सामग्री पर जाएँ

काशिका (पदमञ्जरीव्याख्यासहिता)/सप्तमोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः
← द्वितीयः पादः काशिका (पदमञ्जरीव्याख्यासहिता)
तृतीयः पादः
[[लेखकः :|]]
चतुर्थः पादः →


काशिकावृत्तिः---6
अथ सप्तमाध्याये तृतीयः पादः
देविकाशिंशपादित्यवाड्‌दीर्घसत्त्रश्रेयसामात् ।। 7.3.1 ।।
अत्र विशेषणविशेष्यभावे कामचाराद् देविकादिभिरङ्गं विशेष्यते, तेन वा तानि, तत्रापि सामानाधिकरण्येन, वैयधिकरण्यन वा---इति चत्वारः पक्षाः । तत्र देविकादिभिः सामानाधिकरण्येनाङ्गस्य विशेषणात् तदन्तविधिसम्भवाद्देविकाद्यन्तस्याचामादेराकारो भवतीत्यर्थः स्यात् । तत्र केवलानां न स्यात्, न हि तदेव तदन्तं भवति । व्यपदेशिवद्भावोऽपि प्रातिपदिकेन निषिद्धः । यदि तु प्रत्ययविधिविषयः स प्रतिषेधः । तदा केवलानां भवतु, तदादौ तु न स्यात्‌---देविकाकूले भवा दाविकाकूलाः शालय इति । तदन्ते चातिप्रसङ्गः---सुदेविकादौ भवं सौदेविकमिति; अत्र सोरुकारस्याकारः स्यात् । अथ वैयधिकरण्येन विशेषणम्---देविकादीनां यदङ्गमिति, किञ्चि---देविकादीनामङ्गं यत्र च तेऽवयवभूताः, ततश्च केवलान्न स्यात्, न हि स एव तस्यावयवो भवति । व्यपदेशिवद्भावोऽपि प्रातिपदिकेन प्रतिषिद्धः । यदि तु प्रत्ययविषयः स प्रतिषेधः, तदा केवलानां भवतु, तदन्ते त्वतिप्रसङ्गः पूर्ववत् । केवलं तदादावप्रसङ्ग एवास्मिन्पक्षे परिहृतः । अथाङ्गं समानाधिकरणं विशेषणम्---अङ्गं ये देविकादय इति, तदा तदन्तेऽतिप्रसङ्गः परिहृतः, तदादौ त्वप्रसङ्गः स्यादेव । तदेव तर्हि व्यधिकरणं विशेषणम्---अङ्गस्य ये अवयवभूता देविकादयस्तेषामचामादेराकार इति ? तदा केवले तदादौ च न दोषः, किन्तु परपदभूतानामपि तेषामाकारप्रसङ्गः । तत्र प्राग्ग्रामे पूर्वशांशप इत्यादाविष्ट एवाकारः, सुदेविकादावग्रामे त्वनिष्टप्रसङ्गः । तदेवमेते चत्वारोऽपि पक्षा दुष्टाः ।
अथापरः पक्षः---अङ्गेन देवकादिभिश्चाचामादिविशेष्यते---अङ्गस्याचामादेराकारो भवति स चेद्देविकादीनां सम्बन्धी भवतीति । अत्र पक्षे केवलेषु तदातौ चाङ्गे नास्ति दोषः, नापि सौदेविकमित्यत्र पूर्वपदस्योत्तरपदस्य वा प्रसङ्गः; किन्तु प्राग्ग्रामे पूर्वशांशपः---इत्यादावुत्तरपदभूतानां देविकादीनामाकारो न स्यात् ? नैष दोषः; `प्राचां ग्रामनगराणाम्' इत्यत्रैतदनुवर्तिष्यते, तत्र च वाक्यबेदेन सम्बन्धः---प्राचां ग्रामनगराणामुत्तरपदस्याचामादेरचो वृद्धिर्भवति, देविकादीनामुत्तरपदानामचामादेराकार इति । अयमपि वृत्तिकारस्य पक्षो न भवति; यद्ययं पक्षोऽभविष्यत्, उत्तरपदवृद्धावप्येतदनुवर्त्तिष्यत इत्येवावक्ष्यत् ।
कस्तर्हि वृत्तिकारस्य पक्षोऽयमभिधीयते ?
परिभाषेयमान्तर्यपरिभाषाऽपवादिनी ।।
देविकादेरचामादेर्यत्र वृद्धिः प्रसज्यते ।
तत्रोपतिष्ठते, तेन सर्वमिष्टं प्रसिध्यति ।। इति ।
अनारभ्यमाणे एतस्मिन्, देविकादीनामादेरचो वृद्धिर्भवन्ती स्थानेऽन्तरतमवचनादैकारः प्राप्नोति, तदपवादेनाकारः प्राप्यते, तत्राङ्गं भवतु देविकादयः पूर्वपदमुत्तरपदं वा; सर्वथा यत्र देविकादीनामचामादेरचो वृद्धिप्रसङ्गः, तत्राकारो भवतीति परिभाष्यते । ननु च `अङ्गस्य' इति वर्त्तते ? सत्यम्; नैवमस्याभिसम्बन्धः---अङ्गस्याचामादेराकारो भवति स चेद्देविकादीनां सम्बन्धीति, किं तर्हि ? देविकादीनामचामादेराकारो भवति स चेदङ्गस्य सम्बन्धीति । अथैवमभिसम्बन्धे किं व्यावर्त्यम् ? न किञ्चित्, अनुवृत्तस्य तु सम्बन्धो वक्तव्य इत्येतावत् । साप्याकार एव भवतीति । उक्तोऽत्र हेतुः ।
वहीनरस्येति । वहोऽस्यास्तीति वही, वही चासौ नरश्चेति वहीनरः, `अन्येषामपि दृश्यते' इति दीर्घत्वम् । वैहीनरिरिति । अत्राकारवृद्धिः प्राप्ता इकारेण बाध्यते । तस्य त्वैकारवृद्धिर्भवत्येव, न हि तस्यां नाप्राप्तायामिकारो विधीयते, एवं च कृत्वा सूत्रेऽप्यकार एव विधेयः, तस्याकारवृद्धौ सिद्धमिष्टम् ? तथा तु न कृतमित्येव । केचित्त्विति । विहीनो नरो विहीनरः, पृषोदरादित्वान्नशब्दस्य लोपः ।।
केकयमित्रयुप्रलयानां यादेरियः ।। 7.3.2 ।।
लौकिकं हि तत्र गोत्रं गृह्यत इति । मित्रयु शब्दोऽभेधोपचारात्तदपत्यसन्ताने यदा वर्त्तते न परं प्रकृतावेव, तदेदमुच्यते । यदा तु गृष्ट्यादिभ्यष्ठञो यस्कादित्वाद् बहुषु लुक् क्रियते, तदा पारिभाषिकेऽपि गोत्रे न दोषः । अत्र यद्यपि वृद्धिप्रसङ्गेऽयमादेश उच्यते, तथापि वृद्धिर्न बाध्यते; विषयभेदात्---अचामादेर्वृद्धिः, यादेरियादेशः, अङ्गं तूभयोविशेषणम्, न कार्यि ।।
न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् ।। 7.3.3 ।।
अत्रार्थद्वयविधानाद्वाक्यभेदः, तस्यैव द्योतकस्तुशब्दः, `पूर्वौ' इत्यनेन सम्बन्धादैचाविति प्राप्ते एकवचनं सौत्रम् । वृत्तौ तु क्रियाविशेषणत्वादेकवचनम् । ताभ्यां तु पूर्वमिति । ऐजागमो भवतीति । टित्त्वाद्यागमलिङ्गाभावेऽपि पूर्वशब्देन देशविशेषे भवन्नागम इत्युच्यते---आगच्छतीत्यागम इति । वैयसनमिति । `गतिकारकोपपदानां प्राक्सुबुत्पत्तेः समासः' इत्युत्तरपदविषयमित्यवीचाम । तेन वैयसनादिषु य्वोः पदान्तत्वम् । स्वश्वशब्दः शिवदिः ।
याष्टीक इति । `शक्तियष्ट्योरीकक्' । ननु चात्राचामादेः स्थाने यौ य्वौ ताभ्यामित्याश्रयणआदेव न भविष्यति ? तत्राह---यत इम इति । `इण्‌ गतौ' लटः शत्रादेशः, शपो लुक्, `इणो यण्‌' । इहासत्यपि प्रतिषेधे वैयसनमित्यादौ व्यसन + अ इति स्थिते वृद्धिश्च प्राप्नोति, ऐजागमश्च; तत्र वृद्धिरनित्या, शब्दान्तरप्राप्तेः । सा ह्येचि कृते तस्यैव प्राप्नोति; तन्मध्यपतितस्य तद्‌ग्रहणेन प्रहणात् । ऐजागमस्तु नित्य इति स एव तावद्भवति । तत्र कृते यद्यपि पुनः---प्रसङ्गविज्ञानाद् वृद्धिः, तथाप्यान्तर्यत ऐकारस्यैकारः, औकारस्यौकार इति न कश्चिद्दोषः, किं प्रतिषेधेन !
नन्वसति तस्मिन्, वैयाकरणी भार्या अस्य वैयाकरणभार्य इति `वृद्धिनिमित्तस्य' इति पुंवद्भावप्रतिषेधः स्यात्, सति तु प्रतिषेधे न भवति; कथं न भवति, यावता वृद्धेर्निमित्तं ञणका यस्मिंस्तद्धित इति बहुव्रीहिः, विद्यते चात्र णकारः ? सत्यं विद्यते, निमित्तं तु न भवति; `कुर्वद्रूपे हि निमित्तशब्दो मुख्यः' इत्युक्तम् । ननु च मा भूत् `तद्धितेष्वचामादेः' इत्यस्या वृद्धेर्निमित्तम्, य एव त्वसौ णित्तद्धिताश्चय ऐज्विधीयते तस्यैव वृद्धिसंज्ञकस्य निमित्तं णकार इति स्यादेव पुंवद्भावप्रतिषेधः ? उच्यते; न हि वस्तुतो या वृद्धिस्तस्या यन्निमित्तं ञकारादिस्तद्वति प्रतिषेधः, किं तर्हि ? बृद्धिरित्येवं या विधीयते तन्निमित्ते । अतः पुंवद्भावप्रतिषेधनिवृत्त्यर्थं वृद्धेः प्रतिषेधो वक्तव्य एव ? न वक्तव्यः; एकस्मिन्नङ्गे विशेषविहितावैचौ सामान्यविहिताया वृद्धेर्बाधकौ भविष्यतः, सत्यपि सम्भवे बाधनं भवतीति न्यायात्; ततश्च पूर्ववत्पुंवद्भावप्रतिषेधो न भविष्यतीति `य्वाभ्यां पूर्वमैच्' इत्येवास्तु, नार्थः प्रतिषेधेन ? इत्यत आह---प्रतिषेधवचनमिति । प्रतिषेधवचने सति याभ्यां य्वाभ्यां परस्य वृद्धिः प्राप्ता प्रतिषिध्यते, ताभ्यामेव पूर्वावैचौ भवत इत्यर्थौ भवति, असति हि तस्मिन् यौ कौचन य्वौ गृह्येयाताम् । तस्मादैचोर्विशिष्टो विषयः प्रल्कृप्तो यथा स्यादित्येवमर्थं प्रतिषेधवचनं क्रियत इत्यर्थः । दाध्यश्विः, माध्वश्विरिति। दधिप्रियोऽश्वो यस्य स दध्यश्वः । एवं मध्वश्वः, ताभ्याम् `अत इञ्‌' ।
ननु च `अछामादेः' इत्यनेन य्वौ विशेषयिष्यामः---अचामादेरचः स्थाने यौ य्वाविति ? एवमपि द्वे अशीति अधीष्टः, `तद्धितार्थ' इति समासः, तमधीष्ट इति `प्राग्वतेष्ठक्‌', द्व्याशीतिकः---अत्र प्राप्नोति । सति तु प्रतिषेधे `तद्धितेष्वचामादेः' इत्यनुवृत्तेर्याभ्यां परस्य `तद्धितेष्वचामादेः' इति वृद्धिः प्राप्ता प्रतिषिध्यते, ताभ्यामिति विज्ञायते; अत्र तु `संख्यायाः संवत्सरसंख्यस्य च' इत्येवमुत्तरपदवृद्धिर्विधीयत इति तस्य निषेधाभावादैजागमाभावः सिद्धः । स्यादेतत्---अचामादेरित्यनुवृत्तं स्वरूपपरं सद्‌ वृद्धेर्विशेषणम्, अचामादेरित्येवं या वृद्धिस्तस्याः प्रसङ्गे तदपवादौ य्वाभ्यां पूर्वमैचो भवत इत्यर्थः, इह तु नैवं वृद्धेः प्रसङ्ग इत्यैचौ न भविष्यत इति ? एवमपि य्वावविशेषितौ स्याताम्, ततश्च दाध्यश्वादौ प्रसङ्गः । न च सकृच्छ्रुतमचामादेरित्येतदेवोभयं विशेषयितुमर्हति, येनाचामादेः स्थाने य्वौ ताभ्यां पूर्वावैचो भवतः, सति तस्मिन्नचामादेरित्येवं वृद्धेः प्रसङ्ग इत्याश्रयणान्न क्वापि दोषः स्यात् । न च तन्त्रावृत्त्येकशेषाणामन्यतमाश्रयणे प्रमाणमस्ति, तस्मात्सुष्ठूक्तम्---प्रतिषेधवचनमैचोर्विषयप्रल्कृप्त्यर्थमिति ।
उत्तरपदवृद्धेरपीति । एतच्च तत्रालस्याधिकाराल्लभ्यते । यत्र त्विति । एतदप्युत्तरपदेन य्वोर्विशेषणाल्लभ्यते---उत्तरपदस्य यौ य्वौ ताभ्यां परस्य वृद्धिर्न भवति, ताभ्यां च पूर्वमैजागम इति । इह---इश्च अजश्च यजौ, उश्च अजश्च वजौ, तयोरिदं ऐयजम्, औवजमिति ऐचोरभक्तत्वादतन्मध्यपतितत्वाच्च अङ्गग्रहणेनाग्रहणादैयजीयम्, औवजीयमित्यादौ शेषनिघातो न स्यात्, शेषविवक्षायां च वृद्धाच्छो न स्यात्, प्रातिपदिकस्यावृद्धत्वात् ? उच्यते; यद्येवंविधमभिधानमस्ति, ततः पूवशब्द आवर्तयितव्यः, तत्रैकोऽवयववचनः, अपरो व्यवस्थावचनः---य्वाभ्यां पूर्वावैचौ भवतस्तौ चाङ्गस्यावयवाविति।
अत्र संग्रहश्लोकौ----
नाप्राप्ताया हि वृद्धेः प्रतिपदविधिरैज्बाधको नञ्‌ किमर्थो
याभ्यां य्वाभ्यां परस्यैच् प्रसजति तत एवैष पूर्वो यथा स्यात् ।
मा दाध्यश्वादिके भूदिति ननु विहितौ यावचां स्थान आदे-
र्य्वौ ताभ्यामैजिहैवं न भवति इति चेद् द्वे अशीति अधीष्टे ।।
स्यादैज् द्व्याशीतिकेऽङ्गाद्यच इति विहितस्यैवमैच्चेत्प्रसङ्गाद्
य्वौ न स्यातां विशिष्टौ श्रुतमपि च सकृन्नोभयं भेत्तुमर्हम् ।
स्यादेतस्योत्तरत्राप्यधिकृतिरिह च य्वोः पदस्योत्तरस्यै-
वं पूर्वत्रैयलिन्दे भवति, न च भवेद् द्वे अशीती अधीष्टे ।।
द्वारादीनां च ।। 7.3.4 ।।
दौवारिक इति । `तत्र नियुक्तः' इति ठक्‌ । द्वारपालस्येदं दौवारपालमिति । `संज्ञापूर्वको विधिरनित्यः' इति वृद्धलक्षणश्छो न भवति, `कलापिनोऽण्‌' इत्यत्राण्ग्रहणस्याधिकविधानार्थत्वाद्वा । कथं पुनर्द्वारशब्दस्य पाठे द्वारपालशब्दस्य विधिरयं भवति ? तत्राह---तदादिविधिश्चात्र भवतीति । अत्र च कारणं देविकादिसूत्र एवोक्तम् । ज्ञापकं चात्र वक्ष्यति । सौवरोऽध्याय इति । स पुनः शन्तनुप्रणीतः, फिषित्यादिकः । `सौवर्यः सप्तम्यस्तदन्तसप्तम्यः' इति भाष्ये ।
शोभनोऽध्यायः स्वाध्याय इति । आङत्र मध्ये प्रक्षेप्तव्यः, `अन्येषामपि दृश्यते' इति वा उत्तरपदादेदीर्घत्वम् । एवमपीत्यादि ।
यद्यत्र स्वशब्दः पठ्यते, किमायातं स्वाध्यायशब्दस्य ? तत्राह---तदादावपि हीति । स्वार्थिक-स्वाभाविकादयस्तु भाष्यप्रयोगात्साधवः । स्फैयकृत इति ऋषित्वादण् । शौवादंष्ट्रो मणिरिति । `शुनो दन्तदंष्ट्रा' इति दीर्घत्वम्, पूर्ववदण् ।।
न्यग्रोधस्य च केवलस्य ।। 7.3.5 ।।
नैयग्रोध इति । नीचैर्गतौ प्ररोहैर्वर्धत इत्यर्थः ।
अव्युत्पत्तिपक्षे तु विध्यर्थमिति । अपदान्तत्वाद्यकारस्य । अथास्मिन्नपि पक्षे केवलग्रहणं किमर्थम्, यावता न्यग्रोधस्येत्युज्यते, तत्र कः प्रसङ्गो यत्तदादौ स्यात् ? ज्ञापनार्थं तु । एतज्ज्ञापयति---असमिन्प्रकरणे यान्युपात्तानि तानि तदादिवृद्धिभाजोऽचो विशेषणानीति ।।
न कर्मव्यतिहारे ।। 7.3.6 ।।
कर्मव्यतिहारे यदुक्तमिति । यदस्मिन्प्रकरणे उक्तं तत्कर्मव्यतिहारे न भवतीत्यर्थः ।।
स्वागतादीनां च ।। 7.3.7 ।।
व्यावक्रोशीत्यादौ व्यवपूर्वो धातुः कर्मव्यतिहारे दृष्ट इति व्यवहारशब्दोऽपि कर्मव्यतिहारे वर्त्तते, ततश्च पूर्वेणैवात्र सिद्धेरत्रास्य पाठोऽनर्थक इत्याशङ्क्याह---व्यवहारशब्दोऽयमिति । द्वारादिषु स्वशब्दस्य पाटादत्र प्रसङ्ग इति । `तदादेरपि तत्र ग्रहणं भवति' इत्युक्तमेव ।।
श्वादेरिञि ।। 7.3.8 ।।
