काशिका (पदमञ्जरीव्याख्यासहिता)/सप्तमोऽध्यायः/द्वितीयः पादः
← प्रथमः पादः | काशिका (पदमञ्जरीव्याख्यासहिता) द्वितीयः पादः [[लेखकः :|]] |
तृतीयः पादः → |
अथ सप्तमाध्याये द्वितीयः पादः
सिचि वृद्धिः परस्मैपदेषु ।। 7 -2 - 1 ।।
अत्र सिचि, परस्मैपदेष्विति द्वे अपि परसप्तम्यौ, तत्र सिचोऽह्गापेक्षं परत्वम्, परस्मैपदानां सिजपेक्षम् । इको गुणवृद्धी इति वचनादिक इत्युपतिष्ठते, तत्रेकाङ्गस्य विशेषणात्त्दन्तविधिर्भवतीत्याह - इगन्तस्याङ्गस्येति । उदाहरणेषु अस्तिसिचोऽपृक्ते इतीट्, सेटः सिचः इट ईटि इति लोपः । ननु चान्तर्भूतसिज्मात्रापेक्षत्वाद् गुणोऽन्तरङ्गः, बहिर्भूतं परस्मैपदं सिचं चापेक्षत इति वृद्धिर्बहिरङ्गा, ततश्च पूर्व गुणे कृते इगन्तस्याङ्गस्येति नोपपद्यते इत्यत आह - अन्तरङ्गमपीति ।
यथैवत तर्हि गुणं बाधते तथोवङमपि बाधेत, तत्राह - न्यनुवीन्न्यधुवीदित्यत्रेति । णू स्तुतौ, धूञ् विधूनने कुटादी । यत्र हि वृद्धिः प्रवर्त्तते तत्रान्तरङ्गं बाधेत, इह तु प्रतिषेधादप्रवृत्ता सती नोत्सहते वाधितम् । ननु च यथा गुणो बाध्यते, तएवं प्रतिषेधोऽपि बाधनीयः येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति, गुणे च नाप्राप्ते वृद्धिरारभ्यते, प्रतिषेधे च प्राप्ते चाप्राप्ते चेति । अथैवं कस्मान्न कल्प्यते - अन्तरङ्गत्वाद्गुणे कृते वचनादनिकोऽपि वृद्धिर्भवति, यथा - अचैषीदित्यादावेकारस्य, अहौषीदित्यादावोकारस्येति तत्रायमर्थः - ह्म्यन्तक्षण इत्यत्र णिश्विग्रहणं न कर्त्तव्यं भवति, कथम् औनयीत्, अश्वयीदित्यादौ तअन्तरङ्गत्वाद् गुणायादेशयोः कृतयोर्यान्तानां ह्म्यन्त इत्येव प्रतिषेधः सिद्धः नैवं शक्यं कल्पयितुम् , थएवं हि कल्प्यमाने अभैत्सीदित्यादौ व्यञ्जनस्यापि वृद्धिप्रसङ्गः । वदव्रजहलन्तस्याचः इत्येषा व्यञ्जनवृद्धिं बाधिप्यते नाप्राप्तायां तस्यामारम्भात् । यत्र तर्हि सा प्रतिषिध्यते - अनन्दीत्, अदेवीदित्यादौ, तत्र व्यञ्जनस्य सिचि वृद्धिः प्राप्नोति - नैष दोषः नेटि इत्यनेन हलन्तस्य या च यावती च वृद्धिः प्राप्नोति - वदव्रजः इति वा, सिचि वृद्धिः इति वा, सा सर्वा प्रतिषिध्यते । इह तर्हि आगवीदिति गोशब्दस्याचारक्विबन्तस्य सिचि वृद्धिः प्राप्नोति आत्राप्यन्तरङ्गत्वादवादेशो कृते हलन्तलक्षणाया वृद्धेः नेटि िति प्रतिषेधः । अतो हलादेर्लघोः िति वकल्पस्तु सत्यपि सिचि वृद्धेरिग्लक्षणत्वे भवति । इह तर्हि न्यनुवीत्, न्यधुर्वीदिति - क्ङिति च इति प्रतिषेधो न प्राप्नोति, अनिग्लक्षणत्वात् मा भूत्प्रतिषेधः अन्तरङ्गत्वादुवङादेशो भविष्यति । इह च अकार्षीदिति - गुणे रपरत्वे च कृते हलन्तलक्षणा वृद्धिः यत्रापि सा प्रतिषिध्यते - अतारीत्, अस्तारीदिति, तत्रापि अतो ल्रान्तस्य इति वृद्धिः सिद्धा । इह तर्ह्यलावीत्, अयावीदन्तरङ्गत्वाद् गुणावादेशयोः कृतयोर्हलन्तलक्षणायाः नेटि इति प्रतिषेधे अतो हलादर्लघोः इति वकल्पः प्राप्नोति अतो ल्रान्तस्य इत्यत्र वकारोऽपि प्रश्लिष्यते । किं वकारो न श्रूयते लुप्तनिर्द्दिष्टो वकारः । इहापि तर्हि प्राप्नोति - मा भवानवीद्, अमवीदिति णिश्विग्रहणमिह पक्षे न कर्त्तव्यमित्युक्तम्, तयोः स्थाने अविमवी प्रक्षेप्स्यामि । यत्तर्हि लाघवमस्मिन्पक्षे प्रदर्शितम् -- णिश्विग्रहणं न कर्त्तव्यं भवतीति, तदेवं सति हीयते किं चागवीदित्यत्रापि अतो हलादेर्लघोः इति विकल्पं बाधित्वा वकारप्रश्लेषान्नित्या वृद्धिः प्राप्नोति तथा चिप्रभृतिभ्यो यङ्लुगन्तेभ्यो लुङि अचेचायीदित्यादौ गुणायादेशयोः कृतयोर्यान्तानां नेति प्रतिषेधः प्राप्नोति, तथा चिरिणोति - चिरिणोत्योः अचिरायीत, अजिरायीद् । तस्मादन्तरह्गमपि गुणमेषा वृद्धिर्वचनाद्वाधत इत्येतदेव साम्प्रतम् । न पुनरन्तरङगस्य प्रवृत्तिमभ्युपेत्य वचनादनिकोऽपि भवतीति । किं पुनः कारणमियमेव कल्पना भवति णिश्विग्रहणात् अन्यथा णिश्विग्रहणं न कर्त्तव्यं भवतीत्यनन्तरमेवोक्तम् ।।
अतो ल्रान्तस्य ।। 7 - 2 - 2 ।।
अन्तशब्दोऽयमस्त्यवयववचनः - वस्त्रान्तः, वसनान्त इति , अस्ति समीपवचनः - उदकान्तं गत इति तत्राद्ये पक्षे ल्रान्तस्य इति बहुव्रीहिः, अङ्गमन्यपदार्थः, अन्यस्यार्थस्यासम्भवात् । तत्र वर्णग्रहणे सर्वत्र बहुव्रीहिः अङ्गमन्यपदार्थः अन्यस्यार्थस्यासम्भवात् । तत्र वर्णग्रहणे सर्वत्र तदन्तविधिरित्येव सिद्धत्वादन्तग्रहणमतिरिच्यते । तस्मात्समीपवचनोऽन्तशब्दः । तत्रापि यदि षष्ठीसमासः स्यात - रेफलकारयोः समीपभूतस्यातो वृद्धिर्भवतीति, ततो लषिरणिप्रभृतिष्वेव स्यात् । यदि परसमीपवचनोऽन्तशब्दः, अथ तु समीपमात्रवचनसतदा इष्टविष्ये तावत्सिध्यति, अनिष्टेऽपि तु विषये प्राप्नोति, तथा अखल्लीदित्यत्रापि प्रसङ्गः । तस्मात्कर्मधायः, निपातनाच्च विशेषणस्य परनिपातः । समीपभूतौ रेफलकारौ ल्रान्तशब्देन
विवक्षितौ । कस्य समीपभूतावित्यपेक्षायाम् अत इत्यनेन सम्बन्धः । एवं विशेषिताभ्यां रेफलकाराभ्यामङ्गस्य विशेषणात्तदन्तविधिः । अतः समीपभूतौ यौ रेफलकारौ तदन्तस्याङ्गस्येति । यद्येवम्, एकत्वाद् अतः इत्यस्य तस्य च रेफलकारयोः विशेषणे एवं उपक्षीणत्वान्न वृद्धिभाङ् निर्द्दिष्टः स्यात् विशेषणत्वेनाि तावदकारस्य श्रुतत्वात्तस्यैव वृद्धिर्भवतीत्यदोषः, तदिदमुक्तम् - रेफलकारौ यावतः समीपभूतावित्यादि ।
वयं तु ब्रूमः - समीपभूतरेफलकारान्तस्याङ्गस्यातः स्थाने वृद्धिर्भवतीत्येवा क्षरव्यापारः । तत्र कस्य समीपभूतावित्यपेक्षायां सन्निधानादतः समीपभूताविति गम्यते इति । अपर आह - रश्च लश्च ल्रम्, आगन्तुकोऽकारः, षष्ठ्या लुका निर्द्देशः, अत्र ल्रेणाङ्गस्य विशेषणात्तदन्तविधौ ल्रान्तस्याङ्गस्य योऽकारस्तत्र वृद्धिर्भवति । कीदृशस्यातः समीपभूतस्य । सन्निधानाच्च ल्रं प्रति समीपभूतस्येति । अन्यशब्दश्च समीपमात्रवचनो न तु परमसीपवचनः इति ।
उदाहरणेषु , क्षर सञ्चलने, त्सर छद्म गतौ, ज्वल दीप्तौ, ह्वल चलने ।
न्यखोरीत्, न्यमीलीदिति । खुर छेदने, मील निमेषणे । मा भवानित्यादि । अट गतौ, अश भोजने माङः प्रयोग अ़डागमनिवृत्त्यर्थः ।
अवम्रीत्, अखल्लीदिति । वभ्रिर्गत्यर्थः, खल्लिराशु गमने । अथान्तग्रहणं किमर्थम्, न ल्रः इत्यवोच्येत इहापि तर्हि प्रप्नोति - अवभ्रीत्, अखल्लीदिति अकारमेव सिच्परत्वेन विशेषयिष्यामः ल्रान्तस्याङ्गस्य योऽकारस्तस्य सिच्यनन्तरे वृद्धिर्भवतीति । न च रेफलकारन्तस्याङ्गस्य योऽकारस्तस्य सिजव्यवहितः सम्भवतीति सामर्थ्यात् येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यादित्येकेन वर्णेन व्यवधानमाश्रयिष्यते । अथ वा अतो हलादेर्लघोः इत्यस्यानन्तर मिदं कर्त्तव्यम्, तत्रायमप्यर्थः अत इत्यपि न वक्तव्यं भवति, तत्र लघोः, ित्यनुवृत्तेरखल्लीदित्यादौ न भविष्यति । एवमपि चतुश्शब्दादाचारिक्विपि लुङि सिचि चकारस्यापि प्राप्नोति तत्रापि सिचाऽऽनन्तर्यं विशेषयिष्यामः, तत्र यथा अचकासीदित्यत्र अतो हलादेर्लघोः इति चकाराकारस्य वृद्धिर्न भवति, तत्कस्य हेतोः सिचा आनन्तर्थं विशेष्यत इति । एवं चतुश्शब्देऽपि न भविष्यति । एवं च कृत्वा लघोः इत्यपि न वक्तव्यं भवति तथा तु न कृतमित्येव ।।
वदव्रजहलन्तस्याचः ।। 7 - 2 - 3 ।।
विकल्पबाधनार्थमिति । अतो हलादेर्लघोः इति विकल्पो वक्ष्यते । नेटि इति प्रतिषेधे प्राप्त इति तु नोक्तम् विकल्पस्यैव वस्तुतः प्राप्तत्वात् । अत्रेत्यादि । वदव्रज्योः इत्येको योगः, अचः इति द्वितीयः तत्राङ्गेनाज्विशेष्यत इति - अङ्गस्य योऽच् यत्र तत्र स्थितस्तस्येति , तेन हलन्तस्य सिद्धा वृद्धिरिति भावः । किं पुनः कारणमङ्गेनाज्विशेष्यते, न पुनरचाऽङ्गस्येति असम्भवात् । अचिकीर्षीदित्यादौ अदन्तस्य तावत् नेटि इति प्रतिषेधः आकारन्तं तु सिचि न सम्भवति, यमरमनमातां सक्च इति सग्मविधानात् । सम्भवे वा नास्ति विशेषः सत्यां वा वृद्धावसत्यां वा । इगन्तस्य तु सिचि वृद्धिः इत्येव सिद्धा वृद्धिः । एजन्तमप्यात्वविधानान्नैव सम्भवति । अगवीदित्यत्र तु नेटि इति प्रतिषेधः । तदेवमङ्गेनाज्विशेष्यत इति सहृदयमभिधानम् । एवं प्रत्याख्याते हल्ग्रहणे, प्रयोजनमाह - तदेतदिति । किं पुनः कारणमन्तरेण हल्ग्रहणं हल्समुदायस्य परिग्रहो न सिद्ध्यति अत तथआह - अन्यथा हीति । एतच्च यदा वृद्धिभागाजेव सिच्परत्वेन विशेष्यते, तदा वेदितव्यम् । अङ्गे तु विशेष्य माणे सर्वत्र सिध्यति । न चैवमचकासीदित्यादिष्वनेकाक्षु पूर्वस्याप्यचो वृद्धिप्रसङ्गः, नेटि इति प्रतिषेधात् । न चानेकाजनिडस्ति । न चापाक्षीदित्यादावटः प्रसङग्ः, किं कारणम् लुङि यदङ्गं सिजन्तं तद्भक्तोऽडागमस्तद्ग्रहणेनैव गृह्यते न तु सिचि यदङ्गं तद्ग्रहणेन । यत्रापि सिचो लुक् क्रियते - अदातु, अधात् इति, तत्र सिच्परत्वाभावाद् वृद्धेरप्रसङ्गः ।
उदवोढामिति । वहेर्लुङ्, तसस्ताम्, सिच्, वह - स्तामिति स्थिते - वृद्धिश्च प्राप्नोति ढत्वादीनि च, आदिपदेन झलो झलि इति सिचो लोपः, झषस्तथोर्घोऽधः इति धत्वं ष्टुत्वं ढलोप इत्येतेषां ग्रहणम् । तत्र ढत्वादीनामसिद्धत्वात्पूर्वं वृद्धिः क्रियते, पश्चात् ढलोपनिमित्तमोत्तवम् । अथ तस्य पुनर्वृद्धिः कस्मान्न भवति तत्राह - तत्र कृत इति । कृतत्वादिति । यद्यप्येकारस्य न कृता वृद्धिः तथापि प्रयोगेऽस्मिन् कृतेति भावः ।
यत्र त्विति । न ह्योकारत्वनिबन्धनो वृद्धेरभावः, किन्तु कृतत्वनिबन्धन इति भावः । सोढा अभिभूता
अमित्रा येन स सोढामित्रः ।।
नेटि ।। 7 - 2 - 4 ।।
उदाहरणेषु - दिवु क्रीडादौ , सिवु तन्तुसन्ताने, कुष निष्कर्षे, मुष स्तेये इति धातवः ।
ननुचेत्यादि चोद्यम् । नैतदेवमित्यादि परिहारः । उभयमप्येतत् सिचिवृद्धिसूत्रे व्याख्यातम् ।।
ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् ।। 7 - 2 - 5 ।।
उदाहरणेषु ग्रह उपादेने, स्यमु स्वनध्वन शब्दे, टुवम उद्गिरणे, व्ययवित्तसमुत्सर्गे, क्षणु हिंसायाम्, श्वस प्रणने, जगृ निद्राक्षये, ऊन परिहाणे इल प्रेरणे चुरादी, टुओश्वि गतिवृद्ध्योः, रगे लगे सगे सर्वरणे, कखे खगे कगे हसने इति धातवः । ऊनयत्येलयत्योर्नोनयतिध्वनयतीति चङः प्रतिषेधः ।
यदि च पूर्व गुणः स्यादित्यादि । एतदपि सिचिवृद्धिसूत्र एव व्याख्यातम् । अथ जागृग्रहणं किमर्थमिति । येन पृष्टं स एव यथैतन्न कर्त्तव्यं तथा दर्शयति - जाग्रोऽविचिण्णल्ङित्स्विति । कृते गुणे इत्यादि । अङ्गवृत्ते पुनर्वृत्तावविधिः इत्येतत् नाश्रितम्, निष्ठितत्वस्य दुर्ज्ञानत्वात् । अथ त्विति । अन्यथा वृद्धिविषये गुणविधानमनर्थकं स्यादिति भावः । तथा चेति । चिण्णलोः प्रतिषेधेन उत्तरकालभाविवृद्धिमात्रं न भवतीति सामान्येन ज्ञाप्यते, न तूपधालक्षणवृद्धिर्न भवतीत्येवं विशेषेणेति भावः । जागृग्रहणे सति चायं सूत्राणां प्राप्तिक्रमः, जागृ - इस् - ईत् इति स्थिते पूर्व यण् प्राप्तः, तमपवादत्वात् सार्वधातुकार्धधातुकयोः इति गुणो बाधते, तमपि सिचि वृद्धिः, तामपि जागर्तिगुणः, तत्र कृते हलन्तलत्रणा वृद्धिः, तस्याः नेटि इति प्रतिषेधः, ततः अतो हलादेर्लघोः इति वकल्पः, ततः अतो ल्रान्तस्य इति नित्या वृद्धिः, ततोऽयं प्रतिषेध थइति । आह च
गुणो वृद्धिर्गुणो वृद्धिः प्रतिषेधो विकल्पनम् ।
पुनर्वृद्धिर्निषेदोऽतो यण्पूर्वाः प्राप्तयो नव ।।
अतो हलादेर्लघोः ।। 7 - 2 - 7 ।।
न्युकुटीत्, न्यपुटीदिति । कुट कौटिल्ये, पुट संश्लेषणे । नन्वत्र कुटादित्वान्ङित्त्वे सति क्हिति च प्रतिषेधादेव वृद्धिर्न भविष्यति, किमत्र अतः इत्यनेन तत्राह - अत इत्येतस्मिन्नसतीति । अतक्षीत्, अरक्षीदिति । तक्षू, त्वक्षू, तनूकरणे, रक्ष पालने, सिच्परत्वेनाङ्गस्य विशेषणादत्र प्रसङ्गः ।
अथेह कस्मान्न भवतीति । यदि सिच्परत्वेनाङ्ग विशेष्यते, ततोऽत्रापि प्रसङ्ग इति प्रश्नः । सिच्परत्वेनाको विशेष्यते इत्याश्रित्योत्तरम् । येन नाव्यवधानमिति वचनप्रामण्यादिति । अपिपठिषीदित्यादावनन्ततरस्याकारस्यातो लोपेन भवितव्यम् । ननु चोभयोरप्यनित्ययोः परत्वाद्वद्धिः प्राप्नोति अस्तु वृद्धिः, आतो लोप इटि च इत्याकारलोपो भविष्यति न भविष्यति परत्वात्सगिटौ स्याताम् एवं तर्हि ण्यल्लोपावियङुवङ्यण्गुणवृद्धिदीर्घभ्यः पूर्वविप्रतिषिद्धौ इत्यतो लोपो भविथ्यति, यथा - चिकीर्षक इत्यत्र । युकतं तत्र अचो ञ्णिति इति वृद्धिरन्यत्र चरितार्था, इयं तु सिच्यन्तरस्यातौ विधीयमाना निरवकाशा एषं तर्हि हलन्तस्य इत्यनुवृत्तेरनन्तरोऽकारो न सम्भवतीत्येत्सामर्थ्यम् ।
अथ त्विति । व्यवधानेन भवितव्यमिति स्थिते हला व्यवधानमिति कल्पनायां लघुग्रहणं कर्त्तव्यम्, एकेन वर्णेनेति तु कल्पनायां न कर्तव्यमित्यर्थः ।।
नेड्वशि कृति ।। 7 - 1 - 8 ।।
वशि कृतीति सप्तमीनिर्द्देशस्तदादिविध्यर्थः तस्य च वयं पुरस्तात्करणस्य प्रयोजनं क्रादिसूत्रे वक्ष्यामः। ईशितेत्यदेरुपन्यासः प्रकृत्याश्रयः प्रतिषेधो न सिध्यति इति प्रदर्शनार्थः । ईश्वर इति । स्थेशभास इत्यादिना वरच् । दीप्रमिति । नमिकम्पि इत्यादिना रः । भस्मेति । अन्येभ्योऽपि दृश्यन्ते इति मनिन् । औणदिके त्वव्युत्पत्तिपक्षाश्रयणेनापि सिद्धम् । याच्ञेति । यजयाच इत्यादिना नङ् ।
सम्भवोदारहणप्रदर्शनमिति । एतावन्त्युदाहरणानि सम्भवन्तीति प्रदर्शनार्थमित्यर्थः । रुदिंव, रुदिम इति । असति कृद्ग्रहणे रुदादिभ्यः सार्वधातुके इत्यस्यापचि इटोऽत्र प्रतिषेधः स्यात्, तस्य त्वाशादिरवकाशः रोदितीति । क्वचिद् रुरुदिव, रुरुदिमेति लिटि पठ्यते, तदयुक्तम्, क्रादिनियमादेवेटः सिद्धत्वात् ।।
तितुत्रतथसिसुसरकसेषु च ।। 7 - 2 - 9 ।।
क्तिन्क्तिचोः सामान्येन ग्रहणमिति । रोदितीत्यस्य तिप एकानबचन्धकस्याप्यग्रहणम् कृति इत्यनुवृत्तेः ।
दीप्तिरिति । क्तिन्नाबादिभ्यश्चः इति क्तिन् ।
औणादिकस्यैवेति । एतच्च भूयोभिरौणादिकैः साहचर्याल्लभ्यते ।
ततुत्रेष्विति । अस्मिन् सूत्र इत्यर्थः । अग्रहादीनामिति । ग्रहदिव्यतिरिक्तानां धातूनां सम्बन्धिषु तितुत्रादिषु प्रतिषेध इत्यर्थः । आदिशब्दः प्रकार इत्याह - ग्रहप्रकारा इति । कः पुनः प्रकारः इत्यह - येषामिति । निकृचितिरिति । कुञ्चेः पूर्ववत् क्तिन्, उपधालोपः, कुच शब्दकरणे इत्यतस्माद्वा क्तिन् ।।
एकाच उपदेशेऽनुदात्तात् ।। 7 - 1 - 10 ।।
अनुदात्तादिति बहुव्रीहिः न विद्यते उदात्तो यस्मिन् सोऽयमनुदात्तः । पारिभाषिके त्वनुदात्तेऽज्मात्राणामिणादीनामेव ग्रहणं स्यात्, नाज्झल्समुदायरुपाणं पचिप्रभृतीनाम । ततश्च तेषामनुदात्तोपदेशोऽनर्थकः स्यात् । अथ वा - अनुदात्तच्कत्वात्समुदाय एवानुदात्त तइत्युच्यते, यथा अनुदात्तं पदम् िति । उपदेशः - प्रकृतिपाठः । अनुदात्तश्चेति । उपदेशे इत्यपेक्षते । उभयविशेषणं चैतदिष्यते । अन्यतरविशेषणं तु यदि विज्ञायेत - उपदेश एकाचः सम्प्रत्यनुदात्तादिति, तथइहापि च प्रसज्येत - लविष्यति, पविष्यतीति, भवति ह्येतत् प्रत्ययस्योदात्तत्वे शेषनिघातेन सम्प्रत्यनुदात्तम् थइह च न स्यात् - कर्त्ता, कर्त्तुम्, नित्स्वरेण सम्प्रत्युदात्तत्वात् प्रकृतिपाठे चैषामनुदात्तोपदेशोऽनर्थकः स्यात् । अथ विज्ञायेत - उपदेशे।ृनुदात्तादेकाचः श्रूयमाणादिति क्रादिसूत्रे नियमो नोपपद्येत चकृव, चकृमेत्यादौ श्रूयमाणरुपस्यानेकाच्त्वाद्विधिरेव स्यात्, तत्र को दोषः बिभिदिव, बिभिदिम अत्रेडागमो न स्यात् । ननु च सम्प्रत्यनेकाच्त्वादत्र प्रतिषेधास्याप्रसङ्गादेवेड् भविष्यति इह तर्हि पेचिव, पेचिम्, एत्वाभ्यासलोपयोः कृतयोरेकाचः श्रूयमाणादिट्प्रतिषेधः प्राप्नोति । परत्वादिटि कृते एतवाभ्यासलोपौ भविष्यतः नित्यावेत्वाभ्यासलोपौ कृतेऽपीटि प्रप्नतोऽकृतेऽपि इट् पुनरनित्यः - कृतयोस्तयोरेकाछः श्रूयमाणादिति प्रतिषेधात् । एवं तर्हि थलि च सेटि इत्यत्र सेट्ग्रहणं कालवाधारणार्थं भविष्यति, कथम् तत्र थल्ग्रहणं न कर्त्तव्यम्, सेटीत्येतावता सिद्धम्, अत एकहल्मध्ये इत्यादि सर्वमनुवर्त्तेते, किद्ग्रहणमेकं निवृत्तम्, न च थलोऽन्यः सेट् किल्लिट् सम्भवति । सोऽयमेषं सिद्धे यत्थल्ग्रहणं करोति तस्यैतत्प्रयोजनम् - किता सह समुच्चयार्थम्, थलि च किति च सेटि एत्वााभ्यासलोपौ भवत इति । तत्र किति पूर्वेणैव सिद्धे कालावधारणार्थमिदं वचनमिति कृते थएत्वाभ्यासलोपौ यथा स्याताम्, अकृते मा भूतामिति, यथा - निष्ठायां सेटि इत्यत्र । एवमपि विधित्सति, चिच्छित्सतीत्यत्र नित्यत्वाद् द्विर्वचने कृते एकाचः श्रूयमाणादिति प्रतिषेधो न स्यात् तस्मादुभयविशेषणमुपदेशग्रहणम्, तअत एवेदं मध्ये पठितम् । यद्युभयविशेषणम्, बेभिदिता, चेच्छिदिता - अत्रापि प्राप्नोति अल्लोपस्य पूर्स्मादपि विधौ स्थानिवद्भावान्न भविष्यति । यङ्लुगन्त तर्हि प्राप्नोति - बेभेदिता, चेच्छिदिता यत्रैकाज्ग्रहणं किञ्चित्पञ्चैतानि न यङ्लुकि इति वचनान्न भविष्यति । के पुनरिति । पाठे सङ्करसम्भवात्प्रश्नः । असङ्करेण पठितव्याः इत्युत्तरम् । प्रविभक्ता इति । स्वरान्तहलन्तककारादिवर्णभेदेनेत्यर्थः । श्लेकेष्वनिडग्रहणमनुदात्तोपलक्षणम् । षष्ठीसप्तम्यश्च धातुविषयनिर्धारणे द्रष्टव्याः । श्विडीडिति । समाहारद्वन्द्वे द्वितीयान्तम् ।
