काशिका (पदमञ्जरीव्याख्यासहिता)/तृतीयोऽध्यायः/प्रथमः पादः
काशिका (पदमञ्जरीव्याख्यासहिता) प्रथमः पादः [[लेखकः :|]] |
द्वितीयः पादः → |
तस्मै श्रीगुरवे नमः
काशिकावृत्तिः
अथ तृतीयाध्याये प्रथमः पादः पदमञ्जरी
प्रत्ययः।। 3.1.1 ।।
प्रत्ययः।। इह यदि सर्वानेव संज्ञिनः स्वरूपेण निर्द्दिश्य संज्ञा विधीयेत---सन् प्रत्ययः क्यच् प्रत्ययः, क्यङ् प्रत्यय इति, ततो गौरवं स्यात्। अथ `सप्' प्रत्यय इति सनः सशब्दादारभ्य कपः पकारेण प्रत्याहाराश्रयेणात्र वा प्रदेशान्तरे वा संज्ञा विधीयेत, तदानेकस्य पकारस्य सम्भवात्सन्देहः स्यात्। तथा हि प्र्यासत्तिन्याये आश्रीयमाणे सिपः पकारेण स्याद्, व्याप्तौ तु `तप्तनप्तनथनाश्च' इति तनपः। स्यादेतत्----व्याप्तिरेवाश्रयिष्यते, अथ च तनपः पकारेण प्रत्याहारो न भविष्यति; ज्ञापकात्, यदयम् `इच एकाचोऽम्प्रत्ययवच्च' इत्यमः प्रत्ययवद्भावं शास्ति, अन्यथा षष्ठेऽपि प्रत्ययसंज्ञाव्यापारादमोऽपि स्वत एव प्रत्ययत्वात्तद्वद्भावो नातिदेश्यः स्यादिति ? तन्न; तत्र ह्यमिति द्विरावर्त्तते, ततश्चाप्रत्ययप्रतिबद्धम् `औतोऽम्शसोः' इत्यादिविशिष्टं कार्यं यथा स्यादिति सोऽतिदेशः स्यात्। नन्वेवमपि प्रत्ययग्रहणमनर्थकम्, अम्वदिति वक्तव्यम्, अतः प्रत्ययग्रहणात्प्रत्ययप्रयुक्तमपि कार्यमतिदेश्यमति प्रतीयते, तज्ज्ञापकमुक्तार्थस्य भविष्यति? एवमप्यम आगमत्वात्पुगादिवदप्राप्तेः प्रत्ययत्वातिदेशः स्यात्। अस्तु वा ज्ञापकम्, एवमपि कुत एतद्व्याप्तिराश्रीयते, न पुनः प्रत्यासत्तिरिति? किञ्च यथान्यासाद्रौरवं स्थितमेव, सबित्यस्याधिकस्य करणात्? अतो गौरवातिप्रसङ्गपरिहारायाधिकारेणेयं संज्ञा विधीयते। तदाह---प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते इति।`कारके' इति तद्विशेषणमधिक्रियते, स्वादिषु कप्पर्यन्तेषु प्रकृतिरियमधिक्रियत इतिवत्। `प्रत्ययशब्दः संज्ञाधिक्रियते' इति वक्तव्ये संज्ञात्वेनेति वचनमनर्थभेदात्। तथा ह्यमत्र कर्मकरत्वेनाधिकृतः, अयमत्र कर्मकरोऽधिकृतः, नार्थभेदोऽस्ति; किन्तु `कर्मकरोऽधिकृतः' इत्युक्ते यः कर्मकरः सोऽधिकृतो रूपान्तरेणेत्यपि गम्यते, कर्मकरत्वेनेति पुनरुच्यमाने तस्यैवाकारस्याधिकृतत्वं गम्यते। अधिक्रियते= विनियुज्यते सूत्रकारेण। यान्= नादीननुक्रमिष्यामः= अनुक्रमेण विधास्यामः। सूत्रकारायमाणस्य वृत्तकारस्यैतद्वचनम्।
यदि तर्ह्यधिकारेण संज्ञा क्रियते, प्रतियोगमुपस्थानात्प्रकृत्युपपदोपाधिविकारागमानामपि प्राप्नोति---`हरतेर्द्दतिनाथयोः पशौ' हरतेरिति प्रकृतिः, द्दतिनाथयोरित्युपपदम्, पशावित्युपाधिः; `हनस्त च' इत्यादिर्विकारः, `त्रपुजतुनोः पुक्' इत्यागमः। सत्यां च संज्ञायां प्रकृतिप्रत्यययोः तर्यायेण परस्परापेक्षं परत्वं स्यात्; शब्दान्तरापेक्षं वा प्रकृतेः, प्रकृत्यपेक्षं तु प्रत्ययस्य? उपपदस्यापि परत्वात् `उपसर्जनं पूर्वम्' इत्येतद्राजपुरुषादिषु सावकाशं बाधित्वा परत्वं स्यात्, यत्र समासाभावात्`उपसर्जनं पूर्वम्' इत्यस्याप्रसङ्गः, तत्रोपपदस्य परत्वं स्यात्? एवं च सति भोक्तुं व्रजतीत्येवमेव नित्यं स्यान्न तु व्रजति भोक्तुमिति, उपाधेरप्यर्थस्य परत्वासम्भवेऽपि तद्वाचिनः प्रयोगानियमे प्राप्ते परश्चेति नियमः स्यात्? आद्युदात्तत्वं च यथायथं स्वरान्तरं बाधित्वा स्यात्? अङ्गसंज्ञा तु विधानप्रतिबद्धा, न चेह प्रकृत्यादयः कुतश्चिद्विधीयन्ते इति न सा प्रकृत्यादिषु परतः पूर्वस्य प्राप्नोति? ननु च प्रतियोगमुपस्थानेऽपि वाक्यभेदप्रसङ्गात्प्रकृत्यादीनां संज्ञा न भविष्यति, तथा हि---हरतेर्द्दतिनाथयोः कर्मणोरुपपदयोः पशौ कर्त्तरीन् प्रत्ययो भवतीत्येकं वाक्यम्, ते च हरत्यादयः प्रत्ययसंज्ञका इति द्वितीयम्, सम्भवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते? नैतदस्ति; सनादीनामप्यसतां संज्ञानुपपत्तेर्वाक्यभेदेनैव संज्ञा विधेया, ततश्च सनादीनामेकेन वाक्येन विधिरपरेण संज्ञाविधिः, एवं प्रकृत्यादीनामपि प्राप्नोति? तत्राह---प्रकृत्युपपदेत्यादि। अयमभिप्रायः----प्रकृत्यादीनां सनाद्युत्पत्तौ निमित्तत्वेनोपादानात्पारार्थ्यात्स्वसंस्कारं प्रति प्रयोजकत्वाभावः यथा--यः पीठे स देवदत्त इति पीठस्य देवदत्तसंज्ञा न भवति।
ननु सनाद्युत्पत्तिवाक्ये प्रथमे तेषां पारार्थ्यम्, न द्वितीये संज्ञासंज्ञिसम्बन्धप्रतिपादनपरे वाक्ये, ततश्च संज्ञाविधानपरमेवंरूपमेव---गुप्तिज्किद्भ्यः सन् प्रत्यय इति, ततश्च तत्रापि भूतविभक्त्यानिर्द्देशान्निमित्तत्वात्पारार्थ्यं स्थितमेव। किञ्च, योग्यविभक्त्यभावाच्च न प्रकृत्यादीनां संज्ञा, प्रथमान्तस्य षष्ठ्यन्तस्य वा संज्ञासम्बन्धः `वृद्धिरादेच्' `स्वं रूपं शब्दस्य' इति। न च द्वितीये वाक्ये योग्यविभक्त्यध्याहारेण संज्ञा भवितुमर्हति; योग्यविभक्तिनिर्द्दिष्टेषु सनादिषु चरितार्थत्वात्। उपपदसंज्ञा तु सप्तमीनिद्दिष्टस्य विधीयमाना युक्तं यद्वाक्यभेदेन योग्यविभक्त्यध्याहारेण च भवतीति। किञ्च, प्रधानेतरसन्निधौ प्रधाने कार्यसंप्रत्ययो भवति, यस्य चापूर्वविधानं तत्प्रधानम्; अतः प्रथमवाक्ये तावत्सनादीनामेव प्राधान्यम्, द्वितीयेऽपि संज्ञा संज्ञिनमपेक्षमाणा यत्पूर्ववाक्ये प्रधानतयावगतं तदेवापेक्षते, न तु पारतन्त्र्यादप्रधानमिति सिद्धमिष्टम्। एवमपि विकारागमानां प्राप्नोति? नैष दोषः; महती संज्ञा क्रियते, अन्वर्थसंज्ञा यथा विज्ञायेत---प्रतियन्त्यनेनार्थमिति प्रत्यय इति। न च विकारागमाभ्यामर्थं प्रतियन्ति। यद्येवम्, `अवेः कः' इत्यादीनां समासान्तानां च न स्याद्, न ह्येषामन्वयव्यतिरेकाभ्यां कश्चिदर्थोऽवधार्यते, तदभावेऽपि केवलाया एव प्रकृतेस्तदर्थावगमात्।
यदप्युच्यते----अनिर्द्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तीति स्वार्थ एवैषामर्थ इति, तदपि कल्पनामात्रम्; अन्वयव्यतिरेकगम्यत्वादर्थवत्त्वस्य। इतरेतराश्रयत्वं च भवति---सति प्रत्ययत्वे स्वार्थे विधानम्, स्वार्थे विधानाच्चार्थवत्त्वे सति प्रत्यय संज्ञेति। एवं तर्हि प्रयोजनाभावान्न भविष्यति? तथा हि तेषां स्थानषष्ठ्यासम्बन्धस्यावयसम्बन्धस्य च प्रतिपादनात्परत्वं तावन्न सम्भवति, आगमानां चानुदात्तत्वविधानादाद्युदात्तत्वस्यासम्भवः, सति तु प्रयोजने आगमस्यापि श्नमः शकारस्येत्संज्ञार्थ भवत्येव संज्ञा। अथ `हनश्च वधः' `नाभि नभञ्च' `विराग विरङ्गञ्च' इत्यादौ वधादीनामनेकालानामादेशानां संज्ञा कस्मान्न भवति, सम्भवति हि तेषु परत्वं प्रयोजनम्? यद्यपि स्थानिन आदेशेन निवर्त्तितत्वान्न तदपेक्षं परत्वम्, शब्दान्तरापेक्षया स्यादेव परत्वम्। यथोक्तं प्राक्--गुपादिषु अर्थवत्त्वं च तेषामस्ति, विधेयत्वात्प्राधान्यं च, योग्या च विभक्तिः। अतः सर्वथा वधादिषु संज्ञानिवृत्तये यत्नः कर्त्तव्यः। कर्त्तव्यम्, करणीयामति। अत्र प्रत्ययसंज्ञायां धातोरङ्गसंज्ञा, अङ्गस्य गुणः। अनन्तरमपि सनादिकमतिक्रम्य व्यवहितोऽपि तव्यदादिरुदाहृतः, तत्राद्युदात्तादेरपि प्रत्ययकार्यस्य सम्भवात्। सनादौ तु नित्स्वरेण धातुस्वरेण च तद्वाध्यते।।
परश्च।। 3.1.2 ।।
परश्च।। अयमप्यधिकार इति। न केवलम् `प्रत्यय' इत्ययमेवेत्यपिशब्दार्थः। योगे योगे उपतिष्ठते इति। अनेन परिभाषातोऽधिकारस्य भेदको धर्मो दर्शितः। परिभाषा हि न प्रतियोगमुपतिष्ठते, किन्त्वेकदेशस्थितैव सर्वशास्त्रे व्याप्रियते। परश्च स भवतीत्यादि। अनेनेहस्थाया एवास्याः परिभाषायाः प्रत्ययविधौ सर्वत्र व्यापारो दर्शितः। लिङ्गवती चेयं परिभाषा, प्रत्ययसंज्ञा च लिङ्गम्। धातोर्वेति। क्रियावाचिन्याः प्रकृतेस्तिङन्तादेरप्युपलक्षणमेतत्। प्रातिपदिकाद्वेति। अक्रियावाचिन्याः प्रकृतेरिदमुपलक्षणम्, तेन ङ्यापोरपि ग्रहणम्। तैत्तिरीयमिति। तित्तिरिणा प्रोक्तमधीते, `तित्तिरिवरन्तुखण्डिकोखाच्छण्' `छन्दोब्राह्मणानि च तद्विषयाणि',`तदधीते तद्वेद', `प्रोक्ताल्लुक्', ब्राह्मणकुलस्याभिधेयत्वान्नपुंसकन्वम्। चकारः पुनरस्यैव समुच्चयार्थ इति। अन्यस्य समुच्चेतव्यस्याभावात्। तेनेति। अन्यथा बहुलवचनस्य सर्वोपाधिव्यभिचारार्थत्वादुणादिषु परत्वस्यापि विकल्पः सम्भाव्येत, इह `गुप्तिज्किद्भ्यः सन्' इत्यादौ दिग्योगलक्षणा पञ्चमी, तत्र पूर्वः पर इति वा दिक्शब्दस्याश्रवणादनियमेनाध्याहारे सत्यनियमेन प्रयोगप्रसङ्गे नियमार्थमिदम्---पर एव प्रत्ययो न पूर्व इति। `गापोष्टक्' इत्यादौ षष्ठीनिर्द्देशेऽप्यानन्तर्यसम्बन्धे षष्ठीविज्ञानादानन्तर्यस्य च पूर्वत्वेऽपि भावादनियमप्रसङ्ग एवेति तत्रापि नियमार्थमेव। नैतदस्ति प्रयोजनम्, `विभाषा सुपो बहुच् पुरस्तात्तु' इत्येतन्नियमार्थ भविष्यति---बहुजेव पुरस्ताद्भवति नान्यः प्रत्यय इति, ततश्च बहुचि पूर्वत्वस्य नियतत्वादन्यः प्रत्ययः पर एव भविष्यति, षष्ठीनिर्देशेषु मध्यशब्दाध्याहारेण मध्येऽपि प्रसङ्ग इति चेत्, न;`अव्ययसर्वनाम्नामकच् प्राक्टेः' इति नियमात् अकजेव प्रकृतिमध्ये भवति, नान्य इति? नैतदेवम्; यदि तावदेवं नियमः----बहुजेव पुरस्तादकजेव मध्ये इति, ततो बहुजकचोर्नियमो न स्यात्। अथ बहुच् पुरस्तादेव अकज्मध्य एवेति, ततो देशस्यानियतत्वात्तत्र प्रत्ययान्तरं स्यादेवेति सर्वथानिष्टप्रसङ्गः। किञ्च अकजेव प्राक् टेरित्येवं नियमे प्राक् टेः प्रत्ययान्तरं मा भूत्, मध्यान्तरे तु स्यादेव; मध्यविशेषाश्रयत्वान्नियमस्य। न च `तस्मादित्युत्तरस्य' इत्यनया परिभाषयात्र परत्वं सिद्ध्यति, यत्र हि प्रागोव सतः कस्यचित् किञ्चिद्विधीयते, यथा---पदात्परयोरपादादौ वर्त्तमानयोर्युष्मदस्मदोर्वानावौ भवत इति, स तस्या विषयः; इह तु प्रागसन्त एव सनादयो विधीयन्ते, न तेषां सम्बन्धि किञ्चित्, प्रत्ययसंज्ञैव तेषां कार्यमिति चेत्, न; एवमपि प्रागुत्पत्तिरनिवारिता स्यात्। तथा हि---असतां सनादीनां सज्ञाविधिरनुपपन्न इत्येकेन वाक्येन सनादीनां विधिर्द्वितीयेन च तेषामेव संज्ञाविधिरित्यङ्गोकरणीयम्, ततश्च द्वितीये वाक्ये सतः कार्यमिति कृत्वा परिभाषोपस्थानेन प्राक् प्रयुक्तानां संज्ञैव केवलं न स्यादुत्पत्तिस्त्वनियतदेशैव स्यात्; प्रथमवाक्ये परिभाषानुपस्थानात्। स्यादेतत्---`गुप्तिज्किद्भ्यः सन्' इत्यादावेकैव पञ्चमी, सा चैकमेव दिक्शब्दमध्याहरेत्, तत्र पूर्वः परो वेति संशये पूर्वशब्दाध्याहारे द्वितीयस्य वाक्यस्य स्वरसभङ्गः स्यात्। गुपादिभ्यः परः सन् प्रत्ययसंज्ञो भवतीति हि तस्य स्वरसतः प्राप्तोऽर्थः, स च पूर्ववाक्ये पूर्वशब्दाध्याहारे सति भग्नः स्यात्, अतस्तत्परिरक्षणाय परशब्द एवाध्याहरिष्यते। भवतु वोत्पत्तिरनियतदेशा, पश्चात्तु सत एव परस्य यत्कृत्यप्रत्ययसंज्ञादिशास्त्रकार्यम्, तन्नान्यदेशस्य,यद्देशस्य च शास्त्रीयं कार्यं तद्देशोऽन्यदेशं निवर्त्तयिष्यति; विशेषशास्त्रान्वितत्वेन तस्यैव साधुत्वादिति? अस्त्वेवम्, अथ येषु प्रत्ययसंज्ञैव न भवति----`शमेः खः' शङ्खः, `कणेष्ठः' कण्ठ इत्यादिषु, तेषु कथं परत्दम्, द्वितीयवाक्यव्यापाराभावात्? भवतो वा कथं भवानपि हि `यः प्रत्ययः स परः' इति प्रत्ययपूर्वकं परत्वं परिभाषते? सत्यम्; परिभाषापक्षे न स्यात्परत्वम्, अधिकारपक्षे तु प्रत्ययत्वपूर्वकं परत्वं न भवति; किन्तु परत्वविशिष्टस्यैवोत्पन्नस्य पश्चात्प्रत्ययसंज्ञा, इह तु बहुलवचनात्प्रत्ययत्वाभावेऽपि परत्वमविरूद्धम्। एवमपि नार्थ एतेन, बहुलवचनादेव परत्वमेवात्र व्यवस्थास्यते? एवं तर्हि प्रयोगनियमार्थमिदम्---पर एव प्रत्ययो न केवल इति; अन्यथा प्रत्ययार्थमात्रविवक्षायां केवलोऽपि प्रत्ययः प्रयुज्येत, यथा---किमस्य द्वयसम्, किमस्य मात्रमिति; यथा वा प्रकर्षविवक्षायां तरतमभावः तारतम्यमिति। ननु प्रकृतिविशेषं निर्द्दिश्यैव विधीयते, तत्र पूर्वोक्तया नीत्या परत्वविशिष्टस्यैव विधानमिति नास्ति केवलस्य प्रयोगः? एवमपि प्रकृत्यर्थमात्रविवक्षायां केवलायाः प्रकृतेः प्रयोगः स्यादेव, यथा---पच्, वृक्षेति। यत्र पुनरुभयं विवक्षितम्----प्रकृत्यर्थः, प्रत्ययार्थश्च, न तत्र केवलायाः प्रकृतेः प्रयोगप्रसङ्गः ; न केवला प्रकृतिः प्रत्ययार्थमभिधातुं समर्थेति। लक्षणया समर्थेति चेत्? नो खल्वारभ्यमाणमप्येतल्लक्षणया प्रयोगं निवारयितुमर्हति, अतः केवलप्रकृत्यर्थविवक्षायां केवला प्रकृतिर्मा प्रयोजीति सूत्रारम्भः। चशब्दश्चावधारणे, प्रत्ययः परो भवत्येव, न तु कदाचिन्न भवतीति वचनव्यक्तिः। आ पदत्वनिष्पत्तेश्चायं नियमः, निष्पन्ने तु पदे तावदेव प्रयुज्यते। अपत्याद्यर्थान्तरविवक्षायां तु तस्मादपि प्रत्ययान्तरं भवति।।
आद्युदात्तश्च।। 3.1.3 ।।
आद्युदात्तश्च।। उहास्वरकस्याच उच्चारणासम्भवात्सर्व एव स्वरविधिर्नियमार्थः, तत्र `चितः' एवान्त उदात्तः, रित्येव मध्य उदात्तः, तिदेव स्वरितः, सुप्पितावेवानुदात्तो, दूरात्सम्बुद्धावेवैकश्रुत्यमति। स्वरान्तराणामन्यत्र नियमात् पारिशेष्यादाद्युदात्त एव प्रत्ययो भविष्यति, नास्वरकः नाप्यन्यस्वरकः, तत्राह---अनियतस्वरप्रत्ययप्रसङ्ग इति। अनियतः स्वरो यस्य सोऽनियतस्वरः, स चासौ प्रत्ययश्चानियतस्वरप्रत्ययः तस्य प्रसङ्गे प्रत्ययोऽनियतस्वरो मा भूदित्येवमर्थमित्यर्थः। अनियतस्वरप्रसङ्ग इति पाठे त्वनियतस्य स्वरस्य प्रसङ्ग इत्यर्थः। अयमभिप्रायः---आद्युदात्तत्वमपि `ञ्नित्यादिर्नित्यम्' इत्यादौ नियतत्वान्न स्याद्, अन्यत्रानियमः स्यादेव यत्रायं नियमो नास्ति। किञ्च त्वदुक्ते नियमे चिदातीनामनियमः स्याद्। अतश्चितोऽन्त एव, तित्स्वरित एवेत्यादिकं तत्र तत्र नियमस्वरूपमाश्रणीयम्, ततश्च प्रत्ययस्यानियतस्वरत्वमेव स्यात्। किञ्च, रित्येवोपोत्तमनुदात्तमित्यपि नियमेऽन्यत्रोपोत्तमनुदात्तं मा भूद्। मध्यान्तरं तु स्यादेव; मध्यविशेषाश्रयत्वान्नियमस्य। तस्माद्ये एकाचः प्रत्ययास्तेष्वनियतस्वरप्रसङ्गे वचनमिदमुदात्तार्थम्। ये पुनरनेकाचः प्रत्ययास्तेषु देशस्याप्यनियमः प्राप्नोतिकदाचिदादेः, कदाचिन्मध्यस्य, कदाचिदन्त्यस्येति। तेषु वचनमिदमुदात्तार्थम्, तत्राप्यदेरुदात्तार्थमिति। किमर्थ पुनः प्रत्ययसंज्ञासन्नियोगेनायं स्वर उच्यते, न `ञ्नित्यादिर्नित्यम्' प्रत्ययस्य च लसार्वधातुकमनुदात्तं सुप्पितौ चेति स्वरप्रकरण एवोच्येत, एवं हि प्रकरणमभिन्नं भवति? किञ्च, द्विराद्युदात्तग्रहणं द्विश्चाद्युदात्तग्रहणं न कर्त्तव्यं भवति?