तत्र चेत्यादि । यदि तत्र तदादिविधिर्न स्यात् एतद्वचनमनर्थकम्, कथम् ? केवलश्वन्शब्दो द्वारादिषु पठ्यते, तत्र कः प्रसङ्गो यत्तदादेः स्यात् ! तदादिविधिर्भवतीति । अस्मिन्प्रकरणे यदुक्तं तद्वृद्धिभाजोऽचो विशेषणमित्यस्मिन्नर्थे ज्ञापकमित्यर्थः । इकारादिग्रहणं चेत्यादि । श्वादेरितीति वक्तव्यमित्यर्थः । तत्र वर्णग्रहणे सप्तमीनिर्देशात्तदादिविधिः । श्वागणिक इति । `श्वगणाट्ठञ्‌' इति ठञ्‌ । तदन्तस्येति । इञन्तस्य । श्वाभस्त्रमिति । `इञश्च' इत्यण्‌ । तन्निमित्तो वृद्धिप्रतिषेधः, ऐजागमश्च भिन्नकक्षत्वादशक्य इञाश्रयेण प्रतिषेधेन निवारयितुमिति वचनारम्भः ।।
उत्तरपदस्य ।। 7.3.10 ।।
उत्तरत्र `अचामादेः' इत्यनुवृत्तेरुत्तरपदस्याचामादेर्वृद्धिर्वेदितव्या ।
ननु च`अवयवादृतोः' इत्यादौ `अवयवाद्' इत्यादिका पञ्चमी, तत्रान्तरेणाप्युत्तरपदग्रहणमुत्तरपदस्यैव भविष्यति ? अत आह---यत्रेति । आदिपदेन `हृद्भगसिन्ध्वन्ते पूर्वपदस्य च', अनुशतिकादीनां च', `देवताद्वन्द्वे च'---इत्येतेषां ग्रहणम् । एषु योगेषु पञ्चमीनिर्देशाभावादसत्यस्मिन्नधिकारेऽङ्गस्याचामादेरचो वृद्धिः स्यात्, नोत्तरपदस्य । वचनं तु नियमार्थं स्यात्---ज एव प्रोष्ठपदानाम्, नान्यत्र । प्रोष्ठपदानामेव वा जे इति । वचनसामर्थ्याद्वा पूर्वपदस्यैवानाद्यचो वृद्धिविधानार्थं स्यात् । तस्मादेतदर्थमेवायमधिकारः कर्त्तव्यः ।
किमिदानीं पञ्चमीनिर्देशेष्वस्यानुयोग एव ? नेत्याह---पञ्चमीनिर्देशेष्वपीति । वृद्धेश्च व्यपदेशार्थमिति । उत्तरपदाधिकारे विहिता या वृद्धिरिति व्यपदेशो यथा स्यादित्येवमर्थमित्यर्थः । क्व पुनरेवंविधेन व्यपदेशेन प्रयोजनम् ? इत्यत आह---उत्तरपदवृद्धौ सर्वं चेत्यत्रेति । सर्वभासः, सर्वकार इत्यादौ मा भूदित्येवमर्थं तत्रैवमाश्रितम् ।।
अवयवादृतोः ।। 7.3.11 ।।
ऋतोर्वृद्धिमद्विधावित्यादि । ऋतोः=ऋतुवाचिनः शब्दाद्वृद्धिमद्विधौ=वृद्धिनिमित्ते प्रत्यये विधीयमाने तदन्तविधिः, ऋतुशब्दान्तादपि प्रत्ययो भवतीत्यर्थः । किं सर्वत्र ? नेत्यत आह---अवयवादिति । अवयववचनात् परो यदा ऋतुवचनस्तदेत्यर्थः । ये तु---अवयवानामिति षष्ठीबहुवचनान्तं पठन्ति, तेषां न समीचीनोऽर्थः । तथा च `सुसर्वार्धदिक्शब्देभ्यः' इति पञ्चम्या निरदेशि । पूर्वासु वर्षासु भव इति । `तद्धितार्थ' इति समासः । अन्ये तु---अदिक्शब्दत्वाद्विशेषसमासं मन्यन्ते । अथात्रापि तदन्तविधिना वर्षाभ्यष्ठगेव कस्मान्न भवति ? अत आह---अवयवपूर्वस्यैव हीति ।।
सुसर्वार्धाज्जनपदस्य ।। 7.3.12 ।।
जनपदवाचिन इति । स्वरूपग्रहणं तु न भवति; उत्तरसूत्रे मद्रप्रतिषेधात् । सुसर्वार्धेत्यादि । जनपदवाचिनः शब्दस्यानन्तरे प्रत्यये विधीयमाने तदन्तस्यापि ग्रहणं भवति, यदि सुप्रभृतिभ्यः परः सम्भवतीत्यर्थः ।।
दिशोऽमद्राणाम् ।। 7.3.13 ।।
पूर्वपाञ्चालक इति । तद्धितार्थे समासः । पौर्वपञ्चालक इति । अवयववाच्यत्र पूर्वशब्दः, एकदेशिसमासाद् वुञ्प्रत्ययः । अदिक्शब्दत्वाद् आदिवृद्धिरेव भवति । यद्येवम्, वुञापि न भवितव्यमदिक्शब्दत्वादेव ? अस्त्यत्र विशेषः, सुसर्वार्द्धाद्दिक्शब्देभ्य इति तदन्तविधौ शब्दग्रहणं क्रियते---दिशि दृष्टः शब्दो दिक्शब्द इत्येवं यथा विज्ञायेत, वृद्धिविधौ तु दिश इत्येतावदुच्यते । अन्ते त्वणन्तमेव प्रत्युदाहरणं पठन्ति ।।
प्राचां ग्रामनगराणाम् ।। 7.3.14 ।।
`प्राचाम्' इति नाचार्यनिर्द्देशः; जनपदादिभिर्देशैः साहचर्यात् ।
पूर्वैषुकामशम इति । पूर्वा चासाविषुकामशमी चेति `दिक्संख्ये संज्ञायाम्' इति समासः, ततो भवार्थे `दिक्पूर्वपदादसंज्ञायां ञः' इति ञप्रत्ययः ।
पूर्वपाटलिपुत्रक इति । पूर्ववत्समासः, `रोपधेतोः प्रचाम्' इति वुञ्‌ । यद्यप्येकमेव पाटलिपुत्रम्, तथापि पाटलिपुत्रस्यैकदेशे पाटलिपुत्रशब्दस्य वृत्तेः पूर्वत्वविशेषणं युक्तमेव ।
जना यत्र सन्ति स ग्रामः, ततश्च नगरमपि ग्रामः । ये हि ग्रामे विधयो नेष्यन्ते साधीयस्ते नगरेऽपि न क्रियन्ते । तद्यथा---`अभक्ष्यो ग्रामकुक्कुटः' इति सुतरां नागरोऽपि न भक्ष्यते । `ग्रामे नाध्येयम्' इति साधीयो नगरेऽपि नाधीयते । शास्त्रेऽपि--`उदीच्यग्रमाच्च बह्वचोऽन्तोदात्तात्', `वाहीकग्रामेभ्यश्च', `दिक्शब्दाः ग्रामजनपदाख्यानचानराटेषु'---नगरमपि गृह्यते, तस्मादिहापि नार्थो नगरग्रहणेन ? इत्यत आह---ग्रामत्वादेवेति । सम्बन्धभेदप्रतिपत्त्यर्थमिति । अङ्गस्येति प्रकृतम्, उत्तरपदस्येति च, तत्र ग्रामाणामित्येतदङ्गस्येत्यनेन सम्बध्यते---ग्रामवाचिनामङ्गानामिति । नगराणामित्येतदुत्तरपदस्येत्यनेन---नगरवाचिनामुत्तरपदानामिति । न चायं सम्बन्धभेदः सकृदुपात्ते ग्रामशब्दे सम्भवति, तस्मान्नगरग्रहणं क्रियते । तत्र दिक्पूर्वपदो हीत्यादिना सम्बन्धभेद आश्रयणीय इत्यत्र हेतुर्दर्शितः । तत्रैत्यादिना तु स एव सम्बन्धभेदः । इह पूर्वैषुकामशम इति समसनक्रियानन्तरं पूर्वोत्तरपदयोर्गुणः प्राप्नुवन्नन्तरङ्गः, उत्तरपदवृद्धिस्तु पश्चादुपनततद्धितापेक्षत्वाद्वहिरङ्गा, तत्र गुणे कृते पूर्वोत्तरयोर्व्यपवर्गाभावाद्वृद्धिर्न प्राप्नोति; अन्तादिवद्भावोऽप्युभयत आश्रयणे प्रतिषिद्धः । अत्र हि द्ग्वाचि पूर्वपदमुत्तरपदं च युगपदाश्रीयते, तत्राह---पूर्वैषुकामशम इत्येवमादिष्विति । यथा `नेन्द्रस्य परस्य' इति ज्ञापकम्, तथा तत्रैव वक्ष्यामः ।।
संख्यायाः संवत्सरसंख्यस्य च ।। 7.3.15 ।।
संवत्सरश्च संख्या च संवत्सरसंख्यम्, समाहारद्वन्द्वः । द्विसांवत्सरिक इति । `प्राग्वतेष्ठञ्‌', तस्य `अध्यर्धपूर्व' इति लुग्न भवति, अनार्हीयत्वात् ।
द्विषाष्टिक इति । ननु `तमधीष्टो भृतः' इत्यत्र कालादिति वर्त्तते, तत्कथं द्विषष्ट्यादिशब्देभ्यः प्रत्ययः ? इत्यत आह---द्विषष्ट्यादिशब्द इति । कालवृत्तिः शब्दस्तत्र गृह्यते, न मासादय एवेति भावः ।
ननु च `परमाणान्तस्यासंज्ञाशाणयोः' इत्यत्र परिच्छेदहेतुत्वमात्रं गृह्यते, न त्वारोहतः परिणाइतश्च येन मीयते तदेव प्रस्थादि; अन्यथा शाणप्रतिषेधोऽनर्थकः स्यात्; कालश्चापि परिच्छेदहेतुर्भवत्येव, ततश्च संबत्सरग्रहणमनर्थकम्, परिमाणान्तस्येत्येव सिद्धत्वात् ? इत्यत आह---संवत्सरग्रहणमिति । द्वैसमिक इति । अधीष्टादिषु `समायाः खः', `द्विगोर्वा' इति पक्षे ठञ्‌ ।
न केवलं वृद्धिविषयमेव ज्ञापकम्, किं तर्हि ? सार्वत्रिकमित्याह---द्विवर्षा माणविकेति । द्वे वर्षे भूता इति पूर्ववट्टञ्‌, तस्य `वर्षाल्लुक्‌', `चित्तवति नित्यम्' इति लुक् । पर्युदासो न भवतीति । प्रतिषेधस्य । तेन प्रतिषेध एव भवति ।
अथ संख्याग्रहणं किमर्थम्, यावता संख्ययापि परिच्छिद्यते, तत्र `परिमाणान्तस्य' इत्येव सिद्धम् ? केचिदाहुः---संख्याग्रहणमपि ज्ञापकार्थमेव, परिमाणग्रहणेन संख्यापि न गृह्यत इति । तथा च `अपरिमाणबिस्ताचित' इत्यत्र वृत्तावुक्तम्---`कालः संख्या च परिमाणं न भवति । द्विवर्षा, त्रिवर्षा, द्विशता, त्रिशता' इति । अपर आह---साक्षाच्छिष्टेन निमित्तभावेनानुमितं कार्यित्वं मा बाधीति परिमाणात्पृथगिह संख्याग्रहणं कृतमिति ।।
वर्षस्याभविष्यति ।। 7.3.16 ।।
यस्येत्यादि । यस्य यियक्षोर्यागवर्षादारभ्य त्रीणि वर्षाणि धान्यं भावि=तावन्तं कालं जीवनाय पर्याप्तम्, स सोमयागेऽधिकारी, न न्यून इत्यर्थः । गम्यते हीति । वाक्यार्थस्तत्र भविष्यत्ता, न पदार्थ इत्यर्थः । द्विवाषिंको मनुष्य इति । `वर्षाल्लुक्‌', `चित्तवति नित्यम्' इति नित्यं लुग्न भवति; भूतार्थ एव हि स इष्यते, अन्यत्र चित्तवत्यपि विकल्प एव ।।
परिमाणान्तस्यासंज्ञाशाणयोः ।। 7.3.17 ।।
द्विकौडविक इति कुडेरवप्रत्यये कुडवः= प्रस्थचतुर्थभाग इत्युणादिषु व्युत्पत्तिः । कुडवमित्येतदव्युत्पन्नं शब्दान्तरं द्रष्टव्यम् । ततः `प्राग्वतेष्टञ्', अनार्हीयत्वाल्लुगभावः । द्वाभ्यां सुवर्णआभ्यामिति । शाणप्रतिषेधात्परिच्छित्तिसाधनमिह परिमाणम्, तेनोन्मानस्यापि भवति---लोहिनी=गुञ्जा, ताभिः पञ्चभिः परिमितमाकारविशेषयुक्तं हिरण्यं पाञ्चलोहितिकम् । कलापः=कश्चिन्मानविशेषः ।
योगविभागादिति । पूर्वासु वृत्तिषु `तदस्य परिमाणं संख्यायाः संज्ञा' इत्येकयोगेन पठितत्वाद्, भाष्ये तत्र योगविभागस्योक्तत्वादेवमुक्तम् । तद्धितान्तश्चायमिति । यथा तु `अध्यर्धपूर्वद्विगोः' इत्यत्र वार्त्तिकं तथा तद्धितलुकि सति संज्ञेति तत्रैवावोचाम । द्वैशाण इति । यद्यत्रोत्तरपदवृद्धिः स्यात्, पूर्वपदस्य न स्यात् । कुलिजम्=धान्यमानम् । अन्तग्रहणं चिन्त्यप्रयोजनम् ।।
जे प्रोष्ठपदानाम् ।। 7.3.18 ।।
ज इति जातार्थो निर्दिश्यत इति । उपसरज इत्यादौ दृष्टस्य पदैकदेशस्य प्रयोगः, भीमसेनो भीम इतिवत् ।
बहुवचननिर्देशादिति । यद्यपि ज्योतिषां बहुत्वाद्बहुवचनान्तप्रोष्ठपदाशब्दः, तथापि तस्यैव शब्दरूपापेक्षायामेकवचनं न्याय्यं मन्यते ।।
हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ।। 7.3.19 ।।
सुहृद इति । `सुहृद्‌दुर्हृदौ मित्त्रामित्रयोः' इति निपातितः सुहृच्छब्दः । यदा तु सुहृदयस्येदमिति पाठः, तदा `हृदयस्य हृल्लेख' इत्यादिना हृद्भावः । सौहार्द्यमिति । `वा शोकष्यञ्रोगेषु' इति हृद्भावः । सिन्धवो जनपदः, नदीवचनस्यापि ग्रहणम्, तथा समुद्रवचनस्यापि ।।
अनुशतिकादीनां च ।। 7.3.20 ।।
आनुशातिकमिति । शतेन क्रीतं शतिकम्, `शताच्च ठन्यतावशते, इति ठन्‌, अनुगतः शतिकेन अनुशतिकः, ततः `तस्येदम्' इत्यण । आनुहौडिकं इति । `चरति' इति ठक्‌ । आनुसांवरणमिति । `तत्र च दीयते कार्यं भववत्' इत्यण् । आनुसांवत्सरिकमिति । `बह्वचोऽन्तोदात्ताट्ठञ्‌' ।
कुरुकत-शब्दो गर्गादिः ।
सार्वलौकिकमिति । `लोकसर्वलोकाभ्यां ठञ्‌' । सार्वभौम इति । `सर्वभूमिपृथिवीभ्यामणञौ' । प्रयोगाधिदेवाधिभूतेत्यध्यात्मादयः । कुलटाया वेतीनङिति । अपपाठोऽयम्, तत्र हि स्वरूपग्रहणम्, । कल्याण्यादिषु परस्त्रीशब्दः पठ्यते, तस्मात् कल्याण्यादीनामिनङिति पाठः । चातुर्वैद्यमिति । चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्, ताः पुनश्चरस्रो विद्याः=चत्वारो वेदाः ।।
देवताद्वन्द्वे च ।। 7.3.21 ।।
अग्निवरुणौ देवता अस्य आग्निवारुणम्, अग्निमरुतौ देवता अस्य आग्निमारुतम् । `इद्वृद्धौ' इत्यग्निशब्दस्य इत्त्वम् ।
यो देवताद्वन्द्व इत्यादि । यः सूक्तं भजते स्तुत्यतया स सूक्तसम्बन्धी, हविर्यस्मै निरूप्यते स हविः सम्बन्धी । अर्थद्वारकं चेदं द्वन्द्वस्य विशेषणम् । स्कान्दविशाख इति । `सास्य देवता' इत्यण्‌ । ब्राह्मप्रजापत्यमिति । `पत्युत्तरपदाण्ण्यः' । ननु `सास्य देवता' इत्यत्र न जातिवचनो देवताशब्दः, किं तर्हि ? यस्यै हविर्निरूप्यते, या वा मन्त्रस्तुत्या सास्य देवता गृह्यते; न चैवम्भूतोऽत्र द्वन्द्वार्थः, एवम्भूतत्वे वा यथा तद्धिता भवन्ति तथायमपि विधिः प्राप्नोति ? अत्राहुः---तद्धितः क्वचिदन्यत्रापि भवति---ज्ञा देवतास्य ज्ञः, स्थालीपाक इति हि भाव्ये दृष्टमिति ।।
नेन्द्रस्य परस्य ।। 7.3.22 ।।
आग्नेन्द्रम्, सौमेन्द्रमिति । `अजाद्यदन्तम्' इतीन्द्रशब्दस्य पूर्वनिपातो न भवति; प्रायिकत्वात्तस्य ।
इन्द्रशब्द इत्यादि । इन्द्रश्च मरुच्चेत्यादौ व्यञ्जनान्तेन सह द्वन्द्वे इन्द्रशब्दस्य पूर्वनिपातेन भाव्यम् । यथा---ऐन्द्रामारुतीं भेदकामालभेतेति । वाय्विन्द्रावित्यादिकस्तु द्वन्द्वः सूक्तहविः सम्बन्धी न भवतीति भावः ।।
दीर्घाच्च वरुणस्य ।। 7.3.23 ।।
अत्र हीत्यादि । उदाहरणेषु `देवताद्वन्द्वे च' इत्यानङिकृते दीर्घात्परो वरुणशब्दः ।।
प्राचां नगरान्ते ।। 7.3.24 ।।
प्राचां देश इति । आचार्यग्रहणं तु न भवति; उत्तरसूत्रे `विभाषितम्' इति वचनात् ।।
जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् ।। 7.3.25 ।।
जङ्गलम्=वनप्रायो देशः, कुरुषु जङ्गलं कुरुजङ्गलम् । धेनुः=नवप्रसूता, विश्वेषां धेनुर्विश्वधेनुः । सुवर्णविकारः=वलजम्, सौवर्णवलजम् । `उत्तरम्' इत्युत्तरपदं लक्ष्यते, तस्य नित्यसन्निहितत्वात् स्वरूपेण विभाषितत्वानुपपत्तेर्विभाषितवृद्धिकत्वाद् विभाषितमिति गौणो वादः ।।
अर्द्धात्परिमाणस्य पूवस्य तु वा ।। 7.3.26 ।।
अर्द्धद्रौणिकमिति । प्राग्वतेष्ठञ्‌ ।
