्यः'इति, तच्चेत्, सत्यम्, गणयति गोगणं गोपालकः, गणयति गोगणः स्वयमेवेत्येतदपि प्रत्युदहारणमयुक्तमेव स्यात्, नैतदस्ति; भेदस्याविवक्षितत्वात्। यदि हि भेदो विवक्ष्यते, तदा हेतुमण्णिचो विधिरिति प्रतिषेधोऽपि प्रत्यासत्तेस्तस्यैव स्यात्, न हि विप्रकृष्टस्य चुरादिणिचः।९न चेह भेदो विवक्षितः, `णेः'इति जातिनिर्देशात्। तस्माण्णिज्मात्रविधिः, अतः प्रितिषेधोऽपि णिज्मात्रस्यैव स्यदिति युक्तमेतत् प्रत्युदाहरणम्। `अणावकर्मकात्' (1.3.88) इत्यादौ सूत्रेऽणाविति हेतुमण्णिच एव ग्रहणम्। अत एव हेतुमण्णिच एव विधिरिति प्रायासत्तेस्तस्यैव प्रतिषेधो युक्तः। यथा तत्र हेतुमण्णिचो ग्रहणं तथा तत्रैव प्रतिपादयिष्यामः। न चात्र तथाविधं किञ्चिन्निबन्धनमस्ति, यतो णेरिति हेतुमण्णिच एव ग्रहणमवसीयते; चौरादिकानामप्यनित्यण्यन्तत्वात्, विभाषितणिचां च केषाञ्चिद्विद्यमानत्वात् येषामण्यन्तानामेव यत् कर्म, तेषामेव चुरादिणिजन्तानां तस्यैव कर्त्तृत्वसम्बवात्। तस्मादिह णेरिति णिज्मात्रस्य ग्रहणं सूत्रकारस्याभिमतमिति लक्ष्यते।
अथ गणयति गोगणः स्वयमेवेत्यत्र `कर्मवत् कर्मणा तुल्यक्रियाः'(3.1.87) इत्यतिदेशात् कस्मादात्मनेपदं न भवति ? कर्त्तृस्थभावकत्वात्। अत्र हि गणयतिरयं संख्यानिमित्ते परिच्छेदे ज्ञानविशेषे वर्त्तते, यस्य हि संख्यानमित्याख्या। स च ज्ञाविशेषः कर्त्तरि वर्त्तते; तत्र तस्य समवेतत्वात्, न कर्मणि। तस्मात् कर्त्तृस्थभावकत्वादिहात्मनेपदं न भवति। कर्मस्थक्रियाणां कर्मस्थभावकानाञ्च कर्मवद्भावातिदेशेनात्मनेपदमिष्यते, नेतरेषाम्।
`लुनाति दात्रेण' इत्यादि। दात्रस्य तीक्ष्णतया करणस्यापि सतो विशिष्टव्यापारभूतत्वाल्लावकपुरुषान् प्रति प्रयोजकत्वविवक्षायां णिच्।
`णौ चेद्‌ग्रहणम्' इत्यादि। इह णौ चेदिति यत् कर्म स कर्त्तेत्येतावत्युच्यमानेऽणौ यत् कर्म तस्य सामर्थ्याण्णावेव कर्त्तृत्वं विज्ञायत इति किं णौ चेदित्यनेन ? तदैतण्णौ चेद्‌ग्रहणं क्रियमाणं समानक्रियार्थं विज्ञायते-- यदि यैव कर्मावस्थायां क्रिया, सैव कर्त्रवस्थायां भवतीति। एतदुक्तं भवति-- यस्यैव धात्वर्थस्य य्तकर्म तस्यैव यदि तत् कर्त्तृत्वेन विवक्ष्यत एवमात्मनेपदं भवति; नान्यथेति। तेन `आरोहन्ति हस्तिनं हस्तिपकाः, आरोह्यमाणो हन्ती भीतान् सेचयति मूत्रेण' इत्यत्र सेचयतेरात्मनेपदं न भवति; भिन्नत्वात् क्रियायाः। तथा हि, न्यग्भावनक्रियायां प्राक् ह्सती कर्मत्वेन विवक्षितः, सेचनक्रियायां तूत्तरकालं कर्त्तृत्वेन। `यत्सग्रहणमनन्यकर्मार्थम्' इति. अण्यन्ते यत्कर्म ण्यन्तेऽपि यदि तदेव कर्म कर्त्ता भवति न कर्मान्तरम्, एवमात्मनेपदं भवति; नान्यथा। ननु विप्रतिषिद्धमेतत्-- एकस्यैवैकदा कर्मत्वं कर्त्तृत्वञ्च ? नैतद्विप्रतिषिद्धम्; एको हि वस्तुधर्मः, अपरश्च विवक्षाधर्मः, स्वातन्त्र्यविवक्षायां कर्त्तृत्वस्य विवक्षाधर्मत्वात्त वस्तुध्रमत्वाच्चारुह्यमाणताय कर्मत्वम्। `स्थलमारोहयति मनुष्यान्' इति। अत्र कर्मान्तरमप्यस्ति। मनुष्यानिति न केवलं हस्त्येवेति न भवत्यात्मनेपदम्। यद्येवम्, भीतान् सेचयति मूत्रेणेत्यत्र कर्मान्तरसद्भावादात्मनेपदं न भविष्यति; अस्ति ह्यत्रापि कर्मान्तरम्-- भीतानिति; अतो न वक्तव्यम्-- समानक्रियार्थं णौ चेदित्येतत् ? नैतदस्ति, न हि भीतानिति सेचयतेः कर्म किं तर्हि ? आरोहयतेः। भीतानाराहयमाणः सन् मूत्रेणात्मानं सेचयतीत्यर्थः; अयुक्तमेतत्, एवं ह्यारोह्यमाण इत्यत्रात्मनेपदं शानच्च न स्यात्, कर्मान्तरसद्भावात्। नैवं तर्हि शानजेवात्र विहितः किं तर्हि ? `ताच्छील्यवयोवचनशक्तिषु' (3.2.129) चानश्‌प्रत्ययः। तत्र यदि समानक्रियार्थं णौ चेद्ग्रहणं न क्रियेत, तदा यदेवारोहयतेरण्यन्ते कर्म, स एव हस्ती सेचयतेर्ण्यन्ते कर्त्ता भवतीति तदेव कर्म, स एव कर्त्तेति स्यादेवात्मनेपदम्। तस्माण्णौ चेद्ग्रहणं समानक्रियार्थं कर्त्तव्यम्।
`कर्त्तेति किमि' इति। कर्त्तर्येवात्मनेपदमनेन विधीयते; भावकर्मणोः (1.3.13) इत्मनेनैव सिद्धत्वात्। तस्मात् सामर्थ्यलब्धः कर्त्तेत्यभिप्रायः। कर्त्तृग्रहणं येवाण्यन्ते कर्म तस्मिन्नेव ण्यन्ते कर्त्तृत्वेन विवक्षिते सत्येवात्मनेपदं भतवि, नान्यथेत्येवमर्थ क्रियत इति दर्शयितुमाह-- `आरोहन्ति हस्तिनं हस्तिपकाः, तानारोहयति महामात्रः' इति। अत्र यदेवाण्यन्ते हस्ती कर्म न तदेव ण्यन्ते कर्त्तृत्वेन विवक्षितम्, किं तर्हि ? महामात्रः, तेनात्मनेपदं न भवति। एतच्च कर्त्तृग्रहणाल्लभ्यते; तस्यानन्यार्थत्वात्। ननु च यत्सग्रहणमनन्यकर्मार्थमित्यक्तम्, इहच कर्मान्तरं हस्तिपकाख्यमस्त, अतो यत्सग्रहणादेव न भविष्यति, तत् किमेतन्निवृत्त्यर्थेन कर्त्तृग्रहणेन ? नैतदस्ति;एवं सति हि कर्तृग्रहणेऽणौ यत्कर्म णौ चेत् स कर्त्ता तदेव कर्म कर्त्ता भवतीत्यस्यार्थस्यच प्रतिपादनाय क्रियमाणं यत्सग्रहणमर्थवद्भवतीति । असति तु कर्त्तृग्रहणे तन्न कर्त्तव्यमेव स्यादिति कुतः समानकर्मता प्रतीयते।
`स्मरति वनगुल्मस्य' इति। अणौ कर्मप्रदर्शनार्थमेतत्। कर्मविषयेण शेषत्वेन विषयिणा विषयं दर्शयितुमुक्तम्। नन्वत्र न कर्मास्ति; तस्य शेषत्वेन विवक्षितत्वात्। तथा हि `शेषे' (2.3.50) इत्त्यनुवर्त्तमाने `अधीगर्थ' (2.3.52) इत्यादिना कर्मणि शेषत्वेन विवक्षिते षष्ठीयं विहिता। तस्मादेदं दर्शयितव्यम्,-- स्मरति वनगुल्ममिति। अथ वा-- यद्यपि तच्छेषत्वेन विवक्षितम्, तथापि स्मर्यमाणत्वात् तस्य कर्मत्वं वस्तुतोऽस्त्येवेति। `स्मरयति' इति। `स्मृ आध्याने' (धा.पा.807), वनगुल्मस्य प्रयोजकत्वे विवक्षिते णिच्, घटादित्वान्मित्संज्ञा, `मितां ह्रस्वः' (6.4.92) इति ह्रस्वत्वम्। `एनम्' इति। `गतिबुद्धिप्रत्यवसानार्थ' (1.4.52) इत्यादिना कर्मसंज्ञायां सत्याम्, `द्वितीया टौस्त्वेनः' (2.4.34) इत्येनादेशः। ननु च यत्सग्रहणमनन्यकर्मार्थम्, इह च कर्मानतरमस्ति कोकिलः, ततश्च कर्मान्तरसद्भावादात्मनेपदं न भविष्यतीति किमेतन्निवृत्यर्थेनानाध्यानग्रहणेन ? नैतदस्ति; आध्यानामात्रं विवक्षित्येदं प्रत्युदाहरणमुपन्यस्तम्। एनम इति तु वचनं वनगुल्मः कर्त्ता न कोकिल इत्यर्थोपदर्शनपरं वेदितव्यम्। एवं वनगुल्मं वनगुल्मो स्मरयति। आत्मानमात्मना स्मरयतीत्यर्थः। णिच्युत्पन्ने
कोकिलस्य प्रयोज्यस्य विवक्षितत्वान्निवृत्ते प्रयोज्यप्रयोजकभावे स्मरयतेर्ण्यन्तस्य प्रकृत एवार्थो भवति। ननु च स्मरणं चेतनावतां धर्मः, वनगुल्मश्चाचेतनः, तत् कथमसौ स्मरेत् ? नैतदस्ति; अचेतनेष्वपि चेतनावद्धर्मोपचारः-- यथा नदीकूलं पिपतिषतीति। `रुहुः कर्त्तस्थक्रियः' इति। तदर्थस्य न्यग्भावनात्मनो हस्तिपकेषु समवेतत्वात्। `दृशिश्च कर्त्तस्थभावकः' इति। तदर्थस्य दर्शनस्य कर्त्तृषु भृत्येषु व्यवस्थित्वात्।।

