सामग्री पर जाएँ

काशिका (पदमञ्जरीव्याख्यासहिता)/चतुर्थोऽध्यायः/प्रथमः पादः

विकिस्रोतः तः
काशिका (पदमञ्जरीव्याख्यासहिता)
प्रथमः पादः
[[लेखकः :|]]
द्वितीयः पादः →

काशिकावृत्तिः--4
पदमञ्जरी
ङ्याप्प्रातिपदिकात्‌ ।। 4.1.1 ।।
अधिकारोऽयमिति । विधेयपरिभाष्ययोरनिर्देशाद्वक्ष्यमाणानां च स्वादीनां प्रकृत्यपेक्षत्स्वरितत्वाच्च । आ पञ्चमाध्यायपरिसमाप्तेरिति । अधिकारस्यावधिं दर्शयति । अधिकारोऽनेकप्रकारः----संज्ञाधिकारः, विशेषणाधिकारः, प्रकृत्यधिकारश्चेति, तत्र कीदृसोऽयमधिकारः ? इत्यत आह---स्वादिषु कप्पर्यन्तेषु प्रकृतिरधिक्रयते इति । टाब्डाप्चापामाव्रितीति । सामान्यहणमित्यनुषङ्गः । समाहारनिर्द्देश इति । समाहारद्वन्द्वेन तेषां ङ्यादीनामयं निर्देश इत्यर्थः । ततश्च समाहारस्यैकत्वादेकवचनमेव युक्तम्, न बहुवचनमिति भावः ।
किमर्थमिदमुच्यते ? ङ्याप्प्रातिपदिकात्परे स्वादयो यथा स्युरिति केवलानां प्रयोगो मा भूत्‌ । `परश्च' इति वचनात्केवलानां प्रयोगो न भविष्यति ? इदं तर्हि प्रयोजनम्---ङ्याप्प्रातिपदिकादेव यथा स्युरित प्रकृत्यन्तरान्मा भूवन्‌ । असतिह्यस्मिन्नधिकारे धातुः, तिङन्तम्, वाक्यम्, सुबन्तं चेति ङ्याप्प्रातिपदिकव्यतिरिक्ताति चतुर्विधा प्रकृतिरस्ति, वक्ष्यमाणाश्च प्रत्ययाश्चतुर्विधाः---स्वादयः, टाबादयः, अणादयः, स्वार्थिकाश्चेति; तदिह चतुर्विधाभ्यः प्रकृतिभ्यश्चतुर्विधाः प्रत्यया मा भूवन्निति कर्त्तव्य एवायमधिकारः ।
न कर्त्तव्यः । ननु चासत्यस्मिन्‌ धात्वधिकाराद्धातोरेव स्युः, कृदुपपदसंज्ञे च स्याताम्, वासरूपविधिश्चस्यात्‌ ? न; निवृत्तत्वाद्धातुग्रहणस्य । यदि परं धातोरपि स्युः, तदपि न; कर्मादीनामभावात् । कर्मादिषु च कारकेष्वेकत्वादिकायां च संख्यायां स्वादयो विधीयन्ते, न च धात्वर्थस्य कर्मादिभिर्योगः सम्भवति । कथं तर्हि कर्मणि तत्र्यदादयो भवन्ति ? नैव धात्वर्थस्य कर्मत्वे तव्यदादयो भवन्ति, किं तर्हि ? धात्वर्थं प्रति यत्कर्म तस्मिन्वाच्ये---कर्त्तव्यः कट इति । स्वादयस्तु प्रकृत्यर्थस्य कर्मत्वे चरितार्था नान्यस्य कर्मत्वे भवितुमर्हन्ति, तव्यदादिभिश्च बाधितत्वाद्धातोः स्वादीनामभावः । ननु च धात्वर्थस्यैव कर्मत्वं दृष्टम्---सन्प्रकृतौ चिकीर्षतीत्यादौ ? एवमपि संख्याभावः सिद्ध एव, अव्ययेभ्यस्तु `अव्ययादाप्सुपः' इति ज्ञापकात्स्वादयो भवन्ति । यत्पुनः `बहुषु बहुवचनम्' इत्यत्रोक्तम्---यत्र च संख्या सम्भवतीति, तदस्यां दशायां तथा नाश्रीयते । टाबादयस्तर्हि धातोर्मा भूवन्निति ? स्त्रियां टाबादयो विधीयन्ते, न च धात्वर्थस्य स्त्रीत्वेन योगोऽस्ति । कथं तर्हि स्त्रियां क्तिन्नादयो विधीयन्ते ? नैवात्र धात्वर्थस्य स्त्रीत्वे क्तिन्नादयः स्मर्यन्ते, कस्य तर्हि ? यस्तस्य सिद्धत्वं नाम धर्मस्तस्य । क्तिन्नादिभिश्च बाधितत्वाट्टाबादीनामभावः ।
अणादयस्तर्हि धातोर्मा भूवन्निति ? अपत्यादिष्वर्थेष्वणादयो विधीयन्ते, न च धात्वर्थस्यापत्यादिभिर्योगोऽस्ति, समर्थविभक्त्यभावाच्चाणादीनामनुत्पत्तिः, `तस्यापत्यम्', `तेन रक्तम्', `तत्र भवः' इत्येवमादिभिः षष्ठ्यादिविभक्त्यन्तादणादयो विधीयन्ते, न च धातोर्विभक्तिः सम्भवति । स्वाथिका अपि स्वार्थकैस्तुमुन्नादिभिर्बाधितत्वादेव धातोर्न भविष्यन्ति ।
तिङन्तात्तर्हि स्वादयो मा भूवन्निति ? तिङन्तेषु क्रिया प्रधानभूता, साधनं गुणभूतम्, तत्र प्रधानभूतायाः क्रियायाः कर्मादीनामभावात्स्वादयो न भविष्यन्ति । पचति भवति, भवति वै किञ्चिदाचार्याः क्रियमाणमपि चोदयन्तीत्यादौ कर्तृत्वं दृष्टमिति चेत्‌, एवमपि संख्याया अभावः सिद्ध एव । यस्तु गुणभूतः कर्त्ताऽभीधीयते; तत्र अभिहितत्वादेव विभक्त्यभावः सिद्धः । न च गुणभूतस्य कर्तुः क्रियान्तरावेशः सम्भवति; यतः पाचकं पश्येत्यादिवद्‌ द्वितीयादयो भवेयुः । ननु पुत्रीयवदेतत्स्यात्‌, तद्यथा---पुत्रीयशब्दादन्तर्भूतक्रियाकर्मवाचिनः कर्त्तरि लकार उत्पद्यते---पुत्रीयतीति, तथेहापि पचतिशब्दात्‌ कर्तृविशिष्टक्रियावाचिनः क्रमादिषु द्वितीयादयः स्युरेव ? नैष दोः ; उक्तमेतत्‌---प्रकृत्यर्थस्य कर्मत्वे चरितार्थाः स्वादयो नान्यस्य कर्मत्वे भवितुमर्हन्तीति । न चैकक्रियापेक्षयोर्भिन्नयोः साधनयोरेकस्मिन्पदे युगपदभिधानं सम्भवति । पुत्रीयशब्दस्तु जीवत्यादिधातुवद्विशिष्टक्रियावचन इति, ततः कर्त्तरि लकारोत्पत्तिरविरुद्धा । अवश्यं चैतदेवं विज्ञेयम्---अर्थाभावादेव तिङन्ताद्‌ द्वितीयादयो न भवन्तीति । यो हि मन्यते---ङ्याप्प्रातिपदिकाधिकारान्न भवन्तीति; रूपबाद्यन्तात्तस्य द्वितीयादयः स्युरेव, पचतिरूपं पश्य, पचतिरूपेण कृतमित्यादि, भवति ह्येतत्प्रातिपदिकम् । कथं तर्हि रूपबाद्यन्तात्प्रथमैकवचनमपि भवति ? उक्तत्वात्सङ्ख्यायाः, न हि तत्कर्तुः सङ्ख्यायामेकवचनम् । यदि तथा स्यात्‌ पचतेरूपं पचन्तिरूपमिति द्विवचनबहुवचने स्याताम् । `प्रातिपदिकार्थ' इत्यत्र तु प्रातिपदिकग्रहणात्प्रातिपदिकमात्रानुबन्धिनी प्रथमा भवति । तत्राप्येकवचनमेव; `एकवचनमुत्सर्गः करिष्यते' इति वचनात्‌ । न चैवं तिङन्तेऽपि प्रसङ्गः तस्याप्रातिपदिकत्वात्‌ ।
टाबादयस्तर्हि तिङन्तान्मा भूवन्निति ? स्त्रियां टाबादयो विधीयन्ते, न च तिङन्ते प्रधानस्यार्थस्य स्त्रीत्वेन योगोऽस्ति । यदि परं साधनस्य स्त्रीत्वे टाबादयः स्युः पचेद्‌ ब्राह्मणः, पचेरन्‌ ब्राह्मण्य इति ? तदपि न; स्वभावतो हि तिङन्तानि साधनाश्रयां सङ्ख्यामेवोपाददते, न लिङ्गम् । उक्तं च---
एकत्वेऽपि क्रियाख्याते साधनाश्रयसंख्यया ।
भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रयः ।। इति ।
शोभनं पचतीत्यादौ क्रियाविशेषणस्यैव लिङ्गेन योगः, न क्रियायाः, तत्रापि नपुंसकेन । पचति रूपमित्यादावपि रूपबाद्यन्तवाच्यायाः क्रियायाः स्वभावतो लिङ्गेन योगः, तत्रापि नपुंसकेन । विचित्रा हि शब्दानां शक्तयो यथादर्शनमभ्युपगन्तव्याः, न सामान्यतो दृष्टेनानुमानेन व्यवस्थापयितुं शक्यन्ते । अवश्यं चैतदेवं विज्ञेयम्---स्त्रीत्वाभावात्तिङन्ताट्टाबादयो न भवन्तीति, अन्यथा पचतिरूपं ब्राह्मणीत्यादौ रूपबाद्यन्ताट्टाप्स्यादेव ।
अणादयस्तरिहि तिङन्तान्मा भूवन्निति ? अपत्यादिष्वर्थेष्वणआदयो विधीयन्ते, न च तिङन्ते प्रधानस्यापत्यादिभिर्योगोऽस्ति । अप्रधानस्य त्वप्रधानत्वादेवापत्यादिभिर्योगाभावः, समर्थविभक्त्यभावाच्चाणाद्यभावः सिद्धः । अवश्यं चैतदेवं विज्ञेयम्, अन्यथा यः पचतिरूपं तस्यापत्यमिति रूपबाद्यन्तादणादयः स्युरेव ।
स्वाथिका अपि ज्ञापकात्तिङन्तान्न भविष्यन्ति, यदयं क्वचित्तद्धितविधौ तिङ्‌ग्रहणं करोति---`अतिशायने तमबिष्ठनौ', `तिङश्च' इति । वाक्यादपि नैव स्वादयो भवितुमर्हन्ति; अर्मादीनामभावात् । न खलु क्रियारूपस्य संसर्गरूपस्य भेदरूपस्य वा वाक्यार्थस्य कर्मादिभि स्त्रीत्वेनापत्यादिभिर्वा योगः सम्भवति । `पश्य मृगो धावति' इत्यादौ दृष्टमिति चेत्‌ ? एवमपि संख्यायोगाभावः सिद्धः । स्वार्थिका अप्यभिधानाभावान्न वाक्याद्भविष्यन्ति । तथा हि---`देवदत्तारोहाश्वम्' इत्यस्माद्वाक्यात्प्रागिवीयेष्वर्थेषु के सुल्बुकि च कृते वाक्यार्थस्यासत्त्वभूतत्‌वाच्छक्तिलिङ्गसङ्ख्यायोगाभावात्स्वाद्युत्पत्तेरभावाद्‌ देवदत्तारोहाश्वकेति भवितव्यम्, न चैवम्भूतेन वाक्यार्थगताः कुत्सादयो गम्यन्त इति ।
सुबन्तादपि नैव स्वादयो भवितुमर्हन्ति । नहि स्वादिषु विधीयमानेषु तदन्ता प्रकृतिः सम्भवति, यथोक्तम्---`सनन्तान्न सनिष्यते' इति । किञ्च सुबन्तमपि सङ्ख्याप्रधानं कारकशक्तिप्रधानं वा, न चास्यापरैः कर्मादिभिर्योगः सम्भवति ।
टाबादयोऽपि स्त्रीत्वाभावान्न भविष्यन्ति । अणादिषु पुनर्नास्ति विशेषः, सुबन्ताद्वोत्पत्तौ सत्यां प्रातिपदिकाद्वा । यथा चैतत्तथा `समर्थानां प्रथमाद्वा' इत्यत्र प्रतिपादयिष्यामः । सर्वथा रूपबाद्यन्तात्प्रातिपदिकादप्यनिष्टः प्रत्ययो यद्वात्‌ तद्वद्धात्वादिकादपीति नार्थ एतेनेत्याक्षेप्ता शङ्कते तावत्‌---यद्यपीति ।
प्रत्ययपरत्वेन प्रकृतिर्लभ्यते । पारिशेष्याच्चेयमेव प्रकृतिर्लभ्यत इत्यर्थः ।
परिहरति---तथापीति । वृद्धादयो लक्षणं निमित्तं यस्य प्रत्ययविधेस्तत्र ङ्याप्प्रातिपदिकस्य विशेष्यत्वेन सम्प्रात्ययो यथा स्यादित्येवमर्थमित्यर्थः । इतरथा हीति । यदि ङ्याप्प्रातिपदिकग्रहणं न क्रियेतेत्यर्थः । समर्थविशेषणमेतत्स्यादिति । `समर्थानां प्रथमाद्वा' इत्यधिकारात्‌ । किं च समर्थम्‌ ? सुबन्तम् । समर्थविशेषणे सति को दाषः ? `उदीचां वृद्धादगोत्रात्‌' इति फिन्‌ । इह च प्रसज्येत---ज्ञानां ब्राह्मणानामपत्यमिति, एतद्धि समर्थंवृद्धम् । इह च न स्यात्‌---ज्ञानां ब्राह्मणानामपत्यमिति, न ह्येतत्समर्थमवृद्धम् । यत्र ह्यादेशादिवशेन सङ्ख्याविशेषाभिव्यक्तिर्भवति न भवति तत्र द्विवचनबहुवचनान्तानामपि वृत्तिः---तावकः, मामक इति । यथा इह च फिञुत्पद्यमानो बहुत्वमन्तरेण वृद्धत्वानुपपत्तेर्बहुत्वं गमयेत्‌, एवं फिन्नपि द्वित्वमिति स्यादेवायं प्रसङ्गः । अवर्ण---`अत इञ्‌' इहैव स्यात्‌ दक्षस्यापत्यमिति, दक्षयोः दक्षाणामित्यत्र तु न स्यात्‌ । स्वर---`अनुदात्तादेरञ्‌', इह च प्रसज्येत---वाचो विकारः, त्वचो विकारः, एतद्धि समर्थमनुदात्तादि, `सावेकाचः' इति विभक्तेरुदात्तत्वात्‌ । नन्वत्रैकाचो नित्यं मयटमिच्छन्तीति मयटा भाव्यम् ? इदं तर्हि पञ्चानां विकार इति `षट्‌त्रिचतुर्भ्यो हलादिः' इति विभक्तेरुदात्तत्वे सति समर्थमनुदात्तादि, प्रातिपदिकं तु `न्रः सङ्ख्यायाः' इत्याद्युदात्तम् । इह च न स्यात्‌---सर्वेषां विकार इति, `सर्वस्य सुपि' इत्याद्युदात्तं पदम्, प्रातिपादिकं त्वन्तोदात्तं निपातितम् । द्व्यच्‌---`नौद्व्यचष्ठन्‌', इह च प्रसज्येत---वाचा तरति, त्वचा तरति,एतद्धि समर्थं द्व्यच्‌ । नौग्रहणं तु नियमार्थं स्यात्‌---औकारान्ताद्यदि भवति नौशब्दादेवेति । इह च न स्यात्‌---घटेन तरतीति । साम्ना तरतीत्यादौ पुनरुभयथापि सिद्धम् । ङ्याप्प्रातिपदिकग्रहणे तु सति तत्सामर्थ्यात्तस्यैव विशेषणं वृद्धादि भवति, समर्थाधिकाराच्च समर्थात्प्रत्ययः । तत्रैवमभिसम्बन्धः---वृद्धादि यद्‌ ङ्याप्प्रातिपदिकं तस्मात्‌ समर्थात्‌ प्रत्ययः इति ।
`यस्मात्प्रत्ययविधिः' इति प्रत्ययविधौ पञ्चमीनिर्दिष्टस्य विधीयमाना अङ्गभपदसंज्ञा ङ्याप्प्रातिपदिकस्य यथा स्युरित्येतत्तु प्रयोजनंन भवति, कथम् ? दैवेन हि जानता यतः प्रत्ययो विहितस्तस्यैताः संज्ञाः पञ्चम्या निर्द्दिश्यतां मा वा निर्देशि । इह च `कंसीयपरशव्ययोर्यञञौ लुक्च' इति प्रातिपदिकात्परयोश्छयतोर्लुग्यथा स्यादौणादिकयोरुकारसशब्दयोर्मा भूदित्येतदपि न प्रयोजनम्, कथम् ? `उणादयोऽव्युत्पन्नानि प्रातिपदिकानि', उणआदिषु नावश्यं व्युत्पत्तिकार्यं भवतीत्यर्थः । एतच्च `अतः कृकमिकंस' इत्यत्र कमिग्रहणेनैव सिद्धे पुनः कंसग्रहणाद्विज्ञायते, तस्माद्‌ वृद्धाद्येव प्रयोजनमधिकारस्य ।
ङ्याब्ग्रहणं क्रियते; प्रत्ययान्तत्वेनाप्रातिपदिकत्वात् । `यूनस्तिः' युवतिरित्यस्य तु तद्धितान्तत्वात्प्रातिपदिकत्वम् । `ऊङुतः' इत्युवर्णान्तादूङ्‌ विधीयते, तत्रैकादेशस्यान्तवद्भावात्प्रातिपदिकत्वम् । `श्वशुरस्योकाराकारलोपश्च' इति श्वश्रूरित्यत्र `श्वशुरः श्वश्र्‌वश्च' इति निपातनाद्विभक्त्यादिसिद्धिः, एवं स्थिते चोद्यम्---अथेति । न प्रातिपदिकग्रहण इति । नञः काक्वा प्रयोगात्सिद्धमेवेत्यथः । अनेकार्थत्वाद्वा निपातानाम् । ननुशब्दस्यार्थे नशब्दो द्रष्टव्यः । लिङ्गविशिष्टस्येति । लिङ्गनिमित्तप्रत्ययेनाधिकस्येत्यर्थः ।
अस्याश्च परिभाषायाः प्रयोजनम्---सर्वनामस्वरसमासोपचारेष्ठवद्भावाः । सर्वनाम---भवच्छब्दस्य विधीयमाना सर्वनामसंज्ञा भवतीशब्दस्यापि भवति, `सर्वनाम्नास्तृतीया च', भवता हेतुना, भवतो हेतोः, भवत्या हेतुना, भवत्या हेतोरिति । स्वर---`कुशूलकूपवुम्भशालं बिले', कुशूलबिलं कुशूलीबिलम् । समास---`पूर्वसदृश', मातृसदशः, मातृसदृशी; `सदृशप्रतिरूपयोः' इति स्वरोऽप्यत्र भवति । तथा `कुमारः श्रमणादिभिः' । कुमारीश्रमणा, कुमारश्रमणा, एवं युवतिर्वलिना, युववलिना । उपचार---`अतः कृकमिकंसकुम्भ', अयस्कुम्भः, अयस्कुम्भी । इष्ठवद्‌भाव---`णाविष्ठवत्प्रातिपदिकस्य', कुमारीमाचष्टे कुमारयति । इह तु `अचित्तहस्तिधेनोष्ठक्‌', हस्तिनीनां समूहो हास्तिकरमिति, `भस्याढे तद्धिते' इति पुंवद्भावेन ङीपि निवृत्ते हस्तिशब्द एवायमिति ठक्सिद्धिः । `तद्धिते' इत्येषा हि विषयसप्तमी । अवश्यं च पुंवद्भाव एवाश्रयणीयः, अन्यथा हस्तिनीशब्दाट्ठकि यस्येतिलोपग्य स्थानिवद्भावात्‌ `नस्तद्धिते' इति टिलोपो न स्यात्‌ । इह च `नेन्त्सिद्धबध्नातिषु च स्थण्डिलशायिनि' इति `गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्‌ सुबुत्पत्तेः' इति वचनादनुत्पन्न एव ङीपि समासे सतीन्नन्तमेवोत्तरपदमित्यलुक्प्रतिषेधः सिद्धः । एवं `शयवासवासिष्वकालात्‌' ग्रामेवासिनीत्यलुक्‌ । तथा `क्यङ्‌मानिनोश्च' `स्वाङ्गाच्चेतोमानिनि' दर्शनीयमानिनी, दीर्घमुखमानिनी---मानिन्शब्द एवोत्तरपदमिति पुंवद्भावः सिद्धः । इह च `तृजकाभ्यां कर्त्तरि' `कर्त्तरि च' इति कर्त्तरि यौ तृजकौ ताभ्यां योगे या षष्ठी तस्या येन सह समासः प्राप्तः स सर्वो न भवतीति विज्ञानादपां स्रष्ट्रीत्यत्रापि समासनिषेदः सिद्धः । यदि `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' भवति, अतिप्रसङ्गो भवति---`द्विषत्परयोस्तापे' द्विषतीतप इत्यत्रापि स्यात्, उक्तमत्र---`द्विषत्परयोरिति द्वितकारकोऽयं निर्देशः तकारान्तो द्विषच्छब्दः' इति । इह च गार्ग्या अपत्यम्, दाक्ष्या अपत्यमिति `यञिञोश्च' इति फकं परत्वात्‌ स्त्रीभ्यो ढग्बाधते । इह च `ञ्नित्यादिनित्यम्' दाक्षिः, ग्लुचुकायनिरित्यस्यामवस्थायामाद्युदात्तत्वे कृते पश्चात्‌ `इतो मनुष्यजातेः' इति ङीषि सति शिष्टः प्रत्ययस्वर एव भवति---दाक्षी, ग्लुचुकायनी । न चास्यामवस्थायामाद्युदात्तत्वं पुनः प्रवर्त्तते; पूर्वमेव प्रवृत्तत्वात्‌ । तथा बहवो गोमन्तोऽस्यां बहुगोमतीति प्रागेव बहुस्वरे प्रवृत्ते पश्चान्ङीप्‌, पित्त्वादनुदात्तो भवति । न च पुनरपि `बहोर्नञ्वद्‌' इत्यम्य प्रवृत्तिः पूर्वमेव प्रवृत्तत्वात्समासाच्चात्र ङीबुत्पन्न इत्युत्तरपदं न लिङ्गविशिष्टम् । इह तर्हि `राजाहः सखिभ्यष्टच्‌' मद्राणां राज्ञीति टच्‌ स्यात्‌, ततश्च `भस्याढे तद्धिते' इति पुंवद्भावेन ईकारे निवृत्ते टिलोपे च टित्त्वान्ङीपि मद्रराजीति स्यात्‌, मद्रराज्ञीति चेष्यते । तथा महती प्रिया यस्य महतीप्रिय इति पुंवद्भावप्रतिषेधविषये `आन्महतः' इत्यात्वं स्यात् । तथाऽऽर्ययोर्ब्राह्मणकुमारयोः, राजा च राजब्राह्मणीत्यत्रापि स्यात्‌ । तथा विभक्त्याश्रयं यत्कार्यं विभक्तौ परतो विभक्तेर्वा तत्रापि दोषः, यथा---`न गोश्वन्‌साववर्ण' इति शुना, शुन इत्यत्र `सावेकाचः' इति प्राप्तं विभक्तेरुदात्तत्वं न भवति । तथा गौरादिङीषन्तात्‌ शुन्या, शुन्यै इत्यादावपि `उदात्तयणो हलपूर्वात्‌' इत्यस्यापि निषेधः स्यात् । `उगिदचाम्' इति नुम्‌ गोमतीत्यादावपि स्यात्‌ । `चतुरनडुहोराम्' अनडुहीत्यत्रेकारात्परः स्याद्‌ । `पथिमथ्यृभुक्षामात्‌' शोभनः पन्था अस्यामिति `न पूजनात्‌' इति समासान्ते निषिद्धे ऋन्नेभ्यो ङीपि भस्य टेर्लोपे सुपथीत्यत्रापि स्यात्‌ । अङ्गाधिकारे तदन्तस्यापि ग्रहणात्सुपन्था इतिवत्‌ `पुंसोऽसुङ्‌' सुपंसीत्यत्रापि स्यात्‌ । शोभनाः पुमांसो।़स्यामिति, उरः प्रभृतिषु पुमानिति विभक्त्यन्तस्य पाठादेकवचनान्तादेव नित्यं कप्‌ भवति, बहुवचनान्तस्य तु `शेषाद्विभाषा' इति विकल्पित एवेति कबभावपक्षे पूङो ह्रस्वः, मसुश्च प्रत्ययः, आकार उच्चारणार्थः, तत्र प्रत्यस्योगित्त्वात्‌ `उगितश्च' इति ङीप्‌ । `सख्युरसम्बुद्धौ' `अनङ्‌ सौ' इति णित्त्वानङौ सखौ सख्यावित्यादावपि स्याताम् । `सख्यशिश्वीति भाषायाम्' इति ङीष्विधानं तु सखीभ्यामित्याद्यर्थं स्यात्‌ । `विभाषा भवद्भगवदघवताम्' इत्यत्र त्ववशब्दः सम्बुद्धाविति विश्ष्यते, तत्र `येन नाव्यवधानम्' इत्येकेन वर्णेन व्यवाये ओत्वं प्रवर्त्तमानमिह न भवति---हे भगवति, हे अघवतीति, तदभावात्तत्सन्नियोगशिष्टस्य रुत्वस्याप्यभावः । `श्वयुवमघोनामतद्धिते' इत्यत्रापि `अल्लोपोऽनः' इत्यतः `अनः' इत्यपकर्षाद्युवतीः पश्येति सम्प्रसारणाभावः ।
तदेवं लिङ्गविशिष्टपरिभाषायाः सन्ति प्रयोजनानि, सन्ति च दोषाः । यानि प्रयोजनानि तदर्थमेषा कर्तव्या, प्रतिविधेयं दोषेषु । प्रतिविधानं च `शक्तिलाङ्गल' इत्यत्र घटग्रहणेनैव सिद्धे घटीग्रहणमस्याः परिभाषाया अनित्यत्वज्ञापनार्थमिति । तदेवं स्थितमेतत्‌---ङ्याब्ग्रहणमनर्थकं प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणादिति ।
परहरति---नैतदस्तोति । स्वरूपविधिविषय इति । स्वरूपाश्रयो विधिः स्वरूपविधिः, स चासौ विषयश्च तत्रेत्यर्थः । किमुक्तं भवतीत्याह---प्रातिपदिकस्वरूप ग्रहणे सतोति । कुत एतदित्यत आह---तथा चेति । यथा च युवञ्छब्दस्य जरतीशब्देन समासवचनमत्रार्थे ज्ञापकं तथा तत्रैव प्रतिपादिकम् । तादृशमेवेति । `प्रातिपदिकस्वरूपग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति' इति यदुक्तं तदनुगुणमेवेत्यर्थः । यदि स्वरूपविधिविषये परिभाषेयम्, कथमिष्ठवद्भावः---कुमारीमाचष्टे कुमारयतीति ? बाहुलकात्सिद्धिं मन्यते, चुरादौ हीदं पठ्यते---`प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च' इति । भाष्ये तु यथाकथंचित्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति स्थितम् । तथा च `सर्वप्रातिपदिकेभ्य इत्येके' इति क्विप्‌ ङ्यन्तादपि भवति---यामिनयन्त्यहानीति ।
किञ्चेत्यादिना प्रयोजनान्तरं समुच्चिनोति । कालितरेति । कालशब्दात्‌ जानपदादिसूत्रेण ङीषि तरपि `घरूपकल्प' इत्यादिना ह्रस्वः । किं पुनः कराणं तदन्तात्तद्धितविधिर्न सिध्यतीत्याह--- विप्रतिषेधाद्धीति । स्त्रीप्रत्ययस्यावकाशः---प्रकर्षाविवक्षायां कालीति, प्रकर्षप्रत्ययस्यावकाशः---स्त्रीत्वाविवक्षायां कालतर इति ; उभयविवक्षायामुभयप्रसङ्गे परत्वात्तद्धितः स्यात्‌ । ङ्याब्ग्रहणे तु सति तरब्विधौ प्रकृतित्रयाधिकारसामर्थ्यात्पूर्वं ङ्यापौ भवतः, पश्चात्तरबिति सिद्धमिष्टम् ।
ननु च स्त्रीत्वस्यान्तरङ्गत्वात्तन्निमित्तः प्रत्ययोऽन्तरङ्गः, प्रकर्षस्तु बाह्यप्रतियोग्यपेक्षत्वाद्बहिरङ्गः, ततस्तन्निमित्तस्य प्रत्ययस्यापि बहिरङ्गत्वम् । योऽप्यज्ञातादिष्वर्थेषु `प्रागिवात्कः' विधीयते सोऽप्यज्ञाताद्यर्थापेक्षत्वाद्बहिरङ्ग एव, विभक्त्यन्तस्य हि सतः पश्चादज्ञातादियोगो भवति, विभक्तयश्च संख्याकर्माद्यपेक्षाः । प्रागेव संख्याकर्मादियोगाल्लिङ्गेन प्रातिपदिकं युज्यते । उक्तं च---`स्वार्थमभिधाय शब्दो निरपेक्षो द्रव्यमाह समवेतम्, समवेतस्य तु वचने लिङ्गं संख्यां विभक्तिं चाभिधाय तान्विशेषानवेक्षमाणश्च पूर्णमात्मानमप्रियकुत्सनादिषु ततः विशेष्ये बुद्धिरिति पूर्वं विशेषणभूतः स्वार्थोऽभिधातव्यः, पश्चात्तद्विशिष्टं द्रव्यम्; तस्य धर्मित्वेन प्रधानत्वात्‌, ततो लिङ्गमन्तरङ्गत्वात्‌ । संख्या हि भेदापेक्षत्वाद्बहिरङ्गा, सापि तु सजातीयापेक्षा विजातीयकर्मादिकारकशक्त्यपेक्षेभ्यः कारकेभ्योऽन्तरङ्गेति ततस्तस्या अभिधानम्, ततः कारकाणाम्, एवं परिपूर्णार्थस्य पश्चात्कुत्सनादिभिर्योगः । स्वार्थादयो हि कुत्सनादिहेतवः, द्रव्यस्य पण्डितक इत्यादौ तथावसायात्‌ । तदेवमन्तरङ्गः स्त्रीप्रत्ययः, बहिरङ्गास्तद्धिताः, अन्तरङ्गबहिरङ्गयोश्चायुक्तो विप्रतिषेधः ? इह तहि `वर्णे चानित्ये', `रक्ते' `कालाच्च' इत्यस्यावकाशः स्त्रीत्वाविवक्षायां कालक इति, स्त्रीप्रत्ययस्य कालीत्यवकाशः; कालिकेत्यत्रोभयप्रसङ्गे परत्वान्कन्‌ स्यात्‌ । तस्य चात्यन्तस्वाथिकत्वान्न तदपेक्षं स्त्रीप्रत्ययस्यान्तरङ्गत्वमस्ति । नास्त्यत्र विशेषः, कालशब्दादप्युत्पत्तौ `प्रत्ययस्थात्‌' इतीत्वे कालिकेति सिद्धम् ? यदा तहिं हरितशब्दात्‌ `न सामिवचने' इति ङीब्नकारौ बाधित्वा परत्वात्कन्‌ स्यात्‌, ततश्च हरिणिकेति न स्यात्‌ । हरितशब्देन समानार्थो हरिणशब्दोऽस्ति, ततः कर्मत्वे च भविष्यति, हरितशब्दात्तु हरितिकेति ? अयं तहि---`लोहितान्मणो' इत्यत्यन्तस्वर्थिकः कन्‌ `वर्णादनुदात्तात्‌' इति ङीब्नकारौ परत्वाद्बाधेत, ततश्च लोहितिकेत्येव स्यात्‌, न लोहिनिकेति;उभयमपीष्यते, तदर्थं ङ्याब्ग्रहणम् ।
ननु च `लोहिताल्लिङ्गबाधनं च' इत्यनेनैवैतत्सिद्धम्, तन्न वक्तव्यं भवति, कथम् ? `वर्णादनुदात्तात्‌' इत्यत्र वेति वर्तते, तत्र ङ्याबन्ताभ्यां लोहिनीलोहिताशब्दाभ्यां कनि विहिते यतायोगं ह्रस्वत्वेत्वयोः कृतयोर्लोहिनिका लोहितिकेति सिद्धमिष्टम् । तदेवं सति ङ्याब्ग्रहणे लिङ्गनिमित्तेन प्रत्ययेन विकल्पेन बाधा यथा स्यान्नित्यं मा भूदित्येवमर्थं तावन्न वक्तव्यम्---लोहिताल्लिङ्गबाधनं वेति । नापि प्रतिपदविहितत्वेन कना लिङ्गनिमित्तस्य प्रत्ययस्य नित्ये बाधे प्राप्ते । विकल्पेन बाधा यथा स्यादित्येवमर्थमपि वक्तव्यम्; ङ्याब्ग्रहणस्यानन्यार्थत्वात्‌ । यदि ह्येतश्वेतशब्दाभ्यामत्यन्तस्वार्थिकः कन्निष्यते, तदा तत्र ङ्याब्ग्रहणस्य चरितार्थत्वाल्लोहितशब्दात्प्रतिपदविहितेन कना ङीपो नित्ये बाधे प्राप्ते तद्वक्तव्यम् ? तदापि वा न वक्तव्यम्, `लोहितान्मणौ' इत्यस्यापि पुनन्नपुंसकयोश्चरितार्थत्वात्‌ । तदेवमत्यन्तस्वार्थिकोऽपि कन्‌ ङ्यन्ताद्यथा स्यादिति ङीब्ग्रहणं तावत्कर्त्तव्यम् ।
आब्ग्रहणं तु विस्पष्टार्थम् । तत्र समासान्तेषु दोषः---बहवो गोमन्तोऽस्यां नगर्यामिति बहुव्रीहौ कृते स्त्रिया अन्यपदार्थत्वान्ङीप्‌ च प्राप्नोति कप्‌ च, ङ्याब्ग्रहणान्‌ ङीपि कृते कप्‌ स्यात्‌, ततश्च बहुगोमतीकेति रूपं स्यात्‌, बहुगोमत्केति चेष्यते ? नैष दोषः समासार्थादुत्तरपदादकृत एव समासे समासान्ता भवन्ति पश्चात्तदन्तेन समासः, एवं हि समासं प्रत्यन्तावयवत्वमुपपद्यते समासान्तानाम्, तथा च `न कपि' इत्यत्र वक्ष्यति । तत्र चोत्तरपदे समासार्थाया विभक्तेः पुरस्तात्समासान्ता इति केचित्‌ । परस्तात्समासान्तेषु सुब्लुकि तद्धितान्तत्वेन ततः सुपि सुबन्तस्य समास इत्यन्ये । सर्वथा बहुचर्मिकेतीत्वं प्राप्नोति, `असुपः' इति प्रतिषेधात्‌, यथा बहुपरिव्राजका मदुरेति ? कर्त्तव्योऽत्र यत्नः । `नञस्तत्पुरुषात्‌' इत्यादौ तु ग्रन्थविरोधं तत्र तत्र परिहरिष्यामः । तदेवं स्थितमेतत्---तदन्तात्तद्धितविधानार्थं ङ्याब्ग्रहणं विप्रतिषेधाद्धि तद्धितबलीयस्त्वमिति ।
यद्येवम्, `यूनस्तिः' `ऊङुतः' इति त्यूङोरपि ग्रहणं कर्त्तव्यं तदन्तात्तद्धितविधानार्थम्---युवतितरा । भाष्यकारप्रयोगात्‌ `तसिलादिष्वाकृत्वसुचः' इति पुंवद्भावो न भवति, खिद्‌धादिषु पुंवद्भावाद्‌ ह्रस्वत्वं विप्रतिषेधेनेति वा पर्जन्यवल्लक्षणप्रवृत्त्या ह्रस्वेन बाधितत्वात्‌ । ब्रह्मबन्धूतरा `नद्याः शेषस्यान्यतरस्याम्' इति ह्रस्वाभावपक्षे `जातेश्च' इति पुंवद्भावप्रतिषेधः । पूर्वत्र त्वनेन प्रतिषेधो न लभ्यते; यौवनस्याजातित्वात्‌ । यावद्‌द्रव्यभाविनी हि जातिः, तथा च युवजानिरित्युदाहृतम् । नन्वत्रान्तरङ्गत्वादेव त्यूङौ भविष्यतः, अत्यन्तस्वार्थिके तु कनि ब्रह्मबन्धुकेत्यत्र `केऽणः' इति ह्रस्वे सति नास्ति विशेषः---ऊङन्ताद्वोत्पत्तौ सत्याम्, उकारान्ताद्वा, युवतिशब्दादपि कनि पुंवद्भावेन भ्वायमिति नास्त्येव विशेषः । न चास्मात्कन्निष्यत इत्यत्रापि प्रमाणमस्ति । तस्मान्नार्थस्त्यूङोर्ग्रहणेन ।।
स्वौजसमीट्‌छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ ।। 4.1.2 ।।
उकारादयोऽनुबन्धा इत्यादि । तत्र प्रथमैकवचनस्योकारः `एतत्तदोः सुलोपः', `दीर्घात्सुतिसि' इत्यत्र केवलस्य व्यञ्जनस्योच्चारयितुमशक्यत्वादुच्चारणार्थः । अत्र तु सूत्रे औकारोपश्ले षाच्छक्यते सकारमात्रमुच्चारयितुम् । `अनङ्सौ' इत्यत्र विशेषणार्थस्तु न भवति; व्यावर्त्त्यस्याभावात्‌ । न च `अनङ्‌सि' इत्युच्यमाने वर्णनिर्देशे च तदादिविधिसम्भवात्सप्तमीबहुवचनेऽपि प्रसङ्गः; `सर्वनामस्थाने' इत्यनुवृत्तेः । जसो जकारोऽस्मिन्नेव सूत्रेऽसन्दिग्धोच्चारणार्थः; अन्यथा ह्यौकारस्यावादेशे सन्देहः स्यात्‌---किमौकारस्योच्चारणम्, अथावित्यस्येति । `जसः शी' इत्यादौ विशेषणार्थस्तु न भवति; `असः शी' इत्युच्यमानेऽप्यतिप्रसङ्गाभावात्‌, शसादीनां सानुबन्धकत्वात्‌ । शसश्शकार औटष्टकारस्यासन्दिग्धोच्चारणार्थः; अन्यथा डकारष्टकार इति सन्देहः स्यात्। `तस्माच्छसः' इत्यादौ विशेषणार्थस्तु न भवति; जसादीनां सानुबन्धकत्वात्‌ । `टा' इत्यत्र टकारः `टाङसिङसामिनात्स्याः' इति विशेषणार्थः; अन्यथा `सुपां सुलुक्‌' इत्यादिना विहितस्याकारस्यापि ग्रहणं स्यात्‌ । तदेवमेषां चतुर्णामुकारादय उच्चारणविशेषणार्थाः । इत्संज्ञाप्येषां प्रयोगे श्रवणं मा भूदिति, न पुनरित्कार्यं किञ्चिदस्ति । औटष्टकारः सुडिति प्रत्याहारग्रहणार्थः । ङेप्रभृतिषु ङकारः `घेर्ङिति' इति विशेषणार्थः । ङसेरिकारः `युष्मदस्मद्भां ङसोऽश्‌' इत्यत्र ग्रहणं मा भूदित्येवमर्थः । पकारः प्रत्याहारग्रहणार्थ इति । उकारादयोऽनुबन्धा यथायोगमुच्चारणविशेषणार्था इत्यनेनागतार्थत्वादिदमुक्तम् । एवं च---`औटष्टकारः सुडिति प्रत्याहारार्थः' इत्यग्रिमग्रन्थेन भवितव्यम् ।
क्व पुनरिमेऽर्थे स्वादयो भवन्तीत्याह---संख्याकर्मादयश्चेति । शास्त्रान्तरेणेति । `बहुषु बहुवचनम्', `कर्मणि द्वितीया' इत्यादिना । तेन सहास्यैकवाक्यतेति । पूर्वं त्ववान्तरवाक्यभेदापेक्षया शास्त्रान्तरेणेत्युक्तम् । आकांक्षायोग्यतावशेन भिन्नप्रकरणपठितानामप्येकवाक्यता भवत्येव । प्रकरणभेदेन तु पाठस्तिङादिविधिनाप्येकवाक्यत्वं यथा स्यादिति । `बहुषु बहुवचनम्' इत्यत्र तु भिन्नवाक्यत्वमाश्रित्योक्तम्-ङ्याप्प्रतिपदिकात्स्वादयो लस्य तिबादय इति बहुवचनं विहितं तस्यानेन बहुत्वं संख्यावाच्यत्वेन विधीयते इति । अव्ययेयस्तु निः संख्येभ्यः सामान्यविहिताः खादयो विद्यन्त एवेति च । एकवाक्यतायां तु विशिष्टे एवार्थे कर्मादिसम्बन्धिन्येकत्वादौ स्वादीनां विधानात्सामान्यविहितत्वं नोपपद्यते । तस्माद्‌ `अव्ययादाप्सुपः' इत्यव्ययादुत्पन्नस्य सुपो लुग्विदानाल्लिङ्गादव्ययेभ्योऽस्मिन्पक्षे स्वाद्युत्पत्तिः । उदाहरणानि यथायोगं स्वे स्वे वाक्ये प्रकटीकरिष्यन्ते ।।
स्त्रियाम् ।। 4.1.3 ।।
ङ्यापोरनेनैव विधानादिति । प्रातिपदिकमात्रमत्र प्रकरणेऽभिसम्बध्यत इत्यत्रायं हेतुः । प्रकरणापेक्षया चैतदुच्यते, सूत्रान्तरव्यापारसमये तु सूत्रान्तरविहितप्रत्ययान्ता प्रकृतिः सम्भवत्येव । ननु चात्र प्रकरणे सर्वत्र सति सम्भवे `अतः' इति सम्बध्यर्ते, न च ङ्याबन्तमदन्तम् । उक्तार्थत्वाच्च ङ्याबन्तात्‌ ङ्यापोरप्रसङ्गः ? सत्यम् ; न्यायस्तु निरूप्यते ।
चोदयति---स्त्रियामित्युच्यते इति । सप्तमीनिर्देशेन कार्यान्तरविधानार्थमनूद्यते इत्यर्थः । ततः किमित्याह---केयं स्त्री नामेति । इह शास्त्रे स्त्रिया अपरिभाषितत्वाल्लौकिकस्त्रीग्रहणे च खट्‌वादावव्याप्तिप्रसङ्गात्प्रसिद्धवदनुवादोऽनुपपन्न इत्यर्थः । स्वरूपस्य च जिज्ञासितत्वात्प्रथमान्तेन प्रश्नः, कस्यां स्त्रियामिति तूच्यमाने विशेषविषयः प्रश्नः स्यात्‌ । स्त्रीग्रहणं च प्रसङ्गेन पुन्नपुंसकयोरपि प्रदर्शनार्थम् । अत एवोत्तरे सामान्यविशेषाः स्त्रीत्वादय इति त्रयाणां स्वरूपं दर्शितम् । एवं च प्रथमोपनिपातिनि `ह्रस्वो नपुंसके' इत्यत्र लिङ्गस्वरूपनिरूपणमुचितम्, तथा तु न कृतमित्येव । तत्र लौकिकानां लक्षणम्---
स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः ।
उभयोरन्तरं यच्च तदभावे नपुंसकम् ।। इति ।
भूमादौ मतुप्‌, तथैव लोमश इति शः । स्तनकेशवत्त्वं च प्रसिद्धत्वादन्यस्यापि कुमार्यादिगतस्य स्त्रीप्रतिपत्तिहेतोरुपलक्षणम् । लोमशत्वं च पुंविज्ञानहेतोः कुमारादिगतस्य । उभयोरपि स्त्रीपुंसयोर्यदन्तरं सदृशं स्तनलोमाद्युभयव्यञ्जनं तन्नपुंसकमित्यर्थः । तेनाव्ययाख्यातार्थस्य स्त्रीपुंसत्वाभावेऽपि नपुंसकत्वं न भवति, अन्यथा `तदभावे' इत्येतावत्युक्ते स्यात्पसङ्गः, तदभाव इत्यनेन कुक्कुटमयूर्यादेः स्त्रीपुंससमुदायरूपस्य द्वन्द्वार्थस्य नपुंसकत्वं न भवति । भवति हि समुदायः समुदायिनः सदृश इति स्यात्प्रसङ्गः । नायं प्रसङ्गः, `परवल्लिङ्गम्' इत्यनेन समुदायस्य परवल्लिङ्गातिदेशात्‌ ? सत्यम्; इदं तु वस्तुस्वरूपनिरूपणपरं द्रष्टव्यम् । तदनेन स्तनकेशादिसम्बन्धः, स्तनादय एव वा विशिष्टसंस्थानाः, तदुपव्यञ्जना वा जातयः स्त्रीत्वादय इत्युक्तं भवति ।
अत्र पक्षे भ्रुकुंसे टाप्‌ प्रसज्येत, भ्रुकुंसः=स्त्रीवेषधारी नटः, तस्य स्तनकेशसम्बन्धं उपलभ्यते, खरकुट्यादीनां च लोमशत्वात्पुंस्त्वे सति खरकुटीः पश्येत्यत्र नत्वं प्राप्नोति । खरकुटी=नापितगृहमुच्यते । ननु च स्वाभाविकपरिणामशालिभिः स्तनादिभिरत्र सम्बन्धो विवक्षितः, न यथाकथञ्चित्‌ ; स्तनादि च प्रसिद्धस्यान्यस्याप्युपलक्षणमुक्तं तत्कुतोऽयं प्रसङ्गः ? एवं तहि खट्वावृक्षौ न सिध्यतः, खट्‌वावृक्षादीनां स्तनलोमाद्यभावात्‌ । स्यादेतत्---यथा वस्त्रान्तर्हितानि द्रव्याणि नोपलभ्यन्ते, तद्वत्खट्‌वावृक्षयोः सदेव लिङ्गं नोपलभ्यत इति ? तन्न; वस्त्रान्तर्हितानि द्रव्याणि वस्त्रापाये उपलभ्यन्ते खट्‌वावृक्षयोस्तिलशस्तत्क्षणेऽपि लिङ्गं नोपलभ्यते । यथा तर्ह्यादित्यगतिः सती प्रत्यक्षेण नोपलभ्यते देशान्तरप्राप्त्या त्वनुमीयते, तथा खट्‌वावृक्षयोरपि सदेव लिङ्गं सूक्ष्मत्वान्नोपलभ्यते ।
सतामपि हि भावानां षड्‌भिः प्रकारैरनुपलब्धिर्भवति---अतिसन्निकर्षाद्‌, यथा---स्वचक्षुर्गतस्याञ्जनादेः । अतिविप्रकर्षात्‌, यथा-उड्‌डीनस्य शकुनेः । मूर्तान्तर्द्धानात्‌, यथा---कुड्यादिव्यवहितस्य सुवर्णादेः । अन्धकारावृतत्वात्‌, यथाअन्दकाराक्रान्तस्य घटादेः । इन्द्रियदौर्बल्यात्‌-तिमिराद्युपघाते चक्षुरादेः । अतिप्रमादात्‌---`प्रामादोऽनवधानता', विषयान्तरव्यासक्तचित्तो हि सन्निकृष्टमप्रयर्थं नोपलभ्यते । सौक्ष्म्यं तु---इन्द्रियदौर्बल्य एवान्तर्भूतम्, दिव्यचक्षुः श्रोत्रो हि सूक्ष्ममप्यर्थमुपलभते । एवं समानाभिहारोऽपि तत्रैवान्तर्भूतः, तद्यथा माषराशौमाषः प्रक्षिप्तः पृथग्नोपलभ्यते । एवमभिभवोऽपि, तद्यथा---सौरीभिः प्रभाभिरभिभूतानि नक्षत्राणि दिवा नोपलभ्यन्ते । केम पुनरेतदवसीयते खट्‌वावृक्षयोः सदेव लिङ्गं नोपलभ्यत इति ? टाबादेस्तत्कृतस्यानन्यकार्यस्य दर्शनात्‌ । यद्येवम्, इतरेतराश्रयं प्राप्नोति---लिङ्गावगमाट्टाबादिशब्दप्रयोगः, तद्योगाल्लिङ्गावगतिरिति ? इन्द्रियदौर्बल्यं कदाचिदुपलब्धस्य कदाचिदनुपलम्भे कारणं शक्यमभिधातुम्, खट्‌वादिषु च लिङ्गस्य कदाचिदप्यनुपलम्भाल्लिङ्गविविक्तखट्‌वादिवस्तुग्राहिणा प्रत्यक्षेण लिङ्गाभावनिश्चयात्तद्विरुद्धमनुमानं नोदेतुमर्हति । न हि शक्यते वक्तुम्---भिक्षुगृहं गजवद्‌ देशत्वाद्गजशालावत्‌, प्रत्यक्षेणेन्द्रियदौर्बल्यात्तु गजो नोपलभ्यत इति, तस्मादसदेव लिङ्गं शब्दप्रयोगमहिम्न खट्‌वादिषु प्रतीयते । भवत्वेवं श्रोतुः प्रतीतिः, यस्त्वसौ प्रयोक्ता स केन लिङ्गमगम्य तदनुरूपं शब्दं प्रयुङ्‌क्ते ! किञ्च---कुमार्यर्थः, कुमारी वस्त्विति कुमार्यादिष्वर्थवस्तुशब्दयोः पुन्नपुंसकयोरनुपपत्तिः । भाष्ये तु---
आविर्भावस्तिरोभावः स्थितिश्चेत्यनपायिनः ।
धर्मा मूर्त्तिषु सर्वासु लिङ्गत्वेनानुदर्शिताः ।।
आविर्भावः=उपचयः, पुंस्त्वम् ; तिरोभावः=अपचयः, स्त्रीत्वम् ; अन्तरालावस्था स्थितिर्नपुंसकत्वमित्यर्थः । कस्य पुनराविर्भावादिकं लिङ्गम् ? सत्त्वरजस्तमसां गुमानां तत्परिणामरूपाणां च तदात्मकानां शब्दस्पर्शरूपरसगन्धानाम् । शब्दादिसङ्घातरूपाश्च सर्वा मूर्तयः प्रतिक्षणपरिणामस्वभावाश्च सत्त्वादयो गुणा न स्वस्मिन्नात्मनि मूहूर्तमप्यवतिष्ठन्ते । एवं शब्दादय आकाशादयो घटादयश्च ।
उक्तञ्च---
सर्वमूर्त्त्यात्मभूतानां शब्दादीनां गणे गणे ।
त्रयः सत्त्वादिधर्मास्ते सर्वत्र समवस्थितः ।। इति ।
क्वथितोदकवच्चैषामनवस्थितवृत्तिता ।
अजस्रं सर्वभावानां भाष्य एवोपवर्णिता ।। इति च ।
तथा---
रूपस्य चात्ममात्राणां शुक्लादीनां प्रतिक्षणम् ।
काचित्प्रलीयते काचित्‌ कथंचिदभिवर्धते ।। इति ।
प्रवृत्तिमन्तः सर्वे हि तिसृभिश्च प्रवृत्तिभिः ।
सततं न वियुज्यन्ते वाचश्चैवात्र सम्भवः ।। इति च ।
टाबाद्यन्तः शब्द एवैता अवस्था गोचरयतीत्यर्थः । पुरुषो यद्यप्यपरिणामी, तथापि---
उचेतनेषु सङ्‌क्रान्तं चैतन्यमिव दृश्यते ।
प्रतिबिम्बकधर्मेण यत्तद्वाचो निबन्धनम् ।।
ततश्च---
यश्चाप्रवृत्तिधर्मार्थस्चितिरूपेण गृह्यते ।
अनुयातीव सोऽन्येषां प्रवृत्तिविष्वगाश्रया ।।
सामान्यमपि गोत्वादि व्यक्तेरव्यतिरेकतः ।
प्रवृत्तिधर्मं तद्‌द्वारा शशश्रृङ्गादिवाक्षु तु ।।
तस्मादुक्तपदार्थस्य सम्भवाल्लिङ्गयोगिता ।
प्रवृत्तेरपि विद्यन्ते तिस्रो ह्येताः प्रवृत्तयः ।।
पुन्नपुंसकता स्त्रीत्वं तेन स्यादन्यलिङ्गता ।
तदेवं सर्वपदार्थव्यापित्वादुपचयान्तरालावस्थास्त्रीणि लिङ्गानि । एवं च नक्षत्रे तारका तिष्यः, कुमार्यर्थो वस्तु इति एकस्याप्यर्थस्य नानालिङ्गयोग उपपद्यते; आविर्भावादित्रयस्यापि गुणभेदेन नस्मिन्नेवार्थे सर्वदा सम्भवात्‌ । न चैवं तद्‌वृत्तेः सर्वस्यैव शब्दस्य त्रिलिङ्गताप्रसङ्गः; न ह्यस्ति नियमः---यः शब्दो यत्रार्थे पर्यवस्यति तत्र विद्यमानः सर्व एवाकारस्तेन शब्देनाभिधातव्य इति, किन्तु य आकारोऽभीधीयते तेन सता भवितव्यमित्येतावत्‌ । तद्यथा---तक्षा, युवा, कृष्णः, कामुक इति तक्षादशब्दानामेकार्थपर्यवसितानामपि व्यवस्थित एवाकारो वाच्यः । तथा लिङ्गेष्वपि द्रष्टव्यम् । उक्तं च---
सन्निधाने पदार्थानां किञ्चिदेव प्रवर्तकम् ।
यथा तक्षादिशब्दानां लिङ्गेषु नियमस्तथा ।। इति ।
उपचीयते कुमारीत्यत्रापि कुमारीशब्दः स्वमहिम्ना कस्यचिद्धर्मस्यापचयमेवाह । शब्दान्तरप्रयोगात्तु धर्मान्तरस्योपचयः प्रतीयते । एवं क्षीयते वृक्ष इत्यत्रापचयः, तदेवं सर्वमनाकुलमिदं दर्शनम् ।
वृत्तिकारस्तु लौकिकानामेवं प्रतिपत्तेरभावात्तत्प्रतिपत्यनुगुणं पक्षं दर्शयति---सामान्यविशेषा इति । कानिचित्सामान्यानीत्यर्थः ।
यद्वा---सत्ताव्यतिरिक्तेषु सामान्येषु सामान्यविशेषशब्दो रूढः । तिस्रोऽवान्तरजातय इत्यर्थः । उक्तं च---
तिस्रो जातय एवैताः केषाञ्चित्समवस्थिताः ।
अविरुद्धा विरुद्धाभिर्गोमहिष्यादिजातिभिः ।।
हस्तिन्यां वडवायां च स्त्रीत्वबुद्धेः समन्वयः ।
अतस्तां जातिमिच्छन्ति द्रव्यादिसमवायिनीम् ।। इति ।
ननु चैषां त्रयाणामपि सामान्यविशेषाणां सर्वार्थेषु सद्भावोऽभ्युपगन्तव्यः, न गोत्वादिकत्कतिपयेष्वेवार्थेषु, कथमन्यथार्थव्यक्तिवस्त्वादिशब्दानां भिन्निलिङ्गानामेकस्मिन्नर्थे प्रयोगः स्यात्‌ । ततश्च सर्वत्र त्रिलिङ्गपतिभासंप्रसङ्ग इत्यत आह---बहुप्रकाराव्यक्तय इति । व्यज्यन्ते सामान्यविशेषा आभिरिति व्यक्तयः= आश्रयाः । एतदुक्तं भवति---विचित्रत्वादाश्रयाणां व्यञ्जकानां कश्चिदाश्रयः कस्यचित्सामान्यविशेषस्य व्यञ्जकः, न सर्वः सर्वस्येति । तत्र चेतनेषु स्तनादिमती व्यक्तिः स्त्रीत्वस्य व्यञ्जिका, लोमशत्वादिमती पुंस्त्वस्य, उभयव्यञ्जना नपुंसकत्वस्य ; अचेतनेषु कथम्, न हि तत्र किञ्चिदपि लिङ्गं व्यज्यते ? तथा चेतनेऽप्यर्थव्यक्तिवस्त्वादिशब्दानां भिन्निलिङ्गानामप्यनुपपत्तिः, दारशब्दस्य च पुंल्लिङ्गस्य भार्यायामनुपत्तिः ? अत आह---क्वचिदाश्रयविशेषाभावादिति । तदभिव्यञ्जनसमर्थ आश्रयविशेषः । तत्राचेतनेषु सर्वत्रोपदेशादेवाभिव्यक्तिः । उपदेशः पुनर्लिङ्गानुशासनादिषु । अत्रैव दृष्टान्तमाह---यथा ब्राह्मणत्वादय इति । ब्राह्मणक्षत्रियादिव्यक्तीनामत्यन्तसादृश्यादुपदेशादेव ब्राह्मणत्वादीनामभिव्यक्तिर्भवति; नो खलु ब्राह्मणक्षत्रिययोः पुरोऽवस्थितयोरयं ब्राह्मणः, अयं क्षत्रिय इति प्रागेवोपदेशात्प्रत्यय उदेति । यथा गवाश्वव्यक्त्योरभावे शशविषाणादावप्युत्तरपदार्थद्वारकः सामान्ययोगः, सामान्यं जातिः, स्त्रीत्वं स्त्रीता पुंस्त्वं पुंस्तेत्यादौ सामान्वेऽपि सामान्यान्तरस्य सद्भावः, यथा---गोत्वादौ सत्तासामान्यस्य । न ह्यस्माकं वैशेषिकाणामिव निः सामान्यानि सामान्यानि ।
