सामग्री पर जाएँ

काशिका (पदमञ्जरीव्याख्यासहिता)/चतुर्थोऽध्यायः/द्वितीयः पादः

विकिस्रोतः तः
← प्रथमः पादः काशिका (पदमञ्जरीव्याख्यासहिता)
द्वितीयः पादः
[[लेखकः :|]]
तृतीयः पादः →

अथ चतुर्थाध्याये द्वितीयः पादः ---4
पदमञ्जरी
तेन रक्तं रागात्‌ ।। 4.2.1 ।।
रञ्जिरयमस्त्येवाभिष्वङ्गे----भोजने रक्त इति; अस्ति वर्णविशेषे---रक्ता गौः, लोहितेत्यर्थः; अस्ति शुक्लस्य वर्णान्तरापादने---रक्तः पट इति । तत्राद्ययोरर्थयोर्ग्रहणे, रूपेण कान्तायां रक्तः, कोपेन रक्तं मुखमित्यत्रापि प्राप्नोतीति मन्यमानस्तृतीयमर्थमाश्रित्याह---शुक्लस्येत्यादि । एतच्चाभिधानस्वाभाव्याल्लभ्यते । रज्यतेऽनेन राग इति । `घञी च भावकरणयोः' इति नलोपः । भावसाधनस्तु रागशब्दो न भवति, न हि रञ्जनक्रियैव रञ्जनक्रियायाः करणं भवति । रागविशेषवाचिन इति । स्वरूपग्रहणं तु न भवति; उत्तरत्र लाक्षादीनां रागग्रहणेन विशेषणात्‌ ।
रागादिति किमिति । अनभिधानादेव कर्तृवाचिनो न भविष्यति, `दैवदत्तं वस्त्रम्' इति ह्युक्ते स्वस्वामिभावस्यैव सम्प्रत्ययादिति प्रश्नः । लक्षणैकशरणो नैतत्प्रतिपत्तुमर्हतीत्युक्तम् ।
 कथमिति । न ह्यत्र वर्णान्तरमाहितमिति प्रश्नः उपमानादिति । रूपसादृश्यनिमित्तात् ।।
लाक्षारोटनाट्ठक्‌ ।। 4.2.2 ।।
शकलकर्दमयोर्वार्त्तिके दर्शनात्सूत्रे प्रक्षेपः ।
नील्या इति । ओषधिविशेषो नीलि, अम्बाधनार्थवचनम्, नीलशब्दस्तु गुणशब्दत्वादेव नीलीरक्ते वस्त्रे सिध्यति ।
पीतादिति । रागविशेषिवाची पीतशब्दः । इदमपि वचनमण्बाधनार्थमेव । स्वार्थिककन्प्रत्ययान्तस्तु पीतकशब्द गुणवचनो वस्त्रे लभ्यते ।।
नक्षत्रेण युक्तः कालः ।। 4.2.3 ।।
इह पारमर्षाः कालं क्रियात्मानमिच्छन्ति, यथोक्तम्---
आदित्य---ग्रह---नक्षत्र---परिस्पन्दमथापरे ।
भिन्नमावृतिभेदेन कालं कालविदो विदुः ।। इति ।
वैशेषिकास्तु द्रव्यमाकाशकल्पम्, उक्तं च---
व्यापारव्यतिरेकेण कालमेके प्रचक्षते ।
नित्यमेकं विभु द्रव्यं परिमाणं क्रियावताम् ।। इति ।
द्वयोरपि दर्शनयोर्नक्षत्रेण कालस्य योगो न सम्भवति, किं कारणम् ? अप्राप्तिपूर्विका प्राप्तिः=योगः, कालविशेषावधारणार्थो हि लोके पौषादिशब्दप्रयोगः, एवंविध एव च योगः कालविशेषावधारणहेतुर्भवति । द्रव्यपक्षे तावद्‌ द्वयोरपि नक्षत्रकालयोर्नित्यत्वात्कालस्य च सर्वगतत्वान्न कदाचिदयोगः । क्रियापक्षेऽपि नक्षत्रगतायाः क्रियायाः कालख्यायाः समवायलक्षणो योगोऽव्यभिचारादविशेषणम् । सूर्यादिगतायास्त्वसम्भवादविशेषणम् । यदि तु यथाकथञ्चिद्योगः, तदा व्यभिचाराभावः । न हि सोऽस्त्यहोरात्रो यः पुष्येण न युक्तः । तस्मात्‌ `नक्षत्रेण युक्तः कालः' इत्यनुपपन्नो निर्देशः ।
कथं तर्हि निर्देशः कर्त्तव्यः, नक्षत्रादेर्युक्तान्ताद्युक्ते काले प्रत्ययविधानं युक्तलोपश्च, पुष्येण युक्तश्चन्द्रमां पुष्ययुक्तः, पुष्ययुक्तेन युक्तः काल इति पुष्ययुक्तशब्दाच्चन्द्रमसि वर्त्तमानात्प्रत्ययः, युक्तशब्दस्य च लोपः, पौषी रात्रिः, पौषमहः, एवं सर्वत्र । तत्र युक्तवद्‌भावे दोषः, मधायुक्तशब्दात्प्रत्यये क्रियमाणे तस्य लुपि मघा इति स्त्रीत्वबहुत्वे न सिद्ध्यतः, युक्तस्यैव तु चन्द्रमसो लिङ्गवचनप्रसङ्गः, अतो नक्षत्रवाचिन एव प्रत्यययोर्योगः सम्भवतीति मत्वा पृच्छति---कथं पुनरिति । न चन्द्रमसैव योगे पुष्यादीनां नक्षत्रता; ज्योतिर्मात्रवचनत्वान्नक्षत्र शब्दस्य । ये तु पुष्यादीनामावस्थिकी नक्षत्रता चन्द्रमसा योगे भवतीत्याहुः, तेषामयं प्रश्नोऽनुपपन्नः । पुष्यादिसमीपस्थ इति । मुख्यार्थासम्भवे गौणस्याश्रयणमिति भावः । तत्र मघादयः शब्दा अपरित्यक्तस्वलिङ्गसङ्ख्या एव चन्द्रमसि वर्त्तन्ते, यथा---मञ्चादयः, मञ्चान्‌ स्त्रियः पश्येति । तेन युक्तवद्भावविषयेऽपि दोषाभावः । पुष्यसमीपस्थेन चन्द्रमसा युक्त इत्यर्थ इति । यद्यपि चन्द्रमसा कालस्य योगो नित्यः, चन्द्रमसो नित्यत्वात्‌; पुष्यसमीपेन तु कादाचित्कः, पुष्यसमीपतायाः कादाचित्कत्वात्‌ । पौषीति `सूर्यतिष्य' इत्यादिना यलोपः ।।
लुबविशेषे ।। 4.2.4 ।।
यद्यविशेषे लुब्‌ भवति, इहापि प्राप्नोति---पौषी रात्रिः, पौषमहरिति, अत्राप्यद्य ह्यो वेति विशेषो न गम्यते । अथ रात्रिरहरिति । विशेषा वसायात्तदाश्रयः प्रतिषेधो भवति, इहापि तर्हि न स्याद्‌---अद्य पुष्यो ह्यः कृत्तिका इति, अद्यत्वादिविशेषावसायात्‌; `पुष्ये पायसमश्नीयात्‌' इत्यादावेव तु स्याद्‌ यत्र नमनागपि विशेषावसायः ? अत आह---नचेदित्यादि । रात्र्यादिरित्यादिशब्देन मुहूर्त्तादेः परिग्रहः । विशेषोऽभिधीयते इति । प्रत्ययान्तेन । एतदेव स्पष्टयति--यावानिति । कियाँश्च कालो नक्षत्रेण युज्यते ? इत्याह---अहोरात्र इति । षष्टिनाडिकात्मक इत्यर्थः तावन्तं हि कालमेकस्य नक्षत्रस्य समीपे चन्द्रमा वर्त्तते । तदेतदेवं यावान्कालो नक्षत्रेण युज्यते तस्य सर्वस्य प्रत्ययान्तेनाभिधानमविशेषः, तदेकदेशस्याभिधानं विशेषः । एतच्च प्रत्ययान्तेऽनुप्रवेशादन्तरङ्गत्वाच्च लभ्यते । प्रसज्यप्रतिषेधश्चायम्, तेन पौषोऽहोरात्र इत्यत्र समुदायेनापि प्रतीयमानोऽवयवद्वयात्मकः प्रतीयत इति तदाश्रयः प्रतिषेधो भवति, इह पुष्येण युक्ता पौर्णमासी पौषी, मघाभिर्युक्ता माघीत्यादौ लुप्‌ प्राप्नोति ? ज्ञापकात्सिद्धम्, यदयम् `विभाषा फल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः' इति निर्दिशति, तज्ज्ञापयति---पौर्णमास्यां लुब्न भवतीति । श्रवणाशब्दात्तु भवति---`श्रवणाकार्त्तकी' इति निर्देशादेव । कथं तर्हि श्रावण्यां पौर्णमास्यामिति ? अबाधकान्यपि निपातनानि भवन्ति ।।
संज्ञायां श्रवणश्वत्थाभ्याम् ।। 4.2.5 ।।
विशेषार्थोऽयमारम्भ इति । न तु संज्ञायां नियमार्थः; विधिसम्भवे नियमायोगात्‌, `श्रवणाकार्त्तिकी' इत्यसंज्ञायामपि लुपो दर्शनाच्च ।
लुपि युक्तवद्‌भावः कस्मान्न भवतीति । श्रवणा रात्रिरित्यत्र । निपातनादिति । ङीप्त्वत्र प्रत्ययलक्षणेन भवति; `अण्‌ योऽकारः' इति विज्ञानात्‌ ।।
द्वन्द्वाच्छः ।। 4.2.6 ।।
नक्षत्रग्रहणमनुवृत्तं षष्ठ्यन्ततया विपरिणम्यते, तच्च द्वन्द्वस्य विशेषणमित्याह---नक्षत्रद्वन्द्वादिति । राधानुराधीया रात्रिरिति । एकदेशद्वारेण रात्र्यादेर्नक्षत्रद्वययोगः । अद्य राधानुराधीयमिति । अद्येत्यस्यालिङ्गत्वेऽपि तद्विशेषणस्य नपुंसकत्वम्, लोकाश्रयत्वाल्लिङ्गस्य, लुपं परत्वाद्वाधते । छ इति । ननु युगपत्प्राप्तयोर्विप्रतिषेधः, न च लुप्छयोर्युगपत्प्रसङ्गः, प्रत्ययादर्शनस्य हि लुपसंज्ञा, तस्य कथं प्रत्ययेन सह प्रसङ्गः ? तस्मादयमत्रार्थः---`मध्येऽपवादाः पूर्वान्विधीन्बाधन्ते नोत्तरान्‌' इति, एवमयं लुबण एव भवति, नास्य छस्य । तेनायं छो लुपो विषये श्रूयते, एतदेव लुपं परत्वाद्वाधते च्छ इति बाधकत्वम् । परत्वादिति । यतोऽयं परस्तेन लुबस्य न भवति, तेन तद्विषयेऽप्यसौ श्रूयत इति ।।
दृष्टं साम ।। 4.2.7 ।।
यस्य साम्नो विशिष्टकार्यविषये विनियोगो येन ज्ञातस्तेन दृष्टमित्युच्यते ।।
कलेर्ढक्‌ ।। 4.2.8 ।।
सर्वत्रेति । न केवलमग्नेः `सास्य देवता' इत्यस्मिन्नेवार्थे ढक्‌, नापि केवलं दृष्टं सामेत्यत्रैवार्थे कलेर्ढग्; अपि तु सर्वेष्वे व प्राग्दीव्यतीयेष्वित्यर्थः ।
संग्रहश्लोके जति च द्विरण्‌ डिद्वा विधीयते इति पाठः । जातेऽर्थे योऽण् विधीयते स वा डिद्भवतीत्यर्थः ।
न विद्याया इति । विद्यावाचिन ईकग्‌ न भवतीत्यर्थः ।
गोत्रादङ्कवदिति । अङ्के यो दृष्टः प्रत्ययः स सर्वोऽतिदिश्यते, न त्वङ्क एवाहत्य विहितः, तेन `सङ्घाङ्कलक्षणेषु' इत्यस्याणः `गोत्रचरणाद्‌ वुञ्‌' इत्यस्य च वुञोऽतिदेशः ।।
वामदेवाद्‌ ड्यड्‌ड्यौ ।। 4.2.9 ।।
डिस्कारणं किमर्थमिति । यस्येति लोपेनैव सिद्धि मत्वा प्रश्नः । अनयोर्ग्रहणं मा भूदिति । अथ `क्रियमाणेऽपि डित्करणे कस्मादेवानयोर्ग्रहणं न भवति ? तत्राह---अननुबन्धकेति । `अननुबन्धकस्य ग्रहणे न सानुबन्धकस्य' इति यग्रहणे ड्यड्यतोर्ग्रहणं न भवति, एकानुबन्धकपरिभाषया तु यद्‌ग्रहणे ड्यतो ग्रहणाभावः । अवामदेव्यमिति । अव्ययपूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वमेव भवति ।
संग्रहश्लोके अतदर्थे इत्यनेन `ययतोश्चातदर्थे' इत्येतत्सूत्रं लक्ष्यते । नञ्स्वर इति । नञाश्रयः स्वरो नञ्स्वरः, उत्तरपदान्तोदात्तत्वं तस्मिन्विधीयमाने इत्यर्थः ।।
परिवृतो रथः ।। 4.2.10 ।।
चार्मण इति । `अन्‌' इति प्रकृतिभावः । परिवृतो रथ इति । तदेकान्तग्रहणम्, येन परिवृतो रथस्तदेकान्तश्चेद्भवतीति वक्तव्यम् । तेन चर्मवस्त्रादावेव भवति, इतरथा छात्त्रादावपि प्रसङ्ग इत्याह---समन्ताद्वेष्टित इत्यादि । वृणोतिर्वेष्टने परिः सर्वतो भावे । यस्य न कश्चिदवयव इति । बाहुल्याभिप्रायमेतत्, न हि चक्रनेमिप्रभृतयश्चर्मणा पिधीयन्ते नाप्यन्तरावयवाः । ननु तत्कारी चायं यदाह---छात्त्रैः परिवृत इति । तद्‌द्वेषी च, यदाह---समन्ताद्‌वेष्टित इत्यादि । नायं तत्कारी, औपचारिकोऽयं प्रयोगः, परिवृतः इव परिवृतः ।।
पाण्डुकम्बलादिनिः ।। 4.2.11 ।।
मत्वर्थीयेनैव सिद्ध इति । यो हे येन परिवृतः स तस्यास्ति । अणो निवृत्त्यर्थमिति । यद्येतन्नारभ्येत, परिवृतो रथ इति विवक्षायां पूर्वेणाण्‌ प्रसज्येत ।।
द्वैपवैयाघ्रादञ्‌ ।। 4.2.12 ।।
द्वीपिव्याघ्रयोरिति । `विरूपाणामपि समानार्थानाम्' एकशेषः प्राप्नोति, तत्रावान्तरजातिभेदेन भिन्नार्थत्वान्न भविष्यतीति समाधातव्यम् । चर्मणैव रथस्य परिवरणं सम्भवति, न विकारमात्रेणेति `चर्मणी' इत्युक्तम् । द्वीषिव्याघ्रशब्दाभ्याम् प्राणिरजतादिभ्योऽञ्‌' इत्यञ्प्रत्ययः, द्वीपिनष्टिलोपः ।।
कौमारापूर्ववचने ।। 4.2.13 ।।
अपूर्ववचन इति । अपूर्वशब्दो भावप्रधानः । अपूर्वत्वस्य वचनमपूर्ववचनम्, तस्मिन्नपूर्ववचने । कस्य पुनरपूर्वत्वोक्तावित्याह---पाणिग्रहणस्येति । एतच्च निपातनसामर्थ्याल्लभ्यते । उभयतः । आद्यादित्वात्तसिः । स्त्रीपुंसयोरुभयोरप्येतन्निपातनमिष्यते, उभयोश्च पक्षयोरपूर्वत्वं स्त्रिया एव, न पुंस इत्यर्थः । तत्र कौमारेति स्त्रीपुंससाधारणप्रातिपदिकमात्रनिर्देशादवसीयते---उभयोरपि निपातनमिति । स्त्रिया एवापूर्वत्वमित्येतत्तु निपातनबलाल्लभ्यते । अपूर्वपतिमिति । यस्याः पाणिर्न केनचिद्‌गृहीतपूर्वः साऽपूर्वपतिः, न विद्यते पूर्वः पतिरिति कृत्वा, तामुपपन्नः=प्राप्तः, भार्यात्वेन स्वीकृतवानित्यर्थः । स तु पूर्वकृतोद्वाहो भवतु मा वा भूत्‌ । अपूर्वपतिरिति । अयमपि बहुव्रीहिः, अत्रापि पुरुषः पूर्ववत्‌ ।