68. भीस्म्योर्हेतुभये। (1.3.68)
`हेतुभये'इति। हेतोर्भयं हेतुभयमिति। `पञ्चमी भयेन' (2.1.37) इति समासः। भीतिर्भयम् = त्रासः, अनिष्टापाताशङ्का। `ततश्चद्भयं भवति' इति। यदि ततो हेतुसंज्ञकात् प्रयोजकाद्भयं भवत्येवमात्मनेपदं भवति, नान्यथेति। यद्येवम्,स्मयत्यर्थो न विशेषितः स्यात्; यस्माद्भयं बिभेतेरेवार्थो न स्मरतेः, ततश्च रूपेण विस्माययतीत्यवमादावप्यात्मनेपदं स्यात्। मुण्डो विस्मापयत इत्यादौ न स्यादित्यत आह-- `भयग्रहणम्' इत्यादि। भयग्रहणं हि धात्वर्थोपलक्षणार्थम्। धात्वर्थश्चेत् प्रयोजकाद्भवतीत्ययमर्थो विवक्षितः।तेन विस्मयोऽपि यदि तत एव हेतोर्भवति यद्येषोऽर्थो लभ्यत इति स्मयत्यर्थोऽपि विशेषित एव। विस्मयः = आश्चर्यम्। `मुण्डः' इति। मुण्डगुणोपेतत्वान्मुण्डः। `भीषयते' इति। `ञिभी भये' (धा.पा.1084),`विभाषा लीयतेः' (6.1.51) इत्यतो विभाषाग्रहणानुवृत्तेः `बिभेतेर्हेतुभये' (6.1.56) इति पक्ष आत्त्वम्। `भियो हेतुभये षुक्' (7.3.40) इति षुक्। `विस्मापयते' इति। `{ष्मिङ'-धातुपाठः} स्मिङ ईषद्धसने' (धा.पा.948)। `नित्यं स्मयतेः' (6.1.57) इत्यात्त्वम्;`अर्तिह्री' (7.3.36) इत्यादिना पुक्।
`कुञ्चिकयैनं भाययति' इति। करणादत्र भयम्, न हेतोः प्रयोजकात्। तेनात्मनेपदं न भवति। षुगप्यत्र न भवति, स हीकारान्तस्यैवेष्यते, `भियो हेतुभये षुक्' (7.3.40) इत्यत्र भी ई-- इतीकारप्रश्लेषनिर्द्देशात्। `रूपेण विस्माययति' इति। अत्र करणादेव विस्मयः;न हेतोः।।