स्यादेतत्--तत्र क्रियमाणे प्रत्ययग्रहणपरिभाषया तदन्तस्य स्वरः प्राप्नोति, इह तु क्रियमाणे नायं दोषो भवेद्, उत्पन्नो हि प्रत्ययस्तदाश्रयाणां तदन्तविध्यादीनां निमित्तं भवति, न तूत्पद्यमानः, न खलूत्पद्यमानो घट उदकाहरणादीनां निमित्तमवकल्पते, ततश्च `आद्युदात्तश्च' इत्यस्य प्रतियोगमुपस्थाने सति उत्पद्यमान एव तव्यदादिराद्युदात्तो भवति, एवं तिबादिरनुदात्त इति दोषाभावः, अतः प्रत्ययसंज्ञासन्नियोगेन चस्वरो विधीयत इति? तन्न; ज्ञापकात्सिद्धम्, यदयं ञ्नित्यादिरुदात्तो भवतीत्याह, तज् ज्ञापयति---प्रत्ययस्य चेत्यत्र न तदन्तविधिर्भवतीत्यनुदात्तत्वमपि तदन्तस्य न भविष्यति; धातोरन्त उदात्तो भवतीत्यादेः प्रकृतिस्वरस्य विधानसामर्थ्यात्। यत्र ह्यनुदात्तः प्रत्ययः----याति, वृक्षाभ्यामित्यादौ, तत्र प्रकृतिस्वरः श्रूयते; यातः, यान्ति, वृक्षत्वमित्यादौ सतिशिष्टेन प्रत्ययाद्युदात्तत्वेन बाध्यते। यदि च प्रत्ययान्तस्यानुदात्तत्वं स्याद् निर्विषयं धातुप्रातिपदिकान्तोदात्तत्वं स्यात्। इदं तर्हि प्रयोजनम्---लवितव्यमित्यादौ प्रत्ययोत्पत्तिकाले एवाग्युदात्तत्वे कृते पश्चाद्भवन्निडनुदात्तो यथा स्यात्, अन्यथा लू+तव्य इति स्थिते आद्युदात्तत्वं शब्दान्तरप्राप्त्याऽनित्यम्, इट् तु स्वरभिन्नस्य प्राप्नोति, उभयोरनित्ययोः परत्वादिटि कृते तस्य प्रत्ययग्रहणेन ग्रहणे सति इट एवाद्युदात्तत्वं स्यात्? एतदपि ज्ञापकात्सिद्धम्, यदयम् `यासुट्परस्मैपदेषूदात्तो ङिच्च' इत्याह, तज्ज्ञापयति---आगमा अनुदात्ता इति; अन्यथा चिनुयातामित्यादौ यासुटः प्रत्ययादित्वात्सिद्धमुदात्तत्वमित्यनर्थकं तत्सस्यात्। ननु पिदर्थमेतत्सस्यात्, अन्यथा चिनुयादित्यादौ पिद्भक्तो यासुङनुदात्तः स्यात्? यद्योतावत्प्रयोजनं स्याद्, यासुट् परस्मैपदेषु भवति, अपिच्च लिङ्भवतीति पित्त्वमेव प्रतिषेधेत्। अवश्यं चैतज्ज्ञापकमाश्रयणीयम्, अन्यथा प्रत्ययसंज्ञासन्नियोगेनाद्युदात्तत्वविधावपि लविषीयेत्यादौ लावस्थायामनच्कत्वादसति स्वरे विशेषविहितत्वात्परत्वाच्च सीयुटि कृते पश्चाल्लादेशे प्रत्ययाद्युदात्तत्वमित्यानुपूर्व्या सीयुट एव स्यात्। ज्ञापकाश्रयणे तु सीयुडनुदात्तः `इटोऽत्' इत्यकार उदात्तो भवति। कथं भवति, यावता सीयुटि कृतेऽकारस्य विच्छिन्नमादित्वम्? नैष दोषः; यासुट उदात्तवचनं ज्ञापकम्---प्रत्ययाद्युदात्तत्वे कर्त्तव्ये आगमा अविद्यमानवद्भवन्तीति; अन्यथा चिनुयातामित्यादौ यासुटः प्रत्ययादित्वात्सिद्धमुदात्तत्वमित्यनर्थकं तत्स्यात्। किञ्च, लवितव्यमित्यादौ पूर्वमाद्युदात्तत्वे सत्यपि पश्चाद्भवन्निट् किमित्यनुदात्तो भवति शेषनिघातेन? नायं शेषनिघातस्य विषयः, स्वरविधिशेषत्वात्तस्य। यस्मिन्पदे यस्यामवस्थायां यस्याच उदात्तः स्वरितो वा विधीयते तस्मिन्पदे तस्यामवस्थायां सन्निहितमजन्तरं निहन्यत इत्यर्थः। न चायं प्रकारोऽत्र सम्भवति। इह तर्हि स्त्रुघ्ने भवा स्त्रौघ्नी प्रत्ययसन्नियोगेनाण उदात्तत्वे सति ङीप उदात्तनिवृत्तिस्वरः सिद्धो भवति; अन्यथा स्त्रौघ्न ई इति स्थिते `प्रत्ययस्य च' इत्याद्युदात्तत्वं बाधित्वा परत्वाद्यस्येति लोपे कृते उदात्तनिवृत्त्यभावान्न स्यात्, न वा बहिरङ्गलक्षणत्वात्। लोपो हि ङीप उत्पत्तिमपेक्षते, स्वरस्तु निरपेक्षः। अवश्यं चात्रान्तरङ्गत्वमेवाश्रयणीयम्, अन्यथा कंसेन क्रीता `कंसाट्टिठन्' टित इति ङीप्, कंस ठ ई इति स्थिते `ञ्नित्यादिः' इत्याद्युदात्तत्वं बाधित्वा परत्वाद्यस्येति लोपः स्यात्, ततश्च नित्स्वरे लोपेन बाधिते प्रत्ययसंज्ञासन्नियोगेन विधीयमानमाद्युदात्तत्वमकारस्य स्थितमिति तस्य लोपे ङीप उदात्तनिवृत्तिस्वरः स्यात्। ननु च ठचश्चित्करणात्पूर्वमिकारदेशस्ततः प्रत्ययाद्युदात्तत्वमिति नास्त्युदात्तलोपः। इह तर्हि उत्से जाता `उत्सादिभ्योऽञ्',ङीप्, उत्स अ ई इति स्थिते ञित्स्वरं बाधित्वा परत्वाद्यस्येति लोपे पूर्वाक्तया नीत्या डीप उदात्तनिवृत्तिस्वरः स्यात्? नैष दोषः; नित्स्वरो हि प्रत्ययस्वरस्यापवादः, न चापवादविषय उत्सर्गोऽभिनिविशते, तत्र तावदत्र प्रत्ययाद्युदात्तत्वं भवति, अपवादं ञ्नित्स्वरं प्रतीक्ष्यत इति कुत उदात्तलोपः! इह तर्हि अत्रेरपत्यम् `इतश्चानिञः' इति ढक्, आयन्नादिषूपदेशिवचनं स्वरसिद्ध्यर्थमिति प्रत्ययस्वरात्पूर्वमेयादेशः, ङीप् आत्रेय ई इति स्थिते तद्धितस्य कित इति स्वरं बाधित्वा परत्वाद्यस्येति लोपे कृते उदात्तनिवृत्तिस्वर ईकारस्य न प्राप्नोति तस्मादान्तरङ्गत्वमेवाश्रयणीयम्। एवं च स्रौघ्नीत्यत्रापि अन्तरङ्गत्वादेव सिद्धमिष्टमिति नार्थ एतदर्थेन प्रत्ययसंज्ञासन्नियोगेनाद्युदात्तवचनेन। इदं तर्हि प्रयोजनम्---गोपायाति धूपायति, उत्पत्तिसन्नियोगेनाद्युदात्तत्वे पश्चात् `सनाद्यन्ता धातवः' इति धातुसंज्ञायां धातोरित्यन्तोदात्तत्वं भवति। यदि तु ञ्नित्यादिर्नित्यं प्रत्ययस्य चेत्युच्येत, परत्वाद्धातुस्वरं प्रत्ययस्वरो बाधेत। स्यादेतत्।
अनुदात्तस्य तर्ह्यत्र प्रदेशे करणे किं प्रयोजनम्? स्यादेतत्----कार्यशब्दाट्टापि स्वरितत्वात्प्रागेकादेशे कृते तस्य पूर्व प्रत्यन्तवद्भावात्तित्स्वरितश्च प्राप्नोति, परं प्रत्यादिवद्भावात्पित्स्वरश्च, परत्वात्स्वरितो भवति। यदि तु लसार्वधातुकमनुदात्तं सुप्पितौ चेत्युच्येत परत्वादनुदात्त्वं स्यादिति? तन्न; तत्र हि टाबु त्पत्तेरपि प्रागेव स्वरितो भवति, सत्यपि वा टापि स्वरितैकादेशयोरुभयोरनित्ययोः परत्वात्स्वरितत्वे कृते आन्तर्यतः स्वरितानुदात्तयोरेकादेशः स्वरितो भविष्यति। इदं तर्हि---आम्बष्ठ्या यङश्चाप्येकादेशे कृते पित्स्वरश्च प्राप्नोति चित्स्वरश्च, परत्वाच्चित्स्वरो भवति, अन्यत्र क्रियमाणो पित्स्वरः स्यात्? अत्रापि चापश्चित्करणसामर्थ्यादेवच चित्स्वरो भविष्यति। सामान्यग्रहणाविघातार्थे हि चकारे टाप्प्रकरण एव यङष्टापं विदधीत। एवं तर्हि तदेव तस्मिन्प्रयोजनं तदन्तविधिर्मा भूदिति। यदुक्त प्रकृतिस्वरस्य विधानसामर्थ्यादिति? तत्र आस्ते शेत इत्यादौ लसार्वधातुकमात्रस्यानुदात्तत्वे सति धातुस्वरस्य सावकाशत्वात्। प्रातिपदिकान्तोदात्तत्वमपि अग्निमान्, वायुमान्, अग्रीनामित्यादौ `ह्रस्वनुड्भ्यां मतुप्' `नामन्यतरस्याम्' इति स्वरसिद्ध्यर्थ स्यात्, अत्र ह्यन्तोदात्तादिति वर्त्तत इत्यलमपि कर्कशेन क्षोदेन।।
अनुदात्तौ सुप्पितौ।। 3.1.4 ।।
अनुदात्तौ सुप्पितौ।। सुबिति प्रत्याहारस्येदं ग्रहणम्, न स्पतमीबहुवचनस्य; पित्त्वादेवानुदात्तत्वस्य सिद्धत्वात्। अत एव वृत्तौ `सुपः' इति बहुवचनम्। पित एतत्तु प्रक्रमानुरोधेन बहुवचनम्। सुपश्च पकारेण प्रत्याहारः, न कप; टाबादीनां पित्करणात्। पचतीति। शबन्तोदाहरणम्, तिपस्त्वदुपदेशात् `लसार्वधातुकम्' इत्येव सिद्धम्।।
गुप्तिज्किद्भ्यः सन्।। 3.1.5 ।।
गुप्तिज्किद्भ्यः सन्।। गुप गोपने इति। `गुप व्याकुलत्वे', `गुपू रक्षणे'इत्येतयोस्तु ग्रहणं न भवति; तिजिना सह गणे पठितस्यानुदात्तेन एव गुपेरिहापि ग्रहणात्। प्रत्ययसंज्ञा चाधिकृतैवेति। का पुनरत्र विस्मरणाशङ्का, किन्त्वन्वर्था प्रत्ययसंज्ञा, अनर्थकस्य गुपादिसनो न स्यादित्याशङ्कानेन निवार्यते। अधिकारसामर्थ्यादनर्थकस्यापि भवतीत्यर्थः। अन्वर्थता त्वर्थवदनर्थकसम्भवेऽर्थवतो ग्रहणेहेतुः। निन्दादयस्तु गुपादीनामर्था न सनः, अन्यथा गुपादीनामानर्थक्यप्रसङ्गात्। धातूनां चानेकार्थत्वं तत्र तत्र द्दश्यते। प्रत्ययास्तु स्वार्थिका अपि भवन्ति समासान्तादिवत्। जुगुप्सते इति। धातोरित्येवमनभिधानादस्य सनोऽनाद्धधातुकत्वादिडभावः। निन्दाक्षमेति। प्रायिकमेतदुपाधिवचनम्। तथा च `क्षेत्रियच् परक्षेत्रे चिकित्स्यः' इत्यत्र ग्रन्थः----`अथ वा क्षेत्रियाणि तृणानि सस्यार्थे क्षेत्रे जातानि चिकित्स्यानि विनाशयितव्यानि, अथ वा क्षेत्रियः पारदारिकः, परदाराः परक्षेत्रेम्, तत्र चिकित्स्यो निगृहीतव्यः' इति। संशयेऽपि द्दश्यते----तद्व्यचिकित्सन्, य एवं विद्वान्विचिकित्सति, तच्छुश्रुवानृषिर्व्यचिकित्सदिति च। अन्यत्रेति। अर्थान्तरवृत्तेर्द्धात्वन्तरादित्यर्थः। एतच्च `पूर्ववत्सनः' इत्यत्र निपूणतरमुपपादितम्। गुपादिष्वनुबन्धकरणमात्मनेपदार्थमिति। एतदपि तत्रैवोपपादितम्। गुपादीष्विति बहुवचनं मान्वधादिसूत्राभिप्रायम्। कितिस्तुपरस्मैपदी, तथा चानन्तरमेव प्रयोगा दर्शिताः। सनो नकारः स्वरार्थः, नित्करणसामर्थ्याद्धातुस्वरो न भवति---यत्स्तोतारं जिघांससि सखायम्। विशेषणार्थश्च---`अज्झनगमां सनि' `हनेः सः' हंस इत्यत्र मा भूत्। `स्तौतिण्योरेव षण्यभ्यासात्',सुषुपिष इन्द्रमित्यत्र मा भूत्। `सन्यङोः' इत्यत्रापि `लिटि धातोः' इत्यतो धातोरित्यनुवृत्तैर्यद्यपि तृणादिभ्यः सेऽप्रसङ्गः। हंसः, वत्स इत्यादौ तु स्यादेवोणादीनां व्युत्पत्तिपक्षे। प्रतीषिषतीत्यत्र प्रतिपूर्वादिणः सनि विहिते `अजादेर्द्वितीयस्य' इति शब्दस्य द्विर्वचनं यथा स्यादेवमर्थः। `यथष्टं नामधातूनामिति वक्तव्यम्' पुत्रीयिषिषति। अन्यत्र त्वार्द्धधातुके `अतो लोपः' सार्वधातुके शपा सहैकादेश इति नास्ति विशेषः।।
मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य।। 3.1.6 ।।
मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य।। अत्र मान्बधी अनुदात्तेतौ, शेषौ स्वरितेतौ। अभ्यासस्य चेकारस्यदीर्घो भवतीति। `सन्यतः' इतीत्वे दीर्घो भवतीत्यर्थः। ननु विशेषविहितो दीर्घः सामान्यविहितमित्त्वं बाधित्वाऽवर्णस्यैव प्राप्नोति? ज्ञापकात्सिद्धम्, यदयं `दीर्घोऽकितः', इत्यत्राकित इत्याह, तज्ज्ञापयति----नाभ्यासविकारेषु बाध्यबाधकभाव इति। तद्धि यंयम्यते इत्यादौ नुकि कृते मा भूदिति। यदि चाभ्यासविकारेषु बाध्यबाधकभावः स्यात्ततो विशेषविहितत्वान्नुकि कृतेऽनजन्तत्वादेव न भविष्यति दीर्घः, किं प्रतिषेधेन? अत एव डीढोक्यते इत्यादौ ह्रस्वत्वे कृते गुणो भवति, अन्यथा बबाधे चरितार्थं ह्रस्वं पापच्यते इत्यादौ चरितार्थो दीर्घः परत्वाद्वाधेत।
अपर आह---सूत्रोपात्त एवार्थो वृत्तिकारेणोक्त इति कथमभ्यासस्येति पदच्छेदः, अभ्यासस्य विकार अभ्यासः, स चेत्त्वमेव। तथा हि---लोपस्य तावदभावरूपत्वाददैशो विधातुमशक्यः, यदि च ह्रस्वस्य दीर्घत्वं स्यात्च तद्धितनिर्देशोऽनर्थकः स्यात्, दीर्घश्रुत्या `अचश्च' इत्युपस्थानादजन्तस्य दीर्घविधानाद्दीर्घस्य ह्रस्वस्य वा दीर्घो विशेषाभावात्तस्मादित्त्वमेव तद्धितेन प्रत्याय्यते। अथ वा सन्याहत्य विहितस्य विकारस्य ग्रहणं तदाह---अभ्यासस्य चेकारस्येति। सर्वशेष इति । न केवलं तस्यैवापि तु पूर्वयोरपि द्वयोरित्यर्थः। तेन क्वचिन्न भवतीति। अर्थान्तरवृत्तिभ्यो दात्वन्तरेभ्य इत्यर्थः। एतच्च `पूर्ववत्सनः' इत्यत्रोपपादितम्। मानयतीत्यादयश्चुरादिण्यन्ताः। निशान इति ण्यन्तादेव पचाद्यच्। मानेर्जिज्ञासायामिति। यद्येवम्, ज्ञानार्थवृत्तेर्मानेरुत्तरसूत्रेणैव सन् सिद्धः? सत्यम्, दीर्घविघानार्थ वचनमिडभावार्थ च। बधेर्वैरुप्ये इति। चित्तस्य दुर्गन्धाद्यनुभवनिमित्तो विकारो वैरूप्यम्। शानेनिंशाने इति। निशानम्=तीक्ष्णीकरणम्, यत्रैवायं पठितः `शान तेजने' इति तत्रैवेत्यर्थः।।
धातोः कर्मणः समानकर्तृकादिच्छायां वा।। 3.1.7 ।।
धातोः कर्मणः समानकर्तृकादिच्छायां वा।। कर्मत्वसमानकर्तृकत्वयोः क्रियापेक्षत्वादिच्छायायश्च प्रत्ययार्थत्वेनापि तावच्छुतत्वात्तदपेक्षे एव ते विज्ञायेते इत्याह ---इषिकर्म यो धातुरिषिणैव समानकर्तृक इति। अर्थद्धारकमिति। धात्वर्थस्य कर्मत्वात्समानकर्तृकत्वाच्च धातुस्तथा व्यपदिश्यते न स्वरूपेणेत्यर्थः, किं कारणम्? असम्भवात्। यद्यपि करोतिमिच्छतीत्यादौ धातोः स्वरूपेणापि कर्मत्वसम्भवः, तथापि न तस्य स्वरूपेणार्थद्वारेण वा समानकर्तृकत्वं सम्भवति। किं चात्र श्तिपा निर्देशात्स्वरूपपरत्वम्, सन्प्रकृतेस्तु लोकव्युत्पत्त्यनुसारेणार्थपरत्वमेव, अतः सुष्ठूक्तम्---धातोरर्थद्वारकं विशेषणमिति। इच्छायाः क्रियायाः कर्मभूत इच्छयैव समानकर्तृकोऽर्थो यस्य धातोस्तस्मात्सन् भवतीत्यर्थः। चिकीर्षति, जिहीर्षतीति। कृहृञ्भ्यां सन्, `इको झल्' इति कित्त्वम्, `अज्झनगमां सनि'इति दीर्घः, `ऋत इद्वातोः',`हलि च' इति दीर्घ;, सनः षत्वम्, द्विर्वचनम्, हलादिशेषः, ह्रस्वः, `कुहोश्चुः' इति चुत्वम्---ककारस्य चकारः, हकारस्य झकारः, `अभ्यासे चर्च' इति जश्त्वम्---जकारः, `सनाद्यन्ता धातवः' इति धातुसंज्ञायां ल़डादिः।
धातुग्रहणं किमिति। `कर्मणः समानकर्तृकात्' इति वचनाद्वाक्यान्न भविष्यति। न ह्येतदुभयं वाक्यार्थस्य सम्भवति, सुबन्तादपि---पुत्रमिच्छतीत्यादौ असमानकर्तृकत्वान्न भविष्यति, यत्रापि समानकर्तृकत्वम्---गमनमिच्छति, आसनमिच्छतीत्यादौ, तत्रापि क्यज्बाधको भविष्यति। यद्यपि पुत्रमिच्छतीत्यादौ असमानकर्तृके क्यच् सावकाशः तथापि चिकीर्षतीत्यादावसुबन्ते सावकाशं सनं सुबन्तेषु समानकर्तृकेषु परत्वाद्वाधिष्यते। यत्रापि क्यच् प्रतिषिध्यते क्यचि मान्ताव्ययप्रतिषेध इति----कर्त्तुमिच्छतीति, तत्रापि काम्यज्बाधकः।ङ्याप्प्रातिपदिकेष्वपि खट्वाकुमारीपुत्रादिषु न समानकर्तृकत्वम्। आसनशयनादौ त्वकर्मत्वम्, न हि ङ्याप्प्रतिपदिकं कर्माभिधायि, विभक्त्यभिधेयत्वात्कर्मादीनाम्। धातोरपि तर्हि न स्यात्? अथ तत्र वस्तुतो धात्वर्थस्येच्छया व्याप्यमानत्वात्कर्मत्वम्, प्रातिपदिकादपि स्यात्, अथात्र कर्मरूपानभिधानान्न स्यात्, धातोरपि न स्यादिति समानं वचः? एवं तर्ह्यसमानकर्तृकत्वादेवात्र न भविष्यति। शयनासनादौ हि प्रकृत्यर्थस्यैव समानकर्तृकत्वक्रियारूपत्वाद्, न प्रत्ययार्थस्याक्रियारूपस्य, `क्रियारूपस्य सिद्धता नाम यो धर्मस्तत्र घञादयः' इति स्मरणात्। तिङन्तादपि यत एव हेतोः पाकमिच्छतीत्यत्रार्थे पचतीच्छतीति न भवति, तत एव हेतोः सन्नपि न भविष्यति। तदेवं न धातुमपहाय क्वचिदपि प्रसङ्ग इति प्रश्नः।
सोपसर्गादुत्पत्तिर्मा भूदिति। अन्यथा सङ्घातस्य विशिष्टक्रियावचनत्वात्तत एव सन्स्यात्, ततश्च सन्नन्तत्वेन तस्यैव धातुत्वात्तत एव लङ्युपसर्गात्पूर्वोऽडागमः प्राप्नोति। ननु लिङ्यप्युपसर्गस्य द्विर्वचनप्रसङ्गो दोषः शक्यो दर्शयितुम्? सत्यम्; अट्प्रसङ्गमप्यपरं दोषं दर्शयितुं लङुदाहृतः। ननु धातुरेव विशिष्टक्रियावाची, उपसर्गस्तु सन्निधिमात्रेणोपकारको न तु कस्यचिदर्थस्याभिधानेन, यथा---भुङ्क्ते इत्यत्र भुजिरेवाभ्यवहारे वर्त्तते, आत्मनेपदं तु कर्तरि, अथ चान्तरेणात्मनेपदं नाभ्यवहारो गम्यते; तद्वदुपपसर्गसन्निधाने धातुरेव विशिष्टां क्रियामाह, ततश्चार्थद्वारके कर्मत्वसमानकर्तृकत्वे अपि धातोरेव, न सङ्घातस्य, अवश्यं चैतदेवं विज्ञेयम्----धातुरेव च क्रियावची, कथम्? यो हि मन्यते सङ्घातः क्रियावाचीति, क्रियमाणेऽति, क्रियमाणेऽपि तस्य धातुग्रहणे योऽत्र धातुर्न तस्मादुत्पत्तिः प्राप्नोति, अकर्मत्वादसमानकर्तृत्वाच्च? एवं मन्यते---प्रशब्दसन्निधौ तावत्प्रकर्षाख्यो विशेषो गम्यते, न च प्रकर्षमपि धातुरेवाचष्टे; प्रशब्दस्य वैयर्थ्यप्रसङ्गात्; सति चैवं समुदायस्यैव कर्मत्वम्। न ह्यसौ करोत्यर्थमात्रेण सन्तुष्यति, नापि प्रकर्षमात्रेण। न चैवं योऽत्र धातुस्तस्मादनुत्पत्तिप्रसङ्गः, तस्यापि कर्मत्वात्। तथा च कटं करोति, भीष्ममुदारं दर्शनीयमिति समुदायचिकीर्षायामपि भीष्मादिभ्यो द्वितीया भवति; तेषामपि कर्मत्वात्। नन्वेवमपि यथा जनपदसमुदायो जनपदग्रहणेन न गृह्यते, तथा कर्मसमुदायस्याकर्मत्वात्समुदायादुत्पत्तिर्न भविष्यति। यत्र तर्हि समुदायस्यैव कर्मत्वं तत्र कथम्, यथा---प्रस्थातुमिच्छति प्रतिष्ठासत इति, अत्र हि तिष्ठतीति गतिनिवृत्तिः प्रतीयते, प्रशब्दासन्निधौ तु गतिः, तत्र यथा जिगमिषतीत्येकमेव कर्म तद्वदत्रापि ततश्च समुदायादेव स्यात्? यद्येवम्, योऽत्र धातुः कथं ततः सन्, न ह्यसौ कर्म, कर्मण इति नैषा धातुसमानाधिकरणा पञ्चमी, किं तर्हि? षष्ठी---कर्मणोऽवयवाद्धातोरिति? चिकीर्षतीत्यादावपि केवलस्यापि व्यपदेशिवद्भावेन कर्मावयवत्वम्। एवमप्यसमानकर्तृत्वान्न प्राप्नोति, धातुमात्रस्याक्रियावाचित्वात्। अतः समानकर्तृकादित्यपि षष्ठ्यर्थे पञ्चमीति व्याख्येयम्। तदेवं सङ्घातनिवृत्त्यर्थ धातुग्रहणमिति स्थितम्।
कर्मम इति किमिति। जिगमिषतीत्यादौ प्रयोगे प्रत्ययवाच्याया इच्छायाः कर्मापेक्षायां प्रत्यासत्त्या प्रकृत्यर्थ एव कर्म प्रत्येष्यते। यद्यपि क्रिया करणमप्यपेक्षते, स्फुटतरा त्विच्छायाः कर्मापेक्षेति सैव प्रकृत्यर्थेन पूरयिष्यते, नार्थः कर्मग्रहणेनेति प्रश्नः। गमनेनेच्छतीति। अस्यां विवक्षायां गमेर्मा भूदित्यर्थः। असति हि कर्मग्रहणे सत्यापरीच्छायाः कर्मापेक्षायां यथैतद्वाक्यं भवति---गमनेनेच्छतीति, तथा सन्नपि स्यादिति भावः। इच्छायामिति किमिति। शब्दवैरादिसूत्रे यत् `करणे' इति तदिहैवास्तु, अभिधानशक्तिस्वाभाव्याच्च करणविशेष इच्छायामेव सन् भविष्यति, नमस्प्रभृतिभ्यः क्यजिति प्रश्नः। कर्तुजानातीति। लक्षणैकशरणो नैवं प्रतिपाद्येतेति भावः।
वावचनाद्वाक्यमपि भवतीति। ननु `समानकर्तृकेषु तुमुन्' इति तुमुन्विधानसामर्थ्यादेव वाक्यं भविष्यति, अस्ति तस्यावकाशः---चिकीर्षितुमिच्छतीति। न ह्यत्र सनः प्रसङ्गः; `सनन्तान्न सनिष्यते' इति वक्ष्यमाणत्वात्। धातोरिति विधानादित्यादिना धातुग्रहणस्य प्रयोजनान्तरं दर्शयति। न पूर्वत्रेति। तथा च जुगुप्सते इत्यादाविडभावः।