वावचनमनर्थकम्, विभाषितमित्यनुवृत्तेः, तत्रैवं वक्तव्यम्---पूर्वं त्विति ? तथा तु न कृतमित्येव ।।
नातः परस्य ।। 7.3.27 ।।
आर्धप्रस्थिकम्, आर्धकंसिकमिति । पूर्ववट्ठञ्‌ । कंसाट्टिठँस्तु न भवति; तदन्तविधेरभावात् । प्राग्वतेः संख्यापूर्वपदानां तदन्तविधिः, न वार्धशब्दः संख्यावाची ।
किं च स्यादिति । आकारो वृद्धिरेव, तत्र सत्यसति वा वृद्धिप्रतिषेधे नास्ति विशेष इति मन्यते । किं पुनः कारणं पुंवद्भावप्रतिषेधो न स्यात् ? इत्यत आह---यत्र हीति । तदुक्तम्---`कुर्वद्रूपे निमित्तशब्दो मुख्यः' इति ।
परस्येति किम् ? पूर्वस्य मा भूत्, अत इति विशेषणोपादानसाममर्थ्यात्‌पूर्वस्य न भविष्यति, न हि पूर्वस्याधशब्दस्याकारादन्यो वृद्धिभागस्ति । किञ्च---यदि पूर्वस्य प्रतिषेधः स्यात्, `पूर्वस्य तु वा' इत्येतदनर्थकं स्यात् । इदं तर्हि प्रयोजनम्---तदन्तविधिर्मा भूदिति, अन्यथाऽकारान्तस्योत्तरपदस्यैवं विज्ञायेत । तत्र को दोषः ? इहप्रतिषेधः स्यात्---अर्धद्रौणिकम्, अर्धकौडविकमिति । पूर्वस्तु विधिः---अर्धमुष्टिना क्रीतोऽर्धमौष्टिक इत्यादौ चरितार्थः । तस्मात्तदन्तविधिनिरासार्थम् `परस्य' इत्युक्तम् ।।
प्रवाहणस्य ढे ।। 7.3.28 ।।
प्रवाहणशब्दस्य ढे परत उत्तरपदस्येति व्यधिकरणे षष्ठ्यौ । प्रवाहणशब्दस्य अवयवभूतं यदुत्तरपदं तस्येत्यर्थः । ननु वृद्धिमदेवात्र स्वत एवोत्तरपदम्, कस्मै प्रयोजनायास्य पुनर्वृद्धिर्विधीयते ? उच्यते; यदा पूर्वपदे वृद्धिर्न भवति तदा यद्युत्तरपदेऽपि वृद्धिर्न स्यात्, `वृद्धिनिमित्तस्य' इति पुंवद्भावप्रतिषेधो न स्यात्---प्रवाहणेयीभार्य इति । मा भूदेवम्, `जातेश्च' इत्येवं भविष्यति, `गोत्रं च चरणैः सह' इति जातित्वम् ? एवं तर्ह्येतज्ज्ञापयति---अनित्योऽयं प्रतिषेध इति । तेन हस्तिनीनां समूहो हास्तिकमित्यत्र भस्याढे' इति वा, `ठक्छसोश्च' इति वा प्राप्तस्यौपसंख्यानिकस्य पुंवद्भावस्य प्रतिषेधो न भवति । प्रवाहयतीति प्रवाहणः, ण्यन्ताद् वहेर्नन्द्यादेर्ल्युः, `णेर्विभाषा' इति णत्वम् ।
तत्प्रत्ययस्य च ।। 7.3.29 ।।
प्रवाहणेयिरिति । यून्यपत्ये `अत इञ्‌' । प्रवाहणेयकमिति । `गोत्रचरणाद् वुञ्‌' ।
किमर्थमिदमुच्यते ? ढे परतः पूर्वेण विकल्प उक्तः, ठान्तस्येञादौ नित्यवृद्धिर्मा भूदिति । वैतदस्ति प्रयोजनम्, इञादिनिमित्ताया अपि वृद्धेर्ढाश्रय एव विकल्पो बाधको भविष्यति, `ढे' इति हि परसप्तमी, न निमित्तसप्तमी, तेना न्यनिमित्ताया अपि वृद्धेर्ढे परतः प्रतिषेधो लभ्यत एव ? अत आह---ब्राह्यतद्धितनिमित्तेति । अयमभिपायः---ढे उत्पन्ने तदाश्रयां वृद्धिं बाधित्वा विकल्पस्तावत्प्रवृत्तः, पश्चादिञादिरुत्पन्नः, तन्निमित्ता च वृद्धिः प्राप्ता, न त्विदानीं डनिमित्तो विकल्पः, पूर्वमेव प्रवृतत्वात्, आवृत्त्ययोगादिति ।।
नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् ।। 7.3.30 ।।
अप्राप्तैव विधीयत इति । अप्राप्तिमेवोपपादयति---न नञ्पूर्वादिति । उत्तरो भावप्रत्यय इति । त्वतल्भ्यामुत्तरः ष्यञादिः, ततश्चोत्तरो भावप्रत्ययः प्रागेव नञ्समासात् शुच्यादिभ्य एव विधेयः, पश्चान्नञ्समासः; तत्र नञोऽङ्गेऽनन्तर्भावादप्राप्ता वृद्धिर्विधीयत इति ।
तदपरे इत्यादि । असति विषयेऽङ्गाधिकार उपमृद्यः, अस्ति च विषयः; कः पुनरसौ ? भाववचनादन्योऽपत्यादिषु विहितः प्रत्ययः । अथापि भाववचने श्रद्धा, सोऽपि शक्यत एव दर्शयितुमित्याह---बहुव्रीहेश्चेति ।
`उत्तरो भावप्रत्ययः प्रतिषिध्यते' इत्येतदप्यत्र न सार्वत्रिकमित्याह---अक्षेत्रज्ञेति । तदेवमङ्गाधिकारो न बाधनीय इति स्थितम् । एवं च `तदुपस्पर्शादशौचम्' इत्यादिप्रयोगोपपत्तिः । `दशाहं शावमाशौचम्' इत्यादौ त्विदमर्थोऽण्‌ द्रष्टव्यः ।।
यथातथयथापुरयोः पर्यायेण ।। 7.3.31 ।।
ब्राह्मणादिषु नञ्समासावेतौ द्रष्टव्याविति । तेन `न नञ्पूर्वात्' इति ष्यञः प्रतिषेधो न भवतीति भावः । यथाऽसादृश्य इत्यव्ययीभावसमास इति । पदार्थानतिवृत्तौ । तथाभावमनतिक्रान्तं यथातथम्=सत्यमुच्यते, यद्वस्तु पुरा यथाभूतं तदद्यापि तथाभावमनतिक्रान्तं यथापुरमुच्यते । किं पुनरव्ययीभावत्वे प्रमाणम् ? इत्यत आह---तथा हीति । भाष्ये त्विति । न हि ह्रस्वत्वमकृत्वा । विग्रहप्रदर्शनमव्ययीभावस्योपपद्यते ।
अयं योगः शक्योऽवक्तुम् । कथम् ? यदा पूर्वपदस्य वृद्धिः, नञ्समासाद्भावप्रत्ययः । यदा तूत्तरपदस्य वृद्धिस्तदा ष्यञन्तेन नञ्समासः । स्वरेऽपि नास्ति विशेषः;अव्ययपूर्वपदप्रकृतिस्वरेणआद्युदात्तत्वात् । प्रत्ययान्तरं चाभ्यां न भवति; अनभिधानात् ।।
हनस्तोऽचिण्णलोः ।। 7.3.32 ।।
तद्धितेष्विति निवृत्तमिति । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् । तत्सम्बद्धं कितीत्यपीति । निवृत्तमित्यपेक्ष्यते । ञ्णिद्‌ग्रहणं तु प्रत्ययमात्रेण सम्बद्धम्, अतः `तद्धितेषु' इत्यस्मिन्निवृत्तेऽपि तदनुवर्त्तत एव । उदाहरणएषु `हो हन्तेर्ञ्णिन्नेषु' इति कुत्वम् ।।
आतो युक्‌ चिण्कृतोः ।। 7.3.33 ।।
चिण्ग्रहणमकृदर्थम् । ददौ, दधाविति । ननु च `आत औ णलः' इत्यौत्वमत्र बाधकं भविष्यति, अनवकाशा हि विधयो बाधका भवन्ति, सावकाशं चौत्वम्, कोऽवकाशः ? यदा उत्तमे णलि णित्वाभावः ? एवं तर्हि `अचिणअणलोः' इत्यनुवर्तिष्यते, चिणि तु वचनाद्भविष्यति, तत्राह---चौडिर्बालाकिरिति । बाह्वादित्वादिञ्‌ । अत्र दाक्ष्यादौ चरितार्थं यस्येतिलोपं बाधित्वा परत्वाद्युक् स्यात् । अचामादेरित्यनुवृत्तेर्न भविष्यति ? अत आह---ज्ञा देवता अस्येति । आदिवद्भावात्र प्रसङ्गः । किञ्च---`अचामादेः' इत्यनुवृत्तौ दरिद्रायक इत्यत्र न स्यात् ।।
नोदात्तोपदेशस्य मान्तस्यानाचमेः ।। 7.3.34 ।।
उपदेशे उदात्त उदात्तोपदेशः । अस्मादेव निपातनात्साधुः । किञ्चोक्तमिति । सन्निहितस्य कस्यचिदप्रसङ्गात्प्रश्नः । अत उपधाया इति वृद्धिरिति । चिण्कृदुपजीवनार्थं तु न तदनन्तरमिदमारब्धम् ।
निपातनादनुगन्तव्यमिति । येषां तु `अपाणिनीयो धातुपाठेऽर्थनिर्द्देशः' इति पक्षः, तेषामत्र `संज्ञापूर्वको विधिरनित्यः' इति वृद्ध्यभावः । शमी, तमीति । `शमित्यष्टाभ्यो घिनुण्‌', अत्र प्रत्ययस्वरे कृते सम्प्रति धातुरनुदात्तः । यामकः, रामक इति । लित्स्वरे कृते भवत्ययं सम्प्रत्युदात्तः ।
`अनाचमेः' इत्यल्पमिदमुच्यते ? इत्याह---अनाचमिकमिवमीनामिति वक्तव्यमिति । `टुवम उद्‌गिरणे', `कमु कान्तौ', `चमु अदने', तत्र सूत्रे आङ्‌पूर्वस्य पर्युदासः, वाक्ये तु केवलस्य । वृत्तौ तु वाक्योदाहरणमप्याङ्‌पूर्वस्यैव दर्शितम्, नात्राप्तैर्निरणायि । काम इति । कमेः `आयादय आर्धधातुके वा' इति णिङभाव पक्षे घञ्‌, वृद्धिः । णिचि वृद्धौ सत्यमिति । न हि तत्रायं प्रतिषेधः; णिचोऽकृत्त्वात् । ननु च सत्यामपि वृद्धौ `जनीजॄष्क्नसुरञ्जौऽमन्ताश्च' इति मित्त्वे सति `मितां ह्रस्वः' इति ह्रस्वेन भाव्यम् ? अत आह---तत्र हीति । नान्ये मितोऽहेतावितीति । अहेतौ चुरादिणिच्यनुक्रान्तेभ्योऽन्येऽमन्तादयो मितो न भवन्तीत्यर्थः । अन्याय्यमेव मन्यन्त इति । `विश्रान्तिभूमिः' इति पठितव्यमित्यर्थः । तेन `विश्रामं लभता मिदं च शिथिलज्याबन्धमस्मद्धनुः' इति व्याख्यातम् ।।
जनिवध्योश्च ।। 7.3.35 ।।
वधिः प्रकृत्यन्तरमिति । `वध हिंसायाम्' इति भूवादौ पाठात् । भक्षकश्चेदिति । योऽपि मांसं क्रीत्वा भक्षयति, तस्यापि हिंसानुषङ्गोऽस्तीत्येतदनेन प्रतिपाद्यते । यथाह मनुः (मo स्मृo 5.51)---
अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
संस्कर्त्ता चोपहर्त्ता च खादकश्चेति घातकाः ।। इति ।
हनादेशस्येति । अवधि भवता दस्युरित्यत्र । जजान गर्भमिति । व्यत्ययेन परस्मैपदम्, अन्तर्भावितण्यर्थत्वात् सकर्मकत्वम् ।।
अर्तिह्रीव्वीरीक्नुयीक्ष्माय्यातां पुङ्‌ णौ ।। 7.3.36 ।।
`व्लीङ्‌ वरणे', `क्नूयी शब्दे', `क्ष्मायी विधूनने' । उदाहरणेषु पुगन्तलक्षणो गुणः । द्वयोरपि ग्रहणमिति । विशेषानुपादानात् ।
री इत्यपीति । यद्यपि प्रस्रवणार्थः सानुबन्धकः तथापि तस्यापि ग्रहणमाचार्यैः स्मर्यत इति भावः ।
पूर्वान्तकरणं न यादृच्छिकम्, किं तर्हि ? विवक्षितमित्याह---पुकः पूर्वान्तकरणमिति । अदीदपदिति । यदि पुनर्णेः पुट्‌ स्यात्, तस्य णिग्रहणेन ग्रहणाण्णौ परतो यदङ्गं न तस्याकार उपधेति ह्रस्वो न स्यात् । दोषोपलक्षणं चैतत्, दाप्यते इत्यादौ `णेरनिटि' इति णेर्लोपेनापहृतत्वात्पकारस्य श्रवणं न स्यात् ? नैष दोषः; न हि लोपः सर्वापहारी, `अलोऽन्त्यस्य' इत्यन्त्यस्य लोपः । इह तर्हि क्नोपयतीतीडागमः प्राप्नोति ।
लाभोऽपि कश्चिन्नैवात्र परादौ सति दृश्यते ।
पुगन्तस्य गुणो वाच्यो वृद्धिः स्यादन्यथा यतः ।।
यत्किलेदमुच्यते---पुटि सति गुणविधौ पुगन्तग्रहणं न कर्त्तव्यम्, `सार्वधातुकार्धधातुकयोः' इत्येव सिद्धत्वादिति, तदप्याशावादमात्रम्; यतः परादावप्यवश्यं पुटि गुणो विधेयः, अन्यथा `अचो ञ्णिति' इति वृद्धिप्रसङ्गात् ।।
शाच्छासाह्वाव्यावेपां युक् ।। 7.3.37 ।।
पाग्रहणे इत्यादि । इष्टिरेवेयम्; लाक्षणिकत्वात् पारूपस्य ।
लुगागमस्त्विति । यद्यपि पालयतीति रूपम् `पाल रक्षणे' इत्यस्यैव चुरादिणिजन्तस्य पुनर्हेतुमण्णिचि सिद्धम्, तथापि पातेः पुकि पापयति, युकि तु पाययति इति मा भूदिति लुग्वचनम् ।
धूञ्प्रीञोरिति । `धूञ्‌ कम्पने', `प्रीञ् तर्पणे', ञान्तस्यानुकरणम्; तेन न दैवादिकस्य नुग्भवति ।
एतेऽपीति । एते युगादयः, वक्ष्यमाणाश्च जुगादयः । कृतात्वानां ग्रहणमिति । आकारान्तानां युकं विधाय तदनन्तरमाकारान्तेषु गृह्यमाणेषु युकः प्राप्तिराख्याता भवतीति भावः । एवमादीति । आदिशब्देन---क्रापयति, निजापयति, विलापयते, मुण्डो विस्मापयते, प्रियमाचष्टे प्रापयतीत्यादेर्ग्रहणम् ।।
वो विधूनने जुक् ।। 7.3.38 ।।
`विधूनने' इत्ययमेव निर्देशो लिङ्गम्---धूञो णौ नुग्भवतीति । वा इत्येतस्येति । `वा गतिगन्धनयोः' इत्यस्य । `वज व्रज गतौ' इत्यस्य णिचि रूपे वाजयतीति सिद्धे, वातेः पुग्निवृत्त्यर्थं जुको विधानम् ।।
लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने ।। 7.3.39 ।।
स्नेहः= घृतादिः, तस्य विपातनम्=विगच्छतः काठिन्यं त्यजतः प्रयोजनकव्यापारः । स्नेहविपातनं काठिन्यमुपगतस्याग्नौ निष्टपनादिना द्रवत्वापादानमित्यर्थः ।
न तु कृतात्वस्येति । एकदेशविकृतस्यानन्यत्वात् प्रसङ्गः । जटाभिरालापयत इति । `लियः सम्माननशालीनीकरणयोश्च' इत्यात्मनेपदम् ।
ली इति लीलीङोर्ग्रहणमिति । क्रैयादिकदैवादिकयोः । निरनुबन्धकपरि भाषा तु नेष्यते । कृतात्वस्य च लीयतेरिति । ग्रहणमित्यपेक्ष्यते ।।
भियो हेतुभये षुक्‌ ।। 7.3.40 ।।
हेतुः पारिभाषिकः, भीः=भयम्, हेतोर्भयं हेतुभयम्, तत्र वर्तमानस्य । भीषयत इति । `भीस्म्योर्हेतुभये' इत्यात्मनेपदम् । भापयत इति । `बिभेतेर्हेतुभये' इत्यात्वम् ।।
रुहः पोऽन्यतरस्याम् ।। 7.3.43 ।।
अयं योगः शक्योऽवक्तुम् । कथम् ? `रुप विमोहने' इति दिवादौ पठ्यते, स ण्यन्तोऽत्र जन्मनि वतिष्यते; अनेकार्थत्वाद्धातूनाम्, तस्य रोपयतीति । रूहेस्त्वारोहयतीति ।
प्रत्ययस्थात्कात्पूर्वस्यात् इदाप्यसुपः ।। 7.3.44 ।।
अत्र यदि कादित्यत्राकारो विवक्षितः स्यात्, एतिकाश्चरन्तीत्यत्रेत्वं न स्यात् । एतदोऽकचि जसि त्यदाद्यत्वे टापि च रूपम् । अकचो ह्यन्त्योऽकार उच्चारणार्थो न श्रवणार्थः; भिन्धिकि, रुन्धकि इत्यादेरसिद्धिप्रसङ्गात्, ततश्च कशब्दस्याभावादेतिका इत्यत्र न स्यादेव । `न यासयोः' इति च प्रतिषेधः सङ्घातग्रहणेऽनर्थकः स्यात् । तस्मादुच्चारणार्थोऽकारः, वर्णमात्रमेव विवक्षितमित्याह---प्रत्ययस्थात्ककारादिति । स चेदिति । स चेदाप्सुपः परस्तान्न भवति तदेत्वमित्यर्थः । प्रत्ययग्रहणपरिभाषया सुबन्थादिति द्रष्टव्यम् । जटिलिका, मुण्डिकेति । टाबन्ताभ्यामज्ञातादिषु `प्रागिवात्कः', `केऽणः' इति ह्रस्वत्वम्, ततष्टाप्, तत इत्वम् । यद्यप्ययमकारो लाक्षणिकः, तथापि `उदीचामातः स्थाने' इति लिङ्गात्तस्यापि भवति ।