कोमारेत्यादि । कौमारेति निपात्यतेऽपूर्वचने । किमत्र निपात्यते ? कुमार्या अण्‌ विधीयते । कदा ? अपूर्वत्वं यदा तस्याः । यदा कुमार्या अपूर्वत्वं न पुंसस्तदेत्यर्थः । कुमार्या भवतीति वेति । अनेन योगः प्रत्याख्यायते; यः कुमारीमुपपन्नस्तस्यामसौ भवति, तदायत्तत्वाद्धर्माचरणादेः, ततश्च `तत्र भवः' इत्यवाण सिद्धः । यद्यपि वाण्याद्यपि कुमार्यां भवति तथापि सत्यभिधाने `तत्र भावः' इति भवत्येव । सूत्रारम्भेऽपि हि नासौ दण्डवारितः, एवं तावत्कौमार इति सिद्धम् । स्त्रियामपि सिद्धम्, कथम् ? कौमारस्य स्त्री कौमारी, प्रत्यासत्त्या च यस्यामसाभवन्‌ कौमारव्यपदेशं लभते सैवाभिधीयते न स्त्र्यन्तरम्, एतच्च सूत्रारम्भेऽप्यङ्गीकर्तव्यम् ।।
तत्रोद्‌धृतममत्रेभ्यः ।। 4.2.14 ।।
अत्रोद्धरतिरुद्धरणपूर्वके निधाने वर्तते, तेन सप्तमीसमर्थाद्‌ विभक्तिर्नोपपद्यतदे । भुक्तोच्छिष्टमिति । शिष्टमेवोच्छिष्टम्, यथा वच्छिनष्टि न सर्वं जुहोतीति भुक्तशिष्टमित्यर्थः । यस्योद्धरणमिति प्रासिद्धिरिति । कृत्यल्युटो बहुलम्' इति भूते कर्मणि ल्युट्‌ । शरावेषूद्‌धृत इति । उद्‌धृत्यनेहित इत्यर्थः ।।
स्थण्डिलाच्छयितरि व्रते । 4.2.15 ।।
 शास्त्रित इति । संजातशास्त्र इत्यर्थः । यद्वा---तृतीयासमर्थाद्विधानेऽर्थे `प्रातिपदिकाद्धत्वर्थे' इति णिच्‌, कर्मणि क्तः, शास्त्रेण विहित इत्यर्थः । स्थण्डिले शयितुं व्रतमस्येति । तुमुनत्र वक्तव्यः; व्रतस्याक्रियारूपत्वात्‌ ।।
संस्कृतम्भक्षाः ।। 4.2.16 ।।
संस्कृतमित्येतत् कर्मसामान्ये व्युत्पाद्यते, तेन नपुंसकलिङ्गमेकवचनं च, भक्षा इत्येतत्तु अपूपाद्यभ्यवहार्यविशेषे व्युत्पाद्यते, तेन पुलिङ्गं बहुवचनं च । तत्र वाक्यार्थगम्यस्यार्थस्य पदसंस्कारेऽनुपयोगात्संस्कृतमित्येनद्भवति, अत एव विरम्य सम्बन्धं दर्शयति---यत्तत्संस्कृतम्भक्षास्ते चेद्‌ भवन्तीति, अणौ यत्कर्म णौ चेत् स कर्तेतिवत्‌, तच्छब्दस्य प्रतिनिर्दिश्यमानलिङ्गता । खरविशदमिति । खरम्= कठिनम्, विशदम्= विभक्तम् । भक्षशब्देनोच्यत इति । यद्यप्यब्भक्षो वायुभक्ष इति भक्षयतेरन्यत्रापि प्रयोगः, भक्षशब्दस्तु तत्रैव प्रसिद्ध इति भावः ।।
शूलोखाद्यत्‌ ।। 4.2.17 ।।
शूलोखादिति । समाहारद्वन्द्वः, उखा=पात्रविशेषः । यस्तु स्वाङ्गवाच्युखाशब्दस्तस्येह ग्रहणं न भवति; स्वाङ्गे संस्कर्तव्यस्याभावात्‌ । कथमुख्योऽग्निरिति । न ह्यसौ भक्षः, भवार्थे दिगादित्वाद्‌ द्रष्टव्यः ।।
दध्नष्ठक्‌ ।। 4.2.18 ।।
इह तु दधि केवलमाधारभूतमिति । यथा शूरे संस्क्रियमाणस्यमांसस्य शूलम् । यद्यप्यत्र दध्यपि संस्कारकम्, तथापि न तद्विवक्षितम्, किन्तु तदाधारस्य द्रव्यान्तरेण यः संस्कारः स एव विवक्षित इति भावः ।।
उदश्वितोऽन्यतरस्याम् ।। 4.2.19 ।।
औदश्वित्क इति । `इसुसुक्तान्तात्कः' ।।
क्षीराड्‌ढञ्‌ ।। 4.2.20 ।।
अत्र संस्कृतमित्येव सम्बध्यते, न भक्षा इति; तेन यवाग्वामपि भवति । क्षेरैयीति । `टिड्ढाणञ्' इत्यादिना ङीप्‌ ।।
सास्मिन्पौर्णमासीति संज्ञायाम् ।। 4.2.21 ।।
ततश्चेद्विवक्षेति । ततः प्रत्ययान्ताल्लोकस्य विवक्षा भवति चेद्‌ एवं प्रत्ययो भवति, नान्यथेत्यर्थः । संज्ञायामिति समुदायोपाधिरिति । एतदेव स्पष्टयति---प्रत्ययान्तेन चेदिति । पौषी पौर्णमासीति । `लुबविशेषे' इति पौर्णमास्यां लुब्न भवतीति पूर्वमेवोक्तम् । भृतकमासे चेति । भृता एव भृतकाः, कर्मकरास्तेषां यो मासः कर्मकरणादारभ्य त्रिशद्रात्रलक्षणः स यदा पौष्या पौर्णमास्या तद्वान्‌ भवति । वस्तुतश्च न माघादिव्यपदेशभाक्‌ तत्रेत्यर्थः ।
तुल्यमेव फलमिति । कि पुनस्तदित्याह---प्रयोगानुसारणमिति । ण्यर्थाल्ल्यट्‌ । संज्ञाशब्देन तुल्यतामिति । तुल्यफलतामित्यर्थः । इति कणस्य ज्ञापयितुमिति । किं पुनरिदं ज्ञापकसाध्यम् ? तत्राह---न ह्ययमिति । ज्ञापनस्य प्रयोजनं दर्शयति--संज्ञार्थत्वे त्विति । संज्ञाब्देन तुल्यफलत्वे इत्यर्थः । प्रवृत्तिभेदेन चायमर्थो ज्ञाप्यत इति । संज्ञायामिति द्वितीयाप्रवृत्तिः, इह शाल्त्रे `संज्ञायाम्' इत्यस्यार्थे इतिशब्दो वेदितव्य इति परिभाषा सम्पद्यते ।
पूर्णमासादणिति । पूर्णो मासोऽस्यां तथाविति बहुव्रीहौ प्रज्ञादेराकृतिगणत्वादस्मादेव वा निपातनादण्‌ । मा इति चन्द्रमा उच्यत इति । चन्द्रमश्शब्दैकदेशप्रयोगः, सत्याभामा भामेतिवत्‌ ।।
आग्रहायण्यश्वत्थाट्‌ठक्‌ ।। 4.2.22 ।।
अग्रे हायनमस्या इत्याग्रहायणी, प्रज्ञादेराकृतिगणत्वादण्‌, `पूर्वपदात्संज्ञायाम्' इति णत्वम् । अश्वत्थेन युक्ता पौर्णमासी अश्वत्थ इति । निपातनात्पौर्णमास्यामपि लुप्‌ ।।
सास्य देवता ।। 4.2.24 ।।
यागसम्प्रदानं देवतेति । यद्यपि देवशब्दो मनुष्यादिवज्जातिवचनः, स्वार्थिकश्च तल्‌; तथापि समुदायशक्त्या देवताशब्दो यागे दर्श पूर्णमासौ यद्यत्सम्प्रदानत्वेन चोदितं तत्र सर्वत्र वर्तते, न स जातिविशेष इत्यर्थः । देयस्य पुरोडाशादेः स्वामिनीति । दिवेरैश्वर्यकर्मणो देवताशब्दव्युत्पत्ति दर्शयति, एवं च कृत्वा `वाय्वृतुपित्रुषसो यत्‌',`कालेभ्यो भववत्‌' इति वचनमुपपद्यते, न ह्यृतुषु पितृषु उषसि वा जातिरस्ति । तथा पितृदेवत्यम्, देवदेवत्यमिति प्रयोगोऽप्येवमेवोपपद्यते ।
कथमिति । पुरोडाशादिकस्य देयस्याभावादिन्द्रस्य सम्प्रदानत्वं नास्तीति प्रश्नः । मन्त्रस्तुत्यामपीत्यादि । नानेनौपचारिकत्वं प्रयोगस्योच्यते, अपि तु मुख्य एव प्रयोगः, यागसम्प्रदाने सार्वलौकिकः प्रयोगः, अयं तु नैरुक्तानामित्येतावान्विशेषः । उपचरन्तीति ब्रुवते, प्रयुञ्जत इत्यर्थः ।
कथमित्यादि । पूर्वोक्तं प्रकारद्वयमत्र नास्तीति प्रश्नः । उपेमानादिति । काषायौ गर्दभस्य कर्णावितिवद्‌ गौणोऽयं प्रयोग इत्यर्थः । सेति प्रकृत इति । प्रकृतं हि साग्रहणं संज्ञया सम्बद्धमिति तदनुवृत्तौ संज्ञाया अप्यनुवृत्तिः स्यात्‌ ।।
कस्येत्‌ ।। 4.2.25 ।।
किमो विभक्तौ कादेशं कृत्वा कस्येति निर्दिष्टमित्याशङ्कामपनयति---कशब्द इति । एवं च कृत्वा कायानुब्रूहीति सम्प्रैषः । कस्मै अनुब्रूहीति, `न कस्मै देवाय हविषा विधेम' इति तु छान्दसः स्मैभावः, यदिन्द्राग्नी अवमस्यामित्यादिवत्‌ । कायमिति । इत्वे कृते यस्येति लोपः प्राप्तः परत्वादादिवृद्ध्या बाध्यते, श्रीर्देवतास्य श्रायमितिवत् । `सोमाट्‌ट्यण्‌' इत्यत्र कग्रहणे च क्रियमाणे यद्यपि यस्येति लोपात्परत्वाद्‌ वृद्धिर्भवति, कृतायामपि वृद्धौ यस्येति लोपः स्यादेव ।।
अपोनप्त्रपान्नप्तृभ्यां घः ।। 4.2.27 ।।
अपोनपात्‌ अपांनपादिति देवतानामधेये इति । पृषोदरादित्वादनयोः साधुत्वम् । तयोस्तु प्रत्ययसन्नियोगेनेति । एवं च अपोनपाते अनुब्रूहि, अपांनपातेऽनुब्रूहि, अपोनपात्तं यज, अपां नपातं यजेति सम्प्रैषः । वेदे तु अपोनप्त्रे स्वाहेति छान्दसः प्रयोगः ।।
छ च ।। 4.2.28 ।।
योगविभाग इत्यादि । पूर्वसूत्र एव छग्रहणे सति घच्छौ द्वौ प्रत्ययौ, प्रकृती अपि द्वे इति स्यात्सङ्ख्यातानुदेशः । शतरुद्रीयमिति । शतशब्दोऽनन्तवचनः, शतं रुद्रा देवताऽस्येति घच्छौ, तयोविधानसामर्थ्याद्‌ `द्विगोर्लुगनपत्ये' लुग्न भवति ।।
महेन्द्राद्‌घाणो च ।। 4.2.29 ।।
सौमीति । टित्त्वान्ङीप्‌, `हलस्तद्धितस्य' इति यलोपः ।।
वाय्वृतुपित्रुषसो यत्‌ ।। 4.2.31 ।।
वायव्यमिति । `ओर्गुणः', `वान्तो यि प्रत्यये' पित्र्यमिति । `रीङृतः' इति रीङ्‌, यस्येति लोपः ।।
द्यावापृथिवीशुनासीरमरुत्त्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च ।। 4.2.32 ।।
अणो ण्यस्य चापवाद इति । वास्तोष्पतिशब्दात्पत्युत्तरपदस्य ण्यस्यापवादः, शेषेभ्योऽणः । द्यावापृथिव्याविति । `दिवो द्यावा', `दिवसश्च पृथिव्याम्' इति द्यावादेशः । शुनासीराविति । `देवता द्वन्द्वे च' इत्यानङादेशः । शुनो वायुः, सीर आदित्य इति । अन्ये तु एकमेव शुनसीरमिन्द्रस्य, गुणममन्यन्त, यथाहश्वलायनः---`इन्द्रो वा शुनासीरः' इति । मन्त्रलिङ्गञ्च भवति---इन्द्रं वयं शुनासीरमस्मिन्यज्ञे हवामहे' इति । मरुतोऽस्य सन्ति मरुत्वानिन्द्रः । अग्नीषोमीयमिति । `ईदग्नेः सोमवरुणयोः' वास्तोः पतिर्वास्तोष्पतिः, अस्मादेव निर्देशात्साधुः । गृहमेधशब्दमकारान्तं बह्‌वृचा मन्यन्ते । `मरुद्भ्यो गृहमेधेभ्य उत्तरा' इत्याश्वलायनः । `गृहमेधास आगता' इति च मन्त्रलिङ्गम् । `मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायमोदनम्' इति तु तैत्तिरीयकम् । तत्र देकारान्तो नकारान्तो वेति विप्रतिपन्नाः ।।
अग्नेर्ढक्‌ ।। 4.2.33 ।।
कलेर्ढगित्यत्रोक्तमेवार्थं स्मरयति---प्राग्दीव्यतीयेष्विति ।।
कालेभ्यो भववत्‌ ।। 4.2.34 ।।
कालविशेषवाचिभ्य इति । स्वरूपग्रहणं तु न भवति; बहुवचननिर्देशात्‌ । वत्कारणमित्यादि । असति वत्करणे `कालेभ्यो भवः' इत्युच्यमाने यदि तावदेवं सम्बन्धः, कालेभ्यो भवे ये प्रत्यया विधास्यन्ते ते `सास्य देवता' इत्यत्रार्थे भवन्तीति देवताप्रकृतिरविशेषिता स्यात्‌, ततश्च `कालट्ठञ्‌' इति ठञिन्द्रादेरपि प्राप्नोति । अथ पुनरेवं सम्बन्धः---भवे ये प्रत्यया विधास्यन्ते ते भवन्ति कालेभ्यो देवताभ्य इति ? एवमपि भवप्रत्यया न विशेषिताः स्युः, ततश्च `दिगादिभ्यो यत्‌' इति यत्‌ प्रत्ययोऽपि भवे विहितः कालवाचिभ्योऽस्मिन्नर्थे प्राप्नोति । अथाप्येवं सम्बन्धः---कालेभ्यो भवे ये प्रत्ययास्ते भवन्ति, कालेभ्य एव देवतार्थे इति तत्र सकृत्‌ श्रुतस्य तस्य कालशब्दस्यैवमुभयसम्बन्ध एव तावद्‌ दुर्लभः । अथापि लभ्येत, एवमपि यः कश्चित्कालाद्भवे प्रत्ययो यतः कुतश्चिदेवतायाः स्याद्‌ ऋतुभ्योऽण्‌ मुहूर्त्तादेरपि प्राप्नोति । वतिनिर्देशे तु सति सादृश्यपरिग्रहो भवति, तेन याभ्यः प्रकृतिभ्यो येन विशेषणेन भवेऽर्थे विधास्यन्ते ये प्रत्ययाः, इहापि ताभ्य एव प्रकृतिभ्यस्तेनैव विशेषणेन त एव प्रत्यया भवन्तीति न किञ्चिदनिष्टम् ।।