आशङ्कायामिति। आशङ्का=सम्भावना, प्रयोक्तृधर्मः, तद्विशिष्टक्रियावचनात्स्वार्थे प्रत्ययः। कूलं पिपतिषतीति। कूलस्याचेतनत्वादिच्छाया असम्भवः। श्वामुमूर्षतीति। शुनश्चेतनत्वेऽपि जीवितस्य प्रियत्वाद्व्याध्याद्यभिभवेऽपि तिर्यक्त्वान्मर्तुमिच्छा न भवतीति, शङ्के पतिष्यति कूलम्, शङ्के मरिष्यति श्वेत्यत्रार्थः। प्रत्याख्यानं तु---यो यदिच्छति स तस्य पूर्वरूपाणि करोति, यथा---देवदत्तः कटं चिकीर्षुः सन्नह्यति रज्जुकीलपूलादिकं चादत्ते; कूलस्यापि च पूर्वरूपाणि द्दश्यन्ते---लोष्टाः शीर्यन्ते, भिदा जायन्ते। श्वानः खल्वपि मुमूर्षव एकान्तशीलाः स्थूलाक्षाश्च भवन्ति, तदिह पूर्वरूपदर्शनादिच्छाध्यारोप्यते---इच्छत्येवायं य एवमिच्छाविनाभूतानि पूर्वरूपाणि करोति। गौणमुख्यन्यायश्च क्वचिल्लक्ष्यापेक्षया नाश्रीयते, ततश्चाध्यारोपितेच्छाश्रयः प्रत्यय इति।
विशेषणं किमिति। इच्छाग्रहणं किमित्यर्थः।
शेषिकादिति। सन्प्रसङ्गादन्योऽनिष्टः प्रत्ययो वार्यते। शेषाधिकारविहितः शैषिकः मतुर्बन्थे भवो मतुबर्थीयः, गहादेराकृतिगमत्वाच्छः, मतुपोऽर्थो मतुबर्थः, सोऽस्यास्तीति मतुबर्थिकः। `अत इनिठनौ'। शैषिकप्रत्ययान्ताच्छैषिकः सरूपप्रत्ययो नेष्टः, तद्यथा---शालायां भवो घटः शालीयः, तत्र भवमुदकम्, पुनश्छो न भवति; विरूपस्तु भवत्येव---अहिच्छत्रे भवमाहिच्छत्रम्, तत्र भवमाहिच्छत्रीयम्, अणन्ताच्छो भवति। तथा दण्डोऽस्यास्तीति दण्डिकः, `अत इनिठनौ' सोऽस्यास्तीति पुनष्ठन्न भवति; विरूपस्तु भवत्येव---दण्डिमती सेनेति। सननन्तान्न सनिष्यते इति। सरूप इत्येव। सारूप्येण चात्र साद्दश्यं लक्ष्यते, तच्चार्थद्वारकमिति इच्छासनन्तादिति पूर्वोक्त एवार्थो भवति, एतच्च न्यायसिद्धम्। तथा हि---जातौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्त्तते, ततश्च तत्प्रवृत्तेः प्राक् तत्प्रत्ययान्तप्रकृत्यसम्भवात्तदन्तान्नास्ति तत्प्रत्ययप्रसङ्गः। इह यो ग्रामं गन्तुमिच्छति तस्य यद्यपि ग्रामो न स्वरूपेणेष्टः----ग्रामो मे स्यादिति, तथापि गम्यमानतारूपेण सोऽपीष्ट एव। ग्रामो जिगंस्यते, जिगमिषितः, जिगमिषितव्यः, सुजिगमिष इति इच्छा वाचिनः सनन्तात् ग्रामे कर्मणि लादयो भवन्ति। गमिं प्रति कर्मत्वं ग्रामस्य स्पष्टमेव। अत एव ग्रामं जिगमिषति, ग्रामाय जिगमिषतीति `गत्यर्थकर्मणि' इति द्वितीयाचतुर्थ्यौ भवतः।।
सुप आत्मनः क्यच्।। 3.1.8 ।।
सुप आत्मनः क्यच्।। अत्रापीच्छायामित्यनुवृत्तेस्तदपेक्षमेव सुबन्तस्य कर्मत्वं विज्ञायते इत्याह---इषिकर्मण इति। आत्मशब्दोऽयं परव्यावृत्तिवचनः स्वशब्दपर्यायो गृह्यते, न चेतनद्रव्यवचनः। स हि गृह्यमाण इच्छया वा सम्बध्येत, सुबन्तेन वा। तत्रेच्छया सम्बन्धे कर्त्तरि षष्ठी, आत्मनः इच्छायामात्ककर्तृकायामिच्छायामात्मा चेदिच्छतीत्यर्थः स्यात्, ततश्चात्मग्रहणमनर्थकं स्यात्, सर्वैवेहेच्छाऽऽत्मकर्तृका, तस्यास्तद्धर्मत्वात्। सुबन्तसम्बन्धे तु देवदत्तस्य पुत्रमिच्छति यज्ञदत्त इत्यत्रापि प्राप्नोति, परस्यापि हीष्यमाण आत्मन एवेष्टो भवति; तस्याप्यात्मत्वात्। अनर्थकं चात्मग्रहणं स्याद्; व्यावर्त्त्याभावात्। वृक्षस्य जलमिच्छति, खट्वायाः पादमिच्छतीत्यादौ यत्राचेतनार्थ किञ्चिदिष्यते तद्व्यावर्त्त्यमिति चेत्, न; तत्रापि चेतनस्यैव परमशेषित्वात्। सर्वमेव हि भोग्यं चेतनानामेव शेषभूतं खट्वायाः पादमिच्छतीत्यत्रापि यस्य तत् ख्टवादिकमुपभोग्यं तदर्थमेव तदिष्यते, खट्वादिकं तु तस्यैव द्वारमात्रम्; अतः परव्यावृत्तिवचन एवात्मशब्दः। तत्रापि यदीच्छया सम्बन्धः स्यात्, पूर्ववत् कर्त्तरि षष्ठ्यामात्मग्रहणमनर्थकं स्यात्, सर्वस्या एवेच्छाया एषितृकर्तृकत्वा दिति सुबन्तेन सम्बध्यते, सुबन्तात्कर्मण इच्छायामभिधेयायां क्यज् भवलि, तच्चेत्सुबन्तमात्मनः स्वस्य सम्बन्धि भवति। कस्य स्वस्येत्यपेक्षायामिच्छया एषितुः सन्निधापितत्वात् तस्येवैषितुरात्मनः सम्बन्धि इति विज्ञायते, तदाह----एषितुरेवात्मसमम्बन्धिनः सुबन्तादिति। न चैवमात्मनः पुत्रं परस्य दासमिच्छतीत्यत्रापि सुबन्तस्यात्मसम्बन्धित्वात्प्रसङ्गः, नात्र यथाकथंचिदात्मसम्बन्धित्वं विवक्षितम्, किं तर्हि? इष्यमाणमेव रूपमात्मसम्बन्धित्वेन यदेष्यते तदा प्रत्ययः। पुत्रीयतीति। `क्यचि च' इतीत्त्वम्।
सुप इति किमिति। कर्मण इति वचनात्तिङन्तादप्रसङ्गः, न हि तिङन्तं कर्म। धातोश्चाप्रसङ्गः विशेषविहितेन सना बाधितत्वात्। ङ्याप्प्रातिपदिकादुत्पत्तावपि न कश्चिद्दोषः; `नः क्ये' इति पदसंज्ञाविधानात्। तच्च क्रियमाणे सुब्ग्रहणे नियमार्थम्---नान्तमेव क्ये पदमिति। तदेव ङ्याप्प्रातिपदिकादुत्पत्तौ विध्यर्थ भविष्यति। नन्वसति सुब्ग्रहणे ङ्याप्प्रातिपदिकात्सुबन्ताच्चोत्पत्त्व्यमविशेषात्, ततश्च `नः क्ये' इत्येतद्यद्येवं विध्यर्थम्, उभयथापि दोषः; नियमार्थे हि वाच्यतीत्यादौ प्रातिपदिकात्सुबन्ताच्चोत्पत्तौ यद्यपि दोषाभावः, नकारान्तेषु प्रातिपदिकादुत्पत्तिपक्षे नलोपो न स्यात्। अथ तेषु प्रातिपदिका दुप्त्तौ विध्यर्थम्, एवं सति वाच्यतीत्यादौ सुबन्तादुत्पत्तिपक्षे जश्त्वादिपदकार्यं स्यात्, अतः सुबन्तादेव यथा स्यात्प्रातिपदिकान्मा भूदिति नियमार्थं सुब्ग्रहणं कर्त्तव्यमेव। एवं तर्हि कर्मग्रहणाद् ङ्यप्प्रातिपदिकादप्रसङ्गः सुबन्तमेव हि कर्माभिधायि; पञच्कपक्षेऽपि द्योतकविभक्तेरपेक्षितत्वात्। तदेवं सुबन्तमपहाय न क्वचित्प्रसङ्ग इति मत्वा प्रश्नः।
वाक्यादिति। पदसमूहादित्यर्थः। महन्तं पुत्रमिच्छतीति। किं च स्याद्यद्यत्र स्यात्? प्रत्ययार्थे गुणभूतयोर्महत्पुत्रशब्दयोरसति परस्परसम्बन्धे समासो न स्यात्, तथा च तन्निबन्धनमात्वं न स्यात्। किमिदानीं न भवति---महापुत्रीयतीति? भवति, यदैतद्वाक्यं भवति----महान्पुत्रो महापुत्रः महापुत्रमिच्छीति। अथ क्रियमाणेऽपि सुब्ग्रहणे कस्मादेवात्र न भवति? प्रत्ययग्रहणपरिभाषया समुदायस्यासुबन्तत्वात्। किं पुनरयं कर्मणोः समुदायः? आहोस्वित्समुदायः कर्म? किं चातः? यदि कर्मणोः समुदायः, न कर्मग्रहणेन गृह्यते इति समुदायादप्रसङ्ग? अथ समुदायः कर्म, अवयवाद् द्वितीया न प्राप्नोत्यकर्मत्वात्? एवं तर्हि कर्मणोरेवायं समुदायः, सुब्ग्रहणं तु यदत्र कर्म तस्मान्मा भूदिति। अथ क्रियमाणेऽपि सुब्ग्रहणे कस्मादेव तस्मान्न स्यात्, सुबन्तमेव हि तत्? असामर्थ्यात्। कथमसामर्थ्यम्? सापेक्षमसमर्थ भवतीति। अक्रिययाणे पुनः सुब्ग्रहणे नायं पदविधिर्भवति। यत्र हि पदस्यैवासाधारणं किञ्चिद्रूपमाश्रितं स पदविधिः, कर्मग्रहणं तु न पदस्यैवासाधारणम्, `धातोः कर्मणः' इत्यपदेपि द्दष्टत्वात्।
अन्ये त्वाहुः----समुदायस्यापि कर्मत्वमवयवयोश्च महत्त्वविशिष्टस्य पुत्रस्यैष्यमाणत्वादिति तेषां समुदायादवयवाच्च मा भूदिति सुब्ग्रहणम्। राज्ञः पुत्रमिच्छतीति। नन्वसामर्थ्यादेवात्र न भविष्यति, कथमसामर्थ्यम्? सापेक्षमसमर्थं भवतीति? यत्र तर्ह्यन्तरेणापि तृतीयस्य पदस्य प्रयोगं परस्येति गम्यते तत्र मा भूत् यथा---अघमिच्छति, व्यसनमिच्छतीति, न हि कश्चिदात्मनोऽघमिच्छति। ककार इत्यादि। स्यादेतत्----`नः क्ये' इत्यत्रापि मा कारि ककार इति? यद्येवम्, सामसु साधुः अत्रापि प्राप्नोति। चकात्स्तदविघातार्थ इति। स्वरस्तु प्रत्ययस्वरेण सिद्धो धातुस्वरेण वा, अकारस्तु द्दषदमिच्छति द्दष्यद्यति, द्दषद्यतेर्ण्वुल्, `अतो लोपः',`यस्य हलः',`क्यस्य विभाषा'----द्दषदकः, अत्रातो लोपस्य स्थानिवद्भावात् `अत उपधायाः' इति वृद्धिर्मा भूत्। मृदमिच्छति मृद्यति, मृद्यतेः `अचो यत्', अतो लोपादि पूर्ववत्---मृद्यम्, `यतोऽनावः' इत्याद्युदात्तत्वं यथा स्यादिति। पुत्रीयतीत्यादौ च शपा सहैकादेश उदात्तो भवति।
क्यचि मान्ताव्ययप्रतिषेध इति। मान्तग्रहणं प्रातिपदिकस्य विशेषणम्, न सुबन्तस्य । तेन पुत्रमिच्छतीत्यादौ क्यज् भवति, काविच्छति कानिच्छतीत्यादौ च न भवति। उच्चौर्नीचैरिति। अधिकरणप्रधानयोरप्यनयोराधेये यदा वृत्तिस्तदा कर्मत्वम्, गोसमानाक्षरनान्तादित्येके। गोशब्दात्समानाक्षरान्नान्ताच्च क्यज् भवतीत्येके मन्यन्ते। अकारादयो दश समानाक्षराः; तत्र लृवर्णान्तस्य, ऋकारान्तस्य च प्रातिपदिकस्याभावादेकारान्पूर्वेषां सप्तानामचां ग्रहणम्। अस्मिन्पक्षे वाच्यतीत्यादि न सिद्ध्यति, तस्मान्नायं स्थितः पक्ष इत्याहुः। अत एवास्य वृत्तावनुपन्यासः। परेच्छायामिति। शेषष्ठ्याः समासो न कर्तृषष्ठ्याः, सुबन्तद्वारकश्च परस्येच्छया सम्बन्धः, परस्य सुबन्तार्था या इच्छा तस्यामित्यर्थः। अघायव इति। `क्याच्छन्दसि' इत्युप्रत्ययः, `अश्वाघस्यात्' इत्यात्वम्। एतदेव क्यचि परत आत्वविधानं ज्ञापकम् छन्दसि परेच्छायामपि क्यज् भवतीति, न हि कश्चिदात्मनोऽघमिच्छति। न चाचारक्यजर्थम्, छन्दस्यघशब्दाचारे क्यचोऽदर्शनात्। अथास्मात्क्यजन्ताल्लकृत्यक्तखलर्था भवन्तः क्व भवन्ति? यथायोगं भावे कर्त्तरि च, न तु कर्मणि। प्रकृत्यर्थविशिष्टाया नियतविषयाया इच्छायाः क्यजन्तेनाभिधानम्, न सा वस्त्वन्तरं विषीयकरोति, अतो जीवत्यादिवदकर्मकः क्यजन्तः। आचारक्यजन्ते तूपमानकर्मणः पुत्रादेरन्तर्भावेऽपि उपमेयस्यच्छात्रादेरनन्तर्भावात्तस्मिन्कर्मणि लादयो भवन्त्येव---पुत्रीय्यतेच्छात्रः पुत्रायितव्य इत्यादि, यथा----श्येनायते काक इति उपमानकर्तुरन्तर्भावेऽपि उपमेयकर्त्तरिलो भवति, तद्वत्। इह च माणवकं मुण्डं करोति मुण्डते माणवकः, मुण्डयितव्यो माणवक इति ण्यन्तो धातुर्मौण्ड्यगुणविशिष्टद्रव्यमात्रमन्तर्भावयितुं शक्तः, न तु माणवकादिकं विशेषमिति तस्य धातावनन्तर्भावात्तत्र लादयो भवन्ति। यद्येवम्, अनेन हेतुना क्यजन्तादपि प्राप्नोति। माणवकं मुण्डमिच्छति मुण्डीयति माणवकम्, मुण्डीय्यते माणवक इति, नात्र क्यचा भवितव्यमसामर्थ्यात्? कथमसामर्थ्यम्? सापेक्षमसमर्थ भवतीति। णिजपि तर्हि न प्राप्नोति? स्यादेतत्----नोभौ करोतियुक्तौ मौण्ड्यं माणवकश्च, न हि माणवकत्वं क्रियते, ततश्च मुण्डं करोतीत्यत्रैवार्थे मुण्ड्यतोति णिजुत्पद्यते। मुण्डं करोति माणवकमित्यत्र वाक्येऽपि मुण्डस्यैव कर्मत्वम्, तत्सामानाधिकरण्यात्तु माणवकाद् द्वितीयोत्पत्तिः। तदेवं माणवकादयो मौण्ड्यस्याधारविशेषप्रतिपादनार्थमुपादीयमानाः करोतियुक्ता न भवन्ति। यदा पुनरुभौ करोतियुक्तौ भवतः, न भवति तदा वृत्तिः, तद्यथा---बलीवर्द्दं करोति तं च मुण्डं करोति मुण्डयति बलीवद्दमिति णिज्भवति। यद्येवम्, अनेनैव हेतुना क्यजपि न प्राप्नोति। यदि चाधारत्वेनापि माणवकोऽपेक्ष्यते, पुनरपि सापेक्षता।
किञ्च, यदि न माणवकः करोतियुक्तः, कथं तत् लकार उत्पद्यते---मुण्ड्यते माणवक इति? कश्चायं न्यायो न माणवकः करोतियुक्त इति? न ह्यसौ मौण्ड्यमात्रेण सन्तुष्यति,माणवकस्थमसौ मौण्ड्यभिनिर्वत्त्तयति, ततश्च स्वरूपेणाक्रियमाणोऽपि माणवको मुण्डपरूपेण क्रियते, इष्यते च। तदेवं सति यदि णिज् भवति क्यजपि स्याद् अथ क्यज्न भवति णिजपि न स्यादिति समानं वचः। एवं तर्हि मुण्डादयो गुणवचनाश्च सापेक्षाः, उच्यते च णिच्, स वचनात्सापेक्षेभ्योऽपि भविष्यति, क्यच् पुनरनपेक्षेभ्यः पुत्रादिभ्यः सावकाश इति माणवकं मुण्डमिच्छतीत्यादौ सापेक्षेभ्यो न भविष्यतीति? यद्यप्ययमपि णिज् गुणमात्रकरणविवक्षायां सावकाशः---मुण्डयत्ययं नापितः प्रवीणो मौण्ड्यकरणइति, तथापि तत्करोतीति सिद्धे णिचि पुनर्विधानमिदं सापेक्षेभ्योऽपि यथा स्यादित्येवमर्थमेव। यद्वा--द्विविधा मुण्डाद्यः---धातवः, प्रातिपदिकानि च। तत्र सूत्रे धातव उपात्तास्तेभ्यः स्वभावत एव विशिष्टक्रियावचनेभ्यो णिज्भविष्यति, प्रातिपदिकानां तु विग्रह एव---माणवकं मुण्डं करोतीति। अथ वा नेदं युगपदुभयं भवति----वाक्यं च प्रत्ययश्च, ततश्च मुण्डयतीति द्रव्यमात्रं प्रतीयते, तत्र विशेषार्थिना विशेषोऽनुप्रयोक्तव्यः। अथ वा---मुण्डस्यैव शुद्धेन करोतिनाऽन्वयः, मौण्ड्यविशिष्टेन तु माणवकस्य, यथा---गां दोग्धि पय इति शुद्धस्य दुहेः पूर्वं गवभिसम्बन्धः, पश्चात्तु गोदुहिना पयसः। क्यच्प्रत्ययस्त्वनभिधानान्न भवति। माणवकं मुण्डयतीत्युक्ते माणवकं मुण्डमिवाचरतीत्यर्थान्तरमेव प्रतीयते। तदेवमिच्छाक्यजन्ताद्भावे कर्त्तरि च लादय इति स्थितम्।।
काम्यच्च।। 3.1.9 ।।
काम्यच्च।। किमर्थो योगविभागः, न `सुप आत्मनः क्यच्काम्यचौ' इत्येकयोग एव क्रियते, एवं हि चकारो न कर्त्तव्यो भवति? तत्राह---योगविभाग इत्यादि। एकयोगे हि सति उत्तरसूत्रे द्वयोरप्यनुवृत्तिः स्यात्। ननु योगविभागेऽप्यानन्तर्यात्काम्यच एवानुवृत्तिः प्राप्नोति? नैष दोषः; चकारोऽत्र क्रियते, स क्यचोऽनुकर्षणार्थः, तदनुकर्षणस्य चैतदेव प्रयोजनम्--उत्तरत्रानुवृत्तिर्यथा स्यात्। काम्यचस्तु योगविभागसामर्थ्यादननुवृत्तिः। प्रयोजानाभावादिति। अग्निकाम्यतीत्यादौ गुणनिषेधो न प्रयोजनम्, अनार्द्धधातुकत्वादेव गुणस्याप्रङ्गत्। `विजुपे छन्दसि' उपयट्, उपयजमिच्छति उपयट्काम्यतीत्यत्र न संप्रसारणं प्रयोजनम्; यजादिभिः कितो विशेषणात्---यजादिभ्यो यो विहितः किदिति। वाक्काम्यतीत्यत्रापि धातोः सरूपग्रहणे कार्यविज्ञानान्न संप्रसारणं प्रयोजनम्।
चकारादित्वाद्वेति। केचिद्व्याचक्षते---अन्तेऽस्य चकारोऽनर्थकः, धातुस्वरेणैवान्तोदात्तत्वस्य सिद्ध्त्वात्, स आदौ कर्त्तव्यः। अथ वा---अन्तेऽपि कृतो नियमार्थः संपद्यते---चिद्वायं व्यपदेष्टव्यो नानुबन्धान्तरेणेति तेनान्ते कृत आदित्वफलसंपादनादादितः संपद्यत इति। अन्ये तु `सुप आत्मनः क्यच्' `काम्यच्च' इति द्विचकारकनिर्देशाश्रयेण चकारादित्वं वर्णयन्ति' चित्करणं तु पुत्रकामिष्यतीत्यत्र सति शिष्टमपि स्यस्वरं चित्स्वर एव यथा स्यादिति।।
उपमानादाचारे।। 3.1.10 ।।
उपमानादाचारे।। `कुड्ये' इत्युपमेये सप्तमीश्रवणादुपमानमपि सप्तम्यन्तमेवेति कर्मविवक्षायामेतत्प्रयोगसम्भवाद्वचनारम्भः। कुट्यामिति तु युक्तः पाठः।।
कर्त्तुः क्यङ् सलोपश्च।। 3.1.11 ।।
कर्त्तुः क्यङ् सलोपश्च।। आचार इति वर्त्तत इति तेन तदपेक्षमुपमानस्य कर्तृत्वं विज्ञायत इति भावः। सलोपश्चेति। यद्ययं चशब्दः समुच्चयवृत्तिर्गृह्येत तदेकमेव वाक्यं स्यात्----क्यङ्सलोपौ भवति इति, ततश्च यत्रैव सलोपस्तत्रैव क्यङ्पि स्याद्---ओजायत इति, इह तु न स्यात्----श्येनायते काक इति। अतोऽन्वाचये चशब्दे वाक्यभेदश्चाश्रयणीयः---अविशेषेणोपमानात्कर्तुः क्यङ् भवति, यत्र तु सकारः सम्भवति तत्र तस्य लोप इति तदिदमुक्तम्। अन्वाचयशिष्टः सलोपस्तदसम्भवेऽपि क्यङ् भवतीति। श्येनायत इति `अकृत्सार्वधातुकयोर्दीर्घः'।
सलोपविधावपीति। सलोपस्यान्वाचयशिष्टत्वेन वाक्यभेदे सत्ययमपि गुणो भवतीत्यर्तः।
अपिशब्देनैतद्दर्शयति---क्यङ्विधौ तावत्सम्बद्ध्यते वाक्यसंपादनाय, एवं सलोपविधावपीति। ओजायत इति। ओजः शब्दो वृत्तिविषये तद्वति वर्त्तते।
ओजसोप्सरसोनित्यं पयसस्तु विभाषयेति। अन्यस्य तु यशः प्रभृतेर्नैव भवतीत्येके, नेति वयम्। ओजोप्सरोव्यतिरिक्तस्य सकारान्तस्योपलक्षणार्थं पयोग्रहणम्। अत एव सलोपो वा। ओजसोप्सरसोर्नित्यमिति सामान्येन वार्त्तिकम्; तेन यशायते इत्याद्यपि भवतिसलोपोऽप्सरस एवेत्ययं तु पक्षो भाष्येऽपि न स्थितः। सलोपविधो कर्त्तुरिति स्थानषष्ठी संपद्यते इति। प्रत्ययविधौ यत्पञ्चम्यन्तं तदेव लोपेन सम्बन्धेऽर्थाद्विभक्तिविपरिणामो भवतीति षष्ठ्यन्तं सम्पद्यत इत्यर्थः। तत्रालोऽन्त्यस्येति नियमे सतीति। सकारेण कर्तुर्विशेषणात्तदन्तविधिविज्ञानात्तदर्थमेव च सेति पृथक् पदं लुप्तषष्ठीकम्। क्वचित् अलोऽन्त्यनियमे सतीति पाठः, तत्र सूत्रैकदेशानुकरणत्वात्समासेऽपि विभक्तेर्लुगभावः, यथा----अस्यवामीयमिति।
आचार इत्यादि। क्यङ्पवादोऽयम्। `गल्भ धार्ष्ट्ये, `क्लीबृ अधार्ष्ट्ये' `होडृ अनादरे'---एते पचाद्यजन्ता गृह्यन्ते, त्सय चाकारस्य वाक्येऽनुदात्तत्वानुनासिकत्वे प्रतिज्ञायेते, तेन क्विबन्तादात्मनेपदं भवति। वावाचनात्क्विपा मुक्ते क्यङ् भवति, क्विप्सन्नियोगेनानुनासिकत्वप्रतिज्ञानात् क्यङ्पक्षे इत्संज्ञा न भवति। किमर्थ पुनरिदम्, यावता गल्भादयो धातव एवानुदात्तेनः पठ्यन्ते, तेभ्यो गल्भत इत्यादि सिद्ध्यति, एतेभ्य एव पचाद्यजन्तेभ्यः क्यङि अवगल्भायते इत्यादि, यद्यपि धार्ष्ट्यादावर्थे गल्भादयः पठ्यन्ते, तथाप्यनेकार्थत्वाद्धातूनाम् अवगल्भ इवाचरतीत्यत्रार्थेऽपि त एव वर्त्तिष्यन्ते? सत्यम्; अवगल्भांचक्रे इत्यादौ प्रत्ययान्तत्वादाम्यथा स्यादित्येवमर्थ क्विब् विधीयते।
अथ यदा धातुभ्य एव लिड् विधीयते तदा कथं भवितव्यम्? अवजगल्भे, विचिक्लीबे, विजुहोडे इति। अन्ये तु---धातुभ्य एव क्विब् विधीयते इति वदन्त एतानि रूपाणि न सम्भवन्तीत्याहुः, भाष्यविरोधात्। भाष्यकारस्तावत्सर्वप्रातिपदिकेभ्य इत्यनेन सिद्धिमाशङ्कते---न तर्हीदानीमित्यादिना। न हि धातुग्रहणे सति तेन सिद्धिशङ्कोपपद्यते। वार्त्तिककारोऽपि `सर्वप्रातिपदिकेभ्यः' इति वदन् गल्भादिष्वपि प्रापितदिकग्रहणमेव मन्यते। न केवलं गल्भादिभ्य एव, अपि तर्हि सर्वेभ्य एव प्रातिपदिकेभ्य इति हि तस्यार्थः। `सर्वप्रातिपदिकेभ्यः' इत्यत्र `सर्वेभ्यः' इति वक्तव्ये प्रातिपदिकग्रहणात् प्रातिपदिकादेव क्विब् विधीयते, न सुबन्तात्; तेन पदत्वाभावादश्वतीति `अतो गुणे' इति शपा पररूपं भवति, विधुरविशब्दाभ्यां क्विपि शपि गुपे `एङः पदान्तादति' इति न भवति। विधवति, रवयति, राजनतीति नलोपो न भवति। वाचतीत्यादौ तु कुत्वजश्त्वादि न भवति। येऽपि सर्वप्रातिपदिकेभ्यः क्विपमिच्छन्ति, तैरपि गल्भाद्यनुक्रमणं कर्त्तव्य मात्मनेपदार्थाननुबन्धानासंक्ष्यामीति।।
भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः।। 3,1,12 ।।