गणस्थमिति । श्लोकपूरणार्थम् । स्वभावकथनमेतत् । मत् मत्तः निबोधत, अवगच्छत ।
द्व्येत्यादिश्लोकर्योर्द्धयोर्विवरणम् । इति स्वरान्ता इति । अस्य पुनः पाठो निगदव्याख्यानतां दर्शयतुं द्रष्टव्यः । अन्ये तु पूर्व न पठन्ति ।
यमिर्यमन्तेष्विति । श्यनि पठ्यत इति । दिवादौ पठ्यत तित्यर्थः । प्रतिषेधवाचिनामिति । इट्प्रतिषेधं कुर्वतामाचार्याणां मतेनेत्यर्थः । दिहिर्दुहिरिति । यद्विषयः संशयः पुरुषाणां नास्ति ते मुक्तसंशयाः । तन्त्रान्तरम् - व्याकरणान्तरम्, आपिशलादि । सहेर्विकल्प इति । तीषसह इत्यादिना । सविकल्पाविति । विकल्पस्तद्विषयः संशय इत्यर्थः । स्वरुपेणैव ससंशयाविति । तौ स्तो न इत्यपि संशयस्तत्रेत्यर्थः ।
दिशि दृशिमिति । पुरणम् - चिरन्तनं व्याकरणं येऽधीयते ते पुरणगाः । पाठेषु, धात्वादिषु । ऋदुपधानामित्यादिना तेष्वनुदात्तोपदेशस्य प्रयोजनान्तरं समुच्चिनोति । एवं च श्लोकेष्वनिट
इत्यस्यानुदात्तोपलक्षणत्वं निश्चितम् ।
रुधिः सराधिरिति । न्याय्यविकरणयोरिति । न्याय्यः - उत्सर्गः, शब्विकरणयोरित्यर्थः ।क्वचित्तु तथैव पाठः केचिद्भौवादिकं सिधिमुदितं पठन्ति - षिधु गत्याम् इति, तेन तस्य क्त्वायां विकर्ल्पितेट्कत्वान्निष्ठायाम् यस्य विभाषा इति प्रतिषेधेन भवितव्यम् । तथा दैवादिकस्य भौवादिकस्य च बुधेरर्थे रुपे वा विशेषो नास्ति, ततश्चैक एवायं बुधिः, विकरणद्वयार्थं तु द्वयोर्गणयोः पाठः, तस्य चार्धधातुकलक्षण इडप्युक्तः, प्रतिषेधोऽपीत्येकविषयत्वाद्विभाषितेट्कत्वम्, ततश्च तस्यापि निष्ठायां प्रतिषेधेन भवितव्यमिति मन्यमानं प्रत्याह - निष्ठायामपीति । सिधेरुदित्त्वं तावदनन्यार्थम् । न च यथाकथञ्चिदिटो भावाभावौ निष्ठायां निषेधस्य निमित्तम्, किं तर्हि विकल्पवाचिना विभाषादिशब्देन विकल्पितेट्त्वमिति भावः ।
तपि तिपिमिति । तिपिक्षपी इति पाठः । नीचेन स्वरेणानुदात्तेन पठितान्प्रतीहि निबोधतेति । प्रस्तावातप्रतीतेति पाठः, प्रतीहीति पाठे उत्तरानुरोधः - विद्ध्यनिट्स्वरानिति ।
तेप्तेति । तिपृ तेपृ ष्टिपृ ष्टेपृ क्षरणे । छोप्तेति । छुप स्पर्शने । पचि वचिमिति । सृजिमृजीति । समाहारद्वन्द्वः । अनिट्त्वस्य हेतुः स्वरो येषां तेऽनिटट्स्वराः ।
ततोऽस्य विकल्पेन भवितव्यमिति । तेनानिट्स्वरार्थोऽनुदात्तपाठो न भवति । अमागमोऽपीति । तेन तदर्थोऽप्युदात्तपाठो न भवति । तत्कस्मादिहानिट्कारिकासु पठ्यते इत्यत आह - केचिदित्यादि । युक्तं चैतदित्याहनिजादिषु हीति । णिजां त्रयाणां गुणः श्लौ इत्यत्र पठिता निजादयः । अत्रैव व्याकरणान्तरानुमतिं दर्शयति - तथा चेति ।
अवधीदिति । किं पुनरयमुपदेशेऽनुदात्तः ओमित्याह । क्व पुनरस्योपदेशः हनो वध लिङि इति । किमेकाज्ग्रहणं न निवर्त्तयिष्यामीत्यनुदात्त उपदिश्यते, न ह्यस्यान्यदनुदात्तत्वे प्रयोजनम् न ब्रूमः - अस्मिन्नुषदेशेऽयमनुदात्त इति, हन्तिरनुदात्तस्तस्य स्थाने भवन्स्थानिवद्भावेनानुदात्तः । क्रियमाणेऽपि तर्ह्येकाज्ग्रहणे यावता स्थानिवद्भावः कस्मादस्य परतिषेधादिति चेत् हन्तैवमनुदात्तव्यपदेशेऽपि स्थान्यलाश्रयत्वात्कथमिवास्य साय्त् स्यादेतत् । नात्र स्थानिवद्भावेन प्रसङ्गः, किं तर्हि उपदेशग्रहणेन, यथा - कर्त्ता, कर्तुमित्यादौ रुपभेदे स्वरभेमे च भवति । तत्कस्य हेतोः यः स उपदेशेऽनुदात्तः स एवेमामवस्थामापन्न इति कृत्वा, न तु स्थानिवद्भावात् एवमिहापि य उपदेशेऽनुदात्तो हन्तिः स एवायमिति उपदेशग्रहणात्प्रसङ्ग इति । क्रियमाणेऽपि तर्ह्येकाज्ग्रहणे कथमिवास्य व्यावृत्तिः, यावता उपदेशग्रहणस्योभाभ्यां सम्बन्धः - य उपदेशे एकाच् स एवायमिति स्यादेव प्रसङ्गः तस्माद्वधेराद्युदात्तनिपातनं कर्त्तव्यम्, तत्सामर्थ्याद्धन्त्युपदेशविषयानुदात्तत्त्वश्रयोऽपि प्रतिषेधो न भवति । न ह्येतदाद्युदात्तत्वं प्रयोगसमवायि, प्रत्ययस्वरेण बाधितत्वादित्येवमत्र हारो बाच्यः । एकाज्ग्रहणमुत्तरार्थम् ।।
श्र्युकः किति ।। 7 - 2 - 11 ।।
योषां प्रकृत्याश्र प्रतिषेधो नास्ति तदर्थमिदम् । श्रितः, श्रितवान्, युतः, युतवान् इति । सनीवन्तर्ध इति विकल्पितेट्त्वाद् यस्य विभाषा इति प्रतिषेधः सिद्धः ।
केचिदित्यादि । यथा ग्लाजिस्थश्च क्स्नुः इत्यत्रोक्तम् - क्स्नोर्गित्त्वान्न स्थ ईकारः इत्यादि । यदि गकारः प्रश्लिष्यते श्रयुकः किति इति निर्द्देशो नोपपद्यते, गकारे परतः हशि च इत्युत्वं प्राप्नोति चर्त्वे च कृते कुप्वोः क पौ च इत्येष विधिर्भवति, चर्त्वस्यासिद्धत्वादुत्वमेव प्राप्नोति तत्राह सौत्रत्वादिति । अत्रापि ग्रन्थे वर्णयन्ति इत्यस्य सम्बन्धः । तदेतद्दूषयति - ग्लाजिस्थश्च ग्स्नुरित्यत्रेति । आकारप्रश्लेषे सति तिष्ठतेराकारन्तादित्यर्थो भवति, तिष्ठतिश्चाकारान्त एव, तत्र विशेषणमुत्तरकालभावीकारनिवृत्त्यर्थ विज्ञायते, ततश्च -
कथं प्रकृतिनिर्द्देशे पञ्चम्यां परतः श्रुतः ।
आकारोऽयं विधेयः स्यादिति चोद्यमपाकृतम् ।।
स्थास्नोः । स्थास्नुशब्दस्य । न किञ्चिदेतदिति । एतद् गकारप्रश्लेषवर्णनमशेभनमित्यर्थः । गस्नुप्रत्ययस्य गित्त्वे हि गप्रश्लोषो युज्यते, कित्त्वेऽपि तिष्ठतेरीत्वमुक्ताद्धेतोर्निवर्त्तते ।
तीर्ण इत्यत्रापि यथा स्यादिति । इह तु तीर्त्वा, पूर्त्वेति आनुपूर्व्यात्सिद्धम्, कथम् तत्वा, पत्वा इति स्थिते यावदिट्प्रतिषेधो न प्रर्वतते तावदित्वोत्वे प्राप्नोति, किं कारणम् क्ङिति इत्युच्यते, न चाकृते इट्प्रतिषधे क्त्वा किद्भवति, न क्त्वा सेट् इति प्रतिषेधात् । किञ्च भो इत्वोत्वे किति विधीयेते न किति विधीयेते, किति तु विज्ञायेते । कथम् इत्वोत्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन । तस्मातप्रगेव सन्निहितं कित्त्वमाश्रित्येट्तिषेधे प्रवृत्ते इत्वोत्वे भवतः । कृतयोस्तहि तयोः प्रतिषेधनिमित्तस्योगन्तत्वस्यापगमात्पुनरिट्प्रसङ्गः, तस्मिंश्च सति न क्त्वा सेट् इति कित्त्वप्रतिषेधाद् गुणे सति तेरित्वा, पोरित्वेति प्राप्नोति नैतदस्ति प्रसङ्गावस्थायामेव प्रतिषेधेन बाधितस्य भ्रष्टावसरस्य पुनः प्रवृत्त्ययोगात् । इह च तितीर्षति, मुमूर्षतीति नाकृत इटः प्रतिषेधे सनः कित्त्वमझलादित्वात्, असति च कित्त्वे गुणस्यायं विषय इति इत्वोत्वयोरप्रसङ्ग इति आनुपूर्व्यात्सिद्धमित्येव । यदि वा तॄ - स इति स्थिते, अनवकाशत्वादिट् सनि वेति ऋकारान्तनिमित्त इड्विकल्पः प्रवर्त्तते, तत्रेडभावपक्षे कित्त्वाद् गुणे निषिद्धे इत्वोत्वयोः कृतयोरपि विकल्पेन बाधितस्येड्लक्षणस्य भ्रष्टावसरत्वेन पुनः प्रवृत्तययोगात्सिद्धमिष्टम् । तस्मात्तीर्ण इत्यत्र चोपदेशाधिकारस्योपयोगः । कस्मात्पुनरसत्युपदेशाधिकारेऽत्र न स्यात् इत्यत आह - इत्वे हि कृत इति । किं पुनः कारणमित्वमेव तावद्भवति नित्यत्वात् । मा भूदित्यादि चोदकः । कस्य पुनरित्यादीतरः । ॠत इत्यादि चोदकः । यद्येवमित्यादीतरः । स्थानिवद्भावादिति चोदकः । अनिल्विधावित्यादीतरः । अल्विधित्वं पुनरुगिति प्रत्याहारग्रहणात् । ननु चेत्वोत्वयोः कृतयोः समप्रत्यृकाराभावेऽप्येकदेशविकृतस्यानन्यत्वात्स एव धातुर्यस्य सनि विभाषा विहितेतीट्प्रतिषेधो भविष्यति नैतदस्ति आदितश्च इति योगविभागेन ज्ञापयिष्यते - यदुपाधेर्विभाषा तदुपाधेः प्रतिषेध इति, ततश्च ऋकारान्तत्वमुपाधिरड्विकल्पे, स चेत्वे कृते नास्तीति कथं प्रतिषेधः स्यात् तस्मादित्यादि । यस्मादेवमसत्युपदेशग्रहणे तीर्ण इत्यत्र प्रतिषेधो न सेत्स्यति, तस्मात् उपदेशे इत्यनुवर्तनीयम् । तथा च सतीति । उपदेशे इत्यनुवर्त्तमाने सतीत्यर्थः । अत्रापि प्राप्नोतीति । जगर्तेरुपदेशावस्थायामुगान्तत्वात् । तदर्थमिति । जगरित इत्यादिसिद्ध्यर्थम् । जगरित इत्यादाविट्प्रतिषेधनिवृत्त्यर्थमिति वा । तथा च वार्त्तिकम् - एकाजग्रहणं जगर्त्यर्थम् इति पूर्वसूत्रेऽनुपयोगादिहार्थमेकज्ग्रहणमित्यर्थः ।
भष्यकारस्त्वाह - यस्य क्वचिदिड्विकल्पो दृष्टः स धातुराश्रीयते - यस्य विभाषा इति, न तु तद्गतं विकल्पकारणमकारादि । भवति चेत्वोत्वयोः कृत योरयमपि स एव धातुरिति तीर्ण इत्यादौ सिद्धः प्रतिषेधः इति । यद्येवम्, विभाषा गमहनविदविशाम् इति विशिना साहचर्यात्तौदादिकस्य विदेः क्वसाविटि विकल्पिते दैवादिकस्यापि विदेर्निष्ठायां प्रतिषेधः प्राप्नोति - विदितः, विदितवानिति न, धातुभदात् । कथं धातुभेदः अर्थभेदाद्, अनुबन्धभेदाद्, विकरणभेदाच्च । तदेवं नार्थ उपदेशाधिकारेण, नापि एकाज्गरहणानुवृत्त्या । किमर्थं तर्हि पूर्वसुत्रे एकज्ग्रहणम् यङ्लुगन्तनिवृत्त्यर्थम् । ननु च क्रियमाणेऽप्येकाज्कहणे यङ्लुगन्तस्य प्रतिषेधः प्राप्नोति, उपदेशग्रहणस्योभयविशेषणत्वात्, यथा बिभित्सतीति, तत्रैतत्स्यात् - क्रियमाणे एकाजग्रहणे यत्रैकाजग्रहणं किञ्चित् इति वचनाद् यङ्लुगन्तस्य न भवतीति तच्च वार्त्तम् अक्रियमाणेऽपि चैकाज्गरहणे वचनान्तराश्रयणेन यङलुगन्तेऽपि परिहारः । तदेव वचनमेवं पठ्यताम् - त्रोपदेशाग्रहणमिति । अनुदात्तोपदेशलक्षणोऽनुनासिकलोपोऽपि तर्हि यङ्लुगन्तानां तसादिषु न स्यात्, तथा इबन्तानां दिविप्रभृतीनां यङ्लुगन्तानामपि सनीङ्विकल्पः प्राप्नोति । क्रियमाणे पुनरेकाज्ग्रहणे न भवति, तएकाचः इति तत्रानुवृत्तेः । यदि नेष्यते, एवं वक्ष्यामि - उपदेशेऽनुदात्तान्न यङ्लुक किति । अधिकारोऽयम्, यत्रैकाज्ग्रहणेन यङ्लुगन्तस्य वायवृत्तिरिष्यते, तत्रोपतिष्ठते । एवमपि वावृतु वरणे इति दिवादावनेकाजुदिदनुदात्तेत्पठ्यते । तथा च भट्टिकाव्ये प्रयोगः - ततो वावृत्त्यमानाऽसौ रामशालां न्यविक्षत इति । तस्योदितो विकल्पितेटो निष्ठायाम् यस्य विभा,ा इति प्रतिषेधः प्राप्नोति । एकाज्ग्रहणे तु क्रियमाणे न भवति एकाचः इति तत्रानुवृत्तेः । तथा च निष्ठायां सेटि ( 6.4.52 । इत्यत्रापि वृत्तिकारेणोक्तम् - अथ पुनरेकाच इति तत्रानुवर्त्तते इत्यादि ।
अन्ये पुनर्भाष्यकारेणैकाज्ग्रहणस्य प्रत्याख्यातत्वान्नैतदिष्यत इत्याहुः । तथा च वृत्तिकारेणापि पाक्षिकत्वेनैवोक्तम् - अथ पुनरेकाच िति तत्रानुवर्त्तते इति । कृतमतितविस्तिरेण ।।
सनि ग्रहगुहोश्च ।। 7 - 2 - 12 ।।
चकार उगनुकर्षणार्थः । न च इको झल् इति सनः कित्त्वात् उगन्तानां पूर्वेणैव सिद्धिः किं कारणम् झलादौ सनः कित्त्वम्, न चान्तरेणेटट्प्रतिषेधं सन् झलादिर्भवति, तेन येषु प्रकृत्याश्रयः प्रतिषेधो नास्ति, तेष्वनेनैवेटि प्रतिषिद्धे झलचादित्वे सनः कित्तवमित्येष क्रमः । जिधृक्षतीति । रुदविद इत्यादिना सनः कित्त्वम्, ग्रहिज्यादिसूत्रेण तम्प्रसारणम्, हो ढः, षढो कस्सि, एकोचो बशो भष् । जुघुक्षतीति । गुहू संवरणे, स्वरितेत्, हलन्ताच्च इति सनः कित्त्वम् । अथ चकारेणोगिदिव श्रयतिरपि कस्मान्नानुकृष्यते अत आह - श्रिस्वृयूर्ण्वित्यादि ।।
कृसृमृवृस्तुद्रुस्रुवो लिटि ।। 7 - 2 - 13 ।।
क्रादय एव लिट्यनिट इति । लिट्येव क्रादयोऽनिटः इत्येष तु विपरीतोऽत्र नियमो न भवति क्रादीनामनुदात्तोपदेशसामर्थ्यात् । कृतलब्धक्रीतकुशलाः, तमधीष्टो भृतो भूतः, परिवृतो रथः स्तुतस्तोमयोः इत्यादिनिर्देशाच्च ।
केन पुनरेषामिट्प्रतिषेधः सिद्धः, यतो नियमार्थोऽयमारम्भः इत्यत आह - अनुदात्तोपदेशानामित्यादि । वृङ्वृञ्भ्यामन्येऽनुदात्तोपदेशास्तेषां प्रकृत्याश्रयः एकाच उपदेशे इतीट्प्रतिषेधः सिद्धः । वृङवृञोस्तु प्रत्ययाश्रयः श्र्युकः किति ित्येषः । तस्मादुभयस्यापि - प्रकृत्याश्रस्य, प्रत्ययाश्रयस्य च । कथं पुनरयं प्रत्ययाश्रयचस्य नियमः, यावता वृग्रहणं वृञस्थलि विध्यर्थं सम्भवति, न हि तत्र प्रकृत्याश्रयः प्रतिषेधः, वृञ उदात्तत्वात्, नापि प्त्ययाश्रयः थलः कित्त्वाभावात्, असति प्रत्ययाश्रयस्य नितयमे लुलुविथेत्यादाविण्न स्यात् इत्यत आह - वृञो हीति । व्यवस्था - नियमः । इह तुष्टोथेत्यादौ ऋतो भारद्वाजस्य इत्येतस्मान्नियमादिट् प्राप्नोति, ययिथेत्यादिवत् । यथा हि ययिथ, पपिथेत्यादौ आधेधातुकस्य इतीट् प्रप्तः एकाचः इति निषिद्धः, पुनः क्रादिनियमात् प्राप्तः अचस्तास्वत्थलि इति प्रतिषिद्धः, ततः ऋतो भारद्वाजस्य थलि प्रतिषेधो नान्येभ्यः इति नियमात्पक्षे इड् भवति, तथात्रापि स्यात् । कथं खलु क्रादिनियमस्य बाधकम् अचस्तास्वत् इति प्रतिषेधं बाधमानो भारद्वाजनियमः क्रादिप्रतिषेधं न बाधते कृसुभृवृ इत्येतेषु पुर्वायं दोषस्तेषामृकारान्तत्वेन भारद्वाजपक्षेऽपीटः प्रतिषेधात् । एवं तर्हि स्तुद्रुस्रुश्रुवां ग्रहणं विध्यर्थं भविष्यति, तअसति हि विधेये नियमो भवति, इह चास्ति विधेयम्, किम् थलि भारद्वाजनियमादिटः प्राप्तस्य प्रतिषेधः, इतरेषां तु क्रादीनां ग्रहणं नियमार्थ भविष्यतीति । बिभिदिव, लुलुविवेत्यादावपि न दोषः । कथं पुनस्तुष्टुमः अत्र हि क्रादिनियमादिट् प्राप्नोति नैष दोषः स्तुद्रुस्रुश्रुवां ग्रहणमुभयोरपि प्रतिषेधार्थम् । यश्च क्रादिनियमादिट् प्राप्तः यश्च भारद्वाजनियमात्, तयोरुभयोरपीत्यर्थः ।
यद्येवम्, येन नाप्राप्तिन्यायेन क्रादिनियममेव स्तुद्रुस्रुश्रुवां प्रतिषेधो बाधेत, न तु विकल्पेन प्राप्तं भारद्वाजनियमम्, ततश्चासौ स्यादेव इत्याशङ्क्याह -- पूर्वकत्वातप्रतिषेधस्य पूर्व विधिप्रकरणं पठितव्यम्, आर्धधातुकस्य इत्यारभ्य ईडडजनोर्ध्वे च इत्येवमन्तम्, पश्चातप्रतिषेधप्रकरणम्, तद्यथाऽन्यत्रापि - कर्त्तरि कर्मव्यतिहारे , न गतिहिंसार्थेभ्यः इति । तत्रायमर्थो द्विरिड्ग्रहणं न कर्त्तव्यं भवति, प्रकृतमनुवर्त्तते । नन्वेवम्, रुदादिभ्यः सार्वधातुके इति सार्वधातुकग्रहणम्, लिङः सलोपोऽनन्त्तयस्य इत्यत्र विच्छिद्येत एवं तर्हि न वृद्भ्यश्चतुर्भ्यः इत्यत्रैव पठितव्यम्, एवं हि विध्युत्तरकारश्च प्रतिषेधः कृतो भवति, द्विश्चेड्ग्रहणं न कर्त्तव्यं भवति, सार्वधातुकग्रहणं च सलोपे न विच्छिद्यते, अपि च द्विःप्रतिषेधो न कर्त्तव्यो भवति, सोऽयमेवं सिद्धे यत्पुरस्तातप्रतिषेधकाण्डं करोति, तस्यैततप्रयोजनम् - थअनाश्रितविधानविशेषमिण्मात्रमनारभ्याधीतेन प्रतिषेधेन यथा बाध्येतेति । यदि तु भारद्वाजनियमात्परमिदं काण्डं क्रियेत, ततो मध्येऽपवादन्यायेव मारद्वाजनियमः अचस्तास्वत् इति प्रतिषेधेमेव, बाधेत, न तु क्रादिनिषेधमिति पुरस्तातप्रतिषेधकरणे न कश्चिद्दोषः ।
अपर आह - यत्र तत्र वा प्रतिषेधकरणमस्तु, सर्वथा तु भारद्वाजनियमः अचस्तास्वत् इति योगद्वयेन थलि यः प्रतिषेधः प्राप्तस्तस्यैव नियामकः, अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति, ततश्च स्तुद्रुस्रुश्रुवामपि भारद्वाजनियमेव थअचस्तास्वत् इति प्रतिषेध एव निवर्त्तते, न तु क्रादिप्रतिषेधः इति । तन्मते पुरस्तात्प्रतिषेधकरणस्य प्रयोजनमुत्तरत्र दर्शयिष्यामः ।
कृञोऽसुट इति वक्तव्यमिति । कृतेऽपि करोतिर्भवत्येवेति प्रतिषेधप्रसङ्गः ।.