स्त्रीशब्दोऽयं शुक्लादिशब्दवद्‌गुणमात्रे गुणिनि च वर्तते, तत्र यदा गुणमात्रे स्त्रीशब्दो वर्तते तदा द्रव्यवाचिनः प्रातिपदिकात्स्त्रीत्वेऽभिधेये टाबादयो भवन्तीति स्त्रीत्वं प्रत्ययार्थ इति पक्षो भवति । यदा तु स्त्रीत्वयुक्तं द्रव्यं स्त्रीशब्देनोच्यते तदा परं पक्षद्वयं सम्भवति---स्त्रीत्वमुपलक्षणम्, विशेषणं वेति । तत्राद्ये स्त्रीत्वोपलक्षितद्रव्याचिनः प्रातिपदिकाट्टाबादय इति, अयं स्त्रीसमानाधिकरणादिति पक्षो भवति । द्वितीये तु स्त्रीत्वयुक्तद्रव्यवाचिनोऽङ्गोकृतस्त्रीत्वात्प्रातिपदिकादिति प्रकृत्यर्थविशेषणं स्त्रीत्वमिति पक्षो भवति । तत्र स्त्रीसमानाधिकरणादिति चेद्‌ भूतादिष्वतिप्रसङ्गः---बूतमियं ब्राह्मणी, प्रधानमियं ब्राह्मणी आवपनमियमुष्ट्रिकेति । उभयोस्तु पक्षयोर्नैष दोषः, कथम् ? भूतादयः चैतन्यप्राधान्यसम्भवनवद्‌वृत्तयः, न तु स्त्रीत्वाङ्गीकारेण वर्तन्ते । तदेवमत्र पक्षे दोषदर्शनादितरयोरन्यतरदाश्रयणीयमित्याह---स्त्रीत्वं चेति । उभयथापि युज्यते इति । ननु प्रत्ययार्थपक्षे द्विवचनबहुवचनानेकप्रत्ययानुपपत्तिः, कथम् ? एकोऽयमर्थः स्त्रीत्वं नाम, तदेव च प्रकृत्यर्थोपसर्जनं प्रत्ययेनाभिधीयते, तस्यैकत्वादेकवचनमेव प्राप्नोति ? अनेकश्च प्रत्ययो नोपपद्यते---गार्ग्यायणी, कारीषगन्ध्या, कालितरेति, कथम् ? एकोऽयमर्थः स्त्रीत्वं नाम तस्यैकेनोक्तत्वाद्‌ द्वितीयः प्रत्ययो न प्राप्नोति---उक्तार्थानामप्रयोग इति ? स्त्रीशब्दे चेकारो न प्राप्नोति, संस्त्याने `स्त्यायतेर्ड्रट्‌' इति ड्रट्‌प्रत्ययान्तेन स्त्रीशब्देनोक्तत्वात्‌ संस्त्यानं स्त्रीत्वम् ? सामानाधिकरण्यं च न स्यात्‌---कुमारी देवदत्तेति, स्वस्वप्रकृत्यर्थावच्छिन्नयोः स्त्रीत्वयोः प्राधान्येनाभिधानात्‌, तत्र व्यतिरिकनिबन्धा षष्ठी प्राप्नोति, कुतः ? न तावदन्यऽन्यतः ; परस्परं गुणगुणिभावाभावात्‌, नापि स्त्रीप्रत्ययप्रकृतेः ; टाबादिभिर्बाधित्वात्‌ ? यत्र तर्हि प्रतियोगिनि स्त्रीप्रत्ययः प्रतिषिध्यते तत्र षष्ठी प्राप्नोति---पञ्च ब्राह्मण्यः, स्वसाभिरूपेति ? पक्षान्तरे तु द्वयोरपि द्रव्यनिष्ठत्वाद्व्यतिरेकाभावः सामानाधिकरण्यं च भवति, द्रव्यस्य चानेकत्वाद्‌ द्विवचनबहुवचने अपि युक्ते । यथैव च प्रातिपदिकेनोक्तेऽपि स्त्रीत्वे टाबादयो भवन्ति, तथानेकोऽपि प्रत्ययो नानुपपन्नः, तद्‌द्योतको हि तदा नानाप्रत्ययः, प्रदीपादेश्चानेकस्यापि द्योतकत्वं दृष्टम् । प्रत्ययार्थपक्षेऽपि न दोषः । यद्यपि स्त्रीत्वमात्रे वाच्ये प्रत्ययः क्रियते, तथापि स्त्रीत्वतदाश्रययोरभेदविवक्षया स्वाभाविकत्वाद्वा गुणप्रधानभावस्य द्वयोरपि दृष्टत्वेन सामानाधिकरण्यं वचनभेदश्च भविष्यति । गार्ग्यायणीत्यादौ च द्वाभ्यामेव स्त्रीत्वमभिधातुं शक्यते, नैकेन; स्वभावात्‌ । यद्वा---ष्फस्य षित्करणसामर्थ्यान्ङीष्‌ सिद्धः, ष्यङि `यङश्चाप्‌' इति वचनसामर्थ्याच्चाब्‌ भविष्यति । तथा हि---अत्र यङ्‌ष्यङोः सामान्यग्रहणाय तदविघाताय च ष्यङोनुबन्धद्वयं कृतम्, कालितरेत्यत्रान्यः प्रकर्षयुक्तोऽन्यश्चाप्रकर्षयुक्तः, तत्रावस्थाभेदादेक एवार्थो भिद्यत इति प्रकर्षयुक्तस्यानभिहितं स्त्रीत्वमिति तदभिधानाय टाबपि भविष्यात । स्त्रीशब्देऽपि `स्त्रियाम्' इत्यस्मादेव निपातनादीकारः सिद्ध इति सुष्ठूक्तम्---उभयथापियुज्यत इति ।।
अजाद्यतष्टाप्‌ ।। 4.1.4 ।।
अदन्ताच्चेति । अकारान्तादित्यर्थः । स्वरूपग्रहणं तु न भवति; अच्छब्दान्तात्‌ नीतत् परीतत्‌ कलिङ्गगदित्यादेः स्त्रीलिङ्गादिति, `तदाद्याचिख्यासायाम्' इत्यादेर्निर्देशात्‌ । पकारः सामान्यग्रहणार्थ इति । `ङ्याप्प्रातिपदिकात्‌' इत्यादौ । पकारानुरोधस्तु टाब्डापोः स्वर्थः । टकारः सामान्यग्रहणाविघातार्थ इति । अन्यथैकानुबन्धकत्वादस्यैव ग्रहणं स्यात्‌, न तु डाप्चापोः । खट्‌वेति । कथं पुनरत्राकारान्ता प्रकृतिरवधार्यते, यावता नित्यमेवायमाबन्तः स्त्रियां वर्तते ? शास्त्रात्प्रयोगाच्च । शाकटायनदर्शने हि सर्वेषामेव व्युत्पत्तिः । पञ्चभिः खट्‌वाभिः क्रीतः पञ्चखट्‌व इत्यादौ स्त्रीप्रत्यये लुप्ते प्रयोग एवाकारान्तत्वं दृश्यते । शुभंयाः, कीलालपा इति । `अन्येभ्योऽपि दृश्यन्ते' इति विच्‌ । कः पुनरत्र टापि सति दोष इत्याह---हल्ड्याब्भ्य इति सुलोपः स्यादिति ।
क्वचिज्जातिलक्षण इति । गणपाठावसरे विभागं दर्शयिष्यति ।
हलन्तानां त्वित्यादि । अजादिग्रहणमिति । प्रकृतस्य प्रथमान्तस्यान्वयासम्भवात्तदर्थमजादिग्रहणमिति शेषः ।
अमहत्पूर्वेति । महच्छब्दस्यानुकरणत्वाल्लौकिकार्थाभिधायित्वाभावात्‌ `आन्महतः' इत्यात्त्वं न भवति । पुंयोगे तुङीषैवेति । जातिग्रहणस्य प्रयोजनमाह । ननु पुंयोगे सोऽयमित्यभिसम्बन्धात्परशब्दः परत्र वर्तत इति गौणत्वादेव न भविष्यति ? तस्मात्सुखप्रतिपत्यर्थं जातिग्रहणम् । अमहत्पूर्वेत्यस्याथेमाह---महत्पूर्वस्वेति । अत्रापि जातिरिति सम्बध्यते, इह प्रतिषेधो मा भूत्‌---महती शूद्रा महाशूद्रेति, न ह्यत्र महत्पूर्वः समुदायो जातिवचनः । क्व तर्हि प्रतिषेधः ? यत्र समुदायो जातौ वर्तते । तदिदं दर्शितम्---महाशूद्रशब्दो ह्याभीरजातिवचन इति । यद्येवम्, समुदाये जातिवचने गौरखरादिवदवयवार्था भावाद्व्युत्पत्तिमात्रं क्रियते, तत्रावयवार्थस्य स्त्रीत्वस्याविवक्षितत्वात्‌ पुंसि समासे कृते टापः प्रसङ्ग इति ? तत्रामहत्पूर्वेति प्रतिषेधः सार्थकः । ततः किम् ? अमहत्पूर्वेत्यत्र जातिरिति न सम्बन्धनीयम् । कथं महती शूद्रा महाशूद्रेत्यत्रान्तरङ्गत्वाट्टापि कृते पश्चात्सुप्‌, सुबन्तस्य समासः, ततश्चाभिनिर्वृत्तत्वाट्टापः प्रतिषेधस्याप्रसङ्गः ? सत्यम्, विस्पष्टार्थमेवात्रापि जातिरिति सम्बध्यते । ननु च शूद्रशब्दः पठ्यते, कः प्रसङ्गो यन्महाशूद्रशब्दात्स्यात्‌ ? अत आह---तदन्तविधिर्नेति । अतिधीवरी, अतिपीवरीति । दधातेः पिबतेश्च `आतो मनिन्क्वनिब्वनिपश्च' इति क्वनिपि कृते घुमास्थादिसूत्रेणेत्वम्, धीवानमतिक्रान्ता पीवानमतिक्रान्तेति प्रादिसमासः, अत्र `वनो र च' इति ङीब्रौ भवतः । असति तु ज्ञापने वन इति प्रत्ययग्रहणम् । अथापि कृद्‌ग्रहणम् ? सर्वथातिक्रान्तप्रधाने समासे न स्यात्‌ । अतिभवती, अतिमहतीति । `उगितश्च' इत्यत्रोगिदित्युगित्प्रातिपदिकस्यैवं ग्रहणमित्यङ्गीकृत्येदं प्रयोजनं दर्शितम् । तत्र तु वक्ष्यति---`उगिदिति प्रातिपदिकाप्रातिपदिकग्रहणम्, तेन ग्रहणवता प्रातिपदिकेनेति निषेधाभावात्तदन्तविधिः' इति । यदाह---`उगिद्यस्य सम्भवति यथाकथ्चिदिति तदन्तात्प्रातिपदिंकात्‌' इति च ।।
अतिमहतीत्यत्र शतृवद्भावादौणादिकादुगिल्लक्षणो ङीप्‌ । केचिद्गौरादिपाठाद्‌ ङीषं वर्णयन्ति, तदयुक्तम् ; अनुपसर्जनाधिकारात्‌ । किञ्च, गौरादिपाठस्य प्रयोजनमपि न पश्यामः । ननु च महतीशब्दोऽन्तोदात्त इष्यते, सत्यम्; `शतुरनुमः' इत्यत्र नद्यजाद्युदात्तत्वे `बृहन्महतोरुपसंख्यानम्' इत्यनेनैव सिद्धम् । विभवत्युदात्तार्थं तदिति चेत् ? तदेव ङीबुदात्तार्थमपि भविष्यति । अतिमहतीत्यादौ च ङीषभावस्योक्तत्वान्‌ ङीबुदात्तार्थमप्युपसंख्यानमेष्टव्यम्, युदि तदन्तविधिर्ज्ञाप्यते, पञ्चानामजानां समाहारः पञ्चाजी---द्विगोरपि टाप्‌ प्राप्नोति ? अत्राहुः---`अजाद्यतः' इति षष्ठी अजादीनामजन्तानां च या स्त्री तद्वाच्येऽर्थे यत्‌ स्त्रीत्वं समवेतं तत्र टाबिति, प्रत्यासत्या च स्त्रीत्वविशेषोपलक्षणानामेव प्रकृतित्वं विज्ञायते इति मत्वा वृत्तिकारेणोक्तम्---`अजादिभ्यः प्रातिपदिकेभ्योऽदन्ताच्च' इति । न च पञ्चाजीत्यत्राजार्थे समवेतं स्त्रीत्वम्, किं तर्हि ? समाहारे ।
एवं चामहत्पूर्वेति प्रतिषेधः शक्योऽकर्तुम्, न हि महाशूद्रीत्यत्र शूद्रार्थगतं स्त्रीत्वम् । तदन्तविधिस्तु ` अनुपसर्जनात्‌' इत्यत्र ज्ञापयिष्यते । सत्प्राक्काण्डेति । पाककर्णेत्यत्र वार्त्तिकम्---`सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात्प्रतिषेधः' इति, तत्रैव भाष्यम्---`प्राक्पुष्पा च प्रत्यक्पुष्पा च' इति । तस्मादत्रापि प्राक्शब्दो न पठनीयः, सदच्काण्डेत्येव पठनीयम् ।।
ऋन्नेभ्यो ङीप्‌ ।। 4.1.5 ।।
ङकारः सामान्यग्रहणार्थ इति । `ङ्याप्प्रतिपदिकात्‌' इत्यादौ ।
`पकारः सामान्यग्रहणाविघातार्थः' इति तु पूर्वानुसारेण गम्यमानत्वान्नोक्तम्, अत्रापि पकारानुरोधोऽनुदात्तार्थः ।।
उगितश्च ।। 4.1.6 ।।
यथाकथञ्चिदिति । यदि वर्ण उगित्‌ संभवति, यदि वा प्रत्ययः, अथापि प्रातिपदिकम्---सर्वथा यत्रैषामन्यतमः प्रकारः संभवतीत्येष यथाकथञ्चिदित्यस्यार्थः । एतदेव स्पष्टयति---तदुगिच्छब्दरूपमिति । प्रत्ययाप्रत्ययोः प्रातिपदिकाप्रातिपदिकयोः शब्दरूपमन्यपदार्थः, न प्रातिपदिकमेव, नापि प्रत्यय एवेत्यर्थः । तत्रोगिता प्रातिपदिकस्य विशेषणत्तदन्तविधिर्भवतीत्याह---तदन्तादिति । पचन्तीति । अत्र शतृप्रत्यय उगित्‌ तदन्तं प्रातिपदिकम्---अतिभवती अतिमहतीत्यत्रापि भवति । `ग्रहणवता प्रातिपदिकेन' इत्ययं तु प्रतिषेधो यत्र सूत्रोपात्तं प्रातिपदिकस्यासाधारणं रूपं तत्रैव भवतीत्यत्रापि व्यपदेशिवद्भावेन भवति । `व्यपदेशिवद्भावोऽप्रातिपदिकेन' इत्ययं तु निषेधः प्रातिपदिकस्यैवा साधारणरूपग्रहणे अतिगोमतीत्यत्रापि भवति । प्रत्ययग्रहणपरिभाषा तु प्रत्ययस्यैवासाधारणरूपग्रहणे भवति ।
घातोस्तूगितः प्रतिषेध इति । वक्तव्य इति शेषः । स तर्हि वक्तव्यः ? न वक्तव्यः, `उगिदचाम्' इत्यत्रोगित्त्वादेव सिद्धेऽञ्चतिग्रहणं नियमार्थम्---इह शास्त्रे उगितो यत्कार्यं विधीयते तद्धातोर्यदि भवति अञ्चतेरेवेति कार्यमात्रं नियम्यते, न नुमागम एव । अधातुग्रहणं चाधातुपूर्वस्यापि नुमर्थमिति तत्रैव वक्ष्यते ।
अपर आह---`उगितश्च' इति योऽयं चशब्दः सोऽञ्चतेर्लुप्तनकारस्याकरणम्, विभक्तेश्च `सुपां सुलुक्‌' इति लुक्‌, भाविनं चाकारलोपमाश्रित्य चेति निर्देशः कृतः, ततश्चाञ्चतिग्रहणं नियमार्थम्---"अकारनकारलोपयोश्चातन्त्रत्वात्‌ `नाञ्चेः पूजायाम्' इति लोपनिषेधविषयेऽपि ङीब्‌ भवति, प्राञ्ची प्रत्यञ्ची ब्राह्मणी" इति । उखास्रत्‌, पर्णध्वदिति । `क्विप्‌ च' इत्यत्रानयोर्व्युत्पत्तिः कृता ।।
वनो र च ।। 4.1.7 ।।
`वनः' इति क्वनिब्वनिब्ङ्‌वनिपां प्रत्ययानां सामान्येन ग्रहणम्, न `वन षण संभक्तौ', `वनु याचेन' इति धात्वोर्विजन्तयोः, कुतः ? `प्रत्ययाप्रत्ययोः प्रत्ययस्यैव ग्रहणम्' इति । अत एव शुनो निष्क्रान्ता युवानमतिक्रान्ता निः शुनी अतियूनीत्यत्रापि न भवति, अनर्थकत्वाद्वा । शर्वरीति । `शॄ हिंसायाम्', `अन्येभ्योऽपि दृश्यन्ते' इति वनिप्‌ । परलोकदृश्वरीति । `दृशेः क्वनिप्‌' ।
वनो न हश इति । विहितविशेषणं हश्ग्रहणम्, हशन्ताद्धातोर्यो वन्विहितस्तदन्तात्प्रातिपदिकान्‌ ङीब्रौ न भवत इत्यर्थः, तेन शर्वरीत्यत्र प्रतिषेधाभावः । तथा `ओणृ अपनयेन' वनिपि `विड्‌वनोरनुनासिकस्यात्‌' इत्यात्त्वे अवादेशेअवावन्नित्यत्र संप्रति हशः । परत्वाभावेऽपि हशन्ताद्विहितत्वात्‌ प्रतिषेधो भवत्येव---अवावा ब्राह्मणीति । तष एव स्थितः सिद्धान्तः ।
बहुलं छन्दसि ङीब्रौ वक्तव्यौ---यज्वरीरिषः । प्रईरिशवोस्तुट्‌ च---प्रेर्त्वरी ।।
पादोऽन्यतरस्याम् ।। 4.1.8 ।।
पाद इति कृतसमासान्तः पादशब्दो निर्दिश्यत इति । उत्तरसूत्रे ऋच्यभिधेयायां तस्यैव सम्भवात्‌, तेन पादयते क्विबन्तस्य ग्रहणं न भवति । द्विपदीति । द्वौ पादावस्य इति `बहुव्रीहौ संख्यासुपूर्वस्य' इत्यकारलोपे `पादः पत्‌' इति पद्भावः ।।
टाबृचि ।। 4.1.9 ।।
ऋचीत्यभिधेयनिर्देश इति । व्याप्तेः । विषयनिर्देशे हि ऋग्वेदविषय एव प्रयोगे स्यात्, नान्यत्र ।।
न षट्‌स्वस्रादिभ्यः ।। 4.1.10 ।।
`टाबृचि' इति पादन्ताद्विहितस्य टापोऽत्राप्रसङ्गात्तदनन्तरस्य ङीपोऽयं प्रतिषेध इत्याशङ्कामपनयति---यो यत इति । तत्र सर्वेभ्य एव ङीप्प्राप्नोति, टाप्तु नलोपे सत्यकारान्ततायामुपजातायां षड्‌भ्य एव । यो यः प्राप्त इति तु युक्तः पाठः, अन्यथा स ततो न भवतीति वाच्यं स्यात्‌, व्याप्तिश्च न गम्येत । पञ्च ब्राह्मण्य इति । ननु चात्र ब्राह्मणीशब्दसामानाधिकरण्यात्‌ स्त्रीत्वावगतिः, संख्याशब्दस्तु स्वमहिम्ना भेदगणनमाह । तथा हि---पञ्चेत्युक्ते नानात्वमात्रं द्रव्यस्य गम्यते, न लिङ्गविशेषः ; तथा च लिङ्गानुशासनेषु `ष्णान्ता संख्या' इत्यलिङ्गत्वमुक्तम् । यद्येवम्, एका, द्वे, बह्व्य इत्यत्रापि प्रत्ययो न स्यात्‌ ? संख्याशब्दत्वेन भेदगणनामात्रस्य शब्दार्थत्वात्‌ । अथ तत्र स्त्रीत्वमपि शब्दार्थः ? पञ्चादिष्वपि स्यात्‌ । वक्तव्यो वा विशेषः---सति तस्मिन्‌ प्रतिषेधे नान्तरेणानुप्रयोगं पञ्चेत्यादौ स्त्रीत्वाद्यभिव्यक्तिरिति लिङ्गानुशासनेष्वलिङ्गत्वमुक्तम् ; असति तु प्रतिषेधे पञ्चादिभ्यः स्त्रीप्रत्ययो न भवति, एकादिभ्यस्तु भवतीति न शास्त्रैकशरणः प्रतिपत्तुमर्हति । ननु विभक्तौ परतः `त्रिचतुरोः स्त्रियाम्' तिसृचतसृभावः, तत्रं संनिपातपरिभाषयैव ङीबभावः सिद्धः, तत्किं तिसृचतसृशब्दयोः स्वस्रादिपाठेन ? ज्ञापनार्थ तु । एतज्ज्ञापयति---अनित्या संनिपातपरिभाषेति, तेन त्यदाद्यत्वे कृते टाब्‌ भवति---या, सा, इमे, द्वे इति ।
ङीपोऽनन्तरस्यायं प्रतिषेधो युक्त इत्याश्रित्य चोदयति---षट्‌संज्ञानामिति । कस्मान्न स्यादिति । अत इति हि प्राप्नोति, असिद्धो नलोपः, तस्यासिद्धत्वान्नैतददन्तम् । परिगणितेषु कार्येषु नलोपोऽसिद्धो भवति, `नलोपः सुप्स्वर' इत्यस्य नियमार्थत्वात्‌ । नेदं तत्र परिगण्यते ? इदमपि तत्र पिगण्यते, कथम् ? सुबिति न सप्तमीबहुवचनेन प्रत्याहारः, किं तर्हि ? यङ्‌श्चाबिति चापः पकारेण, ततश्च टापोऽपि प्रत्याहारेऽन्तर्भावात्तद्विधिरपि सुब्विधिरेवेति । तदेतदाह---प्रत्याहाराच्चापेति । न स्यादित्यनुषङ्गः, कस्मान्न स्यादिति प्रश्नः । चापा प्रत्याहारान्न स्यादिति परिहारः । इदं चाचार्यदेशीयस्य वचनम् ।
आचार्यसिद्धान्तं दर्शयितुमेतद् दूषयति---सिद्धं दोषस्त्वित्त्व इति । सत्यं सिद्धमिदं चापा प्रत्याहारे, इत्त्वे तु दोषो भवति---सिद्धं दोषस्त्वित्त्व इति । सत्यं सिद्धमिदं चापा प्रत्याहारे, इत्त्वे तु दोषो भवति---बहूनि चर्माण्यस्याः बहुचर्मिकेति, कथम् ? तत्र सुब्विधिरित सर्वविभक्यन्तावयवः समास आश्रितः---सुपो विधिः, सुपि विधिरिति; ततश्च यथा राजभ्यामित्यत्र `सुपि च' इति दीर्घत्वं न भवति, तथा टापि सुपि विधीयमानमित्त्वमपि सुब्विधिरिति तत्र वर्तव्ये नलोपस्यासिद्धत्वात्कात्‌ पूर्वोऽकारो न भवतीतीत्वं न स्यादित्यर्थः । सिद्धान्तमाह---तस्मान्नोभाविति । `स्त्रियाम्' इत्यर्थमात्रमपेक्ष्य तत्र यदुक्तं तन्न भवति, इत्येवं ङीप्टापावुभावपि प्रतिषेध्यावित्यर्थः । ननु च सकृत्प्रतिषेधस्य प्रवृत्तिः, स च स्वप्रवृत्तिसमये यस्य प्रसङ्गस्तमेव प्रतिषेधति, ततश्च पूर्वं ङीपि प्रतिषिद्धे नलोपे च कृते पश्चात्प्राप्नुवतष्टापः कथं प्रतिषेधः ? आत्माश्रयो हि स्यात्‌---स्वप्रवृत्तिमपेक्ष्य स्वप्रवृत्तिरिति । तस्मात्तन्त्रावृत्त्येकशेषाणामन्यतमाश्रयणेन द्विरस्य प्रवृत्तिः, तत्र द्वितीयया प्रवृत्त्या टापः प्रतिषेधः ।।
मनः ।। 4.1.11 ।।
अनिनस्मन्ग्रहणानीति । अन्‌, इन्‌, अस्‌, मन्‌---इत्येतेषां ग्रहणे अर्थवत्परिभाषा न व्याप्रियते, तेनैषामनर्थकानामपि ग्रहणं भवति । एभिश्चार्थवद्भिरनर्थकैश्च तदन्तविधिर्भवतीत्यर्थः । सीमन्शब्दोऽव्युत्पन्नं प्रातिपदिकम् । अतिक्रान्ता महिमानमतिमहिमा, अत्रापीमनिच एवार्थवत्त्वम्, न तु मनः ।।
अनो बहुव्रीहेः ।। 4.1.12 ।।
ञनुपधालोपी बहुव्रीहिरिहोदाहरणमिति । कुत एतत् ? इत्याह---उपघालोपिनो हीत्यादि, विभाषां वक्ष्यतीति । `अन उपधालोपिनोऽन्यतरस्याम्' इत्यनेन । सुपर्वेत्यादि । शोभनं पर्वास्याः, शोभनं चर्मास्या इति बहुव्रीहिः । अयं च `न संयोगाद्वमन्तात्‌' इत्यल्लोपस्य प्रतिषेधातनुपधालोपी ।
बहुव्रीहेरिति किमिति । समासादिति वाच्यमिति भावः ।
अतिराज्ञीति । `राजाहः सखिभ्यः' इति ट़ज्‌ न भवति; समासान्तविधेरनित्यत्वात्‌ ।
डाबुभाभ्यामन्यतरस्याम् ।। 4.1.13 ।।
अन्तरस्यांग्रहणं किमिति । डापा मुक्ते प्रतिषेधो यथा स्यादित्येवमर्थं तावदेतन्न कर्तव्यम्, कथम् ? डाबुप्युच्यते, प्रतिषेधोऽपि तावुभौ वचनाद्भविष्यतः । यदि हि नकारान्तस्य श्रवणं न स्यात्‌, तदा डापैवापवादेन ङीपो बाधात्‌ प्रतिषेधोऽनर्थकः स्यात्‌ । अथ डाप्प्रतिषेधाभ्यां मुक्ते ङीबपि यथा स्यादित्येवमर्थमन्यतरस्यांग्रहणम् ? तदपि न; बहुराज्ञीत्यादौ `अन उपधालोपिनोऽन्यतरस्याम्' इत्यनेनैव ङीपः सिद्धत्वात्‌ । यत्र तर्हि तेन न सिद्धयति---अतिशर्मेत्यादौ, तदर्थमेतत्स्यात्‌ ? यद्येवम्, अनेनैवोपधालोपिनोऽपि सिद्धत्वाद्‌ `अन उपधालोपिनः' इत्येतदनर्थकं स्यात्‌ । एवं तर्हि तदन्यतरस्यां ग्रहणं न करिष्यामीतिदमन्यतरस्यांग्रहणं क्रियते, कथम् ? अनेनैवान्यतरस्यांग्रहणेनोपधालोपिनोऽनुपधालोपिनश्च ङीपि प्रापिते सति `अन उपधालोपिनः' इत्येतावदपि क्रियमाणं नियमार्थं भविष्यति---अनो बहुव्रीहेर्यन्‌ ङीब्विधानं तदुपधालोपिन एवेति, ततश्च तदन्यतरस्यांग्रहणं न कर्त्तव्यं भवति ? तदवश्यं कर्तव्यम्, असति हि तस्मिन्ननेनान्यतरस्यांग्रहणेन बहुव्रीहिमात्राद्‌ डाप्प्रतिषेधङीप्सु त्रिष्वपि प्राप्तेषूपधालोपिनो डाप्प्रतिषेधौ बाधित्वा नित्यं ङीबेव यथा स्यादित्येवमर्थं तत्स्यात्‌ । अतस्तदवश्यं कर्तव्यम्, इदं तु न कर्तव्यमिति प्रश्नः ।
परिहरति---बहुव्रीहाविति । अयमभिप्रायः---डाप्प्रतिषेधाभ्या मुक्ते ङीबपि यथा स्यादित्येवमर्थमिदं तावदन्यतरस्याग्रहणम् । न च `अन उपधालोपिनः' इत्यस्य वैयर्थ्यम् ; नियमार्थत्वात्‌---अनो बहुव्रीहेर्यदन्यतरस्यां ङीब्विधानं तदुपधालोपिन एवेति । तेन सुपर्वा, सुशर्मेत्यादावनेनान्यतरस्यांग्रहणेन प्रापितो ङीब्‌ न भवति, बहुराज्ञीत्यादावेव तु भवति । नन्वेवमिदमन्यतरस्यांग्रहणं मा भूत्‌, `अन उपधालोपिनः' इत्येतदेव विध्यर्थमस्तु, को वा विशेषः ? अनेनान्यतरस्यांग्रहणेन बहुव्रीहिमात्रान्‌ ङीपि प्रापिते तन्नियमार्थं स्याद्‌, असति वास्मिन्‌ डाप्प्रतिषेधयोरेव प्राप्तयोरुपधालोपिनोऽप्राप्तो ङीप्‌ पक्षे विधीयते इति ? अयमस्ति विशेषः---अस्मिन्नन्यतरस्यांग्रहणे सति डाप्प्रतिषेधाभ्यां मुक्ते स्वेन स्वेन सास्त्रेण ङीब्‌ भवन्‌ वन्नन्तेषु `वनो र च' इत्यनेनैव भवतीति बहुधीवरीत्यादौ रेफोऽपि भवति । एवमनेन वन्नन्तादुपधालोपिनोऽनुपदालोपिनश्च बहुव्रीहेर्बहुधीवन्सुपर्वन्नित्यादेर्ङीब्रेफयोः प्रापितयोरन्यत्र बहुराजन्सुशर्मन्नित्यादौ केवले ङीपि प्रापिते सति`अन उपधालोपिनोऽन्यतरस्याम्' इत्येतन्नियमार्थं भवति, तेन च नियमेन सुशर्मेत्यादौ ङीब्‌ व्यावर्त्यते । सुपर्वेत्यादौ ङीपि व्यावर्त्तिते तत्सन्नियोगशिष्टत्वाद्रेफोऽपि न भवति । बहुराज्ञीत्यादौ तु यथाप्राप्तो ङीबवस्थितः, बहुधीवरीत्यादौ च `वनो र च' इत्यनेन प्राप्तौ ङीब्रेफाववस्थिताविति सर्वमिष्टं सिध्यति । असति त्वस्मिन्‌, तस्मिंश्च विध्यर्थेऽपूर्व एव ङीप्‌ तेन विधीयत इति वन्नन्ते बहुव्रीहौ `ऋन्नेभ्यो ङीप्‌' इत्येतत्सन्नियुक्तं `वनो र च' इत्येतन्न प्रवर्तेतेति केवले ङीपि सति बहुधीव्नीति स्यात्‌ । अतः `अन उपधालोपिनः' इत्यतन्नियमार्थं यथा स्यात्स्वतन्त्रो विधिर्मा भूदित्येवमर्थमिहान्यतरस्यांग्रहणं क्रियत इति । तदिदम् `अन उपधालोपिनः' इत्यत्र वृत्तिकारः स्पष्टयिष्यति । यद्यनेनान्यतरस्यांग्रहणेन पक्षे ङीबपि प्राप्यते दामेत्यादौ मन्नन्तादपि प्राप्नोति ? नैष दोषः; योगविभागः क्रियते---डाबुभाभ्यां भवति, ततः `अन्यतरस्याम्;' `अनो बरुव्रीहेः' इत्येव वर्त्ते, `मनः' इति निवृत्तम् ।।
अनुपसर्जनात्‌ ।। 4.1.14 ।।
प्रसज्यप्रतिषेधोऽयमित्याह---उत्तरसूत्रेषूपसर्जनप्रतिषेधं करोतीति । पर्युदासे को दोषः ? कुक्कुटीपाद इत्यत्र न स्यात्‌ पूर्वपदस्योपसर्जनत्वात्‌, न; अन्तरङ्गत्वात्प्रागेव ङीषि कृते तदन्तस्य समासः । न चेदानीमुपसर्जनत्वे ङीषः पर्युदासः, पूर्वमेवाभिनिर्वृत्तत्वात्‌ । किञ्च प्रसज्यप्रतिषेधेऽप्येष दोषः समानः । कुक्कुटीत्यत्रैव तर्हि न प्राप्नोति, किं कारणम् ? अन्वर्थमुपसर्जनम्, अप्रधानमुपसर्जनमिति ? अस्त्वेवम् ; अनुपसर्जनं तूपसर्जनादन्यत्सर्वम्, न तु प्रधानमेव, तेनापेक्षणीयस्याभावेऽप्यप्रधानादन्यत्वाद्भविष्यति । यदा तर्ह्यधर्मानृतादिवद्विरोधिवचनोऽनुपसर्जशब्दस्तदा न प्राप्नोति, तस्मात्प्रसज्यप्रतिषेधः । अनुपसर्जनादित्येवं तदिति । उपसर्जनान्न भवतीत्येवमित्यर्थः । वक्ष्यति---टिड्‌ढाणञिति ङीबिति । कथं प्रथमान्तस्य वक्ष्यतीत्यनेन सम्बन्धः ? अत्राहुः---वक्ष्यति टिड्ढाणञित्येतावान्‌ ग्रन्थः । टिड्ढाणञिति वक्ष्यतीत्यर्थः । कः पुनरत्र प्रत्यय इत्यत्राह---ङीबिति । एवं जातेरिति ङीष्‌ इत्यत्रापि ग्रन्थच्छेदः, तत्र च पूर्वस्मिन्‌ `वक्ष्यति' इत्यनुषङ्गः . कुरुचरीति । `चरेष्टः' बहुकुरुचरेति । बहुव्रीहिः सर्वोपसर्जनः ।
कथं पुनरित्यादिः । प्रत्युदाहरणे यदुपसर्जनं न तत् स्त्रियां वर्त्तते, यदा च स्त्रियां वर्तते तदा भवत्येव प्रत्ययः---बह्व्यः कुरुचर्योऽस्यां बहुकुरुचरीका, बहुकुक्कुटीका मदुरेति, यः स्त्रियां वर्तते बहुव्रीहिस्ततोऽटित्त्वादजातित्वाच्चाप्रसङ्गः । तथा हि---टित्प्रातिपदिकं गृह्यते, तच्च किञ्चित्साक्षाट्टिद्भवति, यथा---नदट्, चोरडिति; किञ्चित्त्ववयवटित्त्वद्वारेण । यत्र ह्यवयवटित्त्वमकिञ्चित्करं तत्र समुदायार्थं तद्विज्ञायते । स चावयवः क्वचिद्धातुः---स्तनन्धयीति, क्वचित्कृल्ल्युडादिः, क्वचित्तद्धितष्ट्युट्युलादिः । तत्र यं समुदायं योऽवयवो न व्यभिचरति तदर्थं तस्य टित्त्वमिति कुरुचरशब्द एव टित्‌, तत्कुतो बहुकुरुचरशब्दात्प्रसङ्ग इति प्रश्नः । परिहरति---तदन्तविधिनेति । ननु ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते, ग्रहणं चोपादानमात्रम्, न तु स्वरूपेणोच्चारणमेव, तत्कथं तदन्तविधिः ? स्यादेतत्--यत्र गृह्यमाणं रूपं प्रातिपदिकस्यैवासाधारणं तत्र तदन्तविधिप्रतिषेधः, इह चोरडित्यादि प्रातिपदिकमपि टित्‌, ल्युडादिप्रत्ययोऽपि, धेडिति धातुरपि, ततश्च यथा `उगितश्च' इत्यत्र वर्णोऽप्युगित्प्रत्ययोऽपि प्रातिपदिकमपीति तदन्तविधिर्भवति, तथेहापि प्रसङ्ग इति ? स्यादयं प्रसङ्गो यदि टिता प्रातिपदिकं विश्ष्येत, टिति च प्रातिपदिकेन विशेष्यमाणे नानेन विशेष्येण तदन्तविधिः, प्रातिपदिकेन चासम्भवादिति नैव बहुकुरुचरशब्दात्प्रसङ्ग इत्यत आह---ज्ञापितं चैतदिति । `शूद्रा चामहत्पूर्वा' इत्यत्र ज्ञापितमेतत् । अवश्यञ्चैतज्‌ ज्ञापितमुत्तरत्रापि परिपालनीयमित्याह---तथा चेति । अनाश्रीयमाणे ज्ञापकेऽणन्ताद्विधीयमानो ङीप्‌ प्रत्ययग्रहणपरिभाषया कारशब्दादेव स्याद्‌, न त्वणन्तात्कुम्भकारशब्दात्‌ । ज्ञापकात्तु ततोऽपि भवतीत्यर्थः ।
ननु च कृद्‌ग्रहणपरिभाषया कुम्भकारशब्दस्याणन्तत्वम् ? नेत्याह---न चाणिति । कृद्‌ग्रहणमिति । किं कारणमित्यत्राह---तद्धितोऽप्यणस्तीति । यत्र तु गृह्यमाणं रूपं कृत एवासाधारणं तत्रैषा परिभाषा । इह त्वौपगवीति तद्धितस्यापि ग्रहणमिति नायमस्या विषय इत्यर्थः । अथ कारशब्दादुत्पत्तौ सत्यां को दोषः ? कौम्भकारेयो न सिध्यति, प्रत्ययग्रहणपरिभाषया कारीशब्दात्स्त्रीभ्यो ढकि तस्यैव वृद्धिस्वरौ स्याताम् । ष्यङः सम्प्रसारणवद्भविष्यति, तद्यथा---ष्यङन्तस्योच्यमानं सम्प्रसारणं परमकारीषगन्धीपुत्र इत्यत्रापि भवति, स्त्रीप्रत्यये तदादिनियमाभावात्‌; तथा कारशब्दादप्युत्पत्तौ कुम्भकारीशब्दस्यापि स्त्रीप्रत्ययान्तत्वाद्भविष्यति, एवमपि कारीशब्दादपि कदाचित्स्यात्‌ ।
अथ ब्रूयाः---कारीशब्देन कुम्भशब्दः समसिष्यते, `स्त्रीभ्यो ढक्‌' इत्यत्र च `ङ्याप्प्रातिपदिकात्‌' इति त्रितयाधिकारसामर्थ्यात्स्त्रीप्रत्ययान्तात्प्रातिपदिकादिति प्रत्ययो विधास्यते, स्त्रीप्रत्ययान्तस्य च प्रातिपदिकत्वं समासमन्तरेणानुपपन्नमिति कुम्भकारीशब्दादेव ढगुत्पत्स्यते, ढ्याब्ग्रहणामुवृत्त्या च सौपर्णेय इत्यत्रापि भविष्यतीति ? एवमपिङ्याबनुवृत्तेः सौपर्णेय इतिवत्‌ कारीशब्दादपि स्यात्‌ । `गतिकारकोपदानाम्' इतिवचनाच्चङ्यन्ते समासो दुर्लभः, ततः कुम्भकारशब्दादेवङीब्यथा स्यादित्युत्तरत्रापि तदन्तविधिरभ्युपगन्तव्यः । न च कुम्भकारशब्दादप्युत्पत्तौ तदादिनियमाभावात्कारीशब्दादपि ढक्प्रत्ययप्रसङ्गः, किं कारणम् ? `स्त्रीप्रत्यये चानुपसर्जने न' इत्यनेन, प्रत्यग्रहणे यस्मात्स तदादेरधिकस्य ग्रहणमभ्यनुज्ञायते, न न्यूनस्यापि । ननु च सत्यप्युत्तरत्र तदन्तविधौ कुम्भकारीत्यत्र समुदायादपि भवतु, केवलात्कारशब्दादपि प्रसङ्गः, यथा---औपगवीत्यादौ, ततश्च कौम्भकारेयः पक्षे दुष्यत्येव ? एवं तर्हि कारशब्दादप्युत्पत्तौ कुम्भेनैकार्थीभूतस्य तावतो निष्कृष्यापत्येनायोगात्तदादिनियमाभावाच्च समुदायादेव ढ्गभविष्यति ।
यद्वा---कुम्भेनैकार्थीभूतस्य कारस्य स्त्रीत्वेनायोगात्स्त्रीप्रत्यय एव न भविष्यति, असति पुनरुत्तरत्र तदन्तविधौ स्त्रीप्रत्ययस्यात्राप्रसङ्गः, किं कारणम् ? यदणन्तं न तस्य निष्कृष्य स्त्रीत्वेन योगः, यस्य च स्त्रीत्वेन योगो न तदणन्तम्, अत उत्तरत्राप्यवश्यं प्रधानेन तदन्तविधिरभ्युपगन्तव्यः, तत्र यथा प्रधानेन भवति तथोपसर्जनेनापि स्यादिति प्रतिषेधोऽयमारभ्यते । तथा च पूर्वत्रोपसर्जनेनापि तदन्तविधिर्भवति, `न षट्‌स्वस्रादिभ्यः'----प्रियपञ्चा द्रौपदीति, अतिक्रान्ता भवन्तमतिभवतीति । स्यादेतत्‌---पूर्वत्रोपात्तं तदन्तं वा `स्त्रियाम्' इत्यनेन विशेष्यते, `टिड्ढाणञ्' इत्यादिषूपात्तेमेव टिदादिकम्, तेन ज्ञापितेऽपि तदन्तविधौ बहुकुरुचरेत्यादौ टिदादेरस्त्रीत्वान्न भविष्यति, कुम्भकारीत्यत्र त्वणन्तस्य स्त्रियां वृत्तेस्तदन्तादपि भविष्यति, नार्थ एतेनेति ? तन्न; त्वदुक्तस्य विषयविभागस्य दुर्ज्ञानत्वात्, अतो विषयविभागज्ञापनार्थमदमारभ्यते ।
नन्वारब्देऽप्यस्मिन्नैष विषयविभागः शक्य आस्थातुम्, पञ्चाजीत्यत्राजानामस्त्रीत्वेन तदन्तस्य स्त्रियां वृत्तेः `अजाद्यतष्टाप्‌' इति टाप्प्रसङ्गात्‌ । अतो विशेषणविशे,्यभावं प्रति कामचारात्‌ `अजाद्यतष्टप्‌' इत्यत्र `टिड्ढाणञ्‌' इत्यादौ चोपात्तं स्त्रीत्वेन विशेष्यते, `वनो र च' इत्यादावुपात्तं तदन्तस्य चेति नार्थ एतेन ? एवं तर्हि तदन्तविधिज्ञापनार्थमिदमारभ्यते । अमहपूर्वेत्येतत्तु शक्यमकर्तुम्, न हि महाशूद्रेत्यत्र समुदाये जातिवचने शूद्रशब्दः स्त्रियां वर्त्तते ।
अपर आह---लौकिकस्याप्रधानस्योपसर्जनस्येह ग्रहणम्, तेनापिशिलिना प्रोक्तम्, `इञश्च' इत्यण्, ततोऽध्येत्र्याम् `तदधीते' इत्यण्‌, तस्य `प्रोक्ताल्लुक्‌' इति लुक्‌ आपिशिला ब्राह्मणी, अत्र `इञश्च' इति विहितस्य प्रोक्तप्रत्ययस्याणोऽप्रधानत्वात्तदन्तान्ङीब्‌ न भवति । नन्विदानीमध्येतृप्रत्यये लुप्ते प्रकृतिरेव तदर्थमाहेति प्रधानस्त्रियामध्येत्र्यामणन्तस्य वृत्तेः स्यादेव ङीप्‌ प्रत्ययः ? स्यादेतदेवम्, यद्यणन्तादनुपसर्जनादित्युच्येत । वयं त्वणमेवानुपर्सजनत्वेन विशेषयिष्यामः---अम्योऽनुपर्जन इति, अर्थद्वारकं चाणः प्राधान्यम्, अप्राधान्यं च । तदेतदुक्तं भवति---यस्मिन्नर्थेऽणुत्पन्नः स यदा प्राधान्येनोच्यते तदा तदन्तान्ङीब्‌ भवति; यदा तु गुणभावेने, तदा नेति । इह चाध्येत्र्यां सङ्‌क्रान्तत्वात्प्रथमस्याणोऽर्थो गुणभूत इति तदाश्रयस्तावन्ङीब्‌ न भवति । यस्त्वध्येत्र्यामुत्पन्नस्तदाश्रयोऽपि न भवति; तस्य लुप्तत्वात्‌ । प्रत्ययलक्षणेनापि न भवति, अणआकारस्य विशेषणात् । `टिड्ठाणञ्‌' इत्यत्र ह्यत इति वर्तते । तत्राणन्तादकारान्तादिति । विज्ञायमाने स्यात्‌ प्रत्ययलक्षणम्, अणा त्वकारे विशेष्यमाणे वर्णनिमित्तो ङीप्प्रत्ययः कथं प्रत्ययलक्षणेन स्यात्‌ ! ननु स्त्रियामित्यनुवृत्तेनाणं विशेषयिष्यामः---योऽण्‌ स्त्रियां विहित इति ? एवमपि काशकृत्स्निना प्रोक्ता मीमांसा काशकृत्स्नी, तामधीते काशकृत्स्ना ब्राह्मणीति द्वितीयेऽणि `प्रोक्ताल्लुक्‌' इति लुप्तेऽपि प्रथमोऽप्यण्स्त्रियामेवोत्पन्नः,तदन्ताद्‌ ब्राह्मण्यां वतमानान्ङीप्प्रसङ्गः । तस्मात्प्रधानाद्यथा स्यादप्रधानान्मा भूदित्येतत्प्रयोजनं सूत्रस्येति ।।
टिड्‌ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरप्ख्युनाम् ।। 4.1.15 ।।
इह कस्मादिति । लडादेशस्य स्थानिद्भावेन टित्त्वमस्तीति प्रश्नः । पवामाना, यजमानेति । ननु शानन्नादिषु लट इत्यस्य निवृत्तत्वाद्‌ अनादेशपक्षः स्थापितः, पवमानेत्यादिषु शानजुदाहर्तव्यः । द्व्यनुबन्धकत्वाल्लट इति । लडादिष्वकारादयोऽप्यनुबन्धा इति भावः । एतेन लिड्‌लृटौ व्याख्यातौ---अनूचाना, यक्ष्यमाणेति ।
ल्युडादिषु कथमिति । द्व्यनुबन्धकत्वात्तेषामपि ग्रहणे न भाव्यमिति प्रश्नः । टित्करणसामर्थ्यादिति । न च लडादिष्वपि टित्करणसामर्थ्यमित्याह---इतरत्रेति । पठिता विद्येति । कथमित्यनुषङ्गः । इटष्टित्त्वमुभयार्थं स्यादिति प्रश्नः । आगमटित्त्वमनिमित्तमिति । आगमानां टित्त्वं ङीपो निमित्तं न भवतीत्यर्थः । कुत इत्यत आह---ट्युट्युलौ तुट्‌ चेति लिङ्गादिति । यद्यागमटित्त्वं ङीपो निमित्तं स्यात्ततः सायन्तनीत्यादौ तुट आगमस्य टित्त्वान्ङीप्‌ सिद्ध इति ट्युट्युलोष्टित्करणमनर्थकं स्यादिति भावः । ननु च `पुराणप्रोक्तेषु' इति निर्देशेन यदा तुड्‌ न भवति तदा ङीबर्थं तयोष्टित्त्वं स्यात्‌ ? तन्न; पुराणशब्दाद्वह्वादिषु पाठान्ङीषा भवितव्यम्, अन्तोदात्तो हि पुराणीशब्दः---पुनः पुनर्जायमाना पुराणीति यथा । एवमपि न ज्ञापकम्, `बह्वादिभ्यश्च' इत्यत्र वेति वर्तते, ततश्च ङीषा मुक्ते ङीब्‌ यथा स्यादिति ट्युट्युलोष्टित्त्वं स्यादिति चिन्त्यमेतत् ।
सौपर्णेयीति । सुपर्णशब्दात्पाककर्णादिङीषन्तात्स्त्रीभ्यो ढक्‌ । ननु च सानुबन्धकत्वादस्य ग्रहणेन भवितव्यमत आह---निर नुबन्धक इति । यद्यपि `शिलायाढः' इति निरनुबन्धको ढशब्दोऽस्ति, स इह स्वभावान्नपुंसकलिङ्ग इति स्त्रियां नास्तीत्युक्तम् । योऽपि `सभाया यः', `ढश्छन्दसि' इति ढः, सोऽपि स्त्रियां न वर्तते, कथम् ? तत्र `तत्र साधुः' इति वर्तते, कथं च स्त्री नाम सभायां साध्वी स्याद्यज्ञसभायां हि विदुषामधिकारः ! ननु मा नाम भूद्यज्ञसभायां साध्वी, शालायां स्त्रीसभे च साध्वी भविष्यति, तत्र यज्ञसभायां साध्वी ब्राह्मणपरिषदित्यत्रापि प्रसङ्गः ? एवं तर्ह्येवंविधे विषये छन्दसि सभेयीशब्दस्य प्रयोगाभावोऽत्र हेतुः ।
णेऽपि क्वचिदण्कृतं कार्यं भवतीति । शीलम् `छत्त्रादिभ्यो णः' इति यो णस्तत्राण्कृतं कार्यं भवतीति । कथम् ? ज्ञापकात्‌, यदंयम् `कार्मस्ताच्छील्ये' इति टिलोपार्थं निपातनं करोति । यदि हि ताच्छीलिके णेऽण्कृतं कार्यं न स्यान्निपातनमनर्थकं न स्यात्‌, कर्मशब्दाच्छत्त्रादिलक्षणे णे कृते `नस्तद्धिते' इत्येव टिलोपस्य सिद्धत्वात्‌ । न च `अन्‌' इति प्रकृतिभावः, अणि हि स प्रकृतिभावः । चौरी, तापसीति । चुरातपः शब्दौ छत्त्रादिषु पठितव्यौ । क्वचिदित्यस्य व्यावर्त्त्यं दर्शयति---दाण्डा, मौष्टेति । द्रण्डमुष्टिशब्दाभ्यां `तदस्यां प्रहरणम्' इति णः ।
औत्सी, औदपानीति । उत्सोदपानशब्दाभ्यां भवार्थे `उत्सादिभ्योऽञ्‌' । अथ सार्ङ्गरवादिसूत्रे पुनरञ्ग्रहणं किमर्थम्, यावताऽनेनैव सिद्धम्, न रूपभेदो न स्वरभेदः ? तत्राह---शार्ङ्गरवाद्यञ इत्यादि । बिदस्यापत्यं बैदी, `अनुष्यानन्तर्ये बिदादिभ्योऽञ्' गोत्रं च चरणैः सह' इति जातिः, तत्रौत्सीत्यादौ चरितार्थमिमं ङीपं बाधित्वा जातिलक्षणो ङीष्‌ प्राप्नोति । यदि तर्हि तस्य निबन्धनमस्ति तदेवाञ्‌ग्रहणमस्तु, किमत्राञ्ग्रहणेन ? न वा जात्यधिकारात्‌, `जातेः' इति हि तत्र वर्तते, अनधिकारे हि पुंयोगादाख्यायां ङीप्प्रसङ्गः---बैदस्य स्त्री बैदी ।
उरुद्वयसीत्यादौ `प्रमाणे द्वयसच्दघ्नञ्मात्रचः' ।
पञ्चतयीति । `सख्याया अवयवे तयप्‌' । द्वयसजादिषु अनुबन्धोच्चारणं प्रातिपदिकानां ग्रहणं मा भूत्‌---किमस्य द्वयसम्, किसमस्य मात्रमिति । तयशब्दोऽपि तयतेः पचाद्यजन्तः सम्भवति ।
ठनादिनिवृत्त्यर्थमिति । दण्डोऽस्या अस्ति `अत इनिठनौ' इण्डिका, `काश्यादिभ्यष्ठ
ञ्ञिठौ' काशिकेत्यादौ मा भूदित्येवमर्थम् ।
तादृशीति । `त्यदादिषु दृशोऽनालोचने कञ्च', `आ सर्वनाम्नः' । कञो ञकारोच्चारणम् `आतोऽनुपसर्गे कः' गोदेत्यादौ मा भूत्‌ । इत्वरीति । `इण्नश्जिसर्त्तिभ्यः क्वरप्‌' । आढ्यङ्कारणीति । `आढ्यसुभग' इत्यादिना ख्युन् ।
नञ्स्नञीकक्तरुणतलुनानामिति । भाष्ये तु `कञ्क्वरपः' इत्येतावत्सूत्रम्, ख्युनः पाठोऽनार्ष इति तस्याप्युपसंख्यानमेव कृतम् । स्त्रैणी, पौंस्नीति । `स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्‌' । शक्तीकी, याष्टीकीति । प्रहरणाधिकारे `शक्तियष्ट्योरीकक्' । तरुणी, तलुनीति । एतयोरवयोऽर्थं ग्रहणम्---तरुणी सुरति, वयसि तु `वयसि प्रथमे' इत्येव सिद्धम् ? न सिध्यति; गौरादिपाठान्ङीष प्राप्नोति । तस्माद्वयस्यवयसि च ङीब्ङीषोविकल्पः । क्वचिद्‌ गौरादिपाठात्सिद्धमिति पठ्यते, तद्रूपमात्रसिद्ध्यभिप्रायं द्रष्टव्यम्, स्वरार्थं तूपसंख्यानं कर्तव्यमेव ।।
यञश्च ।। 4.1.16 ।।
आपत्यग्रहणमिति । अपत्ये भव आपत्यः, यञ्‌, आपत्यादिति सूत्रं कर्तव्यमित्यर्थः । द्वैप्येति । भवादावर्थे यञ्‌ ।
योगविभाग उत्तरार्थ इति । उत्तरत्र यञ एवानुवृत्तिर्यथा स्यात्‌, टिदादीनां मा भूदिति ।।
प्राचां ष्फ तद्धितः ।। 4.1.17 ।।
षकारो ङीषथे इति । ननु च ष्फप्रत्ययेनैव स्त्रीत्वस्य द्योतितत्वान्ङीषा न भाव्यम् ? तत्राह---प्रत्ययद्वयेनेति । तद्धितग्रहणं प्रातिपदिकसंज्ञार्थमिति । प्रातिपदिकसंज्ञा तु ङीषर्था । ननु च सिद्धोऽत्र ङीष्‌, पित्करणसामर्थ्यात्‌, धातोस्तु त्रपादेः षित्त्वमङ्‌विधौ चरितार्थमिति त्रपा, क्षमेत्यादौ ङीषभावः ? तदेतत्सान्न्यासिकं तिष्ठतु तावत्‌ ।
सर्वत्रग्रहणमित्यादि । सर्वत्रग्रहणं तावद्‌ उत्तरसूत्रे न कर्तव्यम्, आरम्भसामर्थ्यादेव `प्राचाम्' इत्यस्य निवृत्तौ सर्वत्र सिद्धत्वात्, अतस्तदिहापकृष्यते, तदयमर्थो भवति---सर्वत्र बाधकविषयोऽपि प्राचां मतेन यञन्तात्ष्फो भवतीति । एवं सप्तम्यर्थोऽपि समञ्जसो भवति । आवट्याच्चापं वक्ष्यतीति । असति पुनरपकर्षे आवट्याच्चाबुदीचां मते सावकाशः परत्वात्ष्फं बाधेत, सर्वत्रग्रहणात्ष्फ एव भवति । एवं च `षाच्च यञः' इति चाब्विषयेऽपि प्राचां ष्फ एव भवति---शार्कराक्ष्यायणी, पौतिमाष्यायणी, गोकक्ष्यायणीति ।।
सर्वत्र लोहितादिकतन्तेभ्यः ।। 4.1.18 ।।
लोहितादीति पृथक्पदं लुप्तविभक्तिकम्, पूर्वत्र च प्राचां मते ष्फो विहितः, इह तु सर्वत्र मते । कोऽर्थः ? सर्वेषआं मत इत्यर्थः, तदाह---सर्वेषामाचार्याणां मत इति । मतेनेति तृतीयान्तपाठे सूत्रे पष्ठ्यन्तात्त्रल् । स्वतन्त्रमिति । योऽन्यस्यावयवो न भवति तत्स्वतन्त्रं प्रातिपदिकम्, कः पुनरसावित्यत्राह---कपिशब्दात्पर इति । लौहित्यायनीत्यादिर्गर्गाद्यन्तर्गणः । बभ्रुशब्दोऽपि तत्रैव पठ्यते, यञ्तु `मधुबब्भ्र्‌वोर्ब्राह्मणकौशिक्योः' इत्यननैव भवति ।
कण्वात्त्वित्यादि । कण्वशब्दात्पूर्वः कतशब्दात्तूत्तरः शकलशब्द इष्यते, कतशकलकण्वेत्येवभेषां संनिवेशः कार्य इत्यर्थः । किमेवं सति भवति ? इत्याह---पूर्वोत्तराविति । शकलशब्दोऽन्त आदिश्च यथाक्रमं ययोः पूर्वोत्तरयोर्गणयोस्तौ तथोक्तौ । पूर्वो गणो लोहितादिः शकलशब्दान्तो भवति, उत्तरश्च गणः शकलशब्दादिर्भवतीत्यर्थः । सत्यमेवं भवति, प्रयोजनं तु किम् ? इत्यत आह---ष्फाणाविति ।
श्लोकं व्याटष्टे---प्रातिपदिकेष्वन्यथा पाठ इति । कपिकत, कुरुकत, अनडुह्‌, कण्व, शकलेत्येवं गर्गादिषु गणसन्निवेशः । स एवं व्यवस्थापयितव्य इति । एवमिति श्लोकोक्तयाऽऽनुपूर्व्येत्यर्थः । अनडुह्‌कुरुकतशब्दावस्मात्स्थानादपकृष्यान्यत्र पाठ्यौ, शकलशब्दस्तु कतकण्वयोर्मध्ये पठितव्य इति यावत्‌ । नन्वेवं गणद्वयादपि प्रच्युतः शकलशब्दः ष्फाणौ द्वावपि न प्रतिपद्येत, तत्राह---कतन्तेभ्य इति । बहुव्रीहितत्पुरुषयोरेकशेष इति । कतस्यान्तः समीपभूतः कतन्त इति तत्पुरुषेण शकलशब्द उच्यते, शकन्ध्वादित्वान्निपातनाद्वा पररूपम् । तथा कतोऽन्तो येषां तानि कतन्तानीति बहुव्रीहिः, तत्र बहुव्रीहितत्पुरुषयोः सह विवक्षायां बहुव्रीहिः शिष्यते; `स्वरभिन्नानां यस्योत्तरस्वरविधिः स शिष्यते' इति वचनात्‌ । तथेत्यादि । `कण्वादिभ्यः' इत्यपि बहुव्रीहितत्पुरुषयोरेकेशेष इत्यर्थः । कण्वस्यादिः समीपभूतः कण्वादिः शकलशब्दः, कण्व आदिर्येषां तानि कण्वादीनि, ततः पूर्ववदेकशेषः । तत्र बहुव्रीहितत्पुरुषयोर्मध्ये तत्पुरुषसमासेन । मध्यवर्त्तीति । गणद्वयस्य । प्रत्ययद्वयमपीति । ष्फाणावित्यर्थः । शाकला इति । `आपत्यस्य च' इति यलोपः ।
अपर आह---पूर्वोत्तरौ तदन्तादी ग्राह्याविति शेषः, पूर्वो गणस्तदन्तो ग्राह्यः---सर्वत्र लोहितादिशकलान्तेभ्य इति, उत्तरो गणस्तदादिर्ग्राह्यः---शकलादिभ्यो गोत्र इति । एवं ष्फाणौ प्रयोजनमिति ।।
कौरव्यमाण्डूकाभ्यां च ।। 4.1.19 ।।