भृशादिभ्यो बुव्यच्वेर्लोपश्च हलः।। लोपविधौ `भृशादिभ्यः' इति पञ्चमी स्थानषष्ठ्या विरिणम्यते, हला च भृशादयो विशेष्यन्ते, तत्र तदन्तविधौ सति हलन्तानां लोपो विधीयमानो भृशायते इत्यादावहलन्तेन चभवति, तदाह----हलन्तानां च विज्ञायमानेऽहलन्तानां पाठोऽनर्थकः स्यात्। अच्वेरिति प्रत्येकमभिसम्बन्धयते इति। तेनैकवचनमुपपद्यते इति भावः। किमर्थे पुनरिदमुच्यते इति। `अच्वेः' इत्येतदधिकृत्य प्रश्नः। तेनेति। अनुप्रयुज्यमानेन भवतिनेत्यर्थः। न च भवतेरनुप्रयोगं बाधित्वा क्यङ् भवितुमर्हति, अच्व्यन्तेषु सावकाशत्वात्। किञ्च, भवतेरभावे च्वेरपि निवृत्तिप्रसङ्गः, तद्योगे तस्य विधानात्। कथं तर्हि डाजन्तात्क्यष् भवति, यावता डाजपि भवतियोगे विधीयते? अत्र परिहारं वक्ष्यति---कृभ्वस्तिभिरिव क्यषापि योगे डाज् भवतीत्येतदेव ज्ञापकमिति। तत्सद्दशप्रतिपत्त्यर्थ तर्हीति। नञिवयुक्तन्यायेन च्व्यन्तसद्दशा भृशादयः कथन्नाम प्रतीयेरन्निति च्व्यन्तपर्युदासः क्रियते, साद्दश्यं चाभूतद्भावविषयत्वेनेत्याह---अभूततद्भावविषयेभ्यो मृशादिभ्य इत्यादि। भृशायते इत्यादि। अजन्तानाम् `अकृत्सार्वधातुकयोः' इति दीर्घः, हलन्तानां तु लोपः----असुमनाः सुमना भवति सुमनायते, दुर्मनायते इत्यादि।
भृशीभवतीति। इदानीमेवोक्तम्---नास्त्यत्र प्रसङ्गः इति, तस्मादच्व्यर्थविषयं प्रत्युदाहरणं प्रदर्शनीयम्----क्व दिवा भृशा भवन्तीति। ये रात्रौ भृशा नक्षत्रादयस्ते दिवा क्व प्रदेशे भवन्तीत्यर्थः। इह मनः शब्दः सोपसर्गः पठ्यते----सुमनस्, दुर्मनस्, अभिमनस्, उन्मनस्; अत्र किं सोपसर्गात्सङ्घातात्प्रत्ययो भवति? आहोस्विदुपसर्गरवितान्मनः सब्दादेव? इति विचारः तदर्थ च किमुपसर्गः प्रकृत्यर्थविशेषणं सुमनः शब्दादिति? उत प्रत्ययार्थविशेषणम्---सुभवतो, दुर्भवतौ, अभिभवतौ, उद्भवताविति ? कथं पुनर्मनः शब्देन सह पठित उपसर्गे प्रत्ययार्थविशेषणमाशङ्क्यते, तद्विशेषणत्वे हिप्राग्भवतेः पठ्येत? नैष शक्यः प्राग्भवतेः पठितुम्, एवं हि सर्वेभ्य एव भशादिभ्य उपसर्गविशिष्ट एव भवत्यर्थे प्रत्ययः स्याद्, मनः शब्दादेव च विशिष्टेऽर्थे इष्यत इत्येवमर्थो मनः----शब्देन सह पाठः स्यात्। तत्र यदा मनाः शब्देन स्वादीनां बहुव्रीहीस्तदा प्रकृत्यर्थविशेषणं ते भवन्ति; यदा त्वसमस्ता एव तदा प्रत्ययार्थविशेषणम्। मनः शब्दश्च वृत्तिविषये तद्वति वर्त्तते मनस्वी सुष्ठु भवतीत्यादावर्थे क्यङ् प्रत्ययः। प्राप्त्यर्थस्य वा भवतेः `आ धृषाद्वा' इति विकल्पितणिचोऽत्र विषये ग्रहणम्, तेन मनः कर्म शोभनं प्राप्नोतीत्यादिरर्थो भवति। तत्राद्ये पक्षेऽडाड्ल्यब्द्विर्वचनेषु दोषः, अट्---स्वमनायत, दुरमनायत। आट्---अभ्यमनायत, उदमनायत। उपसर्गस्यापि क्यङ्न्ते धातावन्तर्भावात्ततः पूर्वमडाटौ प्राप्नुतः, परौ चेष्येते। ल्यप्---सुमनाय्य, अभिमनाय्य, उपसर्गस्य क्त्वान्तेऽनुप्रवेशात्तद्व्यतिरिक्तपदाभावादसति समासे ल्यपोऽभावात्सुमनायित्वेति स्यात्। द्विर्वचनम्---क्यडन्तात्सनि कृते उपसर्गस्य सनन्तेऽनुप्रवेशात्तस्य द्विर्वचने सति सुसुमनायिषते अबिभिमनायिषते इति स्याद्, सुमिमनायिषते अभिमिमनायिषत इति चेष्यते? नैष दोषः, चुरादौ `संग्राम युद्धे' इति पठ्यते, स न पाठ्यः; संग्रामशब्दाद् युद्धवाचिनः `तत् करोति तदाचष्टे' इत्येव णिचः सिद्धत्वात्। पठ्यमानस्तु ज्ञापयति----सोपसर्गात्सङ्घाताद्धातुसंज्ञानिमित्तकप्रत्यये विधित्सिते उपसर्गाः पृथक् क्रियन्ते, परिशिष्टादेव तु प्रत्यय इति। संग्रामशब्दो हि सोपसर्गः संघात एव चुरादावपि पठ्यते, न तूपसर्गसद्दशावयवं शब्दान्तरम्। तथा च `वा पदान्तस्य' इति परसवर्णविकल्पो भवति, अन्यथा स न स्यात्। स एवमर्थः पठ्यते---असंग्रामयत शूरः, संग्रामयित्वा, सिसंग्रमयिषत इत्यादि रूपं यथा स्यादिति, ततश्चोक्तस्यार्थस्य ज्ञापकः। नियमार्थो वा---धातुसंज्ञाहेतुः प्रत्ययः सोपसर्गाद्यदि भवति संग्रामशब्दादेवेति। ननु चात्रानुदात्तेदयं संग्रामयतिरिष्यते, ततश्चात्मनेपदार्थमनुबन्धमांक्ष्यामीति पाठः स्यादिति कथं ज्ञापको नियमार्थो वा भवेत्? स्यादेतत्---अनुबन्धासञ्जनार्थे हि पाठे `ग्राम युद्धे' इत्येव पठितव्यम्, संशब्दस्तु द्योतकः प्रयोगदर्शनादेव लभ्यते इङिकोरिवाधिः, नियमार्थस्तु संग्रामेति पाठ इति। एवमपि यथा इङिकोरधेः पूर्वमाण् न भवति, तथाऽस्यापि न स्यात्, तस्माद् द्वितीयः पक्ष आश्रीयते। यद्येवम्, यथा श्येनायत इति आचारार्थस्य क्यङोक्तत्वादाङः प्रयोगो न भवति तथा स्वदीनामपि न स्यात्। तद्विशिष्ट एवार्थे क्यङो विधानाद् युक्तमेको पसर्गेण विशिष्टार्थे क्यङुत्पद्यत इति तस्य तेनाभिधानम्, इह पुनरनेकेन। तत्र---मनायत इत्युक्ते संदेहः स्यात् सुभवतौ दुर्भवतौ वेति? तत्रासंदेहार्थमुपसर्गः प्रयोक्तव्यः। अयं तर्हि दोषः---मनः शब्दात्क्यङि कृते मनायत इत्यस्य तिङन्तस्य स्वादेरतिङन्तादुत्तरस्य निघातः प्राप्नोति। पक्षान्तरे तु सुमनायत इत्यादि तिङन्तं संपद्यते इति तद्व्यतिरिक्ताभावान्निघाताभावः। एवं तर्हि भृशादिषूपसर्गस्य पराङ्गवभावं वक्ष्यामि `सुबामन्त्रिते' इत्यस्यानन्तरं भृशादिषूपसर्ग इति। इहापि तर्हि प्राप्नोति---अभिभृशायते सुभृशायत इति? यदि नेष्यते `मनस्युपसर्गे' इति वक्ष्यामि, मनः शब्दे परत उपसर्गस्तस्यैव परस्य मनः शब्दस्याङ्गवद्भवति स्वरे कर्त्तव्ये इति। एवं च देवदत्तः सुमनायत इत्यादौ उपसर्गस्यापि `तिङ्ङतिङः' इति निघातो भवति। योऽप्याह---सुमनःशब्दात्प्रत्यये विधित्सिते उपसर्गः पृथक् क्रियते, परिशिष्टादेव प्रत्यय इति, तेनापि स्वरे पराङ्गवद्भावो वक्त्व्य एव। तदेवं प्रत्ययार्थविशेषणं स्वादयः, मनः शब्दादेव केवलात्प्रत्यय इति स्थितम्। यदि तु सामान्येन ज्ञापकमिष्यते सङ्घातात्प्रत्यये विधित्सिते उपसर्गाः पृथक् क्रियन्ते इति, नात्रैव, यथा `प्रभौ परिवृढः' इत्यत्र वक्ष्यते----परिवृढमाचष्टे इति णिचि कत्वाप्रत्यये कृते परिवृढय्येति ल्यब् भवतीति, ततो ज्ञापकान्तरं मृग्यम्। च किंचिदुद्ग्रन्थाभिधानं सूरिभिरित्युपरम्यते।।
लोहितादिढान्भ्यः क्सष्।। 3.1.13 ।।
लोहितादिडाजभ्यः क्सष्।। पटपटायतीति। अव्यक्तानुकरणादिति डाचि विवक्षिते `डाचि बहुलं द्वे भवतः' इति द्विर्वचनम्, ततो डाप्, पटत्पटा इति स्थिते `नित्यमाम्रेडिते डाचि' इति पटच्छब्दस्य यस्तकारे यश्च परः पकारस्तयोः पररूपं पकारः, लोहितडाज्भ्यः क्यष्वचनं भृशादिष्वितराणि' इति वार्त्तिकम्, तदेतत्पठिताभिप्रायं न पुनरनेनादिग्रहणं प्रत्याख्यायत इत्याह---यानि पठ्यन्ते इति। निद्राकरुणाकृपाशब्दा वृत्तिविषये तद्वति वर्त्तन्ते, अनिद्रो निद्रावान् भवति, अकरुणः करुणावान् भवति, अकृपः कृपावान् भवतीत्यत्रार्थे प्रत्ययः। ऊपरिपठितेभ्यस्तु क्यषेव भवतीत्यस्योपपादनम्। आकृतिगणश्चायमिति। कुत इत्यत आह---तथा चेति। क्व पुनः सामान्यग्रहणार्थः ककारः? क्यच्व्योश्चेति। `आपत्यस्य' इति वर्त्तते, न चायमापत्यादिष्यते। इह तर्हि `क्यस्य विभाषा'? `हलः' इति वर्तते, न चायं हलन्तादिष्यते। इह तर्हि `क्याच्छन्दसि' ? एतद्याच्छन्दसीति वक्तव्यम्----भुरण्युस्तुरण्युरिति, कण्ड्वादियगन्तादपि यथा स्यादिति। `वा क्यषः' इत्येतद्वा यादित्येवास्तु। न चैवम् `पाशादिभ्यो यः' पाश्या, अत्र प्रसङ्गः? सामान्यविहितानान्तिङां नियमार्थ प्रकरणम्। न च पाशादियात्परस्मैपदमात्मनेपदं वा प्राप्तमस्ति। अथाप्याचारक्विबन्तात्सम्भवेद्? एवमपि `वा यषः' इत्येवास्तु तत्राह--नः क्ये इति। ककारमनुबन्धमासञ्जतः सूत्रकारस्याप्याकृतिगणत्वमभिप्रेतमित्याह---न हीति। भाष्ये त्वादिग्रहणप्रत्याख्यानपरमेव वार्त्तिकं व्याख्यातम्। ककारोऽपि प्रत्याख्यातः। कथं पुनः पटपटायताति क्यष्योगे डाज् भवति, यावता कृभ्वस्तियोगे स विधीयते? तत्राह---कृभ्वस्तिभिरिवेत्यादि। भवत्यर्थे क्यष् विधीयते, स भवतिप्रयोगे न भवति, तेनैवोक्तत्वात्तस्यार्थस्य। अतो भवतेरप्रयोग एव क्यषा भवितव्यम्। यदि च क्यषा योगो डाज्च न स्याड्डाजन्तात् क्यष्विधानमनुपपन्नं स्यादिति भावः। अथ किमर्थम् `वा क्यष'इति सूत्रमारभ्यते, न क्यष् चेति चकारोऽत्र कर्तव्यः, लोहितादिभ्यः क्यष् भवति चकारात् क्यङ् च, तत्र क्यङ्पक्षे आत्मनेपदम्, क्यष्पक्षे परस्मैपदमिति सिद्धमिष्टम्? अहो सूक्ष्मदर्शी देवानांप्रियः, यदिदमपि न द्दष्टम्---`क्यङ्मानिनोश्च' इति। इह तर्हि `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति लोहिनीशब्दादप्ययं क्यष् भवति, सति चैवं क्यङन्तादात्मनेपदं क्यषन्तात्परस्मैपदमिति विज्ञायमाने आत्मनेपदपक्षे `क्यङ्मानिनोश्च' इति पुंवद्भावे सति अलोहिनी लोहिनी भवति लोहितायत इति प्राप्नोति, अद्य पुनः क्यषन्तादात्मनेपदे विकल्पिते लोहिनीयते लोहिनीयतीतीष्टं सिद्ध्यतीति स्पष्ट एव फलभेदः।।
कष्टाय क्रमणे।। 3.1.14 ।।
कष्टाय क्रमणे।। चतुर्थीसमर्थादिति। सङ्गतार्थः===समर्थः, `चतुर्थ्या समर्थ' इति तृतीयासमासः। प्रत्ययार्थेन क्रमणेन सह सङ्गतार्थत्वं यस्य चतुर्थीकृतं तस्मादित्यर्थः। एतच्च `कष्टाय' इति निर्देशादेव लभ्यते। क्रमणशब्दस्य पादविहरणे प्रसिद्धत्वात्तत्रैव प्रत्ययो मा विज्ञायीत्याह---क्रमणेऽर्थेऽनार्जव इति। अनार्जवं कौटिल्यम्, इह त्वनार्जवशब्दोऽनाकरणरूपे क्रमणे पर्यवस्यत्यर्थात्। किं पुनः क्रमणम्? उत्साहः, यथा व्याकरणाध्ययनाय क्रमते उत्सहत इत्यर्थ इति व्याख्यातम्। कष्टाय कर्मणे क्रमत इति। `कृच्छ्रगहनयोः कषः' इति कृच्छ्र इडभावः, कृच्छ्रम्=दुः खम्। इह तु तत्कारणं पापं कर्म, कृच्छ्रं पापं कर्म कर्तुमुत्सहत इत्यर्थः। `वृत्तिसर्ग' इत्यात्मनेपदम्। प्रायेण तु परस्मैपदं पठ्यते, तत्र पापं कर्म कर्तुकामः कुटिलमाचरतीत्यर्थः अनुत्साहत्वात्परस्मैपदम्।
अत्यल्पमिदमुच्यत इति। सर्वलक्ष्यासंग्रहात्। कथं तर्हि वक्तव्यमित्याह---सत्त्रकक्षेत्यादि। अस्मिन्पक्षे द्विदीयान्तेभ्यः प्रत्ययः; चिकीर्षां प्रति कर्मत्वात्। कण्वचिकीर्षायामिति। प्रकृतिप्रत्ययसमुदायस्यायमर्थनिर्देशः। कण्वम्=पापम्। सत्त्रादयो हि वृत्तिविषये पापपर्यायास्तेभ्यश्चिकीर्षायां प्रत्ययः, पापं चिकीर्षतीत्यस्वपदेन विग्रहः। अजः कष्टं क्रामतीति। क्रमिरत्र पादविहरणे वर्तते, कष्टं गहनदेशं क्रामति गच्छतीत्यर्थः।।
कर्मणो रोमन्थतपोभ्यां वर्तिचरोः।। 3.1.15 ।।
कर्मणो रोमन्थतपोभ्यां वर्तिचरोः।। `कर्मणः' इति पञ्चमी, रोमन्थतपोभ्यामित्यनेन सामानाधिकरण्यात्। प्रत्येकसम्बन्धात्त्वेकवचनम्। वर्त्तीति। ण्यन्ताद् वृतेः `ण्यासश्रन्थो युच्' इति युचि प्राप्तेऽस्मादेव निपातनात् क्तिन्। युजपि भवति---वर्तना । चरणं चर्, संपादित्वाद्भावे क्विप्। हनुचलन इति। हनुचलनसहचरितं चर्वितस्य मुखप्रदेशे आकृष्य चर्वणं तत्रेत्यर्थः। कीटो रोमन्थं वर्तयतीति। अवगीर्णमपादानप्रदेशान्निः सृतं रोमन्थाख्यं द्रव्यं वर्तयति= वृत्तं करोति, गुलिकां करोतीत्यर्थः। नात्र हनुचलनमस्ति। तपसः परस्मैपदं चेति। एवं च `नमोवरिवः' आदिसूत्रे तपः शब्दः पठितव्यस्तथा तु न कृतमित्येव। इह `तपस्यते लोकं जिगीषुरग्नेः' इति `तपस्यते लोकं जिगीषुरग्नेः' इति छान्दसत्वादात्मनेपदम्।।
बाष्पोष्मभ्यामुद्वमने।। 3.1.16 ।।
शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे।। 3.1.17 ।।
सुखादिभ्यः कर्तृवेदनायाम्।। 3.1.18 ।।
सुखादिभ्यः कर्तृवेदनायाम्।। वेदनायामिति। `विद चेतनाख्याननिवासेषु' इत्यस्माच्चुरादिण्यन्ताद्भावे `ण्यासश्रन्थो युच्' , `घट्टिवन्दिविदिभ्यश्च' इत्यौपसंख्यानिको वा। वेदनायामर्थेऽनुभव इति। प्रत्यक्षज्ञानम्=अनुभवः। यद्यपि वेदनाशब्दो ज्ञानमात्रवचनस्तथापि कर्तृग्रहणेन सुखादीनि विशेष्यन्ते, कर्तृगतानां च सुखादीनां वेदनाऽनुभवरूपैवेति मत्वैवमुक्तम्। क्रियापेक्षं कर्तृत्वं वेदनासंनिधानात्तदपेक्षमेव विज्ञायते। कर्त्रा च सुखादीनि विशेष्यन्ते न वेदना; व्यभिचाराभावात्। सर्वैव हि वेदना वेदयितुरेव भवति, तदेतदाह----वेदयितुश्चेत्कर्तुः सुखादीति भवन्तीति। आश्रयाश्रयिभावलक्षणश्च सम्बन्धः, न जन्यजनकभावलक्षणः। एवं च कर्तृग्रहणं लुप्तषष्ठीकं पृथक्पदम्। वेदयत इति। `आ कुस्मादात्मनेपदी' इत्यधिकारे वेदिः पठितः। एवं च प्रत्युदाहरणे परस्मैपदपाठः प्रमादजः। प्रसाधकः = अभ्यङ्गादेः कर्त्ता, संप्रसाध्यमानस्य नेत्रविकारादिना सुखमनुमानतो जानाति।।
नमोवरिवश्चित्रङः क्यच्।। 3.1.19 ।।
नमोवरिवश्चित्रडः क्यच्।। करणविशेषे पूजादाविति। `करणे' इति सामान्यानुवृत्तावप्यभिधानशक्तिस्वाभाव्याद्विशेष उपलभ्य इति भावः। नमस्यति देवानिति। `नमः स्वस्तिस्वाहा' इति चतुर्थी न भवति, प्रत्ययार्थे गुणीभूतस्य नमः शब्दस्य निष्कृष्य सम्बन्धाभावात्। अथ वा---नमस्यति नमस्कारेण पूजयतीत्यर्थः। तत्र `उपपदविभक्तेः कारकविभक्तिर्बलीयसी' इति द्वितीयेव भवति। एवं च नमस्करोति देवानित्यादावपि द्वितीयेव भवति। परिचर्यायामिति। परिचर्या= शुश्रूषा। चित्रीयते इति। अवयवकृतं लिङ्गं समुदायस्य विशेषकं भवतीति क्यजन्तादात्मनेपदं भवति, `क्यचि च' इतीत्त्वम्। एतदर्थमेव च शब्दवैरादिसूत्रे चित्रशब्दो न पठितः। चित्रीयत इति। विस्मयत इत्यर्थ इत्येके। विस्मापयत इत्यर्थ इत्यन्ये। तथा च भट्टिकाव्ये मायामृगं प्रकृत्य भवति `ततश्चित्रीयमाणोऽसौ' इति।।
पुच्छभाण्डचीवराण्णिङ्।। 3.1.20 ।।
पुच्छभाण्डचीवराण्णिङ्।। पुच्छादुदसने पर्यसने वेति। उदसनम्=उत्क्षेपणम्। पर्यसनम्=परितः क्षेपणम्। उत्पुच्छयत इति। ननु यथाऽऽचारे क्यङि विहिते आङः प्रयोगो न भवति, तत्कस्य हेतोः? आङ्विशिष्टस्यैव चरत्यर्थस्य क्यङाभिधानात्, तद्वदिहाप्युत्क्षेपणे णिङो विधानादुदः प्रयोगो न प्राप्नोतीति? अस्त्यत्र विशेषः----पर्यसनेऽप्ययं विधीयते। तत्रोदसनं द्योतयितुमुच्छब्दः, पर्यसनं द्योतयितुं परिशब्दश्च प्रयोक्तव्यः। समाचयनम्=राशीकरणम्, अर्जनम्= द्रव्यलाभोपायः, याच्ञादि। ङकार आत्मनेपदार्थ इति। तेनोत्तरसूत्रे पुच्छादयो न शक्याः पठितुमिति भावः।।
मण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्।। 3.1.21 ।।
मण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्।। किमर्थमिदम्, न प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धम्; न च तत्करोतीत्यादिना तत्र धात्वर्थनियमः क्रियते, राजानमतिक्रान्तवानत्यरराजदित्यपि दर्शनात्? मुण्डं करोति माणवक मित्यादौ' सापेक्षेभ्योऽपि णिज् यथा स्यादित्येवमर्थ प्रपञ्चार्थ वा। हलिकल्योस्त्वदन्तत्वनिपातनार्थम्, अन्यथा हलि इ कलि इ इति स्थिते `अचो ञ्णिति' इति वृद्धिः प्राप्नोति, `णाविष्ठवत्' इति टिलोपश्च; तत्र लोपः शब्दान्तरप्राप्त्याऽनित्यः, वृद्धिस्तु टिलोपे कृतेऽप्राप्तेवैत्युभयोरनित्ययोः परत्वाद् वृद्धौ कृतायामैकारस्य लोपस्तन्नाग्लोप्यङ्गं भवतीति `सन्वल्लघुनि' इति सन्वद्भावः स्यात्, `दीर्घो लघोः' इति दीर्घश्च, अत्वनिपातने तु यद्यपि परत्वाद् वृद्धिस्तथाप्यगेव लुप्यते इति सन्वद्भावो न भवति, तदाह---हलिकल्योरदन्तत्वनिपातनं सन्वद्भावप्रतिषेधार्थमिति। उपलक्षणमेतत्, `दीर्घो लघोः' इति दीर्घाभावार्थ च। `दीर्घो लघोः' इत्यत्राप्यनग्लोप इति वर्त्तते। एवं च बलिपटुप्रभृतिभ्यो णिचि अबिवलत्, अपीपटदिति भवति, न त्वबबलत् अपपटदिति। `सत्यापपाश' इत्यत्र मुण्डादयः पठितव्यास्तथा तु न कृतमित्येव।।
धातोरेकाचो हलादेः क्रियासमभिहारे यङ्।। 3.1.22 ।।
धातोरेकाचो हलादेः क्रियासमभिहारे यङ्।। `हलादेः' इति विशेषणादेकाच इति बहुव्रीहिः। क्रियासमभिहारे वर्त्तत इति। समभिह्रियमाणायां क्रियायां हि वर्त्तत इत्यर्तः। अनेन समभिहारस्य प्रकृतिविशेषणत्वं दर्शयति। क्रिया हि धातुवाच्या। समभिहारविशिष्टापि क्रियैव भवति, अतः प्रकृतिविशेषणत्वमेव युक्तम्, यथा अतिशयेन शुक्लोऽपि शुक्ल एवेत्यतिशयानं प्रकृत्यर्थस्तद्वत्। तस्माद्यङ्प्रत्ययो भवतीति। क्व? अनिर्दिष्टार्याः प्रत्ययाः स्वार्थे भवन्तीति तत्रैव। समभिहारे द्योत्ये प्रकृत्यर्थसमभिह्रियमाणत्वद्योतनायेत्यर्थः, यथा प्रकृत्यर्थस्यातिशयद्योतनाय तरबादयस्तद्वत्। इह बिप्रकीर्णानं मूर्त्तानामेककालानामेकत्र राशीकरणं समुदायभावापत्तिर्मुख्यः समभिहारः, यथा---पूलादीनाम्। धातुवाच्या तु क्रियैकैव। यद्यपि `दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिषु' इत्यनेकार्थे दिविः पठ्यते, तथापि न युगपदनेकार्थमाचष्टे, किं तर्हि? प्रयोगभेदेन। यद्यपि चाश्रयभेदाद्विषयभेदाच्च भिद्यते पाकः----अन्य एव हि देवदत्तकर्तृकः पाकः, अन्य एव चान्यकर्तृकः, अन्यश्चौदनस्य पाकोऽन्य एव तैलादीनाम्; तथापि धातुना निवृत्तभेदैव सा प्रत्याय्यते। अत एव भवद्भिरास्यत इत्यादौ बहुवचनं न भवति। न खलु कर्तृभेदः कर्तृ-भेदः क्रियाव्यक्तिभेदेन व्याप्तः, एकफलावच्छिन्नामेकामेव क्रियां कुर्वत्स्वपि बहुषु पचन्तीति दर्शनात्। तदेवं धातुवाच्या समूहरूपा प्रधानक्रियैकैवेति समभिहाराभावः। अधिश्रयणादीनां तु गुणक्रियाणां युगपदेकधातुवाच्यत्वेऽपि क्रमजन्यत्वादुत्पन्नापवर्गित्वेन युगपदवस्थानाभावादमूर्त्तत्वाच्च कधातुवाच्यत्वेऽपि क्रमजन्यत्वादुत्पन्नापवर्गित्वेन युगपदवस्थानाभावादमूर्त्तत्वाच्च समभिहाराभावः। तदेवं मुख्यस्य समभिहारस्य धात्वर्थविषयेऽसम्भवाद् गौणो गृह्यते, तद्दर्शयति, तद्दर्शयति---पौनः पुन्यं भृशार्थो वेति। द्रव्याणां द्रव्यान्तरैरव्यपेतानां समभिहारो भवति, तथा क्रियाणामपि क्रियान्तरैरव्यपेतानामेतदुभयं भवति। तत्र प्रधानक्रियाणां पौनः युन्यं समभिहारः, पुनः पुनरनुष्ठीयमानविषयं हि तत्। प्रधानक्रियैव च पुनः पुनरनुष्ठीयते। अवयवक्रियाणां तु भृशार्थता समभिहारः, बुद्धिगोचरानेकसकलावयवक्रियाविषया हि सा। पापच्यत इति। `दीर्घोऽकितः' इति दीर्घः। देदीप्यत इति। `गुणो यङ्लुकोः' यङैव समभिहारस्य द्योतितत्वात्। `क्रियासमभिहारे द्वे भवतः ' इति वा `नित्यवीप्सयोः' इति वा द्विर्वचनं न भवति। धातोरिति किमिति। अन्यस्य क्रियासमभिहारे वृत्त्यसंभवात्प्रश्नः। भृशं प्राटतीति। अत्र धातूपसर्गसमुदायस्य विशिष्टक्रियावचनत्वात्ततो यङ्स्यात्, ततश्चोपसर्गस्य द्विर्वचनं स्यात्। यदि सोपसर्गसंघातस्यैव क्रियासमभिहारे वृत्तिः, प्रपापच्यत इत्यादौ यङ् न प्राप्नोति ? योऽत्र धातुः स न क्रियासमभिहारे, यश्च क्रियासमभिहारे न स धातुरिति। तस्माद्वातुरेव समभिहारविशिष्टक्रियावाची, उपसर्गस्तु सन्निधिमात्रेणोपकारकः। ततश्च संघातात्प्राप्त्यभावान्नार्थो धातुग्रहणेन। यत्र तर्हि संघातेनैव विशिष्टा क्रियोच्यते----प्रतेष्ठीयत इति, अत्र हि केवलस्तिष्ठतिर्गतिनिवृत्तिवचनः प्रपूर्वेण तु संघातेन गतिक्रियैवोच्यते, यथा---जङ्गम्यत इति? अत्राप्यनेकार्थत्वाद्धातूनां तिष्ठतिरेव गतौ तन्निवृत्तौ च वर्त्तते, उपसर्गस्तु सन्निधिमात्रेणोपकारक इति धातोरुत्पत्तिरविरुद्धा, तस्मादार्धधातुकसंज्ञार्थमेव धातुग्रहणम्। तेन `ब्रुवो वचिः' इत्यादि भवति। आनुषङ्गिकी त्वथातुनिवृत्तिः।