श्वीदितो निष्ठायाम् ।। 7 - 2 - 14 ।।
श्विग्रहणं किमर्थम्, न सम्प्रसारणे कृते परस्य पूर्वत्वे चोगन्तत्वे सति श्र्युकः किति इत्येव सिद्धम् न सिध्यति, श्वि - त इति स्थिते परत्वादिट् प्राप्नोति । अथापि पूर्वं सम्प्रसारणम् एवमपि श्र्युकः किति इत्यत्र उपदेशे इत्यनुवृतेतरस्य चोपदेशे इदन्तत्वान्न सिध्यति ।
डीङ इत्यादि । डीङयं स्वादीनां मध्ये पठ्यते, ते च ओदितः, स्वादय ओदितः इति वचनात्, कथमेतज्ज्ञापकम् इत्यत आह - स हीति । निष्ठातः निष्ठातकारस्य । अनन्तरस्य विधीयत इति । इटि सत्यानन्तर्थं विहन्येत ।
एवञ्च सति श्वयतेरप्यत्र ग्रहणं शक्यमकर्त्तुम्, तथा ओलस्जीप्रभृतीनामपि उक्तेनैव न्यायेनेडभावस्य सिद्धत्वात् ।।
यस्य विभाषा ।। 7 - 2 - 15 ।।
यस्य विभाषा इत्यनुवादवाक्यम् । अत्र च इड्विहितः िति वाक्यशेषः । यत्तदोर्नित्यसम्बन्धात्तस्य निष्ठायामिण्न भवतीति प्रतिषेधवाक्यं सम्पद्यते । निपात्नादिडागम इति । अपर आह - अनित्योऽयं प्रतिषेधः, कृती छेदने इत्यस्य इदित्करणसामर्थ्यात् । यदि ह्ययं विधिर्नित्यः स्यात् सेऽसिचि इत्यनेन विभाषितेट्त्वादनेनैव प्रतिषेधस्य सिद्धत्वादीदित्करणमनर्थकं स्यादिति ।।
आदितश्च ।। 7 - 2 - 16 ।।
आश्वस्तः, वान्त इति । भाष्यवार्त्तिकयोरनुक्तमपि प्रयोगबाहुल्यादुक्तम् । योगविभागकरणं किमिति । योगविभाग एव तावद्दोषः । अपि च एकयोगत्वे चकारो न कर्त्तव्यो भवतीति प्रश्नः । एवं चोत्तरग्रन्थे चकारो न पठितव्यः । पठ्यमानस्तु अनुक्तसमुच्चयार्थे व्याख्येयः । कथं पुनरेक्रयोगत्वे भावादिकर्मंभ्यामन्यत्र प्रतिषेधः सिद्धः तत्राह - अन्यत्रेति । यदुणधेरिति ।उपाधिरभिधेयादिर्भेदकः । यद्युपाधीनां भेदकत्वं न स्यात्, योगविभागोऽनर्थकः स्यात् । भेदकत्वे तु तेषां भावादिकर्णणोर्विकल्पविधानात्कर्तृकर्मणोः प्रतिषेधो न स्यादिति तदर्थो योगविभागः कर्त्तव्यः । किमेतस्य ज्ञापने प्रयोजनम् इत्यत आह - तेनेति । लाभार्थस्य विभाषेति । अत्र हेतुर्वक्ष्यते । यदि तर्ह्युपाधिर्भेदकः, ततः उदितो वा इति क्त्वाप्रत्यये भाववाचिनि विकल्प इति निष्ठायामपि भाव एव प्रतिषेधः स्यात्, नार्थान्तरे । शब्देनाश्रीयमाणो ह्युपाधिर्भेदकः । न च उदितो वा इत्यत्र भाववाचित्वं शब्देनाश्रितम् । तथा च तेन निर्वृत्तम्, निर्वृत्तेऽक्षद्यूतादिभ्यः इत्यादेरुपपत्तिः ।।
विभाषा भावादिकर्मणोः ।। 7 - 2 - 17 ।।
मेदितमनेनेति । निष्ठा शीङ् इति कित्त्वप्रतिषेधाद् गुणः । प्रमिन्न िति । आदिकर्मणि क्तः कर्त्तरि च इति कर्त्तरि क्तः ।
सौनागा िति । सुनागस्याचार्यस्य शिश्याः - सौनागाः । शकितो घटः कर्तुमिति । यद्यपि शकिः केवलोऽकर्मकः, तथापि तुमुनन्तवाच्यक्रियाविशेषणत्वेन सकर्मको भवति । तथा च कर्मणि लादयो दृश्यन्त - अयं योगः शक्योऽवक्तुम्, अयमर्थः शक्यते वक्तुमिति ।।
क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धिफाण्बाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु ।। 7 - 2 - 18।।
मन्थाभिधानं चेदिति । समुदायेन चेन्मन्थोऽभिधीयत इत्यर्थः । एतेन समुदायानामभिधेयभावेन मन्थादय
इहोपात्ता इति दर्शयति । यदि तु धात्वर्थोपाधित्वेनाश्रीयेरन् - मनथादिसाधने धात्वर्थे क्षुब्धादयो निपात्यन्त िति, तदा क्षुभितं मन्थेनेत्यादावपि स्यात् । द्रवद्रव्यसम्पृक्ताः सक्तवः- मन्थः । दधिमन्थान्मधुमन्थांश्चेति हि दृश्यते । अन्ये तु मथ्यतेऽनेनेति मन्थनदण्डः खञ्जकः - मन्थ इत्याहुः । मन्थादिषु क्षुब्धादिशब्दानां चलानादिक्रियायोगो यथासम्भवं द्रष्टव्यः । उपमानादिति । उपमानम् - सादृश्यम्, तचच् यथासम्भवं द्रष्टव्यम् ।
स्वान्तशब्देन विषयष्वविक्षिप्तमनाकुलं मन उच्यते । स्वनितं शब्दायितमित्यर्थः । मनसेति । कर्त्तरि करणे वा तृतीया । एवं ध्वनितं तमसेत्यत्रापि ।
लग्निमिति । रगे लगे ष्टगे संवरणे, अत्र निष्ठानत्वमपि निपात्यते ।
ग्लिष्टमिति । म्लेच्छ अव्यक्ते शब्दे । म्लेच्छितमिति । अपभाषितमित्यर्थ । अत्रार्थस्याविस्पष्टतया शब्दस्याविस्पष्टत्वम् अपशब्दानामपि स्वरुपेणाभिव्यक्तत्वात् । उदाहरणेषु वर्णानभिव्यक्तिः - विस्पष्टत्वम् । फाण्डमित्यादि । कः पुनरत्रानायासो विवक्षितः इत्यत आह - यदश्रृतमित्यादि । यस्य व्याधेर्यदौषधं जातं तस्य पञ्चधा कल्पान - रसः, कल्कः, श्रृतः, शीतः, फाण्ट इति । रसः - स्वरसः । कल्कः - पिष्टम् । श्रृतम् - क्वाथः । शीतो नाम - क्षुण्णमौषधजातमुदके प्रक्षिप्य रात्रावधिवासितमुदकं प्रातः पीयते । तदेवोष्णोदके प्रक्षिप्य सद्योऽभिषुत्य पूत्वा यत्पीयते सः फाण्टः । यथाह वाग्भटः - सद्योऽभिषुत्य पूतस्तु फाण्टः इति । पञ्चाप्येते कषायाः । तत्राश्रृतमिति क्वाथस्य व्यावृत्तिः, अपिष्टमिति कल्कस्य, उदकसम्पर्केणेति स्वरस्य, ईषदुष्णमिति शीतस्य, मात्रशब्दः स्वभावानुवादः । विभक्तरसम् प्राघवस्थाया भिन्नरसम् । यदेवम्भूतं कषायं तत्फाण्टमित्यर्थः । कषायशब्द उभयलिङ्गः । कथं पुनरेतदनायासशब्देनोच्यते लक्षणया । यदाह - अनायासेनेति ।।
घृषिशसी वैयात्ये ।। 7 - 2 - 19 ।।
ञिधृषा प्रागल्भ्ये, शसु हिंसायाम्, षष्ठ्यर्थे प्रथमा । विरुपं यातम् - ग्मनम्, चेष्टतं यस्य स वियातः - अविनीतः ।
शसेरपीत्यादौ ग्रन्थे इट्प्रतिषेधः सिद्ध इत्यनुषङ्गः । अथ धृषेः विभाषा भावादिकर्मणोः इति विकल्पे प्राप्ते नित्यार्थं ग्रहणं कस्मान्न भवति तत्राह - भावादिकर्मणोरपीति । एवं चास्य आदित्वे प्रयोजनं चिन्त्यम् । धर्षितः - अभिभूतः पूर्ववदकित्वम् । विशसितः - विकृतः ।।
दृढः स्थूलबलयोः ।। 7 - 2 - 20 ।।
स्थूलः - मांसलः, दुर्बलोऽपि । अस्थूलोऽपि बलवान् - बलः । बलवति चेति । सूत्रे अर्शआद्यच्प्रत्ययान्तं बलशब्दं दर्शयति । दृंहेरिति । दृहि वृद्धौ इत्येतावान्पाठः - इति वार्तिककारस्य पक्षः, दृह दृहि वृद्धौ - इति भाष्यकारस्य ।
अथ किमर्थ हकारस्य लोपो निपात्यते, न ढत्वमेव निपात्यताम्, परस्य धत्वं ष्टुत्वम्, ढो ढे लोपः दृढ इति सिद्धम् इत्यत आह - हकारलोपनिपातनमिति । रेफो न स्यादिति । रादिफः इत्यत्र वर्णादिति नाफेक्ष्यते, तेन रशब्दो न स्यादित्यर्थः । ढलोपस्यासिद्धत्वे संयोगे गुरु इति गुरुसंज्ञयोपजातया लघुसंज्ञाया बाधितत्वात्तन्निबन्धनकार्याप्रसङ्ग इत्यर्थः । इह चेति । गुरुसंज्ञानिबन्धनकार्यप्रसङ्गश्चेत्यर्थः । दृंहितमिति । दृंहेः प्रत्युदाहरणम् । दृहितमिति दृहेः । अत्र च दीर्घादिरुपेण वृद्धमुच्यते ।।
प्रभौ परिवृढः ।। 7 - 2 - 21 ।।
पूर्वेण समानमिति । इडभावादेर्निपात्यस्य तुल्यत्वात् । वृहेरिति । वृहि वृद्धौ इति वार्त्तिककारस्य पक्षः । बृहि वृद्धौ इति भाष्यकारस्य ।
वृहिश्च यदि प्रकृत्यन्तरमस्तीति । ततस्तस्यापि निपातनमित्यर्थः । तदेव प्रयोजनमिति । असिद्धत्वाभावः ।
अथं कथं परिवृढय्येत्यत्र ल्यबादेशः, यावता परिवृढमाचष्टे इति विग्रहे तत एव णिच् कर्त्तव्यः, समुदायस्य च धातुत्वात् क्त्वाप्रत्ययोऽपि तत थएव कर्त्तव्यः, ततश्च परेरपि क्त्वान्तेऽन्तर्भावान्नायं समासः, इह च परिव्रढयतीति परिशब्दस्य तिङन्तेऽन्तर्भवात् तिङ्डतिङः इति निधातो न स्यात् इत्यत आह - परिवृढमाचष्ट इति विगृह्येति । णिजुत्पद्यत इति । ण्यन्तं पठितव्यम् । अण्यन्तपाठे तु विगृह्येति क्त्वाप्रत्ययो न स्यात्, असमानकर्तृकत्वात् । स्ग्रामयतेरेव सोपसर्गादिति । तयदत्र वक्तव्यं तद् भृशादिभ्यो भुव्यच्वेः इत्यत्रैवोक्तम् । निघातो भवतीति । अड्द्विर्वचनयोरप्युपलक्षणमेतत् - पर्यव्रढयत्, परिविव्रढयिषति । परिवृंहितमिति । वृंहेः प्रत्युदाहरणम् । परिवृहितमिति । वृहेः ।।
कृच्छ्रगहनयोः कषः ।। 7 - 2 - 22 ।।
कषतिर्हिसार्थः । कष्टोऽग्निरिति । चीयमानोऽग्निरत्राग्निशब्देन विवक्षितः, स कष्टो भवति, चयनप्रकारस्य दुर्ज्ञानत्वात् । व्याकरमस्य कष्टत्वमिडागमादिव्यवस्थाया दुर्ज्ञानत्वात् । सान्नं कष्टत्वं वर्षभदस्य
स्वरस्य स्तोमादीनां च दुर्ज्ञानत्वात् । कारणमपीति । लक्षणया, कृच्छ्रमिति व्युत्पत्त्या वा ।।
धुषिरविशब्दने ।। 7 - 2 - 23 ।।
घुष्टा - अविशब्दिता । अवधुषितम् - विशब्दितम्, आविष्कृताभिप्रायमित्यर्थः । चौरादिकस्य चायं प्रयोगः स एव ह्यस्मिन्नर्थे वर्तते । द्वावपीति । घुषिरिति सूत्रोपात्तं रुपं द्वयोरपि साधारणमित्यर्थः । कथं सामान्येन ग्रहणम्, यावता विशब्दने णिचा भवितव्यम्, केवलश्चेह घुषिरुपात्तः अत तआह - विशब्दनप्रतिषेधश्चेति । विशब्दनार्थस्यानित्य इति । अन्ये तु अनित्यण्यन्ताश्चनरादयः इति सामान्येन ज्ञापकमाहुः । अपर आह -
चिति स्मृत्यामितीदित्त्वमत्र ज्ञापकमस्य हि ।
फलं चिन्तित तित्यादौ न लोपो मा स्म भूदिति ।।
नित्ये च णिचि सत्यत्र नलोपस्याप्रसङ्गतः ।
चिन्त स्मृत्यामित्येव च पठितव्यं भवेदिति ।।
अयमपीति । यद्यपि अवधुषितं वाक्यमाह - इत्येतदपि प्रयोजनम्, तथापि जुघुषुरित्यपि प्रयोग उपपन्न इत्यर्थः ।।
अभोश्चाविदूर्थे ।। 7 - 2 - 25 ।।
विशेषेण दूरं विदूरं ततोऽन्यदिति । तत्पुनर्यदासन्नमविप्रकृष्टं वा भवति तद्वेदितव्यम् । तस्य भाव आविदूर्यमिति । ब्राह्मणादेराकृतिगणत्वात् ष्यञ् । ननु च न नञ्पूर्वात्तत्पुरुषात् इति प्रतिषेधः प्राप्नोति तत्राह - एतस्मादेवेति । न नञ्पूर्वात् इत्यमयधिकारः, तेन ततः सूत्रादुत्तरस्य भाषप्रत्ययस्य प्रतिषेधस्तत्र क्रियत इति उत्तरस्येत्युक्तम् ।।
णेरध्ययने वृत्तम् ।। 7 - 2 - 26 ।।
अधीयत् इत्यध्ययनमिति कृत्यल्युटो बहुलम् इति कर्मणि ल्युट् । निषठाविशेषणं चैतत् - अध्ययनाभिधायिन्यां निष्ठायामिति । णिलुक्वेति । प्रत्ययलक्षणेन गुणो मा भूदिति णेर्लुग्निपातनम्, लोपनिपातने तु गुणः स्यात् । वृत्तो गुणो देवदेत्तेनेति । गुणः - पाठः, पदक्रमसंहितारुपोऽध्ययनविशेषः, स वृत्तः - सम्पादित इत्यर्थः ।
वृतिरयमित्यादिना सूत्रस्यानारम्भमाशङ्कते । अकर्मक इति वृत्तं गुणसुय, वृत्तं पारायाणस्यते भावे क्तस्य प्रयोगार्थमिदमुक्तम् । अकर्मकत्वे हि भावे निष्ठा भवति तयोरेव इत्यत्र भावे चाकर्मकेभ्यः इत्यनुवृत्तेः । योऽपि नपुंसके भावे क्तः, सोऽपि सकर्मकेभ्यो न भवति तयोरेव इत्यत्र क्तमात्रस्य ग्रहणात् । अन्यथा सक्रमकाद्भावे क्ते विधीयमाने कर्मणि द्वितीया प्रज्येत - ग्रामं गतम्, ओदनं भुक्तमिति । यदि तर्ह्यकर्मकः, कथं
वृत्तो गुण इति कर्मणि निष्ठा इत्याशङ्क्याह - स ण्यर्थे वर्तमाने इति । यदि वा - अयं वृतिरकर्मकः स ण्यर्थे वर्तमानः इत्येक एव ग्रन्थः, अकर्मका अपि धातवोऽन्तर्भावितण्यर्थाः प्रयोज्येन कर्मणा सकर्मका भवन्ति, यथा - राजयुध्वेति, दृश्यते च वृत्तेरन्तर्भावितण्यर्थस्य प्रयोग इत्याह - तेन निर्वृत्तिमिति हीति । न चात्रोपसर्गवशात्सकर्मकत्वम्, ण्यर्थगतेः वृत्तेणिचि योऽर्थः । निवर्त्यते यैर्नियमाभिषेकः इत्यादौ तदवगतेरित्यर्थः। तत्तस्मात् । वृत्तेरेवेति । प्रकृत्यन्तादेवेत्यर्थः । वृत्तो गुण इति । उदितो वा इति क्त्वायां विकल्पितेट्कत्वाद् यस्य विभाषा इतीट्प्रतिषेधः सिद्धः । तदेवं निपातनमनर्थकमित्येव मतं चोद्यम् । परिहरति - तत्क्रियत इति । इष्टस्यान्यथासिद्धावप्यनिष्टनिवृत्त्यर्थं निपातनसित्यर्थः । अपरे त्विति । तेषां मते नानेनार्थः सूत्रेण ।।
वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः ।। 7 - 2 - 27 ।।
दान्तः, शान्त इति । दमिशमी उपशमनार्थे । णलुगिट्प्रतिषेधयोः अनुनासिकस्य क्विझलोः इति दीर्घः । निपात्यमानस्य च णिलुकोऽपरनिमित्तकत्वाद्दीर्घविधिं प्रति निषेधाच्च स्थानिवद्भावो नास्ति । पूर्ण इति । पूरी आप्यायने दिवादिः, चुरादिश्च । दस्त इति । तसु उपक्षये दमु च । अत्र ह्रस्वत्वमपि निपात्यते । स्पष्टः छन्न इति । स्पशबाधनस्पर्शनयोः, छद अपवारणे । अत्रापि ह्रस्वत्वमपि निपात्यते । ज्ञप्त इति । ज्ञप मिच्च,
चुरादिः । इट्प्रतिषेधो णिलुक्च निपात्यत इति । चकारात्क्वचिदुपधाह्रस्वत्वं च । क्वचित्पठ्यते - ज्ञपेभंरज्ञपिसनामिति विकल्पिविधानाद्यस्य विभाषेतीट्प्रतिषेधे प्राप्ते विकल्पार्थे निपातनमिति । एकाज्ग्रहणम् यस्य विभाषा इत्यत्र नानुवर्त्तत इति भावः ।
अत्रादितश्चतुर्णां ग्रहणं शक्यमकर्त्तुम् । कथम् अन्तर्भवितण्यर्थानां प्रकृत्यन्तानां दान्त इत्यादीनि रुपाणि, अन्यत्र ण्यन्तानां दमित इत्यादीनि ।।
रुष्यमत्वरसंघुषास्वनाम् ।। 7 - 2 - 28 ।।
अभ्यान्त इति । अम गत्यादिषु, पुर्ववद्दीर्घः । तृर्ण इति । ञित्वरा सम्भ्रमे, ज्वरत्वर तइत्यादिनोठ् । आदितश्चेतीट्प्रतिषेधे प्राप्त इति । आदित्वे तु प्रयोजनं मृग्यम् । आत्मनेपदार्थं तावत्कश्चिदनुबन्ध थआसञ्जनीयः । कश्चिदाह - आदित्वं यङ्लुगर्थमिति, न हि तत्रायं विकल्पः, एकाचः इत्यनुवृत्तेः । आदित्करणसामर्थ्याच्चानुबन्धनोऽपि आदितश्च इतीट्पिरतिषेधो यङ्लुकि भवति । सम्पूर्वस् धुषेरिति । घुषिरविशब्दने इत्यस्यासम्पूर्वोऽवकाशः - घुष्टा रज्जुः, अस्य विकल्पस्यावकाशः सम्पूर्वत्वे सति विशब्दने - संघुष्टं वाक्यमाह, संपूर्वस्याविशब्दने विप्रतिषेधः । आङ्पूर्वस्येत्यादि । क्षुब्धस्वान्त इति निपातनस्यावकाशोऽनाङ्पूर्वत्वे सति मनोऽभिधाने - स्वान्तं मन इति , अस्य विकल्पस्यावकाशः, - आङ्पूर्वत्वे सत्यमनोऽभिधाने आङ्पूर्वत्वे मनोऽभिधाने च सति विप्रतिषेधः ।।
हृषेर्लोमसु ।। 7 - 2 - 29 ।।
हृष्टानि - उत्स्फुटानि, मूद्धंजाः - केशाः । अङ्गान्तरजानि लोमानि इति निघण्टुप्रसिद्धिः । कल्पसूत्रकारणामपि तदनुगुणाः प्रयोगाः - केशश्मश्रुलोमनखं वापयन्ति इति, तइह तु केशानामपि ग्रहणम् इत्याह - मूर्द्धजान्यङ्गजानि चेति । अत्र विशेष्यं मृघ्यम् । सामान्येन गृह्यन्त इति । क्व यथा इत्यात्राह - यथेति । ननु क्रियावचनस्य धातोः कथं द्रव्यात्मकेषु लोमसु वृत्तिः इत्यत आह - तद्विषये चेति । प्रतिहताः कठिनद्रव्याखादनेन, शीतपीङया वा हता इत्यर्थः ।।
अपचितश्च ।। 7 - 2 - 30 ।।
अपचितोऽनेन गुरुरिति । चायृ पूजानिशामनोयोः । निशामने चायं प्रयोगः । पूजायां तु मतिबुद्धिपूजार्थेभ्यश्च इति वर्तमाने क्ते सति क्तस्य च वर्त्तमाने इति षष्ठ्या भवितव्यम् । क्तिनि नित्यमिति । क्तिन्नाबादिभ्यः इति क्तिन् । अन्यथा गुरोश्च हलः इत्याकारः स्यात् ।।
ह्रु ह्वरेश्छन्दसि ।। 7 - 2 - 31 ।।
ह्वरेरिति । ह्वृ कौटिल्ये । आगन्तुकेकारे गुणेन निर्द्देशः ।।
अपरिह्वृताश्च ।। 7 - 2 - 32 ।।
आदेशस्याभाव इति । पूर्वसूत्रेण प्राप्तस्य । वहूवचननिर्द्देशश्छन्दसि तस्यैव प्रयोगदर्शनात् ।।