महाराजप्रोष्ठपदाट्‌ठञ्‌ ।। 4.2.35 ।।
महाराजो वैश्रवणः, प्रोष्ठपदशब्दात्पूर्वेण नक्षत्राणि प्राप्ते वचनम्, नवयज्ञ आग्रयणम् । पूर्णमासादणिति । अस्मिन्वर्तत इत्येव । पौर्णमासीति । पूर्णो मासोऽस्या तिथौ वर्तत इति विग्रहः, एषेव च व्युत्पत्तिः `सास्मिन्पौर्णमासी' इत्यत्रापि दर्शिता ।।
पितृव्यमातुलमातामहपितामहाः ।। 4.2.36 ।।
पितृमातृभ्यामिति । स्वरूपपदार्थकत्वेनाभ्यर्हितत्वे विशेषाभावाल्लघ्वक्षरस्य पूर्वनिपातः, अयोनिसम्बन्धवाचित्वादनङोऽभावश्च । डामहजिति । कथं तर्ह्याकारेऽवग्रहः---माता + महः, पिता + मह इति ? तसमान्महप्रत्ययः पितृमातृभ्यां निपातितस्तयोश्चानङादेश इति केचित्‌ । वृत्तिकारस्तु संहितापाठस्यैव नित्यत्वात्‌ `नलक्षणेन पदकारा अनुवर्त्त्याः' इति न्यायेनावग्रहो मा कारीति मन्यते । मातरि षिच्छेति । षित्त्वमुपसङ्ख्येयमित्यर्थः । न पुनः षकारोऽनुबन्धः कर्तव्य इति देशाभावात्‌---मातामहा इत्यपि मन्त्रे दृश्यते ।
अवेर्दुग्ध इति । दुग्धं क्षीरम् । सोढादीनाम् `आदेशप्रत्यययोः' इति षत्वं न भवति, सकारोच्चारणसामर्थ्यात्‌ ।
निष्फलस्तिल इति । सस्यावस्थायां फलरहित उच्यते, धान्यावस्थायां प्रयोजनशून्य इत्यन्ये ।।
तस्य समूहः ।। 4.2.37 ।।
सर्वस्यैव विषयस्यापवादैरवष्टब्धत्वात्पृच्छति---किमिहोदाहरणमिति । काकशुकवकशब्दा आद्युदात्ताः `प्राणिनां कुपूर्वाणाम्' इत्यनेन, अस्यार्थः---व्यधिकरणे षष्ठ्यौ, अथादिः प्राक्‌ शकटेरित्यत आदिरित्यनुवृत्तं षष्ठीबहुवचनान्तं विपरिणम्यते, प्राणिवाचिनां ये आदिभूताः कवर्गात्पूर्वे अचस्तेषामुदात्तो भवतीति । तत्र शौकमित्यनुदाहरणम् ; खण्डिकादिषु पाठात्‌ । वकशब्दस्तूदाहार्यः ।।
भिक्षादिभ्योऽण्‌ ।। 4.2.38 ।।
अण्ग्रहणं बाधकबाधनार्थमिति । भिक्षाशब्दोऽयम् `गुरोश्च हलः' इत्यकारप्रत्ययान्तत्वादन्तोदात्तः, ततः `अनुदात्तादेः' इत्यञ्‌ अणो बाधकः प्राप्नोति, तस्य बाधनार्थमण्ग्रहणम् । ननु च यद्यत्राञ्‌, स्यात्पुनर्वचनमनर्थकं स्यात्‌ ? नानर्थकम्; परत्वादचि तत्तल्लक्षणष्ठक्‌ प्राप्नोति, तद्वाधनार्थमत्र पुनर्वचनं स्यादित्यञ्‌ स्यादेव, पुनरण्ग्रहणादणेव भवति । गार्भिणमिति । `भस्याऽढे तद्धिते' इति पुंवद्भावेन ङीपो निवृत्तिः, ततोऽणि `इमण्यनपत्ये' इति प्रकृतिभावात्‌ `नस्तद्धिते' इति टिलोपाभावः । तस्य ग्रहणसामर्थ्यात्पुंवद्‌भावो न भवतीति । यदि स्यात्‌, `सिद्धत्वात्प्रत्ययविधौ' इति वचनादनुत्पन्न एव तद्धिते पुंवद्भावेन भवितव्यम् । युवशब्दश्च' कनिन्युवृष' इति कनिन्प्रत्ययान्तत्वादाद्युदात्त इत्यौत्सगिक एवाण्‌ सिद्ध इति तस्येह पाठोऽनर्थकः स्यात्‌ । यौवतमिति । यथा तु वात्तिकं तथा पुंवद्भाव इष्यते । आह हि---`भिक्षादिषु युवतिग्रहणानर्थक्यं पुंवद्भावस्य सिद्धत्वात्‌ प्रत्ययविधौ' इति ।।
गोत्रोक्षोष्ट्रोरभ्रराजाराजन्यराजपुत्रवत्समनुष्याजाद्‌ वुञ्‌ ।। 4.2.39 ।।
अपत्याधिकारादन्यत्रेति । यद्येवम्, राजन्यमनुष्ययोरुपादानमनर्थकम्, गोत्र इत्येवसिद्धम् । न तावपत्यप्रत्ययान्तौ; जातेः प्रत्ययार्थत्वात्‌ । उक्तं हि---`राज्ञोऽपत्ये जातिग्रहणम्, मनोर्जातावञ्यतौ षुक्चेति । किंतर्ह्युच्यते `प्रकृत्याऽके राजन्यमनुष्ययुवानः' इति यलोपो न भवतीति, यावताऽनापत्ययकारत्वेनैव न भविष्यति ? सत्यम् ; अपत्यार्थत्वमभ्युपेत्यैतदुच्यते । यद्यपत्यार्थत्वमभ्युपेयते, राजन्यमनुष्ययोर्ग्रहणमनर्थकम् ? नानर्थकम्; ज्ञापनार्थत्वात्‌, एतज्‌ ज्ञापयति---नैतयोरपत्यकृतं भवतीति, तेन यलोपो न भवति, सर्वथा `प्रकृत्याऽके राजन्यमनुष्ययुवानः' इति न वक्तव्यम् । औपगवकमिति । यथात्र परोऽप्यनुदात्तादेरञ्‌ न भवति, तथा `खण्डिकादिभ्यश्च' इत्यत्र वक्ष्यते ।।
ब्राह्मणमाणववाडवाद्यन्‌ ।। 4.2.42 ।।
नकारः स्वार्थ इति । `ञ्नित्यादिर्नित्यम्' इत्याद्युदात्तत्वं यथा स्यात्‌ । किमर्थं पुनर्ब्राह्मणादिभ्यो यन्विधीयते, न प्रकृतो यञेव विधीयते, न हि वृद्धेषु यञो यनो वा विशेषोऽस्ति---तदेव रूपम्, स एव स्वरः, ठञस्त्वस्वरितत्वादननुवृत्तिः ? ज्ञापनार्थं तु । एत़ज्‌ ज्ञापयति---अन्येभ्यऽप्ययम् । किं सिद्धं भवति ? पृष्ठादुपसङ्ख्यानं चोदयिष्यति तन्न वक्तव्यं भवति ।
पृष्ठानां समूह इति । पृष्ठशब्दः स्तुतिविशेषवचनः । पृष्ठ्यः षडह इति । तद्वति तदुपचारः ।
णस्वक्तव्य इति । सकारः पदसञ्ज्ञार्थः, तेन पार्श्वमित्यत्र भत्वाभावादोर्गुणो न भवति ।।
अनुदात्तादेरञ्‌ ।। 4.2.44 ।।
अचित्तात्परत्वाद्‌ ठका भवितव्यमिति । चित्तवन्त उदाहृताः, कपोतमयूरशब्दौ `लघावन्ते' इति मध्योदात्तौ, इगुपधात्कः, तरतेः सन्वत्तुक्‌ चाभ्यासस्येति किप्रत्ययान्तस्तित्तिरिशब्दः प्रत्ययस्वरेणान्तोदात्तः । सन्वद्भावेनाद्युदात्तत्वं न भवति; `उणादयो बहुलम्' इति बहुलवचनात्‌ ।।
खण्डिरकादिभ्यश्च ।। 4.2.45 ।।
क्षुद्रकाश्चेति । क्षुद्रकस्यापत्यानि, जनपदशब्दादिति विहितस्य तद्राजस्य लुक्‌, मालवात्तु वृद्धलक्षणस्य ञ्यङः । पूर्वेणाञि सिद्धे इति । समासान्तोदात्तत्वे सति शेषनिघातेनानुदात्तादित्वात्‌ ।।
ननु च परत्वादिति । अभ्युपेत्य गोत्रत्वमेतदुक्तम्, तदेव तु नास्तीत्याह---न च गोत्रसमुदायो गोत्रमिति । तत्र च यथा जनपदसमुदायो जनपदग्रहणेन न गृह्यत इति काशिकोसलाया इत्यत्र छ एव भवति, न जनपदलक्षणो वुञ्‌, तद्वदत्रापि गोत्रलक्षणो वुञ्‌ न प्राप्नोतीति भावः । स्यादेतत्‌---मा भूत्समुदायो गोत्रम्, मालवशब्दस्तु गोत्रं भवति, ततश्च तदन्तविधिना समुदायादपि वुञ्प्राप्नोतीति ? तत्राह---न चेति । `येन विधिस्तदन्तस्य' इत्यत्र हि `समासप्रत्ययविधौ प्रतिषेधः' इत्युक्तम् । एवं तर्हीत्यादि । कथमेकेन यत्नेनोभयं शक्यं ज्ञापयितुम् ? शक्यमित्याह, अन्यथानुपपत्त्या ज्ञापकं भवति, उभयेन च विना नास्मादञ्विधानमुपपद्यत इति । किमात्रानुपपन्नम् ? तत्र पूर्वविप्रतिषेधज्ञापनस्य प्रयोजनमौपगवकं कापटवकमिति । वुञोऽवकाशः यदाद्युदात्तम्---ग्लुचुकस्यापत्यं ग्लुचुकायनिः, `प्राचामवृद्धात्फिन्‌' तेषां समूहो ग्लौचुकायनकमिति; अञस्तु कापोतमित्याद्यगोत्रमवकाशः; गोत्रादनुदात्तादेरुभयप्रसङ्गे परत्वादञ्‌, स्यात्‌, अस्मात्तु ज्ञापकाद्‌ वुञेव भवति । तदन्तविधिज्ञापनस्य प्रयोजनम्---वनहस्तिनां समूहो वानहस्तिकम् । गौधेनुमिति । `जङ्गलधेनुवलजानतस्य' इत्युत्तरपदवृद्धिविकल्पः ।
पुनरस्यैव नियमार्थत्वं वर्णयिष्यन्‌ कथमेकेन यत्नेनोभयं लभ्यम्---ज्ञापनं च नियमश्च ? इत्याशङ्क्याह---क्षुद्रकमालवादित्येतावतेति । योगविभागेन यत्नद्वयमाश्रीयत इत्यर्थः । क्षौद्रकमालवी, क्षौद्रकमालवकमिति । उभयत्रापि मालवादुत्पन्नस्य ञ्यङः `गोत्रेऽलुगचि' इति लुकि प्रतिषिद्धे `आपत्यस्य' इति यलोपः ।
अञ्सिद्धिरित्यादि अनुदात्तादेरिति । हेतुगर्भं विशेषणम्; यतोऽयं क्षुद्रकमालवशब्दोऽनुदात्तादिस्तेन तस्यादनुदात्तादेरित्येवाञः सिद्धिरस्ति । कोर्थः तस्य गणपाठेनेति शेषः । न किञ्चित्प्रयोजनम् इत्यर्थः । गोत्रलक्षणो वुञ्‌ प्राप्नोति, अतस्तद्वाधनार्थः पाठ इति चेत्तत्राह---गोत्राद्‌वुञिति । गोत्राद्‌वुञ्‌ विधीयते, न च तत्क्षुद्रकमालवेतिशब्दरूपगोत्रमित्यर्थः । तदन्तादिति । मालवशब्दस्य गोत्रत्वात्तदन्तविधिना प्राप्नोत्येव । न स सर्वत इति । आद्यादित्वात्सप्तम्यन्तात्तसिः, स तदन्तविधिः सर्वत्र न भवतीत्यर्थः । तदन्तत्वे इति । तदन्तविधिरस्तीत्यस्मिन्नर्थ इत्यर्थः । तथा चेति । धेनुरनञिकमुत्पादयतीति आपिशलेः सूत्रम् । अत्र वृद्ध्यर्थोऽनुबन्धो मृग्यः, इकस्यैव चेसुसुक्तान्तात्परस्य कादेशो द्रष्टव्यः । अर्थमात्रं वा भाष्कारेण निर्दिष्टम् । इकगिति ठकमित्यर्थः । धेनूनां समूहो धैनुकम् । अनञिति किम् ? अधेनूनां समूह आधेनवम्, उत्सादिपाठादञ्‌ । यद्यपि धेनुशब्दः सूत्रे पठ्यते, तथापि बष्कयास इति लिङ्गादधेनुशब्दादपि भवति । तत्र यदि सामूहिकेषु तदन्तविधिर्न स्यात्‌, अनञिति प्रतिषेधोऽर्थकः स्यात्‌ ।
प्रयोजनान्तरमप्याह---सेनायामिति । यथेति । पूर्वविप्रतिषेधेन वुञाऽञो बाधा यथा स्यादित्येवमर्थश्च तस्य गणे पाठ इत्यर्थः । उलूकशब्दोऽत्र पठ्यते स `लघावन्ते' इति मध्योदात्तः । छन्दसि तु यदुलूको वदति मोघमेतत्, इत्था उलूक आपप्तदिति यदाद्युदात्तत्वम्, तच्छान्दसम् । भाषायां तु मध्योदात्तमेव, तत्र पूर्वेणैवाञ्‌ सिद्धः, तस्मादेवं वक्तव्यम्---औलूक्यशब्दो गर्गादियञन्तः, यतः `यञञोश्च' इति बहुषु लुकि कृते रूपम्, तदिह पठ्यत इति । असति हि तस्य पाठे उलूकानां समूह इत्यर्थविवक्षायां `गोत्रेऽलुगचि' इति लुकः प्रतिषेधादौलुक्यशब्दाद्‌ गोत्राश्रयो वुञ्प्रप्नोति । शुकशब्दोऽत्र पठ्यते, `तस्य समूहः' इत्यत्र तु `यस्य च नान्यत्प्रतिपदविधानमस्ति' इत्युक्त्वोदाहृतम्--काकं शौकमिति, तस्मात्तत्र शौकमित्यस्य स्थाने बाकमिति पठितव्यम् । बकशब्दः `प्राणिनां कुपूर्वाणाम्' इत्याद्युदात्तः । युगवरत्रेति पठ्यते, तत्सङ्घातविगृहीतार्थमिच्छन्ति---यौगवरत्रम्, यौगम्, वारत्रमिति, तत्र सङ्घातपक्षे `जातिरप्राणिनाम्' इति द्वन्द्वैकवद्भावे नपुंसकह्रस्वत्वे सति युगवरत्रेति दीर्घनिर्देशोऽनुपपन्नः, तस्माद्युगसहिता वरत्रेति समासः कर्तव्यः, जातिपरत्वाभावाद्वा एकवद्भावाभावः ।।
चरणेभ्यो धर्मवत्‌ ।। 4.2.46 ।।
गोत्रचरणाद्‌वुञित्यारभ्य प्रत्यया वक्ष्यन्ते इति । ननु च न तत्र धर्मग्रहणमस्ति, तत्कथं धर्मवदित्यतिदेशो युज्यत इत्याह---तत्रेदमिति । इदमेव धर्मवदितिवचनं लिड्गमस्ति, तत्र चरणाद्धर्माम्नाययोरिति । वतिः सर्वसादृश्यार्थ इति । असति तस्मिन्‌ `चरणेभ्यो धर्मः' इत्युच्यमाने यदि तावदेवं सम्बन्धः, चरणेभ्यो धर्मे ये प्रत्यया विधास्यन्ते ते भवन्ति, समूह इति समूहप्रकृतिरविशेषिता स्यात्‌, ततश्च काकादिभ्योऽपि वुञादयः प्रसज्येरन्‌ । अथ पुनरेवं सम्बन्धः---धर्मे ये प्रत्यया विधास्यन्ते ते चरणेभ्यः समूहे भवन्तीति ? एवमपि धर्मप्रत्यया न विशेषिताः स्युः, ततश्च `तस्येदम्' इति विधास्यमाना अणादयोऽपि कठादिभ्य आपद्येरन्‌ । अथाप्येवं सम्बन्धः---चरणेभ्यो धर्मे ये प्रत्ययास्ते भवन्ति चरणेभ्य एव समूह इति ? तत्र सकृत्‌ श्रुतस्य चरणशब्दस्यैवमुभयसम्बन्ध एव तावद्‌ दुर्लभः, अथापि लभ्येत ? एवमपि यः कश्चिद्धर्मे प्रत्ययो यतः कुतश्चिच्चरणशब्दात्स्यात्‌, `कौपिञ्जलहास्तिपदादण्‌' कठादिभ्योऽपि स्यात्‌, वतिनिर्देशे तु सति सर्वसादृश्यपरिग्रहो भवति । तेन याभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया धर्मे विधास्यन्ते, इहापि ताभ्यः प्रकृतिभ्यस्तेनैव विशेषणेन त एव भवन्तीति न किञ्चिदनिष्टम् । काठकम्, कालापकमिति । गोत्रचरणाद्वुञ्‌ । छान्दीग्यमिति । `छन्दोगौक्थिक' इति ञ्यः । आथर्वणमिति । `आथर्वणिकस्येकलोपश्च' इत्यण्‌, इकलोपश्च ।।