ककारमात्रं हाति । उक्तमिदम्---`कादिति वर्णमात्रं विवक्षितम्' इति, न ककारमात्रं कश्चिप्रत्ययोऽस्ति, तस्मात् कात्प्रत्ययादित्युच्यमानेऽपि प्रत्ययावयवे प्रत्ययशब्दो वर्त्तिष्यते इति किं स्थग्रहणेनेत्यर्थः ।
पटुका, मृदुकेति । पटुमृदुशब्दाभ्यां स्त्र्यर्थवृत्तिभ्यां के कृते टाप् । असति पूर्वग्रहणे `तस्मादित्युत्तरस्य' इति कात्परस्यैवाकारस्य `वार्णादाङ्गं बलीयः' इत्येकादेशं बाधित्वा इत्त्वं स्यात् । यद्यपि जटिलिका, मुण्डिकेत्यादावयं प्रसङ्गः शक्यो दर्शयितुम्; तथापि विस्पष्टार्थमुदाहरणान्तरमुपन्यस्तम् । राका, धाकेति । `कृदाधारार्चिकलिभ्यः कः' ।
अथापीत्यनेन किं विशिष्यति इति । ककारः, प्रत्ययो वेति सन्देहात्प्रश्नः । ककार इति । प्रत्यये तु विशिष्यमाणे रथकट्यादिष्वतिप्रसङ्ग इति भावः । यद्यपि प्रत्ययोऽपि श्रुतः, तथापि तस्योपसर्जनत्वात् ककार एव विशिष्यते । कारिकेत्यत्रापि न स्यादिति । अतिप्रसङ्गस्तिष्ठतु तावत्, इष्टमपि न सिद्ध्यतीत्यपिशब्दस्यार्थः । `आपि परतो यः ककारः'---इत्येवं विज्ञायमाने कारिकेत्यपि न स्यात्; एकादेशस्य यो द्वितीयोऽकारस्तेन व्यवधानात् । वचनाद्व्यवधानमीदृशमिति । आश्रीयत इति वक्ष्यमाणेन सम्बन्धः । ईदृशमित्येतद्व्याचष्टे---स्थानिकद्भावकृतमिति । एकेन वर्णेनेत्युपलक्षणम् । स्थानिवद्भावकृतमित्येतावति तात्पर्यम्; अन्यथा एतिकेत्यत्र द्वाभ्यामकाराभ्यां व्यवधानादित्त्वं न स्यात् । एक एतदः सम्बन्धी, द्वितीयः `त्यदादीनामः' इत्यकारः; तत्राकारयोर्यः पररूपमेकादेशः, यश्च टापा सह दीर्घः---द्वयोरपि तयोः स्थानिवद्भावः । अन्ये त्वाहुः---अत्रापि टापा सह य एकादेशस्तस्यैव स्थानिवद्भावः, न त्वकारयोः कृतस्य पररूपस्य; सकृत्पवृत्त्या लक्षणस्य चरितार्थत्वात् । तेनात्राप्येकेनैव व्यवधानमिति । वचनाद्व्यवधानेऽपि भविष्यतीति वक्तव्ये, ईदृशं व्यवधानमिति यदुक्तम्, तस्य व्यावर्त्यं दर्शयति---रथकट्यादिष्विति । रथानां समूहो रथकट्या, `इनित्रकट्यचश्च' । आदिशब्देन गर्गकाम्यादेग्रहणम् । गर्गमिच्छत्यात्मन इति काम्यजन्तादप्रत्ययः, ततष्टाप् । एतदुक्तं भवति---आपीति सप्तम्या यदानन्तर्यमुपात्तं तन्नात्यन्ताय त्यज्यते, किन्तु यावत्सम्भवमाश्रीयत इति ।
सुवन्तादयं परिव्राजकशब्दादिति । प्रत्ययलक्षणेन सुबन्तत्वम् । पर्यदासे हीति । सुपोऽन्यो।डसुप्, ततश्चेदाप्पर इत्याश्रीयमाण इत्यर्थः । समुदायादसुबन्तादिति । अवयवात्परिव्राजकशब्दात्सुबुत्पन्नः, न समुदायादिति तस्यासुबन्तत्वम् । एवमपि नाश्रीयते इति । बहुव्रीहिरपि नाश्रीयत इत्यर्थः । किं कारणम् ? इत्यत आह---तथा हीति । बहुचर्मिकेति । बहूनि चर्माण्यस्यामिति बहुव्रीहिः, `शेषाद्विभाषा' इति कप् । तत्पुरुषे त्वस्मिन्, नात्र सुबन्तात्परष्टाव् भवति; कपा व्यवहितत्वात् ।
मामिकेति । ममेयमित्यण्‌, `तवकममकावेकवचने' इति ममकादेशः । दाक्षिणआत्यिकेति । `दक्षिणादाच्', दक्षिणा, ततो भवादौ `दक्षिणापश्चात्पुरसस्त्यक्'। इहत्यिकेति । `अव्ययात्त्यप्‌' ।।
न यासयोः ।। 7.3.45 ।।
पूर्वेण नित्यमित्त्वे प्राप्ते निषेधोऽयमुच्यते, प्राप्तिपूर्वकत्वात् प्रतिषेधस्य । यदा यत्तदोरकज्भवति तदा प्रतिषेधः । यका, सकेति । यत्तदोरकच्, सौ त्यदाद्यत्वे टाप् । या सेति प्रथमैकवचनान्तयोरुपादानाद्विभक्त्यन्तरे प्रतिषेधो न स्यादित्यत आह---यासेति निर्देशो न तन्त्रमिति । यत्तदोरुपलक्षणमिति । यद्येवम्, यत्तदोरित्येव वक्तव्यम् ? सत्यम्; तथा तु न कृतं किं कुर्मः ! यकांयकामधीमह इति । ऋचं गाथां च । तकांतकाम्पचामह इति । ओषधिं शाकिनीं वा, द्वावेतौ प्रयोगौ ।
उपत्यकेति । `उपाधिभ्यां त्यकन्नासन्नारूढयोः' । अत्र कश्चिदाह---`स्त्रीविषयोऽयं त्यकन्प्रत्ययान्तः; ततश्च प्रक्रियालाघवाय त्यिकन्निति वक्तव्ये त्यकन्नित्यकारोच्चारणसामर्थ्यादित्त्वाभावः' इति तदयुक्तम्; पञ्चभिरुपत्यकाभिः क्रीतः पञ्चोपत्यक इत्यादावार्हीयस्य ठकः `अध्यर्धपूर्व' इति लुकि कृते `लुक् तद्धितलुकि' इति टापो लुकि निमित्ताभावादित्त्वं न स्यादिति तद्धितलुगर्थमेतत्स्यात्, बहिरङ्गो लुक्, `अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते' । ननु च `सुपो धातुप्रातिपदिकयोः' इत्येतद्विषयमेतत् ? नेत्याह; यश्च यावाँश्च तुग्ग्रामः, सर्वोऽप्यन्तरङ्गान्विधीन्बाधते, यथा---`सनीस्रंस' इत्यादौ नलोपो न भवति । पञ्चखट्‌व इत्यादौ टापा सहैकादेशो न भवति; यदि स्यात्, आदिवद्भावादाव्ग्रहणेन ग्रहणाल्लुकि सति अकारोऽत्र न श्रूयेत ।
पावका इति । पुनन्ति पावयन्तीवि वा पावकाः । अलोमका इति । बहुव्रीहेः कप् ।
जीवकेति । `आशिषि च' इति वुन् ।
देवकेति । देवदत्तशब्दात् `अनुकम्पायां कन्', `अनजादौ च विभाषा लोपो वक्तव्यः' इति दत्तशब्दस्य लोपः ।
क्षिपकेति । क्षिपेरिगुपधात्कः । `ध्रु गतिस्थैर्ययोः', पचाद्यचि कुटादित्वाद् गुणाभावे उवङ्‌, उभाभ्यामज्ञातादिषु `प्रागिवात्कः'।
तरतेर्ण्वुल्‌---तारका । वर्णयति महत्त्वादिकं गुणमिति वणका=प्रावारविशेषः, तन्तूनां विकारस्तान्तवम् `ओरञ्‌' । वणिकेति । भागुरी व्याख्या, टीकाविशेषः । वृतेर्ण्यन्तात् ण्वुल्---वर्त्तिका ।
अष्टकेति । अश्नन्ति ब्राह्मणा ओदनमस्यामित्यष्टका, `इष्यशिभ्यां तकन्' इति तकन् । पितरश्च ता देवताश्च पितृदेवताः, तदर्थं कर्म पितृदैवत्यम् `देवतान्तात्तादर्थ्ये यत्' इति यत् । अष्टिकेति । अष्टौ परिमाणमस्याः, `संख्याया अतिशदन्तायाः कन्' ।
सूतकेति । `न सामिवचने' इति प्रतिषेधेन ज्ञापितः स्वार्थे कन् । पुत्रिकेति । शार्ङ्गरवादित्वान्ङीनि कृते स्वाथिकः कन्, `केऽणः' इति ह्रस्व इकारः, तस्य पक्षेऽत्वं विधीयते । वृन्दारिकेति । `श्रृङ्गवृन्दाभ्यामारकन् वक्तव्यः' इत्यारकन् ।।
उदीचामातः स्थाने यकपूर्वायाः ।। 7.3.46 ।।
यकौ पूर्वौ यस्याः सा यकपूर्वा, कोऽन्यपदार्थः ? आकारः । अर्थगतं स्त्रीत्वं शब्दे समारोप्य स्त्रीलिङ्गनिर्देशः, पूर्वशब्दो व्यवस्थावचनः । इभ्यिकेति । इभर्हतीति `दण्डादिभ्यो यः'---इभ्या, ततः पूर्वत्कः, ह्रस्वत्वं च । चटक--मूषकशब्दाभ्यामजादित्वाट्टाप् । साङ्काश्यिकेति । सङ्काशैः निर्वृत्तं साङ्काश्यम्, `सङ्काशादिभ्यो ण्यः', ततो भवार्थे `धन्वयोपधाद्वुञ्‌' इति वुञ्‌ ।
स्थानग्रहणमनर्थकम्, `षष्ठी स्थानेयोगा' इति सिद्धत्वादिति ? अत आह---स्थानग्रहणमित्यादि । परिभाषाया विधिशेषत्वादनुवादे उपस्थानं न स्यादिति भावः । अनुवादत्वमेव स्पष्टयति---आत इत्यनेन हीति । अतो योऽकारस्तस्येत्त्वं भवतीति वचनव्यक्तौ नाकारस्य विधिस्पर्शः कश्चिदस्तीत्यर्थः ।
स्त्रीप्रत्ययस्य प्रतिपत्त्यर्थमिति । यः `स्त्रियाम्' इत्यधिकृत्य विहितष्टाबादिः स स्त्रीप्रत्ययः, तस्य प्रतिपत्तिर्यथा स्यादित्येवमर्थमित्यर्थः । असति हि स्त्रीलिङ्गेयः कश्चनाकारो गृह्येत ।
शुभं याति, भद्रं यातीति । क्विप् । शुभम्, भद्रमिति मकारान्तौ निपातितौ, पूर्वत्कः, ह्रस्वत्वं च ।
प्रतिषेध इति । तेन विधिरेव भवति । सुनयिका, सुशयिकेति । नीशीभ्याम् `एरच्', सुशब्देन बहुव्रीहिः, टाबादि पूर्ववत् । सुपाकिका, सुशोकिकेति । पचिशुचिभ्यां घ़ञ्‌, `चजोः कु घिण्ण्यतोः' इति कुत्वम् । शेषं पूर्ववत् ।।
भस्त्रैषाचजाज्ञाद्वास्वा नञ्पूर्वाणामपि ।। 7.3.47 ।।
`स्वा' इति षष्ठ्याः स्थाने प्रथमा । एषेति कृतषत्वनिर्देशस्तन्त्रम् । तथा च---एतिकाश्चरन्तीति जसि नित्यमित्त्वमुदाहृतम् ।।
अत्रातः स्थान इत्येतत् स्वशब्दस्य विशेषणण् ।
सम्भवव्यभिचारौ हि तत्र स्तः काकचोः सतोः ।।
द्व्येतदोः सम्भवो नास्ति, नान्यत्र व्यभिचारिता ।
सर्वनाम्नः स्वशब्दस्य तेन नायं विधिर्भवेत् ।।
द्वके इति । द्वकिशब्दाद् द्विवचने त्यदाद्यत्वे टापि औङः शीभावः । तस्यां सत्यामिति । समासार्थात्तु या विभक्तिस्तस्यां त्यदाद्यत्वं न भवति; `अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते' इति वचनात् । सोऽन्तवेर्त्तिन्या विभक्त्या सुबन्तात्पर इति । प्रत्ययलक्षणेन सुबन्तत्वम् ।
स्वशब्दोऽपि तर्ह्यनयैव युक्त्या नञ्पूर्वो न प्रयोजयेदित्यत आह---स्वशब्दस्त्विति । स्वशब्दो हि `स्वमज्ञातिधनाख्यायाम्' इति वचनाज्ज्ञातिधनयोरसर्वनामसंज्ञकः, तेन तस्मात्कप्रत्ययेनैव भवितव्यम्, नाकचा । तत्र यदा नञ्समासे कप्रत्ययः क्रियते तदन्ताच्च टाप्, तदासौ सुपः परो न भवति; केन व्यवहितत्वात् । तेनासर्वनामसंज्ञकः स्वशब्दो नञ्पूर्वोऽपि भवत्येव प्रयोजकः ।
अभस्त्रका, अभस्त्रिकेति । `अल्पे' इति `प्रागिवात्कः' । असति तु भस्त्राग्रहणे यथा न सिध्यति तथा दर्शयति---अत्रेति । बहुव्रीहिः पुंस्यपि वर्त्तते---अभस्त्रः पुरुष इति । विहितग्रहणेनैतद्दर्शयति---यद्यप्यभाषितपुंस्काद्भस्त्राशब्दात्परो भवति, तथापि तस्माद्विहितो न भवति । विहितविशेषणं चोत्तरत्रापि भाषितपुंस्कग्रहणम्, अन्यथा न विद्यते खट्‌वा यस्याः साऽखट्‌वा, ततोऽखट्‌विका---इत्यादावपि प्रसङ्गादिति ।
अपिग्रहणेन केवलानामेव भस्त्रादीनां समुच्चयः, नान्यपूर्वाणामिति शङ्कमानं प्रत्याह---नञ्पूर्वाणामपीत्यपिशब्दादिति । इष्यते इति । अनेन नेयं स्वतः प्राप्तिरिति दर्शयति । यदि तर्हि सर्वत्रेष्येत, नञ्पूर्वाणामपीति न वक्तव्यम् `अङ्गाधिकारे तस्य च तदुत्तरपदस्य च' इत्येव सर्वत्र भविष्यत्यत आह---तत्रेति ।।
अभाषितपुंस्काच्च ।। 7.3.48 ।।
अभाषितपुंस्कादिति विहितविशेषणमित्याह---अभाषितपुंस्काद्विहितस्येति । खट्‌वाशब्दः स्त्रियामेव नियत इत्यभाषितपुंस्कः, बहुव्रीहेरभिधेयलिङ्गत्वादभाषितपुंस्कत्वाभावादनेन विकल्पेन न भवितव्यमिति मन्यमानं प्रत्याह---बहुव्रीहाविति । कथं भवतीत्यत आह---तत्रापीति । इतिकरणो हेतौ ।
यदा त्विति । कबभावपक्ष एतत् । अखट्‌वा इति स्थिते उपसर्जनह्रस्वत्वम्, टाप्, पुनः `केऽणः' इति ह्रस्वः । स च समासाद्भाषितपुंसकादुत्पन्नस्य टाप इति न भवत्ययं विकल्पः । `अभाषितपुंस्कात्परस्यातः' इति विज्ञायमाने स्यादेवात्र विकल्पः । अतिखट्‌विकेति । अत्रापि समासाद्भाषितपुंस्काट्टाबुत्पन्नः ।।
आदाचार्याणाम् ।। 7.3.49 ।।
इत्त्वापवादोऽयं योगः । `केऽणः' इति ह्रस्वापवादश्च । आचार्याणामिति । उदीचामित्युक्तम्, ततोऽन्येषामाचार्याणामित्यर्थः । अपर आह---आचार्यस्य पाणिनेर्य आचार्यः स इहाचार्यः, गुरुत्वात्तु बहुवचनमिति । सर्वथा अभाषितपुंस्केषु त्रैरूप्यम्---अखट्‌वका, अखट्‌विका, अखट्‌वाकेति ।।
ठस्येकः ।। 7.3.50 ।।
अत्र द्वौ पक्षौ---ठेति व्यञ्जनमात्रं स्थानित्वेन निर्द्दिश्यते, अकारस्तूच्चारणार्थः, एवं ढगादिष्वपीत्येकः पक्षः; सङ्घातः प्रत्ययः, स्थान्यप्यत्र स एवेति द्वितीयः । तत्राद्ये पक्षे पठिता, पठितुमित्यादौ धात्वन्तस्यापि प्रसङ्गः; द्वितीये तु अठचि कर्मठ इत्यत्रापि प्राप्नोति । तत्र द्वयोरपि पक्षयोर्यथा दोषो न भवति तथा दर्शयन्नाह---अङ्गस्य निमित्तं यष्ठ इति । सम्बन्धस्तत्र नावयवावयविभावलक्षणः, पठितेत्यादावपि प्रसङ्गात्; किं तर्हि ? निमित्तनिमित्तिभावलक्षणः । अङ्गस्य सम्बन्धीत्युक्ते तद्रूपसम्बन्ध्येव प्रतीयते; प्रत्ययश्च तद्रूपसम्बन्धी, तदायत्तत्वादङ्गव्यपदेशस्य । तदेवमङ्गव्यपदेशनिमित्तस्य प्रत्ययस्य ग्रहणादुभयोरपि पक्षयोर्दोषाभावः । किञ्च---सङ्घातपक्षे अर्थवतष्ठशब्दस्य ग्रहणान्न भवति कर्मठः---इत्यत्र प्रसङ्गः । वर्णग्रहणे त्वर्थवत्परिभाषा न प्रवर्तते । तत्र सङ्गातपक्षे दोषान्तरमाशङ्क्य परिहरति--तत्रेति । पुनरपि तस्मिन्नेव पक्षे चोदयति---मथितं पण्यमस्येति । वर्णग्रहणमे तु `अनल्विधौ' इति स्थानिवत्त्वनिषेधादिकस्य कादेशाप्रसङ्गः । कादेशः । प्राप्नोतीति । ननु तान्तादङ्गादित्युच्यते, न चात्र तान्तमङ्गम्, ततः प्रत्ययस्याविधानात् ? नैतदस्ति; एकदेशविकृतस्यानन्यत्वादङ्गं भवति, तान्तं च; ततश्च यथा---अनुकम्पितो भानुदत्त इति ठचि द्वितीयादच ऊर्ध्वस्य लोपे कादेशो भवति---भानुक इति, तथात्रापि प्रसङ्गः ? परिहरति---सन्निपातेति । अजादिसन्निपातेन तान्तत्वमुपजायते, ततश्च तद्विघातस्य निमित्तं नोपपद्यते । परिहारान्तरमाह---यस्येतिलोपस्येति । स्थानिवद्भावस्तु `अचः परिस्मिन्पूर्वविधौ' इत्यनेन । ननु पूर्वस्य विधावित्युच्यते, परस्यायम् ? तत्राह---पूर्वस्मादपिहीति । पञ्चमीसमासोऽपि तत्राश्रीयत इत्यर्थः । अन्ये त्वाहुः---वर्णग्रहणादेव तदन्तविधौ सिद्धे, अन्तग्रहणं प्रत्ययोपदेशकाले तान्तप्रतिपत्त्यर्थमिति ।।