सोमे ह्वरितिः ।। 7 - 2 - 33 ।।
इडागमो गुणश्चेति । चकारादादेशाभावश्च ।।
ग्रसितस्कमितस्तभितोत्तभितचत्तविकस्ता विशस्तृशस्तृशास्तृतरुतृतरुतृवरुतृवरुतृवरुत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमितीति चः ।।
ग्रसु अदने, स्कम्भु स्तुम्भु रोधनार्थौ, सौत्रौ, चते याचने, कस गतौ, शसु हिंसायाम्, शंसु स्तुतौ, शासु अनुशिष्टौ, तॄ प्लवनतरणयोः, वृङ् वरणे, ज्वल दीप्तौ, क्षर सञ्चलने, क्षमूष् सहने, दुवम उद्गिरणे, अमगत्यादिषु । उत्ताभितेति । उदः स्थास्तम्भोः पूर्वस्य इति पूर्वसर्वणः, सकारस्य तकारः । अन्योपसर्गपूर्वः स्तभितशब्दो न भवतीति । यदि स्यात्, उत्तभितग्रहणमनर्थकं स्यात् । निपातनबहुत्वापेक्षमिति । तेन छान्दसः प्रयोगः एकवचनान्तोऽप्युदाहृत इति भावः ।
इतिकरणः प्रदर्शनार्थ इति । तस्य प्रकारार्थत्वात् ।।
आर्धधातुकस्येङ्वलादेः ।। 7 - 2 - 35 ।।
आस्ते, वस्त इति । ननु च रुदादिभ्यः सार्वधातुके इत्येतन्नियमार्थ भविष्यति - रुदादिभ्य एव
सार्वधातुक इति तत्राह - रुदादिभ्यः सार्वधातुक इत्येतस्तमिन्निति । नियमे त्वेतस्मिन् विज्ञायमाने विपरीतोऽपि नियमः सम्भाव्यते - रुदादिभयः सार्वधातुके एवेति । तत्र च वक्तव्यं रुदविदेति क्त्वासनोः कित्त्वविधानान्न भविष्यति । तअनिटः सनो झलादेर्हलन्ताच्च इत्येव सिद्धत्वात् । क्त्वोऽप्यनिट औपदेशिककित्त्वसद्भावादिति, ततश्च प्रतिपत्तिगौरवं स्यात् । ननु चासत्यार्धधातुकग्रहतणे अङग्स्य इत्यधिकारत्तस्यैवेट् प्राप्नोति, यथा लुङ्लङ्लृङ्क्ष्वडुदात्तः इति ज्ञापकात्सिद्धम्, यदयम् एकाच उपदेशेष़नुदात्तात् इति प्रत्ययस्यट्प्रतिषेधं शास्ति, यच्च निष्ठायां सेटि न क्त्वा सेट् इत्याह, तज्ज्ञापयति - प्रत्ययस्यैवायमिडिति । न च वृक्षत्वमित्यादौ प्रतिपदिकप्रत्ययस्य प्रसङगः, ॠत तइद्धतोः इत्यधिकारात् । एवमपि जुगुप्सते, ल्भ्याम्, लूभिरित्यादौ प्रसङ्गः इदितो नुम् धातोः इत्यतो द्वितीयमपि धातुग्रहणमनुवर्तिष्यते, तत्रैकं स्वरुपपदार्थकम्, ततश्च धातोः इत्येवं धातुसंश्बदनेन विहितस्य धातोः परस्येड्विधानान्न क्वाप्यनिष्टं रूपम् । तदेवं बहुप्रतिविधेयत्वात् प्रतिपत्तिगौरवपरिहार्थम् आर्धधातुकस्य इत्युक्तम् ।
प्रतिषेधनिवृत्त्यर्थमिति । केन पुनः प्राप्तस्य प्रतिषेधः शङ्क्यते इदमेव वचनं कल्पकं स्यात् - अस्त्यार्द्धधातुकमात्रस्येट्, यतो वलादेः प्रतिषिध्यत इति । तनेङ्वशि कृति थइत्यादिकस्तु प्रतिषेधो नियमार्थः स्यात् ।।
स्नुक्रमोरनात्मनेपदनिमित्ते ।। 7 - 2 - 36 ।।
स्नुक्रमोरुदात्तत्वादिटि सिद्धे नियमार्थं वचनम् - अनात्मनेपदनिमित्त एव यथा स्यादन्यत्र मा भूदिति । अथ प्रस्नुतः, प्रस्नुतवान्, प्रसुस्नूषति, क्रान्तः, क्रान्तवान् - इत्यत्र श्र्युकः किति, सनि ग्रहगुहोश्च, यस्य विभाषा इति प्रतिषेधे प्राप्ते विध्यर्थमेतत्कस्मान्न भवति पुरस्तात्प्रतिषेधकाण्डकरणात् । तस्य हि प्रयोजनम् - अनाश्रितविधानविशेषस्येण्मात्रस्य प्रतिषेधो यथा स्यादिति । यद्यनात्मनेपदनिमित्त इति प्रसज्यप्रतिषेधः स्नुक्रमोरात्मनेपदनिमित्तत्वे सतीण्न भवतीति, एवं च प्रतिषेधप्रकरण एवैतत्पठितव्यम्, तत्रायभष्यथेः - नञुपादानं न कर्त्तव्यं भवति तथा तु न कृतमित्येव ।
अत्र यद्यात्मनेपदशब्देन नञः समासं कृत्वा पश्चान्निमित्तशब्देन षष्ठीसमासः क्रियेत - आत्मनेपदादन्यदनात्मनेपदम्, परस्मैपदमिति यावत्, तस्य निमित्तम्, ततश्च यत्र स्नुक्रमौ परस्मैपदनिमित्ते - चक्रमिथ, चक्रमिव, चक्रमिम, प्रास्नावीत्, प्रसुस्नुविवेत्यादौ - तत्रैवेड्भवतीत्यर्थः स्यात्, ततश्च कृति न स्यात् - प्रस्नविता, प्रस्त्रवितुम्, प्रस्नवितव्यम्, प्रक्रमिता, प्रक्रमितुम्, प्रक्रमितव्यमिति, तथा चिक्रमिषतीत्यत्रापि न स्यात्, न हि सनन्तादुत्पद्यमानस्य परस्मैपदस्य क्रमिर्निमित्तम्, परस्मैपदग्रहणमेव च कर्त्तव्यं स्यात्, तस्मादात्मनेपदशब्दस्य निमित्तशब्देन समासं कृत्वा पश्चान्नञा समासः कर्त्तव्यः । प्रसज्यप्रतिषेधे त्वनुन्मेष एवास्य पक्षस्य स्यात् । तत्र यद्यनात्मनेपदनिमित्त इति सप्तम्येकवचनं स्यात्, ततोऽयमर्थः स्यात् - आत्मनेपदस्य यन्निमित्तं ङकारादि तस्मिन्सति न भवतीति, ततश्च प्रस्नवित्रीयत इत्यत्रापि प्रतिषेधः स्यात्, विद्यते ह्यत्रात्मनेपदस्य निमित्तम् क्यङो ङकार इति । प्रथमाद्विवचनान्तं स्नुक्रमोर्विशेषणमिति दर्शयति - न चेत् स्नुक्रमौ आत्मनेपदस्य निमित्तमिति । वेदाः प्रमाणम् इतिवदेकवचनम् । सूत्रे तु प्रत्येकं निमित्तत्वस्य विवक्षितत्वात् द्विवचनम् । निमित्तशब्दोऽयमस्ति योग्यतामात्रे - कुसूलस्थेष्वपि बीजेषु वक्तारो भवन्ति - अङ्कुरनिमित्तान्यतानीति अस्ति च कुर्वद्रूपे । तत्राद्ये पक्षे कृत्यापि प्रतिषेधः स्यात् - प्रस्नविता, प्रस्नवितुम्, प्रस्नवितव्यम्, प्रक्रमिता, प्रक्रिमितुम्, प्रक्रमितव्यमिति । अस्ति ह्यत्र यथायोगं भावकर्मकर्तृविषयत्वादात्मनेपदं प्रति योग्यत्वम्, तदिह किं विवक्षितम् इति पृच्छति - क्व च तावात्मनेपदस्य निमित्तमिति । इतरोऽपि कुर्वद्रूपपक्षाश्रयणेन परिहरति - यत्रेत्यादि । अत्रैवं व्याख्येयम् - यत्रात्मनेपदं तदाश्रयं भवति तत्रैवात्मनेपदस्य
निमित्तम् । किं पुनस्तद्यत्र तदाश्रयमात्मनेपदं भवति इत्यत आह - भावकर्मेत्यादि । अत्र हि विषये स्नुक्रम्योः श्रूयमाणमात्मनेपदं भवतीति, कुर्वद्रूप एव निमित्तशब्दो मुख्यः, योग्यतामात्रे त्वौपचारिक इति भावः । ननु च भावकर्मादिषु त एवार्था आत्मनेपदस्य निमित्तम्, स्नुक्रमी, क्व तर्हि प्रतिषेधः स्याद् यत्र हि क्रिमिरेव निमित्तम्, अनुपसर्गाद्वा - क्रंस्यते नैष दोषः, भावकर्मकर्त्तारः क्रमेश्च वृत्त्यादयः । सर्वमेवैतद्धातोरेव विषयतया विशेषणम्, धातुरेव तु साक्षादात्मनेपदस्य मिमित्तम् - भावादिविषयाद्धातोरात्मनेपदं भवतीति । तेनेत्यादि । यत
एवं कुर्वद्रूपमेवात्र निमित्तम्, तेनायं सत्यात्मनेपदे प्रतिषेध इत्यर्थः ।
किमुच्यते प्रतिषेध इति, यावता पर्युदासाश्रयेणोकपक्रमे व्याख्यातम् तत्राह - प्रतिषेधफलं चेदं सूत्रमिति । सत्यं पर्युदासेऽपि नियमार्थत्वान्नियमस्य चेतरव्यावृत्तिफलकत्वादेवमुक्तमित्यर्थः ।
प्रस्नोषीष्टेति । आशिषि लिङ्, भावकर्मणोः इत्यात्मनेपदम् । प्रकंसीष्टेति । अत्र तु प्रोपाभ्यां समर्थाभ्याम् इति कर्त्तरि । सर्वत्रेत्यादिना सूत्रार्थमुदाहरणे दर्शयति । ननु सनन्ताद्विधीयमानस्यात्मनेपदस्य स एव धातुर्निमित्तं न स्नुक्रमी तत्राह - सनन्तादपीति । पूर्ववदिति वचनात्प्रकृतिगतमेव सनन्तेऽपि निमित्तमिति भावः । यदा तर्हि सनन्ताद्भावकर्मणोरात्मनेपदं तदा प्रतिषेधो न प्राप्नोति, न हि तदा प्रकृतिगतं निमित्तमपेक्षितम्, किं तर्हि सनन्तमेव स्वतन्त्रं निमित्तम्, पुत्रीयत ित्यादिवत् एवं तर्हि सनन्ताद्भावकर्मणोरपि पूर्ववत्सनः इत्यात्मनेपदं भविष्यति एतयोरर्थयोः सन्प्रकृतावात्मनेपदस्य दृष्टत्वात् । तत्र यद्यपि सनन्तमपि स्वयमेव निमित्तमुपपद्यते, तथापि भावकर्मणोः इत्यस्यावकाशः - भूयते, पच्यते पूर्ववत्सनः इत्यस्यावकासः - शिशयिषते सनन्ताद्भावकर्मणोरुभयप्रसंगे परत्वात् पूर्ववत्सनः इत्यनेन भविष्यति । यदि परं विशेषो नास्तीत्युच्यते तदपि न अत्रैव विशेषस्य सम्भवात् । एवमपि न सिध्यति, पूर्ववत्सनः इत्यत्र कर्त्तरि कर्मव्यतिहारे इत्यतः कर्तरीत्यनुवृत्तेः । तत्र हि प्रकरणे सर्वज्ञैव कर्तरिति सम्बध्यते । अथापि न सम्बध्यते, एवमपि यदा सनन्ताद् णिचि कृते णिचश्च इति, भावकर्मणोः इति वा आत्मनेपदम्, तदा प्रतिषेधो न सिध्यति - चिक्रंस्यते, चिक्रंस्यत इति । किं च - भोस्तदानीमपि प्रतिषेध इष्यते बाढमिष्यते । यदाह वार्त्तिककारः - सिद्धं तु स्नोरात्मनेपदेन समानपदस्थस्योट्प्रतिषेधात्, क्रमेश्च इति । तदेवमात्मनेपदेन समानपदस्थत्वे प्रतिषेधं कुर्वतो वार्त्तिककारस्यैवंविधे विषये प्रतिषेध इष्टो लक्ष्यते । यथा पुनर्वृत्तिकारेण व्याकख्यातं तथा न प्राप्नोति कर्त्तव्योऽत्र यत्रः ।
यदि सत्यात्मनेपदे प्रतिषेधः मा कारि निमित्तग्रहणम् अनात्मनेपदे इत्येवास्तु, सतिसप्तमी विज्ञास्यते - आत्मनेपदे सति न भवतीति, यद्येतल्लभ्यते कृतं स्यात्, तत्तु न लभ्यम्, शास्त्रे याः सप्तम्यस्ताः सर्वा परसप्तम्य इति नियमात् परसपतम्यां तु यदि स्नुक्रमोर्विशेषणं स्नुक्रमोरात्मनेपदेऽनन्तर इति, सिद्धं प्रस्नोषीष्ट, प्रक्रसीष्ट, प्रस्नोष्यते, प्रक्रंस्यते - अत्र न प्राप्नोति, स्येन व्यवहितत्वात् । आर्थार्धधातुकस्य विशेषणम् - स्नुक्रमिभ्यां परस्यार्धधातुकस्यात्मनेपदेऽनन्तर इति सिद्धं प्रस्नोष्यते, प्रक्रंस्यते, प्रस्नोषीष्ट, प्रक्रंसीष्ट - अत्र न प्राप्नोति, सीयुट आत्मनेपदभक्तत्वात् । उभयथापि प्रचिक्रंसिष्यते - अत्र न प्राप्नोति, न ह्यत्र क्रमेस्तत्परस्य सार्वधातुकस्यात्मनेपदमनन्तरम् । तस्मान्निमित्तग्रहणं कर्त्तव्यम् । तदाहनिमित्तग्रहणमित्यादि । तदात्मनेपदं परं यस्मात्स ततप्रः, प्रचिक्रसिष्यते इत्यादौ स्यप्रत्ययः, स परो यस्मात्स तत्परः, सन्प्रत्ययः । इह त्वित्यादि । प्रगेव व्याक्यातम् । प्रस्नवित्रीयत इति । रीङ् ऋतः । वात्तिककारमतेऽप्यत्र प्रतिषेधो न भवति, कथम् समानपदस्थस्य इति वचनात् इडागमेन पदावस्थापेक्षणीया । तत्र तृचि विभक्तावुत्पन्नायां लब्धेऽपि पदत्वे आत्मनेपदस्यासन्निधानादिट् प्रवर्त्तते । प्रतिक्रंसिष्यत इत्यत्र तु पदावस्थायामात्मनेपदसन्निधानात् प्रतिषेधप्रवृत्तिः।
आत्मनेपदविषयादिति । तद्येग्यादित्यर्थः । सत्यात्मनेपदे प्रतिषेध इत्युक्तत्वादिदमारभ्यते । अनुपसर्गात्क्रमेः क्रन्ता, क्रमिता - इत्युभयमपि भवति अनुपसर्गाद्वा इति वकल्पेनात्मनेपदनिमित्तत्वादित्येके । अन्ये त्वात्मनेपदविषयादिति अनन्यभावे विषयशब्दं वर्णयन्तः क्रिमितेत्येव भवितव्यमित्याहुः ।
स्नौतेः सनि किति चेति । उपलक्षणमेतत् । क्रमेश्च निष्ठायाम् यस्य विभाषा इति द्रष्टव्यम् । प्रतिषधो भवतीति । अत्र हेतुः प्रागेवोक्तः ।।
ग्रहोऽलिटि दीर्घः ।। 7 - 2 - 37 ।।
ग्रह उत्तरस्येट इति । कथं पुनरिटो दीर्घत्वं लभ्यते, इडिति यत्प्रकृतं तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः एवं तर्हि षष्ठ्यन्तप्रपरं करिष्यामि । एवमपि दोषः, प्रकृतमिटमनपेक्ष्येट इत्युच्यमानेऽविशेषाच्चिण्वदिटोऽपि दीर्घप्रसङ्गः अस्तु तर्हि प्रशमान्तमेव । तत्र दीर्घ इट् भवतीति सामानाधिकरण्येनान्वये सामर्थ्यादीडागमे विधिः सम्पद्यते । इट् दीर्घ इति चेद्विप्रतिषिद्धम्, यदिट् न दीर्घझ,
अथ दीर्घो नेट्, इट् दीर्घश्चेति विप्रतिषिद्धम् स्यादेतत् - दीर्घ इडद्भवतीत्युक्ते सामर्थ्याव्द्यक्तिपरत्यागेर इकारजातिराश्रीयते, दीर्घग्रहणाच्च तव्द्यक्तिसमवेता सा विधीयत इति । एवमपि दोषः, विवरीषते इत्यत्र सनीटि प्रप्ते वॄतो वा इत्यनेन पक्षे दीर्घ इटि च प्रसक्ते सनि ग्रहगुहोश्च इत्युभयस्मिन्नपि प्रतिषिद्धे इट् सनि वेति पक्षे इड्विधीयते । तत्र पुनरिटो विधानाभावात्पक्षे दीर्घ ईकारो न श्रूयेतेति नैष दोषः इट् सनि वा इत्यत्र दीर्घ इट् इति, वॄतः इति चानुवर्तिष्यते । यत्तर्हि विदेशस्थमिटं प्रतिषिध्य पुर्विधानं तत्र न सिध्यति - जॄव्रश्चोः क्त्वि, जरित्वा, जरीत्वा, अत्रोदात्तत्वादिट् प्राप्तः वॄतो वा इत्यनेन च दीर्घ इट्, ततो द्वयोरपि श्र्युकः किति चइति प्रतिषेधे पुनरिड्विधीयते, न च तत्र दीर्घग्रहणस्यानुवृत्तिसम्भवः । ननु च श्र्युकः किति इत्यत्र नेड्वशि इत्यधिकाराव्द्यक्तिपक्षाश्रयणाच्च इट एकमात्रस्य निषेधः, न दीर्घस्येटः, ततः किम् वॄतो वा इत्यनेन विहितो दीर्घ इट् तथेव स्थितः, जृव्रश्चोः क्त्वि इत्यनेन चेट् प्रतिप्रसूयते इति जरित्वा, चरीत्वेति दव्यमपि सिद्धं भवति स्यादेवं यद्यागमान्तरमीड्वीधीयते, इह तु इड् दीर्घः, इति वचनादिटकार्यमस्यापि भवत्येव । अन्यथा अग्रहीदित्यत्र ह्म्यन्तक्षण इति वृद्धप्रतिषेधः इट ईटि इति सिज्लोपश्च अग्रहीढ्वम्, अग्रहीध्वम्, विभाषेटः इति मूर्द्धन्यविकल्पः, जरीत्वेति न क्त्वा सेट् इति कित्त्वप्रतिषेधः इत्येते विधयो न सिध्येयुः । तस्मादिट्कार्यमस्यापीटो भवतीत्यङ्गीकर्त्तव्यम्, ततश्च विदेशस्थं प्रतिषिध्य पुनर्विधाने स्थित एव दोषः स्यात्, तस्माद्दीर्ध इडशक्यो विधातुम् । एवं तर्हि आर्धधातुकस्य इति वर्त्तते, ग्रह उत्तरस्यार्द्धधातुकस्य दीर्घो भवति । इहापि तर्हि प्राप्नोति - ग्रहणीयम् वलादेः इति वर्तते । इहापि तर्हि न प्राप्नोति - ग्रीता, ग्रहीतुमिति भूतपूर्वगतिर्विज्ञास्यते । इहापि तर्हि प्राप्नोति - ग्राहक इति अस्तु तर्हि इडित्येव । ननु चोक्तं षष्ठीनिर्द्देष्टेन चेहार्थ इति ग्रहः इति पञ्चमी इडिति प्रथमायाः षष्ठी प्रकल्पयिष्यति - तस्मादित्युत्तरस्य इति ।
प्रकृतस्येति । आर्धधातुकस्येड् इत्यनन्तरं विहितस्य । चिण्वदिटो न भवतीति । जरित्वेत्यत्र तु आर्धधातुकस्येड् इत्ययमेवेट् प्रतिषिद्धः प्रतिप्रसूयते इति भवत्येव दीर्घः । इह जरीगृहितेति यङन्तातृच्यल्लोपयलोपयोः कृतयोर्द्विष्प्रयोगो द्विर्वचनमिति स एवायं ग्रहिरिति दीर्घः प्राप्नोति पूर्वस्मादपि विधौ यः स्थानिवद्भावः सोऽपि दीर्घविधौ प्रतिषिद्धः । तस्माद्विहितविशेषणमिहाश्रयणीयम् - ग्रहेर्यद्विहितमार्धधातुकं तस्य य इट् तस्य दीर्घ इति ।
वॄतो वा ।। 7 - 2 - 38 ।।
अत्र यदि वृ वरणे इत्येतस्य तसिला निर्द्देशः स्यात् व्रः इत्येव निर्दिश्येत, यथा ग्रो यङि इति । अथ तस्य ऋकारान्तानां च ग्रहणम् एवमपि तस्य पृथग्ग्रहणमनर्थकम्, ऋकारान्तत्वात् । अथ तस्य ऋकारान्तानां
च तथा च सति ऋतश्च संयोगादेः इत्यत्र ऋतः इति न वक्तव्यम् अस्यैवानुवृत्तेः । अथ वृङ्वृञोः ऋकारान्तानां च तथापि वृग्रहणमनर्थकमृकारान्तत्वात् । तस्माद्वृत्तिकारोपदर्शितानामेव ग्रहणम् ।
वॄत इति किमिति । उः इति वक्तव्यमिति मन्यते ।।
न लिङि ।। 7 - 2 - 39 ।।
विस्तरिषीष्टेति । कर्मण्यात्मनेपदम् ।।
सिचि च परस्मैपदेषु ।। 7 - 2 - 40 ।।
अतारिष्टामिति । तॄ प्लवनतरणयोः । अस्तारिष्टमिति । स्तञ् आच्छादने, ञिदुभयपदी ।।
इट् सनि वा ।। 7 - 2 - 41 ।।
अत्रातिस्तीर्षतीति परस्मैदपाठो न युक्तः ।।
लिङ्सिचोरात्मनेपदेषु ।। 7 - 2 - 42 ।।
आत्मनेपदे परे इति । सिच एवैतद्विशेषणम्, न लिङः, असम्भवात् । न चैवं तस्य परस्मैपदेऽपि प्रसङ्गः वलादेः इत्यधिकारात् । प्रावृषीष्टेत्यादौ उश्च इति कित्त्वम् ।।