अचित्तहस्तिधेनोष्ठक्‌ ।। 4.2.47 ।।
अणञोरपवाद इति । अचित्तार्थेषु येननाप्राप्तिन्यायेनाणोऽपवादः । कपोतादिषु चित्तवत्सु चरितार्थस्याञोऽपि परत्वाद्वाधक इत्यर्थः । हस्तिधेनुशब्दयोस्तु प्रत्ययस्वरेणान्तोदात्तयोरनुदात्तादिलक्षणस्याञोऽपवादः । हस्तिशब्दः `हस्ताज्जातौ' इतीनिप्रत्ययान्तः । धेनुशब्दः `घेटोऽनुश्च' इति नुप्रत्ययान्तः । आधेनवमिति । अत्सादिपाठादञ्, `जङ्गलधेनुवलजान्तस्य' इति पक्षे वृद्ध्यभावः ।।
पाशादिभ्यो यः ।। 4.2.49 ।।
यप्रत्यययान्तं स्वभावतः स्त्रीलिङ्गम् । वातशब्दोऽत्र पठ्यते---वातानां समूहो वात्या, पृथग्वातादर्शनादयुक्तोऽत्र समूहः, तस्माच्छीघ्रत्वे प्रत्ययो वक्तव्यः ? नैष दोषः; एकस्यापि वातावयविनो दिग्भेदेन भेदोऽध्यारोपः, तदाश्रयश्च समूहः । अथ वा---प्रतिदिशं वातावयविन एव भिद्यन्ते, तथा च प्रतिभासः---वूर्वोवातः, उत्तरो वातः, सर्वतो वान्ति वाता इति । आह च---वायोर्वायुसम्मूर्छनं नानात्वे लिङ्गमिति ।
खलगोरथात्‌ ।। 4.2.50 ।।
अथ कस्मात्खलादयोऽपि पाशादिष्वेव न पठिताः, एवं हि विभक्तिर्नोच्चारयितव्या भवति ? तत्राह---पाशादिष्वपाठ इति ।।
इनित्रकट्यचश्च ।। 4.2.51 ।।
योगविभागो यथासङ्ख्यार्थः, अन्यता हनित्रकट्यचस्त्रयश्चकाराद्यश्चेति चत्वारः प्रत्ययाः, प्रकृतयस्तु तिस्र इति वैषम्यं स्यात्‌ ।
खलादिभ्य इति । खलादयः प्रयोगतो गम्याः । एतेऽपि प्रत्ययाः स्वभावतः स्त्रियामेव ।।
विषयो देशे ।। 4.2.52 ।।
ननु च विषयस्य देशत्वाव्यभिचाराद्‌ देश इति विशेषणं व्यर्थमित्यत आह---विषयशब्दोऽयमिति । अत्यन्तशीलितः=अत्यन्ताभ्यस्तः । तत्र देशग्रहणं ग्रामसमुदायप्रतिपत्त्यर्थमिति । यद्येवम्, देशग्रहणमेवास्तु मा भूद्विषयग्रहणम् ? नैवं शक्यम्; देशशब्दोऽपि नानार्थः, देशनं देश इति क्रियाशब्दस्यापि भावात्‌ । शिबीनां विषयो देशः शैब इति । कथं शिबयो देश इति ? निवासविवक्षायाम् `तस्य निवासः' `जनपदे लुप्‌' इति लुपि भविष्यति । नन्वर्थभेदो भवति, शिबीनां निवासो जनपद इत्यत्र स्वास्वामिभावो न प्रतीयते, अन्यदीयेऽपि जनपदे निवाससम्भावत्‌; शिबीनां विषय इत्यत्र तु स्वस्वामिभावः प्रतीयते, न तु निवासार्थः, तत्रावसतामपि स्वामित्वसम्भवात् ? सत्यम् ; य एवासौ येषां विषयस्तत्रैव तेषां निवासे जनपदे लुप्‌ स्मर्यते, न निवासमात्रे । अत्र चाभिदानस्वाभाव्यं हेतुः । एवं च शिबीनां विषयः शैब इत्यत्रार्थे विबय इत्यपि भवति । एवं वसातीनां विषयो वासातः, तेषामेव निवासो वसातयः । तथा गान्धारीणां विषयो गान्धारः, निवासो गान्धारयः । अङ्गाः, वङ्गा, स्रुघ्नाः पुण्ड्रा इति---निवासरूपतैव विवक्ष्यते, न विषयरूपता ।
एषं राजन्यादिब्यो वुञित्यत्रापि विषयविवक्षायां राजन्यकम्, निवासो राजन्याः । तत्रैव बैल्वतादिषु विषयविवक्षैव, तेन बैल्वतकम्, आम्बरीषपुत्रकमित्याद्येव भवति । सर्वत्र चाभिधानशक्तिरेव हेतुः, तदाह---विषयाभिधाने जनपदे लुप्‌, बहुवचनविषयाद्‌ गान्धार्यादिभ्यो वा राजन्यादिभ्यो नित्यम्, न वाभिधेयस्य निवासविषयत्वात्‌ । निवासविवक्षायां लुप्‌, विषयविवक्षायां तु प्रत्यय इति ।।
सोऽस्यादिरितिच्छन्दसः प्रगाथेषु ।। 4.2.55 ।।
छन्दस इति न स्वरूपग्रहणम्, नापि मन्त्रब्राह्मणयोः, कस्य तर्हि ? अक्षराणामियतावचनश्छन्दः शब्दोऽस्ति, यस्य जगत्यादयो विशेषास्तस्य ग्रहणम् ; प्रागाथानामादौ तस्यैव सम्भवात्‌, तेन पङ्‌क्त्यादिशब्देभ्यः प्रत्ययः । यत्र द्वे ऋचौ तिस्रः क्रियन्त इति चतुर्थषष्ठौ पादौ बार्हतो प्रगाये पुनरभ्यसित्वोत्तरयोरवस्येदित्येवमादिना प्रकारेण । तद्यथा---यज्ञायज्ञा वः प्रियं मित्रं न शंसिषों प्रियं मित्रं न शंसिषमूजे निपातमिति । तत्र योऽयमुच्चारणप्रकारस्तद्‌ग्रथनम् । प्रग्रथनादिति । प्रगाथशब्दप्रवृत्तिनिमित्तं दर्शयति, प्रग्रथ्यत इति प्रगाथः, `अकर्तरि च कारके' इति कर्मणि घञ्‌, पृषोदरादित्वाद्रेफनकारयोर्लोपः । प्रागाणाद्वेति । `कृत्यचः' इति णत्वम्, `कौ गौ शब्दे', प्रगीयत इति प्रगाथः, `उषिकुषिगर्तिभ्यस्थन्‌' । त्रैष्टुभमिति । कुटीर इति स्वार्थिकस्यापि रप्रत्ययस्य यथा भिन्नलिङ्गता, तथेहापि नपुंसकत्वं द्रष्टव्यम् ।।
संग्रामे प्रयोजनयोद्‌धृभ्यः ।। 4.2.56 ।।
`समर्थानां प्रथमाद्वा' इति वचनात्संग्रामवाचिभ्यः प्रत्ययः प्राप्नोति, न प्रयोजनयोद्‌धृभ्यश्चरमनिर्दिष्टेभ्य इत्याशङ्क्याह--सोऽस्येति समर्थविभक्तिरित्यादि । प्रथमासमर्थविशेषणमिति । तेन विशेष्यद्वारेण प्रयाजनयोद्धार एव प्रथमनिर्दिष्टाः । प्रत्ययार्थविशेषणं संग्राम इति । तेन तद्‌द्वारेण संग्रामश्चरमनिर्दिष्टः ।।
घञः सास्यां क्रियेति ञः ।। 4.2.58 ।।
अस्यामिति प्रत्ययार्थः स्त्रीलिङ्ग इति । तेन लिङ्गस्य विवक्षितत्वं दर्शयति । घञन्तात्क्रियावाचिन इति । भावे यो घञ्‌ तदन्तादित्यर्थः । श्यैनम्पातेति । पतनं पातः, श्येनानां पात इति कर्तरि षष्ठ्याः समासः, ततो ञः, `श्येनतिलस्य पाते ञः' इति मुम् । प्राकार इति । द्रव्यवचनोऽयं कर्मणि घञन्तः, `उपसर्गस्य घञ्यमनुष्ये बहुलम्' इति प्रशब्दस्यदीर्घत्वम् । सामान्येन चेदं विधानमिति । एतदेवोदाहरणेन द्रढयात---दणअडपात इति ।।
तदधीते तद्वेद ।। 4.2.59 ।।
इह योऽयं ग्रन्थमधीते स तं स्वरूपता वेत्ति, यश्च वेत्ति सोऽवश्यमधीते---इत्यन्यतरोपादानेन सिद्धम्, किमर्थमिमावर्थावुपदिश्येते, नैतयोरावश्यकः समावेशः, अध्ययनम् = शब्दपाठः, अर्थावबोधः = वेदनम्, भवति च---कश्चित्संपाठं पठति नार्थं वेत्ति, कश्चिच्चार्थं वेत्ति न संपाठं पठति ।
द्विस्तद्‌ग्रहणमित्यादि । `तदधीते वेद' इत्युच्यमाने समुच्चयो विज्ञायेत, ततश्च यस्तदधीते वेद च तत्रैव स्यात्‌, यस्तु केवलमधीते वेद वा न तत्र स्यात्‌; द्विस्तद्‌ग्रहणे तु वाक्यभेदेनाधीयानविदुषोः पृथक्प्रत्ययविधानं सिध्यति । ननु च `तदस्य तदस्मिन्स्यात्‌' इत्यत्र नानार्थनिर्देशे प्रत्येकं समर्थविभक्तिः सम्बन्धनीयेति द्विस्तद्‌ग्रहणेन न्यायो व्युत्पादयिष्यते, अत एव `तेन दीव्यति' इत्यत्र प्रत्यर्थं प्रत्ययो भवति ? न ब्रूमः---इहैव द्विस्तद्‌ग्रहणमधीयानविदुषोः पृथग्विधानार्थमिति, किं तर्हि ? उत्तरत्र `क्रतूक्थादिसूत्रान्ताठ्ठक्‌', `वसन्तादिभ्यष्टक्‌' इत्यत्रापि, किं च कारणं न स्यात् ? क्रतुशब्दः कर्मनामदेयं वसन्तादयोऽप्यर्थाः, न तेषामध्ययनं सम्भवति, तस्य शब्दविषयत्वात्‌, तत्सहचरिते तु ग्रन्थे सम्भवति, गौणत्वात्तु न गृह्यते, मुख्य एव त्वर्थे वेदनं सम्भवतीति तेभ्यो विदुष्येव स्याद्‌, नाध्येतरि । पुनस्तद्‌ग्रहणात्तु यत्नाद्‌ गौणस्यापि ग्रहणात्तत्रापि भवति ।।
क्रतूक्थादिसूत्रान्ताट्ठक्‌ ।। 4.2.60 ।।
क्रतुविशेषवाचिभ्य इति । स्वरूपस्य तु ग्रहणं न भवति, यदि स्यादुक्थादिष्वेव पठेत् । क्रतुसामान्यवाचिनामपि सोभयागादीनां पर्यायाणां न भवति; उक्थादिषु यज्ञशब्दस्य पाठात्‌ । तस्माद्विशेषवाचिनामेव ग्रहणं तेभ्यो मुख्यार्थवृत्तिभ्यो वेदितरि प्रत्ययः, तत्प्रतिपादनपरग्रन्थवृत्तिभ्यस्त्वध्येतरि । वार्त्तिकसूत्रिक इति । वृत्तौ साधु वार्त्तिकम् `कथादिभ्यष्टक्‌' । वार्त्तिकं च तत्सूत्रं चेति कर्मधारयात्प्रत्ययः । एवं सांग्रहसूत्रिक इति । कल्पसूत्रमिति कर्मधारयः, समाहारद्वन्द्वो वा ।
यज्ञायज्ञीयात्परेणेति । एनपा योगे पञ्चमी चिन्त्या, एनबपि परशब्दात्पाक्षिकः, यदा तद्विधौ `उत्तराधरदक्षिणादातिः' इति नानुवर्तते, दिक्शब्देभ्य इत्येवानुवर्तते । न च तान्यधीयाने प्रत्यय इष्यत इति । ठग्‌, अण्‌---च प्रत्ययद्वयमपि नेष्यते, तेनोक्थान्यधीयत इति वाक्यमेव भवति । अत्र च अभिधानमेव शरणम्, सामलक्षणं प्रातिशाख्यम् । औक्थिक्य इति । औक्थिकानामान्नायः, इदमर्थे `छन्दोगौक्थिक' इति ञ्यः । औक्थिक्यशब्दाच्च प्रत्ययो न भवतीति । अण्प्रत्यय इत्यर्थः, इदं प्रसङ्गादुक्तम् । सूत्रान्तादिति । अत्यल्पमिदमुच्यत इत्याह---विद्यालक्षणकल्पसूत्रान्तादिति वक्तव्यमिति । विद्या चेत्यादिवाक्येनातिप्रसक्तस्यापवादः । अङ्गादिपूर्वो विद्याशब्दः प्रत्ययं नोत्पादयतीत्यर्थः । त्रैविद्य इति । त्र्यवयवा विद्या त्रिविद्या, तामधीते त्रैविद्यः । तिस्रो विद्या अधीत इति तु विग्रहे `द्विगोर्लुगनपत्ये' इति लुक्प्रसङ्गः ।
यावक्रीतिक इति । यवक्रीतमधिकृत्य कृतमाख्यानं यवक्रीतशब्देनोच्यते, एवं प्रैयङ्गवमधिकृत्य कृतमुपचारात्प्रैयङ्गवमुच्यते । वासवदत्तिक इति । वासवदत्तामधिकृत्य कृता आख्यायिका, `अधिकृत्य कृते ग्रन्थे' इत्यत्रार्थे `वृद्धाच्छः', तस्य `लुबाख्यायिकाभ्यो बहुलम्' इति लुप्‌, ततोऽनेन ठक्‌ । एवं सौमनोत्तरिकः, ऐतिहासिक इति । इति हासीदिति यत्रोच्यते स इतिहासः, पृषोदरादित्वात्साधुः ।
सर्वसादेरिति । सर्वादेः, सादेर्द्विगोश्चोत्पन्नस्य पत्ययस्य लो भवति लुग्भवतीत्यर्थः, अर्थवतः सशब्दस्य ग्रहणात्सर्वशब्दः पृथगुपात्तः, `द्विगोश्च' इत्यनेन `द्विगोर्लुगनपत्ये' इत्ययमेव लुक्‌ स्मारितः । सर्ववेद इति । सर्ववेदानधीते इत्यणो लुक्‌ । सवार्त्तिक इति । वर्त्तिकान्तमधीते इति अन्तवचने सहशब्दस्याव्ययीभावः, `अव्ययीभावे चाकाले' इति सभावः, ततोऽणो लुक्‌ ।
अनुसूरिति । अनुसूशब्दष्ठकमुत्पादयति, लक्ष्यलक्षणशब्दौ चेत्यर्थः । आनुसुक इति । अनुसूमधीत इति ठक्‌, तस्य `इसुसुक्तन्तात्कः' इति कादेशः, `केऽणः' इति ह्रस्वः ।
पदोत्तरपादिति । पदशब्द उत्तरपदं यस्य स तथोक्तः, पूर्वपदमधीते पूर्वपदिकः । एवमुत्तरपदिकः ।