इसुसुक्तान्तात्कः ।। 7.3.51 ।।
सार्पिष्क इति । `तदस्य पण्यम्' इति ठक्‌, `इणः षः' इति विसर्जनीयस्य षत्वम् । धानुष्क इति । प्रहरणमिति ठक्‌ । याजुष्क इति । दीव्यत्यर्थे ठक्‌ । नैषादकर्षुकः, शाबरजम्बुक इति । भवादावर्थे `ओर्देशे ठञ्‌', कादेशे कृते `केऽणः' इति ह्रस्वत्वम् । मातृकम्, पैतृकमिति । तत आगतः, `ऋतष्ठञ्‌' । औदश्वित्क इति । `संस्कृत भक्षाः', `दध्नष्ठक्‌', `उदश्वितोऽन्यतरस्याम्' इति सप्तम्यन्ताट्ठक् । शाकृत्कः, याकृत्कः, याकृत्क इति । `संसृष्टे' इति ठञ्‌ । आशिषेति । `आङः शासु इच्छायाम्' इत्यस्मादाशासनमाशीरिति सम्पदादित्वाद् भावे क्विप्‌, `आशासः क्वावुपसंख्यानम्' इतीत्वम् । उषेति । वसेः क्पिप्, यजादित्वात्सम्प्रसारणे लाक्षणिकं रूपमिति । सर्पिरादौ तु `अर्चिशुचिहूसृपिच्छादिभ्य इसिः', `जनेरुसिः', `अर्तिवपियजित्रापिधनिभ्यो नित्' इति प्रतिपदोक्तमिसुसो रूपम् ।
दोष उपसंख्यानमिति । वर्णैकदेशानां वर्णग्रहणेनाग्रहणादोकारे य उकारः, तस्य उकारग्रहणेनाग्रहणादुपसंख्यानम् ।।
चजोः कु घिण्ण्यतोः ।। 7.3.52 ।।
पाक इत्यादौ भावे घञ्‌ । पाक्यमित्यादौ कर्मणि `ऋहलोर्ण्यत्' । यथासंख्यमत्र न भवति---घिति चकारस्य, ण्यति जकारस्येति; `भुजन्युब्जौ पाण्युपतापयोः', `प्रयाजानुयाजौ यज्ञाङ्गे', `वचोऽशब्दसंज्ञायाम्' इत्यादेर्लिङ्गात् ।
क्वचितु पठ्यते---यथासंख्यमत्र नेष्यते, तेन रक्तं रागादिति लिङ्गादिति ।।
न्यङ्‌क्वादीनां च ।। 7.3.53 ।।
न्यङ्‌कु इत्येवमादीनां चेति । `सिद्धये' इति शेषः, कृतकुत्वानामेव गणे पाठात् । किमर्थं तर्हि सूत्रम्, यावता यथैव कुत्वादन्यदपि घत्वगुणदीर्घत्वादिकं निपातनाद्भवति, तथा कुत्वमपि भविष्यति ? सत्यम्; असति तस्मिन्, अनुवादे गणस्य क्वचिदप्यनुपयोगात्प्रमादपाठः शङ्क्येत । पचाद्यचीति । घञि कुत्वस्यासिद्धत्वात् ।
संज्ञायां मेघ इत्यादि । मेघः=परोयघरः, निदाघः=घर्मः, अवदाघोऽपि स एव । अर्घः=विक्रीयमाणस्य धान्यादेरियत्ता, मूल्यमित्यन्ये । वीरुदिति । निपातनादुपसर्गस्य दीर्घत्वम् ।।
हो हन्तेर्ञ्णिन्नेषु ।। 7.3.54 ।।
ञश्च णश्च ञ्णौ, तावितौ ययोस्तौ ञ्णितौ, तौ च नश्च ञ्णिन्नाः, तेषु ञ्णिन्नेषु । नकारेऽकार उच्चारणार्थः, तेन वृत्रघ्नि, वृत्रघ्नोरित्यादावपि भवति । घ्नन्तीत्यादौ `गमहन' इत्युपधालोपः ।
किमिदं ञ्णिन्नग्रहणं हन्तिविशेषणम्---ञ्णिन्नपरस्य हन्तेर्यो हकार इति ? आहोस्विद्धकारविशेषणम्---ञ्णिन्नपरस्य हकारस्य स चेद्धन्तेरिति ? तत्राद्ये पक्षे ह्यत्रासिद्धिः---घ्नन्ति, घ्नन्तु; न हि स्वावयव एव स्वस्मात्परो भवति । द्वितीये तु न क्वचित् स्यात्, न हि ञ्णिन्नकारपरता हकारस्य क्वापि सम्भवति---घातयतीत्यादौ तावदकारेण तकारेण च व्यवधानम्, घ्नन्तीत्यादावुपधा लोपस्य स्थानिवद्भावाद् व्यवधानमेव । अथ वचनाद्व्यवधानेऽपि भविष्यति ? इहापि तर्हि प्राप्नोति---हतमिच्छति हतीयति, हतीयतेर्ण्वुल्, हतायक इति, नकारेऽपि हन्ता, हननमित्यादावपि प्रसङ्गः । नकारग्रहणमिदानीं किमर्थं स्यात् ? यत्र नकारः श्रूयते तत्र यथा स्यात्, इह मा भूत्‌---हतः, हथ इति तदेवं द्वयोरपि पक्षयोर्दोषं दृष्ट्वा पक्षान्तरं दर्शयति---ञ्णित्प्रत्यय इत्यादि । यद्यपि द्वन्द्वनिर्द्दिष्टानामेकयोगक्षेमता न्याय्या, तथापि सम्भवव्यभिचारौ हि विशेषणविशेष्यभावस्याङ्गमित्ययमेव प्रकार आश्रीयते । ननु च `स्थानिवद्भावादानन्तर्यं नकारस्य न सम्भवति' इत्युक्तम् ? अत आह---तच्चेति । सन्निपातकृतमिति । श्रुतिकृतमित्यर्थः ।
अथ वा---पुनरस्तु द्वितीयः पक्षः, तत्रापि दोषः सुप्रतिविधानः ? इत्याहयदापीति । धात्ववयवेन नकारेण व्यवधानमव्यभिचारीति तदेवाश्रीयते, न शब्दान्तरेणेति ञ्णित्ययं परिहारः । नकारे तूक्त एव ।।
अभ्यासाच्च ।। 7.3.55 ।।
अहं जघनेति । णित्त्वाभावे उदाहरणम् । णित्त्वपक्षे पूर्वेणैव सिद्धम् । एवं जघनिथ, जघन्थ, जघन्वानित्युदाहरणम् ।
अभ्यासनिमित्ते प्रत्यय इत्यादि । अङ्गाधिकारेणाभ्यासेन च प्रत्ययस्याक्षेपादयमर्थो लभ्यते । जिहननीयिषतीति । अत्र यस्मिन्हनिरङ्गं ल्युटि न तस्याभ्यासनिमित्तत्वम्, यश्चाभ्यासस्य निमित्तं सन् न तस्मिन् हन्तिरङ्गम् ।।
हरचङि ।। 7.3.56 ।।
प्राजीहयदिति । ण्यन्ताल्लुङ्‌, चङ्‌, णिलोपः, उपधाह्रस्वत्वम्, `चङि' इति द्विर्वचनम्, `कुहोश्चुः' इति कुत्वम्, `दीर्घो लघोः' इति दीर्घः ।
`अचङि' इत्येतत्प्रत्याचष्टे---अचङीति शक्यमकर्त्तुमिति । कथम् ? इत्यत आह---चङ्यभ्यासेति । यथा पूर्वसूत्रे जिहननीयिषतीत्यत्र न भवति, एवं प्राजीहयदित्यत्रापि न भविष्यति, किमचङीत्यनेनेत्यर्थः । तत्क्रियत इत्यादिपरिहारः । किमेतस्य ज्ञापने प्रयोजनम् ? इत्यत आह---तेनेति ।।
सन्लिटोर्जेः ।। 7.3.57 ।।
`ज्या वयोहानौ'---इत्यस्य किति ग्रहिज्यादिसूत्रेण सम्प्रसारणे कृते पूर्वत्वे च जिरूपस्य भावाद् `हलः' इति दीर्घत्वं बाधित्वा कुत्वं प्राप्नोति, कृतेऽपि वा दीर्घत्वे एकदेशविकृतस्यानन्यत्वात्कुत्वप्रसङ्गः, यथा---जिगीषतीत्यत्र, इत्यत आह---जिनातेरित्यादि । `एरनेकाचः' इति यण देशः ।।
न क्वादेः ।। 7.3.59 ।।
कूज इत्यादि । `कूज अव्यक्ते शब्दे', `खर्ज व्यथने', `गर्जशब्दे' । अत्र बार्त्तिकम्---`क्वाद्यजिव्रजियाचिरुचीनामप्रतिषेधो निष्ठायामनिटः कुत्ववचनात्' इति । अस्यार्थः---`चजोः कु घिण्ण्यतोर्निष्ठायामनिड्‌' इति सूत्रं कर्त्तव्यम्, तेनैव क्वाद्यजादीनां कुत्वनिवृत्तेः सिद्धत्वान्नार्थः प्रतिषेधवचनेनेति । नन्वेवं प्रुचुग्लुचुकुजुखुजूनां निष्ठायाममिटत्वात्कुत्वं प्राप्नोति, तथा अजिसजितर्जीनां निष्ठायां सेट्‌त्वात् कुत्वाप्रसङ्गः, यथा तु सूत्रं तथा विपर्ययः ? उच्यते; `यथोत्तरं मुनीनां प्रामाण्यम्' इति वात्तिकानुसारेण कुत्वस्य भावाभावौ व्यवस्थाप्यौ । नन्वसत्यजेः प्रतिषेधे निवीत इति निष्ठायामनिट्‌त्वात् समाज इति कुत्वप्रसङ्गः ? नेतदस्ति; व्यादेशो निष्ठायामनिट्, न त्वजिः, स तु वलाद्यार्धधातुके विकल्पेनेष्यते इति वीभावाभावपक्षे अजित इति सेडेव ।
कथं शोकः, समुद्‌ग इति, यावता शुच्युव्जी निष्ठायां सेटौ ? एवं तर्हि `शुच्युब्ज्योर्घञि' इति वक्ष्यामि, तच्च यथान्यासेऽपि वक्तव्यम्--घञ्येव यथा स्याद् ण्यति मा भूदिति---अशोच्यानन्वशोच्यस्त्वमिति । तदेव वार्त्तिककारपक्षे विध्यर्थ भविष्यति ।।
अजिव्रज्योश्च ।। 7.3.60 ।।
समाजः, उदाज इति । पशुभ्योऽन्यत्र `हलश्च' इति घञ्‌, पशुषु तु `समुदोरजः पशुषु' इत्यब्भवति ।।
भुजन्युब्जौ पाण्युपतापयोः ।। 7.3.61 ।।
पाणिशब्देन तद्वान्बाहुर्लक्ष्यते, न तु मणिबन्धस्याधः पञ्चशाखाप्रदेश उच्यते । लोकेऽपि बाहुपर्यायो भुजशब्दः । भुज्यते इति । `भुज पालनाभ्यवहारयोः' । न्युब्जिता इति । अधोमुखाः, निश्चेष्टाः । वस्तु कथनं चैतत्, विग्रहस्तु न्युब्जन्त्यस्मिन्निति दर्शयितव्यः ।
न्युब्जोपतापग्रहणं शक्यमकर्त्तुम् । कथम् ? यस्मिन्व्याधौ न्युब्जिताः शेरते स तान् न्युब्जयति, तत्र ण्यन्तात्पचाद्यचि न्युब्ज इति सिद्धम्; न चात्र घञचोः स्वरे विशेषः, थाथादिसूत्रेण घञ्यप्यन्तोदात्तत्वविधानात् । भुजशब्दस्तु घञ्याद्युदात्तो भवति, इगुपधलक्षणे तु केऽन्तोदात्तः ।
प्रयाजानुयाजौ यज्ञाङ्गे ।। 7.3.62 ।।
पञ्चानुयाजा इति । दर्शपूर्णमासयोस्त्रयोऽनुयाजाः, चातुर्मास्येषु नव, पशुष्वेकादश, पञ्चत्वं न क्वापि दृष्टम्, तस्मात् त्रयोऽनुयाजा इति पाठः ।
प्रदर्शनार्थमिति । एतच्च यज्ञग्रहणाल्लभ्यते, उपात्तयोर्हि यज्ञाङ्गविषयत्वं निपातनादेव सिद्धम्, उपांशुयागस्य ऋतुयाजानां च यज्ञसमुदायं प्रत्यवयवत्वाद् यज्ञाङ्गत्वम् । प्रधानयागा ह्येते; इतरेषां तु फलवत्सन्निधावफलं तदङ्गमित्यङ्गत्वम् ।।
वञ्चेर्गतौ ।। 7.3.63 ।।
वञ्च्यं वञ्चन्तीति । गन्तव्यं गच्छन्तीत्यर्थः । वङ्कमिति । गुणशब्दोऽयम्भावे घञ्, अभेदोपचाराद् गुणिनि वृत्तिः ।।
ओक उचः के ।। 7.3.64 ।।
`उच समवाये' । न्योकः शकुन्त इति । न्युचति समवैति नीडादाविति कृत्वा । न्योको गृहमिति । न्युचन्ति समवयन्ति वसन्ति तस्मिन् इति कृत्वा ।
असुनि प्रत्यय इति । अयमेव लोके साधीयः प्रयुज्यते ।।
ण्य आवश्यके ।। 7.3.65 ।।
उदाहरणेषु `आवश्यकाधमर्ण्ययोर्णिनिः', `कृत्याश्च' इति ण्यत्, मयूरव्यंसकादित्वात् समासः, `लुम्पेदवश्यमः कृत्ये' इति मलोपः ।।
यजयाचरुचप्रवचर्चचश्च ।। 7.3.66 ।।
अर्क्ष्यमिति । `ऋच स्तुतौ' । प्रवाच्यो नामेति । प्रकर्षेणोच्यत इति प्रवाच्यः=पाठविशेषोपलक्षितो ग्रन्थविशेषः । अपरे पुनरिति । ते मन्यन्ते---प्रपूर्वो वचिरशब्दसंज्ञायामेव वर्त्तते, तत्र विधेयासम्भवान्नियम इति ।
एतच्चेति । अविवाक्यमित्येतावच्छब्दरूपम् । कः पुनरसौ विशेषः ? इत्यत आह---दशरात्रस्येति । द्वादशाहेऽभितो द्विरात्रो मध्ये दशरात्रः, तस्य दशममहः=अविवाक्यम् । अन्यत्रेति । तथा च नास्मिन्नहनि केनचित् कस्यचिद्विवाच्यम्, अविवाक्यमित्येतदाचक्षते । संशये बहिर्वेदिस्वाध्यायप्रयोगोऽन्तर्वेदीत्येके इत्यहर्विशेषे कुत्वम्, अन्यत्र तदभावः प्रयुक्त आश्वलायनेन । एवमन्योपसर्गपूर्वस्यापि प्रतिषेध एवेष्यते, न नियमः ।
एवञ्च कृत्वा प्रवचिग्रहणं शक्यमकर्त्तुम्; अहर्विशेष पृषोदरादित्वात्कुत्वम्, अन्यत्र प्रतिषेध इति सिद्धमिष्टम्; अन्यथा नियमे हि बहु प्रतिविधेयं स्यात् ।।
प्रयोज्यनियोज्यौ शक्यार्थे ।। 7.3.68 ।।
इह `प्रयुजनियुजः शक्यार्थे' इति वक्तव्यम्, `ण्ये' इत्येव, एवं सिद्धे निपातनाश्रयणं रूढ्यर्थम्---गुणभूत् एवैतयोः प्रयोगो यथा स्यात्---प्रयोन्यो भृत्यः, नियोज्यो दास इति । स्वामिनि प्रयोज्यनियोज्यशब्दौ न भवतः ।।
भोज्यं भक्ष्ये ।। 7.3.69 ।।
भोज्या यावगूरिति । ननु भक्षिरयं खरविशदेऽभ्यवहार्ये वर्तत इति `संस्कृतं भक्षाः' इत्यत्रोक्तम्, तत्कथं द्रवद्रव्ये भवति ? इत्यत आह---इहेति । एवं मन्यते---नात्र भक्षिः खरविशद एव वर्त्तते; अब्भक्षः, वायुभक्ष इत्यत्रापि दर्शनादिति शब्दान्तरसन्निधिबलादेतदेवं भवति । `स्वभावतस्तु भक्षिः खरविशद एव वर्त्तते' इति वार्त्तिककारस्य पक्षः, यदाह---`भोज्यमभ्यवहार्य इति वक्तव्यम्' इति ।।
घोर्लोपो लेटि वा ।। 7.3.70 ।।
दधदिति । दधातेर्लेट्, तिप्‌ `इतश्च लोपः परस्मैपदेषु' इतीकारलोपः । दाशुषे यजमानाय सत्नानि, दद्यादित्यर्थः । अन्ये त्वाहुः---दधदिति शत्रन्तमेतत्, दददिति दाञो रूपम् ।
वावचनं प्रत्याचिख्यासुराह---आडागमे सतीति । अस्त्वत्र लोपः; आटः श्रवणं भविष्यतीत्यर्थः ।
किमर्थ तर्हि वावचनम् ? इत्यत आह--तत्रेति । किमत्र विस्पष्टनीयम् ? अत आह---एषा हीति । अन्ये त्वाहुः--ज्ञापकार्थं वाग्रहणम्, एतज्ज्ञापयति---अनित्यमागमशासनमिति । अनित्यत्वे त्वाट्यसति ददादिति न स्यादिति तत्सिद्धये वाग्रहणं कर्त्तव्यमिति ।।
ओतः श्यनि ।। 7.3.71 ।।
श्यतीत्यादि। `शो तनूकरणे', `छो छेदने', `दो अवखण्डने', `षो अन्तकर्मणि' ।
इहि `ओतः शिति' इति वक्तव्यम्, न च ओकारान्तानां श्यनोऽन्यः शित् सम्भवति, अर्धमात्रया च लाघवं भवति; तत्रायमप्यर्थः---`ष्ठिवुल्कमुचमां शिति' इति शिद्‌ग्रहणं न कर्त्तव्यं भवति, इदमेवानुवर्तिष्यते । ननु श्यन्ग्रहणमुत्तरार्थं कर्त्तव्यम्---`शमामष्टानाम्' इति ? तत्राप्यस्तु शितीत्येव; यदि शितीत्युच्यते, भ्रमे `वा भ्राश' इति पक्षे शब्‌ भ्रमति---अत्रापि प्राप्नोति ? शमादिभिः शितं विशेषयिष्यामः---शमादिभ्यो यो विहितः शिदिति, श्यन्नेव च सर्वेभ्यः शमादिभ्यो विहितः, एवमपि शिद्विशेषणत्वेन शमादीनामुपयोगात्कार्यनिर्द्देशाभावात् नश्यतीत्यादावपि प्रसङ्गः ? नैष दोषः; `अष्टानाम्' इत्यनेन संख्येयाः कार्यिणो निर्दिश्यन्ते, ते च सन्निधानात् शमादय एव विज्ञास्यन्ते ।।