ऋतश्च संयोगादेर्गुणः ।। 7 - 2 - 43 ।।
उदारहणेषु भावकर्मणोः आत्मनेपदम् ।
संस्कृषीष्टेति । समः सुटि इत्यत्र सम्पुंकानां सो वक्तव्यः िति वचनात् सत्वम् ।।
स्वरतिसूतिसूयतिधूञूदितो वा ।। 7 - 2- 44 ।।
अत्र स्वरतेरनुदात्तत्वादप्राप्ते, तइतरेषां तु प्राप्ते विभाषा ।
वेति वत्तमान इति । इट् सनि वा इत्यतः । लिङ्सिचोर्निवृत्त्यर्थमिति । अन्यथा वाग्रहतणसम्बद्धयोस्तयोरप्यनुवृत्तिः स्यात् । पूप्रेरण इत्यस्य निवृत्त्यर्थ इति । अन्यथा निरनुबन्धकत्वात्तस्यैव ग्रहककणं स्यात् । एवं तर्हि सूङिति वक्तव्यम् एवमपि लुग्विकरणालुग्विकरकणयोरलुग्विकरणस्यैव ग्रहकणम् इति सूयतेरेव ग्रहणं स्यात्, न सूतेः । तस्याः परिभाषाया अस्तित्वेऽयमेव विकरणनिर्द्देशो ज्ञापकः । धूविधूनन इत्यस्य निवृत्त्यर्थ इति । अन्यथा पूर्ववत्तस्यैव ग्रहणं स्यात् । धुवितेति । कुटादित्वान्डित्त्वम् ।
स्वरतेरिति । अस्य विकल्पस्यावकाशः - स्वर्त्ता, स्वरिता, ऋद्धनोः स्ये इत्यस्यावकाशः - करिष्यति, स्वरतेः स्ये उभयप्रसङ्गे विप्रतिषेधः । किति तु प्रत्यय श्र्युक इति । ननु चायं विकल्पो यथा एकाज्लक्षणं प्रतिषेधं बाधते तृजादौ, तथा किल्लक्षणमपि प्रतिषेधं बाधेत न बाधेत, कथम् येन नाप्राप्ते तस्य बाधनं भवति । तस्मादपबादता तावदेकाज्लक्षणमेव प्रतिषेधं प्रत्यस्य भवति, कित्युभयप्रसङ्गे पुरस्तात्प्रतिषेधकाण्डकरणात्प्रतिषेध एव भवति । लिङ्गाच्च, यदयम् स्वृयूर्णुभरज्ञपिसनाम् इति विकल्पं शास्ति, अन्यथा अनेनैव सत्यपि विकल्पस्य सिद्धत्वात्पुनस्तं न विदध्यात् । वृत्तौ तु विप्रतिषेधशब्देनापि पुरस्तात्प्रतिषेधकाण्डकरणमेव विवक्षितम्, समानफलत्वात् ।।
रधादिभ्यश्च ।। 7 - 2 - 45 ।।
रधिर्नशिस्तृपिदृपी द्रुहिर्मुहि ष्णुहिष्णिही ।
रधादयोऽमी पठिता दिवादिष्वष्ट कृष्टिभिः ।।
नेष्टेति । मस्जिनशोर्झल इति नुम् । तृपिदृप्योः - अनुदात्तस्य चर्दुपधस्य इति पक्षे अमागमः । द्रोढेत्यादौ वा द्रुहमुहष्णुरष्णिहाम् इति धत्वढत्वे ।
क्रादिनियमादिति । ननु च प्रतिषेधस्यासौ नियमः, न च रधादौ कस्यचित्प्रत्ययाश्रयः प्रकृत्याश्रयो वा प्रतिषेधः प्राप्नोति, ययोरपि प्राप्नोति तृपिदृप्योः, तयोरपि प्रतिषेधे लिट्यनेन व्यावर्तितेऽप्ययं विकल्पः स्यादेव, विकल्पस्यानियतत्वात् एवं मन्यते -- यावान्कश्चिदिडभावः प्रतिषेधनिबन्धनो विकल्पनिबन्धनो वा, तस्य सर्वस्य क्रादिसूत्रेण नियमः इति । एवं चोत्तरग्रन्थे प्रतिषेधनियमस्येति अभावनियमस्थेत्येवार्थो द्रष्टव्यः । अपर इति । ननु चास्तु प्रतिषेधस्य प्राबल्यम्, किमायातम् नियमस्य प्रतिषेधविषयत्वान्नियमस्यापि प्राबल्यमित्यदोषः । नित्यमिटा भवितव्यमिति । प्रतिषेधाधिकारेण क्रादीनामेव लिटि इण्न भवति तइति नियमे विज्ञायमाने धात्वन्तरेषु यावान् कश्चित्प्रतिषेधः स सर्वो मा भूत्, विकल्पस्तु कस्मान्न स्यादिति ।।
निरः कुषः ।। 7 - 2 - 46 ।।
निष्कोष्टोति । इदुदुपधस्य चाप्रत्ययस्य इति षत्वम् । निस इति वक्तव्य इति । प्रदिषु हि निसिति पठ्यते, तथा च निसस्तपतौ तिति निर्देश इति भावः । किमेतस्य ज्ञापने प्रयोजनम् इत्यत आह - तस्येति । ननु नच नित्य एव रुत्वे कृते लत्वं भविष्यति तत्राह - निसो हीति ।।
इण्निषठायाम् ।। 7 - 2 - 47 ।।
इडिति वर्त्तमाने पुनरिड्ग्रहणं किमर्थम् इत्यत आह -- इड्ग्रहण नित्यार्थमिति । नन्वारम्भसामर्थ्यादेव नित्यमिड् भविष्यति, विकल्पस्य पूर्वोणेव सिद्धत्वात् इत्यत आह - आरम्भो हीति । यदि तर्हि नित्यार्थमिडग्रहणं क्रियते, उत्तरत्रापि नित्य एव विधिः स्यात् इत्यत तआह -- आत्रैवेति ।।
तीषसहलुभरुषरिषः ।। 7 - 2 - 49 ।।
इषु इच्छायामित्यास्येति । तौदादिकस्य । प्रेषितेति । एङि पररुपम् । उदितं पठन्तीति । धातुपाठे इच्छार्थमुदितं पठित्वा थइहाप्युकारोपादानेन तस्यैव ग्रहककणं वर्णयन्तीत्यर्थः । इदमेव चोदित्त्वस्य प्रयोजनम् क्त्वायामिड्विकल्पस्यानेनैव सूत्रेण सिद्धत्वात् । ये तूदितं न पठन्ति, ते सहिना साहचर्यादिच्छार्थस्य ग्रहणमाहुः । उभयोरप्यकारमात्रं विकरकण इति । यथा तु वार्तिकं तथा क्रैयादिकस्याप्यत्र ग्रहणमिष्यते, यदाह -- इषेस्तकारे श्यन्प्रत्ययात् प्रतिषेधः इति, तन्मते त्रोयऽपि निरनुबन्धकाः ।।
सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् ।। 7 - 2 - 49 ।।
भ्रस्जेरेकाच इति । श्रयतेरुगन्तानां च सनि ग्रहगुहोश्च इति प्रतिषेधः प्राप्तः इतरेषां तु नित्यमिट् प्राप्तः, तक्षेदमारभ्यते अर्दिधिषतीति । लघूपधलक्षणे गुणे अजादेर्द्वितीयस्य इति धिस् इत्यस्य द्विर्वजनम्, रेफस्य तु न न्द्राः इति प्रतिषेधः । ईर्त्सतीति । आप्ज्ञप्यृधामीत् तइति ऋकारस्य रपर ईकारः, धकारेण सशब्दस्य द्विर्वचनम्, अत्र लोपोऽभ्यासस्य ।
बिभ्रज्जिषतीति । भ्रस्चो रोपधयो रमन्यतरस्याम् । विभ्रक्षतीति । व्रश्चादिना षत्वम्, षढोः कः सि ।
धिप्सतीति । दम्भ इच्च इतीत्वमित्वं च, हलन्ताच्च इति कित्त्वे नलोपः, पूर्ववदभ्यासलोपः ।
यियविषतीति । ओः पुयण्ज्यपरे इत्यभ्यासस्येत्वम् ।
भॄञ् इत्येतस्येति । दीर्घान्तोऽयम् । थथा च भरः इत्यब् भवति ।
सिसनिषतीति । स्तौतिण्योरेव इति नियमादत्र षत्वाभावः । सिषासतीति । षत्वभूते सनि नियमादत्र षत्वम् ।
केचिदत्रेति । ये त्वेतन्न पठन्ति ते उपसंख्यानमारभन्त । तितांसतीति । तनोतेविंभाषां इति पक्षे दीर्घत्वम् । पित्सतीति । सनि मीमाधु इत्यादिना अच इस्, स्कोः संयोगाद्योः इति सलोपः पूर्ववदभ्यासलोपः । दिदरिद्रा सतीत्येके दिदरिद्रषतीति चेति । इट् पक्षे दरिद्रातेराकारलोपः ।।
क्लिशः क्त्वानिष्ठयोः ।। 7 - 2 - 50 ।।
क्लिशित्वेति । मृडमृद इत्यादिना कित्त्वम् ।
विकल्पः सिद्ध एवेति । उदत्त्वात्स्वरत्यादिसूत्रेण । किमर्थं तर्हि क्त्वाग्रहणम् इत्यत आह - क्लिश उपताप तइत्यस्येति ।।
वसतिक्षुधोरिट् ।। 7 - 2 - 52 ।।
उषित्वेति । पूर्ववत्कित्त्वम्, यजादित्वात्सम्प्रसारणम्, शासिवसि इत्यादिना षत्वम् । वस्तेस्त्विति । वस आच्छादने इत्यस्य यङ्लुग्निवृत्त्यर्थोऽपि शपा निर्द्देशो न भवति, तत्रापि क्त्वानिष्ठयोः सामान्यलक्षणेन इड् भवत्येव - वावसितः , वावसितवान्, वावसित्वा । गणाश्रयत्वात्सम्प्रसारकणाभावः ।।
अञ्चेः पूजायाम् ।। 7 - 2 - 53।।
अञ्चिता अस्येति । मतिबुद्धि इत्यादिना वर्त्तमाने क्तः, नाञ्चेः पूजायाम् इत्युपधालोपप्रतिषेधः, क्तस्य च वर्त्तमाने इति कर्त्तरि षष्ठी ।।
लुभो विमोहने ।। 7 - 2 - 54 ।।
लुभित्वा, लोभित्वेति । रलो व्युपधात् इत्यादिना कित्त्वविकल्पः ।।
सोऽसिचि कृतचृतच्छॄदतृदनृतः ।। 7 - 2 - 57 ।।
से इत्यकार उच्चारणार्थः, तअसिचीति प्रतिषेधात् । तेन स्येऽप्ययं विकल्पो भवति । कृती छेदने मुचादिः, कृती छेदने रुधादिः - द्वयोरपि ग्रहणम् । इदित्त्वस्य प्रयोजनमुक्तम् । चॄती हिंसाग्रन्थनयोः ऊच्छृदिर्दीप्तिदेवनयोः, तऊतृदिर् हिंसानादरयोः, नृती गात्रविक्षेपे । ईदित्त्वं पूर्ववत् ।।
गमेरिट् परस्मैपदेषु ।। 7 - 2 - 58 ।।
संगंस्यत इति । समो गम्यृच्छि इत्यात्मनेपदम् । गमेरिङादेशस्येति । तेन सञ्जिगंसते इत्यत्र न भवतीति भावः ।
आत्मनेपदेन समानपदस्थस्येति । इह तु जिगमिषितेवाचरति जिगमिषित्रीयत इति बहिरङ्गत्वादात्मनेपदस्य प्रतिषेधाभावः । एतच्च प्रस्नवित्रीयत् , इत्यत्र वार्त्तिककारमेत व्याख्यात्म् । अन्यत्र सर्वत्रैवेष्यत इति । कथं पुनरिष्यमाणोऽपि लभ्यते योगविभागात् । गमः सकारादाविड् भवतीत्येको योगः, ततः परस्मैपदेषु इति द्वितीयो नियमार्थः । लुल्यजातीयचापेक्षत्वान्नियमस्यात्मनेपदविषय इण्निवर्त्तत इति केचिदाहुः । अन्ये मन्यन्ते -- परस्मैपदेष्विति सप्तमीनिर्देशादानन्तर्याश्रयणादयमर्थो भवति - गमेरुत्तरस्य सकारादेरार्धधातुकस्य तिङ्क्ष्बनन्तरेषु यदिड्भवति परस्मैपदेष्वेवेति, ततश्च सङ्गंस्यते इत्यत्रैव व्यावृत्तिः
स्यात्, न सङ्गंसीष्टेत्यत्र । नापि संजिगांत ित्यादौ, शपा व्यावधानात् । एकादेशे नास्ति व्यावधानम् एकादेशः पूर्वविधौ स्थानिवद्भवति तइति स्थानिवद्भावाव्द्यवधानमेव । संजिगंसिष्ययत इत्यादौ च नैव स्यात्, तस्मादिष्टिरेवेयम् । अत तेव इष्यत इत्युक्तम् । पदशेषो नाम ग्रन्थविशेषः । तन्तेनेत्यादि । अनन्तरोक्तस्य दूषणम् न पुनरयं पक्षः स्यापितः, वार्त्तिकविरोधात् । यदाह - सिद्धं गमेरात्मनेपदेन समानपदस्थस्येट्प्रतिषेधात् इति ।।
न वृद्भ्यश्चतुर्भ्यः ।। 7 - 2 - 59 ।।
बहुवचननिर्द्देशाच्चतुर्ग्रहणाच्चाद्यर्थो गम्यते ।
वृत्तिर्वृधिः शृधिः स्यन्दिश्चत्वारोऽमी वृतादयः ।
शृधु शब्दकुत्सायाम् । अन्ये प्रसिद्धाः । उदाहरथणेषु वृद्भ्यः स्यसनोः इति तपरस्मैपदम् ।
चतुर्भ्य इति न वक्तव्यमिति । किं कारणम् इत्यत तथआह - वृद्ग्रहतणं हीति । यदि द्युतादिपरिसमाप्त्यर्थं तत्किमायातं वृतादिपरिसमाप्तेः इत्यत आह -- तदेवतेति । तअगुह्ययमाणविशेषत्वादिति भावः । अवन्तरङ्गमपीति । अन्तरङ्गत्वं विकल्पस्यार्धधातुकमात्रापेक्षत्वात् । अयं तु प्रतिषेधो बहिरङ्गः, सकारादिविशेषापेक्षत्वात्, बहिर्भूतपरस्मैपदापेक्षत्वाच्च । ननु चान्येष्वपि वृतादिषु आर्धधातुकलक्षणोऽपीडन्तरङ्ग एव, अथ तस्य वचनसामर्थ्यातप्रतिषेधः, तर्हि विकल्पस्यापि भविष्यति नैतदस्ति येन नाप्राप्ते तस्य बाधनं भवति, नाप्राप्तिश्चार्धधातुकस्येडित्यस्य, न तूदिल्लक्षणस्य । यदि परम्, परत्वादुदिल्लक्षणमपीटं प्रतिषेधो बाधेत ततदपि न अन्तरङ्गबहिरङ्गयोर्विप्रतिषेधानुपपत्तेः । कथं तर्हि सत्यपि चतुर्ग्रहणे तस्य प्रतिषेधः इत्यत आह - चतुर्ग्रहणे हीति । सति च तस्मिन् चतुर्थ्या प्रतिषेधेन भाव्यमिति प्रतीतिः, इतरथा संख्याश्बदाभावादेकस्य प्रतिषेधाभावेऽपि न कश्चिद्भावधः ।
परस्मैपदेष्वित्येवेति । यद्येवम्, यत्र वृतादिभ्यः परस्यार्धधातुकस्य परस्मैपदमनन्तरं तत्रैव स्यात् - वर्त्स्यतीत्यादौ, विवृत्सतीत्यादौ न स्यात्, शपा व्यवधानात् । तएकादेशेऽपि कृते स्थानिवद्भावाव्द्यवधानमेव, विवृत्सिष्यति, विवृत्सयतीत्यादौ प्रतियक्षमेव व्यवधानम्, कृति परस्मैपदलुकि च परस्मैपरगन्धोऽपि नास्तीति न स्यादेव तत्राह - अत्रापीति । इष्टिरेवेयम् । विवृत्सित्रीयत इत्यादौ चोक्त एव परिहारः ।।
तासि च क्लृपः ।। 7 - 2 - 60 ।।
उदाहरणेषु लुटि च क्लृपः इति परस्मैपदम् । क्लृपेरपीत्यादि । अन्यथा कल्प्स्यतीत्यादावेव स्यात्, न तु चिक्लृप्सिता, चिक्लृप्स त्वमित्यादाविति भावः ।
इह तु न वृद्भ्यः पञ्चभ्यस्तासि च इति वक्तव्यम्, क्लृपिग्रहणं तु शक्यमकर्त्तुम् । न च वृतादिभ्योऽपि तासौ प्रसङ्गः, परस्मैपदाभावात्, आत्मनेपदेन समानपदस्थत्वाच्च ।।
अचस्तास्वत्थल्यनिटो नित्यम् ।। 7 - 2 - 61।।
यस्थलि क्रादिनियमादिट् प्राप्तः स निषिध्यते ।
पञ्चसूत्र्येत आरभ्य तास्वदित्येष डेर्वतिः ।।
उपदेशग्रहोऽप्यत्र वक्ष्यमाणोऽपकृष्यते ।
गुणे नित्ये कृतेऽप्येष ऋदन्ते प्राप्नुयात्कथम् ।।
क्व नित्यमनिट् इत्यपेक्षायां तासेः सन्निधानात्तत्रैवेति विज्ञायते, यद्वापूर्वसूत्रात् तासि इति वर्त्तते । यातेति । तासावनिट्प्रदर्शनार्थमुपन्यस्तम् ।
लूत्वेति । तास्वत् इत्यनुच्यमाने यत्र क्वापि नित्यानिटस्थलि प्रतिषेधः स्यात् । लुनातिश्चायम् श्र्युकः किति इति प्रतिषेधात्किति नित्यानिट्कः । ययिव, ययिमेति । आतो लोप इटि च । अनिड्ग्रहणं नित्यमित्यनेन विशेषणार्थमिति । असत्यनिड्ग्रहणे नित्यमित्यनेन प्रतिषेध तएव विश्ष्येत - नित्यमण्न भवतीति । यद्यप्यत्र विकल्पे न प्रकृतः, तथापीदमेव नित्यग्रहणं पूर्वस्व विधेरनित्यत्वं ज्ञापयेत् । सेड्निवृत्त्यर्थ त्वनिड्ग्रहणं न भवति, कथम् तास्वदित्युच्यते, यथा तासौ न भवति एवं थल्यपीति । न च यस्तासौ सेट् तस्य
थलि प्रतिषेधो भवन् तास्वत्कृतो भवति । विधोता, विधवितेति । स्वरत्यादिसूत्रेण तासाविड्विकल्पितः ।
क्रमेरपि चक्रमिथेति भाव्यम्, न हि तासौ नित्यानिट् क्रमिः, आत्मनेपदे इडभावात्परस्मैपदे सेटत्वात् । तासौ विभाषेटस्थलि नित्यमिडागमो भवतीति । यावान्कश्चिदिडभावः प्रतिषेधनिबन्धनो विकल्पनिबन्धनो वा स सर्वः क्रादिसूत्रेण नियम्यते इत्यस्मिन्पक्षे इति भावः । यद् तु प्रतिषेधाधिकारेण क्रादीनामेवेण्न भवति इतिनियमात्प्रतिषेध एव सर्वो निवर्तते, स्वरत्यादि लक्षणस्तु विकल्पो भवत्येव इति पक्षः, तदा विदुधोथ, विदुधविथेत्युभयं भवति । यद्येवम्, नित्यमनिट इति न वक्तव्यम् अस्तुः यस्तासौ विकल्पितेट् तस्याप्ययं प्रतिषेधः ऋतो भारद्वाजस्य इति नियमाद्विकल्प एवावस्थास्यते नैवं शक्यम्, स्वरतौ हि दौषः स्यात् । भारद्वाजपक्षेऽपि तस्य प्रतिषेधात् सस्वर्थेत्येव स्यात् । यदा तु विकल्पितेटस्थलि प्रतिषेधोऽयं न भवति, तदा सस्वर्थ, सस्वरिथेत्युभयं भवति ।
तास्वदिति वतिनिर्देश इति । तास्वदित्यस्य निर्देश इत्यर्थः । तास्वदित्यनुच्यमाने प्रकृतस्य तासीत्यस्यानुवृत्तावप्येतावदेव लभ्येत - तासौ नित्यमनिटस्थलीण् न भवतीति, ततश्च यस्तासावसन, असत्त्वादेव नित्यानिट्, तस्यापि प्रसज्येत ।
तास्वदित्युच्यमाने तु वतेः सादृश्योगोचरात् ।
यथाभूतस्य तासौ नेट् तथाभूतस्य थल्यपि ।।
इटा न भाव्यमित्येष दोषो नैव प्रसज्यते ।
इटस्तास्यसतो धातोर्निषेधे विहिते थलि ।
अभावः सदृशो न स्यात् थलि तास्यसतो भवेत् ।।
अधसिथेति । स्थानिवद्भावात् इडत्त्यर्तिव्ययतीनाम् इत्येवैष सिद्ध इत्याहुः । थउत्तरसूत्रेऽपीति । एतेनोत्तरार्थं तास्वदित्युच्यत तइति दर्शयति । अदादेशो हीति । ननु चास्य स्थानी तासावस्ति, अस्ति चानिडिति तदादेशस्यापि स्थानिवद्भावात् सत्त्वानिट्त्वे स्याताम् नैतदस्ति, स्थानिवद्भावः शास्त्रीयेषु प्रवर्त्तते, न च तासौ सत्त्वं नाम शास्त्रीयं कार्यम् ।।
उपदेशेऽत्वतः ।। 7 - 2 - 62 ।।
अनजन्तार्थ आरम्भः । इयष्टेति । लिट्यभ्यासस्योभयेषाम् इति अभ्यासस्य सम्प्रसारणम्, व्रश्चादिष्त्वम्। चक्रर्षिथेति । कृष विलेखने । भवत्ययं गुणे कृते सम्प्रत्यकारवान्, न तूपदेशे । जिग्रहिथेति । सनि ग्रहगुहोश्च इतीट्प्रतिषेधाद्भावत्ययं सनि नित्यानिट्, न तासौ ।
आनञ्चिथेति । अत आदेः तस्मान्नुड्द्विहलः, स्वरत्यादिसूत्रेण तासौ विकल्पितेडयम् ।।
ऋतो भारद्वाजस्य ।। 7 - 2 - 63 ।।
सस्मर्थेति । स्मृ चिन्तायाम् । दध्वर्थेति । ध्वृ हूर्छने ।