शतषष्टेरिति । शतशब्दात्षष्टिशब्दाच्च परो यः पथिन्शब्दस्तदन्तात्‌ षिकन्‌ भवति । षकारो ङीषर्थः ।।
अनुब्राह्मणादिनिः ।। 4.2.62 ।।
ब्राह्मणासदृश इति । `यथार्थे यदव्ययम्' इति सादृश्येऽव्ययीभावः ।
चोदयति---मत्वर्थ इति । परिहरति---तत्रैतस्मादिति । दूषयति---अनभिधानादिति । साक्षात्परिहारमाह---अणो निवृत्त्यर्थं तु वचनमिति । क्वचित्तु मत्वर्थ इत्यादि न पठ्यते ।।
वसन्तादिभ्यष्ठक्‌ ।। 4.2.63 ।।
वसन्तसहचरित इति । यत्र वसन्तो वर्ण्यते यो वा वसन्तेऽध्येयः । वसन्तसाहचर्यात्ताच्छद्यं लभते ।
उक्थादिष्वेते पठितव्याः, ते वा वसन्तादिषु ? तथा तु न कृतमित्येव । अथर्वन्शब्दोऽत्र पठ्यते, स उपचारेण प्रोक्ते ग्रन्थे वर्तते । अथर्वणमधीते आथर्वणिकः, `दाण्डिनायनहास्तिनायन' इति निपातनात्‌ `नस्तद्धिते' इति टिलोपाभावः ।।
प्रोक्ताल्लुक्‌ ।। 4.2.64 ।।
प्रोक्तसहचरित इति । अर्थस्य प्रोक्तत्वादर्थेन च प्रत्ययस्य पौर्वापर्यायोगान्मुख्यार्थासम्भवाद्‌ गौणस्य ग्रहणमित्यर्थः । अपर आह---प्रोक्तशब्द इह स्वर्यते, तेन तदधिकारविहितः प्रत्ययो गृह्यत इति । यदि वा प्रोक्ते भवः प्रोक्त इति सौत्रोऽयमतद्धइतनिर्देशः । पाणिनीयमिति । ननु पणोऽस्यास्तीति पणी, तस्यापत्यं पाणिनः, पाणिनस्यापत्यं पणिनो युवा पाणिनिः, ततः `तेन प्रोक्तम्' इत्यर्थविवक्षायां `यूनि लुक्‌' इति इञो लुकि कृते प्रत्ययलक्षणेन `इञश्च' इत्यण्‌ प्राप्नोति ? नैष दोषः; `इञश्च' इत्यत्र `कणअवादिभ्यो गोत्रे' इत्यतः `गोत्रे' इत्यनुवर्तते, तेनेञं विशेषयिष्यामः---गोत्रे य इञ्‌ विहितस्तदन्तादिति । तत्र च पारिभाषिकं गोत्रं गृह्यते, तेन यूनीञो न भविष्यति, ततो वृद्धाच्छः; आपिशलिशब्दाद्‌ `इञश्च' इत्यण्‌, उभयत्राध्येतृप्रत्ययस्य लुक्‌ । नन्वत्र लुकि सति, असति वा तदेव रूपमिति नास्ति विशेषः ? तत्राह---स्त्रियां स्वरेच विसेष इति । असति लुकि स्त्रियाम् `टिड्‌ढाणञ्‌' इत्यादिना ङीप्‌ स्यात्, अण्स्वरेणान्तोदात्तत्वं च । लुकि तु सति टाब्‌ भवति, छस्वरेण मध्योदात्तत्वं च । आपिशले तु स्वरे नास्ति विशेषः, यथा तु लुकि सत्यपिशलेत्यत्र ङीब्न भवति, तथा `अनुपसर्जनाद्‌' इत्यत्र प्रत्यपादि ।।
सूत्राच्च सोपधात्‌ ।। 4.2.65 ।।
अष्टकं सूत्रमिति । अष्टावध्यायाः परिमाणमस्य, `संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' इति `संख्याया अतिशदन्तायाः कन्‌' ।
संख्याप्रकृतेरिति वक्तव्यमिति । संख्या प्रकृतिर्यस्य प्रत्ययस्य तदन्तात्कोपधादिति वक्तव्यमित्यर्थः । कालापकमधीते कालापक इति । कलापिना प्रोक्तमेधीयते कालापाः, `कलापिनोऽण्‌', `नान्तस्य टिलोपे सब्रह्मचारि' इत्यौपसंख्यानिकष्टिलोपः, ततः `तदधीते' इत्यण्‌, प्रोक्ताल्लुक्‌ । कालापानामाम्नाय इति `गोत्रचरणाद्‌ वुञ्‌', कालापकम्, ततः `तदधीते' इत्यण्‌, तस्य लुग्न भवति । यदि स्याद्‌ ञित्स्वरेणाद्युदात्तत्वं स्यात्‌, लुगभावे त्वण एव स्वरो भवति, स्त्रियां च ङीब्‌ भवति ।
चतुष्टय इति । चत्वारोऽवयवा अस्य `संख्याया अवयवे तयप्', `ह्रस्वात्तादौ तद्धिते' इति मूर्द्धन्यः ।।
छन्दोब्राह्मणानि च तद्विषयाणि ।। 4.2.66 ।।
प्रोक्तग्रहणमनुवर्तते इति । तद्ध्यनुवर्तमानमेव पूर्वसूत्र आरम्भसामर्थ्यान्न सम्बध्यते । छन्दांसि च ब्राह्मणानि चेति । तद्वाचीनि शब्दरूपाणीत्यर्थः । स्वरूपग्रहणं तु न भवति; बहुवचननिर्देशात्‌, अप्रोक्तप्रत्ययान्तत्वाच्च । प्रोक्तप्रत्ययान्तानीति । प्रोक्तादिति पञ्चम्यन्तं प्रकृतं प्रथमाबहुवचनान्तं विपरिणम्यते, `छन्दोब्राह्मणानि' इत्यनेन सामानाधिकरण्यादिति भावः । अध्येतृवेदितृप्रत्ययविषयाणीत्यनेनैतद्दर्शयति---तच्छब्देनाध्येतृवेदितृप्रत्ययः परामृश्यते, विधेयतया प्रधानत्वात्‌; नाध्येतृवेदितासवर्थौ, तयोः प्रत्ययविधौ गुणभावादिति । किं सिद्धं भवति ? अध्येतृविषयमपि वाक्यं निवर्त्तितं भवति । अनन्यभावो विषयार्थ इति । ग्रामसमुदायादिवृत्तिस्तु विषयशब्दोऽसम्भवान्न गृह्यते । अत्र यद्यधीते वेदेत्यनुवर्तेत, ततोऽध्येतृवेदितृविवक्षायामेव तद्विषयता विधीयेत, ततश्च तद्विषयमेव वाक्यं निवर्तयेत्, न क्रियान्तरविषयम्, नापि स्वातन्त्र्यमुपाध्यन्तरयोगं च । यदाह---तत्र `यथाधिकारात्तद्विषयप्रसङ्गः' इति । तस्मात्प्रोक्तग्रहणमेवानुवर्तते, नाधीयते वेदेति । तच्छब्देन च प्रत्ययः परामृश्यते, विषयशब्दश्च अनन्यभावार्थः । तेन सर्वमेतत्स्वातन्त्र्यादि निवर्तते । आह च---`सिद्धं तु प्रोक्ताधिकारे तद्विषयवचनात्‌' इति । प्रोक्तग्रहणमेवाधिक्रियते, नाधीते वेदेत्येतावर्थावित्यर्थः ।
इह प्रोक्तप्रत्ययान्तस्य बहुप्रकारता दृश्यते---स्वातन्त्र्यम्, उपाध्यन्तरयोगः, वाक्यम्, अध्येतृवेदित्रोः प्रत्यय इति । स्वातन्त्र्यं तावत्‌---पाणिनिना प्रोक्तं पाणिनीयमिति । प्रोक्तार्थ एव वृत्तिः; उपाध्यन्तरयोगः । महत्पाणिनीयमिति वाक्यम् । पाणिनीयमधीत इति प्रत्ययः---पाणिनीयाश्छात्त्रा इति । छन्दोब्राह्मणवाचिनां तु प्रोक्तप्रत्ययान्तानां नित्यमध्येतृवेदितृप्रत्ययान्तवैवेष्यते, न तु स्वातन्त्र्यादि, तदर्थमिदमारभ्यते, तदाह---तेनेति । एवं च कृत्वाऽर्थद्वयस्यापिं तन्त्रेण विग्रहः कर्तव्य इति दर्शयति । कठेन प्रोक्तमधीयते कठाः, वैशम्पायनान्तेवासित्वाण्णिनिः, तस्य `कठचरकाल्लुक्‌' इति लुक्‌ ततः `तदधीते' इत्यण्‌, ततस्तस्यापि `प्रोक्ताल्लुक्‌' इति लुक् । मुदपिप्पलादशब्दाभ्यां प्रोक्तार्थो औत्सगिकोऽण्‌ । शेषं यथायोगं पूर्ववत्‌ । ऋचाभः=वैशम्पायनान्तेवासी । एवं ताण्ड्यः । वाजसनेयशब्दः शौनकादिः । ताण्डिन इति । `अपत्यस्य' इति यलोपः । भाल्लविशब्द इञन्तः । शाट्यशब्दाद्‌ गर्गादियञन्ताद्‌ `यञिञोश्च' इति फक्‌ । ऐतरेयशब्दः शुभ्रादिढगन्तः, तेभ्यः `पुराणप्रोक्तेषु' इति णिनिः, सर्वत्राध्येतृप्रत्ययस्य लुक्‌ ।
ब्राह्मणविशेषप्रतिपत्त्यर्थमिति । ब्राह्मणस्य विशेषः पुराणप्रोक्तत्वम् । याज्ञवल्क्यानीति । याज्ञवल्क्यशब्दः कण्वादिः, सुलभादौत्सर्गिकोऽण्‌, अत्र स्वातन्त्र्यं भवति । `पुराणप्रोक्तेषु' इत्यत्र वक्ष्यति---`याज्ञवल्क्यादयो ह्यचिरकालप्रवृत्ता इत्याख्यानेषु वार्ता' इति । काश्यपिनः, कौशिकिन इति । `काश्यपकौशिकाभ्यामृषिभ्यां णिनिः' । पाराशरिण इति । पाराशर्यशब्दाद्‌ गर्गादियञन्तात्‌ `पाराशर्यशिलालिभ्याम्' इति णिनिः, पूर्ववद्यलोपः । कर्मन्दिन इति । `कर्मन्दकृशाश्वादिनिः' । पिङ्गशब्दात्पुराणप्रोक्तेषु' इति णिनिः ।।
तदस्मिन्नस्तीति देशे तन्नाम्नि ।। 4.2.67 ।।
इतिकरणस्ततश्चेद्विवक्षेति । ननु तन्नामग्रहणादेवातिप्रसङ्गो न भविष्यति ? तन्न; द्विविधं नाम---कदाचित्केनचित्सङ्केतितम्, नित्यं व्यवहारानुपाति । तत्र द्वितीयस्य परिग्रहार्थमितिकरणः क्रियते, भूमादिविशेषपरिग्रहार्थं च । `तन्नाम्नि' इत्येतत्तु नामधेयताविरोधिनो बलीयसोऽपि प्रत्ययान्‌ बाधितुम् , अन्यथा नाप्राप्ते मतुप्यारम्भात्तस्यायं बाधकः । तदपवादैस्त्विनिठनादिभिः सह सम्प्रधारणायामपवादविप्रतिषेधादिनिठनादय एव स्युः ।।
तेन निर्वृत्तम् ।। 4.2.68 ।।
निर्वृत्तमित्यन्तर्भावितण्यर्थाद्‌ वृतेः कर्मणि क्तः ।।
तस्य निवासः ।। 4.2.69 ।।
ऋजुनावामिति । ऋज्वी नौर्येषां तेषामित्यर्थः ।।
अदूरभवश्च ।। 4.2.70 ।।
अदूरमन्तिकं तत्र भवतीत्यदूरभवः, निपातनात्सप्तमीसमासः । विदिशाया इति । `दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्' इति षष्ठी । चकार इत्यादि । असति तु तस्मिन्नानन्तर्यादयमेवार्थ उत्तरत्र सम्बध्येत ।।
औरञ्‌ ।। 4.2.71 ।।
अरडुः=क्षत्त्रियविशेषः । नद्यां तु मतुप्परत्वादिति । आरडवमित्यादिरञोऽवकाशः, `नद्यां मतुप्' इत्यस्योदुम्बरावतीत्यादिः ।।
मतोश्च बह्वजङ्गात्‌ ।। 4.2.72 ।।
चतुरर्थिक इति । चतुर्णामर्थानां समूहश्चतुरर्थी, तत्र भवः, अध्यात्मादित्वाट्ठञ्‌ । तद्धितार्थे द्विगौ तु ठञो लुक्‌ स्यात्‌ ।
अङ्गग्रहणं किमिति । `मतोश्च वह्वचः' इत्येवास्तु, व्यधिकरणे पञ्चम्यौ, बह्वचो यो विहितो मतुप्‌ तदन्तादिति विज्ञायमाने सिद्ध्यत्येव विवक्षितमिति प्रश्नः । मतुबन्तविशेषणं मा भूदिति । अन्यथा सामानाधिकरण्ये सम्भवति, वैयधिकरण्यस्यायुक्तत्वात्‌ तस्यैव । वशेषणं स्यादिति विभावः । अस्ति चेदिदानीं क्वचिदबह्वञ्‌ मत्वान्तो यदर्थं बह्वज्ग्रहणं स्यात्‌ ? अस्तीत्याह---स्ववान्‌, श्ववान्‌ ।।
उदक्च विपाशः ।। 4.2.74 ।।
महती सूक्ष्मेक्षिकेति । एवं नाम स्वरेऽप्याचार्योऽवहित इति आचार्यस्य प्रशंसैषा ।।
सुवास्त्वादिभ्योऽण्‌ ।। 4.2.77 ।।
अञ इति । `अण्ग्रहणरहितसूत्राभिप्रायमेतत् । तस्य तु प्रयोजनं स्वयमेव वक्ष्यति---अण्ग्रहणं मतुपो बाधनार्थम्' इति । तेन वस्तुतो मतुपोऽप्ययमपवादः । अथाण्ग्रहणंकिमर्थम्, न सुवास्त्वादिभ्यो यथा विहितमित्येवोच्येत, पुनर्वचनाद्धइ को विहितो न च प्राप्नोति स एव भविष्यति स चाणेव ? तत्राह---अण्ग्रहणमिति । असत्यण्ग्रहणे मध्येऽपवादन्यायेन यताविहितमित्युच्यमानोऽणञ एव बाधकः स्याद्‌, नदीमतुपा तु परत्वाद्वाध्येत, पुनरण्ग्रहणात्तु मतुपो विषये भवतीत्यर्थः । किञ्च---`ओरञ्‌' इत्यस्य नद्यां मतुप्परत्वाद्वाधक इत्युक्तम्, तत्रासत्यण्ग्रहणे यताविहितमित्युच्यमाने नद्याम् `ओरञ्‌' एव स्याद्‌, वचनं तु मतुपो बाधनार्थं स्यात्‌ । तस्मादेतदर्थमप्यण्ग्रहणं कर्तव्यम् ।।
रोणी ।। 4.2.78 ।।
केवलस्तदन्तश्चेति । अन्यथा ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात्केवलादेव स्यात्‌, न तदन्तात्‌ । रोणीति पुनः शास्त्रनिरपेक्षेण निर्देशेन शास्त्रनिरपेक्षत्वमिह सच्यत इति परिभाषया अनपेक्षणात्तदन्तादपि भवति । ननु च रोणीति नेदं प्रातिपदिकम्, स्त्रीप्रत्ययान्तत्वात्‌; न च `ग्रहणवता प्रातिपदिकेन' इत्यत्र लिङ्गविशिष्टस्य ग्रहणम्, येन स्त्रीप्रत्ययान्तेनापि तदन्तविधिः प्रतिषिध्येत, स्वरूपविधिविषया परिभाषेयं प्रातिपदिकस्य स्वरूपग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्युक्तत्वात्‌ ? यथाकथञ्चित्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य ग्रहणं भवतीति भाष्यकारपक्षः, तदाश्रयेणैतदुक्तम् । एवं च वृत्तिकारस्याप्ययमेव पक्षः । ङ्याप्सूत्रेतु परपक्षो दर्शित इति गम्यते । कि सिद्धं भवति ? कुमारीमाचष्टे कुमारयति---`णाविष्ठवद्' इति टिलोपः सिद्धो भवति ।।