क्सस्याचि ।। 7.3.72 ।।
अधुक्षातामिति । दुहेः स्वरितेत्त्वेनात्मनेपदम्, आताम्, अत्रासति लोपे `आतो ङितः' इति इयादेशः प्राप्नोति । अधुक्षीति । इटि लोपः ।
ककारवतः सशब्दस्य ग्रहणादिह न भवति---वत्सौ; `तृणादिभ्यः सः', तृणसौ, तृणसः ।।
लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये ।। 7.3.73 ।।
एतेषामङ्गानां क्सस्येति । एतेषां सम्बन्धी यो निमित्तत्वेन क्सः, तस्येत्यर्थः ।
सर्वादेशार्थमिति । लुक्सर्वापहारीति संज्ञाविधावुक्तम् । वह्यर्थमिति । उत्तमपुरुषद्विवचनार्थमित्यर्थः । अथान्यार्थं कस्मान्न भवति ? तत्राह---अन्यत्रेति । अलोऽन्त्यस्येति । `आदेः परस्य' इत्येतत्तु न भवति; पञ्चमीनिर्द्देशाभावात् । झलो झलीति लोपेनेति । `धि सकारे सिचो लोपः' इति नाश्रीयते । च्ल्यादेशोपलक्षणं वा तत्र सिज्ग्रहममिति भावः । अकारस्येति । अकारलोपस्येत्यर्थः । तथैव वा पाठः ।
ननु च क्रियमाणेऽपि लुग्ग्रहणे वहौ लुका न भवितव्यमेव, अदन्तत्वात्, दन्त्यौष्ठ्यो ह्यसौ ? अत आह---दन्त्योष्ठ्योऽपीत्यादि । दन्तान्वयोऽत्र विवक्षितः, नेतरव्यावृत्तिरिति भावः । एवं न्यायसिद्धेऽप्यर्थे वचनसामर्थ्यमपि दर्शयति---यदि चेति । ताविति । तवर्गादावित्यर्थः । वहेरन्यानि हि दन्त्यादीनि सर्वाण्यात्मनेपदानि तवर्गादीनि ।।
शमामष्टानां दीर्घः श्यनि ।। 7.3.74 ।।
शमुस्तमुः श्रमुदम् भ्रमुक्षमुमदल्कमः ।
शमादयोऽमी पठिता दिवादिष्वष्ट कृष्टिभिः ।।
ष्ठिवक्लम्याचमां शिति ।। 7.3.75 ।।
क्लामतीति । `वा भ्राश' इत्यादिना शप् ।
क्लमिग्रहणं शबर्थमिति । श्यनि पूर्वेणैव सिद्धत्वात् । शमादिषु पाठश्चिन्त्यप्रयोजनः; श्यन्यप्यनेनैव सिद्धत्वात् ।
तत्र सप्तग्रहणमेवास्तु, चमेराङ्‌पूर्वस्य ग्रहणं तन्त्रम्, न तूपेयिवानित्यादिवदविवक्षितम् ? इत्याह---चमेराङिति । `दीर्घत्वमाङि चमः' इति वार्त्तिकस्याप्ययमेवार्थः ।।
क्रमः परस्मैपदेषु ।। 7.3.76 ।।
इहेत्यादि । चोद्यम् । हेर्लुकि कृत इति । `अतो हेः' इत्यनेन । नैष दोष इत्यादि परिहारः । `न लुमताङ्गस्य' इत्यत्र हि प्रत्यसात्तेरयमर्थो व्यवस्थापितः,---लुमता लुप्ते प्रत्यये यदङ्गं तन्निबन्धनं कार्यं न भवतीति । ततः किम् ? इत्यत्राह---न चेति ।।
इषुगमियमां छः ।। 7.3.77 ।।
इच्छतीति । तुदादित्वाच्छः । इष्यतीति । `इष गतौ'। इष्णातीति । `इष आभीक्ष्ण्ये'। ये पुनरुदितमिषि नाधीयत इति । धातुपाठे । इह च सूत्रे अचीत्यनुवर्त्तयन्तीति । `क्सस्याचि' इत्यतः । नन्वचीत्यनुवृत्तावपि `हलः श्नः शानज्झौ' इति शानजादेशे इषाणेत्यत्र छत्वं स्यादेव, अजादित्वात् ? इत्यत आह---तत्रेति । स्यादेतदेवं यद्यचीत्येन शिद्विशेप्येत---शितिच्छो भवति, किंविशिष्टे ? अचि---अजादाविति; इह तु शिता अज्विशेष्यते---अचि छो भवति, किं विशिष्टे ? शितीति, तेन तदादिविधिर्न भवति । कि कारणम् ? इत्यत आहयस्मिन्विधिरिति । न केवलं तदन्तविधौ विशेषणत्वापेक्षा, अपि तर्हि तदादिविधावपीत्यपिशब्दस्यार्थः । इषाणेत्यत्रापीति । न केवलमिष्यतीत्यत्रैव---इत्यपिशब्दस्यार्थः । न ह्ययमजेवेति । अज्मात्रस्यात्र शित्त्वं नास्तीत्यर्थः । इतिकरणो हेतौ ।।
 प्राघ्रध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रघमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः ।। 7.3.78 ।।
`पा पाने' । `पा रक्षणे' इत्यस्य तु ग्रहणं न भवति; लुग्विकरणत्वात् शितश्चासम्भवात् । `घ्रा गन्धोपादाने', `ध्मा शब्दाग्निसंयोगयोः', `ष्ठा गतिनिवृत्तौ', `म्ना अभ्यासे', `दाण्‌ दाने', `दृशिर प्रेक्षणे', `ऋगतिप्रापणयोः', `सृगतौ', भौवादिकौ । `ऋ सृ गतौ' इति जौहोत्यादिकयोस्तु ग्रहणं न भवति; शितोऽसम्भवात् । नन्वेशः सम्भव इति चेत् ? उक्तमत्र---`वर्णे यत्स्यात्तच्च विद्यात्तदादौ' इति । शितीति हि कर्मधारयः---शश्चासाविच्चेति । `शद्‌लृ शातने' भूवादिः, `शद्‌लृ विशरणे' तुदादिः, `षद्‌लृविशरणगत्यवसादनेषु' ।
आद्युदात्तो निपात्यत इति । यदि न निपात्येत, ततः `धातोः' इत्यन्तोदात्तत्वे सति शपा सहैकादेशे कृते `एकादेश उदात्तेनोदात्तः' इति पिबतीति पदं मध्योदात्तमापद्येत, आद्युदात्तं चेष्यते ।
वेगितायामिति । सञ्जातवेगयायामित्यर्थः । यद्वा---वेगिनो भावो वेगिता, तस्यां च सत्यां गतौ वर्त्तमानस्येत्यर्थः ।।
ज्ञाजनोर्जा ।। 7.3.79 ।।
दैवादिकस्य ग्रहणमिति । न जौहोत्यादिकस्य, शितोऽसम्भवात् । दीर्घोच्चरणस्य प्रयोजनमुत्तरसूत्रे वक्ष्यते ।।
प्वादीनां ह्रस्वः ।। 7.3.80 ।।
प्वादयः क्र्यादौ पठ्यन्त इति । ये तु भूवादौ पठ्यन्ते---`पूञ्‌ पवने' इत्यादयः, तेषां ग्रहणं न भवति, कतिपये हि तत्र ह्रस्वभाविनः, तेषामपि शपि गुणेन भवितव्यम् . किञ्च---क्रैयादिकस्य जानातेर्ह्रस्वनिवृत्त्यर्थं पूर्वसूत्रे दीर्घोच्चारणम्, तदपि क्रैयादिकानां ग्रहणे प्रमाणम् ।
वृत्करणमित्यादि । न ह्युभयार्थत्वे वृत्करणस्य कश्चिद्भार इति भावः । अपरे त्विति । ल्वादीनामनन्तरत्वादिति भावः । तथा `द पूरणे', `द भये'---इत्येतयोरपि वृत्करणात् परस्तात्पठितयोरपि ह्रस्वो भवति---यः पृणाति स ह देवेषु गच्छति, पृणीयादिन्नाधमानाय, पृणन्तं च पपुरिं श्रस्यव, आदृणातीति । पूर्वस्मिन्पक्षे ह्रस्वान्तावेतौ पठन्ति ।
चोदयति---येषामिति । आगता गणान्तमागणान्ताः, परिहरति--ज्ञाजनीर्जा इति । यदि जानातीत्यत्र ह्रस्वत्वं स्यात्, ह्रस्वान्तमेवादेशं विदध्यात् । ननु चान्यार्थं दीर्घान्तादेशविधानं स्यात्, न ह्यन्यथा---जायते इति सिद्ध्यति ? अत आह--ज इत्यपीति । ह्रस्वान्तादेशविधानेऽपि `अतो दीर्घो यञि' इति दीर्घत्वे---जायते इति सिद्धम्, तत्र हि `तुरुस्तुशम्यमः सार्वधातुके' इत्यतः सार्वधातुकग्रहणमनुवर्त्तते, न पुनः `तङि' इति । अत एव `आने मुक्‌' पूर्वान्तः कृतो न परादिः; दीर्घप्रसङ्गात् । ये तर्हि वृत्करणमुभयव्यावृत्त्यर्थं वर्णयन्ति, तेषां दीर्घोच्चारणं किमर्थम् ? जानातीत्यत्र दीर्घो यथा स्यात् । `अतो दीर्घो यञि' इत्येव दीर्घो भविष्यति / न सिध्यति; `अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य' न जादेशमात्रेण निष्ठितमङ्गं भवति । तत्रेदं दीर्घोच्चारणमेव लिङ्गम्--आगणान्ताः ष्वादय इति ।।
मिदेर्गुणः ।। 7.3.82 ।।
मेद्यतीति । श्यन् । मिद्यत इति । भावे यक् ।।
जुसि च ।। 7.3.83 ।।
उदाहरणेषु लङि शपः श्लुः, द्विर्वचनम्, अभ्यासकार्यम्, `सिजभ्यस्तविधिभ्यश्च' इति झेर्जुस् ।
अथेत्यादि । जुस्भक्तस्य यासुटस्तद्‌ग्रहणेन ग्रहणात्प्रसङ्गः । सार्वधातुकाश्रयङित्त्वनिमित्त इति । सार्वधातुकमाश्रयो यस्य तत्सार्वधातुकाश्रंय तन् ङित्वं निमित्तं यस्य प्रतिषेधस्य स तथोक्तः । एतेन यासुडाश्रयङित्त्वनिमित्तमिति व्याख्यातम् । तत्र हि प्राप्ते चाप्राप्ते चेति । चिनुयुरित्यादौ प्राप्ते, अजुहवुरित्यादावप्राप्ते । क्सस्याचीत्यनुवर्त्तते इति । परिहारान्तरम्, जकारोच्चारणं तु चक्रुः---इत्यादौ लिटि मा भूत् ।।
सार्वधातुकार्धधातुकयोः ।। 7.3.84 ।।
सार्वधातुकार्धधातुकयोरिति किमिति । एवं मन्यतेप्रत्यय इति वक्तव्यम्, एवमपि हीष्टे विषये सिद्ध्यतीति । सङिति प्रत्याहारः; सनः सशब्दादाहरभ्या महिङो ङकारात् । अग्नित्वमिति । प्रत्यय इत्युच्यमाने, अत्रापि प्राप्नोति । अग्निकाम्यतीति । सङीत्युच्यमाने अत्रापि प्राप्नोति ।।
जाग्रोऽविचिण्णल्ङित्सु ।। 7.3.85 ।।
अविचिण्णल्ङित्सु परत इति । विचिण्णल्ङिद्भ्योऽन्ये ये प्रत्ययास्तेषु परत इत्यर्थः । जागारयतीत्यादीनि वृद्धिविषये उदाहरणानि । जागरितः, जागरितवानिति प्रतिषेधविषये ।
किं पुनः कारणं वृद्धिप्रतिषेधविषयाण्येवोदाहरणानि उपन्यस्तानि ? तत्राह---वृद्धिविषये, प्रतिषेधविषये चेति । अन्यत्र पूर्वेणैव गुणस्य सिद्धत्वादेतद्विषय एवायं गुणः, तत्राप्युभयविषयः, कथम् ? चिण्णलोः प्रतिषेधात् वृद्धिविषये तावद्भवति, ङित्प्रतिषेधात् प्रतिषेधविषयेऽपीति । तस्मिन्कृत इति । `अङ्गवृत्ते पुनर्वृत्तौ' इत्येतदनाश्रित्योच्यते । सा न भवतीति । किं कारणम् ? इत्याह---यदि हीति । यद्यपि जागरितः, जगरितवानित्यत्र गुणविधिश्चरितार्थः, तथापि वृद्धिविषयेऽप्येतद्विधानमित्युक्तम्, तत्रास्यानर्थक्यमुच्यते । किञ्चेत्याह---चिण्णलोश्चेति । यदि गुणे कृते `अत उपधाया' इति वृद्धिः स्याच्चिण्णलोर्गुणप्रतिषेधोऽनर्थकः स्यात् । अस्तु तत्रापि गुणः; वृद्धौ सत्यामजागारि, जजागारेति सिद्धम् ।
जागृत इति । लट्‌, तस्, अदादित्वाच्छपो लुक्, `सार्वधातुकमपित्' इति ङित्त्वम् ।
अत्र वीति केचिदिति । `अविचिण्णल्ङित्सु' इत्यत्र यो वकारात्पर इकारस्तमुच्चारणार्थं वर्णयन्ति, तत्र `यस्मिन्विधिः' इति वकारादौ प्रतिषेधः । किमर्थं पुनस्त एवं वर्णयन्ति ? इत्यत आह---क्वसावपीति । जजागृवानिति । `नेड्वशि कृति' इति इट्‌प्रतिषेधः । तत्र क्रादिनियमादिट् प्राप्तः `वस्वेकाजाद्‌घसाम्' इति नियमान्न भवति । ये तु क्विपो लोपाद्वर्णाश्रये प्रत्ययलक्षणप्रतिषेधाच्च पर्युदासं नेच्छन्ति, तेषां जागरिति गुणो भवत्येव । अन्ये त्वाहुः---यथा अतृणेडिति प्रत्ययलक्षणेनेभागमी भवति, वर्णस्य प्रत्ययविशेषणत्वात्; एवं क्विपोऽपि पर्युदासः, ततस्तु जागृदिति भवति ।
चोदयति---कथमजागरुरिति । एवं मन्यते--प्रसज्यप्रतिषेधोऽयं विचिण्णल्ङित्सु न भवतीति, ततश्च `जुसि च' इत्यस्यापि गुणस्य प्रतिषेधः स्यात्, तथोत्तमे णलि णित्त्वाभावपक्षे गुण इष्यते--`सार्वधातुकार्धधातुकयोः' इति, तस्यापि प्रतिषेधः प्राप्नोतीति । परिहरति---नाप्रतिषेधादिति । नायं दोषः, कुतः ? अप्रतिषेधात् । नायं प्रसज्यप्रतिषेधः, कस्तर्ह्ययम् ? इत्याह---अविचिण्णल्ङित्स्विति पर्यदासोऽयमिति । पर्युदासे हि विचिण्णल्ङित्सु न विधिर्न प्रतिषेधः, ततोऽन्यत्र विधानम्, तेन जुसि णलि च लक्षणान्तरेण प्राप्तो गुणो भवत्येव ।
प्रसज्यप्रतिषेधेऽप्याह---अथ वेति । `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' इति भावः । केचिद्दर्विरित्यत्र गुणदर्शनादौणादिकं विच्प्रत्यययं वर्णयन्ति, तेषां जागृविरित्यत्र गुणः प्राप्नोति । न च वेः प्रतिषेधवैयर्थ्यम्; क्विपि क्वसौ च चरितार्थत्वात् । तस्माज्जागर्तेः किद्वक्तव्यः ।।
पुगन्तलघूपघस्य च ।। 7.3.86 ।।
भेत्ता, छेत्तेति । कथं पुनरत्र गुणः, यावता धात्वन्तप्रत्ययाद्योर्हलोरानन्तर्ये `संयोगे गुरु' इति गुरुसंज्ञया लघुसंज्ञाया बाधनान्न प्राप्नोति, भेदनमित्यादौ सावकाशो गुणः ? अत आह---प्रत्ययादेरिति । क्नुसनोः कित्करणेनेति । `त्रसिगृधिधृषिक्षिपेः क्नुः' इति क्नोः किक्करणस्यैतत्प्रयोजनम्---गृध्नुरित्यादौ गुणो मा भूदिति । यदि चैवंविधे विषये गुरूपधत्वाद् गुणो न स्यात्, क्नोः कित्करणमनर्थकं स्यात् । तथा `हलन्ताच्च' इति सनः कित्त्वविधानस्यैतत्प्रत्योजनम्---पित्सतीत्यादौ गुणो मा भूदिति, तदपि ज्ञापकमुक्तार्थस्य । इदं तु ज्ञापकं नोपपद्यते; सिसृक्षति, दिदृक्षते इत्यत्र `सृजिदृशोः' इत्यमागमो मा भूदित्येवमर्थमेतत्स्यात्, तथा धिप्सतीत्यत्र नलोपार्थं तत्स्यात् । तस्मात् क्नोरेव कित्करणं ज्ञापकम् । भिनत्ति, छिनत्तीत्यत्र श्रमोऽकारेण लघूपधमङ्गम्, तत्र धातोरिकारस्य गुणः प्राप्नोति, अत आह---उपधात्रेति । न ह्यत्र या काचिदुपधा गृह्यते, किं तर्हि ? `इको गुणवृद्धी' इत्यस्योपस्थानात् स्थानित्वेन सन्निहित इगेव ।
अपरे त्विति । वर्णयन्तीति सम्बन्धः । पुकि अन्त इति । अन्तशब्दः समीपवचनः । यद्यपि `पुगन्त' इत्यत्र बहुव्रीहावपि न दोषः, तथाप्यैकरूप्येण विशेषणार्थमयमपि तत्पुरुष एव व्याख्यातः । लघ्वी उपधेति । कर्मधारयः । अत्र पक्षे शाब्द एवोपधाया इका सम्बन्धः---लघ्व्या उपधाया इक इति । पुगन्तलघूपघमिति । समाहारद्वन्द्वः ।