69. गृधिवञ्च्योः प्रलम्भने। (1.3.69)

70. लियः सम्माननशालीनीकरणयोश्च। (1.3.70)
`विशेषाभावात्' इति। कतं पुनर्विशेषभावः, यावता निरनुबन्धकत्वं सानुबन्धकत्वञ्चानयोर्विशेषोऽस्त्येव,ततश्च `निरनुबन्धकग्रहणे न सानुबन्धकस्यट (व्या.प.ा53) इत्यनया पिरभाषाय न लीङो ग्रहणेन भवितव्यम्। तदयुक्तमुक्तं विशेषाभावाद्‌द्वयोरपि ग्रहणमिति ? नैष दोष-, उत्सृष्टानुबन्धको हि लीह ल्यन्तो भवति। उत्सृष्टे चानुबन्धे द्वयमेवाभेदकं भवति-- अर्थः, शब्दान्तरत्वञ्च। तत्रार्थस्तावदनयोरेक एव, शब्दान्तरत्वमपि नास्ति। शब्दान्तरत्वञ्च प्रकृतिबेदविकरणभेदाभ्यां भवति। न चानयोर्ण्यन्तयोः प्रकृतिभेदःष नापि विकरणभेदोऽस्ति;शब्विकरणत्वात्। यदपि `विभाषा लीयतेः' (6.1.51) इत्यात्त्वं तदप्युभयोर्भवति। तथा च वक्ष्यति-- `किमिदं लीयतेरिति ? लीनातिलीयत्योरागन्तुकेन यका निदशः' इति। `न्यग्भावम्' इति। अभिभवनमित्यर्थः। `जटाभिः' इति। हेतौ तृतीया। जटा हि पूजाद्यधिगमहेतुभूताः। तथा हि-- यस्य जटाः सन्ति लोके महानयं तपस्वी्तयुपजातसम्प्रत्ययैः पूज्यते।।

71. मिथ्योपपदात्कृञोऽभ्यासे। (1.3.71)
`मिथ्योपपदात्' इति। उपोच्चारितं पदमुपपदम्, मिथ्याशब्द उपपदं यस्य स तथोक्तः। `पदं मिथ्या कारयते' इति। अत्रात्मनेपदानाभ्यासस्य द्योतितत्वात् `नित्यवीप्सयोः' (8.1.4) इसि द्विर्वचनं न भवति। `सापचारम्' इति। सदोषम्। अनेन मिथ्याशब्दस्यार्थमाचष्टे। `स्वरादिदुष्टम्' इति। पूर्वस्यैवार्थं व्यक्तीकरोति। आदिशब्देन रूपस्य परिग्रहः। `असकृत्' इति। अभ्यासशब्दार्थमुदाहरणेन दर्शयति।।