वुञ्छण्कठजिलसेनिरढञ्णययफक्फिञिञ्ञ्यकक्ठकोरीहणकृशाश्वर्यकुमुदकाशतृणप्रेक्षाश्मसखिसङ्काशबलपक्षकर्णसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः ।। सूत्रे कुमुदशब्दो द्विरुपादीयते, तत्रारीहणकृशाश्वर्श्यकुमुदाश्च काशतृणादयश्चेति द्वन्द्वयोर्द्वन्द्३करणादेकशेषाभावः । कुमुदादिष्विति । ऋश्यादेरनन्तरेषु औत्सर्गिकोऽपि तत्र इष्यत इत्यादि यदुक्तं तदेवाप्तप्रयोगेण द्रढयति---तथा चोक्तमिति । `लुपियुक्तवद्‌' इत्यत्र भाष्यकारणैतदुक्तम् । अथास्मात्प्रयोगाद्विशेषविहितानामेव पक्षे लुब् भवतीति कस्मान्नोच्यते ? तथा वा भवतु; सर्वथा चातूरूप्यमेवात्र नः समीहितम् ।।
शर्कराया वा ।। 4.2.83 ।।
कुमुदादिष्विति । ऋश्याद्यनन्तरेषु । पाठसामर्थ्यादिति । नित्ये हि लुपि गणयोरस्य पाठोऽनर्थकः स्यात्‌ । शकरेति । अणे लुप्‌ । शार्करमिति । तस्यैव श्रवणम् । शर्करिकमिति । कुमुदादित्वाट्ठच्‌ । शार्करकमिति । वराहादित्वात्कक्, `केऽणः' इति ह्रस्वः । शार्करिकम्, शर्करीयमिति । उत्तरसूत्रेण ठक्छौ ।।
नद्यां मतुप्‌ ।। 4.2.84 ।।
`तदस्यास्त्यस्मिन्‌' इति मतुपि सिद्धे वचनमिदं तदस्मिन्नस्तीति प्राप्तस्याणो बाधनार्थं निवृत्ताद्यर्थं च, तत्सूचितम्---चातुरथिंक इति । देशस्य विशेषणं नदीति । यद्यपि `विशिष्टलिङ्ग' इत्यत्रोक्तम्---`नदीग्रहणमदेशत्वात्‌ जनपदो हि देशः' इति, इह तु नद्यां देश इति; सम्बन्धसामर्थ्यादजनपदो देशग्रहणेन गृह्यते, एवं च पर्वतेष्वपि चातुरर्थिको भवति । अन्ये त्वाहुः---नद्यपि देश एव, लोकप्रसिद्धेः; `विशिष्टलिङ्ग' इत्यत्र तु नदीग्रहणं यस्य द्वन्द्वस्य सर्व एवावयवो नदीवचनस्तत्परिग्रहार्थम्, यत्र कश्चिदवयवोनदीवचनः, कश्चिदन्यदेशवाची---तत्र मा भूदित्येवमर्थमिति । उदुम्बरावतीत्यादौ `मतौ बह्वचोऽनजिरादीनाम्' इति दीर्घत्वम् । भागीरथीति । `तेन निर्वृत्तम्' इत्यण् ।।
कुमुदनडवेतसेभ्यो ड्‌मतुप्‌ ।। 4.2.87 ।।
कुमुद्वानित्यादौ झयः `मादुपधायाश्च' इति वत्वम् । अथ वकारादिरेव कस्मान्न विहितः ? ज्ञापनार्थम्, एतज्ज्ञापयति---अन्येभ्योऽप्ययं भवतीति । तेन महिष्मानिति सिद्धं भवति, महिषाच्चेति न वक्तव्यं भवति । एतेनैतदपि निरस्तम्---प्रकृतस्यैव मतुपो डित्त्वातिदेशेन सिद्धमिति, न हि डित्त्वातिदेशे पूर्वोक्तं ज्ञापनं समर्थितं भवति ।।
नडशादाड्‌ ड्‌वलच्‌ ।। 4.2.88 ।।
शादशब्दो दोपधः, `पङ्कोऽस्त्री शादकर्दमौ' इति ।।
शिखाया वलच्‌ ।। 4.2.89 ।।
शिखाया वलज्वक्ष्यतीति । `दन्तशइखात्संज्ञायाम्' इत्यनेन ।
तददेशार्थं वचनमिति । इदं तु निवृत्ताद्यर्थम्, देशे तन्नाम्न्यणो बाधनार्थं च ।।
नडादीनां कुक्‌ च ।। 4.2.91 ।।
तक्षन्नलोपश्चेति । यदि पुनरयं कुक्‌ परादिः क्रियेत, नान्तस्य पदत्वात्सिद्धो नलोपः; किन्तु कुटि प्रत्ययादेरादेशानुपपत्तिः, छस्याप्रत्ययादित्वादीयादेशो न प्राप्नोति ।।
शेषे ।। 4.2.92 ।।
अपयुक्तादन्यः शेष इति । शब्दार्थकथनमेतत् । तस्यैव प्रकंरणादागतं विशेषमाह---अपत्यादिभ्य इति । एते ह्यत्रोपयुक्ताः । चतुरर्थपर्यन्तेभ्य इति । चत्वारोऽर्थाः `तदस्मिन्नस्ति' इत्यादयः पर्यन्तो येषामिति विपदो बहुव्रीहिः । चातुरर्थ्यपर्यन्तेभ्य इति पाठे समाहारद्विगोश्चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्‌ । ये तु पठन्ति---चातुरर्थपर्यन्तेभ्य इति, ते प्रज्ञादेराकृतिगणत्वादणमिच्छन्ति । किमर्थं पुनः शेषवचनम् ? शेषे घादयो यथा स्युः, अपत्यादिषु मा भूवन्‌ । चिरनिवृत्ता अपत्यादयः ? चतुर्ष्वर्थेषु तर्हि मा भूवन्‌ ; अन्यथा `ओरञ्‌' इत्यादयः `नडादीनां कुक्‌ च' इत्येवमन्ता यथा चतुरर्थेषु भवन्ति, तथा घादयोऽपि `विभाषआ पूर्वाह्णाभ्याम्' इत्येवमन्तास्तत्रैव स्युः । न ह्यकस्मात्प्रकरणं विच्छिद्यते । निवर्तिष्यते तर्हि चतुर्ज्ञ्थाः ? अस्वरितत्वाल्लिङ्गाच्च, यदयमुत्करादिषु कांश्चिद्‌ वृद्धान्‌ शब्दान्पठति---आर्द्रका, शालेति; अन्यथा `वृद्धाच्छः' इत्येव सिद्धः स्यात्‌ । स्वार्थे तर्हि घादयो मा भूवन्‌ ? अनिर्दिष्टार्थत्वाद्धि स्वार्थ एवस्युः, नामी अनिर्दिष्टार्थाः । जातादिष्वर्थेषु घादयोऽनुवर्तिष्यन्ते ? यद्यनुवर्तन्ते या या परा प्रकृतिः तस्यास्तस्याः पूर्वः पूर्वः प्रत्ययः प्राप्नोति । नार्थनिर्देशं प्रति व्यग्रयोरन्योऽन्यमभिसम्बन्धो भवति । लिङ्गाच्च, यदयं क्कचिच्चकारेण प्रकृतं समुच्चिनोति `रङ्कोरमनुष्येऽण् च' इति, तज्ज्ञापयति---न पूर्वः पूर्वः प्रत्ययः परस्याः परस्याः प्रकृतेर्भवतीति । अथ वा---लौकिकोऽधिकारोऽपेक्षालक्षणः । न च घादीनां प्रकृत्यन्तरापेक्षा, नापि ग्रामादीनां प्रत्ययान्तरापेक्षा, तस्मादप्रयोजनमेतत्स्वार्थे मा भूवन्निति । तदेव तर्हि प्रयोजनम्---अपत्यादिषु तर्हि मा भूवन्निति । ननु चोक्तम्---चिरनिवृत्ता अपत्यादयश्चातुरर्थी च नापेक्ष्यत इति ? न ब्रूमोऽपत्यादीनामत्राभिसम्बन्ध इति, किं तर्हि ? तस्येदमित्यनेनापत्यादिष्वपि प्राप्नुवन्ति । कथम् ? इत्याह---तस्येदंविशेषा ह्यपत्यसमूहादय इति । यथा `तस्येदम्' इत्यनेन पाणिनीयाश्छात्त्रा इति छात्त्रादिषु विशेषेषु प्रत्ययो भवति, एवमपत्यादिष्वपि विशेषेषु घादयः स्युः; विशेषेषु सामान्यभावात्‌ ।
ननु च विशेषशब्दसंनिधौ सामान्यशब्द उपात्तः, तत्र विशेषे पर्यवस्यति---कौण्डिन्यो ब्राह्मण इति, विशेषान्तरे वा---दधि ब्राह्मणेभ्यस्तक्रं कौण्डिन्यायेति । तत्रापत्यादिविशेषसन्निधावुपात्तं तस्येदमिति सामान्यम्, यद्यपत्यादिष्वेव पर्यवस्येत्‌ सामान्योपादानं व्यर्थं स्यादिति विशेषान्तर एव पर्यवसास्यति ।
किञ्च यद्यपत्यादिष्वपि घादयः स्युः, `प्राग्दीव्यतोऽण्‌' इत्यत्रैवाणादिभिः सह विधीयेरन्‌, लिङ्गाच्चापत्यादिषु घादयो न भविष्यन्ति, किं लिङ्गम् ? `फेश्छ च' इत्यत्र `फेर्वा' इत्येव ठग्विधानार्थं वक्तव्यम्, ठका मुक्ते `वृद्धाच्छः' इति तावच्छः सिद्धः, तदेव छविधानं ज्ञापनार्थम्---न ह्यपत्यादिषु घादयो भविष्यन्ति । तथा गोत्रचरणाद्वुञिति समूह इदमर्थान्तर्भूते वुञि सिद्धे `गोत्रोक्षोष्ट्र' इति पुनर्विधानमपि लिङ्गमस्यार्थस्य; तथा `राजन्यादिभ्यो वुञ्‌' इति राजन्यादिषु दैवयातशब्दः पठ्यते, स च देवयातूनामपत्यानि दैवयातवा इति गोत्रप्रत्ययान्तः; तथाऽरीहणादिषु भास्त्रायणशब्दो गोत्रप्रत्ययान्तः पठ्यन्ते, तत्रापि `गोत्रचरणाद्‌ वुञ्‌' इत्येव सिद्धः; तदेतैर्लिङ्गैरपत्यादिषु घादयो न भविष्यन्ति । तदेवमेतत्प्रयोजनं नोपपद्यत इति प्रयोजनान्तरमाह---किञ्चेति । असति हे शेषग्रहणे प्रथमेनैवार्थेन सम्बन्धमनुभवतां कृतार्थता विज्ञायेत, द्वितीयादिषु त्वर्थेषु `प्राग्दीव्यतः' इति विशिष्टावधिपरिच्छिन्नेष्वर्थेषु विधीयमाना अणादय एव स्युः, शेषशब्दस्तूपयुक्तादन्यतमान्‌ जातादीनर्थान्वीशीकृत्य शक्नोत्यभिधातुमिति सर्वत्र घादयः सिध्यन्ति । अतः साकल्यार्थमपि विशेषवचनं कर्तव्यम् । लक्षणं चाधइकारश्चेति । तत्र `तस्येदम्' इत्येव चाक्षुषादयः सिध्यन्ति, पार्षदादयस्तु `संस्कृतं भक्षाः' इति तस्माल्लक्षणत्वं नातीवोपयुज्यते ।।
राष्ट्रावारपाराद्धखौ ।। 4.2.93 ।।
विगृहीतादपीष्यते इति । सूत्रे तु संघातस्यैव ग्रहणम्; अन्यथा वैषम्यात्संख्यातानुदेशो न स्यात्‌ । विपरीताच्चेति । इयमपीष्टिरेव ।।
ग्रामाद्यखञौ ।। 4.2.94 ।।
ग्रामशब्दः कत्र्यादिषु पठ्यते, तेन ढकञपि भवति ।।
कत्त्र्यादिभ्यो ढकञ ।। 4.2.95 ।।
कात्त्रेयक इति । कुत्सितास्त्रयः कत्त्रय इति बहुव्रीहिर्वा । अस्मादेव निपातनात्कोः कद्भावः, तेन कद्भावे `त्रौ उपसंख्यानम्' इति न वक्तव्यं भवति । कुल्याया यलोपश्चेति । केचित्तु तृतीयं वर्णं लकारं पठन्ति, अन्ये तु डकारम् ।।
कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु । अयं योगः शक्योऽवक्तुम् । कथम् ? कौलेयकः श्वा यदा कुलशब्दः श्वकुले वर्तते तदा तस्यापत्यमपि श्वैव भवति, तत्र `अपूर्वपदादन्यतरस्याम्' इति ढकञा सिद्धम्; कुक्षिग्रीवाशब्दाभ्याम् `दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्‌' इति ढञि कृते आस्यलङ्कारयोस्स्वार्थिकः कन्‌ भविष्यति ।।
नद्यादिभ्यो ढक्‌ ।। 4.2.97 ।।
गणे नदीति स्वरूपग्रहणम्, न संज्ञा; नद्याः मह्यादीनां पृथग्रहणात्‌ । पौरेयमित्यादिषु पुरि भवम्, वने भवम्, गिरौ भवमिति विग्रहः । उभयमपि दर्शनं प्रमाणमिति । उभयथाप्याचार्येण शिष्याणां प्रतिपादितत्वात्‌ ।।
दक्षिणापश्चात्पुरसस्त्यक्‌ ।। 4.2.98 ।।
दक्षिणाशब्दः `दक्षिणादाच्‌' इत्याजन्तोऽव्ययं गृह्यते; पश्चात्पुरोभ्यां साहचर्यात्‌ । तेन न टाबन्तस्य प्रवीणवाचिनो ग्रहणम् ।।
कापिश्याः ष्फक्‌ ।। 4.2.99 ।।
बहल्युदिपर्दीति । `अवृद्धादपि' इति वुञि प्राप्ते वचनम् ।।
रङ्कोरमनुष्येऽण्च ।। 4.2.100 ।।
रङ्कवो नाम जनपदः, ततः `प्राग्दीव्यतोऽण्‌' प्राप्तः, तस्य `अवृद्धादपि' इति वुञ्‌ बाधकः, तस्य ओर्देशे ठञ्‌, ततः कोपधादण्‌, ततः `कच्छादिभ्यश्च' इत्यण्‌ प्राप्तः, ततः ष्फगणौ विधीयेते । कोपधत्वादेवाणि सिद्धे रङ्‌कुशब्दस्य कच्छादिषु पाठो मनुष्यतत्स्थयोर्वुञ्विधानार्थः । मनुष्ये परत्वादिति । उत्कृष्टत्वाद्‌ अपवादत्वादित्यर्थः । कच्छादिपाठारमनुष्येऽणपि सिद्ध इति । ननु च मनुष्यतत्स्थयोर्वुञ्विधानार्थस्तत्र पाठः स्यात्‌, ततश्च तद्व्यतिरिकते विषये ष्फगेव स्यात्‌, यत्राण्‌ विधीयते ? नैतदस्ति; कच्छादिपाठस्योभयार्थत्वे बाधकाभावात्‌ । नञिवयुक्तन्यायेन मनुष्यसदृशे प्राणिनि प्रतिपत्तिः क्रियते इति । यस्त्वमनुष्यशब्दो रक्षः पिशाचादिषु रूढः, न तस्यैव ग्रहणम् ; अनभिधानादिति मन्यते, अथैवं कस्मान्न विज्ञायते---परत्वादेव वुञि सिद्धे मनुष्यप्रतिषेधो ज्ञापयति---`मनुष्यतत्स्थयोः' इत्यस्याप्येतौ ष्फगणौ बाधकाविति, तेन तत्स्थे ष्फगणावेव भवतो न वुञिति ? तन्न; अनिष्टत्वात्‌ । न हि तस्थे ष्फगणाविष्येते, किं तहि ? वुज्ञेव । राङ्कवः कम्बल इति ष्फग्न भवतीति । यथा तु वार्त्तिकं भाष्यं च तथात्र ष्फगिष्यते, मनुष्यप्रतिषेधश्च प्रत्याख्यातः । यथाऽऽह---`रङ्कोरमनुष्यग्रहणानर्थक्यं मनुष्यतत्स्थयोर्वुञ्विधानात्‌, तत्स्थे ष्फगणोर्ज्ञापकमिति चेन्नानिष्टत्वादण्ग्रहणानर्थक्यं च कच्छादिभ्योऽणिवधानात्‌' इति । विशेषविहितेन च ष्फकेति । अन्यथा कच्छादिपाठस्य प्राणिनि चरितार्थत्वात्प्राणिनि ष्फगेव स्यात्‌ ।।