अथ कथं यङन्तादात्मनेपदं भवति? कथं च न स्यात्? ङितो धातोरात्भनेपदमुच्यते, यश्चात्र धातुर्न स ङित्, न ह्ययं समुदायस्यानुबन्धः। यश्च ङित्प्रत्ययो नासौ धातुः। यत्र चावयवे कृतं लिङ्गमचरितार्थ तत्र समुदायस्य विशेषकं भवति, अयं ङकारस्तु बेभिद्यत इत्यादौ गुणनिषेधादौ चरितार्थः? कश्चिदाह---क्रियासमभिहारे यङित्यकारोऽत्र प्रश्लिष्यते, स चानुदात्तोऽनुनासिकः प्रतिज्ञायते,तत्रानुदात्तत्वमवयवेऽचरितार्थ समुदायस्य विशेषकं भवति, `अनुदात्तेतश्च हलादेः' इत्येतच्च न भवति `जुचङ्क्रम्यदन्द्रम्य' इत्यत्र चङ्क्रम्यदन्द्रम्यग्रहणाल्लिङ्गदिति, स वक्तव्यः। अथ कथं ऋतेरोयङन्तादात्मनेपदं भवति, सोऽपि हि ङकारो गुणनिवृत्तौ चरितार्थ इति? स चेद् ब्रूयात्तस्याप्यादित इकार ईकारे वा अनुदात्तः प्रश्लिष्यत इति, प्रतिब्रूयादेनम्---इकारे नुम्प्रसज्येत, ईकरे `श्वीदितो निष्ठायाम्' निष्ठायाम्' इतीण्निषेधः स्यादिति? नैष दोषः; नुम्विधौ `गौः पादान्ते' इत्यतोऽन्तग्रहणमनुवर्तते, तेनान्ते इकार इत्सञ्ज्ञको येषां तेषां नुम्। `श्वीदितो निष्ठायाम्' इत्यत्राप्येकाच इति वर्तते? सत्यम; प्रतिविहितमायुष्मता, मुधा पुनरयं प्रयासः, तथा हि---`अनुदात्तङितः' इत्यत्र न धातुग्रहणमस्ति, ततः किम? इदं ततो भवति---प्रत्ययमेव ङितमाश्रित्यात्मनेपदं सिद्धं भवति। न चैवमशिश्रियद् अवोचदित्यादौ चङङ्भ्यामपि प्रसङ्गः; प्रागेव विकरणेभ्यः `अनुदात्तङितः' इत्येतत्प्रकरणं प्रवर्त्तते; अन्यथा `वर्तते' इत्यादौ विकरणव्यवधानान्नियमो न स्यात्। यथा च प्रागेव विकरणेभ्यो नियमः प्रवर्त्तते, प्रवृत्ते तु नियमे विकरण इति तथा तत्रैव प्रतिपादितमित्यलमियता।
सूचिसूत्रीत्यादि। सूच्यादिभ्यो यङ् वक्तव्यः, किमर्थम्? सूच्यादीनामनेकाजर्थम्, अशादीनामहलाद्यर्थम्, ऊर्णोतेस्त्वनेकाजर्थमहलाद्यर्थं च। सोसूच्यत इति। `सूच पैशुन्ये', सूत्र अवमोचने', मूत्र प्रस्रवणे' चुरादिण्यन्ताः। अत्र णिलोपोऽपि यङ आर्धधातुकत्वे प्रयोजनम्। अटाट्यते। `अट पट गतौ', `अजादेर्द्वितीयस्य'इति ट्यशब्दस्य द्विर्वचनम्। अशर्यते इति। `ऋ गतौ' `गुणोऽत्तिसंयोगाद्योः' `यङि च' इति गुणः, ` न न्द्राः संयोगादयः' इत्यत्र `यदा रपरस्य प्रतिषेधः' इति वचनाद्रेफस्य द्विर्वचनम्। अशाश्यते इति। अश्नोतेरशेश्च ग्रहणमित्यागमः। प्रोर्णोनूयते इति। `ऊर्णुञ् आच्छादने' नोपधोऽयम्, आष्टमिकं तु णत्वम्, तस्यासिद्धत्वान्नुशब्दस्य द्विर्वचनम्। ननु `पूर्वत्रासिद्धयिमद्विर्वचने? स्यादेतत्----आष्टमिकं तु द्विर्वचनमभिप्रेत्य तदुच्यते, यथा चौजढदित्यत्र ढत्वादीनामसिद्धत्वाद्धत इत्येतद् द्विरुच्यते इति? तन्न; एवं हि षुपिभूतो द्विरुच्यत इति वक्ष्यमाणं व्याहन्येत। एवं तर्हि पूर्वत्रासिद्धीयमद्विर्वचन इत्येतदनित्यम्, `उभौ साभ्यासस्य' इति लिङ्गात्; अन्यथा `अनितेः' इति णत्वे कृते तस्य सिद्धत्वाण्णिशब्दस्य द्विर्वचने सति सिद्धं स्यात्प्राणिणिषतीति। इह कस्मान्न भवति---लुनीहि लुनीहित्येवायं लुनातीति? भवत्येव। लोलूयत इति लोट् तर्हि न प्रप्नोति यङा बाधितत्वात्, अन्तरङ्गो यङ् क्रियासमभिहारमात्रापेक्षत्वात्; लोट् तु बहिरङ्गः, क्रियाभेदाश्रये धातुसम्बन्धे भावकर्मकर्तृषु च विधानात्। सावकाशश्च लोट्, कोऽवकाशः? अनेकाजहलादिश्च---जागृहि जागृहीत्येवायं जागर्त्ति, ईक्षस्वेक्षस्वेत्येवायमीक्षत इति। एवं तर्हि वेत्यनुवृत्तेः पक्षे पङ्, यदा न यङ् तदा लोड् भविष्यति। यङोऽकारोऽटाट्यते इत्यादौ द्विर्वचनार्थः।।
नित्यं कौटिल्ये गतौ।। 3.1.23 ।।
नित्यं कौटिल्ये गतौ।। `धातोः' इति वर्त्ते, गताविति तस्य विशेषणम्, गतौ वर्त्तमानाद्धातोरिति। कौटिल्ये इति। संनिधानाद् गतिविषयमेव कौटिल्यं गम्यते। चक्रम्यते, दन्द्रम्यत इति `क्रमु पादविक्षेपे', द्रम मीमृ गतौ, `नुगताऽनुनासिकान्तस्य', योऽल्पीयस्यध्वनि गतागतानिकरोति स कुटिलां गति सम्पादयन्नेवमुच्यते।
नित्यग्रहणमनर्थकम्, अनभिधानादेव वाक्यं न भविष्यति, न हि चंक्रम्यत इति वृत्तेरर्थ कुटिलं क्रमातीति वाक्यं शक्नोति गमयितुम्; संशयो हि वाक्याद्भवति----किं गतिकौटिल्यम्? उत वक्रहृदयत्वनिबन्धनं जिह्वाचरणमिति? वृत्तौ तु गतिकोटिल्यमेव नियतं गम्यते, कौटिल्यमात्रप्रतिपादने च वाक्यं निवारयितुमशक्यमनिष्टं चात आह---नित्यग्रहणं विषयनियमार्थमिति। गतिकौटिल्यं विषयः, तत्रैव यङ् यथा स्यादित्येवमर्थमित्यर्थः, तदाह---गतिवचनान्नित्यं कौटिल्य एव भवतीति। व्यवच्छेद्यं दर्शयति---न तु क्रियासमभिहार इति। ननु यथा `व़डवाया वृषे वाच्ये' इत्यपत्येप्राप्तस्ततोऽपकृष्य विधीयते, यथा वा `ञीतः क्त' भूते प्राप्तस्ततोऽपकृष्य वर्त्तमाने विधीयते, एवमत्रापि धातुमात्रात्क्रियासमभिहारे यङ् विहितः, गतिवचनात् तु कौटिल्य इति? तक्रकौडिन्यन्यायेनैव बाधः सिद्धः। यथा वा विवक्षितार्थानभिधानाद्वाक्यं न भवति तथा समभिहारानवगमाद्त्र प्रत्ययो न भविष्यति। अथैवमपि वचनापेक्षा? वाक्यनिवृत्तावपि वचनमपेक्षस्व! तदेतन्नित्यग्रहणं चिन्त्यप्रयोजनम्।।
लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम्।। 3.1.24 ।।
लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम्।। लुप्लृ च्छेदने', `षद्लृ विशरणगत्यवसादनेषु'। `आङः सदिः पद्यर्थे' इत्यस्य तु चोरादिकणिजन्तस्य एकाच इत्यस्यानुवृत्तेरग्रहणम्। `चर गत्यर्थः',`जप जल्प व्यक्तायां वाचि',`जभी जृभी गात्रविनामे',`दह भस्मीकरणे', `दन्श दशने'। अनुनासिकलोपनिर्देशो यङ्लुक्यप्यनुनासिकलोपार्थ---दन्दशीतीति। `गृ निगरणे' तुदादिः, `गृ शब्दे' क्र्यादिः, तत्राकारान्तविकरणेन साहचर्यादाद्यस्य ग्रहणमित्येके। द्वयोरपीत्यपरे। धात्वर्थगर्हायामिति। भावशब्दो धात्वर्थे वर्त्तत इति दर्शयति। गर्हितमिति क्रियाविशेषणम्, तेन भावगर्हाऽत्र गम्यते। गर्हितत्वं तु छेदनस्य, निषिद्धतृणादिविषयत्वात्, `लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः' इति एवमुत्तरत्रापि यथासम्भवं गर्हितत्वं भेदेन द्रष्टव्यम्। चञ्चूर्यते इति। `चरफलोश्च' इति नुक्, `उत्परस्यातः', `हलि च' इति दीर्घः। जञ्जप्यते इत्यादौ `जपजभदहदशभञ्जपशां च' इति नुक्। निजेगिल्यत इति। `ऋत इद्धातोः', रपरत्वम्, द्विर्वचनम्, अभ्यासस्य गुणः, जेगिर्य इति स्थिते `ग्रो यङि' इति लत्वं च प्राप्नोति, `हलि च' इति दीर्घश्च, तत्र दीर्घस्यासिद्धत्वाल्लत्वे कृते विहतनिमित्तत्वाद्दीर्घाभावः। अन्ये तु `न मु ने' इत्यत्र नेति योगविभागेनासिद्धत्वं बाधित्वा दीर्घे कृते लत्वामिच्छन्ति, नात्राप्तवाक्यमस्ति।
गर्हायामिति किमिति। भावस्येत्येव तद्धर्मविशेषो लप्स्यते इति प्रश्नः। धर्मविशेषानुपादाने प्रशंसायामपि स्यादित्याह---साधु जपतीति। जपति वृषलो मन्त्रमिति। अत्र स्वरवर्णादिभ्रेषाभावाद्भावगर्हा नास्ति। वैदिकमन्त्रजपं प्रति शूद्रस्यानधिकारात्तु साधनभावे गर्हितः, यस्य खल्वीद्दशी गतिः----`शूद्रस्य वेदमुपश्रृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्, उच्चारणे जिह्वाच्छेदः धारणे शरीरभेदः' इति नासौ जपितुमर्हति। नित्यग्रहणमित्यादि। पूर्ववदेतद्व्याख्येयम्।।
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवमवर्णचूर्णचुरादिभ्यो णिच्।। 3.1.25 ।।
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवमवर्णचूर्णचुरादिभ्यो णिच्।। स्त्यापेत्यकार उच्चारणार्थः। सत्यमाचष्ट इति। ननु भाष्ये सत्यस्य कृञ्यापुक्, सत्यशब्दात्कृञि करोत्यर्थे णिज्भवति आपुक्च, सत्यं करोति सत्यापयतीत्युक्तम्? सत्यम्; कृञ्ग्रहणमनार्षम्, प्रदर्शनार्थो वा करोतिर्द्रष्टव्य इति मन्यते।
आपुग्वक्तव्य इति। आपुग्वचनसामर्थ्याट्टिलोपो न भवति। क्वचित्तु वृत्तावेवायं ग्रन्थः पठ्यते। अथ कथं पुनः शब्दापयेदिति? छन्दोवद्दषयः कुर्वन्ति। एतेन प्रक्षालापयेदिति गृह्यप्रयोगो व्याख्यातः। पाशाद्विमोचने इति। प्रायिकोऽयमर्थनिर्देशः, अन्यत्रापि भवति; अन्यथा विपाशतीति विशब्दस्य प्रयोगो न स्यात्, विशब्दविशिष्टस्यैव मोचनस्य ण्यर्थत्वात्, यथाचारक्यच्याङः प्रयोगो न भवति। एवमुपवीणयदीत्यादावपि द्रष्टव्यम्। तूलम्=तृणाग्रं तेनानुकृष्णाति अनुघट्टयतीत्यर्थः। अनुगृहणातीति तु पाठें न समीचीनोऽर्थः। अभिषेणयतीति। `उपसर्गात् सुनोति' इत्यादिना षत्वम्। अकारान्तस्त्वचशब्द इति। `त्वच संवरणे' इत्यस्माद्धातोः `पुंसि संज्ञायाम्' इति घः। अवघ्वंसयतीति। विकिरतीत्यर्थः। `प्रातिपदिकाद्धात्वर्थे' इत्येव सिद्धे सत्यस्यापुग्विधानार्थ वचनमन्येषां प्रपञ्चार्थम्। भालिन्यो ह्युपश्लोकयन्तीत्यादौ सापेक्षेभ्यो यथा स्यादित्येवमर्थ वा। कथं पुनर्विमोचनादिरर्थोऽनिर्दिष्टो लभ्यत इत्यत आह---स्वाभाविकत्वादिति। प्रत्ययार्थो निर्दिश्यत इति। सूत्रकारेणानिर्दिष्टोऽपि प्रत्ययार्थो व्याख्याकारैर्निर्दिश्यत इत्यर्थः।।
हेतुमति च।। 3.1.26 ।।
हेतुमति च।। लोके फलसाधनयोग्यः पदार्थो हेतुरित्युच्यते, तस्य ग्रहणे अध्ययनेन वसतीत्यत्रापि प्रसज्येत, हेतुमद्ग्रहणं चानर्थकं स्यात्, कथम्? `करणे' इति वर्त्तते, तस्य विशेषणं हतुमतीति, करणं क्रिया, सर्वैव च क्रिया हेतुमतोति किं विशेषणोपादानेन ! ननु शब्दोपात्ते हेतौ यथछा स्यादित्येवमर्थमेतत्स्याद्यथा `समस्तृतीयायुक्तात्' इत्यत्र श्रयमाणायां तृतीयायामात्मनेपदं यथा स्यात्तदर्थयोगमात्रे मा भूदित्येवमर्थ तृतीयायुक्तग्रहणम्। एवं तर्ह्यसति विरोधे कृत्रिमाकृत्रिमयोः कृत्रिमस्यैव ग्रहणं युक्तमिति `तत्प्रयोजको हेतुश्च' इति यस्य संज्ञा विहिता तस्यैव पारिभाषिकस्य ग्रहणमिति मत्वाऽऽह---हेतुः स्वतन्त्रस्य कर्त्तुः प्रयोजक इति। तदीयो व्यापार इति। प्रवर्त्तना। तस्यास्त्ववान्तरभेदमाह----प्रेषणाध्येषणादिलक्षण इति। भृत्यादेर्निकृष्टस्य प्रवर्त्तना=प्रेषणम्, आज्ञेत्यर्थः। गुर्वादेराराध्यस्य प्रवर्त्तना= अघ्येषणम्, प्रार्थनेत्यर्थः। आदिशब्देन तत्स्थमर्थाचरणं गृह्यते, तच्च बहुधा भिद्यते---अनुमतिः, उपदेशः, अनुग्रह इति। तत्र यस्यानुमतिमन्तरेणार्थो न निर्वर्त्तते तस्य राजादेरनुमत्या प्रयोजकत्वम्, वैद्यादेस्तु `मुस्तापर्पटकं पिबेज्ज्वरितः' इत्याद्युपदेशेन प्रवर्त्तकत्वम्, यः पुनः केनचिज्जिघांसितं पलायमानं निरुणद्धि, निरुणद्धिश्च हन्यते, तत्र निरोद्धा हन्तुरनुग्रहं करोतीत्यनुग्रहेण तस्य प्रवर्त्तकत्वम्। सर्वश्चायं विशेषः प्रकरणादिगम्यः। सर्वत्रानुगतं प्रवर्त्तमानमेव तु णिजर्थः। ननु यथा पितृमानित्युक्ते यं प्रति पितृत्वं स एव गम्यते तथात्रापि यं प्रति हेतुत्वं स एव हेतुमानिति युक्तम्, कञ्च प्रति हेतुत्वम्? `तत्प्रयोजकम्' इति वचनात्कर्त्तारं प्रतीति प्राप्तं `कारके' इत्यधिकारात्क्रियापेक्षत्वाच्च कारकभावस्य यस्मिन्व्यापारे प्रयोजकरूपेणोपयुज्यते तमेव प्रति, स च प्रयोज्यव्यापारोऽधिश्रयणादिः सर्वसाधनसाध्यो विक्लित्यादिर्वेति तयोरेव हेतुमत्त्वं युक्तम्, न पुनः प्रयोजकव्यापारस्य। न हि तत्रासौ प्रयोजकरूपेणोपयुज्यते, किं तर्हि? कर्तृरूपेण, यथा काष्ठस्य पाकापेक्षं करणत्वं न तु ज्वलनापेक्षम्, तदपेक्षं तु कर्तृत्वमेव? उच्यते---णिचः प्रकृतिभूतेन धातुनैवाभिधीयते सोऽर्थस्तेन फलाभावात्तत्र णिज्न भविष्यति। ननु पचतीत्युक्ते न ज्ञायते----किं स्वयमेव पचति? उतान्येन प्रवर्त्तितः? इत्यतोऽन्येन प्रवर्त्तितस्येयं प्रवृत्तिरिति द्योतनाय णिज् भवतु? एवं तर्हि हेतोरिति वक्तव्यम्, `करणे' इत्येव, हेतोः करणे व्यापारे अभिधेये णिज् भवतीत्यर्थः। तथा तु न कृतम्। का गतिरिदानीं सूत्रस्य? अभिधानस्वाभाव्यमत्र हेतुः, स्वभावतो हि णिच् प्रत्ययः प्रयोजकव्यापारमाचष्टे। तेन पाकाद्यपेक्षया यो लब्धहेतुव्यपदेशः स हेतुत्वेनोपलक्षितो यस्यास्तीत्येवं प्रयोजकव्यापार एव मतुपोच्यते। अत्र द्वौ पक्षौ सम्भवतः----हेतुमतीति प्रकृत्यर्थनिर्द्देशः----हेतुमति यो धातुर्वर्तत इति, प्रत्ययार्थो वा---हेतुमति करणेऽभिधेये णिज् भवतीति।
ननु पचति पाचयतीति च व्यक्तमर्थान्तरं गम्यते, तत्कथमस्य प्रकृत्यर्थत्वं शङ्क्यते? उच्यते---इह हि कः पचेः प्रधानार्थः? यासौ तण्डुलानां विक्लित्तिः, अधिश्रयणादीनां तु तादर्थ्यात्तदवच्छेदेन पच्यर्थता। यो हि पानार्थमुदकमाहरति, विक्रयार्थ च काष्ठान्याहरति, शीतं चापनेतुमग्निं समिन्धे नासौ पचतीत्युच्यते, तत्कस्य हेतोः? विक्लित्ति प्रति तादर्थ्याभावात् तदवच्छेदाभावाच्च। अतस्तादर्थ्यादेवाधिश्रयणादीनां पच्यर्थता, तद्वत्प्रयोजकव्यापारोऽपि तादर्थ्यादेव पच्यादिवाच्यो भविष्यति। णिच्प्रत्ययस्तु द्योतकः, तथा च योऽप्येकान्ते तूष्णीमासीनो भक्तबीजबलीवर्द्दैः प्रतिविधत्ते, स उच्यते----पञ्चभिर्हलैः कृषतीति। तदेवं पक्षद्वयसम्भवे यद्याद्यः पक्ष आश्रीयते ततो यथा प्रकृत्यभिहिते णिज् भवति, एवमुक्तप्रेषितादिशब्दाभिरितेऽपि स्याद्--उक्तः करोति, प्रेषतितः करोतीति, हेतुमद्विषयत्वात्करोत्यर्थस्य, प्रत्ययार्थपक्षे तूक्तार्थत्वाण्णिजभावः? नैष दोषः; प्रयोजकव्यापारस्य द्योतनाय णिज्विधीयते तस्य स्वशब्देन द्योतितत्वाद् द्योत्याभावान्न भविष्यति। इह तर्हि पाचयत्योदनं देवदत्तो यज्ञदत्तेन द्वयोः कर्त्रोर्लेनाभिधानं प्राप्नोति, धातुवाच्यव्यापारे हि कर्तरि लो भवति पचिना च प्रयोजकव्यापारोऽप्यभिधीयते, प्रत्ययस्तु द्योतक इति धातुवाच्यव्यापारत्वसाम्यात् कर्त्रोरपि साम्यमिति द्वयोरप्यभिधानं प्राप्नोति---पाचयतो देवदत्तयज्ञदत्ताविति। प्रत्ययार्थपक्षे तु प्रकृत्यर्थोपसर्जनस्य ण्यर्थस्य प्राधान्यात्तस्यैव कर्त्तरि लकारः। इह च गमितो ग्रामं देवदत्तो यज्ञदत्तेनेति प्रयोजकव्यापारस्यापि गमिवाच्यत्वादव्यतिरिक्तो गत्यर्थ इति कृत्वा गत्यर्थानां कर्त्तरि क्तः प्राप्नोति, प्रयोज्यस्य तु कर्मत्वात्तत्रैवेष्यते। उक्तं हि `ण्यन्ते कर्तुश्च कर्मणः' इति। इह च व्यतिच्छेदयन्ते, व्यतिभेदयन्ते---अव्यतिरिक्तो हिसार्थ इति कृत्वा प्रयोजकव्यापारव्यतिहारविवक्षायामपि `न गतिहिंसार्थेभ्यः' इति प्रतिषेधः प्राप्नोति।
तदेवमाद्ये पक्षे दोषदर्शनाद् द्वितीयं पक्षमाश्रित्याह---तस्मिन्नभिधेय इति। किं चान्वयव्यतिरेकाभ्यां शब्दार्थावसायः। न च पचति पठति गच्छतीत्यादावन्तरेण णिचं क्वचिदपि प्रयोजकव्यापारोऽवसीयते, उत्पन्ने तु णिचि प्रतीयते, अतस्तदर्थत्वमेव युक्तम्। पञ्चभिर्हलैः कृषतीत्यत्र त्वनेकार्थत्वाद्धातूनां कृषिरेव प्रतिविधानेऽपि वर्त्तत इति युक्तम्, न पुनस्तद्दर्शनेन सर्वत्र प्रकृत्यर्थत्वम्। नन्वत्रापि पक्षे पाचयत्योदनं देवदत्तो यज्ञदत्तेनेत्यत्र ण्यर्थस्य प्राधान्यात्तेन व्याप्यमानस्य प्रयोज्यस्य कर्मसञ्ज्ञा प्राप्नोति? गतिबुद्धिप्रत्यवसानार्थेति नियमान्न भिवष्यति। इह तर्हि ग्रामं गमयति, ग्रामाय गमयतीति व्यतिरिक्तो गत्यर्थ इति कृत्वा `गत्यर्थकर्मणि' इति द्वितीयाचतुर्थ्यौ न प्राप्नुतः? नैष दोषः; ग्रामोऽत्र गमेरेव कर्म, ग्रामकर्मकं गमनं कुर्विति प्रैषार्थः। इह तर्हि एधो दकस्योपस्कारयतीति व्यतिरिक्तः करोत्यर्थे इति `कृञः प्रतियत्ने' इति षष्ठी न प्राप्नोति, सुट् तु करोतिधातुमात्राश्रयत्वाण्णिजुत्पत्तावपि तस्य रूपस्य भावात्सिद्ध्यति? अत्राप्येधोदककर्मके करोत्यर्थे प्रयुज्यते इति षष्ठी भविष्यति। इह तर्हि अभिषावयतीति व्यतिरिक्तः सुनोत्यर्थ इति `उपसर्गात्सुनोति' इति षत्वं न प्राप्नोति? अथात्राप्यभिषवं कुर्वित्युपसर्गविशिष्टे प्रकृत्यर्थे प्रयुक्तिरिति सिद्धं षत्वम्, यदा तु ण्यत्तैनैवोपसर्गस्य संबन्धस्तदा षत्वं भवति न वेति चिन्त्यम्। इह तर्हि भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानामिति प्रयोज्ये कर्त्तरि कृद्योगलक्षणा षष्ठी न प्राप्नोति, अप्रधानत्वात्? तृतीयावद्भविष्यति, तद्यथा---पाचयत्योदनं देवदत्तो यज्ञदत्तेनेति प्रयोज्ये कर्त्तर्यञधानेऽपि तृतीया भवति व्याप्तेस्तथा षष्ठ्यपि भविष्यति। अथेह कथं णिज् भवति----भिक्षा वासयन्ति, कारीषोग्निध्यापयतीति? कथं च न स्यात्? अचेतनत्वात्, चेतनावत एतद्भावति---प्रेषणम्, अध्येषणमिति? नैष दोषः; नावश्यं स एव वासं प्रयाजयति य आह---उष्यतामिति, योऽपि तूष्णीमासीनस्तत्समर्थमा चरति सोऽपि वासं प्रयुङ्क्ते, भिक्षाश्च प्रचुराश्च व्यञ्जनवत्यश्च लभ्यमाना वासं प्रयुञ्जते। तथा कारीषोऽग्निर्निर्वात एकान्ते सुप्रज्वलितः शीतकृतमध्ययनविरोधिनमुपद्रवमपनयन् अध्ययनेऽनुकूलो भवति। तत्र यथा--अनुमतिरुपदेशोऽनुग्रहः----इत्येतेषु णिज् भवति तथाऽत्रापि भविष्यति। यद्यप्यनुमत्यादिषु प्रयोज्यव्यापारचोद्देशेन प्रवृत्तिः, इह तु न तथा; तथाप्यनुकूलाचरणमेव प्रयोजकव्यापारत्वेनाध्यारोप्यते। इह कश्चित्कञ्चिदाह---पृच्छतु मां भवान्, अनुयुक्तां मां भवानिति, तत्र प्रष्टा प्रयोज्यस्तस्य प्रेरकः प्रयोजक इति तद्व्यापारे णिज् प्राप्नोति, एकविषयत्वच्च णिचो लोडादीनां च पर्यायप्रसङ्गः? नैष दोषः, कर्त्तुः प्रयोजको हेतुरित्युक्तम्, प्रयोज्यश्चात्र न कर्त्ता। न ह्यसौ सम्प्रति पृच्छति तूष्णीमास्ते तस्य निर्व्यापारत्वात् कारकत्वमेव नास्ति कुतस्तद्विशेषः कर्तृत्वम्? कर्त्तृत्वमेव हि तस्य विधीयते प्रश्नक्रियायां कर्त्ता भवेति, यथा----राजा भव युध्यस्वेति राजत्वमेव विधीयते तत्र तदेवं प्रयोज्योऽकर्तेति प्रयोजकोऽपि न हेतुः, किमिदानीं पूर्वमेव कर्त्तुः सतः प्रयोजको हेतुः! यद्येवम्, व्यर्था प्रयुक्तिः। अथाप्युपरतिशङ्कया कचित्प्रयुक्तेरर्थवत्त्वं तथापि यत्राप्रवृत्तो बलादिना प्रवर्त्त्यते तत्र णिज् न प्राप्नोति? न ब्रूमः----प्रवृत्तिप्रवर्त्तन एव णिजिति, किन्तु प्रवर्तत्तितोऽपि प्रयोज्यो यत्र प्रवर्त्तत एव, न तु निवर्त्तते तत्र णिज् भवति। अनुवर्त्तमाना प्रयुक्तिः प्रयोज्यप्रवृत्तौ हेतुः, न मध्ये विच्छिन्ना। अतः प्रयोज्यप्रवृ-त्तिवेलायामपि बुद्धौ विपरिवर्त्तमाना सैव प्रवृत्तिहेतुस्तस्यामेव च दशायां णिज्वाच्यो भवति। तदेवं प्रयोज्यप्रवृत्त्युपहितप्रयुक्तिर्णिजर्थः, केवला तु लोडर्थ इति विवेकः। उक्तं च----