कौरव्यमाण्डूकयोरित्यादि । अस्मिन्सूत्रे आसुरेरपि ग्रहणं कर्तव्यम् । आसुरिकौरव्यमाण्डूकेभ्यश्चेति वक्तव्यमित्यर्थः ।
आसुरायणीति । ष्फस्य तद्धितत्वाद्‌ `यस्येति च' इति इञो लोपः । तदिदं तद्धितग्रहणमेव लिङ्गं भवति---आसुरेरपि ष्फ इति । यञादिष्वकारान्तेषु सवर्णदीर्घत्वेनापि रूपं सिद्धम् । शैषिकेषु चार्थोष्वति । आसुरीप्रसङ्गादिदमत्रोक्तम् ; अन्यथा द्विरासुरिग्रहणं कर्तव्यं स्यात्‌ । आसुरीय इति । असुरस्यापत्यमासुरिः, तेन प्रोक्त आसुरीयः कल्प इति ।।
वयसि प्रथमे ।। 4.1.20 ।।
श्रुत्येति । श्रवणमात्रेण प्रकरणाद्यनपेक्षयेत्यर्थः । कुमारीति । प्रथमवयोवचन एवायम्, न पुंयोगाभावहेतुकः पुंस्यपि प्रयोगात्‌ । यस्तु वृद्धायां प्रयोगः---वृद्धकुमारीति, स पुंयोगाभावात्साधर्म्याद्वेदितव्यः ।
वयस्यचरम इति । चरम् = अन्त्यम्, अचरमे = अनत्ये । इह केचिच्चत्वारि वयांसीच्छन्ति---कौमारप्‌, यौवनम्, मध्यत्वम्, वृद्धत्वमिति । यथाहुः---
`प्रथमे वयसि नाधीतं द्वितीये नार्जितं धनम् ।
तृतीये न तपस्तप्तं चतुर्थे किं करिष्यति' ।। इति ।
अन्ये तु त्रीणि---
`पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रस्तु स्थविरिभावे न स्त्री स्वातन्त्र्यमर्हति' ।। इति ।
अन्ये तु बालत्व-मध्यत्व-वृद्धत्वानि त्रीणि---
`आषोडशाद्भवेद्वालो यावत्‌ क्षीरान्नवर्तकः ।
मध्यमः सप्ततिर्यावत्परतो वृद्ध उच्यते' ।। इति ।
एषु सर्वेषु दर्शनेषु यौवनं द्वितीयं वयो भवति, यौवनवचनौ च वधूटचिरण्टशब्दौ, अतो न प्राप्नोति, तदाह---द्वितीयवयोवचनावेताविति । यदा तु द्वे एव वयसी उपचयापचयलक्षणे, तदैतन्न वक्तव्यम् ; यौवनस्यापि प्रथमवयोरूपत्वात्‌ ।
श्रुत्या वर्तते इति यदुक्तं तस्य व्यावर्त्यं दर्शयति---उत्तानशया लोहितपादिकेति नैता वयः श्रुतय इति । श्रुत्या = श्रवणमात्रेण नैते वयः प्रतिपादयन्तीत्यर्थः । इह तावदुत्तानशयेति क्रियाकारकसम्बन्धमात्रं प्रतीयते, तदेव च प्रवृत्तिनिमित्तम् । उत्तानादिषु कर्तृष्विति शेरतेरच्‌ प्रत्ययः, सर्वैव च कदाचिदुत्ताना शेते, उच्यते चेदम्---उत्तानशयेति, तत्र नियमो गम्यते---अन्यथा स्वप्तुमसामर्थ्यादुत्तानैव शेत इति । एवमपि सन्देहः---बाला, वृद्धेति ? तस्मादुत्तानैव शेत इति नियमे वृद्धत्वाभावे च प्रकरणादिनाऽवसिते बाल्यं गम्यते, लाहितपादिकेत्यत्रापि अन्यपदार्थमात्रं श्रुत्या प्रतीयते । प्रकरणादिना स्वभावत एवास्य रक्तौ पादो नालक्तकादिनेति प्रतीतौ सत्यां बालेति गम्यते । इतिशब्दः प्रकारे, एवप्रकारा न वयःश्रुतय इत्यर्थः । अत एव बहुवचनम्, तेन द्विवर्षेत्यादावपि न भवति । अत्रापि प्रकरणादिना वयो गम्यते, परिमाणमात्रं तु शब्दार्थः, शालादावपि प्रयोगात्‌ । द्वे वर्षे भूता इति ठञः `वर्षाल्लुक्च', `चित्तवति नित्यम्' इति लुक्‌ ।।
अपरिमाणविस्ताचितकम्बल्येभ्यो न तद्धितलुकि ।। 4.1.22 ।।
परसप्तमी त्वषा नोपपद्यते, अभावरूपेण लुका पौर्वापर्यासम्भवात्‌ । सर्वतो मानं परिमाणमिति । `परिमाणं तु सर्वतः' इत्यस्य ग्रहणम्, न परिच्छेदकमात्रस्येत्यर्थः ।
पञ्चमिश्वैः क्रीतेति । तद्धितार्थे द्विगुः, आर्हीयष्ठक्‌ ।
कालः सङ्ख्या च न परिमाणमिति । न हि ताभ्यां सर्वत आरोहतः परिणाहतश्च मीयते । एवं च कालः सङ्ख्या चेति प्रदर्शनार्थत्वात्प्रमाणमपि परिमाणं न भवति, तथा चोत्तरसूत्रे `काण्डशब्दस्यापरिमाणवाचित्वात्‌' इति वक्ष्यति, `प्रमाणविशेषः काण्डम्' इति च । तेन द्वौ शमौ प्रमाणमस्या इति मात्रचः `प्रमाणे लो द्विगोर्नित्यम्' इति लुकि द्विशम्, त्रिशमेति भवति । यद्येवम्, उन्मानमपि परिमाणं न स्यात्‌ ? कश्चिदाह---इष्टमेवैतत्, उन्मानमपि नैवात्र परिमाणग्रहणेन गृह्यते---द्वाभ्यां निष्काभ्यां क्रीता, प्राग्वतीयस्य ठञोः `द्वित्रिपूर्वान्निष्कात्‌' इति लुक्‌, द्विनिष्का त्रिनिष्वेति भवतीति । अपर आह---बिस्तकम्बल्यग्रहणं ज्ञापकम्---उन्मानमप्यत्र परिमाणग्रहणेन गृह्यत इति; तयोरुन्मानविशेषत्वात्‌, सुवर्णबिस्तौ हेस्नोऽक्षे, `कम्बलाच्च संज्ञायाम्' कम्बल्यमूर्णापलशतमिति । न्यासकारस्तु द्वौ विस्तौ परिमाणमस्येति विगृह्णन्‌ बिस्तं परिमाणं मन्यते । द्विवर्षेति । कृतव्युत्पादनमेतत् । द्विशता, त्रिशतेति । द्वाभ्यां शताभ्यां क्रीतेति `पणपादमाषशताद्यत्‌' इति नित्ये यति प्राप्ते `शाणाद्वा' इत्यत्र `शताच्चेति वक्तव्यम्' इति वचनात्पक्षे `सङ्ख्याया अतिशदन्तायाः कन्‌' इति कन्‌, तस्य `अध्यर्धपूर्वात्‌' इति लुक्‌ ।
द्विबिस्तेति । परिमाणत्वे ठञो लुक्, उन्मानत्वे ठकः । द्व्याचितेति । आचितो दशभाराः स्युः । द्वावाचितौ पचति, `आढकाचितपात्रात्खोन्यतरस्याम्', `द्विगोष्ठंश्च' इति पक्ष ठन्‌खौ, ताभ्यां मुक्ते प्राग्वतीयष्ठञ्‌, तस्य पूर्ववल्लुक्‌ । द्विकम्बल्येति । क्रीतार्थे ठञो लुक्‌ । द्व्याढकी द्व्याचितेत्यनेन तुल्यम् ।
पञ्चाश्वीति । समाहारे द्विगुः । इमौ द्वौ प्रतिषेधावुच्येते, तत्रैकः शक्योऽवक्तुम्, कथम् ? एवं वक्ष्यामि---परिमाणान्तात्तद्धितलुकीति, तन्नियमार्थं भविष्यति---परिमाणान्तादेव तद्धितलुकि ङीब्‌ भवतीति, तेन द्व्याढकीत्यादौ च भविष्यति, पञ्चाश्वेत्यादौ च न भविष्यति, ततो बिस्ताचिकम्बल्येब्योनेति ? नैवं शक्यम् ; विपरीतोऽपि नियमः सम्भाव्येत---द्विकुडवी, पञ्चाढकी । पञ्चाश्वेत्यादौ तु व्यावर्तकाभावात्स्यादेव डीप्‌ । तस्माद्यथान्यासमेवास्तु ।।
काण्डान्तात्क्षेत्रे ।। 4.1.23 ।।
मानदण्डः=काण्डम् । `द्विगोः' इत्यधिकारादेव पूर्वसूत्रवत्तदन्तविधौ सिद्धे किमर्थमन्तग्रहणम् ? अक्रियमाणेऽन्तग्रहणे क्षेत्र इत्येतत् काण्डस्यैव विशेषणं विज्ञायेत---क्षेत्रे यः काण्डशब्दः, तदन्ताद्‌ द्विगोरिति श्रुतत्वात्‌ न तदन्तस्य, यथोत्तरसूत्रे प्रमाणे यः पुरुषशब्दस्तदन्तादिति, ततश्चेह प्रसज्येत---द्वाभ्यां काण्डाभ्यां काण्डामिताभ्यां क्षेत्राभ्यां क्रीता द्विकाण्डी वडवेति; इह तु न स्यात्‌---द्वे काण्डे प्रमाणमस्याः द्विकाण्डा क्षेत्रभक्तिरिति । अन्तग्रहणे तु सति तदन्तस्यैव विशेषणं क्षेत्रम्, न काण्डस्य; बहुव्रीहौ गुणभूतत्वात्‌ ।।
पुरुषात्प्रमाणेऽन्यतरस्याम् ।। 4.1.24 ।।
प्रमाणे यः पुरुषशब्द इति । पञ्चारत्निः पुरुष इति शुल्बविदः, तत्र द्वौ पुरुषो प्रमाणमत्या इति वाक्ये प्रमाणशब्देन सम्बन्धाज्जातिवचनोऽपि पुरुषशब्दः प्रमाणे वर्तते । वृत्तौ तु तत्स्वभावादेव प्रमाणे वृत्तिर्द्रष्टव्या ।।
बहुव्रीहेरूधसो ङीष्‌ ।। 4.1.25 ।।
`ऊधसोऽनङ्‌' इति । समासान्ते कृत इति समासार्थादुत्तरपदाद्भवन्समासान्तः पूर्वं भवति, ततः स्त्रीप्रत्ययः । अनो बहुव्रीहेरिति । उपल7णमेततत् । `अनो बहुव्रीहेः', `डाबुभाभ्याभन्यतरस्याम्' इति चेत्यर्थः । कुण्डोध्नीति । कुण्डमिव ऊधोऽस्या इति विग्रहः, ङीषि `अल्लोपोऽनः' इत्यकारलोपः ।
प्राप्तोधा इति । `प्राप्तापन्ने च द्वितीयया' इति तत्पुरुषः, `अत्वसन्तस्य' इति दीर्घः ।
अन उपधालोपिन इत्यादि । असत्यां पुनरनुवृत्तौ मध्येऽपवादन्यायेन डाप्प्रतिषेधयोरेवायं ङीष्‌ बाधकः स्यात्, न `अन उपधालोपिनः' इत्यस्य ङीपः ।
ननु च `डाबुभाभ्याम्' इत्यत्रानेनान्यतरस्यांग्रहणेन ङीबपि प्राप्यते, `अन उपधालोपिनः' इत्यय तु नियम इत्यावीदीति कुतोऽयमनिष्टप्रसङ्गः ? सत्यम् ; अन `उपधालोपिनः' इत्यस्य तु विधित्वाभ्युपगमेनैतदुक्तम् । इह बहुव्रीहेरूधसो ङीष्‌ नश्चेति वक्तव्यम्, ऊधः शब्दान्ताद्वहुव्रीहेः स्त्रियां ङीष्‌ भवति तत्सन्नियोगेन चान्त्यस्य नकारः, समासान्तप्रकरणे तु ऊधसऽनङिति न वक्तव्यम्, `धनुषोऽनङ्‌' इत्येव पठितव्यम्, कः पुनरेवं सति गुणो भवति ? `अन उपधालोपिनः' इत्यत्रास्यानुवृत्तिर्नाश्रयितव्या भवति; अपि च महोधाः पर्जन्यः, वुण्डोधो धैनुकमिति सिद्धं भवति, अन्यथा `ऊधसोऽनङ्‌' इत्यत्र स्त्रियामिति वक्तव्यं स्यादत आह---समासान्तश्च स्त्रियामेवेति । इष्यत इत्यनुषङ्गः, तत्रैव स्त्रियामिति वक्तव्यमित्यर्थः, इतरथा हि कब्विधिप्रसङ्गः । कपोऽवकाशोऽन्यो बहुव्रीहिः---अयवकः अव्रीहिकः, ङीषस्तु---विभाषा कप्‌, यदा न कप्‌ सोऽवकाशः; कप्प्रसङ्गे उभयं प्राप्नोति परत्वात्कप्‌ स्यात्‌ ।।
संख्याव्ययादेर्ङीप्‌ ।। 4.1.26 ।।
पूर्वेण ङीषि प्राप्ते ङीब्‌ विधीयत इति । यत्र पूर्वपदप्रकृतिस्वरस्तत्र बहुव्रीहौ । अन्तोदात्ते तु बहुव्रीहौ ङीब्ङीषोर्नास्ति विशेषः, सूध्नी, `नञ्सुभ्याम्' इत्यन्तोदात्तत्वम्, तत्राल्लोपे ङीबप्यदात्तनिवृत्तनिवृत्तस्वरेणोदात्तो भवति । द्व्यूध्नीत्यादि । द्वे ऊधसी यस्याः, अतिगतमूधोऽस्याः, निर्गतमूधोऽस्या इति विग्रहः ।
आदिग्रहणं किमिति । संख्याव्ययाभ्यामुत्तरो य ऊधः शब्दस्तदन्ताद्वबहुव्रीहेरिति विज्ञायमाने द्वयूध्नीत्यादि सिद्धमिति प्रश्नः । द्विविधोध्नीति । असत्यादिग्रहणे `संख्याव्ययाभ्याम्' इति पञ्चमीनिर्देशात्ताभ्यामनन्तरो य ऊधः--शब्दस्तदन्तादेव स्यात्, पदान्तरव्यवाये तु न स्यादिति भावः ।।
दामहायनान्ताच्च ।। 4.1.27 ।।
`स्वीरितेनाधिकारः' इत्यत्र द्वौ पक्षौ---शब्दाधिकारः, अर्थाधिकारश्चेति । तत्राद्ये पक्षे यस्यैव शब्दस्य स्वरितत्वं प्रतित्रातं स एवानुवर्तते, द्वितीये तु द्वन्द्वार्थस्यैकत्वात्तस्यैवानुवृत्तिः स्याद्वा न वा, तदिहाद्यं पक्षमाश्रित्याह---सख्याग्रहणमनुवर्तते नाव्ययग्रहणमिति ।
हायनो वयसि स्मृत इति । प्रकृतिरिति शेषः । हायनान्तो बहुव्रीहिर्वयसि गम्यमाने ङीपः प्रकृतिराचार्यैः स्मृत इत्यर्थः । त्रिहायना शालेति । प्राणिधर्मो वयः शालाया न सम्भवति । अथ मूलोदाहरणवत्‌ `त्रिचतुर्भ्या हायनस्य' इत्यौपसंख्यानिकं णत्वं कस्मान्न भवतीत्यत आह---णत्वं चेत्यादि । बहुव्रीह्यधिकारादेव तदन्तविधिसिद्धेरन्तग्रहणं विस्पष्टार्थम् ।।
अन उपधालोपिनोऽन्यतरस्याम् ।। 4.1.28 ।।
इति परत उपधालोपे यस्य सम्भवति स उपधालोपी ।
ननु सिद्धा एवेत्यादि । एतच्च `डाबुभाभ्याम्' इत्यत्रैव व्याख्यातम् ।
अनुपधालोपिनो ङीप्प्रतिषेधार्थं वचनमिति । अनो बहुव्रीहेर्यदन्यतरस्यां ङीब्विधानं तदुपधालोपिन एवेत्येवं नियमार्थमित्यर्थः । अस्य च नियमस्यानुपधालोपिनो ङीब्निवृत्तिः फलमिति फलतः प्रतिषेधवाचो युक्तिः । बहुराजे इति । `औङ आपः' इति शीभावः । द्विवचननिर्देशो डापोऽभिव्यक्तये; एववचने डाप्प्रतिषेधयो रूपस्य तुल्यवात् ।
बहुमत्स्येति । `सूर्यतिष्यागस्त्य' इत्यादिना उपधालोपविधानादुपधालोप्येष बहुव्रीहिः । सुपर्वेति । `न संयोगाद्वमन्तात्‌' इति निषेधान्नायमुपधालोपी ।।
नित्यं संज्ञाछन्दसोः ।। 4.1.29 ।।
ननु छन्दसि दृष्टमेवानुविधीयते नापूर्वमुत्प्रेक्ष्यते; तत्र च ङीबेव चेद्‌ दृश्यते तस्य च लक्षणमस्ति, क इदानीं तदभावं प्रयोक्तुं प्रभवति, संज्ञाशब्दा अप्यनदिप्रयुक्ता नियतानुपूर्वीकास्तत्रापि ङाबेव चायं दृश्यते न तदभावः शक्यते कर्तुम्, किमर्थमिदं सूत्रम् ? संज्ञाछन्दसोरिति पदमुत्तरार्थं वक्तव्यम् । नित्यग्रहणमुत्तरत्र विकल्पनिवृत्त्यर्थम् ।।
केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च ।। 4.1.30 ।।
केवलेति भाषायामिति । असंज्ञाविषये इति भावः । मामकीति । ममेयमिति `युष्मदस्मदोरन्यतस्यां खञ्च' इत्यम्‌, `तवकममकावेकवचने' इति ममकादेशः, तत्राणन्तत्वात् `टिड्ढाणञ्‌' इत्येव सिद्धे नियमार्थं मामकग्रहणम्---संज्ञाछन्दसोरेव ङीब्नान्यत्रेति । मामिकेति । टापि `मामकनरकयोरुपसंख्यानम्‌' इतीत्वम् । भागधेयीति । भागशब्दापुंल्लिङ्गात्स्वार्थे धेयप्रत्ययः, स्वाथिकाश्च क्वचिदतिवर्तन्ते प्रकृतितो लिङ्गमिति स्त्रीलिङ्गता । पापेति । अभेदोपचारात्तद्वति वर्तमानः पापशब्दोऽभिधेयवल्लिङ्गः । अवरीत्यत्र द्वितीयो वर्णो दन्त्योष्ठ्यः, न पवर्ग्यः । आर्येण कृतेति । प्राक्‌ सुबुत्पतेः समासेऽकारान्तत्वम् । भेषजीति । भिषज इयमित्यणि आदिवृद्धेरभावोऽस्मादेव निपातनादेकारः । एवं च भेषजग्रहणमपि नियमार्थम् ।।
रात्रेश्चाजसौ ।। 4.1.31 ।।
कथमित्यादि । दीर्घान्ताज्जसि `दीर्घाज्जसि च' इति पूर्वसवर्णदीर्घप्रतिषेधाद्यणादेशे `रात्र्यः' इति प्रयोग उपपद्यते, ह्रस्वान्तस्य तु `जसि च' इति गुणे `रात्र्यः' इति रूपं स्यात्‌ । दीर्घान्तश्च रात्रिशब्दः संज्ञाछन्दसोरपि जसि न सम्भवति, अजसाविति प्रतिषेधात्‌, किं पुनर्भाषायामिति प्रश्नः । ङीषयमित्यादि । बह्वादिषु रात्रिशब्दो न पठ्यत इति चेत्‌, तत्राह-तत्र हीति । कृत इकारः कृदिकारः, तदन्तान्ङीष्‌ भवति `दृजागृभ्यां विः', दविः, दर्वी; यस्तु क्तिन्सम्बन्धी तदन्तान्न भवति---कृतिः, हृतिः । सर्वत इति । कृदिकारादकृदिकाराच्चेत्यर्थः । यस्तु क्तिन्नर्थस्तस्मान्न भवति---`आक्रोशे नञ्यनिः', अकरणिः, अहरणिः । रात्रिशब्दोऽयम् `राशदिभ्यां त्रिप्‌' इति व्युत्पत्तिपक्षे कृदिकारान्तः, अव्युपत्तिपक्षे `सर्वतोऽक्तिन्नर्थात्‌' इति ङीष्‌ । सूत्रं तु ङीबर्थम्---रात्री व्यख्यात्‌, रात्रीभिरस्मा अहभिर्दशस्येत्‌; अत्राद्युदात्तत्वं भवति ।।
अन्तर्वत्पतिवतोर्नुक्‌ ।। 4.1.32 ।।
निपातनसमार्थ्याच्चेति । कार्यान्तरवदर्थविशेषवृत्तिरपि लभ्यत इति भावः । कस्मिन्विशेष इत्यत्राह अन्तर्वत्पतिवदिति । गभभर्तृसंयोगे इति । अन्तर्वदिति । गर्भसंयोगे, गर्भिण्यामित्यर्थः । पतिवदिति । भर्तृसंयोगे, भर्तृमत्यामित्यर्थः, जीवपत्यामिति यावत्‌ । इह न भवति अन्तरस्यां शालायां विद्यते इति । अस्मिन्विषये एवंविधं वाक्यमेव भवति, न तु मतुबादीत्यर्थः । क्वचिद्‌ अन्तर्वती शालेति पठ्यते, तदयुक्तम् ; अत्र मतुबभावस्योक्तत्वात्‌ । पतिमती पथिवीति । स्वामिपर्यायोऽत्र पतिशब्दः ।
मतुब्निपात्यत इति । अधिकरणप्रधानस्यान्तः शब्दस्यास्तिनाऽसामानाधिकरण्यान्न प्राप्नोतीति कृत्वा ।
वत्वं तु सिद्धमिति । `मादुपधायाश्च' इत्यनेनादुपधत्वात्‌ ।
अन्तर्वत्पतिवतोरित्यादि । एतयोः शब्दयोर्निपातनान्मतुब्वत्वे भवतः, नुक्तु विधीयते यथाक्रमं गर्भिण्यां जीवपत्यां चाभिधेयायाम्--जीवः पतिरस्याः जीवपतिः `विभाषा सपूर्वस्य' इति ङीम्नकारयोरभावपक्षे रूपम् । तत्र ङितिह्रस्वश्च' इति नदीसंज्ञापक्षे `इदुद्भ्याम्' इति ङेरामादेशः, जीवपत्यामिति भवति । वा तु छन्दसि नुग्विधिः । छन्दसि विषये तु विकल्पेन नुग्विधिर्भवति---अन्तर्वती, अन्तर्वत्नी । पुंस्यापि दृश्यते---सोऽन्तर्वानभवत्‌ ।।
पत्यर्नो यज्ञसंयोगे ।। 4.1.33 ।।
यद्यत्र यज्ञशब्देन पतिशब्दस्य सम्बन्धात्‌ यज्ञसंयोग इत्यर्थः स्यात्‌ ? यज्ञस्य पतिरियं ब्राह्मणीत्यत्रैव स्यात्‌, अस्ति ह्यत्रार्थद्वारकः सम्बन्धः, स्वरूपेण चानन्तर्यलक्षणः । अथ यज्ञवाचिना संयोगो यज्ञसंयोगः ? तथापि पत्नीसंयाज इत्यादावेव स्यात्‌, न त्वियमस्य पत्नीत्यादौ । तस्माद्यज्ञशब्दस्य योऽर्थस्तेन पतिशब्दार्थस्य सम्बन्धो यज्ञसंयोग इत्याह---यज्ञेन संयोग इति । अन्यथा `यज्ञशब्देन' इत्यवक्ष्यत्‌ । एवं च पतिशब्दार्थस्येत्यप्युक्तं भवति, न हि पतिशब्दस्य यज्ञेनार्थेन वाच्यवाचकभावः सम्बन्धान्तरं वा सम्भवति । तत्साधनत्वादिति । देवतोद्‌देशेन स्वद्रव्यत्यागः =यागः । मध्यकंचदम्पत्योर्धनम्, `कुटुम्बिनौ धनस्येशाते जायापत्योर्न विभागो विद्यते' इति हि स्मर्यते, ततश्च त्यागे भार्याया अप्यनुमतिरपेक्ष्यत इति तत्रास्या अनुमत्या साधनत्वम् । मदर्थं कर्मेत्येवंरूपोऽधिकारलक्षणसम्बन्धोऽस्तीत्याह---फलग्रहीतृत्वादिति । कर्तृत्वमात्रं विवक्षितम्, न स्त्रीत्वमिति ङीब्न कृतः । `कर्तरि च' इति समासप्रतिषेधः कर्मणि षष्ठ्या एव, न शेषपष्ठ्या इति तस्यानेनोपपन्नः समासः । फलगृहीतत्वादिति पाठे गृहीतं फलं ययेति बहुव्रीहौ फलशब्दस्य जातिवचनत्वाद्‌ निष्ठायाः पूर्वनिपाते `जातिकालसुखादिभ्यः परवचनम्' इति गृहीतशब्दस्य परनिपातः ।
कथमित्यादि । शूद्रस्यैव यज्ञेऽनधिकृतत्वाद्यज्ञेनासंयोगात्कथं तद्भार्याया यज्ञसंयोग इति प्रश्नः । उपमानादिति । अग्निसाक्षिकं यत्पाणिग्रहणं तद्‌ वृषलादीनामप्यस्ति, तदाश्रयमुपमानम् ।।
विभाषा सपूर्वस्य ।। 4.1.34 ।।
सहशब्दोऽयमस्ति तुल्ययोगे, यथा---सशिष्यो गुरुरागत इति; अस्ति च विद्यमानवचनः, यथा---`सहैव दशभिः पुत्रैर्भारं वहति गर्दभी' इति, इत्थम्भूतलक्षणे तृतीया, विद्यमानेष्वेव पुत्रेष्वित्यर्थः । पूर्वशब्दोऽप्यस्ति व्यवस्थावचनः---पूर्वं मधुरायाः पाटलिपुत्रमिति; अस्ति चावयवशब्दः---पूर्वं कायस्येति । तत्र तुल्ययोगे सहशब्दः, पूर्वशब्दश्च व्यवस्थायामिति पक्षे ग्रामस्य पतिरियमिति वाक्ये प्राप्नोति, पूर्वस्य चापि प्राप्नोति, विद्यमानवचनसहशब्दः पूर्वशब्दश्च व्यवस्थावचन इति पक्षे पूर्वस्य मा भूत्‌, वाक्ये तु स्यादेव । अपयववचनः पूर्वशब्दः तुल्ययोगे सहशब्द इति पक्षे वाक्येऽपि स्यात्‌, तत्रापि पतिशब्दस्य पूर्वोऽवयवः पकारस्तस्यापि स्यात्‌, तस्माद्विद्यमानवचनः सहशब्दः पूर्वशब्दश्चावयववचन इति पक्ष आश्रीयते । `तेन सह' इत्यत्र `तुल्योगे' इति विशेषणस्य प्रायिकत्वात्समासः । एवं च स्थिते `सपूर्वस्य' इति पतिशब्दविशेषणं नोपपद्यते, कथम् ? पकारेण सपूर्वत्वमव्यभिचारादविशेषणम् । शब्दान्तरं तु पतिशब्दस्यावयवो न सम्भवति, ततश्च सामर्थ्यात्‌ प्रातिपदिकं पतिशब्देन विशेष्यते, न तु तेन । पतिशब्द इति । पतिशब्देन तदन्तस्य ग्रहणम्, अनुपसर्जनग्रहणेनापि तदन्तं प्रातिपदिकमेव विशेष्यते, न विशेषणभूतः पतिशब्दः, अन्यथा बहुंव्रीहौ न स्यात्‌---जीवः पतिरस्याः जीवपतिर्जीवपत्नीति । षष्ठी समास एव तु स्याद्‌---आशापतिः, आशापत्नीति । तदेतत् सर्वमालोच्याह---पतिशब्दान्तस्य सपूर्वस्यानुपसर्जनस्येति । ग्रामस्य पतिरियमिति । असति सपूर्वग्रहणे तदन्तविधेरभावादत्रैव स्यात्‌ । अथाप्यमहत्पूर्वेति ज्ञापकात्तदन्तेऽपि भवेत् केवलस्यापि स्यादेव । तस्मात्‌ `सपूर्वस्य' इति वक्तव्यम् ।।
नित्यं सपत्न्यादिषु ।। 4.1.35 ।।
यानि समानादिपूर्वपदानि पत्यन्तानि प्रातिपदिकानि ते सपत्न्यादयः । कुत एतत् ? समानादीनामेव गणे पठात्‌, सपत्न्यादीनां चापाठात्‌ । यद्येवम्, समानादिष्विति वक्तव्यम्, पूर्वग्रहणानुवृत्तेः; समादिषु पूर्वेष्ववयवेषु सत्स्वित्यर्थः ? सत्यम् ; समानस्य सभावार्थं तु `सपत्न्यादिषु' इत्युक्तम् । क्वचित्तूदाहरणानन्तरं समानादिष्विति वक्तव्यं सभावार्थमेवमुक्तमिति वृत्तावेव पठ्यते ।
अपर आह---समुदायोच्चारणसामर्थ्यात्सपत्नीभार्य इत्यत्र पुंवद्भावो न भवतीति नात्राप्तोक्तिरस्ति । किञ्च---सभावार्थं समुदायोच्चारणमिदमिति सामर्थ्यमपि चिन्त्यम् । तथा हे सपत्नि, निःसपत्निः, सपत्न्यृच्छति, सपत्न्या, सपत्न्यै इत्यादावपि ह्रस्वयणादेशौ न स्याताम् । तस्मात्सभावार्थमेव सपत्न्यादिष्वित्युक्तम् । नित्यग्रहणं विस्पष्टार्थमिति । आरम्भसामर्थ्यादेव नित्यं भविष्यतीति भावः । दासाच्छन्दसीति । दासपत्नीरहिगोपाः ।
पूतक्रतोरै च ।। 4.1.36 ।।
यद्ययमैकारः प्रत्ययः स्यादुत्तरसूत्रे उदात्तवचनमनर्थकं स्यात्‌; प्रत्ययत्वादेव सिद्धेः । तस्मादादेशोऽयं विज्ञायत इत्याह---ऐकारश्चान्तादेश इति ।
त्रय एते योगा इति । `पुंयोगादाख्याम्' इत्यत्रानुवर्तयितव्या इत्यर्थः । इह करणसामर्थ्याच्च ङीप्सहिता एवानुवर्तन्ते, तेन यदा पुंयोगात्स्त्रियां पूतक्रत्वादयो वर्तन्ते तदा ङीषं बाधित्वा ऐकारादिसहितो ङीब्‌ भवति ।।
वृषाकप्यग्निकुसितकुसीदानासुदात्तः ।। 4.1.37 ।।
वृषाकपिशब्दो मध्योदात्त इति । `लघावन्ते द्वयोश्च बह्वषो गुरुः' इति वचनात्‌ । अस्यार्थः---अन्ते एकस्मिन्लघौ द्वयोश्च लघ्वोः परतो बह्वषः शब्दस्य गुरुरुदात्तो भवतीति । `बह्वषः' इति वह्वच इत्यर्थः । योऽस्माकं चकारेण प्रत्याहारः सोऽन्येषां षकारेण । अग्न्यादिषु पुनरिति । `फिषः' इत्यनेनाग्न्यादीनामन्तोदात्तत्वम् । फिषिति प्रातिपदिकस्यान्याचार्यसंज्ञा । ये तु कुसीदेति मध्ये गुरुमधीयते तेषाम् `लघावन्ते' इति मध्योदात्तप्रसङ्गः ।।
मनोरौ वा ।। 4.1.38 ।।
ऐकारश्चोदात्त इति । औकारस्त्वनुदात्त एव । वाग्रहणेन द्वावपि विकल्प्येते इति । यदा च द्वावपि न भवतस्तदा ङीबपि न भवति; सन्नियोगशिष्टत्वात्‌ । मनुशब्द आद्युदात्त इति । `मन ज्ञाने', `मृमृशीतॄचरित्सरितनिधनिमिमस्जिभ्य उः' इति वर्त्तमाने `धान्ये नित्‌' इति च, `शॄस्वॄस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च' इति उप्रत्ययः, नित्त्वादाद्युदात्तत्वम्, भरुः, मरुः, शयुः, तरुः, चरुः, त्सरुः, तनुः, धनुः, मयुः, मद्‌गुः, न्यङ्‌क्वादिपाठात्‌ कुत्वम्---प्रथमस्योदाहरणानि । शरुः, स्वरूः, स्नेहुः, त्रपु, असुः, वसुः, हनुः, क्लेदुः, बन्धुः, मनुः---इति द्वितीयस्य ।।
वर्णादनुदात्तात्तोपधात्तो नः ।। 4.1.39 ।।
वर्णानां तणतिनितान्तानामिति । तशब्दान्तानामेतादीनां णशब्दान्तानां सोणादीनां तिशब्दान्तानां शितिप्रभृतीनां निशब्दान्तानां पृश्निप्रभृतीनां तकारान्तानां च पृषत्प्रभृतीनां वर्णवाचिनामादिरुदात्तो भवतीत्यर्थः । गतिस्वरेणेति । `गतिरनन्तरः' इत्यनेन । घृतादित्वादिति । `घृतादीनि' इति फिषि पठ्यते । पिशङ्गादिति । `लघावन्ते' इति मध्योदात्तत्वादुत्तरसूत्रेण ङीषि प्राप्ते हीब्विधीयते ।
असितपलितयोरिति । `वर्णानां तणतिनितान्तानाम्' इत्याद्युदात्तावेतौ ।
छन्दसीत्यादि । `तो नः' इति नकारे प्राप्ते क्नशब्दं ङीप्सहितमिच्छन्ति ।
भाषायामपीष्यते इति । भाष्ये तु नैतत्प्रदशितम् । अवदातशब्दो न वर्णवाची, किं तर्हि ? विशुद्धवाची । एवं ह्याह---
त्रीणि यस्यावदातानि विद्या योनिश्च कर्म च ।
एतत्त्रयं विजानीहि ब्राह्मणाध्यस्य लक्षणम् । इति ।
तेनावदातेत्यत्र ङीब्न भवति ।
अन्यतो ङीप्‌ ।। 4.1.40 ।।
सारङ्गकल्माषशब्दौ `लघावन्ते' इति मध्योदात्तो, `शप आक्रोशे', `कल तृपः', `शपेर्बश्च' इति कलप्रत्ययः, पकारस्य बकारः, प्रत्ययस्वरेण मध्योदात्तः शबलशब्दः । खट्‌वाशब्दो नित्स्वरेणाद्युदात्तः, `खट्‌ काङ्‌क्षे', `असूप्रुषिलटिकणिखटिविशिभ्यः क्वन्‌' । कृष्णशब्दोऽन्तोदात्तः, `कृषेर्वर्णे' इति नक्‌ प्रत्ययः, इलचि प्रकृते `कपेश्च' इति उणादिषु सूत्रम् । कपिः सौत्रो धातुः, कपिलशब्दोऽन्तोदात्तः ।।
षिद्‌गौरादिभ्यश्च ।। 4.1.41 ।।
षिद्भ्यः प्रातिपदिकेभ्य इति । ष्वुनादेः प्रत्ययस्य षित्त्वमवयवेऽचरितार्थं समुदायस्य विशेषकं भवतीति प्रातिपदिकानां षित्त्वम्, धातोस्तु त्रपादेः षित्त्वमङ्‌विधौ चरितार्थमिति न तेन प्रातिपदिकं षिद्भवति । रजकीति । `शिल्पिनि ष्वुन्‌' इत्यत्र व्युत्पादितम् ।
गौरादिषु गौरशब्दस्य वर्णवाचिनोऽप्यन्तोदात्तत्वात्पाठः । मत्स्यादानां योपधानाम् `अयोपधात्‌' इति जातिलक्षणस्य ङीषः प्रतिषेधात्पाठः । अन्येषां जातिशब्दानां स्त्रीविषयार्थः पाठः । श्वन्नक्षन्निति एतयोर्डापि प्राप्ते । अनडुही, अनड्‌वाहीति । अनकारान्तत्वादप्राप्ते ङीषि सप्रत्यययोः पाठः, ङीषि परतो विकल्पेनान्यथा स्यात्‌ । एषणः करण इति । करणसाधन एषणशब्दो ङीषमुत्पादयति---इष्यतेऽनयेत्येषणी । अधिकरणे ल्युडिति टित्त्वान्‌ ङीबेव भवति । अन्येषामपि ल्युङन्तानां ङीपि प्राप्ते पाठः । मेधशब्दस्याजातिवाचित्वाद्‌, गौतमस्य शार्ङ्गरवादित्वान्‌ ङीनि प्राप्ते वचनात्पक्षे सोऽपि भवति । आयस्थूणशब्दः शिवाद्यणन्तः । भौरिक्यादय इञन्ताः, तेषाम् `अणिञोः' इति ष्यङ्‌प्राप्तौ । आपिच्छिका नाम राजानः, `जनपदशब्दात्क्षत्रियादञ्‌', `तस्य आतश्च' इति लुकि कृते प्रत्ययलक्षणेन ङीप्प्राप्नोति । अग्रे हायनमस्य आग्रहायणः, प्रज्ञादित्वात्स्वार्थिकोऽण्‌, अस्मादेव निपातनाण्णत्वम्---आग्रहायणः, ङीपि प्राप्ते पाठः । केचिदाग्रहायणीति इकारान्तं पठन्ति, तस्य प्रयोजनम्---आग्रहायणीभार्य इत्यादौ पुंवद्भावो मा भूदित्याहुः । एतेन प्रत्यवरोहणीति व्याख्यातम् । सुमङ्गलात्संज्ञायामिति । `केवलमामक' इति ङीपि प्राप्ते पक्षे सोऽपि भवति । स्वरे विशेषः, सुमङ्गलशब्दो बहुव्रीहिः, तत्र `नञ्सुभ्याम्' इत्यन्तोदात्तत्वान्ङीप्यपि सत्युदात्तनिवृत्तस्वरेण भाव्यमिति नास्ति विशेषः । तथा च छन्दसि । सुमङ्गलीरियं वधूरित्यन्तोदात्तत्वं दृश्यते । तस्माज्जातिवचनोऽव्युत्पन्नः स्त्रीविषयः सुमङ्गलशब्दः `लघावन्ते' इति मध्योदात्तो द्रष्टव्यः । तरुणतलुनयोः `नञ्स्नञीकक्तरुण' इति ङीपि प्राप्ते पक्षे सोऽपि भवति । बृहन्महच्छब्दयोरनर्थकः पाठ इति प्रागेवोक्तम् । ऋष्यणन्तः सौधर्मशब्दः । रोहिणी नक्षत्रे इति । नक्षत्रादन्यत्र रोहिणी । रेवती नक्षत्र इति । रयिरिति धननाम, रयिर्विद्यतेऽस्या इति मतुपि `रयेर्मतौ बहुलम्' इति सम्प्रसारणम्, निपातनाद्वत्वम् । नक्षत्रादन्यत्र ङीब्‌ भवति । विकलादीनां टापि प्राप्ते । कटाच्छ्रोणिवचने । कटी श्रोणिः, अन्यत्र कटा । पिप्ल्यादयश्चेति । गणसूत्रम्, पिप्पलि, हरीतकीत्यादिकं तु तस्योदाहरणप्रदर्सनम् । पृथिवीति । `प्रथेः षिवन्सम्प्रसारणं च' इति षित्त्वादेव सिद्धे प्रत्ययान्तस्य पाठः पुंवद्भावनिवृत्त्यर्थः---पृथिवीभार्य इति । स्त्रीविषयस्यास्य पुंवद्भावप्राप्तिश्चिन्त्या । क्रोष्टुशब्दस्य `स्त्रियां च' इति तृज्वद्भावः । क्रोष्ट्रीत्यत्र निरूपणीयमस्ति `स्त्रियां च' इत्यत्र निरूपयिष्यामः ।
षित्त्वादेव सिद्ध इति । `मातरि षिच्च' इति वार्त्तिककारवचनात्षित्त्वम्, निपातनसामर्थ्याद्वा । उक्तं हि---
धातुसाधनकालानां प्राप्त्यर्थं नियमस्य च ।
अनुबन्धविकाराणआं रूढ्यर्थं च निपातनम् ।। इति ।
दंष्ट्रेति । येषामजादिषु दंष्ट्रेति पाटो नास्ति तेषामिदं प्रयोजनम् ।।
जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्‌ वृत्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ।। 4.1.42 ।।
वर्ततेऽनया सा वृत्तिः = जीविका । स्वरे विशेष इति । तमेव दर्शयति---उत्सादिपाठादञि कृत इति । अमत्रम्=भाजनम् । कुण्डान्येति । क्रियाशब्दोऽयम् । `कुडि दाहे', `गुरोश्च हलः' इत्यकारप्रत्ययः । अवटपर्यायस्तु कुण्डशब्दो नपुंसके नियतः । यस्तु `पत्यौ जीवति कुण्डः स्यात्‌' इति मनुष्यजातिवचनस्ततो जातिलक्षणो ङीष् भवत्येव---कुण्डीयं न गोलीति । अमत्रवाचिनस्तु जातिशब्दादपि स्त्रीविषयत्वान्ङीष्‌ विधीयते । आवपनं चेदिति । यत्र धान्यादि प्रक्षिप्य नीयते सा गोणी, यस्याः पुनर्यादृच्छिकं नाम सा गोणा । स्थलान्येति । कृत्रिमा पुरुषव्यापारेण निष्पादिता, यथा---स्थलयोदकं परिगृह्णन्तीति । भाजीति । `भज विश्राणने' चुरादिः, `ण्यासश्रन्थो युच्‌' इति युचि प्राप्तेऽ्समादेव निपातनात्‌ स्त्रियामप्येरच्‌ । श्राणेति । `श्रा पारे', क्तः, `संयोगादेः' इति नत्वम् । स्थौल्यं चेदिति । द्रव्ये वर्तमानस्य नागशब्दस्य स्थौल्यं चेत्प्रवृत्तिनिमित्तमित्यर्थः । नागशब्दो गुणवचन इति । गजवाची नागशब्दस्तत्सहचरितं स्थोल्यमुपादाय स्त्र्यन्तरे प्रयुक्त उदाहरणम् । सर्पे दृष्टस्तद्गतं दैर्घ्यमुपादाय स्त्र्यन्तरे प्रयुक्तः प्रत्युदाहरणमित्यर्थः । वर्णश्चेदिति । प्रवृत्तिनिमित्तमित्यर्थः । कालान्येति । यस्या यादृच्छिकीयं संज्ञा । नीलान्येति । नील्या रक्ता शाटी, `नील्या अन्वक्तव्यः' इत्यन् । अयोविकारश्चेदिति । `फाल' इति यस्याभिधानम् । कुशान्येति । छन्दोगाः स्तोत्रिया गणनार्थानौदुम्बरान्‌ शङ्‌कून `कुशा' इति व्यवहरन्ति । कामुकान्येति । यस्या मैथुनादन्यत्कामयितुं शीलम् । मैथुनेच्छावतो भण्यत इति । कामुकशब्दस्य `लषपतपद' इति कर्तरि व्युत्पादितत्वात्‌, इच्छामात्रे वृत्त्यभावात् । सूत्रे तु प्रवृत्तिनिमित्तमात्रं निष्कृष्योक्तम् । मैथुने इच्छा यस्याः सा मैथुनेच्छेति व्यधिकरणपदो बहुव्रीहिराश्रयणीय इति भावः । केशवेश इति । केशसन्निवेशविशेष इत्यर्तः ।।
शोणात्प्राचाम् ।। 4.1.43 ।।
शोणशब्दोऽयं वर्णवाची `वर्णानां तणतिनितन्तानाम्' इत्याद्युदात्तः, तत्र `अन्यतो ङीष्‌' इत्येव सिद्धे नियमार्थं वचनम्---प्राचामेव नान्येषामिति ।।
वोतो गुणवचनात्‌ ।। 4.1.44 ।।
गुणमुक्तवान्गुणवचन इति । `कृत्यल्युटो बहुलम्' इति भूते कर्तरि ल्युटं दर्शयति । स पुनर्यः प्राग्गुणमभिधाय पश्चान्मतुब्लोपादभेदोपचाराद्वा तद्वति वर्तते स वेदितव्यः । शुचिरिति । उत इत्यस्मिन्नसत्त्वेऽपि पट्‌वीत्यादिसिध्यर्थमेवात इत्यस्यासम्बन्धो व्याख्येयः, ततश्चेहापि प्रसङ्ग इति भावः ।
गुणवचनान्ङीबिति । `मनोरौ वा' इत्यस्यानन्तरमिदं पठितव्यमित्यर्थः । उत्तरसूत्रम् `बह्वादिभ्यो वा' इति पठितव्यम् ।
आद्युदात्तार्थमिति । आद्युदात्तेषु गुणवचनस्य ङीब्विधानस्य प्रयोजनमित्यर्थः । अन्तोदात्तेषु `उदात्तयणो हल्पूर्वात्‌' इति ङीबप्युदात्त इति नास्ति विशेषः । आद्युदात्तेषु तु ङीबनुदात्त एवावतिष्ठते । वस्वीति । `शॄस्वृस्निहि' इत्यादिना वसेरुप्रत्ययः, नित्त्वादाद्युदात्तो वसुशब्दः, गुणवचनश्चायं नैर्मल्यवचनः । प्रशस्तवचन इत्यन्ये । तथा च---अतिशयेन वसुर्वसिष्ठो भवति पटुशब्दोऽप्याद्युदात्तः, `धान्ये नित्‌' इत्यधिकारे `फलिपाटिनमिमनिजनां गुक्‌पटिनाकिधतश्च' इति उप्रत्ययः, फलेर्गुगागमः, पाटेश्च पटिरादेशः, फल्गुः, पटुः, नाकुः, मधुः, जतु---इत्युदाहरणानि । मृदुशब्दस्त्वन्तोदात्तः, `म्रद क्षोदे' `कुर्भ्रश्च' इत्यधिकारे `प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च' इति कुप्रत्ययः, पृथुः, मृदुः । `भ्रस्जेः सलोपः सम्प्रसारणञ्च', न्यङ्‌क्वादित्वात्कुत्वम्, भृगुः । खरुरीति । `खरुः कन्या पतिवरा' इति निघण्टुः, तत्र पाणिग्रहणोत्कण्ठाभिधायित्वाद्‌ गुणवचनत्वाम् । तपरकरणं किम् ? पटुमिच्छति पटूयति, पटूयतेः क्विप्‌, पटूः स्त्री---अत्र मा भूत्‌ । यद्यप्ययं सम्प्रति क्रियावचनः, तथापि पूर्वं गुणमुक्तवानिति कृत्वा स्यात्प्रसङ्गः ।
इह `उतः इति विशेषणाद्वचनग्रहणाच्च शास्त्रीयोऽदेङ्‌गुणो न गृह्यते । लोके तूपसर्जनं मुण उच्यते, शास्त्रेऽपि यस्य गुणस्य हि भावादिति विशेषणमात्रं गुणो गृह्यते, शुक्लादौ च प्रसिद्धतरो गुणशब्दः, वैशेषिकादयस्तु रूपरसादयश्चतुर्विशतिर्गुणा इति प्रतिपन्नाः; तदिह जिघृक्षितं गुणं लक्षयति---सत्त्वे निविशत इत्यादि । सीदन्त्यस्मिञ्जातिगुणक्रिया इति सत्त्वम्=द्रव्यम् । तत्र यो निविशते=समवैति स गुणः । `यो निविशते स गुणः' इत्युच्यमाने गुणक्रियाजात्योर्गुणत्वप्रसङ्गात्सत्त्व इत्युक्तम् । एवमपि सत्ता जातिर्गुणः स्यात्‌, सा हि द्रव्यगुणकर्मसु त्रिष्वपि समवैति ? तदर्थं द्रव्य एवेत्यवधारणं द्रष्टव्यम् । एवमपि द्रव्यत्वजातिर्गुणः स्यात्सत्त्वे निवेशात्तत्रैव च निवेशात्‌ ? इत्यत आह---अपैतीति । ततः सत्त्वादपैति=अपगच्छति, क्वचिद्वा कदाचिद्वा न भवतीत्यर्थः । यथा---आम्रफले श्यामता पूर्वमुपैति, रक्ततायां तत्र जातायामपैति च द्रव्यत्वजातिस्तु सर्वदा द्रव्ये निविशते नापैति, यदि हि कदाचित्क्वचिद्वा न स्याद्‌ द्रव्यमेवैतन्न स्यात्‌ । एवमपि गोत्वादिजातिर्गुणः स्यात्‌, सा हि सत्त्वे निविशते, अपैति च, ततोऽश्वादिष्वभावात्‌ ? इत्यत आह---पृथग्‌ जातिष्विति । पृथगिति पृथक्पदम्, पृथग्भूतासु जातिष्वित्यर्थः । जात्याधारेषु द्रव्योषु दृश्यमानो जातिषु दृश्यत इत्युपचर्यते, समासे तु सति `जात्यन्ताच्छः' इति नित्याधिकारपरिगणितश्छः प्रसज्येत । तदेवमुक्तलक्षणोपेतो यः पृथग्जातीयेषु दृश्यते स गुणः, न चैवंरूपा गोत्वादिजातिः । यद्यपि खण्डमुण्डादिरूपेण खण्डमुण्डादयः पृथग्जातीयाः, तथापि गोत्वेन तासामेकजातीयत्वमेव । ये त्वपैतीत्यस्य सत्येवाधारे तत्परित्यागमर्थमाहुः, तेषां `पृथग्जातिषु' इत्यनर्थकम् ; गोत्वादिजातेरप्यपैतीत्यनेनैव व्यावृत्तिसिद्धेः । तस्मात्पूर्वोक्त एवार्थः ।
एवमपि हि क्रिया गुणः स्यात्‌, सा हि द्रव्ये निविशते यदा सक्रियं तत्रैव च निविशते, अपैति च ततो यदा निष्क्रियं द्रव्यं पृथग्जातीयेषु गवाश्वादिषु दृश्यते ? अत आह---आधेयश्चेति । आधेयः=निष्पाद्यः, यथा---पाकनिक्षिप्तेषु घटादिषु रक्तता गुणः । अक्रियाजः=अनुत्पाद्यः, यथा---तेजः परमाणुषु स एव रक्तता गुणः । तदेवमाश्रयभेदेनोत्पाद्यानुत्पाद्यस्वभावो गुण इति नित्योत्पाद्यस्य कर्मणो गुणत्वाभावः।
एवमपि द्रव्यं गुणः प्राप्नोति, तदपि शरीरादिकं पादादिषु द्रव्येष्वेव पृथग्जातीयेषु निविशते संयोगविनाशे च ततोऽपैति, आधेयं चाक्रियाजम्, अवयविद्रव्यस्योत्पाद्यत्वादाकाशादेश्चानुत्पाद्यत्वादित्यत आह---सोऽसत्त्वप्रकृतिर्गुण इति । य उक्तलक्षणोपेतः सत्त्वप्रकृतिर्न भवति=द्रव्यस्वभावको न भवति, स गुण इत्यर्थः । अत्रोत्तरार्द्धेनैव सर्वजातीनां व्यावृत्तिसिद्धेः पूर्वार्द्धं व्यर्थम्, जातीनां नित्यत्वेनोत्पाद्यत्वाभावात्‌ ? नैतदेवम् ; असति पूर्वार्द्धे न जातिर्व्यावर्तते, यथा---तैजसानां परमाणूनां यद्रूपम्, यच्चेष्टकादिपाक्यद्रव्यगतम्---तदुभयं मिलतमुत्पाद्यानुत्पाद्यस्वभावमित्युभयोरपि गुणत्वं भवति, न पुनः प्रत्येकम्; उभयस्वभावत्वात्‌ । तथा पाक्यद्रव्यरूपं जातिश्च---इत्युभयं मितितमुत्पाद्यानुत्पाद्यस्वभावमिति जातिरपि गुणः स्यादेव, न हि सजातीयत्वे सतीति विशेषणमुपात्तम्, अतः पूर्वार्द्धेन जातिव्यावृत्तिः ।
नन्वेवमपि `पृथग्जातिषु दृश्यते' इत्यनेनैव सर्वजातिव्यावृत्तिसिद्धेः पूर्वकं विशेषणद्वयं व्यर्थमेव, तस्मात् `सत्त्वे निविशते' इति स्वभावकथनम् । ततः `अपैति' `पृथग्जातिषु दृश्यते' इति च विकल्पेन जातीर्व्यावर्तयतः, अपैतीत्यस्य च तत्रैव कियन्ताञ्चित्कालं स्थित्वा तमाधारं त्यजतीत्ययमर्थः ।
नन्वेवमपि `पृथग्जातिषु दृश्यते' इत्यनेनैव सर्वजातिव्यावृत्तिसिद्धेः पूर्वकं विशेषणद्वयं व्यर्थमेव, तस्मात्‌ `सत्त्वे निविशते' इति स्वभावकथनम् । ततः `अपैति' `पृथग्जातिषु दृश्यते' इति च विकल्पेन जातीर्व्यावर्तयतः, अपैतीत्यस्य च तत्रैव कियन्ताञ्चित्कालं स्थित्वा तमाधारं त्यजतीत्ययमर्थः ।
तदेवम् `सत्त्वे निविशते अपैति आदेयश्चाक्रियाजश्च' इत्येकं लक्षणम् । `सत्त्वे निविशते पृथग्जातिषु' इत्यादिकं चापरमिति लक्षणद्वयमनुसर्त्तव्यम् ।।
बह्वादिभ्यश्च ।। 4.1.45 ।।
शक्तिः शस्त्र इति । शक्तिशब्दः शस्त्रेऽभिधेये ङीषमुत्पादयति---शक्तिः, शक्ती । शस्त्र इति किम् ? शक्तिः=सामर्थ्यम् । अन्ये शक्तिशस्त्री इति शब्दद्वयं पठन्ति---शस्त्रिः, शस्त्री । इतः प्राण्यङ्गादित्यादीनि त्रीणि वाक्यानि यथोत्तरमधिकविषयाणि । तत्रोत्तरं वाक्यद्वयम् `रात्रेश्चाजसौ' इत्यत्रैव व्याख्यातम् । इकारान्तात्प्राण्यङ्गवाचिनो वा ङीष्‌ भवति---धमनिः, धमनी । `सर्वतोऽक्तिन्नर्थात्‌' इत्येव ङीषि सिद्धे शकट्यादीनामिकारान्तानां पाठः प्रपञ्चार्थः । पद्धतिशब्दः क्तिन्नन्तः, पादस्य हतिः पद्धतिः, `हिमकाषिहतिषु च' इति पद्भावः । अहन्निति पठ्यते, न स केवलः स्त्रियां वर्तते, तस्मात्तदन्तो बहुव्रीहिरुदाहार्यः---दीर्घमहरस्याः दीर्घाह्री शरत्, पाठसामर्थ्यात्‌ `अनुपसर्जनात्‌' इति न प्रवर्तते । अस्य ङीषो विकल्पितत्वाड्‌ डाप्प्रतिषेधावपि भवतः, `अन उपधालोपिनः' इति ङीप्‌ च ।
बहुशब्दो गुणवचन इति । अन्तोदात्तश्च `लङ्घिबंह्योर्नलोपश्च' इत्यप्रत्ययान्तः । किमर्थं तर्हि तस्येह पाठः ? इत्यत आह---तस्येति ।।
नित्यं छन्दसि ।। 4.1.46 ।।
नित्यग्रंहणमुत्तरार्थमिति । इह त्वारम्भसामर्थ्यादेव नित्यो विधिः सिद्धः, योगारम्भश्चिन्त्ययोजनः ।।
भुवश्च ।। 4.1.47 ।।
विभ्वी, प्रभ्वीति । `विप्रसंभ्यो ड्‌वसंज्ञायाम्' इति डुप्रत्ययान्ताद्‌ ङीष्‌ । स्वयंभूरिति । भवतेः क्विप्‌ ।
ह्रस्वादेवेयमिति । यद्येवं `घेर्ङिति' इति गुणे कृते `भोः' इति निर्देशः प्राप्नोति तत्राह---सौत्रोऽयं निर्देश इति । गुणस्यैव कृतस्य छान्दस उवङादेश इत्यर्थः ।।
पुंयोगादाख्यायाम् ।। 4.1.48 ।।
पुंसा योगः पुंयोग इति । योगः = सम्बन्धः । पुंयोगाद्धेतोरिति । हेतौ पञ्चमीं दर्शयति । आख्याग्रहणं गुणभूतेनापि पुंसैव सम्बध्यते; अन्येन सम्बन्धासम्भवात्‌ । गणकादयो हि शब्दाः पुंयोगात्स्त्रियां वर्तमाना न पुंयोगस्याख्या भवन्ति, स्त्रियां च पुंयोगमन्तरेण न प्रवर्तन्ते इति स्त्रिया अपि नाक्यास्तदाह---पुंस आख्याभूतमिति । बूतग्रहणेनैतद्दर्शयति---यत्प्रातिपदिकं प्राक्‌ पुंसो वाचकमभूत्‌, सम्प्रति तु पुंयोगाद्धेतोः स्त्रियां वर्तत इति । गणकीत्यादि । गणयतीति गणकः, ण्वुल । प्रतिष्ठते प्रष्ठः, `प्रष्ठोऽग्रगामिनि' इति षत्वम् । कथं पुनरेते पुंशब्दाः ? इत्यत आह---पुंसि शब्दप्रवृत्तिनिमित्तस्य सम्भवादिति । गणयति प्रतिष्ठत इति व्युत्पत्त्या पुंसि रूीढा एते, न स्त्री गणयति प्रतिष्ठते वा । महामात्रशब्दस्यापि प्रवृत्तिनिमित्तं हस्तिपकानामाज्ञापनम् । हस्तिपकाधिपतिर्हि महामात्रः । या तु स्वयं गणयति प्रतिष्ठते वा, न तस्यां पुंयोगाच्छब्दप्रवृत्तिः, अपि तर्हि स्वयमेव क्रियासम्बन्धादिति टापैव तत्र भाव्यम् । कथं तर्हि स्त्रियां प्रवृत्तिरित्य आह---तद्योगादिति । कोऽर्थः ?