द्युप्रागपागुदक्प्रतीचो यत्‌ ।। 4.2.101 ।।
`द्यु' इति दिव उत्त्वेन निर्देशः । द्युशब्दस्य तु ग्रहणं न भवति, व्याख्यानात्‌ । अवाच्यमिति । अवाची = दक्षिणा दिक्‌ ।
अव्ययात्तुकालवाचिन इति । यथाव्ययात्कालवाचिनः `कालाट्ठञ्‌' इति ठञ्न भवति; न्यायस्य तुल्यत्वात्‌ ।।
वर्णौ वुक्‌ ।। 4.2.103 ।।
तत्समीपो देशो वर्णुरिति । `अदूरभवश्च' इत्यर्थे `सुवास्त्वादिभ्योऽण्‌' इत्यण्‌, तस्य `जनपदे लुप्‌' इति लुप्‌ । तद्विषयार्थवाचिन इति । स वर्णुर्देशो विषयो यस्यार्थस्य तद्वाचिन इत्यर्थः । विषयग्रहणेन वर्णाविति विषयसप्तमी दर्शयति ।।
अव्ययात्त्यप्‌ ।। 4.2.104 ।।
अमेहेति । योऽव्ययात्त्यब्विहितः सोऽमादिभ्य एव स्मृत इत्यर्थः ।
अमाशब्दः समीपवाची स्वरादिः, अमा समीपे भवोऽमात्यः । औपरिष्ट इति । उपरिष्टाद्भव इत्यणि कृते `अव्ययानां भमात्रे टिलोपः' इति टिलोपः । परतः शब्दः `विभाषा परावराभ्याम्' इत्यतसुजन्तः, तत्र भवः । आरातीय इति । `बहिषष्टिलोपश्च' इत्यनित्यत्वज्ञापनादत्र टिलोपाभावः ।
त्यब्नेर्ध्रुव इति । निशब्दाद्‌ ध्रुवे वाच्ये त्यब्भवति । नियतं सर्वकालं भवो नित्यः ।
निसो गते इति । निः शब्दाद्‌ गते वाच्ये त्यब्भवति । निष्ट्य इति । `ह्रस्वात्तादौ तद्धिते' इति षत्वम्, तकारस्य ष्टुत्वम् । एवमाविर्भूतमाविष्ट्यम् ।
अरण्याण्ण इति । अणि सति ङीप्‌ स्यादिति णो विधीयते ।
दूरेत्य इति । `तत आगतः' इत्यत्रार्थे एत्यः ।
उत्तरादाहञिति । आद्युदात्तार्थं वचनम् । औत्तराहमिति । `उत्तराच्च' इत्याहिप्रत्ययः, उत्तराहिशब्दात्परिगणनेन त्यपोऽभावादणि सति सिद्धम् ।।
ऐषमोह्यः श्वसोऽन्यतरस्याम् ।। 4.2.105 ।।
ठञपि तृतीयो भवतीति । विधिवाक्यापेक्षं तृतीयत्वम्, प्रत्ययापेक्षया तु ठञ्‌ चतुर्थः, `श्वसस्तुट्‌ च' इत्यत्र विकल्पाधिकारात्‌ ट्युट्युलावपि भवतः ।।
तीररूप्योत्तरपदादञ्ञौ ।। 4.2.106 ।।
अञ्जपोः स्त्रियांविशेषः---काकतीरी, चाणाररूप्या । बहुच्पूर्वान्मा भूदिति । अन्यथा बहुतीरशब्दादपि स्यात्‌, उत्तरपदशब्दस्य तु समासविषये नियतत्वान्नास्ति बहुच्पूर्वात्प्रसङ्गः ।।
दिक्पूर्वपदादसंज्ञायां ञः ।। 4.2.107 ।।
असंज्ञायामिति । न चैवमसंज्ञाया इति पञ्चम्या निर्देशः, विषयसप्तम्यापि तदर्थलाभादित्याह---संज्ञाविषयादिति । पौर्वशाल इति । पूर्वस्यां शालायां भव इति तद्धितार्थे समासः, ततः प्रत्ययः । पदग्रहणमित्यादि । `दिक्पूर्वाद्‌' इत्युच्यमाने स्वरूपं स्यात्‌, ततश्च दिग्गज इत्यादेरेवस्यात्‌ । पदग्रहणे तु सति दिग्विशेषवाचिनां ग्रहणं भवति, कथम् ? व्यधिकरणपदो बहुव्रीहिः---दिशः पूर्वपदमस्मिन्निति, `दिशः' इति वाचकापेक्षया षष्ठी, दिशो वाचकं पूर्वपदस्मिन्नित्यर्थः ।।
मद्रेभ्योऽञ्‌ ।। 4.2.108 ।।
मद्रशब्दो जनपदवचनः, बहुवचननिर्देशो जनपदवाचिनः परिग्रहार्थः, तेन मद्रपर्यायो न गृह्यते । पौर्वमद्र इति । मद्रैकदेशे मद्रशब्दस्य वृत्तेर्दिक्शब्देन सामानाधिकरण्ये सति `तद्धितार्थ' इति समासः ।।
उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात्‌ ।। 4.2.109 ।।
शैवपुरमिति । `प्रस्थपुरवहान्तात्‌' इति वुञ्‌ न भवति; `वृद्धात्‌' इति तत्र वर्तते ।।
प्रस्थोत्तरपदपलद्यादिकोपधादण्‌ ।। 4.2.110 ।।
उदीच्यग्रामलक्षणस्याञोऽपवाद इति । ततोऽन्यत्र व्रीहिप्रस्थ--गिरिप्रस्थ--करिकादावौत्सगिक एवाण्‌, कैलासप्रस्थ--काक--शाकादिषु वृद्धेषु `वृद्धाच्छः' भवति, देशवाचिनि तु मालाप्रस्थादौ `प्रस्थपुरवहान्ताच्च' इति वुञ्‌, इक्ष्वाकुप्रभृतिषु जनपदवुञोऽपवादः `कोपधादण्' इत्यण्वक्ष्यते, अरीहणकादौ च `वृद्धादकेकान्त' इति छो भवति, तस्मादञोऽपवाद इति सुष्ठूक्तम् । उत्तरपदग्रहणादिह न भवति---उत्तरोमाहकिप्रस्थ उत्तरमाहकिप्रस्थः, तत्र भ इति । `प्रस्थान्तात्‌' इति तूच्यमानेऽत्रापि स्यात्‌ ।
अण्ग्रहणं बाधकबाधनार्थमिति । यद्यण्ग्रहणं न क्रियेत, तदा यदत्र वृद्धं वाहीकग्रामवाचि तस्मात्‌ `प्राग्दीव्यतोऽण्‌' इत्यणि प्राप्ते `वृद्धाच्छः' प्राप्तः, तस्मिन्`वाहीकग्रासेभ्यश्च' इति ठञ्ञिठाभ्यां बाधिते पुनर्विधानाच्छ एव स्यात्‌ । तस्माद्वाधकमपि तं छं बाधित्वा अण्ग्रहणादणेव भवति ।
यकृल्लोमशब्दः पठ्यते, यकृल्लोम्नि भः याकृल्लोमः, `अन्‌' इति प्रकृतिभावो न भवति, गणे नलोपनिपातनादित्याहुः ।।
कण्वादिभ्यो गोत्रे ।। 4.2.111 ।।
गोत्रमिह न प्रत्ययार्थ इति । शेषाधिकारस्य बाधप्रसङ्गात्‌ । न च प्रकृतिविशेषणमिति । कण्वादीनामगोत्रप्रत्ययान्तानां गोत्रे वृत्त्यसम्भवात्‌ । कण्वादिभ्यो गोत्रे यः प्रत्ययो विहित इति । प्रतिपदविहितो यञेव गृह्यते । एवं च कृत्वा गोत्रमपि पारिभाषिकं गृह्यते, न त्वपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यत इत्यपत्यमात्रस्य ग्रहणम्---कण्वो देवताऽस्येति । ननु `कण्वादिभ्यः' इत्युच्यमाने कथमणन्तात्प्रसङ्गः ? कथं वा यञन्तेभ्यः स्याद्‌ येनेष्टं तावत्सिद्ति ? एवं मन्यते---केवलेभ्यः कण्वादिभ्य औत्सर्गिक एवाण्‌, सिध्यति, छापवादत्वाद्योगस्य कण्वाद्यवयवे तद्धितान्ते कण्वादिश्ब्दो वर्तिष्यत इति ।।
इञश्च ।। 4.2.112 ।।
गोत्र इत्येवेति । पूर्वत्र पारिभाषिकस्य गोत्रस्य ग्रहणमित्युक्तम्, इहापि तदेवानुवर्तते, तेनात्रापि पारिभाषिकस्यैव ग्रहणादिह न भवति---पाणिनेर्यूनच्छात्त्राः पाणिनीया इति सौतङ्गमेरिदमिति । सुतङ्गमशब्दाद्‌ वुञ्छणादिसूत्रेण चातुर्थिक इञ्‌ । अत्रापत्यत्वमेव नास्तीति सुतरामगोत्रत्वाद्भवति प्रत्युदाहरणम् ।।
न द्व्यचः प्राच्यभरतेषु ।। 4.2.113 ।।
ननु च भरताः प्राच्या एव, तत्किमर्थं तेषां स्वशब्देन ग्रहणम् ? तत्राह---ज्ञापकादन्यत्रेति । `बह्वच इञः प्राच्यभरतेषु' इत्यत्रायमर्थो ज्ञापतिः---`अन्यत्र प्राच्यग्रहणे भरतानां ग्रहणं न भवति' इति ।
अपर आह---ज्ञापकादन्यत्रेत्यन्वयः, अन्यत्रास्यार्थस्य ज्ञापितत्वादित्यर्थः ।।
वृद्धाच्छः ।। 4.2.114 ।।
अव्ययतीरेत्यादि । अव्ययात्त्यब्‌ भवतीत्यस्यावकाशः---अमात्यः, छस्यावकाशः---शालीयो मालीयः, आराच्छब्दाच्छो भवति---आरातीयः । `अमेहक्वतसित्रेभ्यः' इति परिगणनमनपेक्ष्यायं विप्रतिषेधः । तीरोत्तरविधेरवकाशः---काश्यतीरः, छस्य स एव; वायसतीराच्छो भवति वायसतीरियः । रूप्योत्तरविधेरवकाशः---चाररूप्यः, छस्य स एव; माणिरूप्याच्छः प्राप्तः, तं चापि योपधलक्षणो वुञ्‌ बाधते---माणिरूप्यकः । प्राप्तिमात्राश्रयेण तु छस्य रूप्योत्तरपदलक्षणस्य च ञस्य विप्रतिषेध उक्तः । उदीच्यग्रामलक्षणस्य विधेरवकाशः--शिवपुर---शैवपुरः, वाडवकर्षाच्छो भवति---वाडवकर्षीयः। कोपधविधिः---`प्रस्थोत्तरपदपलद्यादिकोपधादण्‌' इत्ययं विवक्षितः, स तस्माद्धि परस्थस्तस्यावकाशः---`प्रस्थोत्तरपदपलद्यादिकोपधादण्‌' इत्ययं विवक्षितः, स तस्माद्धि परस्थस्तस्यावकाशः---निलीनक---नैलीनकम्, उलूका अस्मिन्सन्ति `तदस्मिन्नस्ति' इत्यण्‌, औलको नाम ग्रामस्तत्र भवः, तस्माच्छो भवति---औलूकीयः । यस्तु `कोपधादण्‌' इत्यण्‌, स जनपदवुञोऽपवादः, तस्यापि `वृद्धादकेकान्त' इत्यत्र `कोपधग्रहणं सोसुकाद्यर्थम्' इति विहितश्छो बाधको भवति ।।
भवतष्ठक्छसौ ।। 4.2.115 ।।
ठक्छस्‌ इत्येताविति । सित्करणादवसीयते---छसोऽयं निर्देशः, न शस इति, शसि हि स्वादिपदत्वेनैव सिद्धम् । सकारः पदसंज्ञार्थ इति । तेन भवदीय इत्यत्र जश्त्वं भवति । भावत्क इति । `इसुसुक्तान्तात्कः' प्रक्रियालाघवार्थं ककि विधातव्ये ठग्विधानं स्त्रियां ङीबर्थम्---भावत्की ।
अवृद्धात्तु भवति इति । शत्रन्तात्‌ । क्वचित्तु भवतः शतुरित्येव पाठः ।।
काश्यादिभ्यष्ठञ्ञिठौ ।। 4.2.116 ।।
वृद्धादित्येवेति । कथं तर्ह्यवृद्धेभ्यो युवराजादिभ्यः प्रत्यय इत्यत आह---ये त्विति ।
यद्यवृद्धेभ्यो वचनप्रामाण्यात्प्रत्ययौ भवतः, किमर्थं तर्हि वृद्धाधिकारः ? इत्यत आह---देवदत्तशब्द इत्यादि । कथं भाष्ये उदाहृतमिति । यद्यपि तत्र स्वयमपि छप्रत्ययमुदाहरत्येव, तत्तु भाष्यकारप्रामाण्येन न स्वातन्त्र्येणेति `भाष्ये' इत्युक्तम् ।
आपदादिपूर्वपदादिति । आपदादिराकृतिगणः । कालादिति । कालशब्दान्तादित्यर्थः ।।
वाहीकग्रामेभ्यश्च ।। 4.2.117 ।।
छस्यापवादौ इति । एवं च ये छेनैव बाधिता अव्ययतीररूप्योत्तरपदोदीच्यग्रामकोपधविषयास्तद्विषयेऽप्येतावेव भवतः, न चेदन्येन बाधः, तद्यथा---आरान्नाम वाहीकग्रामः आरात्की, आरात्का, `इसुक्तान्तात्कः' । तथा कास्तीरं नाम वाहीकग्रामः कास्तीरिकी, कास्तीरिका । इह तु दाशरूप्यं नाम वाहीकग्रामः, `धन्वयोपधात्‌' इति वुञ्‌ ठञ्ञिठौ बाधते---दाशरूप्यकः । तथा शकलान्यस्मिन्सन्ति शाकलं नामोदीच्यग्रामः भूयो वाहीकग्रामः, ततष्ठञ्ञिठौ भवतः---शाकलिकी, शाकलिका । इह तु सौसुकं नाम वाहीकग्रामः प्रस्थोत्तरपदादिसूत्रेण प्राप्तं कोपधलक्षणमणं छो बाधते, परत्वात्तमप्यपवादत्वाद्‌ `वृद्धादकेकान्त' इत्यत्र `कोपधग्रहणं सोसुकाद्यर्थम्' इति कोपलक्षणश्लो बाधते, सौसुकीयः ।।
ओर्देशे ठञ्‌ ।। 4.2.119 ।।
नैषादकर्षुकः, शाबरजम्बुक इति । निषादकर्षू-शबरजम्बूशब्दाभ्यां ठञ्‌, `इसुसुक्तान्तात्कः', `केऽणः' इति ह्रस्वः ।।
वृद्धात्प्राचाम् ।। 4.2.120 ।।
वृद्धादेव प्राचामिति । विपरीतस्तु नियमो न भवति---प्राचामेव वृद्धादिति, अप्राग्देशवाचिनो वृद्धस्योवर्णान्तस्याभावाद्‌ यत्र पूर्वसूत्रस्यातिप्रसङ्गः स्यात्‌ । आढकजम्बुक इति । पूर्ववत्कादेशह्रस्वत्वे ।।
धन्वयोपधाद्‌ वुञ्‌ ।। 4.2.121 ।।
धन्ववाचिन इति । धन्वविशेषवाचिन ऐरावतादेरित्यर्थः । स्वरूपस्य पर्यायाणां च ग्रहणं न भवति, वृद्धाधिकारात्‌ । पारेधन्वक इति । `पारेमध्ये षष्ठ्या वा' इत्यव्ययीभावः, `अचश्च' इति टच्‌ समासन्तः, वुञि यस्येति लोपः । यदि तु धन्वशब्दो नपुंसकलिङ्गः, ततः `नपुंसकादन्यतरस्याम्' इति टजभावपक्षे वुञि' नस्तद्धिते' इति टिलोपः । साङ्काश्यकाम्पिल्यशब्दौ वुञ्छणादिसूत्रेण ण्यान्तौ ।।