72. स्वरितञितः कर्त्रभिप्राये क्रियाफले। (1.3.72)
`कर्त्रभिप्राये' इति। कर्त्तारमभिप्रैतीति `कर्मण्यण्' (3.2.1)। यदि सामान्येन यत्र क्रियाफलं कर्त्तारमभिप्रैति तत्रात्मनेपदम्, तदेहापि स्यात्-- पचन्ति पाचकाः, यजन्ति याजका इति। तथा ह्यत्र क्रियाफलं दक्षिणा याजकान् कर्त्तृनभिप्रैति, भृतिश्च पाचकानित्यत आह-- `क्रियायाः फलम्' इत्यादि। प्रधानभूतं यत्फलं क्रियायास्तदिह गृह्यते। न च दक्षिणादिकं क्रियाफलं प्रधानभूतम्, ततो न भवत्यतिप्रसङ्गः। किं पुनस्तत्प्रधानभूतमित्यत आह- `यदयर्थम्' इत्यादि। एतेन यदुद्दिश्यासौ यागादिक्रियारभ्यते, न तु दक्षिणाद्यर्थम्। `यदर्थम्' इति। स्वर्गादि, न तु दक्षिणादि। तथा हि स्वर्गाद्यर्थं यागादिक्रियारभ्यते, न तु दक्षिणाद्यर्थम्। `यदर्थम्' इति। क्रियाविशेषणमेतत्। यच्छब्देन क्रियायाः प्रधानभूतं फलं निर्दिश्यते। यदर्थः प्रयोजनं यस्य क्रियारम्भस्य फलमात्रस्य ग्रहमभिप्रेतं स्यात्, तदा फलग्रहणमनर्थकं स्यात्; व्यवच्छेद्याभावत्। नास्त्येव हि स विषयो यत्र क्रियाफलं कर्त्तारं नाभिप्रैति; ततश्च कर्त्रभिप्राये क्रियाया इत्येदं ब्रुयात्। एवमप्युक्ते षष्ठ्या क्रियायाः सम्बन्धिनि कर्त्रभिप्राये प्रत्यायिते सामर्थ्यात् फमलेव क्रियायाः कर्त्रभिप्रायं गम्यते। न हि फलान्यत् क्रियासम्बन्धि कर्त्तारमभिप्रैति। तस्मात् फलग्रहणसामर्थ्यात् प्रधानं फलं गृह्यते। अथ वा-- प्रधानत्वादेव प्रधानं फलं गृह्यते। तथा चोक्तम्-- प्रधाने कार्यसम्प्रत्ययात् सिद्धमिति। अस्मिन् व्याख्याने फलग्रहणं स्पष्टार्थम्, कर्तर्यात्मनेपदविधानात्। प्रत्यासत्तर्यस्तस्य वाच्यः कर्त्ता यदि तस्यैव तत् फलं भवतीति विज्ञायत इत्याह-- `तच्च' इत्यादि। गतार्थम्। `स्वर्गादि' इति। आदिशब्देनौदनादिकमपि गृह्यते।
`तथापि' इत्यादिना दक्षिणादेः फलस्याप्रधान्यं दर्शयति। यदर्थं सा क्रियारभ्यते तत्प्रधानमिहोपात्तं फलम्। स्वर्गाद्यर्थं च यागादिक्रियाऽऽरभ्यते; न दक्षिणाद्यर्थम्। अतोऽप्रयोजकत्वात्तदप्रधाम्। तेन यद्यपि तत् कर्त्तारमभिप्रैति तथाप्यात्मनेपदं न भवति।
अथाभिप्रग्रहणं किमर्थम् ? विप्रकृष्टेऽपि फले यथा स्यात् द्विविधं हि क्रियाफलम्-- आसन्नम्, विप्रकृष्टञ्च। तत्रासन्नम्-- यस्य व्यापारानन्तरमेव निष्पत्तिः। विप्रकृष्टन्तु-- उपरतेषु व्यापारेषु यन्निमित्तान्तरमपेक्ष्य कालविप्रकर्षकृतं संस्कारपरिपाकाच्चिराद्भवति। तत्राद्यमासन्नत्वात् दृष्टत्वादुत्पत्तिं प्रत्यव्यभिचाराच्च प्रधानमम्। इतरत् पुनर्विप्रकृष्टत्वादनुमेयत्वात् सम्भवव्यभिचाराच्चोत्पत्तिं प्रति व्यभिचारः। यद्यपि तदुद्दिश्य क्रियारम्भात् तदपि प्रधानम्, तथाप्यविप्रकृष्टफलापेक्षया तस्याप्राधान्यमस्त्येव। तत्र यद्यभिप्रग्रहणं न क्रियेत, तदा लुनीत पुनीत इत्यादावेव स्यात्-- यत्राविप्रकृष्टं क्रियाफलम्। यजते इत्यादौ तु न स्यात्-- यत्र विप्रकृष्टं स्वर्गादिकं क्रियाफलम्, प्रधाने कार्यसम्प्रत्ययात्। अभिग्रहणे तु न दोषः; यस्मादभिराभिमुख्ये वर्त्तते, प्रशब्दसत्त्वारम्भे। तेन प्रारम्भमात्रस्याभिमुख्ये फलनिष्पत्तौ बुद्धावाश्रीयमाणायां सर्वत्र सिद्धं भवति। ननु चासत्यभिप्रग्रहणे प्रकृतीनां यजिप्रभृतीनामनुबन्धविशेषासञ्जनादेव विप्रकृष्टेऽपि फले भविष्यतिच अन्यथा हि तस्य वैयर्थ्यं स्यात्, न; अभिचारादौ यत्राविप्रकृष्टं फलं दृष्टमस्ति तत्र तस्य सार्थकत्वात्। तस्माद्विप्रकृष्टेऽप्यप्रधाने फले स्यादित्येवमर्थमिप्रग्रहणं कर्त्तव्यमेव।।

73. अपाद्वदः। (1.3.73)
`न्यायपवादेन' इत्यादिना येनाभिप्रायेण धनकामो न्यायमपवदते तं दर्शयति।।

74. णिचश्च। (1.3.74)