तस्येदमिति सम्बन्धादिति चेत्तद्धितो भवेत् ।
ङीषेव बाधक- स्याच्चेन्नित्यं बाधः प्रसज्यते ।।
गणकस्येयमिति भेदसम्बन्धे विवक्षिते `तस्येदम्' इति तद्धितः प्राप्नोति । अथ नाप्राप्ते तद्धिते ङीषारभ्यमाणस्तस्य बाधक इत्युच्यते, कदाचिदपि तद्धितो न स्यात, उभयमपि त्विष्यते---प्राष्ठी, प्रष्ठीति ? स्यान्मतमेतत्‌---`एतदेव ङीष्विधानं ज्ञापकम्---भेद विवक्षायामपि तद्धितमन्तरेण प्रष्ठादयः स्त्रियां वर्त्तते' इति । तेन `न केवला प्रकृतिः प्रयोक्तव्या' इति नियमोऽत्र बाध्यते, सति हि तद्धिते प्राष्ठीत्यणि ङीबेव सिद्धः, तस्य चोदात्तनिवृत्तिस्वरेणोदात्तत्वमिति किं ङीष्विधानेनेति ? तन्न; येऽनीकारान्तास्तद्धिताः---भानोरियं भानवीयेति, तदर्थमेतत्स्यात्‌ । एवं तर्ह्याख्याग्रहणं ज्ञापकम्---नात्र तद्धितोत्पत्तिरिति, न हि तद्धितान्तः प्रकृत्यर्थे पुंसि वर्तते ? एवमपि ज्ञापकेन तद्धितस्य नित्यं बाधात्प्राष्ठीति न स्यात्‌ । तस्माद्‌ दुष्ट एवायं पक्षः ।
एवं तर्हि यथा---मञ्चाः क्रोशन्ति, गौर्वाहीकः, गङ्गायां घोषः, यष्टीः प्रवेशयेत्यादौ तात्स्थात्ताद्धर्म्यात्तत्सामीप्यात्तत्साहचर्याच्चातस्मिन्नपि तत्त्वाध्यारोपेण तच्छब्दप्रवृत्तिस्तद्वदत्रापि प्रष्ठादिसाहचर्यात्तच्छब्दप्रवृत्तिर्भविष्यति ? तत्राभेदेन भेदसम्बन्धस्य निवृत्तत्वान्न तद्धितप्रसङ्गः । विवक्षिते च भेदे तद्धितोत्पत्त्या प्राष्ठीत्यादि भविष्यति ? तत्राहुः---यस्त्वया धर्मश्चरितव्यः सोऽनया सहेति भार्यायाः शास्त्रसिद्धं साहचर्यमिति तस्यामेवैतन्ङीष्विधानमिति । भट्टिकाव्ये तु दुहितृष्वपि दृष्टः प्रयोगः---`कौसल्ययाऽसावि सुखेन रामः प्रक्केकयीतो भरतस्ततोऽभूत्‌' इति, केकयस्य दुहिता केकयी, जनपदशब्दादपत्यप्रत्यये तु कैकयीति प्राप्नोति, न च तस्य `आतश्च' इति लुक्‌, न प्राच्यभर्गादीति प्रतिषेधात्तत् । तस्मात्सोऽयमित्यभिसम्बन्ध इत्ययमेव पक्षो ग्राह्यः ।
यद्वा---यथा स्वामिदासौ पचत इति स्वामिनः संविधातृत्वात्पक्तृत्वम्, दासस्य तु साक्षात्‌; तथा पुरुषः साक्षात्प्रतिष्ठते स्त्र्यपि संविधातृत्वात्पुरुषगतायाः प्रस्थानक्रियायास्तस्यामारोपात्प्रतिष्ठत इति, तस्यामेव प्रष्ठशब्दो व्युत्पाद्यते, न तु पुरुषे व्युत्पादितः सन्‌ तेन सहाभेदोपचारात्तस्यां वर्तते । न चैतावता पुंयोगादेव हेतोः स्त्रियां वर्तत इत्यस्य हानिः, साक्षात्स्वयमकर्तृत्वात्‌ । अत्र पक्षे प्रस्थ इति स्थिते सुबन्तस्य समासः, सुप्‌ च संख्यानिमित्तम्, प्रातिपदिकं च पूर्वं लिङ्गमभिधत्ते, पश्चात्सङ्ख्यामिति तन्निमित्तसुबपेक्षात्समासात्प्रागेवोत्तरपदात्स्थशब्दाट्टाप्प्रसङ्गः, न च स्थशब्दादप्यनेनैव ङीष्‌ लभ्यते, प्रष्ठशब्दो हि पुंस आख्या, न तु स्थशब्दमात्रम्, ? नैष दोषः; `गतिकारकोपपदानां कृद्धिः सह समासवचनं प्राक्‌ सुबुत्पत्तेः' इति कृदन्तावस्थायामेव समासः, सा पुंस आख्येति ङीष्‌ भविष्यति । परिभाषाप्रयोजनानि `उपपदमतिङ्‌' इत्यत्र प्रतिपादितानि ।
देवदत्तेति । स्त्रिया एव कस्याश्चिदेषा संज्ञा---परिसृष्टा, प्रजातेति । प्रसूतेत्यर्थः । पुंयोगादेते शब्दाः स्त्रियां वर्तन्त इति । परिसर्गः, प्रसवः, प्रजन इत्यर्थान्तरम् । स च न पुंयोगमन्तरेण सम्भवति, तस्मात्पुंयोगाद्धेतोः स्त्रियां वर्तते । परिसृष्टा प्रजातेति । द्वौ प्रकृतौ । एते शब्दा इति बहुवचनं तु एवंजातीयकाः शब्दाः प्रसूतादयस्तदपेक्षं द्रष्टव्यम् । गोपालिकादीनामिति । सिद्धये इति शेषः ।
सूर्याद्देवतायां चाब्वक्तव्य इति । ङीष एव प्रतिषेधे वक्तव्यें चाब्विधानमन्तोदात्तार्थम् । सूर्यशब्दोऽयमाद्युदात्तः, तत्र टापि सति आद्युदात्तत्वमेवावतिष्ठेन । सूरीति । सूर्यस्य स्त्री मानुषी कुन्त्यादिः, `सूर्यतिष्य' इति यलोपः ।।
इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक्‌ ।। 4.4.49 ।।
येषायिति । इन्द्रादीनां मृडान्तानां मातुलाचार्ययोश्च । अन्येषामिति । हिमादीनाम् ।
हिमारण्ययोर्महत्त्व इति । महत्त्वयोगेनानयोः स्त्रीत्वम्, अन्यत्र नपुंसकत्वम् । दुष्टो यव इति पाठः । यवानीति । जात्यन्तरमेवाभिधीयते, अयमेव च दोषो यदुत यवत्वजातेरभावे तदाकारानुकृतिः ।
यवनाल्लिप्यामिति । केचिज्जनपदिनो यवनास्तेषां लिपिः, `तस्येदम्' इत्यणो बाधको ङीष्‌ । लिपिशब्दः स्त्रीलिङ्गः ।
उपाध्यायमातुलाभ्यां वेति । उपाध्यायमातुलाभ्यां यो ङीष्‌ तत्सन्नियोगेनानयोर्वाऽऽनुगागमो भवतीति वक्तव्यमित्यर्थः । तत्रोपाध्यायस्याप्राप्तो मातुलस्य तु नित्यं प्राप्त आनुग्विकल्प्यते ।
आचार्यादणत्वं चेति । क्षुभ्नादिषु पठितव्यमित्युक्तं भवति ।
अर्यक्षत्त्रियाभ्यां वेति । ङीषानुकौ द्वावप्यप्राप्तौ विकल्प्येते । स्वार्थ एवायं विधिरिति । यदि तु पुंयोगेऽयं विधिः स्याच्छूद्रापि क्षत्त्रियस्य भार्या क्षत्त्रियाणी स्यात्‌, ब्राह्मणभार्या च क्षत्त्रियाणी न स्यात्‌ । तस्मात्स्वार्थ एव स्त्रीत्वविशिष्टोऽयं विधिः ।
मुद्‌गलादिति । ङीषो लित्त्वादानुगाकारस्य लित्स्वरः । अथ किमर्थमानुग्विधीयते, न अनुगेवोच्येत, अकारोच्चारणसामर्थ्यादतो गुणे पररूपं बाधित्वा सवर्णदीर्घत्वं भविष्यति, अन्यथा नुगेवोच्येत, यथैव तर्हि पररूपं न भवति तथैव सवर्णदीर्घत्वमपि न स्यात्‌ ? नैष दोषः; यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, तस्य तु विधेर्निमित्तमेव नासौ बाध्यते, तस्मादानुगेव वक्तव्यः ।
अपर आह---`इन्द्रमाचष्टे इन्द्रयति, इन्द्रयतेः क्विप्‌, णिलोपः, इन्द्रः स्त्री इन्द्राणी, अत्र दीर्घस्य श्रवणम्, दीर्घाच्चारणसामर्थ्यादत इत्यधिकारो बाध्यते' इति, एवमपि क्विबन्तः पुंस आख्या न भवति ।।
क्रीतात्करणपूर्वात्‌ ।। 4.1.50 ।।
पूर्वशब्दोऽवयववचन इत्याह---करणं पूर्वमस्मिन्नित्यादि । व्यवस्थावाचिनि तु पूर्वशब्दे करणं पूर्वमस्मादिति वाच्यं स्यात्‌ । एवं च क्रीतस्य करणवाचिशब्दान्तरमवयवो नोपपद्यत इति तद्व्यतिरिक्तमेव प्रातिपदिकं करणपूर्वत्वेन विशेष्यते, क्रीतशब्देनापि विशेषितस्यैव विशेषणात्तदन्तविधिरित्याह---क्रीतशब्दान्तात्प्रातिपदिकादिति । यदि तु व्यवस्थावाचिनं पूर्वशब्दमाश्रित्य क्रीतशब्दो विशेष्यति---करणं पूर्वमस्मादिति, ततो वाक्येऽपि स्याद्‌---अश्वेन क्रीतेति । तस्मादवयववाची पूर्वशब्दः, प्रातिपदिकं च विशेष्यमिति सम्यगुक्तम् । वस्त्रक्रीतिति । `गतिकारकोपपदानाम्' इति वचनात्‌ प्रागेव सुबुत्पत्तेः क्रीतशब्देन सह समासः ।
चाबन्तेन समास इति । एकादेशस्य पूर्वं प्रत्यन्तवत्त्वात्कृदन्तताया अविघातादविरुद्धष्टाबन्तेन समासः । अथ टाबन्तेनापि समासे कस्मादेवात्र न भवति ? तत्राह---अत इतीति । ननूदाहरणवत्प्रागेव टाबुत्पत्तेरत्रापि समासः प्राप्नोति, वक्तव्यो वा विशेषः ? अत आह---गतिकारकोपपदानामित्यादि । न तत्र बहुलग्रहणमस्तीति चेत्तत्राह---कर्तृकरणे कृता बहुलमिति । `कर्तृकरणे कृता बहुलम्' इत्यनेन तावदत्र समासः, स च बहुलग्रहणात्‌ प्राक्‌ सुबुत्पत्तेः क्वचिद्भवति, क्वचिदुत्पन्ने सुपीति मन्यते । एतावतैव च बहुलं तदुच्यते इति सामन्येनोक्तम्, न पुनः `कर्तृकरणे कृता बहुलम्' इत्ययमेव समासः प्राक्‌ सुबुत्पत्तरिष्यते । यथा तु भाष्यं तथा नैतदिष्यते ।।
क्तादल्पाख्यायाम् ।। 4.1.51 ।।
अल्पाख्यायामिति समुदायोपाधिरिति । ननु चाल्पैरभ्रैर्विलिप्तेति पूर्वपदार्थस्यैवाल्पता गम्यते, न विलिप्तार्थस्य ? एवं मन्यते---अभ्राणांमल्पत्वे सति तद्विलेपनस्याल्पत्वमवश्यम्भावीति । अभ्रविलिप्तीति । वृत्तौ गतार्थत्वादल्पशब्दस्याप्रयोगः ।
चन्दनानुलिप्तेति । बहुलेन चन्दनेनानुलिप्तेत्यर्थः । कृद्‌ग्रहणपरिभाषया समुदायस्य क्तान्तत्वम् ।।
बहुव्रीहेश्चान्तोदात्तात्‌ ।। 4.1.52 ।।
बहुव्रीहिर्योऽन्तोदाक्त इति । अत्र `क्तात्‌' इत्यनुवृत्तिसामर्थ्यात्प्रत्ययग्रहणपरिभाषा, कृद्‌ग्रहणपरिभाषा च न प्रवर्तते इति बहुव्रीहेः क्तान्तत्वम् । शङ्खभिन्निति । `निष्ठा' इति पूर्वनिपातो न भवति; `जातिकालसुखादिभ्यः परवचनम्' इति वचनात्‌ । शङ्खादयो हि जातिवचनाः, अत एव `जातिकालसुखादिभ्यः' इत्यन्तोदात्तत्वं भवति । गलोत्कृत्तीति । `कृती छेदने', उत्पूर्वात्‌ क्तः । गलमुत्कृत्तमस्या इति विग्रहः ।
पादपतितेति । `कर्तृकरणे कृता बहुलम्' इति समासः, थाथादिस्वरेणान्तोदात्तत्वम् ।
अन्तोदात्ताज्जातप्रतिषेध इति । अन्तोदात्ताद्वहुब्रीहेर्ङीष्विधाने जातशब्दान्तात्प्रतिषेधो वक्तव्यः, स त्वन्तग्रहणादेव सिद्धः । कथम् ? इहान्तग्रहणं न कर्तव्यम्, वर्णादनुदात्तादितिवद्‌ उदात्तान्तादिति विज्ञास्यते, तत्‌ क्रियते नित्ययोगे यथा बहुव्रीहिर्विज्ञायेत । दन्तजातादौ तु `वा जाते' इति विकल्पेनान्तोदात्तत्वम् ।
पाणिगृहीत्यादीनां विशेष इति । सिद्धये इति शेषः । अग्निसाक्षिकं यस्याः पाणिर्गृह्यते सा पाणिगृहीतीति भवति । कथञ्चिदिति । यथोक्तात्प्रकारादन्येन प्रकारेणेत्यर्थः ।
अबहुनञित्यादि । बह्वादिपूर्वपदाद्वहुव्रीहेर्ङीष्‌ न भवतीति वक्तव्यमित्यर्थः । बहुकृतेति । बहुनि कृतान्यनयेति विग्रहः, `बहोर्नञ्वदुत्तरपदभूम्नि' इत्यन्तोदात्तत्वम् । अकृता, सुकृतेति । न विद्यते कृतमनया, शोभनं कृतमनयेति विग्रहः, `नञ्सुभ्याम्' इत्यन्तोदात्तत्वम् । मासजातेति । मासो जातोऽतीतोऽस्याः । सुखं जातं प्राप्तमनया, दुः खं जातमनयेति विग्रहः । सुखादयः `सुखादिभ्यः कर्तृवेदनायाम्' इत्यत्र पठिता गृह्यन्ते । अथ वा---बहुव्रीहेश्च जातिपूर्वादिति वक्तव्यम्, बहुव्रीहावन्तोदात्तनिमित्तेष्वन्येषु प्रतिषिद्धेषु जातिरेवान्तोदात्तनिमित्तं क्तान्तस्यावशिष्यते इति जातिग्रहणमेवात्र कर्तव्यमित्यर्तः ।।
अस्वाङ्गपूर्वपदाद्वा ।। 4.1.53 ।।
शार्ङ्गजग्धीत्यादि । शार्ङ्ग जग्धमनया, पलाण्डुर्भक्षितोऽनयेति विग्रहः । शार्ङ्गादिरभक्ष्यजातिः । सर्वत्र `जातिकालसुखादिभ्यः' इत्यन्तोदात्तत्वम् ।
वस्त्रच्छन्नेति । `छद अपवारणे' चुरादिः, `वा दान्तशान्त' इत्यादिनो छन्न शब्दो निपातितः, अत्र `अनाच्छादनात्‌' इति प्रतिषेधात्पूर्वपदप्रकृतिस्वरत्वमेव भवति ।
प्रवृद्धा चेत्यादिना विग्रहविशेषेण तत्पुरुषं दर्शयति ।।
स्वाङ्गाच्चोपसर्जनादसंयोगोपघात्‌ । अतिकेशीति । अतिक्रान्ता केशानिति तत्पुरुषः, `एकविभक्ति च' इति केशशब्दस्योपसर्जनत्वम् । अशिखेति । असत्युपसर्जनग्रहणेऽत्रैव प्राप्नोति, न मूलोदाहरणेषु; `अनुपसर्जनात्‌' इत्यधिकारात्‌ । अथ बहुव्रीह्यधिकारादत्र न भविष्यतीत्युच्येत ? अतिकेशीत्यत्रापि तर्हि न स्यात्‌ । `अङ्गात्र' इत्यादिभाष्येऽनुक्तमप्येतत्प्रयोगबाहुल्याद्‌ वृत्तिकारेणोक्तम् ।
यद्यत्र स्वमङ्गं स्वाङ्गं गृह्येत---श्लक्ष्णमुखा शाला, अत्रापि प्राप्नोति, मुखस्य शालाङ्गत्वात् ; दीर्घकेशी रथ्येत्यत्र च न स्यात्‌, केशानां रथ्याङ्गत्वाभावात् ? तदव्याप्त्यतिव्याप्तिपरिहारार्थं स्वाङ्गं परिभाष्यते---अद्रवमिति । तत्र प्राणिस्थं स्वाङ्गमित्यनेन श्लक्ष्णमुखा शालेत्यत्र न भवति । एवमपि बहुकफा अत्र प्राप्नोति ? तदर्थमाह---अद्रवमिति । द्रवतीति द्रवम्, ततोऽन्यदद्रवम् । एवमपि बहुज्ञाना---अत्रापि प्राप्नोति ? अत आह---मूर्त्तिमदिति । असर्वगतद्रव्यपरिमाणा मूर्तिः, असर्वगतानि यानि द्रव्याणि तेषां यत्परिमाणं ह्रस्वत्यादि सा मूर्तिः; स्पर्शवद्‌ द्रव्यपरिमाणं मूतिरित्यन्ये, सा यस्यास्ति तन्मूर्तिमत् । एवमपि बहुशोफा अत्र प्राप्नोति ? इत्यत आह---अविकारजमिति । विकारः=वातादिवैषम्यम्, ततो यज्जायते तन्न भवतीत्यविकारजम् । शोफस्तु श्वयथुसंज्ञको विकारजः । यदि प्राणिस्थं स्वाङ्गम्, रथ्यादिपरिगतानां केशानां स्वाङ्गत्वं न स्यात्‌, सम्प्रत्यप्राणिस्थत्वात्‌, ततश्च दीर्घकेशी रथ्येति न सिद्ध्यत्यत आह---अतत्स्थमिति । सम्प्रत्यप्राणिस्थमपि कदाचित्प्राणिनि दृष्टं चेत्तदपि स्वाङ्गं भवत्येवेत्यर्थः । एवमपि प्रतिमावयवानां मुखादीनां स्वाङ्गत्वं न प्राप्नोति, अप्राणिस्थत्वात्‌, ततश्च दीर्घमुखी प्रतिमेत्यत्र न सिद्ध्यति ? तत्राह--तेन चेदिति । अतत्स्थमित्यनुषङ्गः । अप्राणिस्थमपि मुखादि स्वाङ्गं तेन चेन्मुखादिना तदप्राणिद्रव्यं तथा युतं भवति यथा प्राणिद्रव्यमित्यर्थः । अन्येषां पाठः---तस्य चेत्तत्तथा युतमिति । तत्रार्थः---अप्राणिस्थमपि मुखादि स्वाङ्गं तस्य चेदप्राणिनः तन्मुखादि तथा युतं भवति, तादृशं संस्थानं भवति यादृशं संस्थानं प्राणिन इत्यर्थः ।।
नासिकोदरौष्ठजङ्घादन्तकर्णश्रृङ्गाच्च ।। 4.1.55 ।।
सहनिञ्विद्यमानलक्षणस्तु प्रतिषेधो भवत्येवेति । कथम् ? नासिकोदरयोस्तावदयं योगः पुरस्तादपवादन्यायेनानन्तरं बह्वज्लक्षणमेव प्रतिषेधं बाधते, ओष्ठादिष्वपि मध्येऽपवादन्यायेन पूर्वं संयोगोपधलक्षणंमेव प्रतिषेधं बाधते, न सहादिलक्षणम्; अतोऽसौ भवत्येव---सनासिका, अनासिका, विद्यमाननासिकेति । बिम्बोष्ठीति । `ओत्वोष्ठायोर्वा समासे पररूपं वक्तव्यम्' इति पररूपम् ।
कबरपुच्छीति । कबरम्=नानावर्णं पुच्छमस्याः सा मयूरी । मणिः पुच्छमस्याः मणिपुच्छी, विषं पुच्छमस्याः विषपुच्छी वृश्चिकी । उलूक इव पक्षोऽस्याः उलूक इव पुच्छमस्या इति विग्रहः ।।
न क्रोडादिबह्वचः ।। 4.1.56 ।।
कल्याणक्रोडेति । अश्वानामुरः क्रोडा, स्त्रीलिङ्गोऽयम् । तत्र बहुव्रीहौ पूर्वपदस्य पुंवद्भावः, उत्तरपदस्योपसर्जनह्नस्वत्वम् । अल्याणनखेति । अग्रन्थोऽयम्; `नखमुखात्संज्ञायाम्' इति प्रतिषेधात्‌, असंज्ञायां ङीष इष्टत्वात्‌, तस्मात्‌ कल्याणेखेति पाठः । उखेति हि पठ्यते---`क्रोडा बालसुरोखाः शफो गुदं भगगलौ च' इति ।।
सहनञ्विद्यमानपूर्वाच्च ।। 4.1.57 ।।
पूर्वग्रहणमकृत्वा `सहनञ्विद्यमानेभ्यः' इत्युच्यमाने सहादिभ्यः परं यत्स्वाङ्गं तदन्तान्ङीष्‌ न भवतीत्यर्थो भवति, ततश्चेह प्रतिषेधः प्रसज्येत---विद्यमानं मुखमस्य विद्यमानमुखः, कल्याणो विद्यमानमुखोऽस्याः कल्याणविद्यमानमुखीति, भवति ह्येतद्‌ यथोक्तविशेषणम्; इह च न स्याद्‌---विद्यमानकल्याणमुखेति, न ह्यत्र यथोक्तं विशेषणमस्ति, तस्मात्पूर्वग्रहणम् ।।
नखमुखात्संज्ञायाम् ।। 4.1.58 ।।
शूर्पणखेति । `पूर्वपदात्संज्ञायायामगः' इति णत्वम् । एवं च शूर्पणखा वा राक्षसी शूर्पनखी वा । यदि योगमात्रं न संज्ञा---शूर्पनखी, संज्ञायाम्---शूर्पणखा; न पुनः शूर्पणखीति णत्वङीषो समावेशः साधुः ।।
दीर्घजिह्वी चच्छन्दसि ।। 4.1.59 ।।
निपातनं नित्यार्थमिति । `दीर्घजिह्वात्‌' इत्युच्यमाने प्रकृतस्य ङीषो विकल्पितत्वादिहापि विकल्पो विज्ञायते ।।
दिक्पूर्वपदान्ङीप्‌ ।। 4.1.60 ।।
दिक्पूर्वपदान्ङीषोऽनुदात्तत्वम्, `स्वाङ्गाच्च' इत्यादिना विहितस्य ङीष एवास्मिन्विषयेऽनुदात्तत्वं वक्तव्यम्, ङीब्विधाने ह्यन्यत्रापिङीष्विषयान्ङीप्प्रसङ्गः । अपूर्वे हि ङीपि विधीयमाने प्राग्गुल्फा, प्राग्जघनेति ङीष्विषयादन्यत्रापि ङीप्प्राप्नोति; ङीषः प्रतिषेधाभावात्‌ ? इत्यस्मिन्पूर्वपक्षे इदमाह---विधिप्रतिषेधविषयः सर्वोऽप्यपेक्ष्यते इति । तत्र विधिविषयापेक्षायाः फलं दर्शयति---यत्र ङीष्विहित इति । स्वरे बिशेष इति । ङीपः पित्त्वादनुदात्तत्वं भवति, ङीषस्तु प्रत्ययाद्युदात्तत्वप्रसङ्गः । प्राङ्‌मुखेति । ङीपा मुक्ते `स्वाङ्गाच्चो पसर्जनात्‌' इति ङीषपि न भवति, कथम् ? उक्तमेतत्‌---`यत्रोत्सर्गापवादौ द्वावपि विकल्पितौ तत्रापवादेन मुक्ते उत्सर्गो न प्रवर्तते' इति ।
प्रतिषेधापेक्षायाः फलं दर्शयति---इह न भवतीति । एवं च कृत्वा वाक्यभेदः कर्त्तव्यः---दिक्पूर्वपदादसंयोगोपधस्वाङ्गान्तान्नासिकाद्यन्तान्ङीष्‌ भवति; क्रोडादिबह्वजन्तात्तु नेति अपरः कल्पः, अत्र ङीषनुवर्तते, तस्य दिक्पूर्वपदादिति पञ्चम्या षष्ठी प्रकल्प्यते, दिक्पूर्वपदादुत्तरस्य ङीषो ङीबादेशो भवतीत्यर्थः । तेन यत्र ङीष् तत्रैव ङीबिति सिद्धम् । एवं चोत्तरत्र ङीषेव स्वर्यत इत्युपपन्नं भवति ।।
वाहः ।। 4.1.61 ।।
सामर्थ्यादिति । कर्मण्युपपदे वहेर्ण्विधानात्केवलस्य वाहः सम्भवो नास्तीत्येतत्सामर्थ्यम् । दित्यौहीति । `छन्दसिसहः', `वहश्च' इति ण्विः, उपधावृद्धिः, ङीषि `वाह ऊठ्', तत्र सम्प्रसारणमित्यनुवृत्तेः `सम्प्रसारणाच्च' इति पूर्वरूपत्वम्, `एत्येधत्यूठ्‌सु' इति वृद्धिः ।।
सख्यशिश्वीति भाषायाम् ।। 4.1.62 ।।
भाषायामित्युच्यते, तत्रैतन्न सिध्यति---सखी सप्तपदी भव, आ धेनवो धुनयन्तामशिश्वीरिति ? नैष दोः; इतिकरणोऽत्र क्रियते, स भिन्नक्रमो भाषायामित्यस्यानन्तरं द्रष्टव्यः, स च प्रकारे वर्तते, तेन छन्दस्यपि क्वचिद्भविष्यति । भाषाग्रहणं तु नित्यार्थम् ।।
जातेरस्त्रीविषयादयोपधात्‌ ।। 4.1.63 ।।
अस्त्रीविषयादित्यनन्यभावे विषयशब्द इत्याह---न च स्त्रइयामिति । स्त्रियामेव यस्य नियमेन वृत्तिस्तत्स्त्रीविषयम्, ततोऽन्यदस्त्रीविषयमित्यर्थः ।
इह लौकिकजातिग्रहणे ब्राह्मणत्वादीनां गोत्रस्य च नाडायनादेर्जातित्वे वादिनां विप्रतिपत्तेः, चरणशब्दानां च कठादीनामध्ययनक्रियासम्बन्धनिबन्धनत्वेन पाचकादिवत्क्रियाशब्दत्वेनाव्याप्तिरित्यभिमतां जाति लक्षयति---आकृतिग्रहणा जातिरिति । गृह्यतेऽनेनेति ग्रहणमिति करणसामान्ये पदं संस्क्रियते, पश्चादाकृतिशब्दसमवधाने स्त्रीत्वं प्रतीयमानं बहिरङ्गत्वात्‌ प्रत्ययस्य निमित्तं न भवति । ग्रहणमाकृतिर्यस्या इति ग्रहणरूपोद्‌देशेनाकृतिरूपता विधीयते, न त्वाकृतिरूपोद्‌देशेन ग्रहणरूपतेत्यर्थः । आकृतिः=संस्थानम्, सा ग्रहणं यस्याः साऽऽकृतिग्रहणा, अवयवसन्निवेशविशेषव्यङ्ग्येत्यर्थः । अनेन गोत्वादिजातिर्लक्षिता । ब्राह्मणत्वादिजातिस्तु न संगृहीता भवति, ब्राह्मणक्षत्त्रियादीनां संस्थानस्य सदृशत्वादिति तत्संग्रहायाऽऽह---लिङ्गानां चेति । सर्वाणि लिङ्गानि न भजतीत्ययमर्थो विवक्षितः । तत्र सर्वशब्दस्य लिङ्गापेक्षत्वेऽपिगमकत्वाद्भजो ण्विप्रत्ययः, समासश्च । `लिङ्गानाम्' इति कर्मणि षष्ठी । अप्राप्तप्रापणार्थं चेदं वचनम्, न त्वाकृतिग्रहणेत्यस्य सङ्कोचकम्; तेन तटादेः सर्वलिङ्गत्वेऽपि आकृतिग्रहणत्वाज्जातित्वं भवत्येव । इह कस्मान्न भवति---देवदत्तः, देवदत्तेति ?उपदेशापेक्षमिदं लक्षणम् । कोऽर्थः ? असर्वलिङ्गेषु येषु जातिवाचित्वमाचार्या उपदिशन्ति तेष्वेव भवतीत्यर्थः । आकृतिग्रहणाया जातेरेकत्वनित्यत्वप्रत्येकपरिसमाप्तत्वलक्षणान्‌ धर्मानाह---सकृदिति । एकस्मिन्पिण्डे सकृदुपदिष्टा `अयं गौः' इति पिण्डान्तरे निर्ग्राह्या, निश्चेतुं शक्येत्यर्तः । यदि चैका न स्यात्‌, नैव गृह्येत । तथा नित्यत्वाभावेऽपि पिण्डेन सह विनाशात्पिण्डान्तरे न गृह्येत । यदि च प्रत्येकं सर्वात्मना परिसमाप्ता न स्यात्‌, तस्मिन्नपि तावत्पिण्डे सर्वात्मना न गृह्येत यत्राख्याता, किं पुनः पिण्डान्तरे ! कथं पुनरेकमेव वस्तु बहुत्र युगपत्कार्त्स्येन वर्तते, न हि देवदत्तस्तदानीमेव स्रुघ्ने भवति मधुरायां च ? दृश्यते चेत्को दोषः, न हि दृष्टेऽनुपपन्नं नाम ! गोत्रमिति । अपत्यमित्यर्थः । चरणशब्देन शाखाध्यायिनो गृह्यन्ते, गोत्रस्यानाकृतिग्रहणत्वात्‌ सर्वलिड्गत्वाच्च पृथगुपादानम्, `नाडायनं नपुंसकम्' इति दर्शनात्‌ । चरणशब्दस्त्वध्ययनक्रियासम्बन्धेन प्रवृत्तत्वात्क्रियाशब्द एव, न जातिशब्दः ।
कुक्कुटी, सूकरीति । आकृतिग्रहणाया जातेरुदाहरणम् । ब्राह्मणई, वृषलीत्यसर्वलिङ्गायाः । तत्र ब्राह्मणीति रूपोदाहरणम् । शार्ङ्गरवादिष्वस्य पाठाद्‌ वृषलीत्येतदेव ङीप उदाहरणम् । नाडायनी, चारायणीति । गोत्रलक्षणायाः `नडादिभ्यः फक्‌' । अपत्यमात्रस्य ग्रहणादनन्तरापत्येऽपि भवति---अवन्ती, कुन्तीति, `इतो मनुष्यजातेः' इति ङीष्भवति । इह तु कुलस्यापत्यं कुलीना ब्राह्मणीति ङीष्‌ न भवति; अजादिषु दर्शनादित्याहुः । कठीति । कठेन प्रोक्तम्, वैशम्पायनान्तेवासित्वाण्णिनिः, तस्य `कठचरकात्‌' इति लुक्‌, ततः `तदधीते' इत्यण्‌, तस्य `प्रोक्ताल्लुक्‌' इति लुक्‌ । बहवृचीति । बह्व्य ऋचोऽस्या इति बहुव्रीहिः, `बह्‌वृश्चरणाख्यायाम्' इत्यकारः समासान्तः । कथं पुनः स्त्री नामाधीते ? मा नामाधिगीष्ट, तद्वंश्यत्वात्तु ताच्छद्ब्यं भविष्यति, यथा---अनधीयमाने माणवके ।
अत्रापरं जातिलक्षणमुक्तं भाष्ये---
प्रादुर्भावविनाशाभ्यां सत्त्वस्य युगपद्‌गुणैः ।
असर्वलिङ्गां बह्वर्थां तां जातिं कवयो विदुः ।। इति ।
सत्त्वस्य प्रादुर्भावविनाशाभ्यां याऽऽविर्भावतिरोभावो प्राप्नोति, यावद्‌द्रव्यभाविनीत्यर्थः । गुणैश्च युगपद्‌ द्रव्येण सम्बध्यते यथा निर्गुणं द्रव्यं न भवति, तथा जातिरहितमपीत्यर्थः । बह्वर्थामिति । अर्थशब्दो विषयवाची, बहुविषयां बहुव्यक्तिव्यापिनीमित्यर्थः । असर्वलिङ्गामिति । पूर्वल्लक्षणान्तरम् । तत्र यथा पूर्वलक्षणं तथा कुमारीभार्या इति भवितव्यम्, कथम् ? कौमारमयावद्‌द्रव्यभाव्यपि आकृतिग्रहणत्वाद्भवनति जातिः, ततश्च `जातेश्च' इति पुंबद्भावप्रतिषेधः । वृद्धा, स्थविरेत्यादौ च जातिलक्षणो ङीष्प्राप्नोति, यथा पुनरुत्तरं तथा कौमारादिकं जातिर्न भवति; अयावद्‌द्रव्यभावित्वात्‌ । तत्र पूर्वकं लक्षणं भाष्यकारस्याभिमतम्, नोत्तरम्; अपर आहेत्यभिधानात्‌ । तथा च ङ्याप्सूत्रे युवतितरेत्यत्र `तसिलादिषु' इति प्राप्तस्य पुंवद्भावस्य `जातेश्च' इति निषेध आश्रितः । अत एव वृत्तिकारेणाप्येतदेव लक्षणमुपन्यस्तमिति केचिदाहुः । एवमपि युवजानिरित्यत्र पुंवद्भावो न प्राप्नोति, तस्माद्‌ द्वितीयमेव लक्षणं साधीयो मन्यामहे । अत एव वृद्धा, स्थविरेति जातिलक्षणो ङीष्न भवति । युवतितरेत्यत्र तु भाष्यकारप्रयोगात्पुंवद्भावाभावः ।
मुण्डेति । गुणशब्दोऽयम् । मक्षिकेति । स्त्रियामेवायं नियतः । इह कस्मान्न भवति---माला, बलाकेति ? मालाशब्दो मलनं माल इति घञन्तः पुंल्लिङ्गः, क्षेत्रविशेषे नपुंसकः, स्रजि स्त्रीलिङ्गः । बलाकाशब्दो हि बलां कायतीति यौगिकः सर्वलिङ्गः, बकजातिवचनः स्त्रीलिङ्गः । नात्र यथाकथञ्चिदस्त्रीलिङ्गविषयत्वं विवक्षितम् , किं तर्हि ? यस्मिन्प्रवृत्तिनिमित्ते स्त्रीलिङ्गस्तस्मिन्नेव निमित्ते यल्लिङ्गान्तरेऽपि वर्त्तते तदस्त्रीविषयम् । यथा पुनरयं शब्दार्थस्तथा `स्त्रियाः पुंवत्‌' इत्यत्र वक्ष्यामः । तेन निमित्तभेदेन नानालिङ्गेषु नायं विधिर्भवति । यद्येवम्, द्रोणी, वुटी, पात्रीत्यत्र न प्राप्नोति ? द्रोणशब्दः प्रमाणविशेषे पुंल्लिङ्गः; गवादिन्यां तु स्त्रीलिङ्गः; कुटशब्दो घटे पुंल्लिङ्गः, गेहे तु स्त्रीलिङ्गः; गौरादिपाठात्सिद्धम् ।
हयगवयेत्यादि । गौरादिष्विदानीन्तनैर्हयादयः प्रक्षिप्ता इति वार्तिककारवचनाद्विज्ञायते ।।
पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च ।। 4.1.64 ।।
स्त्रीविषयत्वादेतेषामिति । पूर्वत्र समानायामाकृतौ यदस्त्रीविषयमित्याश्रयणान्निमित्तभेदेन नानालिङ्गानामेषां न सिध्यतीति भावः । ओदनपाकादयः संज्ञाशब्दा यथाकथञ्चिद्व्युत्पाद्याः ।।
इतो मनुष्यजातेः ।। 4.1.65 ।।
अवन्ती, कुन्तीति । अवन्ति-कुन्तिशब्दाभ्यामपत्येऽर्थे `वृद्धेत्कोसलाजादाञ्ञ्यङ्' तस्य `स्त्रियामवन्तिकुन्तिकुरुभ्यश्च' इति लुक्‌ । दाक्षई, ल्पाक्षीति । `अत इञ्‌' ।
विट्‌, दरदिति । विट्‌शब्दाज्जनपदशब्दात्क्षत्त्रियादञ्‌, दरच्छब्दाद्‌ `द्व्यञ्मगध' इत्यादिनाण, तयोः `अतश्च' इति लुक्‌ । उदाहरणसिद्ध्यर्थमेव `अतः' इत्यस्यानुवृत्तिर्न शक्याऽऽश्रयितुमित्यत्रापि प्रसङ्गः ।
औदमेयीति । उदकं मेयमस्य उदमेयः, `उदकस्योदः संज्ञायाम्' इत्युदभावः, `तस्यापत्यम्', `अत इञ्‌'।
सौतङ्गमी, मौनिचित्तीति । सुतङ्गममुनिचित्तशब्दाभ्यां `तेन निर्वृत्तम्' इत्यत्रार्थे इञ्प्रत्ययः ।।
ऊङुतः ।। 4.1.66 ।।
कुरुरिति । `कुरुनादिभ्यो ण्यः' तस्य `स्त्रियामवन्ति' इत्यादिना लुक् । व्रह्मबन्धूर्जीवबन्धूरिति । वृत्तस्वाध्यायहीनाया ब्राह्मणजातावेतौ बहुव्रीही वर्तेते ।
ङकार इत्यादि । `नोधात्वोः' इत्युच्यमाने, यवाग्वा, यवाग्वै---अत्रापि `उदात्तयणो हल्पूर्वात्‌' इति प्राप्तस्य विभक्त्युदात्तस्य निषेधः स्यात्‌, वर्णग्रहणे ह्यर्थवद्‌ग्रहणपरिभाषा नोपतिष्ठते । अथ दीर्घोच्चारणं किमर्थम्, न `उङुतः' इत्येवोच्येत, सवर्णदीर्घत्वेन सिद्धम् ? न सिध्यति; सत्यपि सवर्णदीघत्वे, `गोस्त्रियोरुपसर्जनस्य' इति ह्रस्वत्वं प्राप्नोति । न प्राप्नोति, किं कारणम् ? `उभयत आश्रयणे नान्तादिवत्‌', तथा हि एकादेशस्यान्तवत्त्वेन प्रतिपदिकसंज्ञा सम्पाद्या, `अप्रत्ययः' इति निषेधात् । आदिवत्त्वेन च स्त्रीप्रत्ययत्वं सम्पाद्यम् । इति तर्हि ब्रह्मबन्धूच्छत्त्रम्---षत्वतुकोरसिद्धत्वाद्‌ ह्रस्वलक्षणो नित्यस्तुक्‌ प्रसज्येत, दीर्घोच्चारणात्त्वेकादेशस्यासिद्धत्वेऽपि दीर्घ एवायमिति `दीर्घात्पदान्ताद्वा' इति विकल्पः सिध्यति ? एतदपि नास्ति प्रयोजनम् ; पदान्तपदाद्योरेकादेशोऽसिद्धः, न चैप पदान्तपदाद्योरेकादेशः । तस्मादनर्थकं दीर्घोच्चारणम् ? इत्याशङ्क्याह---दीर्घोच्चारणं कपो बाधनार्थमिति । `शेषाद्विभाषआ' इति कपोऽवकाशः---अयवकः, अव्रीहिकः, ऊङोऽवकाशः--कुरूरिति; ब्रह्मबन्ध्वादेर्बहुव्रीहेरुभयप्रसङ्गे परत्वात्कप्‌ प्राप्नोति, दीर्घोच्चारणान्न भवित, कथम् ? उकारद्वयं दीर्घेण निर्दिष्टम्, तत्र द्वितीय उकारः कपो बाधनार्थः । अध्वर्युरिति । अध्वरं यातीति `मृगय्वादयश्च' इत्युणादिषु दर्शनात्‌ कुप्रत्ययोऽध्वरशब्दस्यान्तलोपश्च । चरणलक्षणेयं जातिः, अध्वर्युशाखाध्यायिनि वंशे भवेत्यर्थः ।
अप्राणिजातेश्चेति । अत्र `उतः' इति नापेक्ष्यते तेनालाबू-कर्कन्धूशब्दाभ्यां दीर्घान्ताभ्यामपि भवति । `कृषिचमितनिधनिसजिखर्जिभ्य ऊः' इति वर्तमाने `णित्कशिपद्यर्तेः' इत्यतो णिदिति च, `नञि लम्बेर्नर्लोपश्च', `लबि अवुस्रंसने', तस्मान्नञ्पूर्वादूप्रत्ययो भवति नलोपश्च णित्त्वाद्‌ वृद्धिः, `अन्दूदृम्भूकर्कन्धूः' इति निपातनादूकारान्तः कर्कन्धूशब्दः । एवमलाबू-कर्कन्धूशब्दौ दीर्घान्तौ । ऊङ्‌विधानमलाब्वा, कर्कन्ध्वा इत्यादौ `नोङ्‌धात्वोः' इति विभक्त्युदात्तत्वप्रतिषेधार्थम् । कृकवाकुरिति । `कृके वचः कश्च' कृकशब्द उपपदे वकेर्धातोरुण् प्रत्ययो भवति, कश्चनान्तादेशः । रज्जुरिति । `सृजेरसुम् च', आदिलोपः प्रकृतः, सृजेरु प्रत्ययः, आदेश्च लोपोऽसुगागमश्च, ऋतो यणादेशः, सकारस्य जश्त्वचर्त्वे, सृज्यतेऽसौ रज्जुरिति । हनुरिति । `युस्निहि' इत्यादिना हन्तेरुप्रत्ययः ।।
पङ्गोश्च ।। 4.1.68 ।।
श्वशुरस्येति । पुंयोगलक्षणस्य ङीषोऽपवाद ऊङ्‌ विधीयते, `शावशेराप्तौ' शुशब्देऽश्नोतेरुरन्‌ प्रत्ययो भवति । किमिदं शु इति ? आशुशब्दस्यायमादिलोपो निपातितः । आश्वाप्तव्यः श्वशुरः, तस्य स्त्री श्वश्रूः, `श्वशुरः श्वववा' इत्यदिनिपातनाद्विभक्त्यादि प्रातिपदिककार्यं भवति ।।
ऊरूत्तरपदादौपम्ये ।। 4.1.69 ।।
उपमीयतेऽनयेत्युपमा, तद्भाव औपम्यम् । कथं `विचकरे च करेणुकरोरुभिः' इति ? निरङ्कुशाः कवयः; `करेण वरोरुभिः' इति पाठः---करेण विचकरे वरोरुभिरिति ।।
संहितशफलणक्षवामादेश्च ।। 4.1.70 ।।
संहितशब्दः सहितपर्यायः, लक्षणशब्दोऽर्शआद्यच्प्रत्ययान्तः, वामशब्दः शोभनपर्यायः ।
सहितसहाभ्यां चेति । `समो वा हितततयोः' इति मलोपे सति यः सहितशब्दस्तस्य संहितग्रहणेनैव सिद्धम्, एकदेशविकृतस्यानन्यत्वात्‌ । यस्तु सह हितेन वर्तते इति व्युत्पन्नः सहितशब्दस्तस्येदं ग्रहणमित्याहुः । सहोरूरिति । सहेते इति सहौ, तादृशावूरू यस्या इत्यर्थः । विद्यमानस्य वा सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोगः ।।
कद्रुकमण्डल्वोश्छन्दसि ।। 4.1.71 ।।
गुग्गुल्वादीनां छन्दसि व्यत्ययेन स्त्रीत्वम् । पतयालुशब्दः `स्पृहिगृहि' इत्यादिनाऽऽलुजन्तः ।।
शार्ङ्गरवाद्यञो ङीन्‌ ।। 4.1.73 ।।
एतेऽणन्त इति । श्रृङ्गरु, कपटु, गुग्गुलु, ब्रह्मन्‌---इत्येतेभ्यः प्राग्दीव्यतोऽण्‌, गोतमशब्दादृष्यण्,, गौरादिष्वप्ययं पठितः । एते ढगन्ता इति । बाहुल्यादेवमुक्तम् । कणण्डलुशब्दाच्चतुष्पाद्भ्यो ढञ्‌, इतरेभ्यस्तु शुभ्रादिलक्षणो ढक्‌ । एतौ फगन्ताविति । वात्स्यशब्दाद्‌ गर्गादियञन्ताद्यूनि `यञिञोश्च' इति फक्‌ । ननु न स्त्रियां युवसंज्ञा, `गोत्राद्यून्यस्त्रियाम्' इति वचनात्‌, गोत्रे च `एको गोत्रे' इति नियमः ? एवं तर्हि वात्स्यायनशब्दस्यास्मिन्‌ गणे पाठसामर्थ्यात्स्त्रियां युवसंज्ञा भविष्यति, गोत्र एव वा प्रत्ययद्वयम् । मुञ्जशब्दो नडादिः । जातिरिति । गोत्रलक्षणा । ढगन्त इति । कीकसाशब्दः शुभ्रादिः । ञ्यङन्ताविति । `वृद्धेत्कोसलाजादाञ्ञ्यङ्‌' इति कवि-शिविभ्यां ञ्यङ्‌, `यङश्चाप्‌' अत्र प्राप्नोति । एहि, पर्येहीति । `ईह चेष्टायाम्' आङ्‌पूर्वात्पर्याङ्‌पूर्वाच्च `सर्वधातुभ्य इन्' इतीन्‌ प्रत्ययः, अश्मरथशब्दो गर्गादिः, उदपानशब्दः शुण्डिकादिः, उत्सादिश्च, तत्राह---शुण्डिकाद्यणन्तः प्रयोजयतीति । अन्ते तु ङीपो ङीनो वा नास्ति विशेषः । जातिरिति । अराल--चण्डालयोरसर्वलिङ्गत्वाज्जातित्वम् । वतण्डशब्दस्य गोत्रत्वात्‌ । वतण्डस्यापत्यं स्त्री `वतण्डाच्च' इति यञ्‌, `लुक्‌ स्त्रियाम्' इति तस्य लुक्‌ । भोगवद्‌गोरिमतोरिति । मत्वन्तत्वात्‌ `उगितश्च' इति ङीपि प्राप्ते वचनम् । ननु भोगशब्दो घञन्तः, गौरिशब्दः `अत इञ्‌' इतीञन्तः, तौ ञित्स्वरेणाद्युदात्तौ, ताभ्यां मतुप्‌, पित्त्वादनुदात्तः, ततश्च न ङीब्ङीनोरत्रास्ति विशेषः ? तत्राह---घादिषु नित्यमिति । उगिल्लक्षणे ङीपि सति `नद्याः शेषस्यान्यतरस्याम्', `उगितश्च' इति विकल्पेन ह्रस्वत्वं स्यात्‌, ङीनि तु सति `घरूपकल्प' इति नित्यं सम्भवति । कथं भवति, यावता उगितः परा या नदी तस्या विकल्पो विहितः, ङीनपि चोगितः परा नदी, बोगवद्‌गौरिमतोरुगित्त्वात्‌ ? नैष दोषः; `उगितश्च' इति इत्यर्थेऽयं चशब्दः, उगित इत्येवमुगित्संशब्दनेन या नदी विहिता न चानेन विहितो ङीनेवं विहिता नदी भवति । यथा तु `युवोरनाकौ' इत्यत्र भाष्यम्, तथोगितः परा या नदीत्येतदेव स्थितम् । संज्ञाया अन्यत्र हीबेव भवति ह्रस्वश्च विकल्पितः ।
नृनरयोर्वृद्धिश्चेति । नृशब्दादृन्नेभ्यो ङीपि, नरशब्दाज्जातिलक्षणे ङीषि प्राप्ते वचनम् । वृद्धिश्चेति, वक्ष्यामीति च अन्यतरस्य ग्रहणेऽपि नारीतीष्टं सिद्धम्, अन्यतरस्यानिष्टनिवृत्त्यर्थं तु द्वयोरुपादानम् । तत्र नरशब्देऽन्त्यस्य वृद्धौ सत्यां यस्येतिलोपादानर्थक्यमिति यस्येति लोपस्तावद्भवति, तत्र कृते रेफस्य वृद्धिः प्राप्नोति, का ? अविशेष्त्पर्यायेण सर्वैव ? नैष दोषः; `स्थानेऽन्तरतमः' इत्यत्रान्तरतमे स्थाने षष्ठीत्यपि पक्षो व्याख्यातः, ततो नृनरयोरिति यैषा षष्ठी सा वृद्धेरन्तरतमे नृनरावयवे स्थानिन्यनुसंह्रियते । यत्र च षष्ठी तत्रादेश इत्यकारस्यैव भविष्यति । अत्र पुत्त्रशब्दं केचित्पठन्ति, न स केवलः स्त्रियां वर्तत इति तदन्तस्य समासस्य ग्रहणम् । तत्रापि बहुपुत्त्रा, अतिपुत्त्रेत्यादावनुपसर्जनाधिकारान्न भवति । क्व तर्हि भवति ? पुत्त्रप्रधाने । ननु पुत्त्रप्रधानं समासे सैव पुंल्लिङ्गता ? सत्यम् ; `सूतोग्रराजभोजमेरुभ्यो दुहितुः पुत्रड्‌ वा' इति वातिककारेण यत्र पुत्रडादेशो विहितस्तान्युदाहरणानि । सूतपुत्त्री, राजपुत्त्रीति---अत्र स्वभावात्पुत्त्रशब्दो दुहितृशब्देन समानार्थः, न पुत्रडादेश इति पठतामभिप्रायः ।
अन्ये तु `प्रद्योतपुत्त्री शैलपुत्त्रीति वार्त्तिकविषयादन्यदेव ङीन उदाहरणम्, पुत्रडादेशस्तु ङीपि स्वरार्थः' इति मन्यन्ते, नात्राप्तभाषितमस्ति ।।
यङ्श्चाप्‌ ।। 4.1.74 ।।
पकारः ङ्याप्प्रातिपदिकात्‌' इत्यत्र सामान्यग्रहणार्थः, स्वरस्तु परत्वाच्चित्स्वर एव भवति । ञ्यङः ष्यङश्च सामान्यग्रहणमिति । यद्यपि ष्यङ्‌स्त्रियामेव विधीयते, तथापि डित्करणसामर्थ्यात्तस्याप्यत्र ग्रहणमिति भावः । आम्बष्ट्येत्यादि । अम्बष्ठादिभ्योऽपत्ये `वृद्धेत्कोसलाजादाञ्ञ्यङ्‌' । कारीषगन्ध्येति । स्वादिसूत्रे व्युत्पादितम् । वराहशब्दात्‌ `अत इञ्‌'। शर्कराक्ष-पूतिमाषगोकक्षशब्दा गर्गादयः ।
ननु च गौकाक्ष्यशब्दः क्रौड्यादिषु पठ्यते, ततः ष्यङिः `यङ' इत्येव चाप्‌ सिद्धः ? मा पाठि, तत्र `षाच्च यञः' इत्यनेनैव शर्कराक्ष्यादिवद्‌ गौकाक्ष्येति सिद्धम् । यद्येवम्, गौकाक्षीपुत्रः---ष्यङः सम्प्रसारणं न प्राप्नोति ? नात्र सम्प्रसारणमिष्यते, गौकाक्ष्यापुत्र इत्येव भवति । एवं हि सौनागाः पठन्ति---`ष्यङः सम्प्रसारणे गौकक्ष्यायाः प्रतिषेधः' ।।
तद्धिताः ।। 4.1.76 ।।
युवतिरिति । तद्धितसंज्ञायां सत्यां `कृत्तद्धितसमासाश्च' इति प्रातिपदिकसंज्ञा भवति । बहुवचनमित्यादि । `प्रत्ययः' इत्यादिवदेकवचन एव कर्तव्ये बहुवचनेनसंज्ञिनां बहुत्वसूचनादनुक्तोऽपि तद्धितः परिगृह्यत इति मन्यते । स्त्रीप्रत्ययानामादितस्तद्धिताधिकारे क्रियमाणे `प्राचां ष्फ तद्धितः' इत्यत्र तद्धितग्रहणं न कर्तव्यम्, `यस्येति च' इत्यत्र चकारग्रहणम्, `ङ्याप्प्रातिपदिकात्‌' इत्यत्र तु तदन्तात्तद्धितविधानार्थं ङ्याव्ग्रहणं कर्तव्यमेव ? सत्यम्; ङीबादीनां ङकारस्येत्संज्ञा न स्यात्‌, `अतद्धिते' इति प्रतिषेधात्‌ । सत्यामपि वा पट्‌वीत्यादौ `ओर्गुणः' स्यात्‌ । तस्माद्यथान्यासमेवास्तु ।।
यूनस्तिः ।। 4.1.77 ।।
युवतिरिति । त्यन्तात्‌ `इतो मनुष्यजातेः' इति ङीष्न भवति; तिप्रत्ययेनैव स्त्रीत्वस्योक्तत्वात्‌ , यौवनस्य वाऽजातित्वात्‌ ।।
अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ्‌ गोत्रे ।। 4.1.78 ।।