सिद्धे सतीत्यादि । अदन्तानां वृङ्वृञावुदात्तौ । तत्रापि वृङ्स्थल् न सम्भवति, आत्मनेपदित्वात् । व़ञस्तु ववर्थेति निपातनाद्भाषायामिटां भाव्यम् । तस्मात्तयोरिट्प्रतिषेधार्थं तावदेतन्नोपपद्यते । अन्येऽदन्तास्तासौ नित्यानिटः इति अचस्तास्वत् इत्यनेनैव सिद्धः प्रतिषेधः । ननु च परत्वाद् गुणे कृते रपरत्वे चानजन्तत्वान्न सिद्ध्यति, पूर्वसूत्रेणाप्यसिद्धिरेव, न ह्यकारान्ता उपदेशेऽत्वन्तः, तस्मान्नियमानुपपत्तिः अस्तु तर्हि दध्वर्थेत्यादौ विध्यर्थमेव । यद्येवम्, स्थायापचिप्रभृतिषु पूर्वयोगाभ्यां नित्यं थलि प्रतिषेधप्रसङ्गः, जहर्थेत्यादौ भारद्वाजस्येति वचनाद्विकल्पेप्रसङ्गः एवं अचस्तास्वत् इत्यज्ञैव भारद्वाजग्रहणं करिष्यते, तदेवानन्तरयोगेऽप्यनुवर्तिष्यते, इह तु निवर्तिष्यते सत्यम्, अयं तु भारद्वाजः स्वस्मान्मतात्प्रच्यावितो भवति । तस्य मतम् - ऋकारान्तदन्यत्र ययिथ, पेचिथेतीड्भवति, अकारान्ते नेति । त्वदुक्ते तु न्यासे मतविपर्ययः कृतो भवति । एवं तर्ह्युपदेशग्रहणस्य अचस्तास्वत् इत्यत्रापकर्षादुपदेशेऽजन्तत्वात्सिद्धः प्रतिषेध इति मन्यते । ऋत एव भारद्वाजस्येति । विपरीतस्तु नियमो न भवति - ऋतो भारद्वाजस्यैवेति । यदि स्यान्नियमाश्रयणनर्थकं स्यात्, पूर्वोक्तेन प्रकारेण विध्यर्थत्वमेवाश्रयणीयं स्यात् । पूर्वयोर्योगयोरिति । ऋकारान्तेषु अनन्तरस्य विधिर्वा भवति इति न्यायस्य तावदसम्भवः । यस्य तर्हि प्रसङ्गः अचस्तास्वत् इति, तस्यैव नियमो युक्तः, तत्कथं पूर्वयोर्योगयोर्द्वयोरपि विकल्पः एवं मन्यते - द्वयोरनन्तरमस्यारम्भात्तासौ नित्यमनिटां मध्ये ऋत एव भारद्वाजस्य
नान्येषाम् - इत्येवं सामान्याकारेण नियम आश्रयणीय इति । तथा हि सतीति । असति तपरकरणे ॠकारान्तनामप्यत्र ग्रहणं स्यात्, तेषां च तासौ सिद्धत्वाद् अतस्तास्वत् इत्यस्याप्रसङ्गे विध्यर्थमेवेदं स्यात्, न ह्रस्वग्रहणेन नियमार्थम्, विधिनियमसम्भवे विधेरेव ज्यायस्त्वादित्यर्थः ।।
विभाषा सृजिदृशोः ।। 7 - 2 - 65 ।।
सस्नष्ठ, दद्रष्टेति । सृजिदृशोर्झल्यमकिति, पूर्ववत् षत्वम् ।।
इडत्त्यर्त्तिव्ययतीनाम् ।। 7 - 2 - 66 ।।
अत्र इड्ग्रहणं विस्पष्टार्थमिति । अथ विकल्पे प्राप्ते नित्यार्थ कस्मान्न भवति तत्राह - विकल्पविधाने हीति । एवमपि प्रतिषेधः प्रकृतः, तन्निवृत्त्यर्थमिड्ग्रहणं स्यात् इत आह - प्रतिषेधविधाने इति ।
वस्वेकाजोद्घसाम् ।। 7 - 2 - 67 ।।
वसु इत्यविभक्तिको निर्द्देशः । वसोरित्यर्थः । कृतद्विर्वचनानामिति ।
कथं पुनरविशेषोक्तावेष विशेषो लभ्यते एकाज्ग्रहणसामर्थ्यात् । न हि कश्चिचदकृते द्विर्वचनेनैकाजस्ति यन्निवृत्त्यर्थमेकाज्ग्रहणं स्यात् । चिरिजिरिचकाशिभ्यः कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम् इत्यामा भवितव्यमिति वसोरसम्भवः । ऊर्णोतेस्तु णुवद्भावादेकाज्ग्रहणोनानिव़ृत्तिः । ननु च जागर्त्तिरस्ति उषविदजागृभ्योऽन्यतरस्याम् इत्यामो विकल्पितत्वात् वेदेऽपि - जागृवांसो अनुग्मन्निति द्विर्वचनप्रकरकणे छन्दसि वेति वक्तव्यम् इति द्विर्वचनाभावः, नैकमुदाहरणमेकाज्गरहणं प्रयोजयति । यद्येतावत्प्रयोजनं स्यात् जागर्तेर्न इत्येव ब्रूयात्, लधीयसी हि साक्षात्प्रतिषेधप्रतिपत्तिः । यदि वा न्यायसिद्धोऽयमर्थः । तथा हि द्विर्वचनस्यावकाशः - पंपाच, इटोऽवकाशः यत्र कृते द्विर्वचन एकाच् -- पेचिवान्, आदिवान् बिभिद्वानित्यादौ तूभयप्रसङ्गे नित्यत्वाद् द्विर्वचनम् ।
कादिनियमात्प्राप्त इति । नेड्वशि कृति इति प्रत्ययाश्रयस्य प्रतिषेधस्य सर्वत्र भावात्कादिनियमानेव सर्वत्र वसोरिटः प्राप्तिः ।
आद्ग्रहणमनेकाजर्थमिति । ननु द्विर्वचने आकारलोपे सति तेषामप्येकाच्त्वादेव सिद्धम् अत आह - द्विर्वचने हीति । इण्निमित्त आकारलोपो नासति तस्मिन्भवति, ततश्चानेकाच्त्वमित्यर्थः ।
अथाप्याम्न क्रियत इति । आत औ णलः इत्योकारे विधातव्ये औकारविधानेन ज्ञापितमेतत् -- दरिद्रातेरनित्य आमिति । तेनायमभ्युपगमः ददरिद्रवानिति, नेड्वशि कृति इति प्रतिषेध एव तत्र भवति ।
अथ घसिग्रहणं किमर्थम्, यावता द्विर्वचने कृते घसिभसोर्हलि च इत्युपधालोपे सत्येकाच्त्वादेव सिद्धम् अत आह - घसेरपीति । परत्वादिति । नित्यत्वाच्चेत्यापि द्रष्टव्यम् तस्य हल्यपि विधानात् । अनष्कत्वादिति । स्थानिवद्भावोषऽपि नास्ति, हल्निमित्तत्वादुपधालोपस्य । क्रियमाणे तु घसिग्रहणे नायं दोष इत्याह - क्रियमाणे त्विति ।।
भविभाषा गमहनविदविशाम् ।। 7 - 2 - 68 ।।
जध्निवान्, जघन्वानिति । हो हन्तोर्ञ्णिन्नेषु । अभ्यासाच्च इति कुत्वम् ।
विशिना तौदादिकेनेति । यद्यप्यादादिकेन हन्तिना साहचर्यमस्ति, तथापि शब्दपरविप्रतिषेधाद्विशिसाहचर्यमेव व्यवस्थापकमिति भावः । ज्ञानार्थस्य त्विति । सत्ताविचारणार्थयोस्त्वात्मनेपदित्वात् क्वसावसम्भव एवेति भावः । विविद्वानिति । वूर्वविदिट्प्रतिषेधः ।.
सनिससनिवांसम् ।। 7 - 2 - 69 ।।
क्वसोश्छान्दसत्वात्, आनुपूर्व्याश्च विवक्षितत्वाच्छन्दस्येवैतन्निपातनम् ।।
ऋद्भनोः स्ये ।। 7 - 2 - 70 ।।
स्वरत्यादिसूत्रे यदुक्तम् - स्वरतेरेतस्माद्विकल्पादित्यादि, तदेव स्मारयति - स्वरतेर्वेट्त्वादिति । वाविकल्पित इड्यस्य स वेट्, तस्य भावो वेट्त्वम्, स पुनर्विकल्पितेट्सम्बन्धः ।।
यमरमनमातां सक्त ।। 7 - 2 - 73 ।।
व्यरंसीदिति । व्याङ्परिभ्यो रमः इति परस्मैपदम् ।
युक्तमत्र द्विवचनबहुवचनयोरुदाहरणम्, तत्र हि संगिटोः सतोरस्ति विशेषः, एकवचने त्क्युक्तम्, विशेषाभावात् तत्राह - यमादीनामिति । ह्म्यन्तक्षण इत्यत्रापीटीति वर्त्तते, अपासीदित्येतत्तु प्रक्रमाभेदायोदाहृतम्, नत्वत्र विशेषोऽस्ति । ननु चात्रापि स्वरे विशेषोऽस्ति - मा हि मासीदिति, इट्यसत्याद्युदात्तं पदं स्यात्, सति तु तस्य सिज्भक्तत्वाच्चित्स्वरेणोदात्तत्वे एकादेश उदात्तेनोदात्तः इत्यन्तोदात्तं पदं भवति, तत्र आदिः सिचोऽन्यतरस्याम् िति पक्षे आद्युदात्तत्वम्, पक्षेऽन्तोदात्तत्वम् नैषोऽस्ति विशेषः, अनिटः सिचः पक्षे उपसंख्यानम् इति वचनान्म हि कार्षमित्यत्र यथा पक्षे आद्युदात्तत्वं पक्षे चान्तोदात्तत्वं च भवति, एवमत्रापि भविष्यति । आयंस्तेति । समुदाङ्भ्यो यमोऽग्रन्थे इत्यात्मनेपदम् । अनंस्तेत्यत्र कर्मकर्त्तरि न दुहस्तनुनमां यक्चिणौ इति चिणः प्रतिषेधः ।।
स्मिपूङ्रञ्ज्वशां सनि ।। 7 - 2 - 74 ।।
ऋ इति धातोर्ग्रहणम्, न ऋकारान्तनाम् उत्तरत्र किरादीनामिड्विधानात् । पिपविषय इति । ओः पुयण्ज्यपरे इत्यभ्यासस्येत्वम् । अञ्जिजिषतीति । अजादेर्द्वितीयस्य इति जिशब्दस्य द्विर्वचनम्, नकारस्तु न द्विरुच्यते, न न्द्राः इति प्रतिषेधात् ।।
किरश्च पञ्चभ्यः ।। 7 - 2 - 75 ।।
किरः इति व्यत्येनैकवचनम् । पञ्चभ्यः इति बहुवचनादाद्यर्थावगतिः । कृगृदृङ्धृङ्पृच्छतयः तुदादिषु किरादयः । पिपृच्छिवतीति । रुदविद इत्यादिना सनः कित्त्वम् । ग्रहिज्यादिसूत्रेण सम्प्रसारणम् ।
किरतिगिरत्येरिति । शेषाणां त्वनुदात्तत्वात्प्रतिषेधः । दीर्घत्वं नेच्छन्तीति । इष्टिरेवेयम् ।।
रुदादिभ् सार्वधातुके ।। 7 - 2 - 76 ।।
रुदिस्वप्श्वसनिजक्षिरदादिषु रुदादयः । उभयनिर्देशे पञ्चमीनिर्द्देशो बलीयान् इति रुदादिभ्यः इति पञ्चम्या सार्वधातुके इति सप्तम्याः षष्ठी प्रकल्प्यते । सप्तमीनिर्देशस्तूत्तरत्रोपयोगं यास्यति । प्राणितीति । अनितेः इति णत्वम् ।
स्वप्तेति । अन्येभ्यस्तु परस्यार्धधातुकस्यैटा भवितव्यम् ।।
ईशः से ।। 7 - 2 - 77 ।।
ईश ऐश्वर्ये आदादिकः । से इत्यविभक्तिको निर्द्देशः । इशिष्वेति । सवाभ्यां वामौ । एकदेशविकृतस्यानन्यत्वात् सेशब्द एवायम् ।।
ईडजनोर्ध्वे च ।। 7 - 2 - 78 ।।
ईड स्तुतौ अदादिः । छान्दसत्वाच्छ्यनो लुगिति । भाषायां तु जायसे - इत्यत्र नित्यत्वात् श्यनि कृते तेन व्यवधानादिडभावः ।
जन जनने इत्यस्यापीति । नन्वसौ परस्मैपदी तत्राह - तस्य कमव्यतिहार इति । यदि तर्हि तस्याप्यात्मनेपदं सम्भवति, तस्यैव ग्रहणं प्राप्नोति, निरनुवन्धकत्वात् ईडिना साहचर्यादात्मनेपदिनोऽपि ग्रहणं भविष्यति ।
तदर्थे केचिदिति । ये त्वेवं न पठन्ति, ते चकारेण कृत्स्नमेव पूर्वसूत्रमनुवर्त्तयन्ति । सकारादेरिति । स्
इति सप्तम्या लुका निर्द्देशात्तदादिविधिः ।
यदि तर्हि ईशेरपि ध्वे शब्दे इडागतो भवति, योगाविभागो न कर्त्तव्यः, इडीशजनां सेध्वयोः इति वक्तव्यम्, एवं हि पृथग्विभक्तिर्नोच्चारयितव्या भवति, चकारश्च न कर्त्तव्यः अत आह - ईशीड्जनां सेध्वयोरिति । लङि ध्वमित्यस्य न भवतीति । लोट्यपि तर्हि ध्वमित्यस्य न प्राप्नोति तत्राह - लोटि पुनरिति ।।
लिङः सलोपोऽनन्त्यस्य ।। 7 - 2 - 79 ।।
सार्वधातुके यो लिङिति । नैषा परसप्तमी, सार्वधातुकपरस्य लिङोऽसम्भवात् । तस्मान्निर्धारणे सप्तमी । जातावेकवचनम्, सार्वधातुकेषु मध्ये यो लिङ् सार्वधातुकसंज्ञकस्तस्येत्यर्थः । कुर्यादिति । अत उत्सार्वधातुके इत्युत्त्वम्, ये च ित्युकारस्य लोपः । अत्र यासुट्सुटोः सकारस्य लोपः । कुर्युरिति । झेर्जुम्, .यासुट्सकारलोपः, उस्यपदान्तात् इति परूपत्वम् । कुर्वीतेति । सीयुट्सुटोः सलोपः । कुर्वीन्निति । झस्य
रन्, अत्र सीयुट एव लोपः ।।
अतो येयः ।। 7 - 2 - 80 ।।
सार्वधातुके इति प्रकृतमर्थात् षष्ठ्यन्तं सम्पद्यते, तदाह -- अकारान्तादङ्गादुत्तरस्य सार्वधातुकस्येति । अवयवसम्बन्धे चैषा षष्ठी, सार्वधातुकस्यावयवस्य याशब्दस्येत्यर्थः । इय् इत्ययमिति । सूत्रे त्वाकार उच्चारणार्थः । पचेदिति । इयादेशे कृते शवकारेण सहाद्गुणः, वलादिषु वलि लोपः ।
यकारस्य च श्रवणम् - पचेयुः, पचेयमित्यादौ । पचेयुरित्यत्रेत्यादि । पररूपस्यावकाशः चिनुयुः, सुनुयुः, इयादेशस्य तु पचेदित्यादि, पचेयुरित्यत्रोभयप्रसङ्गे परत्वादियादेशः । यदि पूर्वमेव पररूपं स्यात्, याशब्दाभावादियादेशो न स्यात् । एवमतो लोपस्यापि बाधकः स्यादिति । एतच्च मध्येऽपवादाः इति न्यायमनाश्रित्योक्तम् । तदाश्रयणे त्वतो लोपस्यैव बाधकः स्यात् । दीर्घस्तु परत्वात्स्यादेव । स्वादेतदेवमित्यादि । दीर्घविधौ तुरुस्तुशम्यम्ः सार्वधातुके इति प्रकृतम्, मूसुवोस्तिङि इति च ।
योय इत्यविभक्तिको निर्देश इति । येयः इत्यस्मिन्समुदाये या इत्युविभक्तिको निर्देश इत्यर्थः । य इति वेति । याशब्दात्षष्ठी, आतो धातोः इत्याकारलोपः ।
केचित्तु -- अतो यास् इति सकारान्तानुकरणं पठन्ति ।।
आतो ङितः ।। 7 - 2 - 81 ।।
आकारमात्रस्य ङितोऽसम्भवाद् आतः ङितः इति व्यधिकरणे षष्ठ्यौ । ङितोऽवयवस्यात् इत्यर्थः । उदाहरणेषु स्वरितत्वादात्मनेपदम् । ननु गाङ्कुटादिसूत्रे परत्र परशब्दप्रयोगादध्यादह्रियमाणो वतिः सप्तमीसमर्थादध्याहर्तव्यः - हितीव ङिद्वदिति, अन्यथा चुकुटिषंतीत्यत्र सनो ङित्वादात्मनेपदप्रसङ्गादित्युक्तम् । सार्वधातुकमपित् इत्यत्रापि तदेवानुवर्त्तते, ततश्च पूर्वस्य कार्य प्रत्येव सार्वधातुकस्य ङित्त्वम्, न स्वकार्य प्रतीत्ययुक्तान्युदाहरणानि लङ्लृङोस्तु युक्तमुदाहर्तुम् - अपचेताम्, अकरिष्येतामिति अस्ति ह्यत्रापि स्थानिवद्भावेन ङित्त्वम् अत आह - सार्वधातुकमपिदित्यत्रेत्यादि ।
ममाते, मिमाथे इति । असति तपरकरणे श्नाभ्यस्तयोरातः इति लोपात्परत्वादयमेव विधिः स्यात् ।।
आने मुक् ।। 7 - 2 - 82 ।।
अत्र आने इति सप्तम्यचरितार्था पूर्वत्र कृतार्थायाः अतः इति पञ्चम्याः षष्ठी प्रकल्पयति तस्मिन्निति निर्दिष्टे पूर्वस्य इति , तत्र विशेषणविशेष्यभावे कामचारादङ्गेनाद्विशेष्यते, न त्वाताऽङ्गमित्यभिप्रायेणाह - अकारमात्रभक्तोऽयमिति । अङ्गस्यावयवो योऽकारस्तस्य मुगित्यर्थः । किमेषं सति भवति इत्याह - अदुपदेशाग्रहणेनेति । उपदेशे अत् अदुपदेशः, यदि त्वकारान्ताङ्गभक्तः स्यात्, ततस्तदेशाह्गं न व्यावदध्यात्, तदवयवं त्वकारं व्यवदधात्येवेति स्वरो न स्यात् । न च स्वरविधौ व्यञ्जनमविद्यमानवत, किं कारणम् हल्सवरप्राप्तौ व्यञ्जनमविद्यमानवदिति परिभाषाया भाष्यकारेण शिक्षितत्वात् । अन्यथाऽग्निचिद्वानित्यादौ ह्रस्वनुड्भ्यां मतुप् इति स्वरप्रसङ्गात् । यदि पुनरयमभक्तो मकारो विकरणवन्मध्ये क्रियते, अभक्ते मुकि स्वरो न स्यादित्येव । यदि पुनरयं परादिझ क्रियेत - आनस्य मुडिति, परादित्वे दीर्घत्वप्रसङ्गः - पचमान इति अतो दीर्घो यञि इति दीर्घत्वं प्राप्नोति पाक्षिक एष दोषः । कतरस्मिन्पक्षे यदि सार्वधातुक इत्येव तत् । अथ ङीत्येव तत्तदा न दोषः । तदयं भक्तस्तत्रापि पूर्वान्तः, तत्राप्यकारस्य मुगिति स्थितम् । यद्येवमिति । यद्यकारमात्रभक्तत्वात्तद्ग्रहणेन गृह्यत इत्यर्थः । अध्यर्द्धमात्र इति । अर्धमधिकं यस्याः सा अध्यर्धा, अध्यर्धा मात्रा यस्यासावध्यर्धमात्रः । लसावंधातुकानुदात्तत्वमपि तर्हि न प्राप्नोतीति । यद्विधावपि तपरनिर्द्देशात् । तत्राह - उपदेशग्रहणमिह क्रियत इति । तथा चेति । यदा द्विमात्रत्वेऽपि भवति, तदा का शङ्काऽध्यर्धमात्रत्वे
इति भावः ।।
ईदासः ।। 7 - 2 - 83 ।।
आसः इति पञ्चम्यचरितार्था पूर्वत्र कृतार्थायाः आने इति सप्तम्याः षष्ठीं प्रकल्पयति ।।
अष्टन आ विभक्तौ ।। 7 - 2 - 84 ।।
सौत्रत्वान्निर्द्देशस्य अल्लोपो न कृतः ।
व्यक्तिनिर्देशोऽयमिति । यथाश्रुतनिरनुनासिकाकारव्यक्तिर्निर्द्दिश्यत इत्यर्थः । जातिनिर्देशस्तु दुष्ट इत्याह -- आकृतिनिर्देशो त्विति । आकृतिर्जातिः, न संस्थानम् । जातिनिर्द्देशे हि शुद्धाया जातेरादेष्टुशमक्यत्वात्तदाधारभूतानां व्यक्तीनां विधानम् । तत्र यद्यपि दीर्घोच्चारणसामर्थ्यान्न ह्रस्वप्लुतव्यक्तीनां प्रसङ्गः, दीर्घव्यक्तयस्तु सर्वाः प्रसक्ताः, तत्रान्तर्यतोऽनुनासिकव्यक्तिरेव स्यात्, तस्याः पूर्वेण सह सवर्मदीर्घोऽप्यनुनासिक एव स्यात् । विकल्पेन चायमित्यादि । यथा च दीर्घग्रहणं कृतात्वनिर्द्देशश्चास्मिन्नर्थे लिङ्गं तथा तत्रैव व्याख्यातम् । तदन्तविधिश्चात्रेष्यत इति । अङ्गाधिकारे तस्य तदुत्तरपदस्य च इति वचनात् । एकवचननिर्देशात्स्वरूपस्य ग्रहणं नार्थस्य तेनोपसर्जनेऽप्यष्टनि भवति, तत्रापि विकल्पितत्वात्प्रियाष्टा, प्रियाष्टानौ, प्रियाष्टान इत्यपि भवति । तत्रापि भसंज्ञाविषये आत्वपत्रे आतो धातोः इत्यकारलोपमिच्छन्ति - प्रियाष्टः पश्येत्यादि, आत्वाभावपक्षे त्वल्लोपे ष्टुत्वम् - प्रियाष्ट्न इत्यादि भवति ।।
रायो हलि ।। 7 - 2 - 85 ।।
मृजेर्वृद्धिरित्यतः प्राग्विभक्त्यधिकार इति । पूर्वसूत्रान्ते ग्रन्थोऽयं पठितव्यः ।
युष्मदस्मदोरनादेशो ।। 7 - 2 - 86 ।।
युष्मदस्मदिति । पञ्चम्यां अत् इति भ्यसोऽद्भावः ।