द्रव्यमात्रस्य तु प्रैषे पृच्छ्यादेर्लोड् विधीयते।
सक्रियस्य यदा प्रैषेस्तदा स विषयो णिचः।। इति।।
किश्च---प्रयोक्तृधर्मः प्रयुक्तिर्लोडर्थः अनियतकर्तृकातु प्रयुक्तिर्णिजर्थः।
तत्करोतीत्युपसंख्यानमिति। तदिति कर्मपरमेतत्, तेन द्वितीयान्तात्प्रत्ययः करोतीत्यत्र प्रकृत्यर्थमात्रं विवक्षितं न प्रत्ययार्थः, तेन ण्यन्ताद्भावकर्मणोर्भूतभविष्यतोर्द्धित्वबहुत्वयोश्च लो भवति। सूत्रं करोति सूत्रयतीति। इह व्याकरणस्य सूत्रं करोतीति वाक्ये द्रव्यरूपं सूत्रं सूत्रशब्देनोच्यते, तत्र व्यपदेशिवद्भावेन व्यतिरेकनिबन्धना षष्ठो, वृत्तौ तु व्याकरणं सूत्रयतीति प्रत्ययार्थभूतकरोत्यर्थाभिधायी सूत्रशब्दः सम्पद्यते। उक्तं हि`परार्थाभिधानं वृत्तिः' इति। तेन सत्त्वभावो निवृत्त इति सूत्रव्याकरणयोरभिसम्बन्धो निवर्त्तते। अस्ति च व्याकरणस्य करोतिना सामर्थ्यमिति द्वितीया भवति। यदि तु व्याकरणं सूत्रं करोतीति वाक्ये एव सामानाधिकरण्यं तदा माणवकं मुण्डयतीतिवद् व्याकरणं सूत्रयतीत्ययत्नसिद्धम्। `सूत्र अवमोचने'`मूत्र प्रस्रवणे' इति चुरादौ पाठादेव सूत्रयतीति सिध्यति। अनेकार्थत्वाच्चार्थान्तरेऽपि भविष्यति। गणपाठसिद्ध एव त्वर्थ उपसंख्यानेनापि प्रदर्शितः।
आख्यानादिति वाक्यं व्याचष्टे----आख्यानात्कृदन्तादिति। आख्यायत इत्याख्यानम्, `कृत्यल्युटो बहुलम्' इति कर्मणि त्लुट्। यत्किञ्चिदाख्यायते तत्सर्वं राजागमनादिकमप्याख्यानमिहाभिप्रेतम्,न कंसवधनलोचपाख्यानादिकमेव संज्ञा भूतम्। कृदन्तादिति कृद्ग्रहणेन गतिकारकपूर्वस्यापि ग्रहणमिति कंसवधराजागमनसूर्योद्गमनादेररि कृदन्तत्वम्। प्रकृतिप्रत्यापत्तिरिति। कृतो या प्रकृतिः सा विकारपरित्यागेन स्वेनैव रूपेणावतिष्ठत इत्यर्थः। प्रकृतिवच्च कारकमिति। यत्तत्र कृदन्ते संनिहितं कारकं तत्प्रकृतिवद्भवति। कृत्प्रकृतेः शुद्धे णिचि याद्दशं भवति ताद्दशमस्यापि ण्यन्तस्य भवतीत्यर्थः। कंसं घातयतीति हन्तेः `हनश्च वधः' इत्यप् प्रत्ययो वधादेशश्च। हननम्=वधः , कंसस्य वध इति कर्मणि षष्ठ्या समासः, ततो णिच्, कृतो लुक्, प्रकृतेः प्रत्यापत्तिर्वधादेशपरित्यागेन हन्तिरूपेणावस्थानम्। यद्यप्यत्र सन्नियोगशिष्टानामन्यतराभावादुभयोरप्यभाव इत्येव वधादेशनिवृत्तिः सिद्ध्यति; तथापि पुष्येण योगं जानाति, पुष्येण योजयतीत्यत्र कुत्वस्यासन्नियोग शिष्टत्वात्तन्निवृत्तिर्न सिद्ध्यतीति प्रकृतिप्रत्यापत्तविचनम्। अथ कथं कंसमघातयत्, राजानमजीगमत्, यावता कंसवधराजागमनशब्दाभ्यां णिचि विहितेऽङ्गसंज्ञा नामधातुत्वं च तयोरेव स्याताम्, ततश्चाड्द्विर्वचने अपि तयोरेव स्याताम्? नैष दोषः; `प्रकृतिवच्च कारकम्'इत्युक्तम्। कृत्प्रकृतेश्च शुद्धे णिचि विहिते कंसादिकारकं कीद्दशं भवति? धातावनन्तर्भूतं द्वितीयाद्यन्तम्, तेनात्रापि ताद्दशेनैव रूपेण भवितव्यम्। तेन राजानमागमयतीत्यत्र नलोपाभावोऽप्युपपन्नो भवति। एवमपि कंसं घातयतीत्यत्र `हो हन्तेर्ञ्णिन्नेषु' इति कुत्वम्, `हनस्तो चिण्णलोः' इति तत्वं च न प्राप्नोति, किं कारणम्? धातोः स्वरूपग्रहणे तत्प्रत्यये कार्य विज्ञायते। एवं तर्हि प्रकृतिवच्च कारकमिति चकारोभिन्नक्रमः कारकमित्यस्यानन्तरं द्रष्टव्यः, कार्यशब्दश्चाध्याहार्यः। एतदुक्तं भवति----कृत्प्रकृतिर्हन्त्यादिः, तस्याः शुद्धे णिचि याद्दशं रूपं भवति तथाऽस्यापि ण्यन्तस्य भवति, कार्यं च तद्वदेव भवतीति । एतेनाड्द्विर्वचने अपि व्याख्याते। बलिबन्धमिति। बन्धनम्=बन्धः, पूर्ववत्कर्मणि षष्ठ्याः समासः। शेषं पूर्ववत्। राजागमनमिति। अत्र कर्तरि षष्ठ्याः समासः। राजानमागमयतीति। अत्र कृत्प्रकृतौ राजा कर्ता, तस्य गमेः शुद्धे णिचि `गतिबुद्धि'इत्यादिना कर्मसंज्ञा भवतीत्यस्मिन्नप्यौपसंख्यानिके णिचि तथैव कर्मसंज्ञा भवति। इह तु देवदत्त पाकमाचष्टे इति णिचि विहिते देवदत्तेन पाचयतीति भवति। न हि देवदत्तस्य शुद्धे णिचि कर्मसंज्ञाऽस्ति; गत्यर्थादीनामेवेति नियमात्। इह तु मृगरमणमाचष्टे मृगान् रमयतीति यदा प्रतिपाद्यस्य दर्शनार्थमाख्यानं तदा णिजिष्यते, नान्यदा। तत्र यदाऽरण्यस्थो रममणान्मृगान्प्रतिपाद्यमाचष्टे----एत स्मिन्नवकाशे एवं मृगा रमन्त इति, तदा तस्य प्रतिपाद्यदर्शनार्था प्रवृत्तिरिति णिज् भवति। यदा तु ग्रामे मृगरमणमाचष्टे तदा तत्र मृगाणामसम्भवान्न तद्दर्शनार्था प्रवृत्तिरिति मृगरमणमाचष्ट इति वाक्यकेव भवति। एतच्च मृगरमणादिविषयमेव, राजागमनादौ त्वन्यदापि भवति।
आङ्लेप इति। अत्राख्यानादिति न स सम्बद्ध्यते, मर्यादायां य आकारस्तस्य लोपो भवति। कृल्लुगित्यादि पूर्ववत्। आरात्रिविवास इति। विवसनम्=विवासः, अतिक्रमणम्, रात्रेर्विवासो रात्रिविवासः, कर्त्तरि षष्ठ्याः समासः, ततः `आङ् मर्यादाभिविध्योः' इत्यव्ययीभावः। यावद्रात्रेरतिक्रमणं तावत्कथाः कथयतीत्यर्थः। वसेरकर्मकत्वाद् `गतिबुद्धि' इत्यादिना रात्रेः कर्मसंज्ञा हेतुमण्णिचि भवति, तद्वदस्मिन्नपि णिचि भवति---रात्रि विवासयतीति।
चित्रीकरणे प्रापीति। तदित्येव। चित्रीकरणम्=आश्चर्यकरणम्। प्रापि=प्राप्नोत्यर्थे चित्रीकरणे गम्यमाने तत्प्राप्नोतीत्यस्मिन्नर्थे णिच् भवति, कृल्लुगित्यादि पूर्ववत्। सम्भावयते इति `भू प्राप्तावात्मनेपदी', उज्जयित्या माहिष्मती विदूरे देश इति तावतो देशस्य प्रागुदयादतिक्रमणमाश्चर्यम्। सूर्यमुद्गमयतीति।
`प्रकृतिवच्च कारकम्' इति सूर्यशब्दस्य पृथक्करणम्। संग्रामयतेरेव सोपसर्गादिति न्यायादुच्छब्दस्यापि पृथक्करणम्। अत्रापि सूर्यस्य हेतुमण्णिचि कर्मत्वादस्मिन्नपि णिचि कर्मत्वम्।
नक्षत्रयोगे ज्ञीति। तदित्येव। ज्ञि जानात्यर्थेनक्षत्रयोगे यत्कृदन्तं वर्त्तते तस्मात्तज्जानातीत्यस्मिन्नर्थे णिज् भवति, कृल्लुगित्यादि पूर्ववत्। पुष्ययोगमिति। पुष्येण चन्द्रमसो योगः पुष्ययोगः, पुष्येणेति कर्तरि तृतीया, `उभयप्राप्तौ कर्मणि' इति नियमात् षष्ठी न भवति। चन्द्रमस इति। नियमेन गम्यमानत्वादुभयप्राप्तिः, पुष्यो हि चन्द्रमसं युननक्ति=सम्बध्नाति, तत्र युजेर्गत्यादिष्वनन्तर्भावादणौ कर्त्तुः पुष्यस्य सुद्धे णिचि कर्तृत्वमेवेत्यस्मिन्नपि णिचि कर्तृत्वात्तृतीया भवति। पुष्येण योजयतीति। लकारस्तु प्रधान एव कर्त्तरि बवति, यथा शुद्धे णिचि। तत्तर्हीदं बहु वक्तव्यम्? वक्तव्यम्, इह तावत्सूर्यमुद्गमयतीति यो यस्य प्रवर्त्त्यः स तस्याभिप्रायं निर्वर्त्तयति। गन्तुश्चायमभिप्रायः---माहिष्मत्यां सूर्योद्गमनं सम्भावयेयमिति, तं च सूर्यो निर्वर्त्तयति, एनदेव प्रवर्त्त्यस्य प्रवर्त्त्यत्वं यदुत प्रवर्त्तयितुरभिप्रायसम्पादनम्। न हि कश्चित्परोऽनुगृहीतव्य इति प्रवर्त्तन्ते सर्व इमे स्वभूत्यर्थम्। ये तावदेते गुरून् शुश्रूषन्ते, तेऽपीह---प्रीतो गुरुरध्यापयिष्यति परत्र चाभ्युदेष्याभ इति प्रवर्त्तन्ते। दासाश्चापि---भक्तं च लप्स्यामहे, परिभाषाश्च न नो भविष्यन्तीति प्रवर्द्धन्ते। `यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्'। शिल्पिनोऽपि---मित्राणि च नो भविष्यन्ति वेतनं च लप्स्यामह इति प्रवर्त्तन्ते। यद्यप्यत्र सर्वत्र तत्तदुद्देशेन प्रवृत्तिः, सूर्ये तु नः तथाप्यभिप्रायसंपत्तिमात्रेण प्रयोज्यप्रयोजकभावाध्यारोपेण णिज् भविष्यति। इह च कंसं घातयतीति----ये तावदेते कंसधातानुकारिणां नटानां व्याख्यानोपाध्यायास्ते कंसानुकारिणं नटं सामाजिकैः कंसबुद्ध्य गृहीतं ताद्दशेनैव वासुदेवेन घातयन्ति, येऽपि चित्रं व्याचक्षते---अयं मथुराप्रासादः, अयं कंसः अयं भगवान्वासुदेवः प्रविष्टः, एताः कसंकर्षिण्यो रज्जवः, एते उद्गूर्णा निपातिताश्च प्रहाराः, अयं हतः कंसः अयमाकृष्ट इति, तेऽपि चित्रगतं कंसं ताद्दशेनैव वासुदेवेन घातयन्ति, चित्रेऽपि हि तद्बुद्धिरेव पश्यताम्। एतेन चित्रलेखला व्याख्याताः। येऽपि ग्रन्थं वाचयन्तः कंसवधमाचक्षते काथिका नाम, तेऽप्युत्पत्तिप्रभृत्या विनाशात्कंसादीन् वर्णयन्ति, तेऽपि वर्ण्यमानाः श्रोतृणां बुद्धिस्थाः प्रत्यक्षवद्भवन्ति। चित्तमपि तेषां तदात्मकमिव भवति, अत एव व्याश्रिताश्च भवन्ति।नानापक्षसमाश्रयः=व्याश्रयः। केचित्कंसभक्ताः, केचिद्वासुदेवक्ताः। वर्णान्यत्वं खल्वपि पुष्यन्ति---केचिद्रक्तमुखाः केचित्कालमुखाः। त्रैकाल्यमपि लोके लक्ष्यते, कथायां वाच्यमानायां हि वक्तारो भवन्ति---गच्छ हन्यते कंसः, गच्छ घानिष्यते कंसः, किं गतेन---हतः कंसः! इति। तदेवं काथकोऽपि बुद्धिस्थेन वासुदेवेन घातयति, श्रोतापि।।
शब्दोपहितरूपाँश्च बुद्धेर्विषयतां गतान्।
प्रत्यक्षमिव कंसादीन् साधनत्वेन मन्यते।।
एवं राजानमागमयतीत्यादावपि यथासम्भवं द्रष्टव्यम्।।
कण्ड्वादिभ्यो यक्।। 3.1.27 ।।
कण्डवादिभ्यो यक्।। यदीमे कण्ड्वादयो धातव एव स्युस्ततो वाग्रहणमनुवर्तते वा? न वा? अनुवृत्तौ यगभावपक्षे लडादिषु सत्सु कण्डवतीत्याद्यनिष्टं प्रसज्येत्, कण्डूरित्यादि च न स्यात्; धातो- सुबभावात्। क्विबन्तात्सुप्सम्भवेऽपि कण्डूरिति न वेदनामात्रं गम्यते; कर्तरि क्विपो विधानात्? संपदादित्वाद्भावे क्विब्भविष्यति। एवमिप कण्ड्वौ कण्ड्वः, `अचिश्नुधातु' इत्युवङ् प्राप्नोति, कण्ड्वा, कण्ड्वे `नोङ्धात्वोः' इति विभक्तेरुदात्तनिषेधः स्यात्, मन्तुवल्गुरित्यत्र च तुक् प्रसङ्गः? अथ नानुवर्त्तते, कण्डूरिति न सिध्यति, यगन्तात्सम्पदादित्वाद्भावे क्विप्यल्लोपयलोपयोः कृतयोर्भविष्यति? न चैवमल्लोपस्य स्थानिवत्त्वादुवङ् `क्वौ लुप्तं न स्थानिवत्' इति वचनात्। ननु च क्वौ विधि प्रति स प्रतिषेधः, अन्यथा लवमाचक्षाणो लौरित्यत्र क्वौ लुप्तस्य णेः स्थानिवत्त्वाभावेऽपि स्थानिवत्त्वाभावेऽपि णौ कृतस्य टिलोपस्य स्थानिवत्त्वादूठ् न स्यात्, अतोऽत्र स्थानिवत्त्वे सत्युवङ् स्यादेव? छस्तु `च्छ्वोः शूङ्' इत्यूठ् करिष्यते। न चोठ्यपि कर्तव्ये स्थानिवत्त्वम्; तस्यक्वौ विधित्वाद् आदिष्टादचः पूर्वत्वाच्च, अत एवोठि कृते पुनरुवङोऽप्रसङ्गः। एवमपि कण्ड्वौ, कण्ड्वः, कण्ड्वे---धातुविधिः प्राप्नोति, मन्तुर्वल्गुरिति च न सिद्ध्यति, यकि दीर्घे कृते मन्तूर्वल्गूरिति स्यात्। अथ प्रातिपदिकान्येव? तत्रापि वाग्रहणाननुवृत्तौ स एव दोषो यो धातुपक्षे। अनुवर्त्ततां तर्हि वाग्रहणम्, सन्तु च प्रातिपदिकान्येव, तत्राप्ययमर्थः-----ककारो नानुबन्धव्यो भवति अनार्द्धधातुकत्वादेव गुणो न भविष्यति? नैवं शक्यम्; इह हि सुख्यति, दुःख्यति, मगध्यतीत्यतो लोपो न स्याद्; अनार्धधातुकत्वादेव। न च व्यञ्जनान्त एव शक्यः पठितुम्, यगभावपक्षेऽपि तथा प्रयोगप्रसङ्गदत उभये कण्ड्वादय इत्याह----द्विविधाः कण्ड्वादय इति। धातुभ्य एव प्रत्ययो विधीयत इति। नित्यमिति भावः। तेन पक्षे कण्डवतीत्यादि न भवति। न तु प्रातिपदिकेभ्य इति। तेन कण्ड्वौ, कण्ड्वः, मन्तुरित्यादिप्रयोगसिद्धिः। न चास्मिन्नपि पक्षे यगन्तात्सम्पदादिक्विब्विधीयते तदा पूर्वोक्तदोषानुषङ्गः, किं कारणम्? द्दशिग्रहणादेतेभ्यः क्विब् स्याद्, न चैतेभ्य इदानीं क्विब् द्दश्यते। पूर्वत्र तु पक्षे कण्डूरित्यादिसिद्ध्यर्थमेव क्विब् द्रष्टव्यः।
कथं पुनर्ज्ञायते---उभये कण्ड्वादय इति? तच्चलोकेन दर्शयति----घातुप्रकरणादिति। अनुवृत्तेन धातुग्रहणेन विशेषणात्ककारासञ्जनाच्च धातुत्वमेषाभिमतमिति विज्ञायत इत्यर्थः। यतस्तु खल्वयमाचार्यः क्वचिद्दीर्घमुच्चारयति---कण्डूञ् हृणीञ् महीङिति, ततो मन्ये---धातुर्विभाषित इति। धातुत्वमेषां विभाषितमिति मन्य इत्यर्थः।
अथ कण्ड्वादीनार्थनिर्देशः। कण्डूञ् गात्रविकर्षणे। मन्तु अपराधे। हृणीङ् रोषे। वल्गु पूजामाधुर्ययोः। अस्मनस् उपतापे। महीङ् वृद्धिपूजनयोः। लेट
् लोट् धौर्त्ये पूर्वभावे स्वप्ने। इरस इरज् इरञ् ईर्ष्यायाम्। द्रवस् परिचरणे. मेधा आशुग्रहणे। कुषुभ क्षेपे। मगध परिवेष्टने। तन्तस् पम्पस् दुःखे। सुख दुः ख तत्क्रियायाम्। सपर पूजायाम्। अरर आराकर्मणि। भिषज् चिकित्सायाम्। भिष्णज्उपसेवायाम्। इषुध शरधारणे। चरण भुरण गतौ। चुरण चौर्ये च। तुरण त्वरायाम्। भुरण धारणपोषणयोः। गद्गद वाक्स्स्वलने। एला केला खेला विलासे। लिट् अल्पार्थे कुत्सायां च। लोट् दीप्तौ।।
गुपूधूपविच्छिपणिपनिभ्य आयः।। 3.1.28 ।।
गूपूधूपविच्छिपणिपनिभ्य आयः।। विच्छायतीति। विच्छिरयं तुदादौ पठ्यते, तत्सामर्थ्यादायप्रत्ययान्तादपि शविकरणो भवति, न तु शप्, यथा---जुगुप्सते इत्यात्मनेपदम्, तेन विच्छायन्ती विच्छायतीति `आच्छीनद्योर्नुम्' इति नुम्विकल्पो भवति। अन्ये तु सार्वधातुकेऽप्यायप्रत्ययस्यैव तुदादिपाठसामर्थ्येन विकल्पमाहुः। स्तुत्यर्थेनेति। भट्टिकाव्ये तु व्यवहारार्थादप्यायः---`न चपोलेभे वणिजां पणायान्' इति। अनुबन्धः केवलेऽचरितार्थ इति। अवयवेष्वचरितार्थ लिङ्गं समुदायस्य विशेषकं भवति, यथा---गुपादीनामनुदात्तत्वमिति भावः। ये तु व्यवहारार्थादप्यायमिच्छन्ति तेषामपि पणिष्यते पाणयिष्यतीत्यादावनुबन्धः केवले चरितार्थः।।
ऋतेरीयङ्।। 3.1.29 ।।
ऋतेरीयङ्।। सौत्र इति। अस्मिन्नेव सूत्रे उच्चरित इत्यर्थः। घृणायां वर्त्तत इति। नात्र कृपायां घृणाशब्दः, किं तर्हि? जुगुप्सायास; `घृणा जुगुप्साकृपयोः' इति वचनात्। जुगुप्सा=निन्दा, बीभत्सेत्यर्थः। ऋतीयाशब्दो बीभत्सापर्यायो निघण्टुषु पठितः। अथ कस्मादीयङुच्यते न छङेवोच्यते, तस्य ईयादेशे कृते ऋतीयत इति सिद्धम्, परत्वादिडागमे कृते सत्यप्रत्ययादित्वादीयादेशोच न स्यादिति चेत्? न; अन्तङ्गत्वात्, आयन्नदिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थमिति वचनादन्तरङ्गत्वम्। ज्ञापनार्थ तु, एतज्ज्ञापयति---धातुप्रत्ययानामयन्नादयो न भवन्तीति, तेन `कणेष्ठः' इत्यत्रेकादेशो न भवति। क्वचित्तु वृत्तावेवं पठ्यते---`ऋतेश्छङ्' इत्येव सिद्धे ईयङ्वचनं ज्ञापक्---धातुविहितानामायन्नादयो न भवन्तीति। अत्र ब्रूमः---`द्विवचनविभज्योपपदे तरप्छसुनौ' इत्येव सिद्धे ईयसुन्वचनं ज्ञापकं प्रातिपदिकप्रत्ययानामायन्नादयो न भवन्तीति। उच्यन्ते चायन्नादयस्ते वचनादुभयेषामपि स्युः, तस्माद्दतेश्छङित्यादि वृत्तौ न पठनीयमिति।।
कमेर्णिङ्।। 3.1.30 ।।
कमेर्णिङ्।। इह णिङो णकारः `णेरनिटि' इति विशेषणे चरितार्थो ङकारोऽप्यात्मनेपदार्थ इत्युभयोश्चरितार्थयोः प्राप्नोति, ज्ञापकात्सिद्धम्, यदयम् `न कम्यमिचमाम्' इति कमेर्मित्संज्ञायां प्रतिशेधं शास्ति, तज् ज्ञापयति---भवत्यत्र वृद्धिरिति, तस्य हि प्रयोजनम्---`मितां ह्रस्वः' इति ह्रस्वो मा भूदिति यदि चात्र वृद्धिर्न स्याद् ह्रस्व एवोपधेति कृत्वा नित्संज्ञाप्रतिषेधोऽनर्थकस्स्यात्। नैतदस्ति ज्ञापकम्, यदा णिङन्ताद्धेतुमण्णिच् क्रियते तदा णिङन्तस्य णिचि या वृद्धिस्तस्या ह्रस्वो मा भूदित्येवमर्थमेतत्स्यात्, न च णिजपेक्षाया अपि वृद्धेर्णिङमेव ङितमपेक्ष्य प्रतिषेधः। किं कारणम्? ङितीति निमित्तसप्तमी। ननु च न णिङन्तस्य णिचि वृद्ध्या भवितव्यम्; णिङा व्यवहितत्वात्, णिलोपे कृते स्थानिवद्भावाद्व्यवधानमेव। यदा तर्हि णिडन्ताच्चिण्णमुलौ सवतस्तदा `चिण्णमुलोदीर्घोऽन्यतरस्याम्' इत्येव विधिर्मा भूदित्येवमर्थो मित्संज्ञाप्रातिषेधः स्यात्। किं पुनः कारणम्? तत्र `दीर्घोऽन्यतरस्याम्' इत्युच्यते न प्रकृतो ह्रस्व एव विकल्प्येत, एवं हि कमेर्मित्संज्ञाप्रतिषेधो न र्तव्यो भवति। कथम्? यदा णिङि वृद्धिर्नास्ति तहा ह्रस्व एवोपधेति सत्यपि ह्रस्वविकल्पे नैवानिष्टप्रसङ्गः, अशमि अशामीत्यादि च सिद्धम्? नैवं शक्यम्; यदा शमिप्रभृतिभ्यो णिजन्तेभ्यो द्वितीयो णिच् क्रियते तदा न स्यात्। यश्च णमुल्परो णिज् द्वितीयः, न तस्मिन् प्रथमेन णिचा व्यवहितत्वात्। यस्मिश्च मिदङ्गं प्रथमे णिचि, नासौ चिण्णमुल्परः, द्वितीयेन व्यवहितत्वात्। णिलोपेऽपि कृते स्थानिवद्भावाद्व्यवधानमेव। `दीर्घोऽन्यतरस्याम्' इत्युच्यमाने पुनरत्रापि भवति, दीर्घविधिं प्रति स्थानिवद्भावनिषेधात्। तथा शमिप्रभृतिभ्यो यङन्तेभ्यो णिच्यल्लोपयलोपयोरल्लापस्य स्थानिवद्भावादसत्यां वृद्धौ चिण्णमुलोः कृतयोरशंशमि, असंशामि, शंशमम्, शंशाममिति न स्यात्। दीर्घः पुनर्विकल्प्यमानोऽत्रापि भवति; तद्विधौ स्थानिवद्भावप्रतिषेधात्। तथा `हेडृ अनादरे' घटादिः, `एच इग्घ्रस्वादेशे', हिड्यति, तत्र चिण्णमुलोः कृतयोर्ह्रस्वे विकल्प्यमाने अहिडि, अहेडीति स्यात्; दीर्घे तु पुनरहिडि, अहीडीति भवति। तस्माद्दीर्घ एव विकल्पनीयः, ततश्च मित्संज्ञाप्रतिषेधोऽपि तन्निवृत्तये वक्तव्यः। तथा `आयादय आर्द्धधातुके वा' इति णिङभावे णिचि सति वृद्धौ कृतायाम् `मितां ह्रस्वः' इति ह्रस्वो मा भूदित्येवमर्थोऽपि सित्संज्ञाप्रतिषेधो वक्तव्य एवेत्यज्ञापकमेतत्। एवं तर्ह्यस्थानेऽयं यत्नः क्रियते, नैवात्र प्रतिषेधः प्राप्नोति, किं कारणम्? इग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः न चैषा इग्लङणा वृद्धिरित्यलमति कर्कशप्रक्रियातर्कानुसरणेन।।