क्वचिद् `उपधात्र' इत्यादेर्ग्रन्थस्य पुरस्तात् संयोगे गुरुसंज्ञायामिति श्लोकत्रयं पठ्यते । धात्वन्तप्रत्ययाद्योर्हलोरानन्तर्ये सति गुरुसंज्ञायां सत्यां गुणो भेत्तुर्भेशब्दस्य न सिध्यति । परिहरति--विध्यपेक्षमिति । इदं विधानमिति शेषः । लघूपधाद्ये विहिते सार्वधातुकार्धधातुके, तयोरङ्गस्य गुण इत्यर्थः । ननु पञ्चम्यभावात् कथं विधानमुपपद्यते ? उच्यते; षष्ठीपक्षेऽपि विशेष्यत इति चेत्को दोषः---लघूपधस्य ये सार्वधातुकार्धधातुके । के च ते ? ये तस्माद्विहिते इत्युपपद्यते । लघोश्चासाविति पाठे लघूपधाच्चासौ तृज्विहित इत्यर्थः । उपधाशब्दस्तु वृत्तभङ्गभयान्न प्रयुक्तः । कथं कुण्डिरिति । अङ्गाधिकारे नुमो विधानादकृत एव नुमि प्रत्ययो लघूपधाद्विहितः, तत्र परतो निमित्ते स्थिते कुण्डितेत्यादौ गुणः प्राप्नोति, यदि विधानं विशेष्यत इत्यर्थः । परिहरति---धातोर्नुम इति । हेतौ पञ्चमी, यस्मात्तत्र धातोर्नुमङ्गस्य तस्मादित्यर्थः । उक्तं हि तत्र---`धातुग्रहणस्य प्रयोजनम्---धातूपदेशावस्थायामेव नुम् यथा स्यात्' इति, ततश्च प्रागेव नुम्, पश्चात्प्रत्ययः; न चासौ लघूपधाद्विहितो भवति । कथं रञ्जेरिति । यदि षष्ठीनिर्द्देशेऽपि विधानं विशेष्यते, तदान्यत्रापि प्रसङ्गः, ततश्च `अत उपधायाः' इत्यकारोपधाद्विहिते प्रत्यये विधीयमाना वृद्धी रञ्जेर्न स्यात्; प्राक् प्रत्ययोत्पत्तेर्नकारोपधत्वात्--राग इति, `घञि च भावकरणयोः' इति नकारलोपः । यद्यप्यु पधाया अकारस्य वृद्धिरुच्यते, न च ततः प्रत्ययस्य विधानं सम्भवति, तथाप्यकारोपधाद्यद्विधानं तदेवोपधाया विधानं मन्यते । स्यन्दिश्रन्थ्योरिति । यदयम् `स्यदो जवे', `अवोदैधोद्मप्रश्रथहिहश्रथाः' इति स्यन्दिश्रन्थ्योर्वृद्ध्यभावं निपातयति, तज्ज्ञापयति----भवत्येवञ्जातीयकानां वृद्धिरिति । तत्र हि नलोपार्थम्, वृद्ध्यभावार्थं च निपातनमाश्रयणीयम् । यदि च वृद्धिविषये विधानं विशेष्येत, ततो वृद्धिप्रसङ्गाभावान्निपातनाश्रयणमनर्थकं स्यात् । नलोपस्य सिद्धये विधिरेवाश्रयणीयः, अनेकप्रयोजनसिद्धये हि निपातनाश्रयणम् । अनल्लोपेति । अनन्तस्य योऽल्लोपः सोऽनल्लोपः; शौ दीर्घत्वम्, शिदीर्घत्वम्---तयोर्द्वन्द्वः, अनल्लोपशिदीर्घत्वे विध्यपेक्षे न सिद्ध्यतः । यदि च षष्ठीनिर्द्देशेऽपि विधानं विशेष्येत, अल्लोपो राज्ञ इत्यादावेव स्यात्; अस्थ्ना, अस्थ्ने, दध्ना, दध्ने---इत्यादौ न स्यात् । शौ दीर्घत्वं च सामानि इत्यादावेव स्यात्, कुण्डानीत्यादौ तु न स्यात् । तस्मात्षष्ठीनिर्देशेषु विहितविशेषणग्रहणे दोषप्रसङ्गाद् गुणो भेत्तुर्न सिद्ध्यतीति । एवं तर्हि ज्ञापकात्सिद्धम्, यदयम् `नाभ्यस्तस्याचि' इत्यज्ग्रहणं करोति, तज्ज्ञापयति---भवत्येवञ्जातीयके विषये गुण इति । तस्य हि प्रयोजनम्---नेनक्तीत्यादौ हलादौ गुणप्रतिषेधो मा भूदिति । यदि च हलादावलघूपधत्वाद् गुणो न स्यात्, तदा गुणस्य प्राप्त्यभावात्किं तन्निवारणार्थेनाज्ग्रहणेन ! नैतदस्ति ज्ञापकम्; अभ्यस्तस्य यदाहाचि लङर्थं तत्कृतं भवेत् । अभ्यस्तस्याजादौ प्रतिषेधमाहेति यत् तल्लङर्थं कृतं भवेत्, यत्र हलादिर्लुप्यते---अनेनेगिति, तस्मान्न ज्ञापकम् । एवं तर्हि---क्नुसनोर्यत्कृतं कित्त्वं ज्ञापकं स्याल्लघोर्गुणे । व्याख्यातमेतत् ।।
नाभ्यस्तस्याचि पिति सार्वधातुके ।। 7.3.87 ।।
नेनिजानीत्यादि । लोट्‌, `मेर्निः', `आडुत्तमस्य पिच्च' शपः श्लुः, द्विर्वचनम्, `णिजां त्रयाणां गुणः श्लौ' । अनेनिजमित्यादि । लङ्‌, मिपोऽम्भावः ।
वेदानीति । `विद ज्ञाने', लोडादि यथायोगं पूर्ववत्, शपो लुक् । नेनेक्तीति । लट्, तिप्, कुत्वम् । पिद्‌ग्रहणमुत्तरार्थमिति । `तृणह इम्' पिति यथा स्यात्, इह तु पितोऽन्यत्रापि `सार्वधातुकमपिति' इति ङित्त्वाद्भवितव्यमेव प्रतिषेधेन । निनेजेति । णल्, स च `लिट्‌ च' इत्यार्द्धधातुकसंज्ञः ।
जुजोषदिति । `जुषी प्रीतिसेवनयोः', लेट्, व्यत्ययेन परस्मैपदम्, तिप्, `इतश्च लोपः परस्मैपदेषु', `लेटोऽडाटौ' इत्यट्‌, व्यत्ययेन शपः श्लुः, द्विर्वचनम् । यद्यत्र गुणप्रतिषेध इष्यते, पस्पशाते इत्यादौ उपधाह्रस्वत्वमिष्यते, तन्न प्राप्नोति । तस्मादभ्यस्तानामुपधाया ह्रस्वत्वमेव विधेयम्, न गुणप्रतिषेधः । कथं नेनिजानीत्यादि, गुणे कृते उपधाह्रस्वत्वम्, `एच इग्घ्रस्वादेश', सिद्धमिष्टम् ? अत आह---पस्पशाते इत्यादि । स्पशिर्वार्त्तिककारवचनादपठितोऽपि धातुः, तस्माल्लेट्, व्यत्ययेनात्मनेपदम्, टेरेत्वे `लेटोऽडाटौ' इत्याट्, शपः `बहुलं छन्दसि' इति श्लुः, द्विर्वचनम् । अथ वा---यङ्‌लुकि छान्दसमभ्यासस्य ह्रस्वत्वम् । चाकशीतिति । `काश्रृ दीप्तौ', यङ्‌लुक्, लट्, तिप्, `यङो वा' इतीडागमः । वावशीतिरिति । `वाश्रृ दीप्तौ', यङ्‌लुक्‌, लट्‌, शत्रादेशः, ङीप्, शस् । छान्दसं ह्रस्वत्वमिति । यदि तु गुणनिषेधं प्रत्याख्यायोपधाह्रस्वत्वमुच्येत, तदा नर्नृतीतीत्यादौ ऋदुपधे रपरे गुणे कृते ह्रस्वभाविन्युपधा नास्तीति रूपं न सिद्ध्येत् । तस्माच्छान्दसमेव ह्रस्वत्वमेष्टव्यमिति भावः । प्रकृ्त्यन्तराणामेवेति । `स्पश बाधनस्पर्शनयोः' `कश गतिशासनयोः', `वश कान्तौ' ।।
भूसुवोस्तिङि ।। 7.3.88 ।।
अभूदिति । लुङ्‌, `गातिस्था' इत्यादिना सिचो लुक् । सुवै, सुवावहै, सुवामहै इति । `षूङ्‌ प्राणिगर्भविमोचने', लोट्, चेरेत्वम्, `एत ऐ', `आडुत्तमस्य पिच्च', शपो लुक्, उवङादेशः ।
सुवतिसूयत्योस्त्विति । `षू प्रेरणे' तुदादिः, `षूङ्‌ प्राणिप्रसवे, दिवादिः । भवतीति । शपि गुणः ।
व्यतिभविषीष्टेति । आशिषि लिङ्‌, `लिङाशिषि' इत्यार्धधातुकसंज्ञा, `कर्तरि कर्मव्यतिहारे' इत्यात्मनेपदम् ।
अथेति । प्रकृतिग्रहणे यङ्‌लुगन्तस्यापि ग्रहणात्प्रसङ्गः । ज्ञापकादिति । सूतेस्तु निपातनाभावाद् गुणनिषेधो भवत्येव---सोषुवीतीति ।।
उतो वृद्धिर्लुकि हलि ।। 7.3.89 ।।
यवानीति । लोडुत्तमैकवचनम् ।
अपि स्तुयादिति । अपिः सम्भावने कर्मप्रवचनीय इति `उपसर्गात्सुनोति' इत्यादिना षत्वं न भवति । ङिच्च पिन्न भवतीति । यासुडादेः सार्वधातुकस्य साक्षाच्छिष्टं ङित्त्वमनवकाशम्, तिबादीनां तु पित्त्वं लकारान्तरेषु सावकाशम्, तेन `ङिच्च पिन्न भवति' इति `पिच्च डिन्न भवति' इति वचनद्वयसद्भावेऽपि `ङिच्च पिन्न भवति' इत्येतदेवात्र प्रवर्त्तत इति भावः । `क्ङिति च' इति प्रतिषेधस्त्वत्र न लभ्यते, किं कारणम् ? इक इत्येवमिक्संशब्दनेन या वृद्धिस्तस्याः स प्रतिषेधः, इह तु `उत्तः' इति निर्दिष्टस्थानिकत्वादिक्परिभाषा नोपतिष्ठते ।।
गुणोऽपृक्ते ।। 7.3.91 ।।
ननु च `हलि' इति वर्त्तते, `पिति' इति च, अङ्गेन च प्रत्यय उपस्थाप्यते; तत्र हलात्मके प्रत्यये पिति विधायमानो गुणोऽपृक्त एव भविष्यति, नार्थोऽपृक्तग्रहणेन ? इत्यत आह---हलीति वर्त्तमान इति । अपृक्तग्रहणं ह्येवमर्थं क्रियते--हलादौ मा भूदिति, यदि चेयं परिभाषा न स्यात्, अपृक्तग्रहणं न कुर्यात्, कृतं तु, ज्ञापयति--भवत्येषा परिभाषेति । इदं त्वत्र वक्तव्यम्---तदन्तविधिनिवृत्यर्थमपृक्तग्रहणं कस्मान्न भवतीति, तदन्तविधौ हि लङि मिपोऽम्भावेऽपि प्रसङ्गः स्यात् । ननु भवत्येव तत्र गुणः, कथं भवति ? यदा पूर्वत्र वृद्धिविधावपि तदन्तविधिरेव भवति । तदेतदपृक्तग्रहणं कथं तदादिविधेर्ज्ञापकमिति चिन्त्यम् । `नापृक्ते' इत्युच्यमानेऽनन्तराया विभाषिताया वृद्धेः प्रतिषेधः स्यात्, नित्या तु वृद्धइः स्यादेव । तस्माद् गुणग्रहणम् ।।
तृणह इम् ।। 7.3.92 ।।
तृणेढीति । इमि कृते श्नमोऽकारेण सह `आद्‌गुणः', `हो ढः', `झषस्तथोर्धोऽधः', ष्टुत्वम्, ढलोपः । तृणेक्षीति । `षढोः कः सि' । अतृणेडिति । लङ्‌, तिप्सिपोरन्यतरः, हल्ङ्यादिलोपः, ढत्वजश्चचर्त्वानि ।
ननुं च `हलादौ' इत्युच्यते, न चात्र हलादिं पश्यामः ? प्रत्ययलक्षणेन । वर्णाश्रये नास्ति प्रत्ययलक्षणम् ? अत आह--वर्णाश्रयेऽप्यत्रेति । यत्र केवलो वर्ण एव निमित्तं यस्य स वर्णाश्रयः, यथा---गवे हितं गोहितमित्यवादेशः । इह तु पिति सार्वधातुक इति प्रत्यय एव निमित्तम्, हल्‌ तस्य विशेषणम्, तेनासौ प्रत्ययनिमित्तत्वाद्भवत्येवेत्यर्थः । तृणहानीति । लोट्, `मेनिः' । तृणअढ इति । तस्‌ ढत्वादि पूर्ववत्, `श्नसोरल्लोपः', अनुस्वारपरसवर्णौ ।
अथ किमर्थं तृहिरागतश्नम्को गृह्यते ? रौधादिकस्य `तृह हिंसायाम्' इत्यस्य ग्रहणं यथा स्यात्, `तृहि हिंसायाम्' इत्यस्य तौदादिकस्य ग्रहणं मा भूत् । नास्य पिद्धलादिसार्वधातुक मनन्तरं सम्भवति; विकरणेन व्यवधानात् । ननु चास्यापि यङ्‌लुगन्तस्य सम्भवति, एवं तर्हि सानुबन्धकत्वात् तस्य ग्रहणं न भविष्यति ? अत आह---तृणह इतीत्यादि । यद्यागतश्नम्को न गृह्येत, ततो नाप्राप्ते श्नम्यारभ्यमाण इम् तस्य बाधकः स्यात् । अथापि न बाधकः, एवमपि श्नमि कृते इमितीष्टव्यवस्था न स्यात् । विपर्ययोऽपि स्यात्---पूर्वमिमागमः, पश्चात् श्नमिति । सश्नम्कनिर्द्देशे तु न श्नमो निवृत्तिर्भवति, इष्टा च व्यवस्था सिध्यति---पूर्वं श्नम्, पश्चादिमिति । अतस्तदर्थमागतश्नन्को गृह्यते । किञ्च---रौधादिकस्यापि यङ्‌लुगन्तस्य ग्रहणं भवति सश्नम्कनिर्द्देशादेव ।।
ब्रुव ईट् ।। 7.3.93 ।।
`ब्रुवः' इति पञ्चमी, न षष्ठी; व्याख्यानात् । तयाऽचरितार्थया पूर्वत्र कृतार्थायाः सार्वधातुक इति सप्तम्याः षष्ठी प्रकल्प्यते । तदाह---ब्रुव इत्येतस्मादुत्तरस्येति । इह ब्रूताद्भवानिति तातङ औपदेशिकेन ङित्त्वेन स्थानिवद्भावकृतं पित्त्वं बाध्यते---`ङिच्च पिन्न भवति' इति, तेनेड् न भवति ।।
यङो वा ।। 7.3.94 ।।
लालपीतीत्यादि । लपिवदिरौतिभ्यो यङ्‌लुक्, द्विर्वचनम् । रौतेरभ्यासस्य गुणः । इतरयोर्दीर्घत्वम् । ववर्तीति । वृते रूपम्, `रुग्रिकौ च लुकि' इत्यभ्यासस्य रुक् । किं पुनः कारणं यङ्‌लुगन्तमेवोदाहृतम्, न पुनर्यङन्तम् ? तत्राह---हलादेरिति । यङन्ते हि शपा भवितव्यम्, स च हलादिर्न भवति ।।
तुरुस्तुशम्यमः सार्वधातुके ।। 7.3.95 ।।
तु इति सौत्रोऽयं धातुरिति । स च वृद्धौ वर्त्तते, गत्यर्थ इत्यन्ये, हिंसार्थ इत्यपरे । उत्तवीतिति । `बहुलं छन्दसि' इति शपो लुक् । शमीध्वमिति । शमेरन्तर्भावितण्यर्थात्प्रैषे लोट्, व्यत्ययेनात्मनेपदम्, शप्, तस्य `बहुलं छन्दसि' इति लुक् ।
आपिशला इति । आपिशलेः शिष्याः । सावधातुकास्विति । टाबन्तम् । तत्र संज्ञात्वेन विनियुक्तं सार्वधातुकग्रहणमनर्थकम्, `नाभ्यस्तस्य' इत्यादेः सूत्रादनुवृत्तेः ? अत आह---सार्वधातुके इति वर्तमान इति । तद्धि सार्वधातुकग्रहणं पितीत्यनेन सम्बद्धम्, अतस्तदनुवृत्तौ तदप्यनुवर्तेत, तन्मानुवृतदित्येवमर्थं पुनः सार्वधातुकग्रहणमिति । `हलि' इतियेतत्त्वनुवर्त्तत एव; न हि तत्सार्वधातुकग्रहणेन सम्बद्धम् ।।
अस्तिसिचोऽपृक्ते ।। 7.3.96 ।।
`अपृक्ते' इति षष्ठ्यर्थे सप्तमी, तेनापृक्तस्यैवायमागमः । आसीदिति । `अस् भुवि', शपो लुक्, तिप ईट् । अलावीदिति । लुङ्‌, `इट ईटि इति सिचो लोपः ।
आहिभुवोरीट्‌प्रतिषेध इत्यादि । स्थानिवत्सूत्र एतद्वार्त्तिकम् । आहिभुवोः स्थानिवद्भावस्य प्रतिषेधो वक्तव्यः, ईट्‌प्रतिषेधः प्रयोजनमित्यर्थः । आत्थेति । `व्रुवः पञ्चानाम्' इत्यादिना सिपस्थल्, ब्रुव आहादेशः, `आहस्थः' इति हकारस्य थत्वम्, तस्य `खरि च' इति चर्त्वम्---तकारः । अभूदिति । लुङ्‌, `अस्तेर्भूः' `गातिस्था' इत्यादिना सिचो लुक् । अत्र स्थानिवद्भावप्रतिषेधादस्त्याश्रयस्तावदीण्न भवति । सिजाश्रयोऽपि न भवति, स्थानिवद्भावप्रतिषेधसामर्थ्यात् । अस्त्वेवमस्त्यादेशे भुवि, शुद्धे तु भवतौ सिजाश्रय ईट् प्राप्नोति, तस्मादीडेवात्र प्रतिषेध्यः । आहिविषये परिहारान्तरं ज्ञापकात्सिद्धम्, यदयं झलादिप्रकरणे `आहस्थः' इति थत्वं शस्ति । ननु च भूतपूर्वगत्यर्थमेतस्यात्---झलादिर्यो भूतपूर्वस्तत्रेति ? नैतदस्ति; एवं तर्हि पञ्चानामपि तिबादीनां भूतपूर्वझलादित्वमिति सर्वत्र थत्वप्रसङ्गः, ततश्चाथमेव विदध्यात् ।।
बहुल छन्दसि ।। 7.3.97 ।।
आ इति । अस्तेर्लङ्‌, तिप्, शपो लुप्, रुत्वविसर्जनीयौ अक्षाः, अत्सा इति । `क्षर सञ्चलने', `त्सर छद्मगतौ', लुङ्‌, तिपो हल्ङ्यादिलोपः, `रात्सस्य' इति सिचो लोपः, दातुरेफस्य विसर्जनीयः । छान्दसत्वादिति । `बहुलं छन्दस्यमाङ्योगेऽपि' इत्यनेन न केवलममाङ्योगेऽडाटोरभावः क्रियते, किं तर्हि ? माङ्योगे तत्सद्भावोऽपीति भावः । इडभावश्च सिच इति । छान्दसत्वादित्यपेक्षते ।।