प्रस्थपुरवहान्ताच्च ।। 4.2.122 ।।
वृद्धादिति वर्तते इति । यद्येवमन्तग्रहणनर्थकं प्रस्थादीनामवृद्धत्वादेव तदन्तविधिर्भविष्यति ? नैतदस्ति; `वा नामधेयस्य' इति प्रस्थादीनामेव पदानां वृद्धत्वसम्भवात् । अथाप्येवंनाम्नो देशस्याभावः, तथापि यथा पूर्वसूत्रे धन्वविशेषग्रहणं तथेहापि सम्भाव्येत नादीपुरं नाम वाहीकेषु ग्रामः, तत्र वाहीकग्रामलक्षणौ ठञ्ञिठौ छस्यापवादौ, अयमपि वुञ्‌ छस्यापवादः । इह त्वपवादविप्रतिषेधाद्‌ वुञ्‌ भवति । एवं च पातनप्रस्थकः, कौञ्जीवहक इत्यत्रापि वुञेव भवति ।।
रोपधेतोः प्राचाम् ।। 4.2 123 ।।
ईकारान्ताच्चेति । ह्रस्वस्य तु ग्रहणं न भवति, तदन्तस्य प्राग्देशवाचिनोऽसम्भवात्। एकचक्र इति । एकचक्रा नाम पाग्देशे नगरी, तत्र `एङ्‌ प्राचां देशे' इति वृद्धसंज्ञा, ककन्देन निर्वृत्ता नगरी काकंन्दी, स्त्रीषु `सौवीरसाल्वप्राक्ष' इत्यञ्‌ । तपरकरणं विस्पष्टार्थमिति । न तु ह्रस्वप्लुतयोनिवृत्त्यर्थम् ; तदन्तस्य प्राग्देशवाचिनोऽसम्भवात्‌, ईकारस्यानण्त्वेन तयोरग्हणाच्च । असति तु तकारे `रोपधयोः' इत्युच्यमाने किमत्र गृहीतमिति विस्पष्टं न ज्ञायते । तकारे तु सति वर्णनिर्देशो निश्चीयते, तत्रैव तस्य प्रसिद्धत्वात् । `ईकाररोपधयोः' इति निर्देशे गौरवप्रसङ्गः ।।
जनपदतदवध्योश्च ।। 4.2.124 ।।
तदवधिरपि जनपद एव गृह्यते इति । स चासाववधिरिति कर्मधारय आश्रीयते, न तु तस्यावधिस्तदवधिरिति षष्ठीसमास इत्यर्थः । तथा हि सति मौञ्जी नामावधिभूतो ग्रामः, तत्र भवो मौञ्जीय इत्यत्रापि स्यात्‌ । कस्य पुनरसाववधिरिति चेत्‌ ? सन्निधानाज्जनपदस्यैवेति विज्ञायते ।।
गर्तोत्तरपदाच्छं बाधित्वेति । अन्यथा तु गर्तोत्तरपदाच्छो भवतीत्यस्यावकाशः---वृकगर्तीयः, जनपदवुञोऽवकाशः---आङ्गकः; त्रिगर्तशब्दादुभयप्रसङ्गे परत्वाच्छः स्यात्‌, ततश्च गर्तोत्तरपदाच्छविधेर्जनपदाद्‌ वुञ्‌ पूर्वविप्रतिषिद्ध इति पूर्वविप्रतिषेधः पठितव्यो भवति । त्रैगर्तक इति । उत्तरसूत्रेण वुञ्‌ । एतेनोत्तरत्र तदवधिग्रहणस्योपयोगं दर्शयति ।।
अवृद्धादपि बहुवचनविषयात्‌ ।। 4.2.125 ।।
अण्छयोरपवाद इति । अवृद्धादणोऽपवादो वृद्धाच्छस्य । इहावृद्धादपि बहुवचनादित्येव सिद्धम्; यौगिको बहुवचनशब्दः---बहूनामर्थानां वचनो बहुवचन इति । यदि वा बहुवचनाद्वहुवचनान्तादित्यर्थः, नार्थो विषयग्रहणेन ? तत्राह---जनपदैकशेषबहुत्व इति । जनपदस्यैकशेषवशेन यद्वहुत्वं तत्रेत्यर्थः । वर्तन्य इति । अवयवभेदेन भेदमाश्रित्य एकशेषः । नायं नित्यबहुवचनान्तः; द्व्येकयोरपि दर्शनात्‌ । तक्रकौण्डिन्यायेनेति । पूर्वसूत्रे हि जनपदसामान्ये वृद्धाद्‌ वुञ्‌ विहितः, यथा---ब्राह्मणसामान्ये दधिदानम् । इह तु बहुवचनविषये विशेषेऽवृद्धाद्‌ वुञ्‌, यथा---कौण्डिन्ये तक्रदानम्, ततश्च बहुवचनादपि वृद्धाद्‌ वुञि प्राप्ते आरभ्यमाणोऽवृद्धाद्‌ वुञ्‌ वृद्धाद्‌ वुञो बाधकः स्यादित्यापिशब्देन समुच्चीयत इत्यर्थः । इह बहुवचनविषयादित्येतावता सिद्धमवृद्धार्थोऽयमारम्भः । वृद्धाधिकारविच्छेदार्थं त्ववृद्धादपीति वचनम् ।।
काच्छाग्निवक्त्रगर्तोत्तरपदात्‌ ।। 4.2.126 ।।
कच्छशब्दार्थमुत्तरपदग्रहणम् । स हि केवलोऽपि कूलाख्ये देशे वर्तते, इतरेषां तु केवलानां देशवृत्त्यसम्भवादेव तदन्तविधिः सिद्धः । कच्छाद्यन्तादित्युच्यमाने बहुच्पूर्वादपि स्यादित्युत्तरपदग्रहणम् ।।
धूमादिभ्यश्च ।। 4.2.127 ।।
अणआदेरपवाद इति । अवृद्धेभ्यो धूमादिभ्योऽणोऽपवादः, वृद्धेभ्यश्छस्य, उदीच्यग्रामेभ्यस्त्वञः, वाहीकग्रामेभ्यष्ठञ्ञिठयोः । कूलात्सौवीरेष्विति । कौलको भवति सौवीरेषु, कौलमन्यत्र ।।
नगरात्‌ कुत्सनप्रावीण्ययोः ।। 4.2.128 ।।
केनेदं मुषितमिति प्रश्नः, इह नगरे मनुष्येणेत्युत्तरम् । सम्भाव्यत एतदित्यादि प्रष्टुर्वचनम् । संज्ञानगरं पठ्यत इति । माहिष्मतीशब्दसाहचर्यात्‌ संज्ञानगरं संज्ञाभूतो नगरशब्द इत्यर्थः ।।
अरण्यान्मनुष्ये ।। 4.2.129 ।।
औपसंख्यानिकस्येति । `अरण्याण्णो वक्तव्यः' इत्युपसंख्यानप्राप्तस्य ।
`मनुष्ये' इत्यल्पमिदमुच्यते, इत्याह---पथ्यध्यायेति । आरण्यकोऽध्याय इति । योऽरण्येऽधीयते उपनिषद्भागः स उच्यते । विहारः = क्रीडा ।।
विभाषा कुरुयुगन्धाराभ्याम् ।। 4.2.130 ।।
कुरुशब्दः कच्छादिषु पठ्यते इति कथं तर्हि कुरुशब्दाद्‌ वुञः प्राप्तिरुक्ता, ताभ्यामवृद्धादपीति नित्यं वुञि प्राप्त इति ? आद्यप्राप्त्यभिप्रायेण तदुक्तम्, न पुनर्योऽनेन विकल्पेन बाध्यते तदभिप्रायेण । येऽपि पठन्ति--वुञि सिद्ध इति, प्राप्त इत्यर्थः । यथा सिद्धे सत्यारम्भो नियमार्थ इति कुरुशब्दार्थं विभाषाग्रहणं न कर्तव्यमित्ति प्रतिपादयिष्यन्नाह---कुरुशब्दः कच्छादिषु पठ्यति इति । ततः किमित्यत्राह---तत्रेति । किमर्तं तर्हि विभाषाग्रहणमित्याह--सैषेति । ननु युगन्धरशब्दादपि `अवृद्धादपि' इति नित्ये वुञि सिद्धेऽन्तरेणापि विभाषाग्रहणं पुनर्वचनाद्विकल्पो विज्ञास्यते ? नैवं शक्यम् ; विपर्ययोऽपि स्यात्‌ । युगन्धरशब्दान्नित्यो वुञ्‌, `अवृद्धादपि' इत्यनेन तु विभाषित इति पुनरारम्भो ह्येवमप्युपपद्यते । मनुष्यतत्स्थयोस्त्विति । एतच्च कच्छादिषु पाठसामर्थ्याल्लभ्यते, अन्यथाऽनयैव विभाषया वुञणोः सिद्धत्वात्तत्रास्य पाठोऽनर्थकः स्यात्‌ ।।
मद्रवृज्योः कन्‌ ।। 4.2.131 ।।
मद्रशब्दः `स्फायितञ्चि' इति रक्प्रत्ययान्तः, `वृजी वर्जने' `इगुपधात्किः' इति किप्रत्ययान्तो वृजिशब्दः । जनपदवुञोऽपवाद इति । `अवृद्धादपि' इति ।।
कोपधादण्‌ ।। 4.2.132 ।।
किं पुनरदेशवाचिनोऽयं नेष्यते यतो देशग्रहणमनुवर्तते ? इत्यत आह---अन्यत्रेति । पूर्वेण, प्रस्थोत्तरपदादिसूत्रेण, एवं चोत्तरार्थं देशानुवृत्तिः न त्वदेशनिवृत्त्यर्था । नन्वदेशवाचिनः प्राग्दीव्यतीय एवाण्‌ सिद्धः, प्रस्थोत्तरपदादिसूत्रं तु उदीच्यग्रामलक्षणाञो बाधनार्थम्, तत्किमुच्यते---अन्यत्र पूर्वेणैवेति, सत्यम् ; सति त्वेवमर्थे तस्यारम्भे प्रतिपदविधानात्तेनैव सर्वत्राण्विधिर्युक्तः, अथाण्ग्रहणं किमर्थम्, न कोपधाद्यथाविहितमित्येवोच्येत, आरम्भसामर्थ्याद्धियो विहितो न च प्राप्नोति स एव भविष्यति ? इत्यत आह---अण्ग्रहणमिति । इक्ष्वाकुशब्दाद्‌ `ओर्देशे ठञ्‌' प्राप्तः, तस्मिन्‌ जनपदवुञाबाधिते यद्यण्ग्रहणं नक्रियते पुनर्वचनाद्‌ वुञेव स्याद्‌, अण्ग्रहणे त्वणेव भवति । ऐक्ष्वाक इति । दाण्डिनायनादिसूत्रेण टिलोपः, एवं चाण्ग्रहणादेवायमोर्देशे ठञो बाधको न परत्वात्‌ ।।
कच्छादिभ्यश्च ।। 4.2.133 ।।
वुञोदेरपवाद इति । ये जनपदवाचिनो बहुवचनविषयाः, तेभ्यो वुञोऽपवादः, सिन्धुवर्णुशब्दाभ्यामोर्देशे ठञः । साल्वशब्दः पठ्यते---जनपदलक्षणो वुञ्मा भूदिति । `अपदातौ साल्वात्‌' `गोयवाग्वोश्च' इति नियमार्थं भविष्यति---अपदातावेव गोयवाग्वोरेवेति, वृद्धत्वाच्छः प्राप्नोति ।।
अपदातौ साल्वात्‌ ।। 4.2.135 ।।
पादाभ्यामततीति `पादस्य पदाज्यातिगोपहतेषु' इति पदादेशः, न पदातिरपदातिः । अपदातिः=अश्वरोहादिः । अपदातावेव मनुष्ये तत्स्थे चेति । द्वन्द्वनिर्दिष्टत्वेन तत्स्थे चेत्युक्म्, न तु तत्स्थस्य पदातेः सम्भवोऽस्ति । अपदातौ साल्वादेवेत्येष तु विपरीतनियमो न भवति; `गोयवाग्वोश्च' इत्यारम्भात्‌ ।।
गर्तोत्तरपदाच्छः ।। 4.2.137 ।।
वाहीकग्रामलक्षणमिति । यद्यपि `वाहीकग्रामेभ्यश्च' इति ठञ्ञिठौ विहितौ, तथाप्युत्सृष्टानुबन्धयोस्तयोष्ठरूपाविशेषाद्वाहीकग्रामलक्षणमित्येकवचननिर्देशः । श्वाविद्‌गर्तीयमिति । श्वानं विध्यतीति व्यधेः क्विप्‌, सम्प्रसारणम्, `नहिवृत्ति' इति दीर्घः, श्वाविधां गर्तः श्वाविद्‌गर्तः ।।
गहादिभ्यश्च ।। 4.2.138 ।।
अणादेरपवाद इति । तत्र माहकिप्रस्थशब्दात्‌ `प्रस्थपुरबवन्ताच्च' इति वुञोऽपवादः, वाल्मीकिप्रभृतिभ्य इञन्तेभ्यः `इञश्च' इत्यणः, शेषेभ्य औत्सर्गिकस्याणः । सम्भवापेक्षमिति । येषां देशे चादेशे च वृत्तिः सम्भवति गहादीनां तेषामेव विशेषणम्, न त्वन्तस्थपूर्वपदादीनामित्यर्थः । पृथिवीमध्यस्येति । पृथिवीमध्यवाच्येव मध्यशब्दो ग्राह्यः, न मध्यान्तरवाचीत्यर्थः । चरणसम्बन्धेन निवासलक्षणोऽणिति । चरणसम्बन्धेन योऽण्विधीयतेऽण्‌ चरण इत्यनेन स निवासलक्षणौ द्रष्टव्यः । `सोऽयं निवासः' इत्यज्ञैवार्थे भवतीत्यर्थः, तेन पृथिवीमध्यं निवास एषां कठादीनां चरणानामित्यत्रार्थे मध्यमा इति भवति ।
मुखपार्श्वतसोर्लोप इति । मुखपार्श्वशब्दयोस्तसन्तयोः प्रत्ययसन्नियोगेन लोपो भवति, स च `अलोऽन्त्यस्य', तत्र कृते यस्येति लोपः, लोपवचनम्, `अव्ययानां भमात्रे टिलोपः' इत्यस्यानित्यत्वज्ञापनार्थम्, तेनारातीय इति सिद्धं भवति ।।
वृद्धादकेकान्तखोपधात्‌ ।। 4.2.141 ।।
आरीहणकीयम्, द्रौहणकीयमिति । `तेन निर्वृत्तम्' इत्यत्रार्थे वुञ्छणादिसूत्रेण यो वुञ्‌ तदन्ताभ्यां प्रत्ययः, उदाहरणदिक्चेयमकान्तस्य दर्शिता । `वृद्धाच्छः' इत्येव ह्यत्र चः सिद्धः, न ह्योतौ जनपदवाचिनौ, येन कोपधादणः प्रसङ्गः स्यात्‌ । इदं त्वत्रोदाहरणं द्रष्टव्यम्---ब्राह्मणको नाम जनपदो यत्र ब्राह्मणा आयुधजीविनः `ब्राह्मणकोष्णिके संज्ञायाम्' इति निपातनात्‌ साधुः, तत्र जातो ब्राह्मणकीय इति । अकेकान्तग्रहणे कोपधग्रहणमिति । सूत्रेऽकेकान्तग्रहणमपनीय कोपधादिति वक्तव्यम्, व्यापकत्वाल्लघुत्वाच्चेत्यर्थः ।।
अन्यापलदनगरग्रामह्रदोत्तरपदात्‌ ।। 4.2.142 ।।
अन्तग्रहणेनैव सिद्धम्, नार्थ उत्तरपदग्रहणेन । न च बहुच्पूर्वे प्रसङ्गः, `प्राचां देशे' इत्यधिकारात्‌ ।।
विभाषाऽमनुष्ये ।। 4.2.144 ।।
यद्यत्र नञः प्रश्लेषो न स्यादसन्देहार्थम् `मनुष्ये विभाषा इत्येव ब्रूयात्‌, लाघवे विशेषाभावादिति मत्वाऽऽह---अमनुष्येऽभिधेय इति । अमनुष्यशब्दो यौगिकोऽत्र गृह्यते, न तु रक्षः पिशाचादिषु रूढ इति दर्शयत्युदाहरणेन पर्वतीयानि फलानीति ।।
कृकणपर्णाद्‌ भारद्वाजे ।। 4.2.145 ।।
न गोत्रशब्द इति । कुत इत्याह---प्रकृतिविशेषणं चैतदिति । चशब्दो हिशब्दार्थे ।।
इति श्रीहरदत्तमिश्रविरचितायां पदमञ्जर्यां चतुर्थस्याध्यायस्य द्वितीयः पादः


*********************---------------------