75. समुदाङ्‌भ्यो यमोऽग्रन्थे। (1.3.75)
`उद्यचछति' इति। `चिकित्सा वैद्यः' इति। चिकित्साशास्त्रमधिगन्तुमुद्यमं करोतीत्यर्थः।।

76. अनुपसर्गाज्ज्ञः। (1.3.76)
नास्योपसर्गाः सन्तीति बहुव्रीहिः। कतसकर्मकार्थेञ्चेदम्। `अकर्मकाच्च' (1.3.45) इत्येवं सिद्धत्वात्।।

77. विभाषोपपदेन प्रतीयमाने। (1.3.77)
तत्र `स्वरितञितः'(1.3.72) इत्यादीनि पञ्च सूत्राण्यनुवर्त्तन्ते। `कर्त्रभिप्राये क्रियाफले द्योग्ये' इति। केन द्योत्ये ? प्रकृतत्वादात्मनेपदेनेति विज्ञेयम्। `तदुपपदेन द्योतिते न प्राप्नोति' इति। उक्तार्थानामप्रयोगात्। एतेनाप्राप्तविभाषेयमिति दर्शयति। ननु चस्वं यज्ञं यजते इत्यत्र स्वशब्दस्योपपदत्वान्नोपपद्यते ? यतः `तत्रोपपदं सप्तमीस्थम्' (3.1.92) इति द्वितीयधात्वधिकारे यत् सप्तमीनिर्दिष्टं तदुपपदसंज्ञं भवति, न च स्वशब्द एवंविध इत्याह-- `समीपे श्रूयमाणम्' इत्यादि। एतेनोपोच्चारितं पदमुपपदमित्यन्वर्थस्योपपदस्य ग्रहणम्, न पारिभाषिकस्येति दर्शयति। एतच्च पारिभाषिकस्यासम्भवाल्लभ्यते। `स्वं यज्ञम्' इत्यादिना पञ्चसूत्र्यां यदाद्यं सूत्रं तत्रोदाहरति। `स्वं पुत्रम्' इत्यादिना यद्‌द्वितीयं तत्र। `एवं पञ्चसूत्र्यामुदाहरार्यम्' इति। अन्यत्रापीति सेषः। पञ्चसूत्र्यन्तर्गते सूत्रे यदुदाहृतं ततोऽन्यत्राप्युदाहार्यमित्यर्थः । स्वं कटं कारयते, कारयति वा। स्वं व्रीहिं संयचछते, संयच्छति वा। स्वं भारमुद्यच्छते, उद्यच्छति वा। स्वं वस्त्रमायच्छते, आयच्छति वा। स्वं गां जानीते, जानाति वेति। एतानि `णिचश्च' (1.3.74) इत्यादिषु सूत्रेषु यथायोगमुदाहरणानि।।

78. शेषात्कर्तरि परस्मैपदम्। (1.3.78)
`पूर्वेण' इति। `अनुदात्तहितः' (1.3.12) इत्यादिना। `सर्वत्र प्राप्नोति' इति। अशेषेभ्योऽपि। `तदर्थमिदमुच्यते' इति। सर्वत्र परस्मैपदे प्रसक्ते तन्निवृत्त्यर्थम्; अर्थशब्दस्य निवृत्तिवचनत्वात्। तथा-मशकार्थो धूम इति। तदेनैतत् नियमार्थमित्युक्तं भवति। `येभ्यो धातुभ्यः' इत्यादिना शेषत्वं दर्शयति। `येन विशेषणेन' इति। अनुबन्धादिना। `याति, वाति' इत्यनुबन्धशेषस्योदाहरणम्। `आविशति, प्रविशति' इत्युपसर्गशेषस्यार्थशेषस्यापि. एवं गन्धनादिभ्योऽन्यत्र करोतीत्येवमादिकमुदाहरणं वेदितव्यम्। ननु च शेषादित्यनेन पञ्चम्यन्तेन धातुसमानाधिकरणेन धातुरेव विशिष्यते, नार्थः, ततश्चाशेषेषु गन्धनादिष्वर्थेषु परस्मैपदं प्राप्नोति, नैतदस्ति; गन्धनादयो हि प्रकृतेरेवार्थाः, तत्रासौ शेषग्रहणान्निवर्त्तमानस्तानपि निवर्त्तयति।
`पच्यते, गम्यते' इति। ननु च यद्यत्र परस्मैपदं स्यात्, तदा `भावकर्मणोः' (1.3.13) इति वचनमनर्थकं स्यात्, अनवकाशत्वात्, नैतदस्ति; अस्ति हि तस्यावकाशः। कः पुनरसौ ? यो न शेषः-- आस्यते, शय्यते, क्रियत इति। अनुदात्तेत्वं ङित्त्वञ्चाशेषः। `शेषात् कर्तरि' (1.3.78) इत्यत्र कर्त्तृग्रहणं सामान्यमुपात्तमिति यो देशयेत् तं प्रत्याह--`कर्मकर्त्तरि' इत्यादि। `कर्त्तरि कर्मव्यतीहारे' (1.3.14) इत्यादिना परिहरति। `कर्त्तैव यः कर्त्ता' इति। शुद्धो यः कर्त्ता, कर्त्तृवद्भावरहितो यः कर्त्तैत्यर्थः।।

79. अनुपराभ्यां कृञः। (1.3.79)

80. अभिप्रत्यतिभ्य क्षिपः। (1.3.80)
`अभिक्षिपति' इति। तुदादित्वाच्छःष।

81. प्राद्वहः। (1.3.81)

82. परेर्मृषः। (1.3.82)
`परिमृष्यति' इति। दिवादित्वाच्छ्यन्।।

83. व्याङपरिभ्यो रमः। (1.3.83)