इह सम्भवे व्यभिचारे च सति विशेषणविशेष्यभावो भवति, तेन `गोत्रे' `अनार्षयोः' इति चाणिञ्मात्रस्य विशेषणम्, `गुरूपोत्तमयोः' इत्येतत्तदन्तस्य, तदाह---गोत्रे यावणिञौ विहितावनार्षौ तदन्तयोरिति । यद्यप्यपत्याधइकारादन्यत्र लौकिकस्य गोत्रस्य ग्रहणम्, तथाप्यत्र पारिभाषिकस्य ग्रहणम् ; लौकिकग्रहणस्य `अनार्षयोः' इति पर्युदासाश्रयणेनैव सिद्धत्वात्‌ । इहायं ष्यङ्‌ प्रत्ययो वा स्यात्‌ ? आदेशो वा ? प्रत्ययविधावपि हि गापोष्टक्‌' इत्यादौ षष्ठीदर्शनात्‌, उत्तरत्र `क्रौड्यादिभ्यश्च' इति पञ्चमीनिर्देशाच्च प्रत्ययपक्षोऽपि सम्भवत्येव । तत्राद्यपक्षे उदमेघस्यापत्यं स्त्री, `अत इञ्‌', औदमेघि इति स्थिते तदन्तात्‌ ष्यङि विहिते औदमेघ्यायाश्छात्त्रा औदमेघाश्छात्त्राः, औदमेघ्यानां सङ्घः, `इञश्च' `सङ्घाङ्कलक्षण' इति च इञन्ताद्विधीयमानोऽण्‌ न स्यात्‌ । अथापि लिङ्गविशिष्टपरिभाषया इञन्ताद्विधीयमानोऽण् ष्यङन्तादपि स्यात्‌, एवमपि `आपत्यस्य च तद्धितेऽनाति' इति यलोपो न स्यात्‌, ष्यङोऽनापत्यत्वात्‌ ? नैष दोः ; `भस्याढे तद्धिते' इति पुंवद्भावात्प्रागेवण उत्पत्तेः ष्यङ्‌निवर्तते, तस्मिन्निवृत्ते `इञः' इत्यण्भविष्यति, यकारस्य च श्रवणंन भविष्यति । इह तर्ह्यौदमेघ्याया उपत्यम् `स्त्रीभ्यो ढक्‌', औदमेघेय इति यलोपो न स्यात्‌, पुंवद्भावश्च नास्ति, `अढे' इति प्रतिषेधात्‌ ? इतीममाद्ये पक्षे दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह---ष्यङादेशो भवतीति ।
नन्वस्मिन्पक्षे उडुलोम्नोऽपत्यं स्त्री बाह्वादिषु लोमन्शब्दस्य पाठात्केवलस्यापत्येन योगाभावात्सामर्थ्यात्तदन्तस्य ग्रहणादिञि तस्य ष्यङादेशे सति `ये चाभावकर्मणोः' इति प्रकृतिभावात् `नस्तद्धिते' इति टिलोपो न स्यात्‌, ततश्चौडुलोमन्येति स्यात्‌, औडुलोम्येति चेष्यते, प्रत्ययपक्षे इञा व्यवधानान्नास्ति प्रकृतिभावः, यस्येति लोपेऽपि कृते स्थानिद्भावाद्व्यवधानमेव ? नैष दोषः ; नात्राकृते टिलोपे ष्यङ्‌ प्राप्नोति, किं कारणम् ? अगुरूपोत्तमत्वात्‌, तस्मादिञ्येव टिलोपः, ततो गुरूपोत्तमत्वम्, ततः ष्यङित्यानुपूर्व्यात्सिद्धम् । अयं तर्हि दोषः---प्रत्ययग्रहणपरिभाषयाऽणिञन्तयोर्ग्रहणम्, तयोर्विधीयमानः ष्यङनेकाल्त्वात्सर्वादेशः प्राप्नोति ? `ङिच्च' इत्यन्त्यस्य भविष्यति, तातङ्‌न्यायेन सर्वादेशः प्राप्नोति । यत्र हि ङकारस्य प्रयोजनान्तरमपि सम्भाव्यते तत्र `ङिच्च' इत्येतदनन्यार्थङित्त्वेष्वनङादिषु सावकाशं बाधित्वा `अनेकाल्शित्सर्वस्य' इत्येतद्भवति, यथा तातङि । इह च सर्वादेशत्वेऽपि `यङश्चाप्‌' इति विशेषणं प्रयोजनं सम्भवति, तस्मात्सर्वादेशः प्राप्नोति, तत्राह---निर्दिश्यमानस्येत्यादि ।
यद्ययमुत्तमशब्दो व्युत्पन्नः स्यात्‌, तदोच्छब्दात्तमपि कृते `किमेत्तिङव्ययघाद्‌' इत्याम्प्राप्नोति ? न वा द्रव्यप्रकर्षत्वात्‌ । उच्छब्दो हि ससाधनक्रियावचन उद्‌गते वर्तते, तस्य क्रियाद्वारकः प्रकर्षः---अतिशयेनोद्‌गत इति, ततश्च द्रव्यनिष्ठत्वात्प्रकर्षस्य `अद्रव्यप्रकर्षे' इति प्रतिषेधो भविष्यति । एवमपि तमपः पित्त्वादाद्युदात्तत्वप्रसङ्गः ? न वोञ्छादिषु पाठात्‌, उञ्छादिषु हि उत्तमशश्वत्तमौ सर्वत्रेति पठ्यते । एवमपि स तावत्पाठः कतेव्यः, क्रियामात्रस्य च प्रकर्षे उत्तमामित्याम्प्रसङ्गश्च, अतोऽनभिदानावुच्छब्दात्तमपोऽनुत्पत्तिरेषितव्या । किञ्चव्युत्पन्न उत्तमशब्दश्चतुष्प्रभृतिषु वर्तते, कथम् ? ऊर्ध्वमुच्चारित उद्‌गतः, स च प्रथमोच्चारितमपेक्षते, ततश्च त्रिषु द्वावुद्‌गतौ, तयोश्च द्वितीयोऽतिशयेनोद्‌गतः, द्वयोश्च सम्प्रधारणायां तरपा भाव्यम्, ततश्च यत्रोद्‌गता एव त्रयस्तत्रैव स्यात्‌---कारीषगन्ध्येत्यादौ; वाराह्येत्यादौ तु न स्यात्‌ । तदेवं व्युत्पत्तिपक्षे दोषं पश्यन्नव्युत्पत्तिपक्षमाश्रित्याह---उत्तमशब्द इति । स्वाभावादिति । न व्युत्पत्तिवशादित्यरय्थः । त्रिप्रभृतीनामिति वचनाद्दाक्षी प्लाक्षीत्यादौ न भवति ।
टिड्‌ढाणञिति ङीबेव भवतीति । प्राप्तिमात्राभिप्रायेणेदमुक्तम् । अत्र हि जातित्वात् `शाऱ्गरवाद्यञः' इति ङीना भाव्यम् । वासिष्ठीति । `ऋष्यन्धक' इत्यादिनाण् ।
आहिच्छत्रीति । जातादावर्थेऽण्‌ । एवमत्रादेशपक्षः स्थापितः ।
यद्येवम्, हस्तिशिरसोऽपत्यम्, बाह्वादित्वादिञ्‌, `अचि शीर्षः' इति शीर्षादेशः, इञः ष्यङादेशः, ततः स्थानिवद्भावेन शीर्षशब्दस्य शिरोग्रहणेन ग्रहणाद्‌ `ये च तद्धिते' इति शीर्षन्नादेशः प्राप्नोति ? अस्तु; `नस्तद्धिते' इति टिलोपो भविष्यति । `ये चाभावकर्मणोः' इति प्रकृतिभावः प्राप्नोति, ततश्च हास्तिशीर्षण्येति स्यात्‌, प्रत्ययपक्षे त्विञाऽव्यवहितत्वान्नास्ति शीर्षन्नादेशः, यस्येति लोपेऽपि कृते स्थानिवद्भावाद्व्यवधानमेव, तेन हास्तिशीर्षेति सिद्ध्यति, तस्मात्प्रत्ययपक्ष आश्रणीयः । तदेतद्‌ `ये च तद्धिते' इत्यत्र वामनो वक्ष्यति---`यदि प्रत्ययः, कथमौदमेघेय इति, आपत्याद्विहितः ष्यङ्‌ सोऽप्यापत्य एव, तत्र यलोपे सिद्धम्' इति ।
जयादित्यस्तु मेने---शीर्षादेशसन्निपातेन ष्यङ्‌, स तद्विघातं न करिष्यतीति । यद्येवम्, अजादिप्रत्ययनिबन्धः शीर्षादेशः कथं तमजादि विहन्यात्‌ ? ततः किम् ? ष्यङादेशोऽपि न प्राप्नोति, अनित्या सन्निपातपरिभाषा, तेन ष्यङ्‌ भवति, शीर्षादेशश्च न भविष्यति । अयं तर्ह्यादेशपक्षे दोषः---अनुबन्धौ कर्तव्यौ यङश्चाबिति सामान्यग्रहणतदविघातार्थौ, अन्यथाऽणादेशे ष्यङि `टिड्ढाणञ्' इत्यादिना ङीप्स्यात्‌, इञादेशे तु `इञ उपसङ्ख्यानम्' इति ङईष्प्रसङ्गः ? नैष दोषः; `टिड्‌ढाणञ्‌' इत्यत्रात इति वर्तते, तत्र चाणाऽकारो विशेष्यते---अण्योऽकार इति । तत्र ष्यङादेशे `अनल्विधौ' इति स्थानिवद्भावाभावान्ङीब्न भविष्यति । अणन्तादकारान्तादिति हि विज्ञायमाने स्वाश्रयमकारान्तत्वं स्थानिवद्भावादणन्तत्वं चेति स्यान्ङीपः प्रसङ्गः । `इञ उपसङ्ख्यानम्' इत्यत्रापि `इतो मनुष्यजातेः' इत्यत `इतः' इत्यपेक्ष्यते---इञ्य इकारः तदन्तादिति । इञन्तादिकारान्तादिति वा विज्ञायमाने ष्यङादेशे सति वाराह्येत्यादिविकाराभावान्डीषभावः सिद्धः । एवमपि स्वरार्थश्चाबेष्टव्यः, अन्यथा इञादेशः ष्यङ्‌ स्थानिवद्भावेन ञित्‌, टाबपि पित्त्वादनुदात्त इति ञित्स्वरेणाद्युदात्तं पदं स्यात्‌ । स्यादेतत्---इञो ञकारस्येत्संज्ञायाः प्रागेव प्रतिपदविधानात्ष्यङादेशः कारिष्यते, तत्र ञित्स्वराभावात्‌ प्रत्ययस्वरे सति टाप्यपि सिद्धः स्वर इति, यथैव तर्हि ञित्स्वरो न भवति एवं वृद्धिरपि न स्याद्‌, अतो ञकारस्य सत्यामित्संज्ञायामादेश इत्यास्थेयम्, ततश्च स्वरे दोषप्रसङ्गाच्चाबर्थमनुबन्धौ कर्तव्यावेव । प्रत्ययपक्षे तु सति शिष्टे ष्यङः प्रत्ययस्वरे कृते तदन्तादापि सिद्धमिष्टम्, न रूपभेदो न स्वरभेदः । ननु च ष्यङैव स्त्रीत्वस्य द्योतितत्वादाब्न स्यात्‌ ? नैष दोषः; यथा गार्ग्यायणीत्यादौ द्वाभ्यां स्त्रीत्वं द्योत्यते, तथाऽत्रापि द्वयोरेव सामर्थ्यमिति टाबपि भविष्यति । `ष्यङः सम्प्रसारणम्' इत्यत्र विशेषणार्थं तर्हि त्वयाप्यनुबन्धौ कर्तव्यौ, इह मा भूत्‌---पाशानां समूहः पाश्या, `पाशादिभ्योयः', पाश्यापतिरिति ? एवं तर्ह्येकोऽनुबन्धः करिष्यते, क एवः ? षकीरे ङीष्प्रसङ्गः । ङकारे `यङः सम्प्रसारणम्' इत्युच्यमाने लोलूयापुत्त्र इत्यत्रापि प्राप्नोति ? अप्रत्ययादित्यकारेऽतो लोपे च सति अकारेण व्यवहितत्वान्न भविष्यति । वाराहीपुत्त्र इत्यत्रआपि तर्हि टापा व्यवधानम् ? एकादेशस्य पूर्वं प्रत्यन्तवत्त्वान्नास्ति व्यवधानम् । ननु `,ष्यङः सम्प्रसारणम्' इत्यत्र `लिटि धातोः' इत्यतोधातुग्रहणमनुवर्तते, `आदेच उपदेशेऽशिति' इत्यात्त्वं धातोर्यथा स्याद्‌, गोभ्यामित्यादौ मा भूदित्येवमर्थम् । तत्र यडन्तस्य धातोः पुत्त्रपत्योरनन्तरयोः सम्प्रसारणं भवतीत्युक्ते यो धातुर्लोलूयादिर्नासावनन्तरः, यश्चानन्तरो वाराह्यादिर्न स धातुः, तत्र धातुत्वानन्तर्ययोरन्यतररूपपरित्यागेन भवत्सम्प्रसारणं यथा वाराहीपुत्त्र इत्यादौ असत्यपि दातुत्वे आनन्तर्यमात्राश्रयणेन भवति, तथा लोलूयापुत्त्र इत्यत्रासत्यप्यानन्तर्ये धातुत्वाश्रयणेन स्यात्‌ ।
अथ ब्रूयाः---यङ्‌धात्वोर्न परस्परेण विशेषणविशेष्यभावः, अपि तर्हि समुच्चयः---पुत्त्रपत्योरनन्तरस्य यङो धातोश्चेति ? तत्र वाराहीपुत्त्र इत्यादौ भविष्यति, न तु लोलूयापतिरित्यादौ; धातोर्व्यवधानात्‌ । ततश्च सामर्थ्याद्धातुग्रहणस्योत्तरार्थैवानुवृत्तिः सम्पद्यत इति । यद्येवम्, वाक्पतिरित्यत्र वचेः सम्प्रसारणप्रसङ्गः ? एवं तर्हि धातोरिति निवर्त्तिष्यते, आत्त्वं पुनर्गवादेः प्रातिपदिकस्य न भवति; उपदेशोभावात्‌ । स्वरूपज्ञापनप्रधानो निर्देश=उपदेशः । `गोद्व्यचः', `नौद्व्यचः' इत्यादो तु कार्यान्तरार्थमुच्चारणम्, न स्वरूपज्ञापनार्थम् । तदेवं प्रत्ययपक्ष एक एवानुबन्धः कर्तव्यः । अत्र संग्रहश्लोकाः---
पुंवद्भावाद्यजातौ यलुगणपि परस्मिन्‌ ष्यङि ह्यौदमेघे
स्वार्थे ष्यङ्‌ तद्यलुग्ढे क्रमत इह भवेदौडुलोम्या परस्मिन् ।
ष्यङ्‌शीर्षाधीनलाभस्तदभिविहतये न प्रभूर्हास्ति शीर्ष्ये
सर्वादेशोऽपि तातङ्‌ङिव न यङणिञोः स्थानिनोरुक्तिहेतोः ।।
स्त्र्युक्तावप्याप्परस्मिन्निह सुलभ इति ष्ङौ विधेयौ न वा ये-
ऽणादेशे ङीनिवृत्त्यै त्वण इञ इति चेद्‌ द्वौ विशेष्यौ न दोषः ।
ञित्त्वादादेरुदात्तः प्रसजति सहजादेशने वृद्ध्यभावः
पाश्यापुत्त्रे निवृत्त्यै यण इक इह षित्त्वेकके ङीष्यङोस्तु ।।
लोलूयापुत्त्र इत्यद्‌व्यवहित इतरत्रापि दीर्घाऽन्तवत्स्याद्‌
धात्वानन्तर्ययोगे विधिरिति स यथानन्तरेऽधौ तथा धोः ।
धात्वानन्तर्ययोश्चेन्मिथ इह न हि तेऽपेक्षिता वाक्पताविक्‌
धोर्नात्राधिक्रियात्वे ह्युपदिशिरिति गोर्नो तदेवं ममैकः ।।
गोत्रावयवात्‌ ।। 4.1.79 ।।
गोत्रशब्दोऽयमस्ति पारिभाषिकः `अपत्यं पौत्त्रप्रभृति गोत्रम्' इति, अस्ति च लौकिकोऽपत्यमात्रवचनः, अस्ति च व्युत्पन्नः---गूयन्ते शब्द्यन्तेऽनेन स्वसन्तानप्रभवा इति प्रधानभूत आदिपुरुषः, स्वप्रभवस्यापत्यं सन्तानस्य संज्ञाकारी गोत्रमित्युच्यते, यथा---भरतः, रघुः, यदुरिति । अवयवशब्दोऽप्यस्ति एकदेशे यत्सम्बन्धादवयवतीति समुदाय उच्यते; अस्ति च पृथग्भावे, अवयुत्यानुवाद इत्यादाववपूर्वस्य यौतेः पृथग्भावेऽपि दर्शनात्‌; अस्ति चाप्रधाने---अवयवभूतोऽयमस्मिन्‌ ग्राम इति । तत्र पारिभाषिके गोत्रे एकदेशे चावयवे च वचनमनर्थकमिदं स्यात्‌, कथम् ? पौत्त्रप्रभृत्यपत्यसमुदायो गोत्रं तदवयवश्चतुर्थादिस्तदपि गोत्रमेव, तद्वाचिनोऽणिञन्तात्पूर्वेणैव सिद्धः ष्यङ्‌ । अथ कस्मिश्चिन्महागोत्रे यान्यवान्तरगोत्राणि, यथा---भार्गवगोत्रस्य च्यवनादीनि, ते गोत्रावयवास्तेष्वगुरूपोत्तमार्थोऽयमारम्भः । यद्येवम्, सप्तर्षीणामगस्त्याष्टमानामष्टौ महागोत्राणि प्रवराध्याये पंठ्यन्ते तद्व्यतिरिक्तेभ्यः सर्वेभ्यः ष्यङः प्रसङ्गः; न चैतदिष्टम्, अगुरूपोत्तमेभ्योऽपि पुणिकादिभ्य एवेष्यते । पृथग्भाववचने त्ववयवशब्दे गोत्रादन्यवाचिनोऽणिञन्तात्ष्यङि विधीयमाने पूर्वसूत्रे गोत्रग्रहणमनर्थकम् । अथाप्रधानवचनोऽवयवशब्दः, पारिभाषिकमेव गोत्रं प्रवराध्याये पाठाच्चाप्राधान्यम्, ततोऽयमर्थः स्यात्---येऽणिञन्ता गोत्रापत्यवाचिनः प्रवराध्याये न पठ्यन्ते तेभ्यः ष्यङिति । तत्रानृषिभ्यो गुरूपोत्तमेभ्यः पूर्वेणैव सिद्धः, अगुरूपोत्तमेभ्यस्तु संज्ञाकारिभ्य एवेष्यते, पारिभाषिके च गोत्रे संज्ञाकारित्वं विशेषो न लभ्यत इति । इहापि प्रसज्येत---तुषजको नाम कश्चित्तस्य गोत्रं स्त्री `अत इञ्‌' तौषजकी, अपत्यमात्रे तु गोत्रे यद्येकदेशोऽवयवस्ततोऽपत्यसमुदायस्य पौत्त्रप्रभृत्यपत्यमवयव इति तद्वाचिनोऽणिञन्तात्पूर्वेणैव सिद्धः । पृथग्भावे त्वपत्यादन्यवाचिन आहिच्छत्रादेरेव प्रसङ्गः । अप्रधाने त्वप्रधानापत्यवाचिनोऽणिञन्ताद्‌ गुरूपोत्तमान्न सर्वत्रेष्यते, किन्तु संज्ञाकारिभ्यः, तत्रापि गोत्रे । व्युत्पन्ने गोत्रे एकदेशवचनोऽवयवशब्दो न सम्भवति, न हि येन पुरुषेण स्वसन्तानप्रभवा गूयन्ते तदवयवाद्धस्तपादादेर्गोत्रेऽणिञोऽसम्भवः । अथ गोत्रं च तदवयवश्चेति कर्मधारयस्तदा भार्गवादिगोत्रेषु येऽवान्तरव्यपदेशकारिणश्च्यवनादयस्तेभ्यः प्रसङ्गः । पृथग्भावे च ये संज्ञाकारिभ्यः पृथग्भूतास्तुषजकादयस्तेभ्य एव स्यात्‌ । अत एवमेषु पक्षेषु दोषसम्भवाद्व्युत्पन्नो गोत्रशब्दः, अप्रधानावचनोऽवयवशब्दः, कर्मधारयश्चसमासः । निपातनाद्विशेषणस्य परनिपातः, प्रवराध्यायेऽपाठाच्चाप्राधान्यम् । तदेतदाह---गोत्रावयवा गोत्राभिमता इति । गोत्रमित्येवमभिमताः, गोत्राभिधायिन इत्येव लोके प्रसिद्धाः, न पुनः प्रवराध्याये पठिता इत्यर्थः । काः पुनस्ता इत्यत्राह---कुलाख्या इति । कुलमाख्यायते आभिरिति कुलाख्याः, पुणिकादिभिर्हि कुलमाख्यायते---पुणिकावयंगोत्रेणेत्येवमादि । तत इति । तथोक्तविशेषणविशिष्टाभ्यः कुलाख्याभ्यः । अगुरूपोत्तमार्थ आरम्भ इति । `गुरूपोत्तमयोः' इति निवृत्तम्, अन्यत्सर्वमनुवर्तत इति भावः । पौणिक्येत्यादिः । पुणिक-भुणिक-मुखरशब्देभ्यः `अत इञ्‌', तस्य ष्यङादेशः । ते क्रौड्यादिषु द्रष्टव्या इति । अवृत्कृतत्वात्तस्येति भावः ।।
क्रौड्यादिभ्यश्च ।। 4.1.80 ।।
ष्यङ् प्रत्ययो भवतीति । क्रौड्यादिभ्य इति पञ्चमीनिर्देशात्प्रत्ययपक्षेऽप्यत्र दोषाभावाच्चैवमुक्तम् । अगुरूपोत्तमार्थ इत्यादि । तत्र क्रोड्यादयः प्राक्चोपयतशब्दादत इञन्ताः, चौपयतप्रभृतयः प्राग्‌ सौधातकिशब्दादणन्ताः, सौधातकिशब्दः `सुधातुरकङ्‌च' इति इञन्तः । सूत युवत्यामिति । सूतशब्दः ष्यङमुत्पादयति युवत्यां प्राप्तयौवनायामभिधेयायाम्---सूत्या, अन्यत्र क्रियाशब्दाट्टाब्‌ भवति---सूता, जातिवाचिनस्तु ङीष्‌ भवति---सूती । भोज क्षत्त्रिये इति । जातिलक्षणस्य ङीषोऽपवादः---भोज्या, क्रियाशब्दात्तु टाबेव भवति---भोजयतीति भोजा, ततः परे इञन्ताः । गौकक्ष्यशब्दो गर्गादियञन्तः ।।
दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्भिभ्योऽन्यतरस्याम् ।। 4.1.81 ।।
देवा यज्ञा यष्टव्या अस्य देवयज्ञः, शुचिर्वृक्षोऽस्य शुचिवृक्षः, सत्यमुग्रमस्य सत्यमुग्रः, निपातनाद्विशेष्यस्य पूर्वनिपातो मुमागमश्च, कण्ठे विद्धमस्य कण्ठे विद्धमस्य कण्ठे वा विद्धः, `अमूर्द्धमस्तकात्‌' इत्यलुक्‌ । काण्डेविद्भिभ्य इत्यन्ये पठन्ति, काण्डेन विद्धः, `कर्तृकरणे कृता बहुलम्' इति समासः, निपातनात्काण्डशब्दस्यैकारः । सर्वे इञन्ताः ।।
समर्थानां प्रथमाद्वा ।। 4.1.82 ।।
प्रत्येकमत्र पदानां स्वरितत्वं प्रतिज्ञायते, न समुदायस्यैकमित्याह---त्रयमपीति । अत्र च प्रयोजनम्---एकस्य निवृत्तावपरस्य निवृत्तिर्मा भूदिति । एतदेव स्पष्टयति---समर्थानामिति चेति । स्वाथिंकप्रत्ययावधिश्चायमिति । स्वस्याः प्रकृतेरर्थे भवाः स्वार्थिकाः, अध्यात्मादिः, भाष्यकारप्रयोगाद्‌ द्वारादिकार्याभावः, स्वशब्दस्य तु द्वारादिषु पाठादस्ति प्रसङ्गः । तदादिविधिर्हि तत्र भवति; आद्यज्विशेषणत्वाद्‌ द्वारादीनाम्, यथा---द्वारपालस्येदं दौवारपालमिति । प्राग्दिशो विभक्तिरिति यावदिति । तत आरभ्य हि स्वार्थिकाः प्रत्यया विधीयन्ते, किं पुनः कारणं स्वार्थिकेष्वेष न प्रवर्तते ? इत्याह---स्वार्थिकेष्वित्यादि । तत्र समर्थानामिति सम्बद्धार्थानां चेत्यर्थः । तत्र वाक्ये सम्बद्धार्थता, व्यपेक्षा हि तत्र सामर्थ्यम्, अपेक्षा आकाङ्‌क्षा, अन्योऽन्यापेक्षा=व्यपेक्षा । अनयाऽऽकाङ्‌क्षासन्निधियोग्यत्वेषु सत्सु यः सम्बन्धः स लक्ष्यते । वृत्तौ संसृष्टार्थता । एकार्थीभावो हि तत्र सामर्थ्यम् । वृत्तौ ह्युपसर्जनपदानि स्वार्थमुपसर्जनीकृत्य प्रधानार्थपराणि भवन्ति, यथा---गङ्गायां गोष इति गङ्गोपसर्जनं तीरमाह । तथौपगव इत्यत्रोपगुशब्दः खार्थोपसर्जनमपत्यमाह । अत एव ऋद्धस्यौपगव इति ऋद्धत्वमुपगोविंशेषणं न भवति । यत्र हि शब्दः पयवस्यति तत्रैव विशेषणसम्बन्धः । यदि च वाक्यवद्‌ वृत्तावपि खार्थ एव पर्यवस्येत्तद्वदेव विशेषणसम्बन्धो भवेत्, प्रधानपदान्यप्युपसर्जनविशिष्टमेव खार्थं ब्रुवते । यदि तु वाक्यवद्‌ वृत्तावपि प्रधानपदानि स्वार्थमेव ब्रुवीरन्‌ ततो यथोपगोरपत्यं देवदत्तः कल्याणश्चेत्युभाभ्यामपत्यार्थस्य सम्बन्धः, तथौपगवः कल्याणश्चेत्यप्युक्तेस्यात्‌, न चैवम् । अतो यादृशस्य सम्बन्धस्य भावादयं विशेषः स एकार्थीभावः । न च स्वार्थिकेषु प्रकृत्यर्थादर्थान्तरं सम्भवति यत्प्रत्यायनाय शब्दन्तरं प्रयुज्येत, येन सह समर्थता स्यात्‌ । एतेन प्राथम्यं व्याख्यातम् । अतः प्रतियोग्यपेक्षया सामथ्येप्राथम्ययोरभावात्स्वाथिकेषु नास्योपयोग इति सिद्धम् । विकल्पोऽपि तत्रानवस्थित इति । क्वचित्प्रवर्तते । एतच्चाषडक्षादिसूत्रे वक्ष्यते । इह `प्रथमात्‌' इत्येतद्विशेषणं शास्त्रवाक्यगतमाश्रीयते, न विग्रहवाक्यगतम्; अनियतत्वात्‌ । वाक्ये हि प्रयोगोऽनियत इति सर्वेषां प्राथम्यसम्भवात्‌ । कदाचिदपत्यवद्वाचिनोऽपत्ये प्रत्ययः स्यात्‌, कदाचिदपत्यवाचिनस्तद्वति । अयं च प्रकारोऽसत्यपि `प्रथमात्‌' इत्यस्मिल्लभ्यत इत्यनर्थकं तत्स्यात्‌ ।
ननु च यस्मिन्वाक्ये यत्प्रथमोच्चारितं तस्मिस्तत एव यथा स्यात्‌, चरमोच्चारितान्मा भूदित्येतत्प्रयोजनं स्यात्‌ ? तन्न; न हि वृत्तिवाक्ययोः सहप्रयोगः, ततश्च वाक्यगते प्राथम्ये व्यवस्थापके सति वृत्तेः प्रयोगो न नियत इति व्यर्थमेव `प्रथमात्‌' इति विशेषणं स्यात्‌, तस्माच्छास्त्रवाक्यगतमेव प्राथम्यं व्यवस्थापकमित्याह---लक्षणवाक्यानीत्यादि ।
समर्थानामिति निर्धरणे षष्ठीति । ततश्च निर्धारणस्य तुल्यजातीयविषयत्वात्प्रथमात्समर्थात्प्रत्ययो भवति, तत्र `समर्थात्‌ प्रथमात्‌' इति वक्तव्ये `समर्थानां प्रथमात्‌' इति वचनं प्रधानपदस्याप्युपसर्जनपदेनैकार्थीभावप्रतिपादनार्थम्; अन्यथा वाक्यवद्‌ वृत्तादपि प्रधानपदस्यान्येनापि सम्बन्धः शङ्क्येत । यदि तर्हि लक्षणवाक्ये प्रथमोच्चारितात्प्रत्ययः, एवं सति `तस्यापत्यम्' इत्यादौ सर्वनाम प्रथमनिर्दिष्टमिति तत एव प्रत्ययः स्यात्‌, नोपग्वादेः, न हि तल्लक्षणवाक्ये प्रथमनिर्दिष्टमित्यत आह---तस्येति । सामान्यमित्यादि विशेषलक्षणम्, विशेषोषलक्षणमित्यर्थः । `तस्मापत्यम्' इत्यादौ हि विशेषा एव निर्देष्टुमिष्टाः, तेषां तु सर्वेषां प्रत्यकमुपादाने गौरवं स्याद्‌, एकस्योपादानेऽनुपात्ताद्विशेषान्तरान्न स्याद्‌, यथा---अद्भिः संस्कृतमित्यादाविति सर्वेषामुपलक्षणत्वेन तस्येत्यादिकमुपात्तम् । तस्योपग्वादेरिति । न तु स्वयं कार्यितया, न हि तस्येत्यस्य सामान्यवचनस्य प्रकरणाद्यभावेन विशेषेऽनवस्थितस्यापत्यं प्रति सम्बन्धिविशेषप्रतिपादनेन सग्बन्ध्यन्तरव्यवच्छेदाख्य उपकारः सम्भवति । सम्बन्धिसामान्यंत्वपत्यशब्दस्य सम्बन्धिशब्दत्वादेवावगतम्, अतो यत्सूत्रे साक्षात्प्रथमोच्चारितं सामान्यवाचि न तस्मात्प्रत्ययः, यस्माच्च प्रत्ययो न तत्सूत्रे साक्षात्प्रथमोच्चारितमिति अगत्या उपलक्षणगतं प्राथम्यमुपलक्ष्याणां विज्ञायते । तदाह---तदीयं प्राथम्यं विशेषणां विज्ञायत इति ।
कम्बल उपगोरित्यादि । यथापत्यशब्दस्य पूर्वपराभ्यां यथेष्टमभिसम्बन्धो भवति, एवमणोऽपि सम्भाव्येतेति भावः । अत्र च प्रत्यये सत्यनर्थकस्यापि समुदायस्य तद्धितान्तत्वेन प्रातिपदिकसंज्ञायामेकत्वाद्यभावेऽपि अव्ययेभ्य इव स्वादयः स्युः । ननु `तस्यापत्यम्' इति श्रूयमाणसम्बन्ध्यपेक्षायां विभक्तौ विज्ञायमानायां नात्र प्रसङ्गः ? नैतदेवम्; न हि लक्षणवाक्ये विभक्त्युच्चारणम्, सम्बन्धप्रतिपादनार्थसामान्यस्य सम्बन्धासम्भवात्, किं तर्हि ? षष्ठ्यन्तात्प्रत्ययविध्यर्थम् । तथापि विशेषोपलक्षणद्वारेण सम्बन्धः स्याद्‌ ? एवमपि ऋद्धस्योपगोरपत्यमित्यादौ सापेक्षादपि स्यादेव । समर्थपरिभाषया तर्हि व्यवस्था भविष्यति ? स्यादेव यद्येतस्मात्सूत्रात्प्रागेव सुबन्तात्तद्धिता इति व्यवस्थितं स्यात्‌ । इह तु ङ्याप्प्रातिपदिकाधिकारात्‌ षष्ठ्यादिविभक्त्यर्थवृत्तेस्तत एव तद्धिताः स्युः । सति त्वस्मिन्सम्बन्धप्रतिपत्तेर्विभक्त्यायत्तत्वात्सुबन्तादेव तद्धिता भवन्ति, न चैवं सति पदकार्यप्रसङ्गः । तथा हि---राजन्ये वार्त्रघ्न इत्यादौ भसंज्ञयोपजातया लुप्तविभक्त्याश्रयापि पदसंज्ञा एकसंज्ञाधिकाराद्‌ बाधिष्यते । राजत्वं राजतेत्यादौ तु प्रातिपदिकादप्युत्पत्तौ `स्वादिषु' इति पदसंज्ञा भवत्येव । ननु तद्धितलुकि सर्वनामस्थाने दोषः, काश्यपेन प्रोक्तमधीयते `काश्यपकौशिकाभ्यामृषिभ्यां णिनिः', `छन्दोब्राह्मणानि' इति तद्विषयतायाम् । `तदधीते तद्वेद' इति द्वितीयान्तात्काश्यपिन्शब्दादुत्पन्नस्याणः प्रोक्ताल्लुकि यद्यपि काश्यपिन इत्यादौ भसंज्ञाया लुप्तविभक्तिनिमित्तया अपि पदसंज्ञाया बाधाददोषः, काश्यपिभ्यामित्यादौ तु भवत्येव पदसंज्ञा; तथापि काश्यपनौ, काश्यपिन इत्यादौ सर्वनामस्थाने भसंज्ञाया अभावाल्लुप्तामन्तर्वर्तिनीं विभक्तिमाश्रित्य पदसंज्ञा स्यात्‌ । न चासर्वनामस्थान इति प्रतिषेधः, किं कारणम् ? स्वादिष्विति या प्राप्तिस्तस्या एव सनिषेधः । एवं तर्हि `असर्वनामस्थाने' इति विभज्यते, प्रसज्यप्रतिषेधश्चाश्रीयते, तत्सामर्थ्याद्‌ `अनन्तरस्य विधिर्वा' इत्येतन्नाश्रीयते, तेन सर्वनामस्थाने परतः पूर्वस्यावधेर्या च यावती पदसंज्ञा स्वादिष्विति वा सुबन्तमिति वा सा सर्वा प्रतिषेत्स्यते । यद्येवम्, राजा दण्डीत्यादौ सावपि न स्यात्‌, `यच्चिभम्' इत्यतोऽचीत्येतदसर्वनामस्थाने इत्यत्रापेक्ष्यते, तेनाजादावेव सर्वनामस्थाने सर्वा पदसंज्ञा निषेत्स्यते ? सौ हलादौ स्वादिष्विंति वा सुबन्तमिति वा भविष्यतीत्यदोषः । तदेवं सत्यस्मिन्‌ वचने सुबन्तात्तद्धिते न कश्चिद्दोष इति स्थितम् ।
अत एव पूर्वाह्णेतरां पूर्वाह्णेतमामित्यादौ `घकालतनेषु' इत्यलुक्‌ विधास्यते । ननु सत्यप्यस्मिन्‌ स्वार्थिकेष्वस्याव्यापारात्कथं सुबन्तात्तरप्‌ स्यात्‌ ? एवं तर्ह्यर्थक्रम एवायमीदृशो यदुत पूर्वं विभक्त्या योगः, पश्चात्तरपा । उक्तं हि प्रियकुत्सनादिषु ततः प्रवर्त्ततेऽसौ विभक्त्यन्त इति । एवं च कृत्वाऽलुग्विधानमप्युपद्यते । यदि तु तदेवालुग्विधानं ज्ञापकम्, तस्यापत्यमित्यादौ न विभक्त्यर्थमात्रे तात्पर्यम्, किन्तु षष्ठ्यादिविभक्त्यन्ता एवोपलक्षयितुमिष्टाः । ङ्याप्प्रातिपदिकाधिकारस्तु वृद्धादिविशेषण्त्वेनैवोपयुज्यत इति, तथा सति पदविधित्वात्‌ समर्थपरिभाषयैव व्यवस्था सिद्ध्यति । किञ्चि---अनभिधानादसामर्थ्येन भविष्यति, नार्थः समर्थवचनेन ।
इदं तर्हि प्रयोजनम्---यदर्थाभिधानसमर्थं तस्माद्यथास्यात्‌ । किं पुनस्तत्‌ ? कृतवर्णआनुपूर्वीकं पदम्---सौत्थितिः, वैक्षमाणिरिति, अत्र सवर्णदीर्घत्वे कृते प्रत्ययो भवति, सु+उत्थित वि+ईक्षमाण---इत्यस्यामवस्थायां न भवति । यदि स्यात्‌, सावुत्थितिः वायीक्षमाणिरिति प्राप्नोति, `वार्णदाङ्गं बलीयः' इति वृद्धिप्रसङ्गात्‌ । नन्वन्तरङ्गत्वाद्वार्णेषु कृतेषु प्रत्ययो भविष्यति ? एवं तर्ह्येतदर्थं समर्थवचनं कुर्वन्नेतज्ज्ञापयति---अस्तीयं परिभाषा `अकृतव्यूहाः पाणिनीयाः' कृतमपि शास्त्रं निवर्तयन्तीति । व्यूहः=शास्त्रकार्यम्, तदन्तरङ्गत्वात्प्राप्तमपि पश्चादस्य निमित्तविघातो भविष्यतीति बुद्ध्या न कृतं यैस्तेऽकृतव्यूहाः, एवंभूता भवन्ति पाणिनीया इत्यर्थः । कृतमपीत्यत्र वाशब्दोऽध्याहार्यः, कृमपि वा शास्त्रकार्यं निवर्तयन्ति निमित्ताभाव उत्पत्स्यमाने इत्यर्थः । तेन पपुष इत्यादि सिद्धं भवति । अत्रान्तरङ्गत्वात्पूर्वकृतोऽपीडागम एतत्परिभाषावशान्निवर्तते, पूर्वमेव वान क्रियते, ततः शसि सम्प्रसारणे कृते वलादित्वादिडभावः । प्रथमान्तादिति । प्रथमानिर्दिष्टादपत्यविशेषवाचिनो देवदत्तादिशब्दादित्यर्थः । अन्यथा `सास्य देवता' इति यथा इन्द्रो देवतास्य ऐन्द्रः स्थालीपाक इति प्रथमान्तात्‌ षष्ठ्यर्थे प्रत्ययो भवति, एवमिहापि स्यात्‌---देवदत्तोऽपत्यमस्य दैवदत्तिरुपगुरिति ।
वाग्रहणं किमिति । वृत्तिवाक्ययोर्व्यपेक्षैकार्थीभावलक्षणादर्थभेदादेव बाध्यबाधकभावो न भविष्यतीति प्रश्नः । वाक्यमपि यथा स्यादिति । तद्यथा गोशब्देन गावीशब्दो निवर्तते सत्यामपि स्त्रीत्वप्रतिपत्तौ, तथेहाप्यौपगवमानयेत्युक्ते य एवानीयते `उपगोरपत्यमानय' इत्युक्ते स एवेति प्रधानार्थभेदाद्‌ वृत्त्या वाक्यं बाध्येतेति भावः । यद्येवं समासवृत्तिस्तद्धितवृत्त्या बाध्येतेति । `यत्रोत्सर्गापवादौ विभाषा तत्रापवादेन मुक्ते उत्सर्गो न प्रवर्तते' इति राज्ञोऽनन्तरो राजानन्तर इत्यादिषु सावकाशा समासवृत्तिस्तद्धितवृत्त्या बाध्येत, यथा---दाक्षिरित्यण् प्रत्यय इञेति भावः । एतदपीति । समासवृत्त्याख्यं कार्यमित्यर्थः ।।
प्राग्दीव्यतोऽण्‌ ।। 4.1.83 ।।
तेन दीव्यतीति वक्ष्यतीति । यदि तस्येदमनुकरणं प्राग्दीव्यतेरिति वक्तव्यम्, कथं प्राग्दीव्यत इति निर्देशः ? अत आह---तदेकदेश इति । भवति हि समुदायगुणीभूतस्याप्येकदेशस्य पृथक्कृत्यानुकरणम्, यथा---अस्यवामीयमित्यत्रेति भावः । `प्रत्ययः' इत्यादिवदणित्येवाधिकारे सति `अत इञ्‌' इत्यादिनापवादप्रकरणेन विच्छिन्नस्याणः `तेन रक्तं रागात्‌' इत्यादिष्वर्थेषूपस्थानं न स्यात्‌ । तस्मादधिकारपरिमाणख्यापनार्थं प्राग्दीव्यंत इत्युक्तम् । त्रिष्वपि दर्शनेष्वित्यादि । नन्वधिकारपक्षेऽपि प्रतियोगमुपस्थानादत इञ्‌ अण्वेत्यणपि प्राप्नोति, परिभाषापक्षेऽपि प्राग्दीव्यतीयाः प्रकृतयस्ताभ्यः सर्वाभ्योऽण्‌ परिभाष्यमाणः केनापवादविषये न स्यात्‌, एवं विधिपक्षेऽपि सर्वत्र प्रसङ्गः ? एवं मन्यते---यदयं `पीलाया वा' इति सूत्रमारभते, तद्‌ ज्ञापयति---नापवादविषयेऽण्‌ भवतीति; अन्यथा `द्वयचः' इति ढक्‌ सिद्धः, अनेन चाणित्यनर्थकं तत्स्यादिति । `उदश्वितोऽन्यतरस्याम्' इति विकल्पवचनमप्यस्मिन्नर्थे लिङ्गम् ।
वयं तु ब्रूमः---`प्राग्दीव्यतः' इति नेदं दीव्यतीतिशब्दैकदेशस्य दीव्यच्छब्दस्यानुकरणम्, किं तर्हि ? तत्रत्योऽर्थो निर्दिश्यते---दीव्यतोऽर्थात्प्रागिति । तत्र दिवेर्लटि कृतेऽर्थादित्यनेन गम्यमानार्थत्वादप्रयुक्तेनाप्यप्रथमान्तेन सामानाधिकरण्याल्लटः शत्रादेशः कृतः । तत्रावधेरर्थत्वादवधिमन्तोऽप्यर्था एव प्रतीयन्ते, सजातीयविषयत्वेन प्रसिद्धतरत्वादवध्यवधिमद्भावस्य, ततश्च प्राग्दीव्यतो येऽर्थास्तेष्वेवास्य त्रिष्वपि पक्षेषु व्यापारः । तत्र समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानोऽपवादोऽणं बाधत इति सिद्धमिष्टम् ।।
अश्वपत्यादिभ्यश्च ।। 4.1.84 ।।
प्राग्दीव्यतीयेष्विति । `अपपरिबरिरञ्चवः पञ्चम्या' इत्यव्ययीभावाद्भवार्थे `वृद्धाच्छः' । `अव्ययानां भमात्रे' इति टिलोपो न भवति; `लुङ्‌मुखस्वरोपचाराः' इति परिगणनात्‌ । अत एवाव्ययात्तयबपि न भवति, `अमेहक्वतसित्रेभ्यः' इति परिगणनाद्वा । गणपतिशब्दस्यात्र पाठाद्गाणपत्यो मन्त्र इत्यपशब्दः । एतेन क्षैत्रपत्यं व्याक्यातम् । `क्षैत्रपत्यं चरु निर्वपेत्‌' इति तु छान्दसम् । क्षैत्रपत्यं प्राश्नन्तीति, छन्दोवदृषयः कुर्वन्ति ।।
दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः ।। 4.1.85 ।।
पतिशब्दस्योत्तरपदशब्देन बहुव्रीहौ कृते पश्चाद्‌ द्वन्द्वः, न तु द्वन्द्वस्योत्तरपदशब्देन बहुव्रीहिरित्याह---पत्युत्तरपदाच्चेति । एतच्च प्रत्यासत्तेर्व्याख्यानाद्वा लभ्यते । अदितिग्रहणं तु तदुत्तरपदपरिग्रहार्थं स्यात्‌, न ह्यदित्युत्तरपदं दित्युत्तरपदं भवति । पत्यन्तादिति नोक्तम्, बहुच्पूर्वान्मा भूदिति ।
वाडमतिपितृमतामिति । कुर्वादिषु मतिपुतृमच्छब्दयोः पाठोऽपत्यार्थो भाषायामपि ण्यो यथा स्यादिति । अनेन तु छन्दसि सर्वेष्वेव प्राग्दीव्यतीयेषु ण्यविधिः । केचिद्वाक्शब्दमपि तत्रैव पठन्ति, तेन `याना वाच्या एते वत्साः' इति प्रयोगोपपत्तिः ।
यमाच्चेति । यमशब्दोऽपि सूत्रे पठितव्य इत्यर्थः ।
पृथिव्या ञाञाविति । ञाञोः स्त्रियां विशेष इत्याह---पाथिवा, पार्थिवीति ।
स्थाम्न इति । बलवचनोऽयम् । तस्य केवलस्य यद्यप्यपत्येन योगो नास्ति, जातादिना तु योगः सम्भवत्येव । सर्वेषु च प्राग्दीव्यतीयेष्वयं विधिः, तस्मादश्वत्थाम इति भाष्योदाहरणादत्र तदन्तविधिर्भवति । अश्वत्थाम इति । अश्वस्येव्र स्थाम यस्येति बहुव्रीहौ अकारष्टिलोपः, पृषोदरादित्वात्सकारस्य तकारः ।
लोम्नोऽपत्ये बहुष्विति । बाह्वादिष्वयं पठ्यत इतीञि प्राप्ते बहुष्वकारः, केवलस्यापत्येंनायोगात्समर्थ्यात्तदन्तविधिः । उडुलोमा इति । उडूनीव लोमान्यस्य, शरा इव लोमान्यस्येति बहुव्रीहिः । ननु बाह्वादिलक्षणे इञ्यपि कृते तस्य बह्वच इति लुकि सुबन्तादिञुत्पन्न इति प्रत्ययलक्षणेन `सुबन्तं पदम्' इति पदसंज्ञायां नलोपेन सिद्धम् ? सिद्ध्यतु नामेदम् ; उडुलोमेभ्य इत्येवमादौ सुब्विधौ नलोपस्यासिद्धत्वादैसादिर्न स्यात्‌, इञो लुगपि प्राच्यभरतगोत्रादन्यत्र न सिध्यति, न वात्र पदसंज्ञा, `असर्वनामस्थाने' इति निषेधात्‌ । यथा च प्रत्ययलक्षणेन प्राप्तायाः सुबन्तमित्यस्या अपि पदसंज्ञायाः स निषेधस्तथोक्तं पुरस्तात्‌ ।
सर्वत्रेति । नापत्य एव । यद्वा प्राग्दीव्यतीयेऽन्यत्र च, तेन गवा चरतीत्यत्रापि गव्य इति भवति । गोरूप्यमिति । `हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः', `मयड्‌ च' इति रूप्यमयटौ । ण्यादय इति । येन नाप्राप्तिन्यायेनाण एव ण्यादयोऽपवादाः, अमापवादैस्तु ढगादिभिः सह सम्प्रधाराणायां परत्वात्त एव स्युरिति वार्त्तिकारम्भः । अर्थविशेषोऽपत्यादिलक्षणं निमित्तं यस्य सोऽर्थविशेषलक्षणः । यस्तु तस्वेदमित्यर्थसामान्यलक्षणोऽणपवादः स परत्वाद्भवति, उष्ट्रपतिर्नाम पत्त्रं तस्येदमौष्ट्रपतम् `तत्त्राध्वर्युपरिषदश्च' इत्यञ्‌ भवति, न तु ण्यः । दितेरपत्यमिति । अत्र `इतश्चानिञः' इति ढग्न भवति, डौलेय इत्यादावेव तु भवति । वानस्पत्यमिति । अचित्तादिलक्षणष्ठग्न भवति, आपूपिकादावेव तु भवति ।
कथं दैतेय इति । अत्र तर्हीति । गम्यमानत्वान्न प्रयुक्तम् । यदि ण्यादयोऽर्थविशेषलक्षणादणपवादात्पूर्वविप्रतिषेधेन भवन्ति, कथं तर्हि दैतैयः सिध्यतीत्यर्थः । दितिशब्दादित्यादि । ननु `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति ङीषन्तादपि ण्य एव प्राप्नोति ? तत्राह---लिङ्गविशिष्टपरिभाषा चानित्येति । अन्ये तु भाष्वार्त्तिकयोरनुक्तत्वाद्‌ दैतेय इत्यसाधुरिति स्थिताः ।।
उत्सादिभ्योऽञ्‌ ।। 4.1.86 ।।
तदपवादानां चेति । इञादीनाम् । बष्कयास इति । बष्कयशब्दोऽञमुत्पादयति, असे, असमास इत्यर्थः । पूर्वाचार्यसंज्ञेयम्, बाष्कयः । अस इति किम् ? गोबष्कयिः । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेवात्र न भविष्यति ? ज्ञापनार्थं तु । एतज्ज्ञापयति---भवत्यत्र तदन्तविधिरिति । किं सिद्धं भवति ? धेनुशब्दोऽत्र पठ्यते, तदन्तादपि भवति---अधेनूनां समूह आधेनवमिति । उदस्थान देश इति । उदस्थानशब्दोऽञमुत्पादयति देशे वाच्ये---औदस्थानो देशः । देशादन्यत्र यदृच्छया कश्चिदुदस्थानः, तस्यापत्यमौदस्थानिः । पृषदंश इति । पृषच्छब्दोऽञमुत्पादयति अंशे वाच्ये---पार्षतोंऽशः, अंशादन्यत्राणेन भवति । ग्रैष्मी त्रिष्टुबिति । ग्रीष्मो देवता अस्या इत्यशेषार्थविवक्षायामौत्सर्गिकोऽणेव भवति, ग्रीष्मे भवेत्यादिशेषविवक्षायां तु ऋत्वणेव सिद्धम् । न ह्यनेनाञा शैषिकस्याणो बाधप्रसङ्गः, अर्थविशेषलक्षणानामेव प्रत्ययानां ण्यादिभिर्बाधनात् । ऋत्वण् तु शेषमात्रे विधानान्नार्थविशेषलक्षणः, कक्षान्तरप्राप्तश्च । कथम् ? `कालट्ठञ्‌' अणोऽपवादः, त्सयाप्यृत्वण्‌ । छन्दश्चेह वृत्तं गृह्यत इति । यस्य त्रिष्टुबादयो विशेषाः । न वेद इति । तेन वेदविषयेऽपि वृत्तेऽभिधेयेऽञः प्रतिषेधादणेव भवति---ग्रैष्मी त्रिष्टुबिति ।
स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्‌ ।। 4.1.87 ।।
स्त्रीशब्दात्पूंशब्दात्पुंस्शब्दाच्चेति । स्त्र्यधिकारविहितानां टाबादीनां `पुंसि संज्ञायां घः' इत्येतदधिकारविहितानां च प्रत्ययानां ग्रहणं न भवति, स्त्रीपुंस्शब्दयोरस्वरितत्वात्‌ । नापि स्त्रीपुंसार्थग्रहणम्, `स्वं रूपं शब्दस्य' इति वचनात्‌ । पौंस्नमिति । संयोगान्तस्य लोपः' इति पुंस्शब्दसकारस्य लोपः, तत्र कर्त्तव्येऽनुस्वारस्यासिद्धत्वात्सकारस्य संयोगान्तत्वात्‌ । अत एव संयोगान्तलोपप्रसङ्गान्नञेवोभाभ्यां न विधीयते । एवं हि मा भून्नञ्‌, मा च भूत्स्नञ्‌ , अञ्‌ प्रकृतस्तत्रैतावदस्तु स्त्रीपुंसयोर्नुक्येति; तत्रायमप्यर्थः, स्त्रैणी पौस्नी अञ इतीकारः सिद्धो भवति ? नैव शङ्क्यम्; स्त्रैणाः, पौंस्नाः---`यञञोश्च' इति बहुषु लुक्‌ प्राप्नोति । इह च स्त्रैणानां सङ्घः `सङ्घाङ्कलक्षणेष्वञ्यञिञाम्' इत्यण्‌ प्राप्नोति ? नैष दोषः; उभयत्रापि गोत्र इति वर्तते, लौकिकस्य च गोत्रस्य ग्रहणं ऋषिप्रजनं च लोके गोत्रमुपचरन्ति, न च स्त्र्यर्षिणापि पुंशब्दवाच्यं सामान्यम् । `नस्तद्धिते' इति टिलोपस्तर्हि प्राप्नोति ? `प्रकृत्यैकाच्‌' इति प्रकृतिभावो भविष्यति, `इष्ठेमेयस्सु' इति तत्रानुवर्तते । एवं तर्हि नुग्विधानसामर्थ्याट्टिलोपो न भविष्यति ? यं विधि प्रत्युपदेशोऽनर्थकः स विधिबाध्यते, यस्य तु विधेर्निमित्तमेव नासौ बाध्यते, तत्र टिलोपार्थमेव नुग्विधानं स्यात्‌ । स्त्रीशूब्दस्यापि नुगेव लोपस्य निमित्तम्, अन्यथा यस्येति लोपात्परत्वाद्‌ वृद्धिः स्यात्‌, यथा---श्रीर्देवता अस्य श्रायं हविरिति । तस्माद्यथान्यासमेवास्तु ।
योगापेक्षं चेति । स्त्रीपुंसाभ्यामित्ययं योगो वत्यर्थे न प्रवर्तत इत्येवं ज्ञापनशरीरम्, न तु स्नञ्‌ वत्यर्थे न प्रवर्तत इतियर्थः । कथं स्त्रीत्वं स्त्रीता पुंस्त्वं पुंस्ता चेति ? `आ च त्वात्‌' इत्यत्र परिहारो भविष्यति ।।