रुदश्च पञ्चभ्यः ।। 7.3.98 ।।
रुदिः स्वपिः श्वसिरनिर्जक्षिः पञ्च रुदादयः ।
रुदः इति बहुवचनस्थान एकवचनम् । `पञ्चभ्यः' इति निर्द्देशादाद्यर्थावगतिः ।।
अड्‌ गार्ग्यगालवयोः ।। 7.3.99 ।।
गाग्यगालवयोर्ग्रहणं पूजार्थमिति । न विकल्पार्थम्; विधानसामर्थ्यादेवाडीटोर्विकल्पस्य सिद्धत्वात् । अनेकाचार्यग्रहणमप्यत एव ।।
अदः सर्वेषाम् ।। 7.3.100 ।।
सर्वेषांग्रहणं नित्यार्थम्, अन्यथा गार्ग्यगालवग्रहणमिह विकल्पार्थ सम्भाव्येत ।।
अतो दीर्घो यञि ।। 7.3.101 ।।
केचिदत्र तिङित्यनुवर्त्तयन्तीति । `भूसुवोस्तिङि' इत्यतः । भववानिति । भवतेः क्वसुः, तस्य `छन्दस्युभयथा' इति सार्वधातुकत्वाच्छप्, `लिटि धातो' इत्यत्र धातुग्रहणाच्छबन्तस्य द्विर्वचनाभावः । ये तु `सार्वधातुके' इत्येवानुवर्त्तयन्ति, तेषां छान्दसत्वाद्दीर्घाभावः । अथ प्रकृतोऽडागम एव कस्मान्न विधीयते---`अतो यञि' इति, अकारान्तादङ्गादुत्तरस्य यञादेस्तिङोऽडागमो भवति, पच अवस्, सवर्णदीर्गत्वे पचाव इति सिद्धण्, विधानसामर्थ्याच्च `अतो गुणे' इति पररूपत्वं न भविष्यति ? नैवं शक्यम्; इह ह्यधुक्षावहि, अधुक्षामहीति `क्सस्याचि' इति लोपः प्रसज्येत । इह चातिजराभ्यामिति जरस्भावः । एवमपि दीर्घग्रहणमनर्थकम्, आदित्याकार एव विधेयः ? इह तर्हि प्रयोजनम्---अपाक्षी रोदनं देव दत्तः । ननु पचामि भोरित्यत्रापि `अनन्त्यस्यापि प्रश्नाख्यानयोः' इति प्लुतः प्राप्नोति ? स मा भूद्दीर्घ एव यथा स्यादिति दीर्घग्रहणम् ।
अत इति तपरकरणमुत्तरार्थम्, `बहुवचने झल्येत्' इत्येत्वं खट्‌वाभिरित्यत्र मा भूत् ।।
सुपि च ।। 7.3.102 ।।
वृक्षायेति । सन्निपातपरिभाषाया अनित्यत्वादत्र दीर्घत्वम् । अनित्यत्वं च `कष्टाय' इति निर्देशादवसितम् ।।
बहुवचने झल्येत् ।। 7.3.103 ।।
वृक्षाणामिति । `झलि' इत्यनुच्यमानेऽग्नीनामित्यादौ सावकाशम् `नामि' इति दीर्घत्वं बाधित्वेदमेत्वमकारान्तेषु स्यादिति भावः ।।
आङि चापः ।। 7.3.105 ।।
खट्‌वया, खट्‌वयोरित्यादीनि टाब्डाप्चापां क्रमेणोदाहरणानि । कीलालपेति । कीलालं पिबति `आतो मनिन्क्वनिब्वनिपश्च' इति विच्, तृतीयैकवचने `आतो धातोः' इत्यालोपः, असति तु पिद्विशिष्टस्य ग्रहणे कीलालपः पश्येत्यादौ चरितार्थं लोपं बाधित्वा परत्वादाङोसोरिदमेवैत्वं स्यात् ।
ड्याब्ग्रहणेऽदीर्घग्रहणादिति । यत्र ङ्यापौ गृह्येते तत्र दीर्घयोर्ग्रहणम्, न ह्रस्वयोः । स्थानिवद्भावे तु प्रसङ्गः, तत्र स्थानिवत्प्रतिषेधसूत्रप्रस्तावे वार्त्तिकम्---`ङ्याब्ग्रहणेऽदीर्घः' इति, ङ्यापोर्ग्रहणेऽदीर्घ आदेशो न स्थानिवदिति । तत्रार्थादिदमुक्तं भवति---ङ्यापोर्ग्रहणे दीर्घयोर्ग्रहणमिति, तदिदं वृत्तिकारेण दर्शितम् ।।
अम्बार्थनद्योर्ह्रस्वः ।। 7.3.107 ।।
अम्बार्थाः= मात्रार्थाः ।
डलकवतीनामिति । अर्थगतेन स्त्रीत्वेनाम्बार्थाः शब्दा निर्दिष्टाः, श्रुत्यपेक्षो वा स्त्रीलिङ्गनिर्देशः---`डलकवतीनां श्रुतीनामित्यर्थः' इति । असंयुक्ताश्च डलका गृह्यन्ते; तेनाक्क, अल्लेति ह्रस्वो भवत्येव ।
देवते भक्तिरिति । ह्रस्वत्वे कृते, `ङ्याब्ग्रहणेऽदीर्घः' इति स्थानिवत्त्वनिषेधाद्याडागमो ङेरामपि न भवतः ।
मातॄणामिति । पूर्वपदभेदन बहवो मातृशब्दा इति बहुवचनम् । पुत्रार्थमिति । पुत्रमभिधातुं यो मातृशब्द उपादीयत इत्यर्थः । बहुव्रीहौ च वर्त्तिपदैरन्यपदार्थोऽभिधीयत इति तत्रैवयमादेशः । कीदृशाय पुत्रायेति । समासे गुणीभूतस्यापि पुत्रस्थ बुद्ध्या प्रविभज्य निर्द्देशः, यथा---`अथ शब्दानुशासनम्, केषां शब्दानाम्' इति । मात्रा व्यपदेशमर्हतीति । यः पुत्रः श्लाघ्यगुणत्वात्कुलसम्भूतया मात्रा व्यपदेशमर्हतीत्यर्थः । यत्र तु पितुरसंविज्ञानेन मात्रा व्यपदेशस्तत्र न भवति, एतच्चार्हत इति प्रशंसायां लटः शत्रादेशविधानाल्लभते । समासान्तापवाद इति । नाप्राप्ते तस्मिन्नस्यारम्भात् ।।
ह्रस्वस्य गुणः ।। 7.3.108 ।।
ह्रस्वविधानसामर्थ्यादिति । ननु ह्रस्वविधानं तस्य गुणविधानार्थमेव स्यात्, अन्यथा ह्रस्वत्वाभावाद् गुणो न स्यादत आह---यदीति । ह्रस्वं विधाय गुणे विधीयमाने प्रक्रियागौरवं भवतीति लाघवार्थं साक्षादेव गुणं विदध्यादित्यर्थः । ननु `नदीह्रस्वयोर्गुणः' इत्युच्यमाने `जसि च' इत्यत्र नद्या अप्यनुवृत्तिः स्यात्, एकसमासनिर्दिष्टत्वात् ? नैष दोषः; एकसमासनिर्दिष्टयोरप्येकदेशोऽनुवर्त्तते, तद्यथा---`संख्याव्ययादेर्ङीप्', `दामहायनान्ताच्च' इत्यत्र संख्याग्रहणमनुवर्त्तते, नाव्ययग्रहणम् ।।
जसि च ।। 7.3.109 ।।
जसादिष्विति । आदिशब्दः प्रकारे, तेन पूर्वयोगनिर्दिष्टानामपि ग्रहणम् । दर्वीति । `कृदिकारादक्तिनः' इति ङीष्विकल्पमनपेक्ष्यैतदुक्तम्, तत एव तु सिद्धं रूपद्वयम् । शतक्रत्व इति । `जसि च' इति गुणाभावपक्षे `प्रथमयोः' इति पूर्वसवर्णदीर्घोऽपि `वा छन्दसि' इति वचनान्न भवतीति यणादेशः प्रवर्त्तते । किकिदीव्येति । `आङो नास्त्रियाम्' इति नाभावो न भवति । किकिदीविशब्दः `कृविधृष्वि' इत्युणादिषु निपातितः ।।
ऋतो ङिसर्वनामस्थानयोः ।। 7.3.110 ।।
तपरकरणं मुखसुखार्थमिति । ङिसर्वनामस्थानयोर्दीर्घान्तस्यासम्भवात् । धात्वनुकरणमपि न सम्भवति, `ऋत इद्धातोः' इतीत्वविधानात् । कर्त णीत्यत्यादावपि नुमः पूर्वान्तत्वादसम्भवः ।।
घेर्ङिति ।। 7.3.111 ।।
ध्यन्तस्याङ्गस्येति । `वर्णमात्रस्य घिसंज्ञा' इत्याश्रित्येदमुक्तम् । `तदन्तस्य संज्ञा' इत्यत्र तु पक्षे घ्येकदेशे वर्णे घिशब्दो द्रष्टव्यः । एतेन नद्यन्तादिति व्याख्यातम् ।
सुपीत्येवेति । `सुपि च' इत्यतः । पट्‌वीति । `वातो गुणवचनात्' इति । कुरुत इति । यस्य नदीसंज्ञा नास्ति स सर्वोऽपि घिसंज्ञः, न लिङ्गवदेवेति । कुरुशब्दस्य घिसंज्ञा, तस्य तसि ङिति गुणो न भवति । एतच्च ङिच्छब्दे बहुव्रीहिमाश्रित्योच्यते । यदि तु ङश्चासाविच्चेति कर्मारयस्तदा नैवात्र प्रसङ्गः, `सार्वधातुकमपित्' इत्यनेन हि बहुव्रीहौ ङितो यत्कार्यं तदतिदिश्यते, न चैतावता तसेर्ङकार आदिर्भवति ।।
आण्नद्याः ।। 7.3.112 ।।
`नद्याः' इति पञ्चम्यकृतार्था ङितीति सप्तम्याः षष्ठीं प्रकल्पयति, तेन ङित एवायमागमो विज्ञायत इत्याह---नद्यन्तादङ्गादुत्तरस्येति । कुमार्या इति । `आटश्च' इति वृद्धिः । अथ दीर्घोच्चारणं किमर्थम्, अडेवोच्येत, `वृद्धिरेचि' इति वृद्ध्या सवर्णदीर्घत्वेन च कुमार्यै, कुमार्या इति सिद्धम् ? न सिद्ध्यति; `अतो गुणे' पररूपत्वं प्राप्नोति । अड्‌वचनसामर्थ्यान्न भविष्यति ? अस्त्यड्‌वचने प्रयोजनम्, किम् ? श्रियै, श्रिया इत्यत्र `सावेकाचः' इत्याद्युदात्तत्वं मा भूत्, आगमानुदात्तत्वं यथा स्यादिति । आगमानुदात्तत्वं हि प्रत्ययस्वरमिव विभक्तिस्वरमपि बाधते, विशेषतोऽत्राड्‌वचनसार्थ्यात् ।।
याडापः ।। 7.3.113 ।।
दीर्घोच्चारणं किमर्थम्, न यडेवोच्येत, वृद्धौ कृतायां सवर्णदीर्घत्वे च खट्‌वायै, खट्‌वाया इति सिद्धम् ? न सिध्यति; `अतो गुणे' पररूपत्वं प्राप्नोति, अकारोच्चारणसामर्थ्यान्न भविष्यति । अस्त्यन्यदकारोच्चारणस्य प्रयोजनम्---ज्ञाये, ज्ञाया इत्यत्र `सावेकाचः' इत्याद्युदात्तत्वं मा भूत्, आगमानुदात्तत्वं यथा स्यादिति । किञ्च---उच्चारणार्थोऽप्यकारः सम्भाव्येत, इह खट्‌वामतिक्रान्त इति प्रादिसमासे ह्रस्वत्वे च तस्य स्थानिवद्भावात्ततः परस्य चतुर्थ्येकवचनस्य `ङेर्यः' इति यादेशं बाधित्वानेन याट् प्राप्नोति, तत्र कृते दीर्घत्वे चातिखट्‌वायै देवदत्तायेति प्रसङ्गः, तत्राह---आतखट्‌वायेत्यत्रेति । अकृते दीर्घत्व इति । यादेशात् प्रागवस्थायामिदमुक्तम् । कृते तहि यादेशे दीर्घत्वे च ङिच्चासौ भूतपूर्व इति याट् प्राप्नोति ? अत आह---कृते च लाक्षणिकत्वादिति ।।
सर्वनाम्नः स्याड्‌ढ्रस्वश्च ।। 7.3.114 ।।
दीर्घोच्चारणं सर्वस्या इत्यत्र वृद्धिर्यथा स्याद्, `अतो गुणे' पररूपत्वं मा भूत् । अकारोच्चारणं तु अस्या इत्यत्र `ऊडिदम्पदादि' इति विभक्तेराद्युदात्तत्वं मा भूत्, आगमानुदात्तत्वं यथा स्यादेवमर्थ स्यात् । किञ्च उच्चारणार्थोऽप्यकारः सम्भाव्येत ।।
विभाषा द्वितीयातृतीयाभ्याम् ।। 7.3.115 ।।
अप्राप्तविभाषेयम्; असर्वनामत्वात् । ननु च `तीयस्य वा ङित्सूपसंख्यानम्' इत्यनेनैव सिद्धत्वान्नार्थ एतेन, तच्चावश्यं वक्तव्यं लिङ्गान्तरेऽपि स्मायादयो विकल्पेन यथा स्युरिति ? नैतद्युक्तमुच्यते; यद्धि सूत्रेणासिद्धं तदुपसंख्यानेन साधनीयम्, न पुनरुपसंख्यानाश्रयणेन सूत्रस्य प्रत्याख्यानं युज्यते ।
यदि पुनरत्र ह्रस्वयोर्ग्रहणं कृत्वा स्याड्‌ग्रहणं च निवर्त्य `सर्वनाम्नः' इत्येवा नुवर्त्यातिदेश आश्रीयते---सर्वनाम्नो यदुक्तं तद्विभाषा भवति द्वितीयातृतीययोरिति, तदोपसंख्यानं शक्यमकर्त्तुम् ।।
ङेराम्नद्याम्नीभ्यः ।। 7.3.116 ।।
`ङेः' इति सप्तम्येकवचनग्रहणम्; इच्छायाम्, स्त्रियामित्यादिनिर्देशात् । ग्रामण्यामिति । `सत्सूद्विष' इत्यादिना क्विप्‌, `अग्रग्रामाभ्याम्' इति णत्वम्, `एरनेकाचः' इति यण्‌ ।।
इदुद्भ्याम् ।। 7.3.117 ।।
नदीग्रहणमिहानुवर्त्तते । यद्येवम्, अपार्थकमिदम्, पूर्वेणैव सिद्धत्वात्, ततश्च `इदुद्भ्यामौत्' इत्येकयोग एव कर्त्तव्यः ? नैवं शक्यम्; औकारो हि स्यात्, नदीलक्षणस्यामोऽवकाशः---कुमार्यामिति, औत्वस्यावकाशः---पत्यौ, सख्याविति; कृत्यामित्यत्र यदा नदीसंज्ञा तदा परत्वादौत्त्वं प्राप्नोति ।।
औत् ।। 7.3.118 ।।
यन्न नदीसंज्ञमित्यादि । नदीसंज्ञके पूर्वेणाम् विहितः, घिसंज्ञेऽप्युत्तरेणात्वसंयुक्तमौत्वं वक्ष्यति, तस्मादाभ्यामन्यदेवोदाहरणम् । तत्र पूर्वत्र `घ्यन्तान्नद्यन्तात्' इत्युक्तम्, इह त्विकारोकारान्तमित्युक्त्म्, संज्ञाविधौ च पक्षद्वयं दर्शितम्---वर्णमात्रस्य संज्ञा, तदन्तस्य वेति; तेन नास्ति विरोधः ।।
अच्च घेः ।। 7.3.119 ।।
कृतौ, धेनाविति । अथात्रात्वे कृते `अजाद्यतष्टाप्' इति टाप्कस्मान्न भवति, अस्तु को दोषः ? `डेराम्नद्याम्नीभ्यः', `याडापः' इत्येतौ विधी प्राप्नुतः, औत्वविधानं तु पुंसि चरितार्थम् ? अत आह---तपरकरणं स्त्रियामापो निवृत्त्यर्थमिति । इह हि स्थानिनो मात्रिकत्वाद्भाव्यमानत्वाच्चाणो दीघस्य प्रसङ्गो नास्ति, यस्य निवृत्त्यर्थं तपरकरणं स्यात् । तस्माच्छास्त्रन्तरेणापि दीर्घो मा भूदित्येवमर्थं तपरकरणं क्रियते, एतच्च सन्निपातपरिभाषामनाश्रित्योक्तम् । ङिसन्निपातकृतं ह्यत्वं तद्विघातकस्य टापो निमित्तं न भवति ।
औदच्च घेरिति येषामित्यादि । इह केचित् `औदच्च घेः' इत्येकयोगमेवाधीयते, तत्र यदि समुच्चये चशब्दः स्यात्, यत्रात्वं तत्रैवौत्वं स्यात्---धेनाविति; घेश्चात्वमित्यघौ सख्यौ, पत्यावित्यत्रौत्वमपि न स्यात्, अस्य दोषस्य निवृत्तये प्रधानशिष्टमौत्वमन्वाचयशिष्टमत्वमिति वर्णयन्ति । तत्र यथा `कर्त्तुः क्यङ्‌ सलोपश्च' इत्यत्र सलोपस्यान्वाचयशिष्टस्याभावेऽपि श्येनायत इत्यादौ क्यङ्‌ भवति, तथा अत्रापि सख्यौ, पत्यावित्यत्वाभावेऽपि औत्वं भवतीत्यर्थः ।।
आङो नाऽस्त्रियाम् ।। 7.3.120 ।।
`आङः' इति स्थान्यन्तरस्योपादानाद् घेरिति षष्ठी पञ्चम्या विपरिणम्यत इत्याह---घेरुत्तरस्येति । अथ किमर्थमस्त्रियामित्युच्यते, `आङो ना पुंसि' इत्येवोच्येत, एवं हि मात्रया लाघवं भवति, इष्टं च सिध्यति ? एवमुच्यमाने त्रपुणा, जतुनेत्यत्र नपुंसके न प्राप्नोति । मा भून्नाभावः, `इकोचि विभक्तौ, इति नुमि कृते सिद्धमिष्टम् ? अत आह--पुंसीति नोक्तमित्यादि । अमुना ब्राह्मणकुलेनेति । `पुंसि' इत्युच्यमाने नाभावो न स्यात् । नुमपीग्लक्षणो नास्ति; मुत्वस्यासिद्धत्वात् । `अस्त्रियाम्' इत्युच्यमाने नपुंसकेऽपि नाभावो भवति । नाभावे कर्त्तव्ये मुत्वस्यासिद्धत्वं नास्ति । `न मुने' इति प्रतिषेधादिति `नपुंसके' इत्युच्यमानेऽपि न सिध्यति । तस्मादस्त्रियामित्येव वक्तव्यमिति ।।
इति श्रीहरदत्तमिश्रविरचितायां पदमञ्जर्यां सप्तमस्याध्यायस्य तृतीयः पादः समाप्तः


***********************---------------------