84. उपाच्च। (1.3.84)
`उपाच्च' इति। चकारः पूर्वापेक्षया समुच्चयार्थः। `उपरमति देवदत्तम्' इति। ननु चोपपूर्वो रमिरकर्मक एव भवति। तथा ह्युपपूर्वस्यास्य विनाशोऽर्थो भवति; यथा-- उपरतानि, नष्टानीति गम्यते। निवृत्तिर्वा भवति, स्वाध्यायादुपरमते, निवर्तत इति गम्यते। न चास्मिन्नार्थे वर्तमानस्य सकर्मकत्वमुपपद्यते। तत्कतं सकर्मकस्योदाहरणं युज्यत इत्याह-- `उपरमयतीति यावत्' इति। एतेन ण्यर्थवृत्तितामुपरमतेर्दर्शयन् सकर्मकतामुपपादयतीति। अकर्मको हि धातुर्ण्यर्थे वर्तमानः सकर्मको भवति। अथ पुनरण्यन्तस्य ण्यर्थवृत्तितोपपद्यते कथम् ? स तथोक्तः। एवंविधस्य तस्य प्रयोज्येन सकर्मत्वमुपपद्यत एव।
अथ किमर्थं पृथग्योगः क्रियते ? `न व्याङपर्युपेभ्यो रमः' इत्येक एव योगः
क्रियतामित्याह-- `पृथग्योगकरणम्' इत्यादि। गतार्थम्।।


85. विभाषाऽकर्मकात्। (1.3.85)
`यावद्भुक्तम्' इति। `यावदवधारणे' (2.1.8) इत्यव्ययीभावः।`भुक्तम' इति। `नपवंसके भावे क्तः' (3.3.114) इति क्तप्रत्ययः। यावन्ति भोजनानि तावद्भ्यो निवर्त्तत
इत्यर्थः। अथ वा-- यावद्‌भुक्तमिति यथार्थे वीप्सायामव्ययीभावः। भोजनाद्भोजनन्निवर्त्तत इत्यर्थः।।

86. बुधयुधनशजनेङ्प्रुद्रुम्रुभ्यो णेः। (1.3.86)
`बुध अवगमने' (धा.पा.1172), `युध सम्प्रहारे' (धा.पा.1173), `णश अदर्शने' (धा.पा.1194), `जनी प्रादुर्भावे' (धा.पा. 1149), `इह अध्ययने' (धा.पा.1046), `च्यङ' (धा.पा.955) छ्युङ्, ज्युङ (धा.पा.956), झयुङ प्रुङ (धा.पा.957) प्लुङ (धा.पा.958) गतौ `दु द्रु गतौ' (धा.पा.944, 945), `सु स्रु गतौ' (धा.पा.940)। `जनयति' इति। `जनीजृष्' (ग.सू.धा.पा.817) इत्यादिना मित्संज्ञा। मितां ह्रस्वत्वम्। `अध्यापयति' इति। `क्रीडजीनां णौ' (6.1.48) इत्यात्त्वम्। पूर्ववत् पुक्। `एतद्विषयाण्युदाहरणानि' इति। प्राप्तिविलयनस्यन्दनविषयाण्येतानि प्रावयतीत्याद्युदाहरणानि यथाक्रममित्यर्थः। स्यन्दनं चलनमिति लोके प्रसिद्धम्। ततोऽन्यत्र स्यन्दयतीति बोद्धयम्। प्रावयति = प्रापयति द्रावयति = विलापयति। स्रावयति = स्यन्दयतीत्यर्थः।

87.निगरणचलनार्थेभ्यश्च। (1.3.87)
`निगारयति' इति। `गृ निगरणे' (धा.पा.1410)। `आशयति' इति। `अश भोजने' (धा.पा.1523)। `भोजयति' इति। `भुज पालनाभ्यवहारयोः' (धा.पा.1046), `चलति' इति। `चल कम्पने' (धा.पा.832)। घटादित्वान्मित्त्वम्; पूववद्‌ध्रस्वः। `चोपयति' इति। `चुप मन्दायां गतौ' (धा.पा.403)। `कम्पयति' इति। `कपि चलने' (धा.पा.375)। अयमपि योगः सकर्मकार्थः, अचितत्वत्कर्त्तृकार्थश्चेति। तद्विपरीतेभ्यः `अणावकर्मकाच्चितवत्कर्त्तृकात्' (1.3.88) इत्यनेनैव सिद्धत्वात्। तत्र येषामुदाहरणान्युपन्यस्तानि, तेषु चलिकम्पी अकर्मकौ द्वौ; तयोरचितवत्कर्त्तृकार्थोऽयं योगः। शेषाणान्तु सकर्मकार्थः।
`वक्तव्यः' इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- `विभाषाऽकर्मकात्' (1.3.85) इत्यतो विभाषाग्रहणं मण्डूकप्लुत्याऽनुवर्त्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेनादेरन्येभ्यो नित्यं परस्मैपदम्, अदेस्तु न भवत्येव। `आदयते देवदत्तेन' इति। अत्र `गतिबुद्धि' (1.4.52) इत्यादिना कर्मसंज्ञा न भवति; `आदिखादिनीवहीनां प्रतिषेधः' (वा.64) इति वचनात्।।