द्विगोर्लुगनपत्ये ।। 4.1.88 ।।
द्विगोरिति षष्ठीति । आनन्तर्यलक्षणायां तु पञ्चम्यां पञ्चकपालस्य पुरोडाशस्येदम् `तस्येदम्' इत्यण्‌, पाञ्चकपालमित्यत्रापि प्राप्नोतीति भावः । षष्ठ्यपि यद्यानन्तर्ययोगे स्यात्स एव दोषो यः पञ्चम्याम्, ततश्च षष्ठ्याश्रयणमनर्थकं स्यादिति मत्वाऽऽह---द्विगोर्यः सम्बन्धी निमित्तत्वेनेति । यस्य तद्धितस्यार्थे `तद्धितार्थोत्तरपद' इति द्विगुविहितः स निमित्तत्वेन सम्बन्धी । पञ्चकपाल इति । `संस्कृतं भक्षाः' इत्यत्रार्थे विवक्षिते द्विगुः, अम्‌, तस्य लुक्‌ । द्विवेद इति । `तदधीते तद्वेद' इत्यत्रार्थे द्विगुः ।
द्वैदेवदत्तिरिति । द्वयोर्देवदत्तयोरपत्यम्, `अत इञ्‌', अपतनादपत्यम्, यस्य पित्रादिषु द्वौ देवदत्तसंज्ञकौ स एवमुच्यते, एकस्य वा दत्तपुत्रोऽन्यस्य साक्षात्पुत्रः ।
द्विगुनिमित्तविज्ञानादिति । द्विगुनिमित्तस्य प्रत्ययस्य लुग्विधानादित्यर्थः । पञ्चकपालस्येदमिति । अत्र संस्कृतार्थे यः प्रथममुत्पन्नः प्रत्ययः स एव---द्विगोर्निमित्तं न द्वितीय इति तस्य लुग्न भवति । अथ वैत्यादि । पूर्वं लुगित्यनेनोपस्थापतिस्य प्रत्ययस्य द्विगोरित्यनेन वैयधिकरण्यमाश्रित्य व्याख्यातम्, इदानीं सामानाधिकरण्यमित्येष विशेषः । कथं पुनद्विगोरेव लुग्‌ लभ्यत इत्याह---द्विगोरिति स्थानषष्ठीति ।
ननु चेत्यादि । `प्रत्ययस्य लुक्श्लुलुपः' इति प्रत्ययादर्शनस्य लुगादयः संज्ञा विहिताः, ततश्च द्विगोर्लुगिति नैव समञ्जसमिति भावः । उपचारेण त्वित्यादि । अतस्मिंस्तद्रूपारोपः=उपचारः, परत्र परशब्दप्रयोगः=लक्षणा, उपचारेण निमित्तेन या लक्षणा तयेत्यर्थः । अन्ये तूपचारेणेत्यस्य विवरणं लक्षणयेत्येतदित्याहुः । अद्विगुरूपस्तद्धितो द्विगुरूपतया यथा बुद्ध्या विवक्ष्यते सा लक्षणा उपचार एवेति । उपचारस्य निबन्धनं द्विगुनिमित्तत्वम् । भवति हि कारणे कार्योपचारः---आयुर्घृतमिति यथा । द्विगुनिमित्तकोऽपि तर्हीत्यादि । कार्येऽपि कारणवदुपचारो दृश्यते, यथा---पुरातनं कर्म भुज्यत इति, ततश्च द्विगुर्यस्य प्रत्ययस्य निमित्तं सोऽपि गुणकल्पनया गुणशब्देनोपचारस्य निमित्तभूतो धर्मो विवक्षितः, तन्निमित्ता कल्पना गुणकल्पना, मा पुनरुपचांरात्मिका बुद्धिः, तया कस्मान्न द्विगुरित्यच्यते ? अर्हत्येवायमेवंविधं वचनमित्यर्थः । परिहरति---न तस्येति । तत्र हि सन्निहितमपि द्विगुत्वं प्रत्ययोत्पत्तौ नोपयुज्यते, न ह्यसौ द्विगोरित्येवं विधीयते, किं तर्हि ? प्रातिपदिकादित्येवमित्यर्थः । इतरस्त्विति । प्रत्ययः, यस्य लुग्दर्शितः । द्विगुत्वस्यैव निमित्तमिति । तदर्थे हि समासो विधीयते, तस्यैव च द्विगुसंज्ञा, तेनासौ द्विगुत्वस्यैव निमित्तम् ।
यद्येवमित्यादि । उभयोरपि पक्षयोरेतच्चोद्यम् । न ह्यत्र द्विगोर्निमित्तत्वेन सम्बन्धी तद्धितः, नापि द्विगुनिमित्तत्वादु पचारेण तद्व्यपदेशार्हः, अत्र हि समाहारे द्विगौ निष्पन्ने पश्चात्तद्धित उत्पद्यते, स च द्विगोर्निमित्तं न भवतीति चोद्यार्थः । परिहरति---नैवात्र तद्धित उत्पद्यत इति । अनभिधानादिति भावः । यदि नोत्पद्यते, कथमस्मिन्नर्थे पञ्चकपाल इति रूपसिद्धिस्तस्मादुत्पद्यत एवात्र तद्धितः, तस्य च लुग्विधेयः ? इत्यत आह---त्रैशब्द्यं हीति । त्रय एव शब्दास्त्रैशद्ब्यम्=चातुर्वर्ण्यादिः । इह ह्यस्माभिस्त्रैशद्ब्यं साध्यम्, तच्च पञ्चकपालीशब्दात्तद्धितोत्पत्तिमन्तरेणापि सिद्ध्यतीति नास्मात्तद्धित उत्पद्यते । तानेव त्रीन्‌ शब्दान्दर्शयति---पञ्चसु कपालोष्विति । द्वयोः शब्दयोरिति । यः समाहारे द्विगुः, यश्च तद्धितार्थे, द्वावपि तौ समानार्थौ, तयोरेकेन पूर्वेण विग्रहः । अवधारणमत्र द्रष्टव्यं विग्रह एव, न तद्धितोत्पत्तिः; अनभिधानात्‌ । अपरस्मात्‌ पञ्चकपालादुत्पत्तिः । सोऽयमव्यविकन्याय उच्यते, तद्यथा अवेर्मांसमित्यविशब्देन विग्रह एव, अविकशब्दादुत्पत्तिर्विग्रहश्च आविकमविकस्य मांसमिति ।
सा च व्यवस्थितविभाषेति । एवं कृत्वा त्रैविद्यः, पाञ्चनदम्, षाट्‌कुल इत्यत्रापि लुग्न भवति । अथ वा---त्र्यवयवा विद्या त्रिविद्या, शाकपार्थिवादिः, तामधीते त्रैविद्यः, विद्यात्रयरूपस्य च समुदायस्य विद्यात्वं विवक्षितमित्यर्थभेदाभावः । पञ्चानां नदीनां समाहारः पञ्चनदम्, `नदीभिश्च' इत्यव्ययीभावः `गोदावर्याश्च नद्याश्च' इत्यच्समासान्तः, पञ्चनदे भवः पाञ्चनदः । अथ वा---अभिधाने हि सति समाहारद्विगोरपि भवत्येव तद्धितः । तथा षण्णामादिपुरुषाणां कुलानि तत्र भवः षाट्‌कुलः । अव्यविकन्यायाच्च तिस्रो विद्या अधीते, पञ्चसु नदीषु भवः, षट्‌सुकुलेषु भव इति विग्रह एव; न द्विगुः, नापि तद्धितः ।।
गोत्रेऽलुगचि ।। 4.1.89 ।।
पूर्वत्रोत्तरत्र च लुग्विधानादिह नञ्‌ प्रश्लिष्यते । यस्कादिभ्यो गोत्र इत्यादिनेति । `प्राग्दीव्यतः' इत्युपजीवनाय तु प्रकरणोत्कर्षः, प्रसज्यप्रतिषेधश्चायम् । अचीति । यद्येषा परसप्तमी स्याच्छविधावितरेतराश्रयं प्राप्नोति---गार्गीया वात्सीया इतिच्छे परतोऽलुका भवितव्यम्, अलुकि च सति वृद्धत्वाच्छेन भवितव्यमिति । ननु च छे परतोऽलुग्विधीयते, किं तर्हि ? `अजादिमात्रे, तत्र य एवाजादिः सम्भवति तत्रैवालुग्भविष्यति, तद्यथा---गर्गाणां छात्त्राः, `प्राग्दीव्यतोऽण्‌', तत्र परतः `यञञोश्च' इति प्राप्तस्य लुकः प्रतिषेधे गर्गा इति भवति । यद्यप्यत्र सत्यसति वा लुकि नास्तिविशेषः, `आपत्यस्य च तद्धिते' इति यलोपविधानात्‌ । इह त्वत्त्रेरपत्यानि बहूनि `इतश्चानिञः' इति ढकः `अत्त्रिभृगु' इति लुकि कृतेऽत्त्रीणां छात्त्रा इत्यणि परतः प्रतिषेधे सति आत्त्रेया इति भवति, असति तु प्रतिषेधे आत्त्रा इति स्यात्‌ ? स्यादेतदेवं यदि लुप्तस्य प्रत्ययस्य पुनः प्रादुर्भावो विधीयतेत, इह त्वलुगिति वचनाल्लुकः प्रतिषेधो विधेयः, प्राप्तस्य चानभिनिर्वृस्य प्रतिषेधेन निवृत्तिः शक्यते कर्तुम्, ततश्च यद्यत्राणजादिरभिप्रेतः स्यात्‌, प्रागेव लुकः प्रवृत्तिरभ्युपगन्तव्या; अन्यथा वृद्धत्वाच्छ एव स्यात्‌, लुक चेत्प्रवृत्तः प्रतिषेधः किं करिष्यति ! यो हि भुक्तवन्तं प्रति ब्रूयान्मा भुङ्‌क्था इति, किं तेन कृतं स्यात्‌ ! तदिहाजादौ प्रवृत्तेऽलुका भवितव्यम्, अलुकि च प्रवृत्तेऽजादिना भवितव्यमिति व्यक्तमितरेतराश्रयम् । विप्रतिषेधात्सिद्धम्, लुकोऽवकाशो यत्र प्राग्दीव्यतीयार्थो न विवक्ष्यते---गर्गा वत्सा इति, छस्यावकाशः---शालीय इति; गर्गाय इत्यत्रोभयप्रसङ्गे परत्वाच्छो भविष्यति । तत्र परतो लुकः प्रतिषेधः, अन्तरङ्गो लुग्‌ अपत्यबहुत्वमात्रापेक्षत्वात्‌, बहिरङ्गश्छः प्राग्दीव्यतीयार्थापेक्षित्वात्‌, अन्तरङ्गबहिरङ्गयोश्चायुक्तो विप्रतिषेधः । एवं तर्ह्युच्यते चेदमजादौ परतो लुग्भवतीति, यदि च तावत्येव निमित्तमस्तीति बहुत्वमात्रापेक्षो लुक्‌ प्रवर्तेत प्रतिषेधविधानमनर्थकं स्यादिति यावत्प्राग्दीव्यतीयोऽजादिर्नोत्पद्यते तावल्लुग्‌ न प्रवर्तत इति कल्प्यते, ततश्च वृद्धत्वाच्छे सति लुकि प्रतिषिद्धे गर्गीय इति सिद्धमिष्टम् । विषयसप्तम्यां तु न किञ्चिद्यत्नसाध्यम्, गर्गाणां छात्त्रा इत्यर्थविवक्षायामजादौ प्रत्यये विवक्षिते बुद्धिस्थेऽनुत्पन्न एव लुकि प्रतिषिद्धे वृद्धत्वाच्छो भवतीति, तस्माद्विषयसप्तमीमाश्रित्याह---प्राग्दीव्यतीये प्रत्यये विषयभूत इति । खारपायणीया इति । खरपस्यापत्यानि बहूनि `नडादिभ्यः फक्‌', `यस्कादिभ्यो गोत्रे' इति प्राप्तस्य लुकः प्रतिषेधः ।
कौबलम्, बादरमिति । कुबली-बदरीशब्दौ गोरादिङीषन्तावन्तोदात्तौ, ताभ्यां फले विकारे `अनुदात्तादेश्च' इत्यञ्‌, तस्य `फले लुक्‌' इति प्राप्तस्य लुकः तस्येदमित्यर्थविवक्षायां प्रतिषेधो न भवति, तेनावृद्धत्वादणेन भवति । गर्गरूप्यमिति । यद्यत्रालुक्‌ स्याद्‌, सार्ग्यरूप्यमिति स्यात्‌ ।
गार्गीयमिति । `तस्मै हितम्' इति प्राक्क्रीताच्छः ।
विषयसप्तम्या एव फलं दर्शयति---गोत्रस्येत्यादि । गोत्रस्येति गोत्रप्रत्ययस्येत्यर्थः । वहुषु लोपिन इति । बहुष्वर्थेषु विधीयमानलोपस्येत्यर्थः । बहुवचनान्तस्य प्रंवृत्ताविति । प्रवृत्तिः=अर्थान्तरसंक्रान्तिः, बहुवचनान्तस्य सतोऽर्थान्तरसंक्रान्तौ सत्यामित्यर्थः । द्व्येकयोरिति । यत्रार्थान्तरे संक्रान्तस्य द्वित्वैकत्वयोः सतोरित्यर्थः । सा चार्थान्तरसंक्रान्तिस्तदन्ताद्यदा यनि प्रत्यय उत्पद्यते तस्य च लुक्‌ क्रियते तदा भवति लुप्ते हि युवप्रत्यये प्रकृतिरेव तदर्थमाहेति भवति संक्रान्तिः । बिदानामिति । बदस्यापत्यानि बहूनि, `अनृष्यानन्तर्ये बिदादिभ्योऽञ्‌', बिदाः, तेषां बिधानामपत्यं युवा युवानौ वेति विवक्षायाम् `अतः' इति इञि विवक्षिते गोत्रप्रत्ययस्याञो लुकः प्राप्तस्यानेन प्रतिषेधः । इञः `ण्यक्षत्त्रियार्ष' इति लुकि बैदः, बैदाविति भवति । परसप्तमीपक्षे त्वलुग्न प्राप्नोति; अजादेरभावात्‌ ।
इदमिह सम्प्रधार्यम्---इञो लुक्‌ क्रियतामयं वाऽलुगिति ? परत्वादलुग्भवति । इञो लुग्नित्यः, कृतेऽप्यस्मिन्नलुकि प्राप्नोति अकृतेऽपि, अयं पुनरलुगनित्यः, न हीञो लुकि कृते प्राप्नोति; अजादेरभावात्‌ ? प्रत्ययलक्षणेन भविष्यति । वर्णाश्रये नास्ति प्रत्ययलक्षणम् ? नात्र वर्णो निमित्तम्, किं तहि ? प्रत्ययः, तस्यैव तु विशेषणमचीति । तत्र यथा हलादौ पिति सार्वधातुके विधीयमानः `तृणह इम्' अतृणेडित्यत्रापि भवति प्रत्ययलक्षणेन तद्वदिहापि भविष्यति ? सत्यम्; विषयसप्तमीपक्षे नैवं क्लेशोऽनुभवनीयो भवति । ननूभयोरपि पक्षयोरिहापि न प्राप्नोति---बिदानामपत्यं बहवो माणवका बिदा इति ? नैष दोषः; द्वे अत्र बहुत्वे---युवबहुत्वं गोत्रबहुत्वं च, तत्र गोत्रबहुत्वाश्रयस्य लुकः प्रतिषेधोऽस्तु पुनर्युवबहुत्वाश्रयो लुग्भविष्यति । लुग्विधौ हि लौकिकस्य गोत्रस्य ग्रहणम्, युवापि च लोके गोत्रमित्युपचर्यते---गार्ग्यायणोऽस्मि गोत्रेणेति ।
अथ युवबहुत्वाश्रयस्यापि लुकः पुनः प्रतिषेधः कस्मान्न भवति ? विषयसप्तम्यां तावद्‌ यस्यामवस्थायां लुक्‌ प्राप्तः तस्यामवस्थायां यदि कश्चिदजादिर्विषयभूतस्ततोऽलुका भवितव्यम्, इह चाजादिर्विषयभूत उत्पन्नो लुप्तश्च, पश्चाद्युवसु बहुषु संक्रान्तौ सत्यां लुक्‌ प्राप्तः, न चास्यामवस्थायां कश्चिदजादिविषयभूत इति पुनर्लुग्न भविष्यति । परसप्तम्यामपि गोत्रे वर्तमानस्या लुग्भवत्यजादौ परतः । कस्मिन्नजादौ ? प्राग्दीव्यतो येऽर्थास्तेषु योऽजादिस्तस्मिन्नित्युच्यमाने यस्मिन्‌ गोत्रे वर्तमानस्य लुक्‌ प्राप्तस्तद्व्यतिरिक्ते प्राग्दीव्यतीयेऽर्थे योऽजादिस्तत्रेति गम्यते । इह चेञेवाजादिस्तदर्थ एव च गोत्रे लुगिति प्रतिषेधो न भविष्यति ।
यद्वा---`समर्थानां प्रथमात्‌' इत्यतः प्रथमादिति वर्तते, तच्च षष्ठ्यन्तं विपरिणम्यते, प्रथमार्थवृत्तित्वाच्च प्राथम्यमाश्रीयते, तदयमर्थो भवति---प्रथमस्य गोत्रप्रत्ययस्य लुग्न भवति, यस्मिन्नर्थे प्रत्यय उत्पन्नस्तत्रैवार्थे वर्तमानस्य यो लुक्‌ प्राप्तः स न भवति । इह तु द्वितीयमर्थमुपसंक्रान्तस्य लुक्‌ प्राप्त इति न प्रतिषिध्यते । अवश्यं चैतदेवं विज्ञेयम्---प्रथमस्य लुक्‌ प्रतिषिध्यत इति, अन्यथा अत्त्रेरपत्यम् `इतश्चानिञः' इति ढक्‌, तस्यापत्यं बहवो युवानः, अत इञः `ण्यक्षत्त्रियार्ष' इति लुक्‌, ढकः `अत्रिभृगु' इति लुक्‌, अत्त्रयः; भरद्वाजशब्दाद्विदाद्यञ्‌, तदन्ताद्युवबहुत्वे इञो लुक्‌, अञः `यञञोश्च' इति लुक्‌, अत्त्रयश्च भरद्वाजाश्च अत्त्रिभरद्वाजास्तेषां मैथुनिकाद्‌ द्वन्द्वाद्‌ वुन्‌---अत्त्रिभरद्वाजिका, तत्रालुक्‌ प्राप्नोति; कुत्सादृष्यणः `अत्त्रिभृगु' इति लुक्‌, कुशकादञन्तादिञो लुकि कुशिकाः, कुत्सकुशिकिकाः, वसिष्ठकश्यपिकाः, भृग्वङ्गिरसिकाः । अय वा--गोपवनादिषु गर्घभार्गविकाशब्दः पठ्यते, भार्गवशब्दस्य युवबहुत्वे प्राप्तस्य लुकः प्रतिषेधार्थं तन्नियमार्थं भविष्यति---एतस्यैव द्वितीयमर्थमुपसंक्रान्तस्यालुग्भवतीति । नैव वा पुनरत्र युवबहुत्वे वर्तमानस्यालुक्प्राप्नोति, किं कारणम् ? गोत्र इत्युच्यते, यद्यप्यपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यते, इह तु पारिभाषिकस्य ग्रहणम्, युवशब्दसाहचर्यात्‌ ; अन्यथा गोत्रयुवसंज्ञयोः समावेशे योऽयं दोषो वक्ष्यते---शालङ्केरपत्यं `यञिञोश्च' इति फक्‌, तस्य `पैलादिभ्यश्च' इति लुक्‌, शालङ्केर्यूनश्छात्रा इत्यर्थविवक्षायाम् `गोत्रेऽलुगचि' इत्यलुक्‌ प्राप्नोति, ततश्च `यूनि लुक्‌' इत्यस्य `फक्फिञोरन्यतरस्याम्' इति विकल्पितत्वात्पक्षे फकः श्रवणं प्राप्नोतीति स तदवस्थ एव स्यात्‌, असमावेशेऽपि यूनो लौकिकगोत्रत्वादेवालुक्प्रसङ्गात्‌ । तदेवं गोत्रस्य बहुषु लोपिन इत्यादि न वक्तव्यमिति स्थितम् ।
एकवचनद्विवचननान्तस्येत्यादि । एकवचनान्तस्य गोत्रप्रत्ययस्य द्विवचनान्तस्य वा बहुष्वर्थेषु युवसंज्ञकेषु प्रवृतौ संक्रान्तौ सत्यामित्यर्थः । लोप इति । लुगित्यर्थः । लोपे हि प्रत्ययलक्षणेन वृद्धिस्वरप्रसङ्गः । ननु च युवबहुत्वाश्रयो `यञञोश्च' इत्येवात्र लुक्‌ सिद्धस्तत्राह---न ह्यत्राञ्बहुषूत्पन्न इति । अञ्यो बहुषु, यञ्यो बहुष्विति विज्ञायमाने लुग्न सिध्यतीत्यर्थः । यदा त्वञन्तं यद्वहुषु, यञन्तं यद्वहुष्विति विज्ञायते; तदाञन्तस्य बहुषु युवसु वृत्तेर्लौकिकस्य च गोत्रस्यापत्यमात्रस्य तत्र ग्रहणात्सिद्ध एव लुक्‌ । तथा च---गार्ग्यश्च वात्स्यश्च वाज्यश्च गर्गवत्सवाजाः, बैदश्च और्वश्च भारद्वाजाश्च बिदौर्वभारद्वाजा इति यञञोरुत्पत्तिवेलायामबहुत्वेऽपि द्वन्द्वे युगपधिकरणवचनतया यञन्तस्याञन्तस्य बहुत्वोपजनाल्लुग्भवति । न चैवं काश्यपस्यैकस्य बह्व्यः प्रतिकृतयः काश्यपा इति `इवे प्रतिकृतौ' इति विहितस्य कनः `जीविकार्थे चापण्ये' इति लुप्‌, `हरीतक्यादिषु व्यक्तिः' इति वचनाद्‌ युक्तवद्वचनाभावेऽञन्तस्य बहुषु वृत्तेर्लुक्प्रसङ्गः; गोत्रबहुत्वे लुग्विधानात्‌ ।।
यूनि लुक्‌ ।। 4.1.90 ।।
अत्रापि यद्यचीति परसप्तमी स्यात्‌, प्रत्ययस्य यथेष्टप्रसङ्गः । युवप्रत्यये श्रूयमाणे यः प्राप्नोति स तावत्कत्तव्यः, तत्र कृते युवप्रत्ययस्य लुकि तस्य श्रवणं प्राप्नोति, विषयसप्तम्यां त्वजादौ विषयभूत एव युवप्रत्यये लुप्ते यो यतः प्राप्नोति ततः स स भवतीति सिद्धमिष्टम् । एतच्चोदाहरणेषु व्यक्तीकरिष्यते, तदेतदाह---अजादौ प्रत्यये विवक्षित इत्यादि । इञश्चेत्यण्‌ भवतीति । परससप्तम्यां तु वृद्धाच्छ एव स्यात्‌ ।
फेश्छ चेति । `यमुन्दश्च सुयामा च वार्ष्यायणिः फिञः स्मृताः' इति परिगणनं भाष्यकारेण नाश्रितम्, तेन तैकायनेरपिच्छो भवति । तैकायनीया इति । अत्र परसप्तम्यामप्यदोषः, `ण्यक्षत्त्रियार्षञितः' इत्यत्र तु वृत्तिकारेणाणो लुगुदाहृतः---तैकायनिः पिता तैकायनिः पुत्त्र इति, स परिगणनाश्रयेण द्रष्टव्यः, तदा च तैकायनीया इत्यनुदाहरणम् ।
कापिञ्जलादा इति । अत्रापि परसप्तम्यां वृद्धाच्छः स्यात्‌ । एवं ग्लौचुकायना इत्यत्रापि द्रष्टव्यम् । इह तु औपगवेर्यूनश्छात्त्रा इञो लुकि वृद्धाच्छो भवति, परसप्तम्याम्, `इञश्च' इत्यण्स्यात्‌ । नैतदस्य योगस्योदाहरणम्, कथम् ? `इञश्च' इत्यत्र `गोत्रे' इति वर्तते, तेनेञं विशेषयिष्यामः---गोत्रे य इञ्‌ विहित इति पारिभाषिकं च गोत्रं गृह्यते, कथम् ? `कण्वादिभ्यो गोत्रे' इत्यत्र तावद्‌ `गोत्रेकुञ्जादिभ्यः' इत्यस्य गोत्रस्यानुवादः---कण्वादिभ्यो गोत्रे यः प्रत्ययो विहितस्तदन्तादण्‌ भवतीति, तत्र च पारिभाषिकं गृह्यते तस्यैव चानुवादः, तदेव च `इञश्च' इत्यत्राप्यनुवर्तते, तत्कुतो युवप्रत्ययान्तादणः प्रसङ्गः ! अवश्यं चैतदेवं विज्ञेयम्, अन्यथा लुप्तेऽपीञि प्रत्ययलक्षणेनाण्‌ स्यादेव ।
इमानि तर्ह्यत्रोदाहरणानि---यत्खच्छान्ताः । यत्‌---`राजश्वशुराद्यत्', श्वशुरस्यापत्यं श्वसुर्यः, तस्यापत्यं श्वाशुरिस्तस्य छात्त्रा इति लुकि `प्राग्दीव्यतोऽण्‌' भवति श्वाशुरः, अन्यथा `वृद्धाच्छः' स्यात्‌ ; `कुलात्खः' कुलीनः, तस्यापत्यं कौलीनिः, तस्य छात्त्राः, इञो लुकि कौलीनः; `स्वसुश्छः', स्वस्रीयः, तस्यापत्यं स्वास्रीयिः, तस्य छात्त्रा इञो लुकि स्वस्रीयाः ? नैतान्युदाहरणानि; `अब्राह्मणाद्‌ गोत्रमात्राद्युवप्रत्ययस्योपसङ्ख्यानम्' इतीञो लुकि कृते श्वशुर्यः पिता श्वशुर्यः पुत्रः, कुलीनः पिता कुलीनः पुत्रः, स्वस्रीयः पिता स्वस्रीयः पुत्र इति भवितव्यम् । न च ब्राह्मणगोत्रे कश्चिदवृद्धिनिमित्तः प्रत्ययः सम्भवति, यत इञि कृते छः प्राप्नोति; वृद्धिनिमित्ते तु गोत्रप्रत्यये नास्ति विशेषः, यतः श्रूयमाणोऽपीञि छेन भवितव्यम् । लुप्तेऽपि तस्मिन्‌ गोत्रप्रत्ययान्तस्यापि वृद्धत्वाच्छेन भवितव्यम्, तद्यथा---औपगवीया इति । तदेवमिञ उदाहरणं न सम्भवतीति स्थितम् ।
यदि तु पूर्वसूत्रे लौकिकस्य गोत्रस्य ग्रहणं तदा स्यादेवेञ उदाहरणम् । तथा हिश्वशुर्यादिभ्य उत्पन्नस्येञः, सत्यप्यौपसङ्ख्यानिके लुकि तस्य प्राग्दीव्यतीयविवक्षायाम् `गोत्रेऽलुगचि' इति प्रतिषेधेन पुनः प्रादुर्भावादिञाश्रयः `वृद्धाच्छः' स्यात्‌, यदि तस्य `यूनि लुक्' इति लुग्न क्रियेत । अतोऽस्मादिञ उदाहरणत्वप्रतिषेधायप्यवसीयते---पारिभाषिकं गोत्रं पूर्वसूत्रे भाष्यकारस्याभिमतमिति ।
किमर्थं पुनरिदमुच्यते, यावता यूनोऽपिगोत्ररूपे विवक्षिते गोत्रप्रत्ययेनाभिधानात्तन्निबन्धन एव प्रत्ययो भविष्यति, अर्थप्रकरणादिना च युवविशेषसिद्धिः, अवश्यं चार्थप्रकरणादिनैव विशेषोऽवसातव्यः, आरब्धेऽपियस्मिन्सूत्रे शब्दस्य साधारणत्वात्‌ । न हि ज्ञायते---किं भागवित्तेश्छात्त्रा भागवित्ताः ? आहोस्विद्भागवित्तिकस्येति ? यदा तर्हि विशेषविवक्षा, तदापि भागवित्ता इत्येव यथा स्याद्‌, भागवित्तिकीया इति जातुचिन्मा भूदित्येवमर्थमिदम् ।।
फिक्फञोरन्यतरस्याम् ।। 4.1.91 ।।
किमर्थमिदम्, यावता युवरूपविवक्षायां गार्ग्यायणीय इति, गोत्ररूपविवक्षायां च गार्गीया इति शब्दस्य साधारणत्वात्‌ ? इत्यत आह---पूर्वसूत्रेणेति । `यूनि लुक्‌' इत्येतदारम्भणीयमित्युक्तम्, तस्मिश्चारभ्यमाणे यदीदं नोच्येत, फक्फिञोरपि नित्यमेव लुक्‌ स्यात्‌, ततश्च गार्ग्यायणीया इति न स्यात्‌ । तस्मादिदमप्यारम्भणीयमित्यर्थः ।।
तस्यापत्यम् ।। 4.1.92 ।।
अर्थनिर्देशोऽयमिति । प्रकृत्यर्थविशिष्टः षष्ठ्यर्थोऽपत्यरूपः प्रत्ययार्थोऽनेन निर्दिश्यत इत्यर्थः । तेन समर्थविभक्तेरपि षष्ठ्या निर्देशो दर्शित एव । पूर्वैरुत्तरैश्चेति । पूर्वैस्तावदणादिभिः सम्बद्ध्यते; असंयुक्तविधानात्‌, अन्यथा `तस्यापत्यमत इञ्‌' इत्येकं योगमेव कुर्यात्‌, यतस्त्वसंयुक्तं करोति, ततो ज्ञायते---पूर्वैः सम्बध्यत इति । उत्तरैरपि सम्बध्यते; स्वरितत्वात्साकांक्षत्वाच्चतेषाम् । तस्येति षष्ठीसमर्थादिति । तस्येति सामान्यं षष्ठ्यन्तविशेषोपलक्षणार्थम्, `समर्थानाम्' इति च निर्द्धारणे षष्ठी । तत्र तुल्यजातीयस्य निर्द्धारणादयमर्थः सम्पद्यते---षष्ठ्यन्तात्समर्थादिति । अपत्यमित्येतस्मिन्नर्थ इति । प्रथमान्तस्यापत्यशब्दस्यान्यथासम्बन्धानुपपत्तेरयमध्याहारो लब्धः । यथाविहितमिति । `यथार्थे यदव्ययम्' इति वीप्सायामव्ययीभावः । `प्राग्दीव्यतोऽण्‌' इत्यादिभिर्यो यतो विहितः स तस्मादित्यर्थः । इह `तस्य' इति पुंनपुंसकयोरन्यतरेणायं निर्देशः क्रियते, एकवचनान्तेन च, तेन लिङ्गान्तराद्वचनान्तराच्च न स्यात्‌---सुमातुरपत्यं सोमात्रः, क्षत्त्रस्यापत्यं क्षात्त्रिः, उपगोरपत्यमौपगव इति । अपत्यमिति चैकवचनेन नपुंसकेन च निर्देशः क्रियते, तेनैकस्मिन्नेवापत्ये स्यात्‌, न द्वयोः, नापि बहुषु, नपुंसक एव स्यात्, न स्त्रीपुंसयोरित्याशङ्क्याह--प्रकृत्यर्थेत्यादि । प्रकृत्यर्थ उपग्वादिर्विशेषः; तस्येत्यस्य विशेषोपलक्षणार्थत्वात्‌ । अपत्यमात्रं चेति । मात्रशब्दोऽयं लिङ्गवचनयोर्व्यवच्छेदाय । लिङ्गवचनादिकमिति । आदिशब्देन कालस्य ग्रहणम्; अत्र हि वर्तमानकालेन निर्देशोऽस्तीति प्रतीतेः, यथोक्तम्---यत्रान्यत्क्रियापदं नास्ति तत्रास्तिर्भवतिपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति गम्यत इति । ततश्च तस्य कालस्य विवक्षायतं कालान्तरे न स्यात्‌ । सर्वमविवक्षितमिति । नान्तरीयकत्वादुपादानस्यावश्यं हि केनचिल्लिङ्गादिना निर्देशः कर्तव्यः ।
तस्येदमित्यपत्येऽपीति । अणादीनां विधानं सिद्धमिति शेषः । तस्येदंविशेषा ह्यपत्यसमूहविकारादयः; सम्बन्धसामान्येऽपि सर्वविशेषान्तर्भावात्‌, ततश्च `तस्येदम्' इत्यनेनैवापत्येऽप्यणादीनां विधानं सिद्धम्, तत्किं योगविभागेनापत्येऽणादयो विधीयन्ते, न `तस्यापत्यमत इञ्‌' इत्यपवादैः संयुक्त एवापत्यार्थो निर्दिश्यते इति चोद्यार्थं परिहरति---बाधनार्थं कृतं भवेदिति । `तस्येदम्' इत्यनेन विधीयमानानामणादीनां यो बाधकश्छः, तस्य बाधनार्थमपत्येऽणादीनां विधानं कृतं भवेदित्यर्थः । ननु शैषिकश्छः, अपत्यादिचतुर्थपर्यन्तेभ्यो योऽन्योऽर्थः स शेषः, तत्कथमपत्ये छस्य प्रसङ्गो येन तद्वाधनार्थमिदम् ? इत्याह---उत्सर्गः शेषं एवासविति । यदि योगविभागमकृत्वा `तस्यापत्यमत इञ्‌' इत्युच्येत तदा प्रकृतिविशेषसम्बद्धस्यैवापत्यार्थस्योपयोगः, अतोऽन्योऽपत्यार्थः शेष एव स्यादिति स्यादेव वृद्धादपत्ये छः । योगविभागे तु---अपत्यार्थस्याणादिविधावुपयोगाच्छेषत्वाभावाच्छस्याप्राप्तिरेव, सैवात्राप्राप्तिर्बाधेत्युच्यते । उत्सर्ग इति प्रकृतिसामान्यसम्बद्धः सामान्यभूतोऽपत्यर्थ उक्तः । बाधनार्थस्योदाहरणमाह--वृद्धान्यस्य प्रयोजनमिति । श्यामगव इति । श्यामा गावोऽस्य श्यामगुरिति ।।
एको गोत्रे ।। 4.1.93 ।।
एकशब्दोऽयमन्यप्रधानासहायसङ्ख्याप्रथमसमानसाधारणवाची, अन्यार्थे तावद्‌---`एकान्याभ्यां समर्थाभ्याम्', `प्रजामेका रक्षत्यूर्जमेका', `एकान्‌ बन्धुरपरान्निरासुः', `इत्येके मन्यन्ते', `यजुष्येकेषाम्' इति; केचित्त्वनयोः प्रयोगयोः केचिच्छब्दपर्याय एकशब्द इत्याहुः । `एकः पार्थो धनुष्मताम्' इति प्रधानार्थे । `आद्यन्तवदेकस्मिन्', `एकहलादौ', `एकहल्मध्ये' इत्यसहायार्थे । `एको द्वौ बहवः' इति सङ्ख्यार्थे । `एकेऽल्पप्राणः ।' इति प्रथमार्थे । `तेनैकदिक्‌' इति समानार्थे । `देवदत्तयज्ञदत्तावेकधनौ' इति साधारणार्थे । तत्र सङ्ख्यावचनः साधारणवचनः, प्रथमवचनो वा गृह्यते; अर्थान्तराणामसम्भवात् । गोत्रं पारिभाषिकम्; कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययात्‌, अपत्याधिकारे गोत्रग्रहणाच्च ।
किमर्थमिदमुच्यते, पौत्त्रप्रभृतावपत्ये विवक्षिते मूलप्रकृतेरुपरवादेरेव प्रत्ययो यथा स्याद्‌, औपगवादेः प्रत्ययान्तान्मा भूदिति । नैतदस्ति प्रयोजनम्, सन्विधिवदेतद्भविष्यति, तद्यथा---धातोर्विधीयमानः सन्‌ सनन्तान्न भवति, तत् कस्य हेतोः ? आकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्त्तते, न च सनि विधीयमाने सनन्तो धातुः सम्भवति, तद्वदिहाप्यपत्यप्रत्यये विधीयमानापत्यप्रत्ययान्ता प्रकृतिः सम्भवतीति ततः प्रत्ययो न भविष्यति ? विषम उपन्यासः; एकः सन्‌ प्रत्ययः, विधायकं च लक्षणमेकमेव तत्र युक्तम्, न तस्मिन्विधीयमाने तदन्ता प्रकृतिः सम्भवतीति ।
इह पुनः `तस्यापत्यम्' `अत इञ्‌' `यञिञोश्च' इति बहूनि लक्षणानि, प्रत्ययाश्च बहवः; तत्र कस्मिश्चित्प्रत्यये विधीयमाने प्रत्ययान्तरेण तदन्ता प्रकृतिः सम्भवत्येव, तथा च गुपादीनां सनः सन्‌ भवति---जुगुप्सिषते इति ? किं पुनः स्याद्यद्येतन्नारभ्येत ? उच्यते; इह केचिन्मन्यन्ते---पुत्रशब्दपर्यायोऽपत्यशब्दः; निघण्टुषु तथा पाठाल्लोके च दृष्टत्वात्‌ । तद्यथा पितामहस्योत्सङ्गे दारकमासीनं दृष्ट्वा कश्चित्पृच्छति---कस्य पुत्रोऽयमिति, कस्यापत्यमिति ? स देवदत्तस्य यज्ञदत्तस्य वेत्युत्पादयितारं व्यपदिशति, नात्मानम्, ततश्च यथा पितामहं प्रति पुत्त्रो न भवति तथापत्यमिति । उत्पादयितैवैकोऽपत्येन युज्यते, न तु पितामहादयोऽपीति । अन्ये तु---क्रियानिमित्तकोऽपत्यशब्दः, न पतन्त्यनेनेत्यपत्यमिति औणादिको यत्प्रत्ययः, यस्य च येनापतनं तत्तस्यापत्यम् । व्यवहितजनितोऽपि पौत्रादिः पितामहादेरपतनहेतुर्भवति, श्रूयते हि---`जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा जायते ब्रह्मचर्येणर्षइभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः, एष वा अनृणो यः पुत्री' इति, एतेन पुत्रमुत्पाद्य पितॄणामनृणो भवतीति प्रतिपादनात्‌ पुत्रोत्पादितया प्रजया पितॄणामुपकारी दृश्यते । स्मर्यते च---
पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते ।
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ।। इति ।
इतिहासेषु च जारत्कारवादिषु महती वार्ता---व्यवहितजनितोऽप्युपकारक इति । सूत्रकारश्च शब्दविदां मूर्द्धाभिषिक्तः सूत्रयति---`अपत्यं पौत्रप्रभृति गोत्रम्' इति, ततो विज्ञायते क्रियानिमित्तकोऽप्यपत्यशब्द इति; अन्यथा यथा पौत्रप्रभृतिः पुत्र इत्यनुपपन्नं तादृगेव तत्स्यात्‌ । एवं सति साक्षात्परम्परया वा यस्य य उत्पाद्यः स तं प्रत्यपत्यामिति सर्वेऽपि पितामहादयोऽप्यपत्येन युज्यन्ते, न तूत्पादयितैवेति । तत्राद्ये पक्षे यद्येतन्नारभ्येत, ततस्तत्र तत्रापत्ये तत्तत्पितृवचनात्स स प्रत्ययः स्यात्‌, तद्यथा---उपगोरौपगवः, तस्यौपगविः, तस्यौपगवायनः । एवं शततमेऽपत्ये एकोनशतमपत्यप्रत्ययाः---इत्यनिष्टं प्राप्नोति, इष्टं च न सिद्ध्यति---औपगव इति, तृतीयादेरुपगुं प्रत्यनपत्यत्वात्‌ । द्वितीये तूपगोः पञ्चमः पूर्वेषां चतुर्णामपत्यं ततो यदोपगोः प्रत्ययस्तदौपगव इतीष्टं तावत्सिद्ध्यति; अनिष्टमपि च प्राप्नोति, तच्चानिष्टमनियतमौपगविः, तत औपगवायनः, तत औपगवायनिरिति । पञ्चमे त्रीण्यनिष्टानि, षष्ठे चत्वारीत्येवं यावतिथमपत्यमभिधित्सितम्, तावन्ति द्व्यूनान्यनिष्टानि प्राप्नुवन्ति, तद्यथा---शततमेऽष्टौ नवतिश्चेति । एवं स्थिते इदमारभ्यते ।
आरभ्यमाणेऽप्येतस्मिन्यदि प्रथमः पक्ष आश्रीयते ततो विध्यर्थमेतत्स्याद्‌, नियमार्थं वा ? कथं चेदं विध्यर्थं कथं वा नियमार्थम् ? यदि गोत्रशब्देन पौत्रप्रभृत्यपत्यसमुदाय एकैकमपत्यमभिधीयते ततो विध्यर्थम्, तर्हि तथा नियमार्थः सम्भवति, एकस्मिन्नपत्येऽनेकप्रत्ययप्रसङ्गस्याभावाद्‌ । न तावदेकस्मिन्प्रयोगे एकस्याः प्रकृतेरनेकप्रत्ययप्रसङ्गः; एकेनैवोक्तत्वात्त्स्यार्थस्य । नापि प्रयोगभेदेन नानाप्रकृतिभ्यो नानाप्रत्ययप्रसङ्गः, सर्वदा स्वपितृवचनादेव प्रसङ्गादिति परमप्रकृतेस्तृतीयादावपत्येऽप्राप्तः, एवमौपगवाच्चतुर्थादाविति, ततः किं न विधीयते वचनव्यक्तिभेदात्‌ ? एवं ह्यत्र वचनं व्यज्यते---गोत्र एकः प्रत्ययो भवति, यत एक एव प्रत्ययः कर्तुं शक्यते, तत एव प्रत्ययो भवतीत्यर्थः । एकग्रहणसामर्थ्याच्चायमर्थो लभ्यते । ननु विधीयमानेऽपि प्रत्यये प्रकृतिप्रत्ययावसम्बन्धौ स्याताम् ? वचनसामर्थ्यादपत्यापत्यस्यापत्यत्वोपचारात्‌ प्रत्ययो भविष्यतीत्यदोषः ।
मुख्येऽपत्ये चरितार्थः प्रत्ययो न स्यादिति विधातव्यमपि, अस्मिन्पक्षे सर्वेष्वौपगव इतीष्टं सिद्ध्यति, प्रत्ययमालाप्रसङ्गस्तदवस्थ एव । न ह्यनेन तत्तत्पितृवचनात्प्राप्तः प्रत्ययः प्रतिषिद्ध्यते । तथा पञ्चमेऽपत्ये उपगुशब्दादनेन प्रत्यये विहिते तस्यापत्यमिति षष्ठ औपगविः स्यात्‌ । यदा तु `अपत्यं पौत्रप्रभृतिगोत्रम्' इत्यपत्यशब्देन पौत्रप्रभृत्यसमुदायं लक्षयित्वा तस्यैव गोत्रसंज्ञा विधीयते, एकैकस्मिन्नपत्ये गोत्रशब्दप्रयोगः, समुदायेषु वृत्ताः शब्दा अवयवेष्वपीति न्यायात्‌ । अत्रत्येन वा गोत्रशब्देनावयवधर्मेण समुदायव्यपदेशात्पौत्रप्रभृत्यपत्यसमुदायोऽभीधीयते तदा नियमार्थम्---गोत्रसमुदाये एक एव प्रत्ययो भवतीति ।
यद्यप्येकैकस्मिन्नपत्ये एकैकः प्रत्ययः प्राप्नोति, तथापि पौत्र एकस्तदपत्ये चापर इति सकलनिरूपणे समुदाये बहवः प्रत्ययाः कृताः स्युरिति नियम उपपद्यते । अस्मिन्पक्षे दोषः---अनन्तरापत्यप्रत्ययान्तात्तृतीये प्रत्ययः प्राप्नोति, गोत्रशब्दोपादानेन हि नियमः क्रियते---गोत्र एक एवेति, ततश्च गोत्रेऽनेकः प्रत्ययो मा भूत्‌ । अनन्तर एकस्तृतीये चापर इत्येवमनेकः कस्मान्न स्यात्‌ ? एवमपि गोत्रे एक एव हि कृतो भवति । अथ वा---गोत्रसमुदाये एव एवेत्यनेन किं क्रियते ? तृतीयादेश्चतुर्थादौ प्राप्तः प्रतिषिध्यते । यदि तृतीयादेः स्यात्समुदायेऽनेकः प्रत्ययः कृतः स्यादिति । यस्त्वनन्तरस्तृतीये प्राप्तः सोऽभ्यनुज्ञायते---एक एवेतीतरव्यावृत्तौ नियमेषु तात्पर्यम् । ततश्च यतः प्रत्यये क्रियमाणे समुदायेऽनेकः प्रत्ययः कृतो भवति । ततो न भवतीत्येव वचनार्थो भवति । एवं चतुथस्यापत्यप्रत्ययेनाभिधानं न प्राप्नोति, द्वितीयादुत्पन्नस्तृतीयमेवाचष्टे न तृतीयादुत्पद्यत इति, किन्तु औपगवेरपत्यमिति वाक्यमेव । पञ्चमादेस्तु वाक्येनाप्यभिधानं न प्राप्नोति, न हि तत्तत्पितृवचनः कश्चिदपत्यप्रत्ययान्तः शब्दोऽस्ति येन विगृह्येत । परमवकृतेश्च तृतीयादौ न कुत्रचित्प्रत्ययः प्राप्नोति, ओयोगात्‌ । तदेवमस्मिन्पक्षे परमप्रकृतेश्चोत्पत्तिर्वक्तव्या, अनन्तराच्च तृतीये प्राप्तस्य प्रतिषेधो वक्तव्यः ।
स्यादेतत्---न परमप्रकृतेरुत्पत्तिर्वक्तव्या, अभेदोपचारेणैव सिद्धेः । अभेदोपचारश्चोपग्वौपगवयोरौपगवतदपत्ययोर्वा । तदेवं शततमेऽप्यपत्येऽभेदोपचारपरम्परया औपगव इत्यभिधानं सिध्यति, न चैवमभेदोपचारेणैवेष्टस्य सिद्धेः सूत्रस्य वैयर्थ्यम्, भेदविवक्षायां प्रत्ययमालाप्रसङ्गनिवृत्त्यर्थत्वादिति ? एवमप्यनन्तरस्य तृतोयस्य च भेदविवक्षायां तृतीय औपगविः स्यात्‌, तथाऽनन्तरे तृतीयादौ च यत्र प्रत्ययो भिद्यते, यथा---गर्गादौ, तत्राप्यनिष्टप्रसङ्गः । यदि तावद्‌ गार्ग्ये गर्गापचारस्तदा तदपत्यमपि गार्गिः स्याद्‌, गार्ग्यश्चेष्यते । अथापि गर्गेस्तदपत्यस्य चाभेदोपचारः, एवमपि गार्गिः स्यादितीत्यादौ विषये दोषवानेवाभेदोपचारः । तदेवं प्रथमपक्षे विधौ नियमे च दोषप्रसङ्गाद्‌ द्वितीयः पक्ष आश्रीयते, तत्रापि नियमः । यद्यप्येकैकस्मिन्प्रयोगे एकस्याः प्रकृतेरेक एव प्रत्ययः प्राप्नोति, तथाप्युपगोः पञ्चमे पूर्वाभ्यश्चतसृभ्यः प्रकृतिभ्यः प्रयोगभेदेन नानाप्रत्ययप्रसङ्गे नियमः क्रियते---एव एवेति । तदिदमुक्तम्---भेदेन प्रत्ययप्रसङ्गे नियमः क्रियते ।
ननु न ज्ञायते--क एवो भवतीति, यो वा परमप्रकृतेर्यो वा प्रत्ययान्तादिति ? नन्वेक इत्युच्यते, यदि च प्रत्ययान्तात्प्राप्तः प्रत्ययः स्यादनेकः कृतः स्यात्‌ । क्व ? न तावत्पञ्चमे; पूर्वेषां प्रत्ययानामस्मिन्प्रयोगे प्रसङ्गोऽपत्यान्तरविषयत्वात्‌ । अथ गोत्रसमुदाये केनासौ निवार्येत ? न तावदनेनैव, न हि गोत्रसमुदायो गोत्रग्रहणेन गृह्यते । अथापि गृह्येत, एवमपि न ज्ञायते---यो वा परमप्रकृतेः, यो वाऽनन्तरादिति ? यदि पुनर्गोत्रग्रहणं न क्रियते, क्रियमाणं वाऽपत्यमात्रपरं विज्ञायते, न स्यादेष दोषः; अपत्ये समुदाये एक एवेति नियमात्‌ । अपत्याधिकारे गोत्रग्रहणात्त्वेष दोषो जायते ? नैष दोषः; अपत्यमिति वर्तते, गोत्रेऽपत्ये एक एवापत्यप्रत्ययो भवतीति वचनव्यक्तिः । यदि च प्रत्ययान्तात्प्रत्ययः स्यादपत्यप्रत्ययोऽनेको गोत्रे कृतः स्यात्‌, सामर्थ्येन वा प्रत्ययो विशेष्यते---गोत्राभिधाने समर्थानां मध्ये एक एवेति । यदि च प्रत्ययान्तात्‌ प्रत्ययः स्याद्‌ गोत्राभिदानसमर्थोऽनेकः कृतः स्यात्प्रथमस्यापि समर्थत्वात् । यद्यप्यस्मिन्प्रयोगेऽपत्यान्तरे वर्तते पञ्चमं प्रत्यपि सामर्थ्यं तावदस्ति, यदि वा `तस्यापत्यम्' इत्यादिलक्षणैरेक एव प्रत्ययः कर्तव्यः, क्व ? गोत्रे, यस्मिन्प्रत्यये गोत्रम्भिदित्सितं तत्रेत्यर्थः । प्रत्ययान्ताच्च प्रत्यये तस्मिन्नेव प्रयोगे प्रकृतिरूपसम्पादनायापि तावदनेक कृतः स्यात्‌ ।
यदि वा प्रथमवचन एकशब्दः, कश्च प्रथमः ? यमकृत्वा प्रत्ययान्तरं कर्तुं न शक्यते । साधारणवचनो वा, अपत्याधिकाराच्च यः सर्वापत्यसाधारणः स एव गोत्रे भवतीति, गर्गशब्दाद्यञेव भवतीति । गर्गशब्दाद्यो यञ्‌ प्राप्तः स एव भवति, न प्रकृत्यन्तरेभ्यः प्राप्ताः प्रत्यया इत्यर्थः, तदाह---प्रत्ययो नियम्यत इति । प्रत्ययान्तरं वार्यत इत्यर्थः । एतेन प्रकृतिर्नियम्यते इत्यपि व्याख्यातम् ।
अथ वेत्यादि । अस्मिन्पक्षे प्रथमवचन एव शब्द इति दर्शितम् । प्रथमा प्रकृतिरिति । सूत्रे तु शब्दापेक्षया पुंल्लिङ्गनिर्देश इति दर्शितम् । एक एव शब्द इति । अथ वा---अस्मिन्पक्षे साधारणवचन एकशब्दः परमप्रकृतिश्च सर्वप्रत्ययसाधारणी, सङ्ख्यावचनो वा प्रथमातिक्रमे कारणाभावात्परमप्रकृतिरेकशब्देन गृह्यते । अनयोः पक्षयोः प्रथमा प्रकृतिरिति । एकशब्दस्यार्थतो विवरणं द्रष्टव्यम् ।।
गोत्राद्यून्यस्त्रियाम् ।। 4.1.94 ।।
अत्राप्यनारभ्यमाणेऽस्मिन्योगे उत्पादयितर्यपत्ययुक्ते गोत्रसंज्ञाया युवसंज्ञया बाधितत्वादसति पूर्वसूत्रव्यापारे चतुर्थे तृतीयात्पञ्चमे चतुर्थात्षष्ठे पञ्चमादौ यूनि तृतीयादुत्पत्तिर्न प्राप्नोति, तं प्रत्यनपत्यत्वादितीष्टं न सिध्यति । सर्वेषु त्वपत्ययुक्तेषु पञ्चमे यूनि पूर्वेभ्यश्चतुर्भ्यः प्रत्ययः प्राप्नोति । तत्र यदा तृतीयात्तदा गार्ग्यायण इतीष्टं तावत्सिध्यति, अनिष्टमपि प्राप्नोति; प्रकृत्यन्तरेभ्योऽपि प्रत्ययप्रसङ्गादित्यत इदमारभ्यते ।