हलीत्यधिकारादप्यत्र न स्यादिति । न चादेशो हलादिरस्ति, भ्यसोभ्यम् ित्ययं तु अभ्यमादेशः । उत्तरत्रेति । योऽचि इति यत्वमादेशे मा भूत् त्वमहमित्यादौ शेषे लोपः इति शेषव्यवस्थार्थं च । तदिहैव क्रियत इति । लघवे विशेषाभावात् ।।
द्वितीयायां च ।। 7 - 2- 87 ।।
उदाहरणेषु ङे प्रथमयोरम् इति विभक्तेरम्भावः ।।
प्रथमायाश्च द्विवचने भाषायाम् ।। 7 - 2 - 88 ।।
युवयोरिति । ननु च योऽचि इति यत्वमत्र बाधकं भविष्यति प्रथमाद्विवचनेऽपि तर्हि शेषेलोपो बाधकः स्यात् । अथ तस्य वचनाद्वाधः यत्वस्यापि बाधः स्यात् । पुरस्तादपवादन्यायेन वा यत्वस्यैव बाधः स्यात् ।।
योऽचि ।। 7 - 2 - 89 ।।
शक्ययमकर्तुमचीत्येतदिति । कथम् अनादिष्टायां विभक्तौ विधीयमानं यत्वमुत्सर्गः, तत्रैव हलादावात्वमपवादः । त्वत्, मदिति । एकवचनस्य च इति ङसेरदादेशः ।।
शेषे लोपः ।। 7 - 2 - 90 ।।
उपयुक्तादन्यः शेषः । तस्यैव संग्रहश्लोकः -- पञ्चम्याश्चेत्यादि । पञ्चम्यादीनां सम्बन्धीनि यान्यद्विवचनानि -- अयं तावच्छेषः, तत्र शेषे लोपो विधीयत इति । अद्विवचनानि इत्येतद्भाषापेक्षं द्रष्टव्यम् । छन्दसि तु - युवं वस्त्राणीति द्विवचनमपि शेष एव ।
शेषग्रहणं विस्पष्टार्थमिति । कथम् विभक्तिमात्रे लोपः, तस्यानादिष्टायां विभाक्तौ यत्ववमपवादः । अस्यापि हलादावात्वमपवाद इत्यसङ्करेणात्त्व - य - लोपः सिध्यन्ति । अनादेशग्रहणं तु क्रियमाणेऽज्ग्रहणे यत्वलोपयोर्विषयविभागार्थं कर्त्तव्यमेव । सन्निपातलक्षण इति । विभक्तिसन्निपातकृतं युष्मदस्मदोरकारान्तत्वम् । तद्यदि टोपो निमित्तं स्यात्, तत्सन्निपातं विहन्यात् । एतेच्च त्यदादिशब्दवत्स्त्रीलीङ्गत्वमभ्युपेत्योक्तम्, इदानीं च लिङ्गमेव नास्तिं इत्याह - जलिङ्गे वेति ।
केचित्त्विति । । टाब्निवृत्त्यर्थमेव त एवमिच्छन्ति । कथमिति । यत्राकारो यकारश्च न विहितः स शेषः, तत्र विधीयमानो लोपः अलोऽन्त्यसाय इत्यन्तस्यैव युक्त इति प्रश्नः । अन्तरोक्तं शेषग्रहणस्य षैयर्थ्यं हृदि कृत्वाऽऽह -- वक्ष्यमाणेति । आदेशा वक्ष्यमाणा यस्य स वक्ष्यमाणादेशः । कः पुनरसौ इत्याह - ते चेति ।
मपर्यन्ताद्योऽन्यः स शेष इति । स च टिरेव । तत्रायं लोप इति स्थानिनोऽधिकरणत्वविवक्षया सप्तमी । किमर्थं पुंनर्लोप इत्युच्यते, न त्यादद्यत्वेनैष सिद्धम् न सिध्यति, द्विपर्यन्तास्त्यदादयः इति वचनात् । यदा चोपसर्जने युष्मदस्मदी, तदा त्यदाद्यत्वं न सिध्यति । टिलोपपक्षे तु सुतरामारम्भणीयम् ।।
णपर्यन्तस्य ।। 7 - 2 - 91 ।।
मपर्यन्तस्य इत्यवयवस्य स्थानित्वेन निर्देशाद्युष्मदस्मदोरित्यवयवषष्ठी विज्ञायते - मः पर्यन्तोऽवधिर्यस्य स मपर्यन्तः । यद्यपि द्वयोर्द्वौ मपर्यन्तौ, तथाप्यभेदक्विक्षयैकवचनम् ।
मपर्यन्तस्यैति किमिति । समुदाययोरप्यादेशे आदेशानामप्यदन्तत्वाद्दोषाबाव इति प्रश्नः । साकच्कस्य मा भूदिति । तन्मध्यपतितस्य तद्ग्रहणेन ग्रहणात्प्रसङ्गः । सर्वस्य मा भूदिति । साकच्कस्य मा भूदिति तु नोक्तम्, यस्मादकज्विधावुक्तम् - त्वया, मया, त्वयि, मयि इत्यत्र सुबन्तस्य प्राक्टेरकच् इति । अनिष्टं रूपं स्यादिति । त्व्या, म्येत्यनिष्टं रूपम् ।
अथ परिग्रहणं किमर्थम्, मान्तस्येत्येवोच्येत, युष्मदस्मदोर्यो मान्तो भागास्तस्येत्यर्थः तत्राह -- मान्तस्येत्येव सिद्धेऽस्मिन्निति । अस्मिन् साकच्कस्या देशाभावे, युवकाम्, अवकामिति रूपे वा । अवधिद्योतनार्थमिति । पर्यन्तशब्देनावधिं द्योतयामीत्यर्थः । अन्यथा मान्तस्येत्युच्यमाने युष्मदष्मदोः समानाधिकारणं विशेषणं सम्भाव्येत, प्रत्येकसम्बन्धाच्चैकवचनम्, ततश्च यत्र मान्ते युष्मदस्मदी तत्रैवादेशाः स्युः । अथापि वैयधिकरण्यमाक्षीयते, तथापि चत्र मान्ते तत्र भेदाभावादादेशा न स्युः । व्यपदेशिवद्भावोऽपि प्रातिपदिकेन प्रतिषिद्धः । पर्यन्तशब्देन त्ववधिद्योतने तदुपादानसामर्थ्याद्युष्मद्स्मदवयवेऽपि युष्मदस्मच्छब्दौ वर्तेते इति सर्वत्रादेशसिद्धिः । वैयधिकरण्येन वा सम्बन्धे परिग्रहणसामर्थ्याद् व्यपदेशिवद्भावोऽप्रतिपदिकेन इति प्रतिषेधाप्रवृत्तौ मान्तयोरप्यादेशासिद्धिः ।
अपर आह - सति शेषे पर्यन्तशब्दः, तेन सामानाधिकरण्यासम्भावद्वैयधिकरण्येनैवान्वयः । यदा तु मान्ते युष्मदस्मदी तदा नैवादेशा भवन्ति, तदिदमुक्तम् मान्ते मा भूद्यदा तदेति । यदा युष्मदस्मदी मान्ते तदैव मा भूत्, तदापि वा मा भूदित्यर्थः । क्व पुनर्मान्ते युष्मदस्मदी इत्याह - ण्यन्तयोरिति । युष्मानाचष्टे युष्मयति, अस्मानाचष्टे अस्मयति णिचीष्ठवद्भावे टिलोपः, प्रत्ययोत्तरपदेयोश्च इत्यत्रैकवचनाधिकारात्त्वमादेशाभावः । क्विपि णिलोपः । ननु च विभक्तावादेशैर्थाव्यम्, अत्र च णिलोपस्य स्थानिवद्भावाव्द्यवधानम् अत आह - स्थानिवत्त्वं चेति । णेः क्वौ लुप्तत्वान्न तल्लोपस्यात्र स्थानिवत् इत्येवमिति भाष्वकारः ।
तत्र यो मन्यते - मान्तयोरप्यादेशा भवन्तीति , तन्मतेनोदाहरणानि । कृदन्तत्वाद्विभक्तयः, एकदेशविकृतस्यानन्यत्वाद्युष्मदस्मदाश्रयविभक्त्यादेशाः प्रकृत्यादेशाश्च त्वादयः तत्र त्वाहौ सौ इत्यादिविषये ते भवन्ति । अन्यत्रादेशविभक्तौ लोपः, अजादौ यत्वम्, हलादावात्त्वम् -- त्वम्, युषाम्, युयम्, युषाम्, युषाम्, युषान्, युष्या, युषाभायम्, युषाभिः, तुभ्यं युषाभ्यां युषभ्यम्, युषत्, युषाभ्याम्, युषत्, तव, युष्योः, युषाकम् युष्यि, युष्यो, युषासु । एवमस्मदोऽपि द्रष्टव्यम् । मपर्यन्तापेक्षया तु शेष आश्रीयमाणे, मात्परस्याभावाल्लोपाभावात् युष्मभायम्, युष्मदित्यादि भवति ।
यदा तु त्वामोचष्टे, मामाचष्ट इति विगृह्य क्विप् क्रियते, तदा प्रत्ययोत्तरपदयोश्च इति त्वमयोः कृतयोः प्रकृत्यैकाच् िति प्रकृतिभावादसति टिलोपे अत उपधायाः इति वृद्धिः । यदि निष्ठितमङ्गं ततो वदद्ध्यभावः । त्वद्स् त्वाद्स्, मद्स् चमादस् इति स्थिते मपर्यन्ताभावात् त्वाहौ सौ इत्यादेरप्रवृत्तौ वृद्धिपक्षे त्वामिति भवति । पक्षान्तरे तु त्वमिति । द्विवचने तु त्वाम्, जसि त्वम् । द्वितीयादिषु तु त्वाम्, त्वाम्, त्वान्, त्वया, त्वाभ्याम्, त्वाभिः, त्वम्, त्वाभ्याम्, त्वभ्यम्, त्वत्, त्वाभ्याम्, त्वत्, त्व, त्वयोः, त्वाकम्, त्वयि, त्वयोः त्वासु । एवमस्मदोऽपि ।
यदा तु द्विवचनान्ताण्णिच् क्रियते, तदापि युष्मयत्यस्मयतीति णिचि भवति, विभक्त्यभावाद्युवावयोरभावः । एकार्थत्वाभावात् प्रत्ययोत्तरपदयोश्च इत्यस्याप्यभावः । विभक्तौ तु युवावादेशौ । त्वहौ सो इत्यादिविषये तु त एव भवन्ति । ये तु मान्तयोरादेशौ नेच्छन्ति तेषां सौ, शेषेलोपपक्षे -- युषम्, असमिति भवति । पक्षान्तरे तु युष्मम्, अस्ममिति । एवमन्यत्रापि द्रष्टव्यम् । गहनोऽयं प्रकियातर्क इत्युपरम्यते ।।
युवावौ द्विवचने ।। 7 - 2 - 82 ।।
द्विवचन इत्यर्थग्रहणमिति । वक्तीति वचनम्, कृत्यल्युटो बहुलम्, इति कर्त्तरि ल्युट्, द्वयोरर्थयोर्वचने
द्विवचने । प्रथमाद्विवचनान्तं चैतत्, तदाह - द्विवचने युषमदस्मदी इति । के पुनस्ते इत्याह - द्व्यर्थाभिधानविषये इति । एतच्च वचनग्रहणाल्लभ्यते । कथम् द्वित्व इति वक्तव्यम्, विभक्तावित्येव, द्वित्ये या विभक्तिस्तस्यामित्यर्थः ।
अर्थग्रहणे सति यदिष्टं सम्पद्यते, तद् दर्शयति - यदेति । पारिभाषिकस्य द्विवचनस्य ग्रहणे तस्यास्मिन्विषयेऽभावद्युवावादेशौ न स्यातामित्यव्याप्तिः स्यादिति भावः । आदेशान्तरेण न बाध्येते इति । बाधस्तु परत्वादित्यत्रैव वक्ष्यते । अतिक्रान्तं युवामिति सौ जसि चादेशान्तरेण बाधः । द्विवचनस्य तु पारिभाषिकस्य ग्रहणेऽपि सिद्धिरिति प्रथमाया अतिक्रमः । उत्तरत्रापि तु पारिभाषिकस्य ग्रहणेऽपि सिद्धिरिति प्रथमाया अतिक्रमः । उत्तरत्रापि द्विवचनस्यातिक्रमेऽयमेव हेतुः । तत्र चानादेशे विभक्तौ हलादौ द्वितीयायां च आत्वम्, अजादौ यत्वम्, शेषे लोपः, ङेप्रथमयोरम्, इत्यादयो विभक्त्यादेशाश्च यताययं द्रष्टव्याः ।
परत्वादिति । त्वाहादीनामवकाशः यदा बह्वर्थे युष्मदस्मदी - अतिक्रान्तो युष्मानतित्वम्, अत्यहम्, युवावयोरकाशः - युवाम्, आवाम् व्द्यर्थत्वे सति, सावुभयप्रसङगे विप्रतिषेधः ।
यदा त्वित्यादि । पारिभाषिकस्य ग्रहणे तत्रापि प्रसङ्ग इत्यतिव्याप्तिः स्यादिति भावः । अतिक्रान्तौ त्वाम् , अतित्वामिति । प्रथमायाश्च द्विवचने भाषायाम् इत्यात्वम् । यदात्र पारिभाषिकस्य ग्रहणमिति मत्वेदमुदाहृतम् । अथापि तत्राप्यर्थग्रहणम्, तथापि बह्वर्थेऽतिप्रसङ्ग इत्याह - अतिक्रान्तौ युष्मानिति । पूर्ववदात्वम् । एवं ज्ञेयमिति । अतियुष्माम्, अतियुष्माभ्याम्, अतियुष्मयोः । एवमस्मदः ।।
यूयवयौ जसि ।। 7 - 2 - 93 ।।
परमयूयमिति । अत्र पारम्ययोगो यथासम्भवं द्रष्टव्यः । तदन्तविधिरत्र भवतीति । अङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति वचनात् । यदापि तदन्तस्य, तदापि न सर्वस्य, युष्मदस्मदोर्मपर्यन्तस्येत्यधिकारात् ।।
त्वाहौ सौ ।। 7 - 2 - 94 ।।
त्वमिति । यद्यष्यत्र त्वमावेकवचने इति त्वादेशः सिद्धः तथाप्यहादेशस्तावद्विधेयः तत्र च अहः सौ ित्युच्यमाने युष्मदोऽपि प्रसङ्गः, अस्मदोऽहः सौ इत्युच्यमाने गौरवं स्यात्, तस्मादत्रापि त्वादेश एव विधेययः । किञ्च - अतिक्रान्तो युवां युष्मान्वाऽतित्वमित्यत्र त्वादेशस्य शङ्कापि नास्ति ।।
त्वमावेकवचने ।। 7 - 2 - 97 ।।
एकवचन इत्यर्थनिर्देश इत्यादि । एतच्च द्विवचन इत्यर्थनिर्द्देशः इत्येतदनुसारेण योज्यम् ।
अर्थग्रहणे यदिष्टं सम्पद्यते तद्दर्शयति - तदेति । पारिभा, इकस्य त्वेकवचनस्य ग्रहणेऽत्र न स्यादित्यव्याप्तिः । अतिक्रान्तौ त्वामिति । तदापि त्वमौ भवत इत्यस्योदाहरणम् । अतित्वामिति । पूर्ववदात्वम् । एवमन्यदुदाहर्त्तव्यमिति । एतद् अतित्वम्, अत्यहमित्यनेनापि सम्बध्यते । अतियूयम्, अतितुभ्यम्, अतितव । एवमस्मदः । अतित्वामतिमामित्यनेन तु सम्बन्धः स्पष्ट एव । अतित्वां पश्य अतित्वान्, अतित्वाभ्याम्, अतित्वाभिः, अतित्वभायम् । अतित्वम् । अतित्वयोः अतित्वाकम् । अतित्वयि, अतित्वयोः, अतित्वासु । एवमस्मदः ।
अत्रानन्तरं यदा युष्मदस्मदी द्वित्वबहुत्वयोर्वर्त्तेते समासार्थेस्यैकत्वं तदा त्वमौ न भवतः अतिक्रान्तं युवामतियुवाम्, अत्यावाम् । अतिक्रान्तं युष्मान् अतियुष्मान्, अत्यस्मान् । एवं नेयमिति पठितव्यम् पूर्वानुसारेण गम्यमानत्वान्न पठितम् ।।
प्रत्ययोत्तरपदयोश्च ।। 7 - 2 - 98 ।।
एकवचने वर्त्तमानयोरिति । एकार्थाभिधानविषययोरित्यर्थः । वस्तुकथनं चैतम्, न तु शब्दार्थकथनम् । एकवचने इत्यस्य प्रथमाद्विवचनान्तत्वात् । त्वदीय इति । त्यदादीनि च इति च वृद्धसंज्ञा, वृद्धाच्छः । त्वत्तर इति । पारम्यवत्प्रर्षयोगः ।
वभक्तावित्यधिकारादिति । ननु च पूर्वसूत्रे विभक्तौ इति न सम्भान्त्यते कथम् आवृद्धेरनुवर्त्तमानं न सम्बध्येत एवमपि योगविभागो न कर्त्तव्यः, त्वमावेकवचने प्रत्ययोत्तरपदयोः इत्येकयोग एव कर्त्तव्यः, एवं हि चकारो न कर्तव्यो भवति नैवं शक्यम्, एवं ह्युच्यमाने यथासङ्ख्यं प्राप्नोति - युष्मदः प्रत्यये, अस्मद उत्तरपद
इति । अथ क्रियमाणेऽपि योगविभागे, यावता निमित्तयोः साम्यं कस्मादेव यथासङ्ख्यं न स्यात् । नै, दोषः चकारोऽत्र क्रियते, स द्वयोरपि द्वे निमित्ते समुच्चेष्यति ।
ननु चेति । चोदकः । प्रकृतिप्रत्यययोः पूर्वात्तरपदयोश्च मध्ये या वर्तते सामन्तर्वर्त्तिनी विभक्तिः । परिहरति - नैषं शक्यमिति । लब्धुमिति शेषः । किं कारणम् इत्याह - तस्या लुका भवितव्यमिति । लुक्तु सुपो धातुप्रातिपदिकयोः इत्यनेन । अन्तरङ्गावित्यादि । चोदकः । विभक्तिमात्रापेक्षत्वादन्तरङ्गत्वम्, लुक्तु पश्चादुत्पन्नः प्रत्ययमुत्तरपदं धापेक्ष्य धातुत्वप्रतिपदिकत्वयोरुपजातयोः प्राप्नुवन् बहिरङ्गः । यद्यप्ययं नित्यः, तथापि नित्यान्तरङ्गयोरन्तरङ्गमेव बलीयः । यथोक्तम् - परिनित्यान्तरङ्गप्रतिपदविधयो विरोधिनः सन्निपाते तेषां मिथः प्रसङ्गे परबलीयस्त्वमिति । एतदेवेत्यादि । परिहारः । किमेतस्य ज्ञापने प्रयोजनम् इत्याहतेनेति । प्रथमेनादिब्देन गोमत्यतीत्यादेर्ग्रहणम्, द्वितीयेन दीर्घहल्ङ्यादिलोपयोः, हल्ङ्यादिलोपे हि प्रत्ययलक्षणेन नुमादि स्यादेव । लुकि तु न लुमताङ्गस्य इति प्रत्ययलक्षणप्रतिषेधान्न भवति । ज्ञापनस्य प्रयोजनान्तरमाह - एवं चेति ।
पुनश्चोदयति - अथेति । असति हि प्रयोजने ज्ञापकं भवति, अस्ति चात्र प्रयोजनम्, किम् एषामेव त्वाहादीनामादेशान्तराणां बाधनम् । सत्येतस्मिन् प्रयोजने न ज्ञापनमुपपद्यत इति । परिहरति - लक्ष्यस्थित्यपक्षयेति । गोमत्प्रिय इत्यादिकं लक्ष्यं लोके साधुभावे स्थितम्, तदादेशान्तरबाधनार्थेऽस्मिन्विज्ञायमाने न संगृहीतं स्यात्, तच्चापेक्ष्यं प्रयोगमूलत्वाव्द्याकरणस्य । तस्मात्तदपेक्षया नैतदादेशान्तराणां बाधनार्थं युक्तं विज्ञातुमिति ।
अपर आह - यद्येतदादेशान्तराणां बाधनार्तं स्यात् मपर्यन्तस्य इत्यनुवृत्तिरपार्थिका स्यात् । कथम् उत्सर्गसमानदेशत्वादपवादानां श्यनादिषु तथा दृष्टत्वादिति । नायं नियमः - उत्सर्गसमानदेशा अपवादाः इति श्नमादिषु व्यभिचारात् । न हि श्नम्बहुजकचः शबादिभिः समानदेशाः । तस्माद्यद्यवश्यमुपपर्तिर्वक्तव्या, एवं वक्तव्यम् - इह त्वाहादयोऽप्यनुवर्त्तनेत, मपर्यन्तस्येति च तत्र त्वाहाद्यनुवृत्त्यैव तद्वाधे सिद्धे मपर्यन्तानुवृत्तिरप्राप्तप्रापणार्था सती ज्ञापकमुक्तस्यार्थस्येति ।
वयं तु ब्रूमः - मपर्यन्तस्य इत्येवानुवर्त्य तस्यादेशौ विधेयौ । यदि चान्तरङ्गा आदेशाः स्युः , प्रत्ययोत्तरपदयोर्मपर्यन्तस्य न क्वापि सम्भव इति तस्यादेशविधानमनुपपन्नं स्यादिति ज्ञापकमुक्तस्यार्थस्येति ।।
त्रिचतुरोः स्त्रियां तिसृचतसृ ।। 99 ।।
त्रिचतुरोरेव विशेषणमिति । श्रुतत्वात् । नाङ्गस्येति । विपर्ययात् । तेन किं सिद्धं भवति इत्याह - तेनेति । प्रियतिसेति । अनङ्सौ, ऋदुशनस्पुरुदंसोऽनेहसाञ्च इत्यनङ् । प्रियतिस्नाविति । ऋतो ङिसर्वनामस्थानोयोः इति गुणं परमपि बाधित्वोत्तरसूत्रेण रादेशः । प्रियतिसृ इति । इकोऽचि विभक्तौ इत्यज्ग्रहणेन ज्ञापितम् - लुमता लुप्तेऽपि क्वचित्प्रत्ययलक्षणं भवतीति । तेन स्वमोर्नपुंसकात् इति नित्ये लुकि कृतेति तिसृभावः । प्रियतिसृणी इति । रादेशात्पूर्वविप्रतिषेधेन नुमिति क्वचित्पठ्यते । नद्यृतश्चेति कब्न भवतीति । समास्यमानदशायामृकारान्तस्य तत्र ग्रहणमिति भावः । कबभावे हेतुः - विभक्त्याश्रयत्वादित्यादि । एवं तावत् स्त्रियाम् इत्यनेन त्रिचतुरोर्विशेषणादव्याप्तिपरिहारो दर्शितः ।