88. अणावकर्मकाच्चित्तवत्कर्त्तृकात्। (1.3.88)
`चेतयमानम्' इति। `चिती संज्ञाने' (धा.पा.39), चौरादिकः। अय़ञ्चाकर्मकश्चित्तवत्कर्तृकश्च। `हेतुमण्णिचो विधिः' इति। बुधादेः (1.3.86) सूत्रादिह णिज्ग्रहणमनुवर्त्तते, स च हेतुमण्णिजेव; बुधादिभ्योऽन्यस्य णिचोऽसम्भवात्। यतश्च हेतुमण्णिचो विधिः, प्रत्यासत्तेस्तस्यैव प्रतिषेधो युक्तः। यथाभूत एव विधिभाक्; तथाभूतेनैव प्रतिषेधभाजा भवितव्यम्; प्रत्यासत्तेः। तथा हि-- ब्राह्‌मणाः प्रवेश्यन्तामन्यताधीयानेभ्य इत्युक्ते यताजातीयकानां प्रवेशो विहितस्तथाजातीयकानामेव प्रत्यासत्तेः पर्युदासो विज्ञायते। `{आरोह्यमाणः'- इति मुद्रितः पाठः.} आरोह्यमाणम्' इति। णेरणावादि (1.3.67) सूत्रेणात्मनेपदम्। यद्यप्यत्र हस्तिपकान् प्रति हस्तिनः प्रयोजकत्वे विवक्षिते णिज्विहितः, तथापि ण्यन्तावस्थायां हस्तिपकाः प्रयोज्यत्वेन न विवक्ष्यन्ते; अन्यथा ह्यणौ यत्कर्म तदेव णौ कर्त्ता न स्यात्। तत्र प्रयोज्यत्वाविवक्षायामारोह्य-
माण इत्यस्य स्वयमेवारोहयतीत्येषोऽर्थो भवति। तमारोहयमाणं यदान्यः प्रयुङ्क्ते, तदा द्वितीयो हेतुमण्णिच्। तदन्तात् `णिचश्च' (1.3.74) इत्यात्मनेपदं भवति। तेनारोहयत इति युक्तमेव प्रत्युदाहरणम्।।

89. न पादम्याङ्यमाङ्यसमपरिमुहरुचिनृतिवदवसः। (1.3.89)
`पा' इति `लुग्विकरणालुग्विकरणायोरलुग्विकरणस्यैव ग्रहणम्' (व्या.प.50) इत्यनेन `पा पाने' (धा.पा.925) इत्यस्यैव ग्रहणम्, न `पा रक्षणे' (धा.पा.1056)इत्येतस्य। `दमु उपशमे' (धा.पा.1203), `यम उपरमे' (धा.पा.984), `यसु प्रयत्ने' (धा.पा.1210), आङपूर्वावेतौ। `मुह वैचित्ये' (धा.पा. 1198), परिपूर्वः, `रुच दीप्तौ' (745), `नृती गात्रविक्षेपे' (धा.पा.1116), `वद व्यक्तायां वाचि' (धा.पा.1009) `वस निवासे' (धा.पा.1005), आच्छादनार्थस्य वसेर्ग्रहणं पूर्वोक्तादेव हेतोर्न भवति। `पूर्वेण योगद्वयेन' इति। अन्तरेणेत्यर्थः। `नृतिश्चलनार्थोऽपि' इति। अपिशब्दाच्चितवत्कर्त्तृकार्थश्च। `पाययते' इति। `शाच्छासाह्वाव्यावेपां युक्' (7.3.37)। पातेस्त्वकर्मकत्वविवक्षायां परस्मैपदं भवति। `पालयति' इति। `पातेलुग्वक्तव्यः' (वा.2;7, 3.37) इत्युपसंख्यानाल्लुगागमः। `दमयते' इति। पूर्ववत् `मितां ह्रस्वः' (6.4.92)। `आयामयते' इति। ननु चात्रपिमित्वे सति ह्रस्वेन भवितव्यमित्यत आह-- `यमोऽपरिवेषणे' इति। तत्र हि `न कम्यमिचमाम्' (ग.सू.धा.पा.817)इत्यतो नेत्यनुवर्तते। `आङ'इति। ङिद्विशिष्टस्याकारस्योपबदानमुपसर्गप्रतिपत्त्यर्थम्। तेनोपसर्गप्रतिरूपको य आकारस्तस्य ग्रहणं न भवति।
`पादिषु धेट उपसंख्यानम्' इति। पादिष्विति विषयसप्तमी। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। धेटः पादिविषयस्य परस्मैपदप्रतिषेधस्य प्रतिपादनं कर्त्तव्यम्। योऽयं पादिविषयः परस्मैपदप्रतिषेधः,स धेटोऽपि भवतीत्यर्थः। तत्रेदं प्रतिपादनम्- नेति योगविभागः क्रियते, तेन धेटोऽपि प्रतिषेधो भविष्यति। यद्येवम्, नेत्यनेनैव सिद्धत्वात् पादीनां ग्रहणमनर्थकम् ? नानर्थकम्; पूर्वयोगस्यासर्वविषयात्वज्ञापनार्थत्वात्। `धापयेते' इति। `धेट पाने' (धा.पा.902) `आदेचः' (6.1.45) इत्यादिनात्त्वम्, पूर्ववत् पुक्। `शिशुम्' इति। `गतिबुद्धि' (1.4.52) इत्यादिना कर्मसंज्ञायां द्वितीया।।