अत्रापि यदि पूर्वः पक्ष आश्रीयते ततो विध्यर्थमेतत्स्यात्‌, नियमार्थं वा ? यदि युवशब्देनैकमपत्यमुच्यते, तत एकस्मिन्यूनि गोत्रादगोत्राच्च प्राप्त्यभावात्‌ चतुर्थेन व्यवहिते पञ्चमादौ यूनि गोत्राद्विध्यर्थं भवति । अथ चतुर्थप्रभृत्यपत्यसमुदायो युवशब्देनोच्यते, ततो गोत्राच्चतुर्थे चतुर्थादगोत्रात्पञ्चम इति गोत्रादगोत्राच्च युवसमुदाये प्रत्ययप्रसङ्गे गोत्रादेवेति नियमार्थं भवति । तत्र विधौ गर्ग्यायण इतीष्टं सिध्यति, प्रत्ययमालाप्रसङ्गदोषः स्यादेव; तत्पितृवचनात्प्राप्तस्य प्रत्ययस्यानिषिद्धत्वात्‌ । नियमे चतुर्थादेः प्राप्तस्य प्रत्ययस्य प्रतिषेधोऽयं सम्पद्यते---यदि चतुर्थादेः स्याद्‌ युवसमुदाये गोत्रादपि प्रत्ययः कृतः स्यादिति, ततश्च नानिष्टप्रसङ्गः; किन्तु पञ्चमादौ यूनि गोत्रादुत्पत्तिर्न प्राप्नोति, तं प्रत्यनपत्यत्वादिति पञ्चमस्य वाक्येनाभिधानंस्याद्‌---गार्ग्यायणस्यापत्यमिति । षष्ठस्य तु वाक्येनापि न सिद्ध्यति, न हि तत्पितृवचनोऽपत्याप्रत्ययान्तः शब्दोऽस्ति, येन विगृह्येत । तदेवमत्रापि द्वितीयः पक्ष आश्रीयते, नियमश्च, तदाह---अयमपि नियम इति । गोत्रादेवेति । यून्येवेत्येष विपरीतं नियमो न भवति; `एको गोत्रे' इति नियमाद्यूनोऽन्यत्र गोत्रप्रत्ययस्य प्रसङ्गाभावात्‌ । न परमप्रकृत्यनन्तरयुवभ्य इति । अन्यथा प्रयोगभेदेन तेभ्योऽपि स्यात्‌ ।
कि पुनरत्र प्रतिषिध्यत इति । सर्वस्मिन्नपि प्रतिषिध्यमाने दोषदर्शनात्प्रश्नः । तमेव दोषमाविष्करोति---यदि नियम इति । तदेकवाक्यत्वात्प्रतिषेधस्येति भावः । स्त्रियामनियमः प्राप्नोतीति । परमप्रकृत्यनन्तरयुवलक्षणाः प्रत्ययाः प्रयोगभेदेन पर्यायेण स्युरित्यर्थः । अथ युवप्रत्ययः प्रतिषिध्यत इति । अस्त्रियामिति योगविभागेन प्रसज्यप्रतेषेधाश्रयेण चेति भावः । गोत्रप्रत्ययेनाभिधानं न प्राप्नोतीति । तद्यथा `गर्गादिभ्यो यञ्‌' गार्गी गार्ग्यायणी, अपत्यसामान्यलक्षण एव तु प्रत्ययः स्यात्‌ । किं कारणमनभिधानं प्राप्नोतीत्यत आह---गोत्रसंज्ञाया युवसंज्ञया बाधितत्वादिति । यथा च बाधस्तथा तत्रैव वक्ष्यते । स्यादेतत्---युवप्रत्ययस्य स्त्रियां लुक्करिष्यते, कथम् ? `यूनि लुक्' इत्यस्यानन्तरं स्त्रियां चेति वक्ष्यामि, यूनि लुगित्येव, `प्राग्दीव्यतः' इत्येतन्निवृत्तम् । यद्वा `वतण्डाच्च, लुक्‌ स्त्रियाम्, यूनि च' इति वक्ष्यामि, लुक्‌ स्त्रियामित्येव, ततश्च गार्ग्यशब्दादुत्पन्नस्य फको लुकि कृते लुप्तस्याप्यर्थं प्रकृतिरेवाहेति यञन्तात्स्त्रियां वर्तमानान्ङीष्ष्फौ भविष्यत इति ? एवमप्यौपगवशब्दादत इञो लुकि कृते, अनुपसर्जनाधिकारादण्योऽनुपसर्जनमित्युच्यमान ईकारो न प्राप्नोति; अणर्थस्याप्रधानत्वात्‌, यूनि संक्रान्तत्वात्‌ । मा भूदेवमण्योऽनुपसर्जनमिति, अणन्तादनुपसर्जनादित्येवं भविष्यति ? नैवं शक्यम्; इह हि दोषः स्याद्---आपिशलिना प्रोक्तं व्याकरणम्, `इञश्च' इत्यण्‌, तदधीते आपिशला ब्राह्मणी, `तदधीते' इत्यणः प्रोक्ताल्लुकि अणन्तस्याध्येत्र्यां प्रधानस्त्रियां संक्रान्तत्वान्ङीप्प्राप्नोति, तस्मादण्योऽनुपसर्जनमित्येवाश्रयणीयम्, स्त्रियां योऽण्विहित इति वा । यथा च सत्यौपगवीतीकारो न प्राप्नोति । यद्यप्यत्र प्रत्ययलक्षणेन इञ उपसङ्ख्यानमितीकारः स्यात्‌, इह तु ग्लुचुकायनेरपत्यमौत्सर्गिकस्याणो लुकि ङीन्न प्राप्नोति, `इतो मनुष्यजातेः' इति ङीष्‌ भविष्यति । इह तर्हि यस्कस्यापत्यं शिवाद्यण्‌ यास्कः, तस्यापत्यं स्त्री, `अणो द्व्यचः' इति फिञ्‌, स्त्रियां लुकि ईकारो न प्राप्नोति ? न ह्यत्र लुप्तः प्रत्यय ईकारस्य निमित्तम्, यश्च श्रूयते न स स्त्रियां विहित उपसर्जनं च । तर्हि का गतिः ? इत्यत आह---तस्मादिति । युवसंज्ञैव प्रतिषिध्यत इति । ननु यूनि यदुक्तं तत्स्त्रियां न भवति' इत्युक्तम्, न च युवसंज्ञा यून्यूक्ता, नहि युवसंज्ञायाः प्राग्युवसंज्ञास्ति ? चतुर्थादेर्जीवद्वंश्यस्यापत्यस्योपलक्षणं युवशब्द इत्यदोषः ।
अपर आह---स्वरूपपरो युवशब्दः, परिभाषा चेयम्---यत्र युवशब्दः श्रूयते तत्र `अस्त्रियाम्' इत्युपतिष्ठते । `जीवति तु वंश्ये युवा अस्त्रियाम्' इति वा व्यक्तमेव पठितव्यमिति ।।
अत इञ्‌ ।। 4.1.95 ।।
अकारान्तात्प्रातिपदिकादिति । `अत सातत्यगमने' इत्यस्य वाऽच्छब्दान्तानां वा कुर्वदादीनां ग्रहणं न भवति, यदि स्याच्छिवादिषु येषामस्येञो बाधनार्थः पाठः, शिवप्रोष्ठप्रौष्ठिकप्रभृतीनां तेषां पाठोऽनर्थकः स्यात्‌ । व्यपदेशिवद्भावादिहापि भवति---अस्यापत्यमिरिति, यस्येति लोपे प्रत्ययमात्रस्य श्रवणम् । इह तु---एरपत्यमस्य युव्रेति, `यञिञोश्च' इति फकि यस्येतिलोपं बाधित्वा परत्वादादिवृद्धौ कृतायाम्---आयायन इति भवति ।।
बाह्वादिभ्यश्च ।। 4.1.96 ।।
क्वचिदिति । अजीगर्त्तादिषूदङ्कपर्यन्तेष्वदन्तत्वात्पूर्वेणेञ्‌ प्राप्तः, तस्य `ऋष्यन्धकवृष्णिकुरुभ्यश्च' इत्यण्‌ बाधकः प्राप्तः । अन्ये सर्वेऽनकारान्ताः, तेषु च बाहुप्रभृतिषूवर्णान्तेषु, पुष्करसदादिषु हलन्तेषु चाण्‌ प्राप्तः । चूडाशब्दाद्‌ `द्व्यचः' इति ढक्‌, वृकलादिभ्यस्तन्नामिकण्प्राप्तः । शिरस्‌, लोमन्निति तदन्तयोर्ग्रहणम् । `सम्भूयोम्भोमितौजसां सलोपश्च' इत्येव वक्तव्ये पृथक् सलोपश्चेति वचनं वैचित्र्यार्थम् । उदञ्चु इति पठ्यते, तत्र नायमुकारान्तात्प्रत्ययः; किन्तु क्विन्नन्तात्प्रत्ययः, नलोपाभावस्तु निपात्यते---उदीचोऽपत्यमौदञ्चिः । एतत्सर्वं पैलादिष्वौदञ्चिशब्दपाठाद्विज्ञायते ।
बाह्वादिप्रभृतिष्विति । प्रभृतिग्रहणेन वक्ष्यमाणानां कुञ्जादीनां ग्रहणम् । लोके विदितो लौकिको गोत्रभावः, संज्ञाकारित्वम् आदिपुरुषत्वमित्यर्थः । एतच्च न्यायसिद्धम्, कथम् ? अर्थवद्‌ग्रहणे नानर्थकस्येति अर्थवतां बाह्वादीनां ग्रहणम्, स चार्थः प्रसिद्धः; झटिति प्रतीतेः । स्मृतिशास्त्रस्य चार्थतोऽनादित्वादनाद्यर्थाभिधायिनामेव ग्रहणं न्याय्यम् । बाहुर्नाम कश्चिदिति । एवं कुञ्चो नाम नडो वा, तस्मादिञेव भवति---कौञ्जिः, नाडिरिति । यत्तु कार्यं न स्वरूपोपादानेन विधीयते, किन्तु प्रकारान्तरेण; तदिदानीन्तनार्थाभिधायिनामपि भवति, `अत इञ्‌', दैवदत्तिरिति । सम्बन्धिशब्दानां चेति कार्यापेक्षया षष्ठी, सम्बन्धिशब्दानां श्वशुरादीनां यत्कार्यमुच्यते तस्य तत्सदृशे प्रतिषेधो भवति । संज्ञाश्वसुरस्येति । संज्ञया यः श्वसुरः, न सम्बन्धेन । श्वासुरिरिति । उणादिषु नावश्यं व्युत्पत्तिकार्यं भवति, तेन `सावसेराप्तौ' इति व्युत्पन्नस्य श्वसुरशब्दस्य `न य्वाभ्याम्' इत्येष विधिर्न भवति । तथा `मातृपितृभ्यां स्वसा' इति षत्वं धान्यमतरि न भवति । इदमपि न्यायसिद्धम्; संज्ञाश्वशुरस्यादिमत्त्वात्सम्बन्धिशब्दस्यानादित्वात्‌ । मातृपितृभ्यामित्यत्रापि प्रसिद्धतरत्वाज्जननीवाचिनो ग्रहणम् । उक्तं च---
अभिव्यक्तपदार्था ये स्वतन्त्राः लोकविश्रुताः ।
शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु ।। इति ।
चकारोऽनुक्तसमुच्चयार्थ आकृतिगणतामस्य बोधयतीति । पठितशब्दापेक्षः समुच्चय इति भावः ।।
सुधातुरकङ्‌ च ।। 4.1.97 ।।
व्यासरुडेत्यादि । वेदं व्यस्यतीति देवव्यासः, `करण्यण्‌', तस्यैकदेशप्रयोगः---व्यास इति, भीमसेनो भीम इतिवत्‌ । वरुडादयो जातिविशेषाः । तत्तर्हि वक्तव्यम् ? न वक्तव्यम् ; प्रकृत्यन्तराण्येवैतानि स्वार्थिककन्‌प्रत्ययन्तानि, अव्यविकन्यायेन च कन्‌, न हि तैर्वाक्यमेव भवति । व्यासशब्दादृषिवाचिनोऽपि बाह्वादेराकृतिगणत्वादिञ्‌ भवति ।।
गोत्रे कुञ्जादिभ्यश्च्फञ्‌ ।। 4.1.98 ।।
चकारो विशेषणार्थ इति । यद्यत्र चकारो न क्रियेत ततो `व्रातफञोरस्त्रियाम्' इति वक्तव्यम्, ततोः `अश्वादिभ्यः फञ्‌' इत्यस्याग्रहणं स्यात्‌ । कौञ्जायन्य इति । स्वार्थे ञ्यः बहुषु तु `ञ्यादयस्तद्राजाः' इति तद्राजत्वात्‌ `तद्राजस्य बहुषु' इत्यादिना लुक्‌ ।
किं पुनरत्र ञित्स्वरो भवति ? उत चित्स्वरः ? इत्यत्राह---एकवचनद्विवचनयोरिति । तत्र हि ञ्यप्रत्ययः श्रूयते, स च पश्चाद्भावीति तन्निबन्धनो ञित्स्वरः सतिशिष्टः । बहुवचने तु ञ्ये निवृत्ते सम्प्रधारणा---ञित्स्वरो वा, चित्स्वरोवेति ? तत्र परत्वाद्‌ ञित्स्वरः प्राप्नोति, चित्करणसामर्थ्याच्चित्स्वरो भविष्यति । ञित्करणसामर्थ्याद् ञित्स्वरः प्राप्नोति, अस्त्यन्यत्‌ ञित्करणस्य प्रयोजनम्, किम ? वृद्ध्यर्थो ञकारः । चित्करणेऽपि तर्ह्यस्त्यन्यत्प्रयोजनम्, किम् ? विशेषणम् । शक्योऽत्र विशेषमार्थोऽन्योऽनुबन्ध आसंक्तुम् । तत्र चकारानुरोधाच्चित्स्वरो भविष्यति । वृद्ध्यर्थोऽपि तर्ह्यन्योऽनुबन्धः आसंक्तुम् । तत्र चकारानुरोधाच्चित्स्वरो भविष्यति । वृद्ध्यर्थोऽपि तर्ह्यन्योऽनुबन्धः शक्य आसंक्तुम्, तत्र ञकारानुरोधाद्‌ ञित्स्वरः प्राप्नोति ? एवं स्थिते इदमुच्यते---परमपि ञित्स्वरं त्यक्त्वा चित्स्वर एवेष्यत इति । एवं मन्यते---स्वरे योगविभागः कर्त्तव्यः, इतमस्ति `चितः'---चितोऽन्त उदात्तो भवति, ततः `तद्धितस्य' चित इत्येव, तद्धितस्य चितोऽन्त उदात्तो भवति । किमर्थमिदम् ? परत्वात्प्राप्तस्य ञित्स्वरस्य बाधनार्थम् । ततः `कितः', कितश्च तद्धितस्यान्त उदात्तो भवतीति । यदि तु क्फप्रत्ययः क्रियते, तद्धितस्येति योगविभागः शक्योऽकर्तुम् । अथैवं कस्मान्न क्रियते---`गोत्रे कुञ्जादिभ्यश्च्फञ्‌, बहुषु फक्‌, नडादिभ्यस्च' इति ? नैवं शक्यम्; इह हि दोषः स्यात्‌---कौञ्जायनानामपत्यं माणवकः कौञ्जायन्यः, कौञ्जायन्यौ; ऐकेन यशब्दः श्रूयते, द्व्येकयोर्हि च्फञ्विधीयते । यदा तु च्फञन्तात्‌ ञ्यो विधीयते तदा यून्युत्पन्नस्येञः `ण्यक्षत्त्रियार्षञितः' इति लुकि कृते `तद्राजस्य' इतिञ्यस्य लुकि प्राप्ते `गोत्रेऽलुगचि' इति प्रतिषेधाद्यशब्दस्य श्रवणं भवति । यथा कौञ्जायन्यस्यापत्यानि बहूनि, अत इञो लुकि तद्राजस्यैव बहुषु वर्त्तमानत्वाद्‌ ञ्यस्य लुकि कौञ्जायना इति भवति ।।
नडादिभ्यः फक्‌ ।। 4.1.99 ।।
शलङ्कु शलङ्‌कं चेति । द्वे अपि प्रथमान्ते । शब्दरूपापेक्षया नपुंसकनिर्देशः । `शलङ्कु' इत्येतच्छब्दरूपं शलङ्कं भवति, तद्रूपेण परिणमते इत्यर्थः । इञेवान्यत्रेति । बाह्वादेराकृतिगणत्वादिति भावः । अम्युपेत्यापि गोत्रमात्रे फको विधानम्, परिहारमाह---अथ वेति । इञो भावस्येति । शलङ्कभावापत्तेरप्युपलक्षणमेतत्‌, पूर्वत्र परिहारे तस्याः स एव पाठो ज्ञापको वेदितव्यः ।
अग्निशर्मन्वृषगण इति । अग्निशर्मन्शब्दः फकमुत्पादयति वृषगणे गोत्रे, आग्निशर्मायणो भवति वार्षगण्यश्चेद्‌, आग्निशर्मोऽन्यः । अमुष्येति पठ्यते, तत्रादः शब्दे प्रातिपदिकमात्रे पठितव्ये विभक्त्यन्तस्य पाठादुत्पन्नेऽपि फकि लुग्न भवति । आमुष्यायणा, आमुष्यपुत्रिकेत्यलुग्विधावस्य ग्रहणं न कर्त्तव्यं भवति । कृष्णरणौ ब्राह्मणवासिष्ठयोरिति । कार्ष्णायनो भवति ब्राह्मणश्चेत्‌, कार्ष्णिरन्यः । राणायनो भवति वासिष्ठश्चेद्‌, राणिरन्यः । क्रोष्टु क्रोष्टं चेति । क्रौष्टायनः ।।
हरितादिभ्योऽञः ।। 4.1.100 ।।
`हरितादिभ्यः', `अञः' इति व्यधिकरणे पञ्चम्यौ । हरितादिभ्यः परो योऽञ्‌ तदन्तात्प्रातिपदिकादित्यर्थः । वृत्तिकारोऽप्येतदेव वस्तुतो व्याचष्टे---हरितादिभ्योऽञन्तेभ्य इति । `हरितादिभ्यो गोत्रापत्येऽञ्प्रत्ययो भवति' इत्ययं त्वर्थो न भवति; बिदादिषु पाठात्‌ ।
सामर्थ्यादिति । गोत्रप्रत्ययान्तादपरो गोत्रप्रत्ययो न भवतीत्येतत्सामर्थ्यम् । तस्माद्गोत्राधिकारेऽपि यूनि प्रत्ययो विज्ञायते । न चैवं गोत्राधिकारस्य विच्छेद इत्याह---गोत्राधिकार इति । उत्तरार्थं गोत्रग्रहणमनुवर्त्तत एवेत्यर्थः ।।
यञिञोश्च ।। 4.1.101 ।।
गोत्रग्रहणेन यञिञौ विशेष्येति इति । गोत्रे यौ यञिञौ विहितावित्येवम् । न चैव प्रत्ययार्थस्यापत्यस्याविशेषितत्वादपत्यमात्रे प्रत्ययप्रसङ्ग इत्याह---तदन्ताद्यून्येवायं प्रत्यय इति । एवकारः पौनर्वचनिकः--न केवलं पूर्व एव प्रत्ययो यूनि भवति, ्यमपि यून्येवेति । कस्मात्‌ ? इत्याह---गोत्राद्यूनीति वचनादिति ।।
शरद्वच्छुनकदर्भाद्‌ भृगुवत्साग्रायणेषु ।। 4.1.102 ।।
शरद्वदादीनां भृग्वादिवंशप्रभवानां कृत्रिमा अपि पुत्राः सन्ति, स्ववंशप्रभवा अपि, तत्रापत्यविशेषणं क्रियते । तत्र भृगुः शरद्वतोऽपत्यं न भवति; पूर्वभावित्वात्‌ । एवं शुनकस्य वत्सः, तस्माद्भार्गंवश्च वात्स्यश्च आग्रायणश्चेति द्वन्द्वे युगपदधिकरणवचनतया वर्त्तिपदस्य बहुषु वृत्तेरत्त्रिभृग्विति `यञञोश्च' इति च गोत्रप्रत्ययस्य लुक्‌, तदाह---भार्गवश्चेद्वात्स्यश्चेदिति । दार्भिरिति । दर्भशब्द ऋषिवचनो न भवति, बाह्वादिषु वा पाठ्यः ।।
द्रोणपर्वतजीवन्तादन्यतरस्याम् ।। 4.1.103 ।।
पूर्वमुक्तम्--गोत्राधिकारश्च शिवादिभ्योऽण्‌ इति यावदिति, इहाप्युक्तम्---गोत्र इत्येवेति, तत्र नोदयति---कथमिति । नैवात्रेति । यस्य ग्रहणमूरीकृत्य भवानानन्तर्ये दोषमाह, स नैव गृह्यत इत्येवशब्दस्यार्थः । महाभारतेद्रोणोमहाभारतद्रोणः । अनादिरिति । इदानीमेव ह्युक्तम्---बाह्वादिप्रभृतिष्वित्यादि । नन्वेवं प्रयोगस्यात्यन्तमनुपपत्तिः ? इत्यत आह---इदानीं त्विति । अर्वाचीनादित्यर्थः, न पुनर्महाभारतद्रोणो वृत्तिकारेण समानकालः; अनादेरिदानीन्तनस्य च द्रोण इति श्रुतिः समाना । तत्रानादिद्रोणस्य ये वंश्या अश्वत्थाम्ना समानकालास्ते द्रोणायना इत्युच्यन्ते । तत्र यद्‌ दृष्टं गोत्रत्वं तदश्वत्थाम्न्यपि द्रोणशब्दावाच्यापत्यत्वात्‌ स्खलितबुद्धयः प्रतिपत्तारोऽध्यारोपयन्ति । तेनाध्यारोपेणआश्वत्थामनि तथा द्रौणायन इत्येतद्‌ गोत्रप्रत्ययेनाभिधानं भवति ।।
अनृष्यानन्तर्ये बिदादिभ्योऽञ्‌ ।। 4.1.104 ।।
गोत्र इत्येवेति । एतेन येऽत्र ऋषिशब्दा बिदौर्वप्रभृतयस्तेभ्यो गोत्र एवान्यथा स्यादिति गोत्र इत्येतदिहानुवर्त्तनीयमिति दर्शयति---ये पुनरित्यादि ।
कथं पुनर्गोत्राधिकारे सत्ययमर्थो लभ्यते ? इत्यत्राह---अनृष्यानन्तर्य इत्यस्यायमर्थ इति । `अनृषि' इति पञ्चम्या लुका निर्देशः, `आनन्तर्ये' इति स्वार्थेष्यञ्‌ । एवं च पौत्रा इत्यादावनन्तरस्यैवाभिधानम्, न गोत्रस्य, नापत्यसामान्यस्य च । यद्ययमर्थ इति । अस्मिन्‌ ह्यर्थेऽनृषिभ्योऽनन्तरापत्ये विध्यर्थमिदं भवति, ततश्च ऋष्यपत्यनैरन्तर्ये, ऋषयश्च तेऽपत्यानि च ऋष्यपत्यानि, तेषां नैरन्तर्ये, ऋषिरूपाण्यपत्यानि निरन्तराणि यत्र तस्मिन्विषये प्रतिषेधो न कृतः स्यात्‌, तत्र को दोषः ? इत्यत्राह---तत्रेदमिति । कश्यप ऋषिस्तस्यापत्यमप्यृषिः, एवम् `सप्त नैरन्तर्येण ऋषयस्तेषां सप्तम इन्द्रहूर्नाम तत्र काश्यपानाम्' इति प्रयोगो नोपपद्यते; अञि सति `यञञोश्च' इति लुक्प्रसङ्गात्‌ । तस्माद्‌ `अनृष्यानन्तर्ये' इत्यस्य ऋषीणामानन्तर्येऽव्यवधाने प्रत्ययो न भवतीत्ययमर्थो व्याख्येय इति भावः । प्रयोगं तावदुपपादयति---अनन्तरापत्यरूपेणेति । अपत्यसामान्यरूपेणेत्यर्थः । न पुनर्ऋष्यणनन्तरापत्ये विधीयते । तत्र यथा `अभून्नृपः' इत्यादौ वस्तुतो भूतविशेषेऽपि सामान्यविवक्षया लुग्‌ भवति, तद्वदिहापि वस्तुतो गोत्रेऽपि तद्रूपतिरस्कारेणापत्यसामान्यरूपविवक्षया ऋष्यण्भवतीत्यर्थः । किं पुनः कारणमियं क्लिष्टकल्पनाऽऽश्रीयते ? इत्याह---अवश्य चैतदेवं विज्ञेयमिति । ऋषीणामपत्यानां नैरन्तर्यं विषयो यस्य प्रतिषेधस्य स तथोक्तः । कौशिको विश्वामित्र इति दुष्यतीति । कि कारनम् ? विश्वामित्रस्तपस्तेपे---नानृषिः स्यामपि तु ऋषिरेवस्यामिति, तत्र भवानृषिः सम्पन्नः; स पुनस्तपस्तेपे---नानृषेः पुत्रः स्यामिति, तत्र भावन्‌ गाधिरप्यृषिः सम्पन्नः; स पुनस्तपस्तेपे---नानृषेः पौत्रः स्यामिति, तत्र भवान्कुशिकोऽपि ऋषिः सम्पन्नः । तदेतदृष्यानन्तर्यं सम्भवति ।
परस्त्री परशुं चेति । द्वितीयानिर्देशादापद्यते इति शेषः । परस्त्रीशब्दः प्रत्ययमुत्पादयति, परशुं चादेशमापद्यते, परस्त्रिया अपत्यं पारशवः, ब्राह्मणस्य शूद्रायामूढायामुत्पन्नः, सा च जातितः वरस्त्री भवति । यस्तु परभार्यायामुत्पन्नः पारस्त्रैणेयः स भवति कल्याण्यादिः, अनुशतिकादिश्च । पारशव इत्यत्र पूर्वोत्तरपदसम्प्रमोहादनुशतिकादिकार्याभावः ।।
गर्गादिभ्यो यञ्‌ ।। 4.1.105 ।।
अपत्यसामान्ये भविष्यतीति । अन्ये तु---`मनुतन्तुशब्दसमुदाय एकः, न तु द्वौ शब्दौ पठितौ इति वदन्ति, तथा च ब्राह्मणे---मानुतन्तव्यमुवाचेति प्रयोगः । कालवमनुतन्तुकुशिकानामिति च प्रवरे ।
कथं मानवीति । लोहितादिपाठान्नित्येन ष्फेण भाव्यमिति भावः । अनन्तरापत्यविवक्षायां त्विति । गोत्रस्यापीति बोद्धव्यम्, तथा च जामदग्नाः, वात्सा इति प्रवरे प्रयोगः । वाजाऽसे इति । वाजशब्दो यञमुत्पादयति, असे=असमासे । समासे तु सौवाजिः, `ग्रहणवता प्रातिपदिकेन' इत्यस्यानित्यत्वज्ञापनार्थः---`असे' इति प्रतिषेधः ।।
मधुबभ्र्वोर्ब्राह्मणकौशिकयोः ।। 4.1.106 ।।
गण एव बभ्रुकौशिक इति वक्तव्यम्, एवं हि द्विबेभ्रुग्रहणं न कर्त्तव्यं भवति ? तथा तु न कृतमित्येव ।।
कपिबोधादाङ्गिरसे ।। 4.1.107 ।।
कापेय इति । `इतश्चानिञः' इति ढक्‌ । बौधिरिति । अनृषित्वादिञ्‌, बाह्वादिर्वा ।।
वतण्डाच्च ।। 4.1.108 ।।
किमर्थमिति । `वतण्डाल्लुक्‌ स्त्रियाम्' इत्येव कस्मान्नोक्तम्, किमर्थो योगविभाग इति प्रश्नः । परिहरति---शिवादिष्वपीति । वतण्डो नाम ऋषिः, तत ऋषित्वादेवाणि सिद्धे शिवादिषु तस्य पाठो गोत्रे गर्गादियञा समावेशार्थः । तत्र यथाऽनाङ्गिरसे समावेशो भवति, एवमाङ्गिरसेऽपि स्यादिति तन्निवत्त्यर्थो योगविभाग इत्यर्थः ।।
लुक्‌ स्त्रियाम् ।। 4.1.109 ।।
वातण्ड्यायनीति । लोहितादिलक्षणः ष्फः । वातण्डीति । ऋषित्वात्‌ ष्यञ्न भविष्यति ।।
अश्वादिभ्यः फञ्‌ ।। 4.1.110 ।।
ये त्वत्र गोत्रप्रत्ययान्ताः पठ्यन्त इति । वैल्य, आनडुह्य, आत्त्रेय---इत्येते । तत्र बैल्यशब्द `वृद्धेत्कोसलाजादाञ्ञ्यङ्‌' इति ञ्यङन्तः, विलिर्नाम राजर्षइः, आनडुह्यशब्दो गर्गादियञन्तः, आत्त्रेयः `इतश्चानिञः' इति ढगन्तः ।
शय आत्त्रेये इति । शयशब्दात्फञ्‌ भवति आत्त्रेयश्चेत्‌, शायायनः । आत्त्रेयादन्यत्र शायिः, अनृषित्वादिञ्‌, बाह्वादिर्वा । अन्ये त्वणमेव प्रत्युदाहरन्ति । पुंसि जात इति । पुंसीति प्रकृतिविशेषणम्, जातस्यापत्यं जातायनः । स्त्रियां तु जाताया अपत्यं जातेय इति ढगेव भवति, अन्यथा लिङ्गविशिष्टपरिभाषया फञेव स्यात्‌ । आत्त्रेय भरद्वाजे इति । आत्त्रेयायनो भवति भारद्वाजश्चेत्‌, अन्यत्रात इञः `ण्यक्षत्त्रिय' इति लुक्‌ । भारद्वाजात्त्रेये इति । अत्त्रिगोत्रजो यदा भारद्वाजगोत्रजेन पुत्रत्वेन स्वीक्रियते तदा प्रत्ययः । स ह्यत्त्रेयश्च भवति भारद्वाजस्य च गोत्रं भवति । भारद्वाजायन आत्त्रेयश्चेद्‌, भारद्वाजोऽन्यः, बिदाद्यञेव भवति ।।
शिवादिभ्योऽण्‌ ।। 4.1.112 ।।
यथायथमित्यादि । तत्रादन्तेष्विञोऽपवादः, मुनि--सन्धिभूमिप्रभृतिषु `इतश्चानिञः' इति ढकः, स्त्रीप्रत्ययान्तेषुं `स्त्रीभ्यो ढक्' `द्र्यचः' इति प्राप्तस्य ढकः, गङ्गाविपाट्‌शब्दयोस्तु यस्मिन्प्राप्ते स वृत्तिकारणैवोक्तः, जरत्कारुशब्दस्य तु पाठे प्रयोजनं चिन्त्यम् । केचिदाहुः---शुभ्रादिष्वयं पठनीयः, जारत्कारेय इति यथा स्यात्, तत्र तु ढका समावेशार्थोऽस्य पाठ इति ।
ण्यप्रत्ययस्य तु बाधो नेष्यत इति । अत्रा हेतुम् `उदीचामिञ्‌' इत्यत्र वक्ष्यति ।
शुभ्रादिढका चेति । `शुभ्रादिभ्यश्च' इत्यत्र वक्ष्यति--`चकारोऽनुक्तसमुच्चयार्थ आकृकिगणतामस्य बोधयति, तेन गाङ्गेयः पाण्डवेय इत्यादिसिद्धं भवति' इति, तदभिप्रायेणेदमुक्तम् । रवणविश्रवणशब्दौ पठ्येते, तौ विश्रवः शब्दस्यादेशौ प्रकृत्यन्तरे वा वृत्तिविषये तत्समानार्थे, विश्रवसोऽपत्यं वैश्रवणो रावणः ।
द्व्यचो नद्या इति । नदीवाचिनो ये द्व्यचः कुल्याप्रभृतयस्तेभ्यस्तन्नामिकाणोऽपवादे `द्व्यचः' इति ढकि प्राप्तेऽण्‌ भवति । त्रिवेणी त्रिवणं चेति । त्रिवेण्या अपत्यं त्रैवणः, तन्नमिकाणि सिद्धे आदेशार्यं वचनम् । अथाण्ग्रहणं किमर्थम्, न यताविहितमित्येवोच्येत, एवगुच्यमाने इञादय एव स्युस्ते विहिताः, पुनरारम्भसामर्थ्याद्यो विहितो न च प्राप्नोति स एवाण्‌ भविष्यति ? इदं तर्हि प्रयोजनम्---ऋष्टिषेणशब्दोऽत्र पठ्यते, तत्र यथाविहितमित्युच्यमाने `अत इञ्‌' प्राप्तः, तस्य सेनान्तलक्षणो ण्यो बाधकः प्राप्तः, तत्रारम्भसामर्थ्यादिञ्‌ प्रसज्येत, पुनरण्ग्रहणादणेव भवति ।।
अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ।। 4.1.113 ।।
अपत्यमन्तर्हितं वृद्धमिति शास्त्रान्तरे यत्परिभाषितं तस्यापि ग्रहणं दृष्टम्, वृद्धस्य च पूजायाम् `वृद्धो यूना इति, इह तु प्रत्यासत्तेरेतच्छास्त्रसिद्धस्यैव वृद्धस्य ग्रहणमित्याह---वृद्धिर्यस्येति । अवृद्भाभ्य इति शब्दधर्म इति । वृद्धपर्युदासे सति नञिवयुक्तन्यायेन तत्सदृशस्यैव शब्दस्य सम्प्रत्ययात्‌ । स्त्रीलिङ्गनिर्देशस्तु `नदीमानुषीभ्यः' इत्यनेन सामानाधिकरण्यात्‌ । कथं पुनरर्थवृत्तेः शब्दवृत्तिना सामानाधिकरण्यम् ? अभेदोपचारात्‌ । अवृद्धशब्दवाच्यत्वान्नदीमानुष्य एवावृद्धा उक्ताः । नदीमानुषीभ्य इत्यर्थधर्म इति । स्वरूपग्रहणं तु न भवति, बहुवचननिर्देशात्‌, वृद्धपर्युदासाच्च संज्ञानद्या अपि ग्रहणं न भवति; लौकिकार्थवृत्तिना मानुषीशब्देन साहचर्यात्‌ । तन्नामिकाभ्य इति सर्वनाम्ना प्रत्ययप्रकृतेः परामर्श इति । ता अवृद्धाः प्रकृतयो नामानि यासां नदीमानुषीणामिति बहुव्रीहिः । तदेवं त्रिभिरपि पदैरर्थ एव निर्दिश्यते, तत्रार्थात्प्रत्ययविधानानुपपत्तेस्तद्वाचिनीभ्यः प्रकृतिभ्यः प्रत्ययो विजायते । तदिदमुक्तम्---तेनाभेदात्प्रकृतयो निदिश्यन्त इति । तेनार्थोनाबेदात् । एतदुक्तं भवति---अवृद्धशब्दाच्यास्तन्नामिका या नदीमानुष्यस्ताभ्योऽण्‌ प्रत्ययो भवति, को।़र्थः ? तद्वाचिनीभ्यः प्रत्ययो भवतीति । तदेतदाह---आवृद्धानि यानीत्यादि । एवं च कृत्वा---अवृद्धेभ्यो नदीमनुषीनामभ्य इति वक्तव्यम्, तथा तु न कृतमित्येव । ढकोऽपवाद इति । स्त्रीलिङ्गनिर्देशात्‌ भइद्योद्ध्यशोणादिष्वयं विधिर्न भवतीति भावः ।।
ऋष्यन्धकवृष्णिकुरुभ्यश्च ।। 4.1.114 ।।
ऋषयः प्रसिद्धा वसिष्ठादय इति । ऋषयः=मन्त्रदर्शिनः, ते च प्रसिद्धा वसिष्ठादयः, यथा इन्द्रादयो देवताः, तेन तेन परिभाषणीया इति भावः । वंशाख्या इति । केषाञ्चिद्वंशानामेता आख्या इत्यर्थः । एवं केचिद्वंशा आख्यायन्त इति यावत्‌ । `मध्येऽपवादाः पूर्वान्विधीन्बाधन्ते नोत्तरान्‌' इत्यभिप्रायेणाह---इञोंऽपवाद इति । अत्त्र्यादिभ्य इति । तत्र ऋष्यणोवकाशः---वासिष्ठः, `इतश्चानिञः' इति; ढकोऽवकाशः---डुलेरपत्यं डौलेयः; आत्त्रेय इत्युभयप्रसङ्गे परत्वाड्‌ढग्‌ भवति । सेनान्तलक्षणस्य ण्यस्यावकाशः--- हारिषेण्यः, अत्र हि `एति संज्ञायामगात्‌' इति षत्वस्यासिद्धत्वात्सेनान्तमेतद्भवति, ऋष्यणः स एव; जातसेनो नाम ऋषिः, तस्मादुभ्यप्रसङ्गे परत्वाद्‌ ण्यो भवति--जातसेन्यः । एवमुदीचामिञ्‌---जातसेनिः, अन्धकाणोऽवकाशः---श्वाफल्कः, ण्यस्य स एव, उग्रसेनादन्धकादुभयप्रसङ्गे परत्वाण्ण्यो भवति---औग्रसेन्यः । वृष्ण्यणोऽवकाशः---वासुदेवः, ण्यस्य स एव; विष्वक्सेनाद्‌ वृष्णेर्वैष्वक्सेन्यः । कुर्वणोऽवकाशः---नाकुलः, ण्यस्य स एव, भीमसेनात्कुरोर्भैमसेन्यः ।
काकतालीयन्यायेनेति । यदृच्छया । असङ्करेणेति । शब्दान्तरैरसङ्कीर्णा इत्यर्थः । सङ्कलिताः=संहताः । सुबहव इति । व्युत्पपादयिषिताः सर्वे इत्यर्थः । अनित्योऽपाश्रयेणापि नित्यस्यान्वाख्यानं दृष्टम्, यथा---शकाश्रयेण कालस्य । अथ वेत्यादि । `त्रिपुरुषानूकं नाम कुर्यात्‌' इत्यनेन न्यायेनान्धकादिवंशा अपि नित्या एव । तेषु ये शब्दा इति । अन्धकादिष्वेवाद्यत्वेऽपि ये शब्दाः प्रयुज्यन्ते तेभ्य इत्यर्थः ।
मातुरुत्संख्यासम्भद्रपूर्वायाः ।। 4.1.115 ।।
द्वैमातुर इति । तद्धितार्थ द्विगुः, पश्चात्तद्धितः । एकस्या औरसः सुतोऽपरस्याः कृत्रिम इति द्वैमातुरत्वम् । साम्मातुर इति । प्रादिसमासात्तद्धितः । भाद्रमातुर इति । विशेषणसमासादण्‌ ।
तेनेत्यादिनाऽर्थापेक्ष्यस्य स्त्रीलिङ्गनिर्देशस्य फलं दर्शयति । धान्यमातुरिति । धान्यं यो मिमीते स धान्यमाता, याजकादित्वात्षष्ठीसमासः । धान्यमातरि यो मातृशब्दस्तस्य ग्रहणं न भवतीत्यर्थः, तेन सम्मिमीते तस्याप्तयं साम्मात्र इत्युत्वं न भवति, न्यायानुवादश्चायं स्त्रीलिङ्गनिर्देशः । सम्बन्धिशब्दस्य हि प्रसिद्धतरत्वात्तस्यैव ग्रहणं न्याय्यम् ।
सङ्ख्यासम्भद्रपूर्वाया इति किमिति । न तावत्केवलात्प्रसङ्गः, न हि मातुरपत्यमिति विशेषणं सम्भवति; अपत्ये मातृसम्बन्धस्याव्यभिचातत् । तेन तदन्तस्य ग्रहणात्‌ सङ्ख्यादिपूर्वस्य तावत्सिद्धमिति प्रश्नः । अन्यपूर्वस्यापि स्यादित्युत्तरम् । सौमात्र इति ।
क्वचिदस्यानन्तरं ग्रन्थः---शुभ्रादिपाठाद्वैमात्रेय इति । तेन विपूर्वो मातृशब्दो न प्रत्युदाहर्तव्य इति भावः । वयं ब्रूमः---`स्त्रीभ्यो ढक्‌' इत्यत्र स्त्रीप्रत्ययविज्ञानादसत्यर्थग्रहणे इह न भवति । ऐडविडो दारदः (4.1.120 सूत्रे) इत्यस्यानन्तरमयं ग्रन्थः, इह तु लेखकैः प्रमादाल्लिखित इति ।।
कन्यायाः कनीन च ।। 4.1.116 ।।
ढकोऽपवाद इति । `द्व्यचः' इति प्राप्तस्य । कन्याया अपत्यं कानीन इति । शास्त्रोक्तविवाहसंस्कारपूर्वस्य पुरुषसम्प्रयोगस्याभावः कन्याशब्दनिमित्तं नाक्षतयोनित्वम् । या तु विवाहसंस्कारेण विना पुरुषेण सम्प्रयुज्यते सा कन्यात्वं न जहाति । तेनैतन्न नोदनीयम्---यदि कन्या नापत्यम्, अथापत्यं न सा कन्या, कन्या चापत्यं चेति विप्रतिषिद्धमिति । अपर आह---मुनिदेवतामाहात्म्याद्या पुंयोगेऽपि न कन्यात्वं जहाति, यथा---कुन्ती, यथा---सत्यवती, सात्रोदाहरणमिति, तदाह---कानीनः कर्णः, कानीनो व्यास इति ।।
विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्त्रिषु ।। 4.1.117 ।।
अत्र वत्सादीनां मूलप्रकृतीनां वकर्णादीन्प्रत्यपत्यत्वायोगादपत्यप्रत्ययान्तानां वात्स्यादीनां शब्दानां द्वन्द्वेयुगदधिकरणवचनतया प्रत्येकं बहुत्वोपजननात्तस्य बहुत्वस्य लोपिभिरेव कृतत्वादपत्यप्रत्ययस्य लुका निर्देशः, तदाह---वैकर्णो भवति वात्स्यश्चेदित्यादि ।।
स्त्रीभ्यो ढक्‌ ।। 4.1.120 ।।
स्त्रीग्रहणेनेत्यादि । स्वरूपग्रहणं तु न भवति; बहुवचननिर्देशात्‌ । स्त्र्यर्थस्यापि ग्रहणं न भवति; विमातृशब्दस्यार्थस्य सुभ्रादिषु पाठात्‌ । तस्य तु स्त्र्यर्थत्वं विधवाशब्दसाहचर्याद्विज्ञेयम् । किञ्च---स्त्रीशब्दस्य स्वरितत्वं प्रतिज्ञायते, स्वरितेन चाधिकारावगतिर्भवति, तेन टाबादिस्त्रीप्रत्ययान्तानामेव ग्रहणं युक्तम् । क्तिन्नादयस्तु व्यवधानान्न गृह्यन्ते । ऐडविडः, दारद इति । इडविट्‌शब्दात्‌ `जनपदशब्दात्क्षत्त्रियादञ्‌', दरच्छब्दाद्‌ `द्व्यञ्मगध' इत्यण्‌, तयोः स्त्रियाम् `अतश्च' इति लुक्‌, ततस्तदपत्येऽणेव भवति ।
वृष वाच्ये इति । वृषः=बीजाश्वः, तेन चार्थेन विशेषविहितेनापत्यलक्षणेऽर्थे ढका बाध्यते, तेनापत्येऽणेव भवति । वाडव इति । चतुष्पाल्लक्षणो ढञपि न भवति; अचतुष्पाद्वाचित्वात्‌ ।
अण्‌ क्रुञ्चेति । वृष इति नापेक्ष्यते, अपत्य एवायं विधिः । ढकोऽपवादः । क्रुञ्चा च कोकिला च समाहारद्वन्द्वे नपुंसकह्रस्वत्वम् ।।
द्व्यचः ।। 4.1.121 ।।
तन्नामिकाणोऽपवाद इति । अन्यत्र पूर्वेणैव सिद्धत्वात्‌ ।।
शुभ्रादिभ्यश्च ।। 4.1.123 ।।
यथायोगमित्यादि । तत्रादन्तेष्विञोऽपवादः, शलाकादिषु तन्नामिकाणः, विधवाशब्दात्तु क्षुद्रालक्षणस्य ढ्रकः, चतुष्पाद्वाचिषु चतुष्पाल्लक्षणस्य ढञः, गोधाशब्दाद्गोधाया ढ्रकः; वचनात्सोऽपि भवति । क्वचिदौत्सर्गिकस्याणः । पाण्डवेय इति । `ढेलोपोऽकद्रवा' इति लोपो न भवति, कद्रूपर्युदासेन स्त्रीलिङ्गस्य ग्रहणात्‌, पाण्डवशब्दाद्वा प्रत्ययः ।
लक्षणश्यामयोर्वासिष्ठ इति । लाक्षणेयो भवति वासिष्ठश्चेत्‌, लाक्षणिरन्यः; श्यामेयो वासिष्ठः, श्यामायनोऽन्यः, अश्वादित्वात्फञ्‌ ।।
कुलटाया वा ।। 4.1.127 ।।
कुलान्यटतीति कुलटेति । मूलविभुजादिषु दर्शनात्कः प्रत्ययः । पचाद्यच्‌ तु न लभ्यते, अकारादनुपपदात्कर्मोपपदो विप्रतिषेधेनेत्यण्प्रसङ्गात् ।
या तु कुलान्यटन्ती शीलं भिनत्तीति । एकत्र कुले प्रविष्टा स्वैरिणी या कुलान्तरमटति सा दुः शीला कुलटेत्यर्थः । क्षुद्राभ्यो वेति परत्वादिति । क्षुद्राः=अङ्गहीनाः शीलहीनाश्च । या पुनर्भिक्षालिप्सया सुशीलापि कुलान्यटति, तस्या इह ग्रहणम् ।।
चटकाया ऐरक्‌ ।। 4.1.128 ।।
स्त्रीलिङ्गनिर्देशात्पुंल्लिङ्गान्न प्रसज्यत इत्याह---चटकाच्चेति वक्तव्यमिति । एवं च पुंल्लिङ्गनिर्देश एव कर्त्तव्यः, लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादपि भविष्यति, तथा तु न कृतमित्येव ।
स्त्रियामपत्ये लुग्वक्तव्य इति । चटकाया अपत्यमिति । चटकस्यापीति द्रष्टव्यम् । चटकेति । `लुक्तद्धितलुकि' इति टापो लुकि कृते पुनरजादिलक्षणष्टाप्‌ कर्तव्यः ।।
आरगुदीचाम् ।। 4.1.130 ।।
रका, सिद्धत्वादिति । `न लक्षणेन पदाकारा अनुवर्त्याः' इत्यवग्रहेऽपि नास्ति विशेषः । ज्ञापकार्थं त्विति । भावप्रधानो ज्ञापकशब्दः । ज्ञापनार्थमिति वा पाठ्यम् . जाडारः, पाण्डारइति । ह्रस्वान्तादयं प्रत्यय इति रका नास्ति सिद्धिः ।।
क्षुद्राभ्यो वा ।। 4.1.131 ।।
अङ्गहीना इति । काणादयः । शीलहीना इति । अनियतपुंस्कादासीप्रभृतयः ।।
ढकि लोपः ।। 4.1.133 ।।
कथं पुनरित्यादि । ढग्विधौ टाबादिस्त्रीप्रत्ययान्तानां ग्रहणाच्छुभ्रादिष्वस्यापाठात्‌ प्रश्नः । एतदेवेत्यादि । न ह्यसतो निमित्तभावः सम्भति ।।
मातृष्वसुश्च ।। 4.1.134 ।।
पितृष्वसुरित्येतपेक्ष्यते इति । चकारेणानुकृष्यत इत्यर्थः । तदनुवृत्तौ योऽर्थः सम्पद्यते, तं दर्शयति---पितृष्वसुर्यदुक्तमिति । किं पुनस्तदित्याह---छण्‌ प्रत्ययो ढकि लोपश्चेति । तेन `अनन्तरस्य विधिर्वा भवति प्रति षेधो वा' इति ढकि लोप एव प्राप्नोति, न तु छणिति न चोदनीयमिति भावः ।।
चतुष्पाद्भ्यो ढञ्‌ ।। 4.1.135 ।।
कमण्डलुशब्दश्चतुष्पाद्वचनोऽस्ति, दृश्यते हि---कमण्डलुपद आदधीतेति । जम्बुः=श्रृगालः ।।
गृष्ट्यादिभ्यश्च ।। 4.1.136 ।।
अणादीनामिति । आदिशब्देन ढकः । बहुवचनं तु प्रकृतिभेदेन तयोरेव बहुत्वात्‌ तत्राजबस्ति-मित्रयुशब्दयोरणोऽपवादः, शेषाणाम् `इतश्चानिञः' इति ढकः ।
गृष्टिशब्दो य इति । सकृत्प्रसूता स्त्री सर्वेव गृष्टिर्न धेव्नादिश्चतुष्पादेवेति भावः । अपर आह---सकृत्प्रसूतत्वसाधर्म्येणाचतुष्पदीष्वपि गौणो गृष्टिशब्द इति ।।
राजश्वशुराद्यत्‌ ।। 4.1.137 ।।
क्षत्त्रियजातिश्चेदिति । प्रकृतिप्रत्ययसमुदायेन क्षत्त्रियजातिश्चेद्‌ गम्येतेत्यर्थः । राजन्य इति । `ये चाभावकर्मणोः' इति प्रकृतिभावः । राजनोऽन्य इति । स पुनर्वैश्याशूद्रयोरुत्पन्नः, `अन्‌' इति प्रकृतिभावः ।।
क्षत्त्राद्धः ।। 4.1.138 ।।
घप्रत्ययो भवतीति । घशब्द एव, न तरप्तमपौ; अन्यथा सर्वत्रैव प्रत्ययविधौ घ इति तरप्तमपोर्ग्रहणात्प्रत्ययादेर्घकारस्येयादेशवचनमनुपपन्नं स्यात्‌, न च `तुग्राद्धन्', `घच्छौ च' इति घन्घचाववकाशौ, तत्रापि संज्ञाशब्दः सानुबन्ध उपात्तः । अनुबन्धस्तु संज्ञ्यर्थ इति सम्भवात्‌, `ङमुण्नित्यम्' इतिवत्‌ । `किमिदभ्यां वो घः' इत्यत्रापि तरप्तमपोरेवादेशत्वं विज्ञआयते । अयमपि जातिशब्द एवेति । राजन्यजात्यभिधाने घो भवति, वैश्याशूद्रयोरुत्पादिते तु इञेवेत्यर्थः ।।
कुलात्खः ।। 4.1.139 ।।
उत्तरसूत्र इत्यादि । पूर्वपदप्रतिषेधस्यैतत्प्रयोजनम्---आढ्यकुलादेर्माभूदिति । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेवाढ्यकुलादेर्न भविष्यति, पश्यति त्वचार्यः---नायं प्रतिषेधः कुलशब्दे प्रवर्तत इति । तेनात्र तावत्तदन्तस्य ग्रहणम् `येन विधिस्तदन्तस्य' इत्यत्र स्वरूपमित्यनुवृत्तेः केवलस्याति ग्रहणम् । सामान्यापेक्षं च ज्ञापकम्---`प्रातिपदिकश्रुतिमती परिभाषा कुशलशब्दे न प्रवर्तते इति, तेन `व्यपदेशिवद्भावोऽप्रातिपदिकेन' इत्यस्या अप्यप्रवृत्तिः । कुलीन इति उत्तरसूत्रेऽन्यतरस्यांग्रहणात्केवलादप्यनेन खो भवति । प्रशस्तो वंशः=कुलम्, तस्यापत्यं तत्प्रभवस्यापत्यमित्यर्थः ।।
अपूर्वपदादन्यतरस्यां यड्‌ढकञौ ।। 4.1.140 ।।
ननु च पूर्वपदशब्दः समासावयवे रूढः, न स्य कुलशब्दे प्रसङ्गः ? इत्यत आह---समाससम्बन्धिन इत्यादि । समाससम्बन्धिपूर्वपदं कुलशब्दस्यापि कथञ्चित्सम्बन्धि भवति, द्वयोरप्येकसमासावयवत्वात्‌ । व्यवस्थावचनस्तु नैवात्र शङ्कनीयः; पूर्वपदसभ्दस्य समासावयवे रूढत्वात्‌ । तेन `देवदत्तः कुलीनः' इत्यादौ वाक्ये प्रतिषेधशङ्का न कार्या ।
बहुच्पूर्वादपीति । अपूर्वादित्युच्यमाने बहुकुलशब्दो बहुचा सपूर्व इति, ततः प्रत्ययो न स्यात्‌ । किञ्च---देवदत्तः कुलीन इत्यादावपि प्रतिषेधः स्यात्‌ । तस्माद्रूढिपरिग्रहार्थमपि पदग्रहणं कर्त्तव्यम् ।।
व्यन्सपत्ने ।। 4.1.145 ।।
ननु च `नित्यं सपत्न्यादिषु' इति सपत्नीशब्द एव स्त्रीलिङ्गो व्युत्पादितः, तत्कथं पुंल्लिङ्गस्य प्रयोगस्तत्राह---सपत्नशब्द इत्यादि । इवार्थ इति । सादृश्ये, यथा पत्नी दुः खहेतुस्तथा शत्त्रुरपीत्येतत्सादृश्यम् । समुदायेन चेदिति । एतेन समुदायार्थः सपत्नो न प्रकृत्यर्थः, नापि प्रत्ययार्थविशेषणम्, अनर्थकावेवात्र प्रकृतिप्रत्ययाविति दर्शयति । अथानुवृत्तस्यापत्यस्य विशेषणमेव सपत्नः कस्मान्न भवति ? तत्राह---अपत्यार्थोऽत्र नास्त्येवेति । एतदेवोदाहरणेन स्पष्टयति---पाप्मना भ्रातृव्येणेति । न हि पाप्मा भ्रातुष्पुत्रो भवति, अतः सपत्नमात्रे भ्रातृव्यशब्दस्य दर्शनादपत्यार्थोऽत्र नास्ति । किञ्च, योऽपि सपत्नो भ्रातुरपत्यं सम्भवति, सोऽप्याद्युदात्ताद्‌ भ्रातृव्यशब्दात्सपत्नरूपेणैव प्रतीयते, नापत्यरूपेण । तथा च भ्रातृव्यो भ्रातृव्य इति सहप्रयोगोऽपि व्यन्व्यदन्तयोर्भवति, अतः सुष्ठूक्तम्---`अपत्यार्थो नास्त्येव' इति ।।