अतिव्याप्तिरपि परिहृतेत्याह - यदा चेति । तिसृकेति । स्वार्थे कन्प्रत्ययः अल्पत्वे, कुत्सितत्वे, संज्ञायां वा । तत्र विभक्तेर्लुकि कृते तत्र विधीयमानस्तिसृबावो न स्यादिति वचनम् । तत्र स्वार्थिकप्रत्ययान्तत्वाद्वहुवचनान्तस्तिसृकाशब्दः संज्ञेत्येके । ग्रामस्य कस्यचिदेषा संज्ञा रूढिरिति नास्ति बहुवचनप्रसङ्ग इत्यन्ये ।
चतसरीति । यथा प्रियतिस्नावित्यत्र सवनामस्थानलत्रणं गुणं बाधित्वा रादेशो भवति, तथा ङावपि प्राप्नोति तथा चोत्तरसूत्रे प्रियतिस्नीति ङावपि रादेशमुदाहरिष्यति, पूर्वपिप्रतिषेधं च वक्ष्यति । अत्राहुः - अस्मादेव निर्देशादर्थप्रधानयोरेवादेशः । इह तु स्वरूपप्रधानत्वात्त्दभावे गुण इति । चतस्न िति । अत्र स्थानिवद्भावात् चतुरः शसि इत्यन्तोदात्तत्वे सति उदात्तयणो हल्पूर्वात् इति शस उदात्तत्वप्रसङ्गः, स निपातनस्वरेण बाध्यते । यथैव तर्हि निपातनस्वरः शसिस्वरं बाधते, तथा षट्त्रिचतुर्भ्यो हलादिः इत्येतं
विभक्तिस्वरमपि बाधेत तत्राह - चतसृणामित्यत्र त्विति । तत्र कारणमाह - हलादिग्रहणसामर्थ्यादिति । तत्र हलादिग्रहणस्य चतस्नः पश्येत्येतदेव व्यावर्त्त्यम्, नान्यत्किञ्चित् । एतच्च तत्रैवोपपादितम् । यदि च निपातनस्वरो विभक्तिस्वरस्यापि बाधकः स्यात्, तदान्तरेणापि हल्ग्रहणं विभक्तेः स्वरो न भविष्यति, किं हलादिग्रहणेन तत्क्रियमाणं ज्ञापयति -- निपातनस्वरं विभक्तिस्वरो बाधते इति । अन्ये त्वाहुः हलादि - ग्रहणादेव चतस्नः पश्येत्यत्र चतुरः शसि इत्यस्याप्रवृत्तिरवसीयते । यदि स्यात्, ततः उदात्तयणओ हल्पूर्वात् इति स्यादेव विभक्तेरुदात्तत्वमिति तव्द्यावृत्तये हलादिग्रहणमनर्थकं स्यात् । तस्मादाद्युदात्तनिपातनमेव न कर्तव्यमिति । तत्राद्युदात्तस्य चतुश्शब्दस्यानन्तर्यत आद्युदात्त एव चतस्नदेशे सति चतसृणामित्यत्र षट्त्रिचतुर्भ्यो हलादिः इति विभक्तेरुदात्तत्वं भवति ।।
अचि र ऋतः ।। 7 - 2 - 100 ।।
पूर्वसवर्णोत्त्वेत्यादि । तिस्नः पश्येत्यत्र प्रथमयोः पूर्वसवर्णः इत्यस्यापवादः । प्रियतिस्नः स्वमित्यत्र ऋत उत् इत्युत्त्वस्य । प्रियतिस्नि, प्रियतिस्नौ, प्रियतिस्नस्तिष्ठन्तीत्यत्र ऋतो ङिसर्वनामस्थानयोः इति गुणस्य । ननु यत्र विध्यन्तरस्याप्राप्तिः - प्रियतिस्ना, प्रियतिस्ने, प्रियतिस्नोरिति, तत्र इकोयणचि इत्येव सिद्धमिति विध्यन्तरस्य विषये इदमारभ्यते तत्र मध्येऽपवादाः पूर्वान्विधीन् बाधन्ते इति उत्त्वपूर्वसवर्णौ बाधत इति युक्तम्, गुणविषये तु परत्वात् स एव स्यात् इत्यत आह - परमपि हीति ।
ऋत इति किमिति । तिसृचतस्नोरनुवृत्तोः अलोऽन्त्यस्य इत्येव सिद्धमिति प्रश्नः । तिसृचतस्नोः प्रतिपत्त्यर्थमिति । तिसृचतस्नोरादेशयोरजादावपि विभक्तौ प्रतिपत्तिर्यथा स्यादित्यर्थः । अन्यथा हीति । ऋतः इत्यनुच्यमाने षष्ठीनिर्द्दिष्टत्वात् त्रिचतुरोरेवायमादेशः स्यात्, स च नाप्राप्तयोस्तिसृचतस्नोर्विधीयत इति तयारपवादः स्यादित्यर्थः ।।
जराया जरसन्यतरस्याम् ।। 7 - 2 - 101 ।।
अतिजरांसीति । अतिजर - इ इति स्थिते यदि पूर्व नुमागमः स्यात्, सोऽङ्गभक्तोऽङ्गमेव न व्यावदध्यात् । तदवयवं तु जराशब्दं व्यवदधात्येवेति सत्यपि तदन्तविधौ निर्दिश्यमानस्यादेशा भवन्ति इति जरशब्दन्तस्याङ्गस्यावयोवो यो जराशब्दः तस्य विभक्त्यानन्तर्थे विधीयमानो जरसादेशो न प्राप्नोति । अथापि स्यात्, तथापि सकारात्परस्य नुमः श्रवणं स्यात् . तस्मात्परत्वात्पूर्वं जरसादेश एष्टव्यः । तत्र कृते झलन्तलक्षणो नुम । अतिजरसं प्रश्येत्यत्र अतिजर - अम् इति स्थिते एकदेशविकृतस्यानन्यत्वाज्जरशब्दस्य जरसादेशो कृते स्वमोर्नपुंसकात् इति लुक् प्राप्नोति । न च तदानीमम्भावस्य प्रसङ्गः अनदन्तत्वात् । ननु चातिजरशब्दस्यादन्तत्वात्तस्यामवस्थायामम्भावेन बाधितस्य लुकः पुनः प्रसङ्गो न युक्तः, भ्रष्टावसरत्वात् नैतदस्ति, नात्राम्भावः प्रवृत्तः परत्वान्नित्यत्वाच्च जरसादेशेन बाध्यते, तत्र कृते लुक्प्रसङ्गः । एवं तर्हि सन्निपातपरिभाषया लुग्न भविष्यति । अजादिसन्निपातेन जरसादेशो निष्पन्नो नोत्सहते तस्य लुको निमित्ततां प्रतिपत्तुम् । यद्येवम्, अतिजरसं ब्राह्मणकुलं तिष्ठति अतिजरसैरिति न सिद्ध्यति, कथम् सोर्भिसश्चाकारान्तसन्निपातेनाजादिरादेशः कृतोऽकारान्तत्वाविधातिनो जरसादेशस्य निमित्तं न स्यात् । इष्टमेवैतत्सङ्गहीतम् । अतिजरमतिजरैरिति भवितव्यम्, एष गोनर्दीयस्य पक्षः, तदिदमुच्यते - इहेत्यादि । इहेति वाक्योपान्यासे । अतिजरसं ब्राह्मणकुलमित्यादि भवितव्यमित्यन्तं गोनर्दीयस्य मतम् । न पुनर्लुवशास्त्रं प्रवर्त्तत इति यदुक्तम्, यच्चोक्तम् - अतिजरं ब्राह्मणकुलमित्यादि, तत्रोभयत्रापि हेतुः - सन्निपातलक्षण इति । न पुनर्लुक्शास्त्रम् इत्यत्र पुनः शब्दस्यायमर्थः - पूर्वं या लुक्प्राप्तिः, साम्भावेन बाधिता या तु जरसादेशे कृते नुनः प्राप्तिः, सापि सन्निपातपरिभाषया न भवतीति ।
अन्ये त्वित्यादि । एतच्च टाङ्सिङसामिनात्स्याः, अतो भिस ऐस् इत्यत्र व्याख्यातम् ।।
त्यदादीनाम् ।। 7 - 2 - 102 ।।
द्विपर्यन्ता इत्यादि । इष्टिरेवेयम् । यत्तूच्यते - शेषेलोपवचनं ज्ञापकमिति, तदयुक्तम्, उपसर्जनार्थत्वादतियूयमतिवयमिति । यदा तु शेषे लोपष्टिलोपस्तदा तु सुतरामज्ञापकम् ।
पाठादेव पर्युदस्ता इति । तथा च सर्वादिसूत्रे वार्त्तिकम् संज्ञोपसर्जनानां प्रतिषेधः पाठात्पर्युदासः इति
। तेन पाठोपजीवनेन प्रवर्तमानमिदमपि संज्ञोपसर्जनीभूतानां न भवति । त्यदादीति । त्यादादीनामर्थः प्रधानं यत्र समासे तत्रेत्यर्थः । न हि ते पाठात्पर्युदस्ताः ।।
किमः कः ।। 7 - 2 - 103 ।।
तेनाकार एव किमो न विधीयत इति । कथं पुनरकारविधाने कः इत्यादिरूपसिद्धिः, यावतान्त्यस्य प्राप्नोति, न चान्त्यस्य पूर्षेण सिद्धः, द्विपर्यन्तास्त्यदादयः इत्युक्तत्वात् अपरे पुनरेतच्चोद्यभयादेवं पठन्ति - तेनाकार एव इमो न विधीयत इति । अयमर्थः - इमः इत्येतावत्सूत्रमस्तु, त्यदादीनामः इत्येव त्यदादीनां सम्बन्धिन इमोऽकारो भवति तत्र नानर्थकेऽलेन्त्यविधिः इति सर्वस्यैवेमोऽकारो भवति । तेषामेवं पठतामुत्तरत्र किमो ग्रहणं कर्त्तव्यम् न कर्त्तव्यम् उति होः इति वक्ष्यामि इमः इत्येव्र, ततो वाति इमः इत्येव, इमो वकारादेशो भवति । तस्मात्साकच्कार्थमेव कादेशो विहितः ।।
कु तिहोः ।। 7 - 2 - 104 ।।
तिशब्दस्य विभक्तिसंज्ञकस्याभावात्तकारे इकार उच्चारणार्थः । कुहेति । वा ह च छन्दसि इति हप्रत्ययः ।।
क्वाति ।। 7 - 2 - 105 ।।
क्वेति । किमोऽत् इत्यत्प्रत्ययः ।।
अथदेशान्तरकरणं किमर्थम्, न प्रकृतः कुशब्द एव विधीयते, एवं च कृत्वा योगाविभागोऽपि न कर्तव्यः कुतिहात्सु इत्येवास्तु का रूपसिद्धिः यणादेशे कृते क्वेति सिद्धम्, ओर्गुणस्तु अङ्गवृत्ते पुनर्वृत्तौ इति वचनान्न भविष्यति, यणदेशस्त्वनाङ्गत्वाद्भवत्येव तत्राह - आदेशान्तरकरणमोर्गुणनिवृत्त्यर्थमिति । निष्ठिततत्त्वं दुर्ज्ञानमिति भावः । एवं तर्हि किमोऽत् इत्येतत् किमोड्वत् इति वक्तव्यम्, टिलोपो कृते क्वेति सिद्धम् अत आह - किमोड्वदिति चेति । कथं पुनः प्रत्ययान्तरे रूपसिद्धिः, यावता ककारस्य जश्त्वं प्राप्नोति टिलोपो हि डित्प्रत्यभविष्यति । कथमसिद्धत्वम् असिद्धं बहिरङ्गमन्तरङे । टिलोपो हि डित्प्रत्ययापेक्षत्वाद्वहिरङ्गः जश्त्वं तु तदनपेक्षत्वादन्तरङ्गम् । साकच्कार्थमिति । साकच्के हि प्रत्ययान्तरे विहिते कक्वेति स्यत् । यथान्यासे तु तत्रापि क्वेत्येव भवति ।।
तदोः सः सावनन्त्ययोः ।। 7 - 2 - 106 ।।
सौ, इति प्रथमैकवचनस्य ग्रहणम्, न सप्तमीबहुवचनस्य, स्यश्छन्दसि, सोऽचि लोपे चेत् इत्यादिनिर्देशात् । नाप्युभयोः तथाहि सति सि इत्येव ब्रूयात्, सकारादौ विभक्ताविति ।
अनन्त्ययोरिति किमिति । विशेषणविशेष्यभावे कामचारात्त्यदादिषु तकारान्तस्यासम्भावच्च त्यदादिभिस्तदोर्विशेषणादनन्त्ययोस्तावस्तावस्तिद्धम्, अन्त्यस्य तु त्यदाद्यत्वं भविष्यतीति प्रश्नः । अत्वस्य सोरन्यक्ष सावकाशत्वात्सौ परत्वादिदमेव स्यादित्युत्तरम् । तत्र केवले सौ पुंल्लिङ्गे विशेषाभावात् सम्बुद्धौ, स्त्रियां च प्रत्युदाहृतम् । किमर्थं पुनः तदोः इत्युच्यते, तवर्गग्रहणमेव क्रियेत - तोः सः सावनन्त्यस्य इति नकारस्यापि तर्हि प्राप्नोति तस्मान्नुडचि - अनेषः, तअनयम्, अनसाविति । नु़यं परादिस्तद्ग्रहणेन गृह्यते ।।
अदस औ सुलोपश्च ।। 7 - 2 - 107 ।।
असुक इति । अदकस् सु इति स्थिते औत्वप्रतिषेधात्त्यदाद्यत्वं दकारस्य सत्वं सकारादुत्तरस्य चाकचोऽकारस्य उत्वम् ।
उत्तरपदभूतानामित्यादि । समासाद्या विभक्तिरुत्पद्यते, तदपेक्षत्वादादेशो बहिङ्गः, ततश्चान्तरङ्गत्वादेकादेशे कृते तस्यादिवद्भावादादेशेषु क्रियमाणेषु परमयम्, परमहमित्याद्यनिष्टप्रसङ्गः । तस्मादकृतसन्धिकार्याणामेवामी आदेशा वक्तव्याः । एतच्च नेन्द्रस्य परस्य इत्यत्र ज्ञापयिष्यते ।
अदसः सोर्भवेदित्यादि । अदस औ इत्येतावदेव सूत्रमस्तु, सौ इत्येव अदसः इति पञ्चमी, तया पूर्वसूत्रे कृतार्थायाः सप्तम्याः षष्ठ्यां प्रकल्पितायाम् अदस उत्तरस्य सोरौकारो भवतीत्यर्थः, तत्र त्यदाद्यत्वे कृते असाविति सिद्धे किं सुलोपो विधीयते । ह्रस्वाल्लुप्येत सम्बुद्धिः । यदि सोरौकारो विधीयते, तदा हि असावित्यत्र त्यदाद्यत्वे ह्रस्वात्परस्याः सम्बुद्धेरौकारस्य लोपः स्यात्, न हलः नैष दोषः, हलः सलोपे विधीयते
। यद्येवम्, तत्र हल्ग्रहणं कर्त्तव्यम् नेत्याह - प्रकृतं हि तत् । हल्ङ्याब्भ्यो दीर्घात् इत्यत्र । ननु चेदं प्रथमानिर्दिष्टम्, षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्य इति । पूर्वसूत्रवद्वा प्रथमाया तएव यथाकथञ्चिन्निर्वाहो भविष्यति । आप एत्वं भवेत्तस्मिन् । इह तर्हि स्त्रियां सम्बुद्धौ असा - औ आङि चापः सम्बुद्धौ च थइत्येवं प्राप्नोति, प्रकृते रेव त्वौत्वे टापोऽभावादेत्वाभावः, न, झलीत्युवर्त्तनात् नैष दोषः, बहुवचने झल्येत् इत्यतो झलीति तत्रानुवर्त्तते - झलादौ सम्बुद्धाविति, औत्वे कृते अझलादित्वान्न भविष्यति । प्रत्ययस्थाच्च कादित्वमिति । इह तर्हि स्त्रियामकचि असका - औ इति स्थिते प्रत्ययस्थात्कात्पूर्वस्य इतीत्वं प्राप्नोति, प्रकृतेरेव त्वौकारे टापोऽभावादित्वाभावः । शीभावश्च प्रसज्यते । इह च स्त्रियाम् असा - औ इति स्थिते औह आपः इति शीभावः प्राप्नोति, औत्वविधानं तु पुंसि चरितार्थम् पाक्षिक एष दोषः, यदा औङ आपः इति पूर्वाचार्यनिर्देशस्तदा नास्ति, इतरयोरस्तु पक्षयोरस्ति ।।
यः सौ ।। 7 - 2 - 110 ।।
स्त्रियामयं यकार इति । नपुंसके तु स्वममोर्नपुंसकात् इति लुमता लुप्तत्वात् सोरभावः ।।
हलि लोपः ।। 7 - 2 - 113 ।।
अन्ग्रहणमनुवर्त्तत इति । यद्यपि तत्प्रथमान्तम्, तथापि हलीति सप्तम्या तस्य षष्ठी प्रकल्प्यते ।।
मृजेर्वृद्धिः ।। 7 - 2 - 114 ।।
धातोश्च कार्यमुच्यमानमिति । वस्तुतो धातोर्यत्कार्यमुच्यते, तदिह धातोरुच्यमानमिति विवक्षितम् । स धातुः स्वरूपेणैव गृह्यतां मा वा, ग्राहितेन अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् इत्ययमप्यमागमो धातुप्रत्यय एव भवति, न प्रमृज्भ्यामित्यादौ । तत्प्रत्यय इति । धातोरित्येवं विहिते । कंसपरिमृड्भ्यामिति । अत्र तदन्तविधिना प्रसङ्गः ।।
अचो ञ्णिति ।। 7 - 2 - 115 ।।
तण्डुलनिश्चाय इत्यादौ परिमाणाख्ययां सर्वेभ्यः इति घञ् ।
गौः, गावौ, गाव इति । अत्र गौरित्येतत्साक्षादुदाहरणम्, इतरत्रावादेशे कृते अत उपधायाः इत्येव सिद्धम् । सखायौ, सखाय इति । अत्रापि सखायावित्येतदुदाहरणम्, जसि तु जसि च इति गुणे अयादेशे च कृते पूर्ववत्सिद्धम् । च्यौत्नमिति बलनाम, छान्दसम् -- तमिच्च्यौत्नैरार्यन्ति । किमर्थ पुनरिदमुच्यते, यावता जेतृयोतृशब्दाभायां प्रज्ञाद्यणि जैत्रम्, यौत्रमिति सिद्धम् । च्यौत्नमिति उणादयोऽव्युत्पन्नानि प्रातिपदिकानि । तण्ुलनिश्चायः श्चावकः, लावक इत्यादौ गोतो णित् इत्येतट् गोत औत् इति वक्तव्यम् - गोत औकारादेशो भवति सर्वनामस्थाने परतः । कथं सखायौ, सखायः सख्युरसम्बुद्धौ इत्येतत् सख्युरैत् तइति वक्ष्यामि, अत्रोच्यते ञ्णिति इति तावदुत्तरार्थं वक्तव्यम् । किञ्च - प्रियमाचष्टे प्राप्ययतीत्यादौ प्राद्यादेशेषु वृद्धिने स्यात् । अथ ते दीर्घान्ता विधीयेरन् तदतिगुरु स्यादिति यथान्यासमेवास्तु ।।
तद्धितेष्वचामादेः ।। 7 - 2 - 117 ।।
अजामादेरचो वृद्धिरिति । ननु च इक्परिभाषोपस्थानादिक एव स्थानित्वेन भवितव्यम्, यद्यपि तुल्यजातीयस्य निर्धारणं भवति, यथा - गवां कृष्णा सम्पन्नक्षीरतमेत्युक्ते गौरेव प्रतीयते, तथात्राप्यचामादिरजेव तथापि साक्षाद् अचः इति निर्देशाभावादिक्परिभाषोपतिष्ठेतैव - इगात्मकस्याच इति, तस्मात्सथानिनिर्देशार्थमच इति वक्तव्यम् तन्न वक्तव्यम् प्रकृतमनुवर्त्तते -- अचो ञ्णिति इति, तत्र निर्दिष्टस्थानिकत्वादिक्परिभाषाया अव्यापारः ।
अथ त्वाष्ट्रः, जागत इत्यत्र त्वष्ट्रजगच्छब्दाभ्याम् तस्येदम् इत्यणि कृते यथाक्रमम् अचो ञ्णिति, अत उपधायाः इति वृद्धिः कस्मान्न भवति तत्राह - त्वाष्ट्रः जागत ित्यत्रेति । अन्त्योपधालक्षणां वृद्धि बाधत इति । परत्वादिति भावः । अन्त्योपधालक्षणाया वृद्धेरवकाशः - गौः, याचकः, अस्या अवकाशः सुश्रुत् सौश्रुतः, त्वाष्ट्रः, जगत इत्यत्रोभचप्रसङ्गे परत्वादादिवृद्धिर्भवति । सकृद्रतिन्यायश्चाश्रीयते, न पुनः प्रसङ्गविज्ञानम् । एवं च कृत्वा पुष्करसच्छब्दस्यानुशतिकादिषु पाठोऽर्थवान्न भवति । यदि त्वादिवृद्धिविषयेऽन्त्योपधावृद्धिः स्यात्, तदोपधालक्षणयैव वृद्ध्या पौष्करसादेः सिद्धत्वादनुशतिकादिषु तन्न पठेत्, ठगर्थं तत्र पाठः स्यात् -
पौष्करसादिकः । न ह्यत्रोपधालक्षणा वृद्धिः प्राप्नोति, अञ्णित्वात् नैतदस्ति, न ह्यस्माच्चरत्यर्थे ठगुत्पद्यते, अनभिधानात् । यद्वाप्रतिपदविहिते बाह्वादिलक्षण इञ्योवोभयपदवृद्धिः, नान्यत्रेति ठगर्थः पाठो न भवति । यत्र त्वादिवृद्धिः प्रतिषिष्यते, तत्रान्त्योपधालक्षणा वृद्धिः । कस्मान्न भवति -- व्यमोर्भवो वैयसवम्, इगन्ताच्च लघुपूर्वात् इत्यण्, व्यापदि भषं वैयापदमिति तत्राप्यैचौ परत्वात् बाधकाविति सिद्धम् ।।
किति च ।। 7 - 2 - 117 ।।
नाडायनः, चारायण इति । नडादिभ्यः फक् । आक्षिकः, शालाकिक इति । दीव्यत्यर्थे ठक् ।।
इति श्रीहरदत्तमश्रविराचतायां पदमञ्जरयौ सप्तमस्याध्यायस्य द्वितीयश्चरणः