आयादय आर्द्धधातुके वा।। 3.1.31 ।।
आयादय आर्द्धधातुके वा।। `आर्द्धधातुके' इति परसप्तम्यामायादिविधिभिरेकवाक्यता स्यात्, भिन्नवाक्यतायामयमर्थो भवति----गुपादिभ्य आर्द्धधातुके परतो वाऽऽयप्रत्ययो भवति, एवमुत्तरत्रापि, ततश्चार्द्धधातुके एव विकल्पेनायादयः स्युः, सार्वधातुके नैव स्युः? नैष दोषः, पृथागारम्भाद्यदि ह्यार्द्धधातुक एवायादीनामुत्पत्तिः स्यात्ततो गुपादिभिः संयुज्यैव निर्दिशेत्---गुपादिभ्य आर्द्धधातुके वेति, एवं हि आयादय इति न वक्तव्यं भवति। पृथकतं निर्दिशति, तेन मन्यामहे---व्यापारभेदेनैकवाक्यतेति। ततश्चायमर्थो भवति---गुपादिभ्यो नित्यमायादयो भवन्त्यार्द्धधातुके वेति। एवमपि गुपादेर्यदार्द्धधातुकं प्राप्तं तत्र ततो विहिते विकरणविकल्पे नायादयः स्यु; ततश्च स्त्रीभावविवक्षायं गुपेरप्रत्ययान्तत्वाभावात् क्तिनि कृते यदायप्रत्ययो न भवति तदा गुप्तिरिति काममिष्टं सिद्ध्यति। यदा तु भवति तदाऽल्लोपयलोपयोर्गोपातिरित्यनिष्टं प्राप्नोति, गोपायेति चेष्टं न सिद्ध्यति। भिन्नवाक्यतायामायाद्यन्ताद्यदार्द्धधातुकं प्रप्तं तत्र ततो विहिते आयादयो वा भवन्तीत्यर्थः स्यात्। तत्र चायाद्यान्ताद्यदार्द्धधातुकमिति वदता तेषामुत्पत्तिस्तावदङ्गीकृता। न चोत्पन्नानामुत्पत्तिविकल्पः शक्यते कर्तुमिति लोकन्यायेन निवृत्तिविकल्पो भवति। ततश्चायप्रत्ययान्तात् स्त्रीभावविवक्षायामप्रत्ययादित्यकारे कृते निवृत्त्यभावपक्षे गोपायेति काममिष्टं सिद्ध्यति। निवृत्तिपक्षे तु गोपेत्यनिष्टं प्राप्नोति, गुप्तिरिति चेष्टं न सिद्ध्यति। लिटि च निवृत्त्यभावपक्षे गोपायाञ्चकारेति काममिष्टं सिद्ध्यति, निवृत्तिपक्षे तु यदि लिटि परतो निवृत्तिस्तथापि प्रत्ययलक्षणेन कास्प्रत्ययादित्यामा भवितव्यम्, अथाप्यामि कृते निवृत्तिस्तथापि तस्यैव श्रवणं प्राप्नोतीति सर्वथा गोपांचकारेत्यनिष्टं प्राप्नोतीति, जुगोपेति चेष्टं न सिद्ध्यति। तस्माद् दुष्ट एवायं परसप्तमीपक्ष इति मत्वाह---आर्द्धधातुके विषय इति। कोऽर्थः? इत्याह---आर्द्धधातुकविवक्षायामिति। आर्धधातुकमिहोत्पादयिष्यामीति बुद्धौ सत्यामित्यर्थः। विषयसप्तमीपक्षेऽपि भिन्नवाक्यतायामार्द्धधातुके विधित्सिते आयादयो भवन्तीत्युक्ते, कुतो विधित्सिते? इत्यपेक्षायामायाद्यन्तस्यापि धातुत्वात्तत इति गम्यते ततश्च निवृत्तिपक्ष एवाश्रित इति स एव दोषो यं पूर्वमवोचाम। तस्मादेकवाक्यतयोत्पत्तिविकल्प इत्याह---नित्यप्रत्ययप्रसङ्गे तदुत्पत्तिरार्द्धधातुकविषेये विकल्प्यत इति। किमेवं सति सिद्धं भवतीत्याह--तत्रेति।।
सनाद्यन्ता धातवः।। 3.1.32 ।।
सनाद्यन्ता धातवः।। सनादयोऽन्ते येषामिति। अन्तशब्दः समीपवचनः, वैयधिकरण्येऽपि गमकत्वाद्वहुव्रीहिः। अथ वा---वृत्तावर्थमात्रं दर्शितम्, सूत्रे त्ववयववाचिनोऽन्तशब्दस्य समानाधिकरणस्यैव बहुव्रीहिः। सनादयोऽन्तावयवा येषां समुदायानामित्यनेन तद्गुणसंविज्ञानो बहुव्रीहिरिति दर्शयति। धातुसंज्ञा इति। धातुशब्दोऽत्र स्वरूपपदार्थः, न भूवादिपदार्थकः; तावतीनां संज्ञानां विधाने प्रयोजनाभावात्। `सुप्तिङन्तम्' इत्यत्रान्तग्रहणज्ञापिता संज्ञाविधौ प्रत्ययग्रहणे प्रत्ययग्रहणपरिभाषा न प्रवर्तत इति, ततश्चासत्यन्तग्रहणे तदन्तविधिर्न स्यादित्यत्रान्तग्रहणं कृतम्। एवं स्थिते यद्यपूर्व एवानेन तदन्तविधिः क्रियते, ततो देवदत्तश्चिकीर्षतीत्यत्र देवदत्तादेः समुदायस्य संज्ञा प्रसज्येतेति मत्वाह----प्रत्ययग्रहणपरिभाषैवेत्यादि। अपूर्वविधौ गौरवम्, प्रतिप्रसवे तु यत्नस्य लाघवं भवतीति भावः। `भूवादयः' इत्यस्यानन्तरं सनाद्यान्ताश्चेत्युच्यमाने सनादीनामियत्तापरिच्छेदो न स्यात्। एवं तर्हि `सङन्ताश्च' इत्युच्यताम्, सङिति प्रत्याहारः सनः सशब्दारभ्या णिङो ङकारात्। एवमपि सन्देहस्स्यात्, चङादिष्वपि ङकारस्य भावात्। एवं तर्हि `सनाद्यन्ताः' इत्यस्यानन्तरम् `भूवादयश्च' इति वक्तव्यम्। स्यादेतत्----एवमुच्यमाने सनाद्यन्तशब्दवद् भूवादिशब्दोऽपि प्रकृतापेक्षः स्यात्ततश्चानुक्रान्तानां गुपादीनामेव स्यादिति? एवमपि भूवादिग्रहणमनर्थकं गुपादयश्चेति वक्तव्यम्। नानर्थकम्; भुवो वादयो भूवादय इत्येवमर्थमेव स्याद्। भूवादिपाठ इदानीं किमर्थः स्याद् ? अन्तर्गणकार्यार्थः, अनुबन्धासञ्जनार्थश्च। येषां तर्हि तदुभयं न संभवति भूरणिप्रभृतीनां तेषां पाठः किमर्थः? अलमतिनिर्बन्धेन।।
स्यतासी लृलुटोः।। 3.1.33 ।।
स्यतासी लृलुटोः।। इह यद्यपि `लृ' इत्यनुकरणमुच्चारितमेकमेव, तथापि तस्य प्रतिपाद्यभूतमनुकार्थं भिद्यते---लृट्, लृङ् इति। यत्र च प्रतिपाद्यानां संख्यांसाम्यं तत्र संख्यातानुदेशः, न तूच्वारितरूपसाम्ये; अन्यथा परस्मैपदानामित्येकं णलादयस्तु नवेति वैषम्यान्त स्यात्। तथा डारौरसः प्रथमस्येत्यत्रापि न स्यात्। तदेवम् `लृ' इत्यस्य द्वे प्रतिपाद्ये, लुटिति चापरमिति त्रीणि निमित्तानि, निमित्तिनौ तु द्वाविति वैषम्यात्संख्यातानुदेशो न प्राप्नोतीत्यत्राह----लृरूपमुत्सृष्टानुबन्ध सामान्यमेकमेवेति। नात्र प्रतिपाद्यं भिद्यते यत्तदुभयानुगतमुत्सृष्टानुबन्धम् `लृ' इति सामान्यरूपं तदनुक्रियते। एतच्च लृलुटोरिति द्विवचन निर्देशादवसीयते, तत्रयथानुकरणे न भेदस्तथानुकार्येऽपीत्यर्थः। करिष्यतीति। `ऋद्धनोः स्ये' इतीट्। श्वः कर्त्तेति। `श्वः' इत्यस्योपन्यासस्तृजन्तशङ्कानिवृत्त्यर्थः। इदित्करणमिति। इत्संज्ञकस्येकारस्य करणमित्यर्थः। अनुनासिकलोपप्रतिषेधार्थमिति। अन्यथा मन्तास् आ इति स्थिते टिलोपे कृते नकार उपधेत्यात्मनेपदे ङिति परतः `अनिदिताम्' इति नलोपः प्राप्नोति, तस्य `अनिदिताम्' इतीदित्त्वनिबन्धनः प्रतिषेधो यथा स्यादित्यर्थः। मन्ता, सङ्गन्तेति। कोऽर्थः? मन्तेत्येतत्पदं सङ्गन्तं भविष्यतीत्यर्थः, न तु सङ्गन्तेत्येतदुदाहरणम्; अनोपधत्वात्। अनुस्वारपरसवर्णयोः कृतयोरपि तयोरसिद्धत्वादनोपध एव।
अन्ये त्वाहुः----यद्यसिद्धत्वात्सङ्गन्तेत्येतदनुदाहरणम्, मन्तेत्येतदपि उदाहरणं न भवति, अत्रापि टिलोपस्याभीयस्यासिद्धत्वाद् मन्तास् आ इति स्थिते नकार उपधा न भवतीति।
यदि मतम्----आ भाच्छास्त्रीयमसिद्धत्वमनित्यम्, `श्नसोरल्लोपः' इति तपरकरणात्? तद्ध्यास्तामासन्नित्यादौ मा भूदित्येवमर्थम्, तत्राटोऽसिद्धत्वादेव लोपो न भविष्यति, किं तन्निवृत्त्यर्थेन तपरत्वेन! तज्ज्ञापयति----असिद्धत्वमनित्यमिति। तेन देभतुर्देभुरित्यत्र `श्रन्थिग्रन्थिदम्भिस्वञ्जिनाम्' इति लिटः कित्त्वान्नलोपे तस्यासिद्धत्वाभावादेत्त्वाभ्यासलोपौ भवतः, तदत्र टिलोपस्यासिद्धत्वान्मन्त आ इति स्थिते उपधैव नकार इत्युदाहरणमिति। यद्येवम्, पूर्वत्रासिद्धीयमसिद्धत्वमप्यनित्यम् `न मु ने' इत्यत्र नेति योगविभागात्, तथा चैकादेशस्वरोऽन्तरङ्गः सिद्धो भवति, सिज्लोप एकादेशे सिद्धो भवति, निष्ठादेशः षत्वादिषु सिद्धो भवति, द्विर्वचनविषये च पूर्वत्रासिद्धीयं न भवति, ततश्चानुस्वारपरसवर्णयोः सिद्धत्वात् सङ्गन्तेत्येतदप्युदाहरणमेवेति।
अन्ये तु संहन्तेति पठन्ति, हन्तेः `भावकर्मणोः' इत्यात्मनेपदम्, तत्र सम्पूर्वस्य पाठे प्रयोजनं मृग्यम्। एवं तावज्जयादित्येनासिद्धत्वमनित्यमाश्रित्य `तासेरिदित्करणमनुनासिकलोपप्रतिषेधार्थम्' इत्युक्तम्। वामनस्तु टिलोपस्य सिद्धत्वादेव नलोपो न भविष्यतीति मन्यमानः `इदितोo' इत्यत्र वक्ष्यति---`तासि सिचोरिदित्कार्य नास्तीत्युच्चारणार्थो निरनुनासिक इकारः पठ्यते' इति। यदि तु तासेरिकारोऽनुबन्धः स्यात्ततो नुम्विधौ धातोस्तासेर्मा भूदित्येवमर्थं स्यात्, ततश्चधातूपदेशावस्थायामेव नुम् भवतीत्ययमर्थो न साधितः स्यादिति तस्याभिप्रायः। जयादित्यस्तु `नुम्विधावुपदेशिवद्वचनं प्रत्ययसिद्व्यर्थम्' इति वचनमेव शरणमशिश्रयत्।
इह विकरणाः केचन लकारोपादानेन विधीयन्ते, यथा-----स्यादयः, ते किं लावस्थायामेव भवन्ति ? उताहो आदेशेषु कृतेषु? यदि लावस्थायामेव, ततस्तास्यनुदात्तेदित्यत्र यद्वक्ष्यते----तासेः परस्य लसार्वधातुकस्यानुदात्तवचनं ज्ञापकम्, सतिशिष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधत इत्यस्यार्थस्येति, तन्नोपपद्यते; लावस्थायामेव तासौ कृते तस्य च प्रत्ययाद्युदात्तत्वे पश्चाल्लादेशेषु क्रियमाणेषु तेषामेव स्वरः सतिशिष्टो भवति, ततश्चानुदात्तवचनमप्राप्तविधिरेव स्यात्। तत्र को दोषः? चिनुतः चिन्वन्तिः, चिन्वन्ति; क्रीणीतः, क्रीणन्ति, सतिशिष्टो विकरणस्वर एव प्राप्नोति, द्वितीये तु पक्षे पूर्व तिबादयः पश्चात्तासिरिति तस्यैव स्वरः सतिशिष्टः, ततश्च निघातस्वरेणैव सार्वधातुकानुदात्तत्वे सिद्धे तासिग्रहणं क्रियमाणमुक्ता र्थस्य ज्ञापकं सम्पद्यते। अस्तु तर्हि तथा। यद्येवम्, धातुमात्रात्सार्वधातुकमात्रे भावकर्मणोर्यक् कर्त्तरि तु शब्विधीयत इति यक्शपावुत्सर्गौ तेष्वेवार्थेषु धातुमात्रात्सार्वधातुकविशेषे स्यादय इति तेऽपवादाः? तथा दिवादेर्धातुविशेषात्कर्तरि श्यनादयः शपोऽपवादाः, तत्र देविष्यति तनिष्यतीत्यादावुभयप्रसङ्गेऽपवादविप्रतिषेधात् श्यनादयः स्युः? पक्षान्तरे त्वन्तरङ्गाः स्यादय एव सिद्ध्यन्ति? नैष दोषः; `दिवादिभ्यः श्यन्' इत्यादिषु स्यादयोऽनुवर्तिष्यन्ते---दिवादिभ्यः श्यन् भवति, लृलुटोस्तु स्यतासी भवतो दिवादिभ्य इति। एवं सर्वत्र। एतेनैतदपि निरस्तं यत्खल्विदमाशंक्यते----परेण लावस्थायां विधीयमानाः स्यादयः किमिति सार्वधातुकोत्पत्तिं प्रतीक्षन्त इति, कथम्? उत्तरत्रानुवृत्तेरेव, सार्वधातुके यग्भवति, भावकर्मणोर्लृ लुटोस्तु स्यतासी भवतः सार्वधातुके। एवं सिजादिष्वपि द्रष्टव्यम्। तदेवमादेशेषु कृतेषु स्यादय इति स्थितम्।।
सिब्बहुलं लेटि।। 3.1.34 ।।
सिब्बहुलं लेटि।। जोषिषन्मन्दिषदिति। `जुषी प्रीतिसेवनयोः' `मदि स्तुतिमोदस्वप्नगतिषु', अनुदात्तौ, व्यत्ययेन परस्मैपदम्, सिच इट् `लेटोऽडाटौ' इति तिपोऽट्, `इतश्च लोपः परस्मैपदेषु' इतीकारलोपः, तत्र च वेति वर्तते। तारिषदिति। `तृ प्लवनतरणयोः',`सिब्बहुलं छन्दसि णिद्वक्तव्यः' इति वचनाद्वृद्धिः, अमीषां भविता भाविषदिति यथा। छान्दसो वा दीर्घः। पतातीति। `शल हुल पत्लृ गतौ', लेटोऽडाटौ' इत्याट् शपासहैकादेशः। च्यावयातीति। `च्युङ् प्रुह् प्लुङ् गतौ' ण्यन्तः। इहावयासिषीष्ठा इति यातेरवपूर्वाल्लिङि बहुलवचनास्तिप्, थासः सीयुट्, इट्। `एकाच उपदेशेऽनुदात्तात्' इति तु प्रतिषेधो न भवति; सिपा व्यवधानात्।।
कास्प्रत्ययादाममन्त्रे लिटि।। 3.1.35 ।।
कास्प्रत्ययादाममन्त्रे लिटि।। आम् प्रत्ययो भवतीति। हलन्तपक्षे एतदुक्तम्, अदन्तपक्षे त्वामः प्रत्ययो भवतीति वक्तव्यम्। अमन्त्रविषय इति। मन्त्रविषयश्चेत्प्रयोगो न भवतीत्यर्थः। ऋग्यजुः सामलक्षणो मन्त्रम्, तत्रैवाभियुक्तैर्मन्त्रशब्दस्य प्रयोगात्। आथर्वणा अपि मन्त्रा ऋग्यजुष एवान्तर्भवन्ति। तान्त्रिकेषु मन्त्रशब्दप्रयोगो मन्त्रवदुपचारात्। छन्दसीति नोक्तम्, ब्राह्मणेऽपि यथा स्यात्---अथ ह शुनः शेप ईक्षांचक्रे ते ह तदन्तर्वेद्यासाञ्चक्रिरे अविज्ञातानि च दर्शयाञ्चकार। कासाञ्चक्र इति। आमन्तस्य पदत्वम्` आमः' इत्यत्रोपपादितम्। नोनावेति। नौतेर्यङ्लुगन्तात्प्रत्ययलक्षणेन प्राप्त आम् न भवति। कारयनेकाच इति वक्तव्यमिति। यथान्यासे हि कशब्दादशब्दाद्वागादिभ्यश्चाचारक्विबन्तेभ्य एकाज्भ्योऽपि प्रत्ययान्तत्वादाम्प्रसङ्ग, चुलुम्पादिभ्यश्चाप्रत्ययान्तत्वादप्रसङ्गः; अतोऽव्याप्त्यतिव्याप्तिपहिहाराय प्रत्ययग्रहणमपनीयानेकाज्ग्रहणं कर्तव्यमित्यर्थः। तत्र कशब्दस्य णलि `अचो ञ्णिति' इति वृद्धौ `आत औ णलः' चकौ, अन्यत्र `अतो लोपः' चकतुः, चकुः; अशब्दस्य णलि रूपम्---औ इति, अन्यत्र `अत आदेः' इति दीर्धत्वे `आतो लोप इटि च'अतुः, उः। चकासांचकारेति। `चकासृदीप्तौ'। दरिद्राञ्चकारेति। `आत औ णलः' इत्यत्र ओकारे विधातव्ये औकारविधानं दरिद्रातेरार्द्धधातुकलोप उत्याकारलोपेऽप्यौकारस्य श्रवणार्थम्, तेन ददरिद्रावित्यपि भवतीत्याहुः। चुलुम्पाञ्चकारेति! चुलुम्पतिर्वार्त्तिककारवचनात्साधुः।
आमो मकारस्य `हलन्त्यम्' इतीत्संज्ञा कस्मान्न भवतीत्याह---आमो मित्त्वमिति। कारयाश्चकारेत्यादौ प्रयोगे य आम्शब्दस्तस्यामित्त्वं मकार इत्संज्ञको यस्य नास्ति सोऽमित् तस्य भावः अमित्त्वम्। कुत इत्याह? अदन्तत्वादिति। अद् अन्ते समीपे यस्य सोऽदन्तः, सूत्रे विधानवेलायां समीपेऽकारवत्त्वादित्यर्थः। तेनैतन्न चोदनीयम्---आम् चेत्कथमदन्तः, अथादन्तः कथमामिति। सूत्रे विधीयमानस्यैव वा प्रत्ययस्योपलक्षणमाम इति। अगुणत्वं विदेस्तथेति। विदाञ्चकारेत्यत्र विदेरामि गुणाभावोऽपि तथा, अदन्तत्वादेवेत्यर्थः। अदन्तत्वादित्येतत्प्रसङ्गेन चेदमिहोक्तम्, `उषविदजागृभ्योऽन्यतरस्याम्' इत्यत्र तु वक्तव्यम्। तत्र हि विदेरकारान्तत्वमाम्प्रत्ययसन्नियोगेन निपात्यते, तत्रातो लोपस्य स्थानिवत्त्वाद् गुणो न भवति। न पुनः `विद ज्ञाने' इत्यकारो विवक्षित इत्युच्यते; वेत्तीत्यादौ श्रवणप्रसङ्गात्। अभ्युपेत्यापि मकारान्तत्वमित्संज्ञाभावमाह---आस्कासोराम्विधानाच्चेति। आमोऽमित्त्वमित्यनुषङ्गः, सति हि मित्त्वे आस्कासोराम् भवन्नप्यचामन्त्यात्परः स्यात्, तथा च सवर्णदीर्घत्वे सत्यकिञ्चित्करः स्यात्। अतः `दयायासश्च' कास्प्रत्ययादिति आस्कासोराम्विधानादप्यामऽमित्त्वमवसीयते ित्यर्थः। आस्चकासोर्विधानाच्च इत्यन्ये पठन्ति, तदयुक्तम्; न हि सूत्रे चकास आम्विधानमस्ति। यदपि कास्यनेकाज्ग्रहणं तदपि चुलुम्पादौ सावकाशम्। नन्वदन्तत्वपक्षे आमामन्त्र इति निर्देश्यं स्यात्तत्राह---पररूपं कतन्तवदिति। यथा `सर्वत्र लोहीतादिकतन्तेभ्यः' इत्यत्र पररूपम्, एवमत्रापि निपातनात्पररूपमित्युक्तं भवति।।
इजादेश्च गुरुमतोऽनृच्छः।। 3.1.36 ।।
इजादेश्च गुरुमतोऽनृच्छः।। ऋच्छतिवर्जित इति। ऋच्छतिना त्यक्तः तद्रूपरहित इत्यर्थः। ऋच्छतेरन्य इति यावत्। इयज, उवपेति। यजिवप्योरुत्तमे णलि `णलुत्तमो धा' इति णित्त्वाभावपक्षे वृद्ध्यभावाद् गुरूपोत्तमत्वाभावः। अथ थलि प्रत्युदाहरणम्---इयजिथ, इयष्ठ; उवपिथ, उवप्थेति। नन्वत्र सन्निपात परिभाषयैव न भविष्यति, लिट्सन्निपातजं हि अभ्यासम्य संप्रसारणं तद्विघातकस्यामो निमित्तं न भवति, आमि हि सति लेर्लुका भवितव्यमिति लिट्सन्निपातमसौ विहन्यात्? इदं तर्हि प्रत्युदाहरणम्---इयेषेति, न ह्यत्र लिट्सन्निपातजमिजादित्वम्। अथ क्रियमाणेऽपि गुरुमद्ग्रहणे कस्मादेवात्र न भवति, यावता गुणे कृते गुरुमानेष भवति? एवमीषतुरित्यादावपि सवर्णदीर्धत्वे कृते गुरुमानेव भवति? सत्यम्; सति गरुमद्ग्रहणे सन्निपातपरिभाषयैवात्राप्याम् न भवति, लिडानन्तर्यहेतुकत्वाद् गुरुमत्तायाः। अथ वा `गुरुनतः' इति नित्ययोगे मतुप्, नित्यं यस्य गुरुणाभिसम्बन्धः। यद्येवम्, `उछी विवासे' व्युच्छाञ्चकार, `उछ उञ्छे' उच्छाञ्चकार आगमनिमित्ता चास्य गुरुमता, तस्मादाम् न प्राप्नोति? ज्ञापकात्सिद्धम्, यदयमनृच्छ इत्याह, तज्ज्ञापयति---भवत्येवञ्जातीयके आमिति। स तर्हि ज्ञापकार्थमृच्छतिप्रतिषेधो वक्तव्यो भवति। ननु चचाम्निवृत्यर्थ एवासौ कर्तव्यः, नार्थ आम्निवृत्त्यर्थेन? ज्ञापकात्सिद्धम्, यदयम् `ऋच्छत्यृताम्' इति लिटि परतो गुणं शास्ति, तज्ज्ञापयति---नास्मादाम् भवतीति। न च तत्रर्छतीत्यर्त्तेश्तिपानिर्द्देशः; `ऋच्छति ऋ ऋताम्' इत्यर्तेरपि स्वरूपेणैव प्रश्लेषात्। प्रश्लेषे बहुवचनमत्र प्रमाणम्। अर्तेश्च लिटि गुणवि धाने प्रयोजनं तत्रेव वक्ष्यामः। तस्माद्दच्छतेर्गुणविधानं ज्ञापकमेव। तस्मादाम्न भवतीति स एषोऽनृच्छ इति प्रतिषेधो ज्ञापकार्थ एव कर्तव्यः स्यात्। एवं हि लिटीति विहितविशेषणम्----इजादेर्गुरुमतो यो लिड्विहितस्तत्रेति। तेन लिड्निमित्ता यस्य गुरुमत्ता तस्माच्च न भविष्यति, आगमनिमित्ता यस्य गुरुमत्ता तस्माच्च भविष्यति। `अनृच्छ' इति प्रतिषेधस्तु क्रियताम्, मा वा कारि। क्वचित्तु गुरुमत इति किम्, उबोषेति पठ्यते, तत्र उवोषेत्युदाहरणमयुक्तम्, `उषविदजागृब्यः' इति विकल्पविधानमनवकाशं स्यात्।
प्रोर्णुनावेति।`अजादेर्द्धितीयस्य' `न न्द्राः संयोगादयः' इति नुशब्दस्य द्विर्वचनं कार्यान्तरसिद्ध्यर्थम्, अवश्यमूर्णोतेर्णुवद्भाववो वाच्यः, तेनैवामोऽपि प्रतिषेधः सिद्ध इत्याह---अथ वा वाच्य इति। तत्र यङि भावातिदेशः, आमिटोस्त्वभावातिदशः; नौतेस्तयोरभावात्। उडुपग्रहः===इट्प्रतिषेधः, `विभाषा गुणे' इति पञ्चमी। फलस्य चात्र हेतुत्वं यथा---अध्ययनेन वसतीति। एकाच इति वर्तमाने `श्र्युकः किति' इति य इट्प्रतिषेधः ततोऽपि हेतोर्णुवद्भावो वाच्य इत्यर्थः। उदाहरणानि---प्रोर्णोनूयते, प्रोर्णुनाव, प्रोर्णुतः, प्रोर्णुतवानिति।।
दयायासश्च।। 3.1.37 ।।
दयायासश्च।। दयायासः सर्वऽप्यनुदात्तेतः। पलायाञ्चक्रे इति। `उपसर्गस्या यतौ' इत्युपसर्गस्य लत्वम्।।
उषविदजागृभ्योऽन्यतरस्याम्।। 3.1.38 ।।
उषविदजागृभ्योऽन्यतरस्याम्।। विद ज्ञाने इति। सत्ताविचारणार्थयोस्त्वात्मनेपदिनोर्लाभार्थस्य चोभयपदिनो ग्रहणं न भवति, परस्मैपदिभ्यामुषिजागृभ्यां जागर्तिनाऽऽदादिकेन साहचर्यादिति भावः। विवेदेति। आम्प्रत्ययसन्नियोगेनादन्तत्वप्रतिज्ञानादत्र गुणो भवत्येव। अत एवाह---विदेरदन्तत्वप्रतिज्ञानादामि गुणो न भवतीति।।
भीह्रीभृहुवां श्लुवच्च।। 3.1.39 ।।
भीह्रीभृहुवां श्लुवच्च।। श्लुवत्कार्यापेक्षया सूत्रे षष्ठी, सन्नियोगरिष्टत्वाच्चाम्, प्रत्ययोऽपि तेभ्य एव विज्ञायते। द्वित्वेत्त्वे इति। `श्लौ' इति द्विर्वचनम्, `भृञामित्' इतीत्त्वम्, तत्र `श्लौ' इति वर्तते। `न लुमताङ्गस्य' इति गुणप्रतिषेधस्तु न भवति, किं कारणम्? `प्रत्ययलोपे प्रत्ययलक्षणम्' इत्यस्याः प्राप्तेरयं प्रतिषेधः। श्रूयमाणत्वादामः'।।