90. वा क्यषः। (1.3.90)
`लोहितायति' इति। अलोहितो लोहितो भवतीत्यत्रार्थे `लोहितादिडाज्भ्यः क्यष्' (3.1.13)इति क्यष्। `अकृत्सार्वधातुकयोः' (7.4.25) इति दीर्घः। `पटपटायति' इति। पटच्छब्दस्य डाचि विषयभूते `डाचि बहुलं द्वे' (वा.888) इत्युपसंख्यानाद्‌द्विर्वचनम्, `अव्यक्तानुकरणात्' (5.4.57) इत्यादिना डाच्, `नित्यमाम्रेडिते डाचि'(6.1.100) इति पटशब्दस्य योऽन्त्यस्तकारः, यश्च तस्मात्परः पकारः-तयोः
`कथम्' इति। न कथञ्चिदित्यर्थः। किं कारणं न लभ्यत आह-- `यावता' इत्यादि। आत्मनेपदं हि `अनुदात्तङितः' (1.3.12) इत्यादि नियतम्, अतो न शक्यते क्यषन्ताद्विज्ञातुमिति। `एवं तर्हि' इत्यादिना परिहरति। `विकल्पितम्' इति विभाषितम्, पाक्षिकमित्यर्थः। ननु चात्मनेपदं परस्मैपदेन व्यवच्छिन्नम्, अतोऽसन्निहित्वान्न शक्यते विज्ञातुमित्याह-- `तच्च'इत्यादि। कर्त्रभिप्राये क्रियाफले विवक्षित आत्मनेपदं प्राप्ते तदपवादेन `अमावकर्मकात्' (1.3.88) इत्यादिना योगद्वयेन परस्मैपदं विहितम्। तस्यापवादस्यानन्तरसूत्रेण यः प्रतिषेधो विहितः, तेनापवादेन परस्मैपदमपनयतात्मनेपदं सन्निधापितम्। अपवादे ह्यपनीते नियोगत एवोत्सर्गेण भवितव्यम्। तदेवं प्रतिषेधेन सन्निधापितमिहात्मनेपदं सम्बध्यते। यदि तर्ह्यनेन कर्तर्यात्मनेपदमेव विकल्पेन विधीयते, पक्षे परस्मैपदं कथं लभ्यत इत्याह-- `तेन' इत्यादि।।

91. द्युद्भ्यो लुङि। (1.3.91)
ननु च द्युतेरेकत्वाद्बहुवचननिर्देशो नोपपद्यत इत्याह-- `तत्साहचर्यात्' इत्यादि। यथैकेन छत्त्रिणा साहचर्यादन्येऽपि तत्सहचारिणश्छत्रिण इत्युच्यन्ते-- छत्रिणो गच्छन्तीति, तथेहापि द्युतिना साहचर्यात् श्वितादयोऽपि `द्युत' इति व्यपदिश्यन्ते। कथं पुनरेकस्य व्यपदेशे सत्ययमभिप्रेतोऽर्थः सम्पद्यत इत्याह-- `बहुवचननिर्देशात्' इत्यादि। एं हि विनाऽप्यादिशब्देन तदर्थो लभ्यत इत्येषोऽर्थः सम्पद्यत इति दर्शयति। `कृपूपर्यन्ताः'इति। अनेन कृपेः परे ये पठ्यन्ते ते द्युतादयो न भवन्तीत्याचष्टे। एतच्च तदनन्तरं वृत्करणाद्गणपरिसमाप्तेर्लिङ्गाद्विज्ञायते। `व्यद्युतत्' इति। पुषादित्वादङ। यद्येवम्, तत एवाङविधानात् परस्मैपदं तेभ्यो भविष्यति, किमनेन योगेन ? नैतदस्ति; ज्ञापकाद्धि नित्यं लुङि परस्मैपदं विज्ञायते। किञ्च लुङोऽन्यत्रात्मनेपदं न भवतीति सम्भाव्येत। ननु चानुदात्तेत्करणसामर्थ्यादन्यत्र न भविष्यति, नैतत्; अनुदात्तेत्करणम् `अनुदात्तेतश्च हलादेः' (3.2.149) इति युजर्थं स्यात्। तस्मात् कर्त्तव्योऽयं योगः। अलुठत्। `रुठ लुठ प्रतीघाते' (धा.पा.747, 749)।।

92. वृद्भ्यः स्यसनोः। (1.3.92)
`स्यसनोः' इति। सती सप्तमीयम्। वर्त्स्यतीत्यादौ `सेऽसिचि' (7.2.57) इत्यादेः सूत्रादसिचि स इत्यनुवर्त्तमाने `गमेरिट् परस्मैपदेषु'(7.2.58) इत्यतः परस्मैपदे च `न वृद्भ्यश्चतुर्भ्यः' (7.2.59) इतीट्प्रतिषेधः। आत्मनेपदं त्विड्भवत्येव। `विवृत्सति' इति। `हलन्ताच्च' (1.2.10) इति कित्वाद्‌गुणाभावः।।

93. लुटि च क्लृपः। (1.3.93)
`चकारस्तर्हि' इत्यादि। स्यसनोर्वृतादित्वादेव सिद्धे विकल्प इत्यभिप्रायः। `एवं तर्हि'इत्यादिना विशेषविधानं सामान्यविधानस्य बाधकं भवतीति विज्ञायते। ननु च
यदीयं प्राप्तिः कृपेः प्राप्तिं बाधते, द्युतादिषु पाठस्य तस्यानर्थक्यं प्रसज्येत ? नैतदस्ति; अङर्थत्वात्। ननु च स्यसनोरिति स्वरितत्वमिष्यते, तेन तस्य बाधा न भविष्यतीति, सत्यमेतत्; सूत्रकारस्तु चकारं वैचित्र्यार्थं चकार, न स्वरितत्वार्थम्। `कल्प्ता' इति। पूर्ववदधिकारद्वयानुवृत्तौ सत्यां `तासि च क्लृपः' (7.2.60) इतीट्प्रतिषेधः। `लुटः प्रथमस्य डारौरसः' (2.4.85) इति डादेशः। `कृपो रो लः' (8.2.18) इति लत्वम् `चिक्लृप्सति' इति। पूर्ववत् कित्वाद्‌गुणाभावः।।
इति श्रोबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायां
प्रथमाध्यायस्य
तृतीयः पादः
-----------------