रेवत्यादिभ्यष्ठक्‌ ।। 4.1.146 ।।
ढगादीनामपवाद इति । तत्र रेवतीशब्दो ङीषन्तः, अश्व, मणि, द्वारशब्दोपपदात्पालयतेः कर्मण्यणि ङीप्‌, तेषु ढक्प्राप्तः । `वञ्चु प्रलम्भने', अस्माद्‌वृकोपपदात्‌ `कर्त्तर्युपमाने' इति णिनिः, अस्मादण्प्राप्तः वृककर्णदण्डोपपदाद्‌ ग्रहेः `कर्मण्यण्‌', कुक्कुटस्येवाक्षिणी यस्य स कुक्कुटाक्षः, एष्विञ्‌ प्राप्तः ।।
गोत्रस्त्रियाः कुत्सने ण च ।। 4.1.147 ।।
पारिभाषिकस्य गोत्रस्य ग्रहणमित्याह---अपत्यं पौत्रेति । लौकिकस्य त्वपत्यमात्रस्य ग्रहणं न भवति, यदि स्यात्‌ `तत्स्त्रियाः' इत्येव ब्रूयात्‌, तच्छब्देन प्रकृतस्यापत्यस्य परामर्शादेव तदर्थलाभात्‌ । गार्ग इति । गार्गीशब्दो `यञश्च' इति ङीबन्तः, तस्य `भस्याऽढे तद्धिते' इति पुंवद्भावेन पुंशब्दस्यातिदेशात्‌गार्ग्यशब्दाद्गोत्रस्त्र्यभिधायिनः प्रत्ययः, `यस्येति च', `आपत्यस्य च तद्धितेऽनाति' इत्यल्लोपयलौपौ । ग्लौचुकायन इति । ग्लुचुकस्यापत्यम् `प्राचामवृद्धात्फिन्बहुलम्' इति फिन्‌, `इतो मनुष्यजातेः' इति ङीष्‌, तस्य पुंवद्भावेन निवृत्तिः, ततः प्रत्ययः, णस्य णित्कणभत्र वृद्ध्यर्थम्, गार्ग्यादौ प्रकृतेरेव वृद्धत्वात्‌ । इह तु वतण्डस्यापत्यं गोत्रं स्त्री, `वतण्डाच्च लुक्‌ स्त्रियांम्' वतण्डी, तस्या अपत्यं वातण्डो जाल्म इति पुंवद्भावेन ङीनि निवृत्ते `लुक्‌' स्त्रियाम्' इत्यस्य `गोत्रेऽलुगचि' इति प्रतिषेधाद्वातण्ड्यशब्दादेव प्रत्ययः । इह च गार्ग्या अपत्यं स्त्री गार्गा, सा भार्या यस्य स गार्गाभार्य इति `जातेश्च' इत्येव पुंवद्भावप्रतिषेधसिद्धिः, `गोत्रं च चरणैः सह' इत्यपत्यमात्रं गृह्यते, तेन वृद्धिनिमित्तस्य चेति पुंवद्भावप्रतिषेधो न प्रयोजनम् । किञ्च---गार्ग्या अपत्यं स्त्रीत्यत्रार्थे नास्ति प्रत्ययः, `अस्त्रियाम्' इति युवसंज्ञाया निषेधाद्गोत्रसंज्ञैवावतिष्ठते, तत्र `एको गोत्रे' इति नियमान्नैव गोत्रप्रत्ययान्तादपरो गोत्रप्रत्ययः सम्भवति, तेन नास्ति गार्गा, नतरां गार्गाभार्यः ।
अपर आह---अस्ति गार्गा, कथम् ? गार्ग्या अपत्यं या स्त्री न सा युवतिर्नापि गोत्रम्; न हि सा गर्गस्यापत्यं पौत्रप्रभृतेश्चापत्यस्य सोत्रसंज्ञा विधीयते, तदभावाद्‌ `एतो गोत्रे' इति नियमाभावः, ततश्च णस्य भावादस्ति गार्गेति ।
ये तु नास्ति गार्गेत्याहुः, तेन मन्यन्ते---मातृवंशः पितृवंशश्च द्वावपि वंशौ प्रतीयमपत्यं भवति; अपातहेतुत्वात्‌ । ततश्च गार्ग्या अपत्यं यत्र स्त्री सा गर्गस्या पत्यं भवत्येव, `पौत्रप्रभृतिग्रहणं च व्यवहितापत्योपलक्षण्, तेन गर्गापेक्षया तस्या गोत्रत्वाद्‌ `एको गोत्रे' इति नियमात्प्रत्ययान्तराभाव इति । वृत्तौ तु क्वचित्पठ्यते---गोत्राद्यूनीति यूनि प्रत्ययो भवतीति । तदप्यस्मिन्नेव पक्षे घटते, तदाह---गार्ग्या अपत्यं पुमान्युवा भवति गार्गेयो माणवक इति । मातामहादेरुपलक्षणार्थोऽयं प्रयोग इति नास्ति कुत्सा ।।
वृद्धाट्ठक्‌ सौवीरेषु बहुलम् ।। 4.1.148 ।।
अत्र `वृद्धिर्यस्याचामादिस्तद्‌वृद्धम्' इति वृद्धं गृह्यते, न त्वपत्यमन्तर्हितं वृद्धमिति शास्त्रान्तरपरिभाषितम् । उत्तरसूत्रे हि वक्ष्यति---फिञो ग्रहणं न फिनः, वृद्धाधिकारादिति । सौवीरेष्विति प्रकृतिविशेषणमिति । `गोत्रस्त्रियाः' इत्यतो गोत्रग्रहणानुवृत्तेर्गोत्रप्रत्ययान्ता या प्रकृतिस्तस्या विशेषणमित्यर्थः । वृद्धात्सौवीरगोत्रादिति । इदमपि पारिभाषिकस्यैव वृद्धस्य ग्रहणे घटते, अन्यथा सौवीरेषु यद्‌वृद्धं तस्मादिति वक्तव्यम् । भागवित्तायन इति । `यञिञोश्च' इति फक्‌ । तृणबिन्दोरपत्यमिति औत्सर्गिकोऽण्‌तार्णबिन्दवः, ततष्ठक्‌ । पूर्वठग्ग्रहणं णेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यादिति पुनरिह ग्रहणम् ।
भागपूर्वपदौ वित्तिरिति । वित्त्यन्त इत्यर्थः । भागवित्तिशब्द इति यावत्‌ । गोत्राट्‌ठग्बहुलं तत इति । `गोत्रस्त्रियाः' इत्यतो गोत्रग्रहणानुवृत्त्या गोत्रवचनात्प्रातिपदिकाद्वहुलं यष्ठगुच्यते स ततस्तेभ्य एव भागवित्तिप्रभृतिभ्यस्त्रिभ्य एव भवति, नान्येभ्य इति परिगणनश्लोकार्थः ।
ननु गोत्रग्रहणमनुवर्त्तते, यच्च सौवीरसगोत्रवृत्तिप्रातिपदिकं तद्वृद्धमेव, तत्किमर्थं वृद्धग्रहणम् ? अत आह---वृद्धग्रहणं स्त्रीनिवृत्यर्थमिति । तद्धि गोत्रग्रहणं स्त्रिया विशेषणम्, अतस्तदनुवृत्तौ स्त्रीग्रहणमप्यनुवर्त्तेत, वृद्धग्रहणसामर्थ्यात्तु गोत्रग्रहणमेवानुवर्तते, न स्त्रीग्रहणमिति व्याचक्षते । अपत्यमन्तर्हितं वृद्धमित्यस्य तु वृद्धस्य ग्रहणेऽसमञ्जसोऽयं ग्रन्थः स्यात्‌ । औपगविरिति ।
ननु च परिगणनादेवात्र न भविष्यति ? तन्न; न हि सूत्रकारोऽर्वाचीनपरिगणनाश्रयेणातिप्रसङ्गनिवारणं मन्यते, वाग्रहण एव कर्त्तव्ये यद्वहुलग्रहणं कृतं तस्य प्रयोजनमाह---बहुलग्रहणमित्यादि । वैचित्र्यमेव दर्शयति---गोत्रस्त्रिया इत्यारभ्येति । तत्रान्त्यः सौवीरगोत्र एवेति । अयमेवार्थो यत्नसाध्यः ।।
फेश्छ च ।। 4.1.149 ।।
यमुन्दश्चेत्यादि । अत्र वार्ष्यायणीति शब्दरूपापेक्षाया नपुंसकनिर्देशः । फिञ इति । फिञन्ता इत्यर्थः । स्मृता इति । एते त्रयः फिञन्ताः प्रकृतयः स्मृता इत्यर्थः । सौवीरेषु च कुत्सायामिति । पुनश्चकारो वृत्तभङ्गभयान्न पठितः । बहुलग्रहणात्सिद्धोऽयमर्थः पूर्वं वृत्तिकृता दर्शितः, इदानीं तु श्लोकवार्त्तिककारेणेत्यपौनरुक्त्यम् । सुयामशब्दोऽपि तिकादिः । वृषस्यापत्यं वार्ष्यायणिः । अयमपि तिकादिरेव, `दगुकोसलकर्मारच्छागवृषाणां युड्‌ वादिष्टस्य' इति वचनाद्‌ आयनादेशे कृते युडागमः ।।
फाण्टाहृतिमिमताभ्यां णफिञौ ।। 4.1.150 ।।
तेन यथासंख्यामिह न भवतीति । एवं च कृत्वा णस्य णित्करणमर्थवद्भवति, तद्धि मिमतशब्दे वृद्ध्यर्थम् । यथासंख्ये तु फाण्टाहृतेर्वृद्धत्वाणिणत्करणमनर्थकं स्यात्‌ । इह तु फाण्टाहृताभार्य इति गार्गाभार्य इतिवत्पुंवद्भावप्रतिषेधादिकं द्रष्टव्यम् । यथा तु वार्त्तिकं तथा यथासंख्यमत्रेष्यते, यथाह---`फाण्टाहृतेर्णस्य णित्करणानर्वस्यं वृद्धत्वात्‌', `प्रातिपदिकस्य पुंवद्भावप्रतिषेधार्यं तु', `उक्तं वा' इति ।।
कुर्वादिभ्यो ण्यः ।। 4.1.151 ।।
ननु च `कुरुनादिभ्यो ण्यः' इत्येव कुरुशब्दाण्णयः सिद्धः, किमर्थमिह पठ्यते ? अत आह---कुरुशब्दादपरोऽपीति । सत्यमपरोऽपि ण्यप्रत्ययो भविष्यति । स तु त्रत्त्रियादित्यनेनार्थभेदमाह । तद्राजसंज्ञक इत्यजेन रूपभेदमाह । तिकादिषु पाठादिति । कुरुकौरव्यशब्दौ द्वावपि पठ्येते ।
कारिणस्तु रथकारशब्दादिति । कारिणः=शिल्पिनः । रथकारजातिस्तु शिल्पिवृत्तिर्न भवतीति मन्यते ।
तस्य पुंवद्भावो न भवतीति । `भस्याऽढे तद्धिते' इति विधीयमानः, यदि हि स्यात्‌ `नस्तद्धिते' इति टिलोपः स्यात्‌ । कस्मान्न भवतीत्याह---स्त्रीप्रत्ययनिर्देशसामर्थ्यादिति । पुंलिङ्गस्यापि पाठे लिङ्गविशिष्टपरिभाषया केशिनीशब्दादपि सिद्धः प्रत्ययः, पुंल्लिङ्गात्त्वनभिधानान्न भविष्यतीति भावः ।
वामरथस्य कण्वादिवत्स्वरवर्जमिति गणवाक्यं व्याचष्टे---वामरथशब्द इत्यादि । तस्येति प्रकरणाण्ण्यप्रत्ययान्तस्येति विज्ञेयम् । कण्वादिबदिति । केवलानां तेषां कस्यचित्कार्यस्याविधानाद्यञन्तानां कण्वादीनां यत्कार्यं तस्यातिदेशः । लुगादिकमिति । कण्वादिषु यञन्तेषु दृष्टमात्रस्य कार्यस्यातिदेशः, न तु कण्वादित्वप्रत्युक्तस्य, अत एव स्वरवर्जमित्याह । तेन लुगादिकमप्यतिदिश्यते, न तु `कण्वादिभ्यो गोत्रे' इत्येव प्रत्ययविधिः । वामरथा इति । `यञञोश्च' इति बहुषु लुक्‌ । यञश्च `प्राचांष्फ तद्धितः', यूनि `यञिञोश्च' इति फक्; शैषिकेष्वर्थेषु छे प्राप्ते `कण्वादिभ्यो गोत्रे' `सङ्घाङ्कलक्षणेषु' इति चाण्‌ भवति । सम्राजः क्षत्त्रिय इति । सम्राजोऽपत्यं साम्राज्यो भवति, क्षत्त्रियश्चेत्‌; साम्राजोऽन्यः ।।
सेनान्तलक्षणकारिभ्यश्च ।। 4.1.152 ।।
लक्षणेति स्वरूपग्रहणमित्याह---लक्षणशब्दादिति । कारीत्यर्थग्रहणमित्याह---कारिवचनेभ्यश्चेति । साधु कुर्वन्तीति कारिणः=शिल्पिनः । नापित्य इति । प्राचां मते ण्य उदाहृतः । उदीचां तु मते परत्वाद्‌ `उदीचां वृद्धात्‌' इति फिञेव भवति---नापितायनिरिति ।।
उदीचामिञ्‌ ।। 4.1.153 ।।
ताक्ष्ण इति । `षपूर्वहन्धऋतराज्ञामणि' इत्यल्लोपः । ताक्षण्य इति । `ये चाभावकर्मणोः' इति प्रकृतिभावः । इह `सेनान्तलक्षणकारिभ्यो वा' इति वक्तव्यम्, नार्थोऽनेनेञ्वचनेन, नापि शिवादिषु तक्षन्शब्दस्य पाठेन, ण्ये हि विकल्पिते यो यतः प्राप्नोति सततो भवतीति लक्ष्णः `प्राग्दीव्यतोऽण्‌', अन्येभ्यश्च `अत इञ्‌' भविष्यति ? नैवं शक्यम्; एवं हि जातसेनादिभ्य ऋष्यादिलक्षणोऽण्‌ प्राप्नोति ।।
तिकादिभ्यः फिञ्‌ ।। 4.1.154 ।।
क्षत्त्रियवचन इति । यः `कुरुनादिभ्यो ण्यः' इति व्युत्पादितः । औरशशब्देनेति । उरसा शेते उरशः क्षत्रियः, पृषोदरादित्वाद्रूपम्, तस्यापत्यम् `जनपदशब्दात्क्षत्रियात्' इत्यञ्‌ ।
किं पुनरेवं प्रयत्नेन क्षत्त्रियवचनस्य ग्रहणं व्याख्यायते ? इत्यत्राह---तथा चेति । उदाहृतमिति । पूर्वैरपि वृत्तिकारैरित्यर्थः ।
तिक्नोतेरिगुपधात्कः, तिकः । किं तवास्तीति प्रवर्त्तते कितवः, पृषोदरादिः । सम्पूर्वाज्जानातेः `आतश्चोपसर्गे' इति कः, स्त्रियां टाप्‌, संज्ञा । बालैर्बद्धा शिखास्य स बालशिखः । द्वौ शब्दावित्यन्ये, बलतेर्णिजन्तादच्‌ बालः, तस्य बालायनिः । शिखाशब्देन तद्वान्‌ लक्ष्यते, शैखायनिः । उरशशब्दो व्युत्पादितः । `शटकुत्सायाम्' पचाद्यच्‌, ततो गर्गादित्वाद्यञ्‌---शाट्यः; ततो यूनि फिञ्‌ । सिन्धुशब्दाद्‌ `द्व्यञ्मगध' इत्यण्‌, सैन्धवः, अत्रापि यूनि फिञ्‌ । यममुनत्तीतियमुन्दः, शकन्ध्वादि । प्रशस्तं रूपमस्यास्ति `रूपादाहतप्रशंसयोर्यप्‌', रूप्यः । ग्रामे भवो ग्राम्यः । नील वर्णे, इगुपधात्कः नीलः । `अम्‌ रोगे', औणआदिक इत्रः, अमित्रः । गौकाक्ष्यो गर्गादियञन्तः । `कृग्रोरुः', कुरुः । देवस्येव रथोऽस्य देवरथः । तिलेतिलः, तितिलः, पृषोदरादिः, ततो मत्वर्थीय इन्‌, तितिलिनोऽपत्यमौत्सर्गिकोऽण्‌, `नस्तद्धिते' इति टिलोपः, तैतिलः । औरशशब्दो व्युत्पादितः । `कुरुनादिभ्यो ण्यः', कौरव्यः । भूरि अस्यास्ति भूरिको व्रीह्यादिः, तस्यैव पक्षे कपिलादित्वाल्लत्वं भूलिकः, ताभ्यामत इञ्‌, भौरिकिः, भौलिकिः । `चुप मन्दायां गतौ' ण्यन्ताल्लटः शत्रादेशः, तस्यापत्यं चौपयतः, एवं चैतयतः । `चिट परप्रेष्ये', ण्यन्ताल्लटः शत्रादेशः, तस्यापत्यं चैटयतः । `शीकृ सेचने', णिजादि पूर्ववत्‌, शैकयतः । क्षितमाचष्टे क्षितयन्‌, तस्यापत्यं क्षैतयतः । ध्वजोऽस्यास्ति ध्वजवान्‌, तस्यापत्यं ध्वाजवतः । द्वौ शब्दावित्यन्ये, `ध्वज गतौ' ण्यन्तात्पचाद्यच्‌, ध्वाजः; वनोतेस्तःष वतः । `चदि आह्लादने', ततो रमस्‌ चन्द्रमाः, तस्यापत्यं चान्द्रमसायनिर्बुधः । शोभतेऽसौ शुभः, इगुपधात्कः । गमेर्गन्‌, गङ्गा । वृञ एण्यः, वरेण्यः । सर्वधातुभ्यो मनिन्‌, यानं यामा, शोभनं यामास्य सुयाम् । आरदो नाम जनपदः, ततोऽपत्ये `जनपदशब्दात्‌' इत्यञ्‌---आरदः । वह्यं करणम्, वह्यमेव वह्यका, निपातनादित्वाभावः । खलाय हिता खल्या, `खलयव' इति यत्‌ । `वृषु सेचने' इगुपधात्कः---वृषः । लोमानि कामयति लोमका । उदकमिच्छत्यात्मन उदन्यः, `अशनायोदन्यधनाय' इत्युदकस्योदन्भावः, ततः पचाद्यच्‌ । यज्ञयोगाद्यज्ञः । एते तिकादयः ।।
कौसल्यकार्मार्याभ्यां च ।। 4.1.155 ।।
कोसलशब्दाद्‌ `वृद्धेत्कोसलाजादाञ्‌ ञ्यङ्‌', कर्मारशब्दात्कारिलक्षणो ण्यः, एतयोरिह ग्रहणमिति शङ्कामपाकरोति---परमप्रकृतेरेवेति । कथं तर्हि विकृतं प्रकृतिरूपं श्रूयते ? तत्राह---प्रत्ययसंयोगेन त्विति । न चेयं स्वमनीषिकेत्याह---तथा चेति । युड्‌वादिष्टस्येति । पूर्वान्तकरणे दांगव्यायनिः, ओर्गुणो न स्यात्‌, अतः परादिकरणम् । आदिष्टेस्येति । कृतायनादेशस्येत्यर्थः । एतस्मिन्ननुच्यमानेऽनवकाशत्वाद्युटि कृतेऽनादित्वादायनादेशो न स्यात्‌ ।।
अणो द्वयचः ।। 4.1.156 ।।
कार्त्रायणिरिति । कर्तुरपत्यमित्यण्‌, कार्त्रः, ततो यूनि फिञ्‌, तस्याब्राह्मणगोत्रादिति लुग्न भवति, विधानसामर्थ्यात्‌ । अपर आह--- कर्तुश्छात्त्रः कार्त्रः, `तस्यापत्यम्' इत्यादावगोत्रे चरित्र्थं वचनमिति । अपर आह---अपत्यग्रहणमावर्तते, तत्रैकेनाण्‌ विशेष्यते, अपरेण प्रत्ययार्थो निदिश्यते, ततश्चापत्यस्यैवाणो ग्रहणादस्त्येव वचनसामर्थ्यमिति ।।
उदीचां वृद्धादगोत्रात्‌ ।। 4.1.157 ।।
कारिशब्दादपीति । कारिलक्षणस्योदीचामिञोऽवकाशः---तान्तुवायिः, फिञोऽवकाशः---आम्रगुप्तायनिः; नापितादुभयप्रसङ्गे फिञ्‌ भवति । याज्ञदतिरिति । `वा नामदेयस्य वृद्धसंज्ञा वक्तव्या' । पक्षे याज्ञदत्तायनिरिति भवत्येव ।।
वाकिनादीनां कुक्‌ च ।। 4.1.158 ।।
यदिह वृद्धगोत्रमिति । वाकिन-गारेध-काक--इत्येते त्रयः । वचनं वाकः सोऽस्यास्ति वाकिनः, बर्हिणवदुपपाद्यः । अगारे एधते गारेधः, पृषोदरादित्वादादिलोपः, शकन्ध्वादित्वात्पररूपम् । कायतेः काकः, `अन्येषामपि' इति कः । कर्कटस्यापत्यं कार्कट्यः, गर्गादिः, कुर्वादिर्वा । `लंघयतेर्लङ्का, अस्मादेव निपातनाद्‌ घस्य कादेशः । वर्मचर्मशब्दौ व्रीह्यादी ।
इञाद्यपवाद इति । वर्मिचर्मिणोरण्‌ प्राप्तः, लङ्काशब्दात्‌ `द्व्यचः' इति ढक्‌ प्राप्तः, यञन्ताद्‌ `यञिञोश्च' इति फक्‌; सेषभ्य इञ्‌ प्राप्तः, `वर्मिचर्मिणोर्नलोपश्च' इति कुकि कृते प्रातिपदिकस्यानकारान्तत्वान्नलोपो न प्राप्नोतीति विधीयते । यदि पुनरयं कुक् परादिः क्रियते, आयनादेशो न स्यात्‌; फस्यानादित्वात्‌ । यदा न लिङ्गविशिष्टपरिभाषया वर्मिणी-चर्मिणीशब्दाभ्यां प्रत्ययो भवति, तदा `भस्याऽढे तद्धिते' इति पुंवद्भावो न स्यात्‌ ।।
पुत्रान्तादन्यतरस्याम् ।। 4.1.159 ।।
पूर्वेणऐव प्रत्ययः सिद्ध इति । तेनासाविह विधीयते । कथं तर्हि पञ्चम्या निर्देश इत्याह---पुत्रान्तादित्यादि ।।
प्राचामवृद्धात्फिन्बहुलम् ।। 4.1.160 ।।
विकल्पार्था इति । विकल्पप्रयोजनम् । तत्राऽऽचार्योपादानं मतान्तरे प्रत्ययस्याभावं द्योतयति, बहुलग्रहणं तु क्वचित्प्रवृत्त्यादिकम्, अन्यतरस्यांशब्दस्तु विकल्पमेव, तेषामेकेनैव सिद्ध्यतीति प्रकरणाद्विकल्प इति गम्यते । किमर्थं तर्हि सर्वेषां ग्रहणम् ? तत्राह---तत्रेति । बहुलग्रहणं वैचित्र्यार्थमिति । पारिशेष्यादन्यस्य ग्रहणं विकल्पार्थमित्युक्तं भवति । वैचित्र्यमेव दर्शयति---क्वचिदिति ।।
मनोर्जातावञ्यतौ षुक्च ।। 4.1.161 ।।
तथा चेति । अपत्यार्थे तु सति `यञञोश्च' इति बहुषु लुक्‌ प्रसज्येत; लौकिकस्य गोत्रस्य तत्र ग्रहणात्‌ ।
अपत्ये कुत्सित इति । णत्वविधानार्थमिदम्, अणः सिद्धत्वात्‌ । न च `न दण्डमाणवान्तेवासिषु' इति णत्वसिद्धिः, अर्थविशेषस्यानिश्चायाद्‌ । अनधीतवेदत्वान्मूढत्वम् । विहिताकरणात्प्रतिषिद्धसेवनाच्च कुत्सितत्वम् ।।
अपत्यं पौत्रप्रभृति गोत्रम् ।। 4.1.162 ।।
तद्‌गोत्रसंज्ञं भवतीति । अपत्यमात्रस्य लोके गोत्रत्वादपत्यविशेषे गोत्रशब्दस्य नियमात्परिभाषेयं युक्ता, न संज्ञेति चेत्‌ ? न; लिङ्गवती परिभाषा भवति, यथा---`इको गुणवृद्धी' इति, विध्यन्तरशेषभूता वा, यथा---`विप्रतिषेधे परं कार्यम्' इति, न चेयं तथा; किञ्च वृद्ध्यादयोऽपि सर्वार्थप्रत्यायनयोग्याः संज्ञिविशेषे शक्त्यवच्छेदेन नियम्यन्ते । अथ च ताः संज्ञास्तथेयमपि भविष्यति । उक्तं च---
व्यवहाराय नियमः संज्ञानां संज्ञिनि क्वचित्‌ ।
नित्य एव तु सम्बन्धो डित्थादिषु गवादिवत्‌ ।।
वृद्ध्यादीनां च शास्त्रेऽस्मिन्‌ शक्त्यवच्छेदलक्षणः ।
अकृत्रिमो हि सम्बन्धो विशेषणविशेष्यवत्‌ ।। इति ।
यदि पौत्रप्रभृतेरपत्यस्य गोत्रसंज्ञा क्रियते, गर्गस्यापि प्राप्नोति, सोऽपि कञ्चित्प्रति पौत्रो भवत्येव, तत्र को दोषः ? `गोत्राद्यून्यस्त्रियाम्' इति यूनि प्रत्ययप्रसङ्गः, गार्ग्यादेव तु यूनीष्यते ? नैष दोषः; इहापत्यग्रहणं न कर्तव्यम्, पौत्रस्यापत्यत्वात्तत्प्रभृतेरपत्यस्यैव ग्रहणं सिद्धम्, तत् क्रियते---अपत्यरूपेण प्रतिभासामानस्य यथा स्यात्‌, वस्तुतोऽपत्यस्य मा भूदित्येवमर्थम् । अतोऽपत्यरूपेण प्रतिभासमानस्य गर्गस्य न भविष्यति । ननु चासत्यप्यपत्यग्रहणे पौत्रप्रभृतिरूपेण प्रतिभासमानस्य संज्ञाया विज्ञानात्तेन रूपेणाप्रतिभासमानस्य मर्गस्य न भविष्यतीति किमपत्यग्रहणेन ! यद्येवम्, औपगवस्यापि न स्यात्‌, सोऽपि ह्यपत्यरूपेण प्रतिभासते, न तु पौत्रप्रभृतिरूपेण, अपत्यमात्रे प्रत्ययविधानाद्‌ गार्ग्यादेरेव तु स्याद्‌---यत्र गोत्र एव प्रत्ययः । कुतश्चायमर्थो लभ्यते---पौत्रप्रभृतिरूपेण प्रतिभासमानस्येति ? तद्‌ग्रहणसामर्थ्यादिति चेत्‌, सर्वस्यापि यत्किञ्चित्प्रतिवस्तुतः पौत्रप्रभृतित्वाव्यभिचारात्‌ पौत्रप्रभृतिग्रहणं न कर्त्तव्यं भवति । तद्‌ग्रहणसामर्थ्यादयमर्थो लभ्यत इति ? तन्न; संज्ञिनिर्देशार्थत्वादचेतनव्यावृत्त्यर्थत्वाच्च । `गोत्रम्' इत्येतावति ह्युक्ते कस्य संज्ञा स्यात्‌, रथादीनां च वस्तुतोऽपि पौत्रप्रभृतित्वं नास्ति । अतो वस्तुतः पौत्रप्रभृतेर्गर्गस्य मा भूत्‌, अपत्यरूपेण प्रतिभासमानस्य यथा स्यादित्येवमर्थं त्वपत्यग्रहणं कर्तव्यम् । सम्बन्धिशब्दत्वाच्च पौत्रप्रभृत्यपत्यशब्दयोर्यं प्रति पौत्रप्रभृतित्वमपत्यत्वं च तमेव प्रति गोत्रसंज्ञा विज्ञायते । तेनाङ्गिरसः पौत्रे गर्गस्यानन्तरे न भवति `गर्गादिभ्यो यञ्‌' । तदेतत्सर्वमुक्तम् ।
सम्बन्धिशब्दत्वादित्यादि । यस्य यदपत्यमिति । प्रतिभासत इति भावः । तदयमत्र सूत्रार्थः---वस्तुतः पौत्रप्रभृतिरपत्यरूपेणं प्रतिभासमानोऽर्थो यं प्रत्यपत्यरूपेण प्रतिभासते यं च प्रति वस्तुतः पौत्रप्रभृतिः, तं प्रति गोत्रसंज्ञ इति ।
अपत्यमिति व्यपदेशायेति । संज्ञिन इति शेषः । अपत्यरूपेण प्रतिभासमानस्य संज्ञिनो व्यपदेशो यथा स्यादित्येवमर्थमित्यर्थः । इह कस्मान्न भवति---गर्गापत्यस्य तृतीयादेरपत्यमिति, अत्र हि गर्गापत्यशब्देन गर्गं प्रत्यपत्यरूपेण प्रतिभासमानस्य वस्तुतः पौत्रप्रभृतेर्गर्गं प्रति गोत्रसंज्ञायां सत्यां गर्गस्य चतुर्थे जीवद्वंश्ये `गोत्राद्यूनि' इति गर्गापत्यशब्दात्प्रत्ययः प्राप्नोति ? नैष दोषः; संज्ञाप्रकरण एवास्मिन्कर्तव्येऽपत्यप्रत्ययेषु विधीयमानेषु मध्ये संज्ञाकरणं प्रत्ययवाच्यस्यापत्यस्य परिग्रहार्थम् । यदिदं `तस्यापत्यम्' इत्यारभ्य प्रत्ययार्थत्वेन निर्दिष्टमपत्यं तद्गोत्रसंज्ञमिति, तेनापत्यशब्देन प्रतिभासमानस्यापत्यस्य संज्ञा न भविष्यति । ननु च `ते तद्राजाः' इत्यत्र तच्छब्देनाजादीनामेव परिग्रहो यथा स्यात्पूर्वेषां मा भूदिति मध्ये संज्ञाकरणं स्यात्‌ । यद्येतावत्प्रयोजनं स्याद्‌, `अञादयस्तद्राजाः' इत्येव ब्रूयात्‌, तस्मादुक्तमेव साक्षात्प्रयोजनमस्मिन्‌ प्रकरणे संज्ञाकरणस्य । स्थिते त्वेवमुक्तमपि प्रयोजनं भवत्येव, अत एव तत्र वक्ष्यति---गोत्रयुवसंज्ञा काण्डेन व्यवहितत्वादिति ।।
जीवति तु वंश्ये युवा ।। 4.1.163 ।।
अभिजनप्रबन्धो वंश इति । अभिजनाः=पित्रादयः, अभिजायन्ते येभ्यः पुत्रादय इति कृत्वा । प्रबन्धः=सन्तानः । तत्र भवो वंश्य इति । दिगादित्वाद्यत्‌ । पौत्रप्रभृत्यपत्यमिति षष्ठीसमासः, यद्यत्रापि पूर्ववत्‌ `पौत्रप्रभृति' इत्येतत्सामानाधिकरण्येनापत्यं विशेषयेत्‌, तृतीयस्यापि जीवद्वंश्यस्य युवसंज्ञा स्यात्‌; तत्र को दोषः ? युवसंज्ञया गोत्रसंज्ञाया बाधितत्वाद्गर्गादिभ्यो यञ्‌ स्यात्‌, न कश्चिदपत्यप्रत्ययः । किं कारणम् ? गोत्रादेव यूनीति नियमात्‌, नानन्तरान्न मूलप्रकृतेः । तस्माद्वाक्येनैवाभिधानं प्राप्नोति---गर्गस्यापत्यं गार्गेरपत्यमिति । एतेनोपगोस्तृतीयो जीवद्वंश्यो व्याख्यातः, तस्माद्वैयधिकरण्येन विशेषणमित्याह---पौत्रप्रभृतीति । षष्ठी विपरिणम्य इति । अत्र च व्याख्यानमेव शरणम् ।
तुशब्दोऽवधारणार्थ इति । अनेकार्थत्वान्निपातानां भिन्नक्रमो युवशब्दानन्तरं द्रष्टव्य इत्याह---युवैव भवति, न गोत्रमिति । असत्यवधारणे एकसंज्ञाधिकारादन्यत्र संज्ञायां समावेशाभ्युपगमात्कृत्यप्रत्ययसंज्ञानामिव गोत्रयुवसंज्ञयोः समावेशः स्यात्‌ । अस्तु, को दोषः ? यस्कस्यापत्यं गोत्रम् `शिवादिभ्योऽण्‌' तदन्ताद्यूनि `अणो द्व्यचः' इति फिञ्‌, वृद्धौ, यस्येति लोपे कृते यास्कायनिरिति । बहुषु `यस्कादिभ्यो गोत्रे' इति फिञो लुक्‌ प्रसज्येत; एकदेशविकृतस्यानन्यत्वात्‌ । यस्कादिभ्योऽनन्तरस्य गोत्रप्रत्ययस्थ लुगुच्यते, न चात्रानन्तरः फिञ्‌ । शिवाद्यणो यस्येति लोपः, तस्य पूर्वस्मादपि विधौ स्थानिवद्भावाद्यस्कादिभ्योऽनन्तरस्य विहितस्येति वा विज्ञास्यते । इह च कण्वस्यापत्यं काण्व्यः, तस्यापत्यं युवा काण्व्यायनः, तस्यच्छात्त्राः काण्वायनीया इति, `कण्वादिभ्यो गोत्रे' इत्यण्‌ न भवति, कण्वादिभ्यः परो योऽनन्तरो यो वा तेभ्यो गोत्रे विहितस्तदन्तादित्याश्रयणात्‌ । इह च औपगवस्यापत्यमौपगविरिति `गोत्राद्यूनि' इति प्रतिपदविधानात्‌, `एको गोत्रे' इति नियमो बाधिष्यते । यदि बाध्यते, औपगवेर्यूनोऽपत्यमिति चतुर्थस्य यूनो गोत्रत्वात्पञ्चमे यूनि फक्‌ प्राप्नोति ? नैष दोषः; पञ्चमे यूनि विवक्षिते उत्पन्नस्येञः यूनि `लुक्‌' इति लुकि कृते औपगवशब्दादणन्तात्पुनरपीञेव भविष्यति । इह तर्हि दाक्षेरपत्यं दाक्षायणस्यापत्यमित्यर्थविवक्षायाम् `फक्फिञोरन्यतरस्याम्' इति फको लुगभावपक्षे तदन्तादिञ्‌ प्राप्नोति ? किञ्च औपगवेरपत्यमित्यत्रापि लुप्तेऽपीञि प्रत्ययलक्षणेन फक्प्राप्नोति ? एवं तर्हि `गोत्राद्यूनि' इत्यत्र एकग्रहणनुवर्तिष्यते, तेनानेकः प्रत्ययो न भविष्यति । यस्तर्हि `गोत्रेऽलुगचि' इत्युलक्‌ सोऽत्त्रीणां यूनां छात्त्र इत्यादौ प्राप्नोति, यूनोऽपि गोत्रत्वात्‌ ? प्राप्नोतु, तं बाधित्वा परत्वाद्यूनि लुग्भविष्यति ? नैवं शक्यम्, फक्फिञोर्हि दोषः स्यात्‌---शालङ्केरपत्यं शालङ्किः, पैलादिषु पाठादिञ्‌ शलङ्कादेशश्च, ततः शालङ्केरपत्यं युवा `यञिञोश्च' इति फक्‌, `पैलादिभ्यश्च' इति लुक्‌, ततः शालङ्केर्यूनश्छात्त्रा इति प्राग्दीव्यतीयार्थविवक्षायाम् `गोत्रेऽलुगचि' इति पैलादिषु लुकः प्रतिषेधे सति `यूनिलुक्‌' इति लुकि नित्ये प्राप्ते `फक्फिञोरन्यतरस्याम्' इति पक्षे फकः श्रवणप्रसङ्गः । असत्यां तु यूनो गोत्रसंज्ञायाम् `गोत्रेऽलुगचि' इत्यस्याप्रवृत्तौ पैलादिषु लुग्भवत्येव । `फक्फिञोरन्यतरस्याम्' इत्ययं तु विकल्पोः यूनि `लुक्‌' इत्यस्यानन्तरस्य, न तु पैलादिषु लुको व्यवहितस्यान्तरङ्गस्य, तत `इञश्च' इत्यण्‌---शालङ्का इति भवति । तथा पीलाया अपत्यम्, `पीलाया वा' इत्याण्‌, पैलः, तस्यापत्यं युवा, `अणो द्व्यचः' इति फिञ्‌, तस्य `पैलादिभ्यश्च' इति लुक्‌, ततः पैलस्य यूनश्छात्त्राः पैलीया इति ।।
भ्रातरि च ज्यायसि ।। 4.1.164 ।।
कनीयान्‌ भ्रातेति । भ्रातृज्यायः---शब्दयोः सम्बन्धिशब्दत्वादयमर्थो लभ्यते । अकारणत्वादिति । यः साक्षात्परम्परया वा कारणं भवति, स लोके `वंश्य' इत्युच्यते । गार्ग्ये जीवतीति । ज्यायसि भ्रातरि जीवतीत्यर्थः । एवं वात्स्यायनादावपि द्रष्टव्यम् ।।
वान्यस्मिन्‌ सपिण्डे स्थविरतरे जीवति ।। 4.1.165 ।।
सप्तमपुरुषावधय इति । आत्मनः प्रभृति पित्रादिषु पुत्रादिषु वा गण्यमानेषु सप्तमपुरुषोऽवधिर्येषां ते तथोक्ताः । प्रायेण तु पूरणप्रत्ययो न पठ्यते, सप्तपुरुषावधय इत्येव पठ्यते, न तत्र समीचीनमर्थं पश्यामः । समानः पिण्डो येषामिति सपिण्डाः, निपातनात्सभावः । स्मर्यन्त इति । तद्यथा---`सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते' इति । सप्तमेऽतीते विनिवर्तत इत्यर्थः । उभयत्रेति । जनेन मरणे चेत्यर्थः ।
एवमादिकायां क्रियायामिति । आदिशब्देन `दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते' इत्यादिका क्रिया गृह्यते । जीवदेवेति । वस्तुव्याख्यानमेतत् । सूत्रे तु जीवतीत्याख्यातपदम्, तच्चेदपत्यं जीवतीति, प्रथमार्थे वा शत्रन्तात्सप्तमी व्याख्येया । तरब्निर्देश इत्यादि । असति तस्मिन्स्थविरशब्दाद्वयः प्रकर्षमात्रं गम्येत, तरपा तु स्थानप्रकर्षो द्योत्यते, ततस्तदु पादानसामर्थ्यात्‌, यथा गोतरः, अश्वतर इत्यादावप्रवृत्तिनिमित्तभूतस्यापि वाहदोहादेः प्रकृत्यर्थसम्बन्धिनः प्रकर्षेतरब्‌ भवति, तथात्रापि । स्थानम्=पदम्, पितृत्वादिकम् ।
स्थानवयोन्यूने इति । स्थानेन वयसा च न्यूने इत्यर्थः । ननु च ज्यायसीत्यनुवृत्तेरेवोभयोः प्रकर्षो लभ्यते, `प्रशस्यस्य श्रः', `ज्य च', `वृद्धस्य च' इत्युभयोर्ज्यादेशविधानात्‌ ? तन्न; नहि सकृत्प्रयुक्तः शब्दोऽनेकार्थमभिधातुं समर्तः । एवमपि तरब्निर्देशो न कर्तव्यः, ज्यायसीत्यनुवृत्तेरेव स्थानप्रकर्षलाभात्‌ ? एतदपि नास्ति; स्थविर इति विशेषणान्तरोपादाने सति ज्यायसीत्यस्यनुवृत्तेरेव दुर्ज्ञानत्वात्‌ । जीवतीति किमिति । श्रुतं प्रकृतं चोभयमधिकृत्य प्रश्नः । अत एवोभयोः प्रयोजनं दर्शयति---मृते मृतो वेति । तत्र मृत इति स्वपितरि, मृतो वेति पौत्रप्रभृतेरपत्यभूतोऽर्तः ।।
वृद्धस्य च पूजायाम् ।। 4.1.166 ।।
अपत्यमन्तर्हितमित्यादि । एतच्चापत्यग्रहणेन वृद्धस्य विशेषणाद्‌ इह परिभाषितस्य च शब्दात्मकस्यापत्यत्वासम्भवात्‌ विज्ञायते । पूजायां गम्यमानायामिति । का पुनरत्र पूजा ? यद्युवत्वमेव । यद्यपि युवशब्दोऽनपेक्षितप्रवृत्तिनिमित्तमेव संज्ञा, तथापि प्रायेणाल्पवयसो जीवद्वंश्यत्वं सम्भवतीति तदध्यारोपे सति तत्सहचरितं वयोऽपि प्रत्यायितं भवतीति पूजा भवति । संज्ञासामर्थ्यादिति । गोत्रस्य सतो युवसंज्ञा विधीयते, गोत्रसंज्ञा चेत्प्रवृत्ता `एको गोत्रे' इति नियमः प्राप्नोति, ततश्च परमप्रकृतेरेवोत्पन्नेन प्रत्ययेनाभिहितत्वादप्राप्तोऽपि प्रत्ययोऽस्माद्वचनाद्भवतीत्यर्थः । इह पूर्वत्र सामानाधिकरण्येन संज्ञाविधानात्प्रक्रमाभेदाय तथैव संज्ञा विधातुं युक्ता, कोऽयं वृद्धस्येति षष्ठीनिर्देशः इत्यत्राह---वृद्धस्येति । षष्ठीनिर्देश इति । इतिकरणो हेतौ, वात्तिंककारीयं चेदं सूत्रम् । वृत्तिकारेण तु सूत्रेषु प्रक्षिप्तम् । एतेनोत्तरसूत्रं व्याख्यातम् ।।
यूनश्च कुत्सायाम् ।। 4.1.167 ।।
निवृत्तिप्रधानो विकल्प इति । न पुनः प्रवृत्तिप्रधान इति; पूर्वमेव प्रवृत्तत्वात्‌ । यदाह---यूनश्चेति । न ह्यप्रवृत्तायां तस्यामेष निर्देश उपपद्यते । ननु च निवृत्तिरप्यनिर्वृत्ता या न शक्यते कर्तुम्, यो हि भुक्तवन्तं ब्रूयान्मा भुङ्‌क्था इति किं तेन कृतं स्यात्‌ । तस्माद्‌ `यूनश्च' इति निर्देशो युवसंज्ञाविषयो ल7णार्थः । जीवद्वंश्यस्य चतुर्थादेरिति, न तु युवसंज्ञाशिष्टस्य निर्देश इति वक्तव्यम् । एवं च प्रवृत्तिविकल्पोऽप्युपपद्यते, सा त प्रवृत्तिरसत्यपि सूत्रे लभ्यत इति मत्वा निवृत्तिप्रधान इत्युक्तम् । युवसंज्ञायां प्रतिषिद्धायामिति । तस्या अभावपक्ष इत्यर्थः । गार्ग्यो जाल्म इति । का पुनरत्र कुत्सा ? गोत्रत्वारोपिणामेव, अजीवद्वंश्या हि गोत्रसंज्ञकाः, ते प्रायेण चरमवयसो भवन्तीति तदारोपे भवति कुत्सा ।।
जनपदशब्दात्क्षत्त्रियादञ्‌ ।। 4.1.168 ।।
जनपदशब्दोयः क्षत्त्रियवाचीति । नन्वेते पञ्चालादयः शब्दाः क्षत्त्रियशब्दा एव, तत्सम्बन्धात्तु `तस्य निवासः' इति तद्धिते कृते `जनपदे लुप्‌' इति च लुपि जनपदे वर्तन्ते, तत्कथमवरकालया जनपदशब्दतया नित्यक्षत्त्रियशब्दता लक्ष्यते ? कः पुनराह---क्षत्त्रियसम्बन्धादेव ते जनपदे वर्तन्त इति, सूत्रकारस्तावत्‌ `लुब्योगाप्रख्यानात्' इति वदन्‌ क्षत्त्रियेष्विव जनपदेऽपि स्वाभाविका पञ्चालादिशब्दस्य प्रवृत्तिरित्याह---पाञ्चाल इति । यदपि पञ्चालादयः शब्दा जनपदे बहुवचनान्ताः, क्षत्त्रिये त्वेकवचनान्ताः, तथापि प्रातिपदिकस्य विशेषणं जनपदत्वम्, न सुबन्तस्येत्येकवचनान्तादपि प्रत्ययो भवत्येव । ऐक्ष्वाक इति । इक्ष्वाकुशब्दस्य दाण्डिनायनादिसूत्रे टिलोपो निपातितः ।
द्रौह्यव इति । क्षत्त्रियवचन एवायं न जनपदशब्दः । ब्राह्मणस्य पञ्चालस्येति । बाह्वादिप्रभृतिषु येषां दर्शनमित्युक्तत्वात्कथमत्र प्रसङ्ग इति चिन्त्यम् ।
क्षत्त्रियसमानशब्दादिति । समानः शब्दो यस्य यमानशब्दः, क्षत्त्रियेण यस्य समानशब्दस्तस्माज्जनपदशब्दात्‌ तस्येति षष्ठीसमर्थाद्राजन्यभिधेयेऽपत्यवत्प्रत्ययो भवति । अवृद्धादपीति प्राप्तस्य वुञोऽपवादः । क्वचितु वृत्तावेवाय ग्रन्थः पठ्यते । मागध इति । `द्व्यञ्मगध' इत्यण्‌ ।।
वृद्धेत्कोसलाजादाञ्ञ्यङ्‌ ।। 4.1.171 ।।
ड्यण्वक्तव्य इति । डकारष्टिलोषार्थः, णकारो वृद्धिनिमित्तस्येति पुंवद्भाव प्रतिषेधार्थः । अन्यस्मादिति । गुणवचनाद्युधिष्ठिरपितृवचनाच्च । पुरीरण्वक्तव्यः पौरव इति क्वचित्पठ्यते, तत्र पुरुशब्दस्याजनपदशब्दत्वात्प्राग्दीव्यतीयेऽणि सिद्धे तद्राजसंज्ञार्थं वचनम् । जनपदवाचित्वे `द्व्यञ्मगध' इत्येव सिद्धम् ।।
कुरुनादिभ्यो ण्यः ।। 4.1.172 ।।
आदिशब्दो नकारेणैव सम्बध्यते, न कुरुशब्देन; तदादेर्जनपदस्याभावात्‌, तदाह---कुरुशब्दान्नकारादिभ्यश्चेति । अमञोरपवाद इति । कुरुशब्दाद्‌ `द्व्यञ्मगध' इत्यणोऽपवादः, नादिभ्यस्त्वञः । नैषध्य इति । कथं `नैषधोऽर्हति चेदघम्' इति ? स्वच्छन्दवाच ऋषयः । कथं `स नैषधस्यार्थपतेः सुतायाम्' इति ? निराङ्कुशाः कवयः । शेषविवक्षायां वोभयत्राण्समर्थनीयः ।।
साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्‌ ।। 4.1.173 ।।
सल्वा क्षत्त्रियेति पाठः, तन्नामिकेति वचनात्‌, इदं हि तन्नामिकाणः प्राप्त्यर्थमुक्तम् । न च साल्वाशब्दात्तस्य प्राप्तिः, वृद्धत्वात, सलेर्वप्रत्ययः । अणपीष्यत इति । साल्वावयवे अपदातौ साल्वादिति निर्देशात्, न च निपातितोऽण्‌ ढकोऽपवादः, `साल्वेयगान्धारिभ्या च' इति निर्देशात्‌ । तेभ्यः क्षत्त्रियवृत्तिभ्य इति । `जनपदशब्दात्क्षत्त्रियात्‌' इत्यनुवृत्तेरेतल्लभ्यते ।
`उदुम्बरास्तिलखलाः' इति श्लोकः प्रदर्शनार्थः । तेन बुस, अजमीढ, आजकन्द--इत्येतेभ्यो।ञपि भवति; तथा च भाष्य उदाहृतम्---बौसिः, आजमीढिः, आजकन्दिरिति । साल्वावयवसंज्ञिता इति । साल्वावयव---इत्येवं शब्दिता इत्यर्थः ।।
ते तद्राजाः ।। 4.1.174 ।।
तथा चैवोदाहृतमिति । तत्र `तद्राजस्य बहुषु तेनैवास्त्रियाम्' मित्यत्र कार्याश्रयमुदाहृतम्, इह तु प्रकरणे रूपाश्रयम् ।।
कम्बोजाल्लुक्‌ ।। 4.1.175 ।।
चोलः, शक इति । `द्व्यञ्मगध' इत्यस्याणः । केरल इत्यत्राञः ।।
स्त्रियामवन्तिकुन्तिकुरुभ्यश्च ।। 4.1.176 ।।
अवन्ती, कुन्तीति । लुकि कृते `इतो मनुष्यजातेः' इति ङीष । कुरूरिति । `ऊङुतः' ।।
अतश्च ।। 4.1.177 ।।
तकारो विस्पष्टार्थं इति । असति हि तस्मिन्‌ `अस्य' इति निर्देशः स्यात्‌, ततश्च सन्देहः स्यात्‌---किमयं वर्णनिर्देशः ? आहोस्विदिदम इति ? इदमश्च निर्देशेऽनन्तरस्येञो लुक्‌ प्रसज्येत, तकारे सत्येष दोषो न भवति, तपरनिर्देशस्य भूयसा वर्णेष्वेव प्रसिद्धत्वात्‌ `तपरस्तत्कालस्य ' इति संज्ञाकरणाच्च । कथं `माद्रीसुतौ पुष्पफले समृद्धे' इति ? स्वच्छन्दवाच ऋषयः, मद्रीसुतावित्येव वा पाठ्यम् ।
अवन्त्यादिभ्यो लुग्वचनादिति । यद्यत्र तदन्तविधिः स्यादवन्त्यादिभ्यो लुग्वचनमनर्थकं स्याद्‌; अनेनैव सिद्धत्वात्‌ । तदन्तविधौ त्वसति अकारमात्रस्य ग्रहणेन सिध्यतीत्यवन्त्यादिभ्यो लुग्वचनमर्थवद्‌ भवति ।।
न प्राच्यभर्गादियौधेयादिभ्यः ।। 4.1.178 ।।
पाच्चालीत्यादि । पञ्चालादयः शरवत्याः प्राञ्चो जनपदाः । भर्गादिग्रहणमप्रागर्थम् । भृञो गः, भर्गः । कृञ उः, करुः, तमोषति=द्वेष्टि, मूलविभूजादित्वात्कः, करूषाः । चिनोतेः कयः आदेश्च कः, बहुलवचनादित्संज्ञाभावः, केकयः । कशेर्मिरः, कश्मीरः । साल्वशब्दो निरुक्तः । शोभनानि स्थलान्यस्य सुस्थलः । उरसा शेते उरशः । `कुरुनादिभ्यो ण्यः' कौरव्यः । यौधेयीत्यादि । युधाया अपत्यम्, शुभ्राया अपत्यम्, `द्व्यचः' इति ढक्‌ । शुभ्राशब्दात्‌ `शुभ्रादिभ्यश्च' इति, ततः स्वार्थे `पर्श्वादियौधेयादिभ्यः' इत्यञ्‌ । यद्यञो लुक्‌ स्याड्ढग्लक्षणे ङीपि सति उतादत्तनिवृत्तिस्वरः स्यात्‌, लुकि तु प्रतिषिद्धे `शार्ङ्गरवाद्यञः' इति ङीनि सत्याद्युदात्तं भवति ।
कस्य पुनरिति । अस्य वक्ष्यमाणोऽभिप्रायः, तमेव प्रकाशयति---कथं पुनरिति । परिहरति---एतदेवेति पर्शुरिति । पर्शुः क्षत्त्रियो जनपदेन समानशब्दः, तस्यापत्यं सङ्घः, स्त्रीत्वविशिष्टः, `द्व्यञ्मगध' इत्यण्‌, तस्य `अतश्च' इति लुक्‌, पुनः पर्श्वादिलक्षणः स्वार्थिकोऽण्‌, तस्यापि लुक्‌ । एवं रक्षा इति । रक्षसः क्षत्त्रियस्यापत्यम्, स्त्रीत्वविशिष्टः सङ्घः, पूर्ववदण्‌, द्वयस्यापि लुक्‌, `अत्वसन्तस्य' इति दीर्घः । आसुरीति । जनपदलक्षणस्याञो लुकि पर्श्वादिलक्षणस्याणो लुक्‌, जातिलक्षणो ङीष्‌ । ज्ञापकत्वमेव द्रढयति---तथा चोक्तमिति । वार्त्तिककारेणैदुक्तम् । यौधेयादिषु त्रयो निरुक्ताः; ज्यायासहितो बाणो यस्याः सा ज्याब्राणा, तस्या अपत्यं ज्याबाणेयः । ज्यावानेय इत्यन्ये पठन्ति, तत्र ज्यावानो यस्या ज्यावाना । `घृ क्षरणे' `धृ धारणे' आभ्यां क्तिजन्ताभ्याम् `इतश्चानिञः' इति ढक्‌, घार्त्तेयः, धार्त्तेयः । त्रयो गर्त्ता येषां ते त्रिगर्त्ताः । `भृञोऽतच्‌', भरतः । वशेः कर्मणि किः, उशिः, उशयः, उष्टा नरा यस्य स उशीनरः, `अन्येषामपि दृश्यते' इति दीर्घः ।।
इति श्रीहरदत्तमिश्रविरचितायां पदमञ्जर्यां चतुर्थाध्यायस्य प्रथमः पादः


*********************------------------