कृञ्चानुप्रयुज्यते लिटि।। 3.1.40 ।।
कृञ्चानुप्रयुज्यते लिटि।। अनुप्रयुज्यत इत्यनुशब्दः पश्चादर्थे। तत्र कस्य पश्चादित्यपेक्षायामामः प्रकृतत्वात्तस्यैवेति विज्ञायत इत्याह---आम्प्रत्ययस्येति। योऽयमाम्प्रत्ययो विहितः----कर्मधारयोऽयम्, न तु बहुव्रीहिः---आम्प्रत्ययो यस्मात्सोऽयमाम्प्रत्ययस्तस्येति। तथा हि सत्याम्प्रत्ययवदितिवादमः प्रत्ययस्य प्रकृत्युपलक्षणत्वाद्धातोरामश्च मध्ये कृञः प्रयोग उक्तः स्यात्। पश्चात्कृञनुप्रयुज्यत इति। पश्चाच्छब्दसन्निधावनुशब्दोऽयमनुवादः। लिटि परत इति। लिटि परतः स्थितो यः कृञ् सोऽनुप्रयुज्यत इत्यर्थः। सूत्रेऽपि लिटीति नानुप्रयोगस्य निमित्तनिर्देशः, किं तर्हि? `परोक्षे लिट्' इत्यनेन विहिते लिटि परभूते यः कृञ् सोऽनुप्रयुज्यत इति वचनव्यक्तिः। चकारेत्यादिपदमनुप्रयुज्यत इति यावत्। कृजिति प्रत्याहारेणेति। `कृभ्वस्तियोगे' इति कृशब्दादारभ्य' कृञो द्वितीय' इत्या कृञो ञकारात्प्रत्याहारः। अत्र च प्रमाणमाम्प्रत्यय इत्यत्र कृञ्ग्रहणम्। यदि ह्यत्र स्वरूपग्रहणं स्यात्तदान्यस्यानुप्रयोगस्याभावादनर्थर्क तत्र कृञ्ग्रहणं स्यात्। अत एव विपर्ययोऽपि न भवति---तत्र प्रत्याहारग्रहणम्, इह स्वरूपग्रहणमिति; न ह्यत्र स्वरूपमात्र्गग्रहणे तत्र कृभ्वस्तीनामनृप्रयोगत्वानुवाद उपपद्यते। तत्सामर्थ्यादिति। प्रत्याहारग्रहणमामर्थ्येत्यर्थः। अस्तेर्भूभावो न भवतीति। अन्यथाऽसन्देहार्थ `कृभ्वनुप्रयुज्यते लिटि' इत्येव ब्रूयादिति भावः। तत्र एषि इटि च रूपे विप्रतिपन्ना उभयत्र `ह एति----ईक्षामाह इति केचित्। अन्ये तु तासिमाहचर्यादिट्येव हत्वमिति! अपरे तु साहचर्यादेव सार्वधातुक एवेति हत्वमित्युभयत्र ईक्षामास इति रूपमिति स्थिताः।
इहामन्तमेतदनभिव्यक्तपदार्थकम्, नास्माद्भावकर्मकर्तृविशेषः पुरुषविशेषः संख्याविशेषो वा गम्यते, केवलं पूर्वापरीभूतानद्यतनकालं परोक्षे साधनादिविशेषाकाङ्क्षं क्रियारूपमर्थमाह। तत्रावश्यं तदाकाङ्क्षनिवृत्तये विशेषवाचिपदमनुप्रयोक्तव्यम्, तस्मादनुप्रयुज्यत इत्यंशो न विधातव्यः? इदं तर्हि प्रयोजनम्-----कृभ्वस्तीनामेव यथा स्याद्धात्वन्तरस्य मा भूत्। कस्य पुनः प्राप्नोति? सामान्यवचनस्यानुप्रयुज्येत---कारयां पपाचेति। विशेषवचनस्य वा, तत्रापि सोऽनुप्रयुज्येत----उषामुवोष, विदांविवेद, जागराञ्जजागारेति। तत्समानार्थो वा---उषान्ददाहे तीत्यादि। अर्थान्तरवचनो वा---उषाम्पपाचेति। प्रथमे पक्षे यावदपेक्षमेव नानुप्रयुक्तं स्यादधिकोऽप्यर्थो गम्येत पाकादिविशेषो नाम, द्वितीयतृतीययोस्त्वनुप्रयोगेणैव सकलार्थावगतेरासप्रयोगो व्यर्थः स्यात्, चतुर्थे त्वर्थान्तरगत एव विशेषो गम्येत, न त्वामवगतः, तद्रतविशेषाभिधानाय त्वामनुप्रयोगव्यसनम्। अत एव प्रत्याहारान्तर्भूतस्यापि सम्पद्यतेरनुप्रयोगो न भवति, अन्यथा तस्यापि स्यात्। `सनाद्यन्ता धातवः' इत्यतो धात्वधिकाराद्वा धातूपसर्गसमुदायस्य न भविष्यति। एवमपि योऽत्र धानुप्रयोक्ष्यते। एवं हि सामान्यस्य सन्निहिते एव विशेषे पर्यवसानात्तद्रतसाधनादिविशेषाभिधानमामन्तर्गतविशेषाभिधानमेव संवर्त्तते। तथा भ्वस्त्योरनुप्रयुज्यमानयोरामन्तवशेन सकर्मकत्वं भवति----`तस्यातपत्रं विभराम्बभूवे,' `अहं किल व्यपेक्षामास' इति, तदुपपद्यते, तेन द्वयोः सहप्रयोगः। यदि तु सामान्यवचन एव प्रयुज्येत; क्रियाविशेषो न गम्येत, आमन्तस्यैवानभिव्यक्तिः। तस्मात्कृञ्चेत्ययमप्यंशो न विधेयः। इदं तर्हि प्रयोजनं लिट्परस्यैव यथा स्यात्, प्रत्ययान्तरपरस्य मा भूत्। किंपरस्य पुनः प्राप्नोति? कृत्परस्य। न कृत्परस्यानुप्रयोक्ष्यमाणपुरुषविशेषाभिव्यक्तिः। लिटि तु विरुद्धकालतैव लृलुटोरपि। लिङादिष्वपि विध्याद्यर्थान्तरप्रतीतिप्रसङ्गः, लुङि भूतमात्रं गम्येत नानद्यतनविशेषः, लटि न पारोक्ष्यं गम्येत।
ननु च यथानुप्रयोगे प्रकृतिवाच्यस्य सामान्यस्यामन्तर्वाच्ये विशेषे पर्यवसानम्, एवं प्रत्ययवाच्यस्याप्यामन्तर्वाच्येऽनद्यतने परोक्षे च विशेषे पर्यवसानाद्युज्यत एव लुङोऽनुप्रयोगः, तथा `हशश्वतोर्लङ् च' इति लिडर्थ एव लङ् विधीयते, लङन्तस्यानुप्रयोगः प्राप्नोति? नैष दोषः; एकस्या आकृतेश्चरितः प्रयोगो द्वितीयस्यास्तृतीयस्याश्चभविष्यति। कोऽर्थः? यया प्रकृत्या प्रयोगः प्रारभ्यते तयैव समापनीयः, यथा---खादिरे बध्नाति पालाशे बघ्नातीति यूपद्रव्यविकल्पे खादिरेण प्रयोगे प्रारब्धे दैवान्मानुषाद्वा कस्माच्चिदपराधात्खादिरापचारे मुख्ये पलाशे लभ्यमानेऽपि तत्परित्यागेनालभ्यमानस्यापि खादिरस्य प्रतिनिधिना बादरादिना प्रयोगः परिसमाप्यते। एवं हि प्रारब्धः प्रयोगः परिसमापितो भवति। द्रव्यान्तरोपादाने तु प्रयोगान्तरं स्याद्; द्रव्यभेदे क्रियाभेदात्। प्रतिनिधिस्तु मुख्यबुद्ध्यैवोपादीयते; तदवयवानां तत्र भूयसां सम्भवात्। तथेहाप्यामन्तेन लिट्प्रयोगः प्रारब्धोऽपरिसमाप्तः साकाङ्क्षः तस्याकाङ्क्षापूरणेन स एव प्रयोगोऽनुप्रयोगेण परिसमाप्यमानो युक्तं यल्लिट्परस्यैवानुप्रयोगेण परिसमाप्यते, तस्मान्नास्ति प्रत्ययान्तरपरस्यानुप्रयोगप्रसङ्गः। तस्माल्लिटीत्ययमप्यंशो न विधातव्यः। इदं तर्हि प्रयोजनम्--अनुप्रयोगः=पश्चात्प्रयोगो यथा स्यात्-ईक्षांचक्रे, चक्रेईक्षामिति मा भूत्। व्यवहितनिवृत्त्यर्थ च--ईक्षां देवदत्तश्चक्रे। कथं व्यवहितनिवृत्तिः? आमपेक्षया पश्चाद्भावस्य तत्रैव मुख्यत्वात्। तदेवं पूर्वनिवृत्तिर्व्यवहितनिवृत्तिश्च प्रयोजनमिति स्थितम्। इह तु तान्ह राजा मदयामेव चकारेति बह्बृचव्राह्मणे व्यवहितप्रयोगश्छान्दसः। कथं भट्टिकाव्ये `उक्षां प्रचक्रे नगरस्य मार्गान्, `बिभयां प्रचकारासौ' इति? कथं वा `तं तातयां प्रथममास',`प्रभ्रंशयां यो नहुषं चकार' इति? वार्त्तिककारः पृच्छ्यताम्, यः पठति---`विपर्यासनिवृत्त्यर्थ वाच्यम्, व्यवहितनिवृत्त्यर्थ च' इति!।।
विदांकुर्वन्त्वित्यन्यतरस्याम्।। 3.1.41 ।।
विदांकुर्वन्त्वित्यन्यतरस्याम्।। इहोत्तरत्र चानुप्रयोगानुसारेण आमन्ते लकार उन्नेयः। विदेर्लोट्याम्प्रत्यय इति। निपात्यत इत्यनुषङ्गः, तथा गुणाभावश्चेत्यत्र। एवं लोटो लुगित्यत्र, तथा कृञश्च लोट्परस्यानुप्रयोग इत्यत्र। सर्वमेतदप्राप्तमिति निपात्यते। इतिकरणः प्रदर्शनार्थ इति। सर्वेषां लोड्वचनानामुपलक्षणार्थ इत्यर्थः। किमेवं सति सिद्धं भवतीत्याह---न केवलमिति। प्रचुरप्रयोगत्वात्तु सूत्रे बहुवचनं पठितम्। कश्चित्तु भाष्यवार्त्तिककारानुक्तत्वादुपलक्षणत्वं नेच्छति, स इतिकरणस्य प्रयोजनं ब्रवीतु।।
अभ्युत्सादयांप्रजनयांचिकयांरमयांमकः पावयांक्रियाद्विदामक्रिन्नितिच्छन्दसि।। 3.1.42 ।।
अभ्युत्सादयांप्रजनयांचिकयांरमयांमकः पावयांक्रियाद्विदामक्रिन्नितिच्छन्दसि।। अकरिति। कृञो सिपि च्लेः `मन्त्रे घस' इत्यादिना लुकू, सिपो हल्ङ्यादिलोपः। क्रन्निति। तत्रैव बहुवचनं झिः। क्रियादिति। तस्यैवाशिषि लिङ्, `लिङाशिषि' इत्यार्द्धधातुकत्वाद्विकरणाभावः, `रिङ्शय' इति रिङ्। द्विर्वचनं चेति। चकारात्कुत्वं न। अभ्युदसीषददिति! सदेर्ण्यन्ताल्लुङि चङ्युपधाया ह्रस्वः, `चङि' इति द्विर्वचनम्। `हलादिः सेषः',`सन्बल्लघुनि' इतीत्त्वम्, `दीर्घो लघोः'। भाषायामिति। अन्यतरस्यामित्यनुवृत्तेश्छन्दस्यपि यथादर्शनं भवत्येव। भाषायां त्वेतदेव रूपमिति अभ्युदसीषददिति भाषायामित्युक्तम्।।
च्लि लुङि।। 3.1.43 ।।
च्छि लुङि।। इकार उच्चारणाथ इति। चकारलकारसंयोगचस्यकेवलस्योच्चारयितुमशक्यत्वात्। न त्वयमनुबन्धः, प्रयोजनाभावात्। चकारः स्वरार्थ इति। एतदुत्तरसूत्रे वक्ष्यामः। अस्य सिजादीनादेशान्वक्ष्यतीति। यद्येवम्, किमर्थोऽयमु पदिश्यते, यावता श्रवणार्थो वा भवत्युपदेशः? कार्यार्थो वा? न चायं च्लिः क्वचिच्श्रुयते, नापि क्विबादीनामिवाश्रीयमाणस्यैवास्य किञ्चित्कार्य द्दश्यते, तस्मात् सिचमेवोत्सृज्य तस्यापवादाः क्सापवादाः विधीयेरन्? नैवं शङ्क्यम्, एवं हि `मन्त्रे घस' इत्यादिसूत्रे बहूनां ग्रहणं कर्तव्यं स्याद्---गम्यर्थमङो ग्रहणम्, आकारान्तेषु धेटोन्तर्भावात्तदर्थं च चङो ग्रहणम्, तस्य हि `विभाषा धेट्श्व्योः' इति चङ्, धात्वन्तरार्थ सिचो ग्रहणम्, यदि जनेः----`दीपजन' इति विहितस्य चिणो लुक् छन्दसि द्दश्यते ततस्तस्यापि; तान्येतानि त्रीणि चत्वारि वा ग्रहणानि भवन्ति। च्ल्युत्सर्गे पुनः सर्वेषां स्थानिभूतस्य तस्यैवैकस्य ग्रहणम्। ननु च क्रियमाणेऽप्युत्सर्गे तान्येव त्रीणि ग्रहणानि भवन्ति----`च्लि लुङि', `च्लेः' सिच्',`मन्त्रे घस' आदिसूत्रे च यदेतल्लेरिति। एवं तर्हि यदेतद् `गातिस्थाघुपाभूभ्यः सिचः' इति च्लेरिति वक्ष्यामि, तदेव च मन्त्रेघसादिसूत्रेऽप्यनुवर्तिष्यते, तल्लाघवं भवति। यदि लेरित्युच्यते, किं ल्यवस्थायामेव लुकं करिष्यति? उताहो आदेशेषु कृतेषु स्थानिवद्भावेन? यदि ल्यवस्थायामेव लुक्; अगुः, अस्थुः----`सिजभ्यस्तविदिभ्यश्च' इति जुस् न प्राप्नोति ? मा भूत् `सिज्' इत्येवम्, `आतः' इत्येवं भविष्यति? तत्रापि सिज्ग्रहणमनुवर्त्तते। सिज्ग्रहणं निवर्तिष्यते? यदि निवर्तते, अभूवन्नित्यत्रापि प्राप्नोति। केन? `सिजभ्यस्त' इति। नेत्याह; इदानीमेव ह्युक्तम्---ल्यवस्थायामेव लुगिति।
तदेवम् `आतः' इत्यत्र `ङितः' इत्येवानुवर्त्तते, न `सिचः' इति, लङ्यपि तथैव स्यात्। धेटश्च `विभाषा धेट्' `लङ शाकटायनस्यैव' इति नियमाद्विकल्पो भविष्यति। एवमपि मा हि स्थाताम्, `आदिः सिचोऽन्यतरस्याम्' इत्येव स्वरो न प्राप्नोति। अथादेशेषु कृतेषु ततोः `विभाषा घ्राधेट्' इत्यत्रापि तथैव स्यात्, धेटश्च `विभाषा धेट्श्व्येः' इति चङपि विकल्पितः। तत्र यथा सिचा लुगलुकौ, तथाऽधात् अधाताम् अधुः, अधासीत् अधसिष्टां आधासिषुरिति सिद्धमिष्टम्; चङोऽपि लुगभावपक्षे अदधत्, अदधताम्, अदधन् इति सिद्धम्, लुक्पक्षे तु प्रत्ययलक्षणेन द्विर्वचनेऽदधादित्यपि चतुर्थ रूपं प्राप्नोति? न चङो लुकि द्विर्वचनम्; `न लुमताङ्गस्य' इति प्रतिषेधात्। बहुवचने तर्हि चङो लुकि अधानित्यनिष्टं रूपं प्राप्नोति, त्रैशब्द्यमेव चेष्यते----अधुः, अधासिषुः, अदधन्निति? ननु च चङोऽपि लुकि आत इति जुस् भविष्यति, यथा सिचः? नैतदस्ति; सिज्ग्रहणं तत्रानुवर्त्तते। निवर्तिष्यते सिज्ग्रहणम्? यदि निवर्तते, `आतः' इत्येतद्धेटश्चङो लुकि विध्यर्थत्वसम्भवान्नियमार्थ न स्यात्, ततश्चाभूवन्नित्यत्र प्रत्ययलक्षणेन सिच इति जुस् प्राप्नोति, इदानीमेव ह्यक्तं कृतेष्वादेशेषु लुगिति? एवं तर्हि यदेतस्तिजभ्यस्तेति, एनत् `च्ल्यभ्यस्त' इति वक्ष्यामि। किं कृतं भवति? लुङ्लुक्यपि च्ल्यभ्यस्तेति जुस् सिद्धो भवति, `आतः' इत्यत्रापि सिज्ग्रहणानुवृत्तेर्नियमादभूवन्नित्यत्र जुसभावश्च सिद्धो भवति। कृतेष्वादेशेषु लुगिति सिज्लक्षणः स्वरः सिद्धो भवति। यदि च्ल्यभ्यस्तेत्युच्यते, च्ल्यङ्चङ्क्षु दोषः----अधुक्षन्, अवोचन्, अपीपचन्नत्रापि जुस् प्राप्नोति। तस्मात्सिजभ्यस्तेत्येव वक्तव्यम्। `आतः' इत्यत्रापि सिज्ग्रहणमेवानुवर्त्तनीयम्----नियमो यथा स्याद्विदिर्मा भूदिति। ततश्च तदेव स्थितम्----बहुवचनेऽधानिति प्राप्नोति। यदा च धेटश्चङो लुक् क्रियते तदा न केवलं बहुवचने, सर्वेष्वेव वचनेषु सिज्लक्षणस्वराभावात्स्वरे चातुः शब्द्यप्रसङ्गः। तस्माद् `गातिस्थाघुपा' इत्यत्र सिच इत्येव वक्तव्यम्, ततश्च तदेव स्थितम्----तान्येव त्रीणि ग्रहणानिति।
प्रत्युताक्रियमाणे उत्सर्गे मन्त्रेघसादिसूत्रे द्वयोरेव ग्रहणम्, कथम्? धेटो जनेश्च चङ्चिणौ विकल्पितौ, तत्र यानि लुक उदाहरणानि, सिच एव तानि भविष्यन्ति । को न्वत्र विशेषः? अयमस्ति विशेषः---सिचो लुकि `आदिः सिचोन्यतरस्याम्' इत्यनेन स्वरेण भवितव्यम्, चङ्चिणोस्तु नेति। तस्माद् द्वयोरपि पक्षयोस्त्रीमि ग्रहणानि, नार्थश्चोत्सर्गेण? तदुच्यते---असति ह्युत्सर्गे `मन्त्रेघस' इत्यत्र येभ्यः सिचो लुक् क्रियते तेषाम् `आदिः सिचोऽन्यतरस्याम्' इत्येष स्वरः प्राप्नोति। सति त्वस्मिंल्लेरिति तदवस्थायामेव लुग्विधानात् सिजभावात् यथायथं स्वरः सिद्धो भवति। तथाऽऽकारान्ते सिचो लुकि क्रियमाणे `सिजभ्यस्त' `आतः' इति जुस् प्राप्नोति, लेस्तु लुक्यन्तर्भाव एव भवति। तस्मादुत्सर्गः कर्त्तव्यः। तथा `शल इगुपधादनिटः क्सः' इत्यत्रानिट इति लेर्विशेषणं यथा स्याद्। असति पुनश्च्ल्युत्सर्गे तस्यैव तद्विशेषणं भवति धातोः न विद्यते यस्मात्परस्येडिति, तत्र च लुङादेशानां सार्वधातुकत्वात्सम्प्रतिपन्नमनिट्त्वमव्यभिचारादविशेषणमिति प्रत्ययान्तरगतं तदाश्रयणीयम्----न विद्यते प्रत्ययान्तरस्य यस्मात्परस्येडिति। ततो गुहेर्न स्यात्---अघुक्षदिति, विद्यते ह्यस्मात्परस्य गूहितेत्यादाविट् स्वरत्यादिसूत्रेण विकल्पितम्। अथापि पाक्षिकेणेडभावेनानिडिति व्यपदिश्येत? नित्यं क्सः प्राप्नोति, ह्युत्सर्गे पुनरनिड् इति तस्यैव विशेषणं भवति। स च कदाचिदनिट् कदाचित्सेट्। यदानिट् तदा क्सः, यदा सेट् तदा सिजिति सिद्धमिष्टम्---अघुक्षत्, अगुहीदिति। तस्माच्च्ल्युत्सर्गः कर्तव्य इति। स्थानित्वेन विधानं कर्त्तव्यमित्यर्थः।।
च्लेः सिच्।। 3.1.44 ।।
च्लेः सिच्।। इकार उच्चारणार्थ इति। न त्वनुबन्धः। यद्येवम्, असंस्तेत्यत्र सिजन्तस्याङ्गस्यात्मनेपदं ङितमपेक्ष्य `अनिदिताम्' इति नलोपः प्रपानोति? ज्ञापकात्सिद्धम्, यदयम्, `हनः सिच्' इति हन्तेः परस्य सिचः कित्त्वं शास्ति, तज् ज्ञापयति---न सिजन्तस्योपधालोपो भवतीति। यथा चैतज्ज्ञापकं तथा तत्रैवोक्तमिति तत्रैवावधार्यम्। चकारः स्वरार्थः इति। अन्तोदात्तार्थः। ननु सिचोऽनच्कत्वात् कथं चकाराः स्वरार्थः, इति कृते साच्को भवति? एवमपि प्रत्ययस्वरेण सिद्धम्। न सिद्ध्यति, नाप्राप्ते स्वरान्तरे विधीयमानमागमानुदात्तत्वं प्रत्ययस्वरं बाधेन? एवं तर्हि च्लेश्चित्त्वात्स्थानिवद्भावाच्चित्स्वरो भविष्यति, तत्राह---आगमानुदात्तत्वं हीति। चित्स्वरमपि बाधेतेति। स्थानिवद्भावकृतम्। ननु च यदि मा हि लावीदित्यत्रागमानुदात्तत्वं स्यात्, च्लेश्चिक्तरणमनर्थकं स्यात्? एवं मन्यते---च्लेश्चकारो मन्त्रेघसादिसूत्रे सामान्यग्रहणे चरितार्थः; अन्यथा निरनुबन्धकत्वादस्यैव ग्रहणं स्यात्, न लिटः, ततश्च `आमः' इत्यत्र निरनुबन्धकस्य लेरसम्भवाल्लेरिति नानुवर्तेत, ततश्च परत्वादन्तरङ्गत्वाच्च तिबादिषु कृतेषु पश्चाल्लुकि कारयामित्यस्य प्रत्ययलक्षणेन तिङन्तत्वाद् देवदत्तः कारयाञ्चकारेति तस्य च निघातः, तस्माच्चानिघातः स्यात्। तस्मादाम इत्यत्र लेरित्यनुवर्त्तनीयम्। तस्य च तत्रानुवृत्तिः पूर्वत्रसामान्यग्रहणे सत्युपपद्यते। तस्माच्च्लेश्चकारस्य चरितार्थत्वात्स्थानिवद्भावात्प्राप्तं चित्स्वरमपि बाधेतेति सम्भावने लिङ्, सम्भाव्येत बाधनमित्यर्थः। अनुबन्धान्तरेणापि सामान्यग्रहणसिद्धे चकारानुरोधेन चित्स्वर एव भविष्यतीति शक्यते वक्तुमिति भावः।
स्पृशभृशेति। `स्पृश स्पर्शने',`मृश आमर्शने' `कृष विलेखने'---- इत्येतेभ्यः क्से आप्ते,`तृप प्रीणने' `द्दप हर्षविमोचनयोः' ----आभ्यां पुषादित्वादङि प्रप्ते सिजपि पक्षेऽभ्यनुज्ञायते। अस्पृक्षदिति। व्रश्चादिषत्वे `षढोः कः सि' कत्वम्। कअस्प्राक्षीदिति। `अनुदात्तस्य चर्दुपधस्य च' इति पक्षे अमागमः, ऋकारस्य यण, `वदव्रज' इत्यादिनाकारस्य वृद्धिः, अमभावपक्षे ऋकारस्यैव वृद्धिः। एवमुत्तरत्रापि।।
शल इगुपधादनिटः क्सः।। 3.1.45 ।।
शल ङगुपधादनिटः क्सः।। शलन्तो यो धातुरिगुपध इति ननु च्लेर्गुणनिमित्तत्वादकृत एव क्से लावस्थायामेव गुणः प्रप्नोति, ततश्चेगुपधादिति विशेषणं न प्रकल्प्यते? नैष दोषः; विशेषणसामर्थ्यात्प्रागेव गुणात् क्सो भविष्यति। ननु च कृतेऽपि गुणे भूतपूर्वगत्या विहितविशेषणाश्रयणेन वा क्सो भविष्यति, कित्करणमिदानीं किमर्थं स्यात्? `क्सस्याचि' इति विशेषणार्थम्। `सस्याचि' इत्युच्यमाने पुनर्वदिहनिकमिकषिभ्यः से वत्सौ वत्साः---अत्रापि प्राप्नोति? `उणादयोऽव्युत्पन्नानि प्रातिपदिकानि' इत्यनर्थकत्वान्न भविष्यति। एवमपि वुञ्छणादिषु तृणादिभ्यः से प्रसङ्गः---तृणान्यस्मिन्देशे सन्ति तृणसौ तृणसा इति? नैतदेवम्; `घोर्लोपो लेटि वा' इति प्रकरणे---धातुप्रत्ययानां ग्रहणम्, किं च `लुग्वादुहदिह' इत्यत्राचि' इत्यतः क्सस्येति वर्त्तते, तेच दुहादिषु यस्य सम्भवः, पूर्वसूत्रेऽपि तस्यैव ग्रहणं भविष्यति। तदेवं कित्करणसामर्थ्याद् गुणो न भवतीति स्थितम्। च्लेरनिट इति। यद्यपि च्लेः सिजादिभिरादेशैर्भवितव्यमिति क्वचिदप्यश्रवणान्न सेट्त्वमनिट्त्वं वा, तथापि दुह् ल इति स्थिते क्सस्यायं विषय इति सिचा न भाव्यम्। क्सोऽपि तावन्न भवति, यावदस्यानिट्त्वं न ज्ञातम्, तत्र लकारस्यैवेटः प्राप्तौ तन्निषेधात्सेट्त्वमनिट्त्वं च निरूप्यते इति विशेषणोपपत्तिः। अघुक्षदित्यादि। `दादेर्द्धातोर्घः', `एकाचो वशो भष्'। अलिक्षदिति। `लिह आस्वादने' `हो ढः'। `भिदिर् विदारणे' `छिदिर् द्वैधीकरणे',`कुष निष्कर्षे',`मुष स्तेये'।।
श्लिष आलिङ्गने।। 3.1.46 ।।
श्लिष आलिङ्गने।। श्लिपेर्धातोरिति। `श्लिष आलिङ्गने' इत्यस्य, न तु `श्रिषु श्लिषु प्रुषु प्लुषु दाहे' इत्यस्य; आलिङ्गने वृत्त्यभावाद्, अनिट इति चाधिकारात्सानुबन्धकत्वाच्च। अत्र नियमार्थमेतदिति। ननु श्लिषिरयं पुषादिः, तथा च प्रत्युदाहरणे अङ् भवति, ततश्च पुषादिपाठात्प्रप्तमङं बाधित्वाऽऽलिङ्गने क्सो यथा स्यादित्येवं विधिसम्भवान्नियमो नोपपद्यते। अस्तु विधिः, एवमप्यालिङ्गने क्सः, अन्यत्राङिति सिद्धमिष्टम्? सत्यम्; सिद्धं परस्मैपदे, आत्मनेपदे त्वङभावादालिङ्गनेऽनालिङ्गने च पूर्वेण क्सः प्राप्नोति, इष्यते च तत्राप्यालिङ्गने क्सोऽन्यत्र सिच्, तच्च नियमे सत्युपपद्यते। स च नियमो नोपपद्यते; विधेयभावात्? योग विभागात्सिद्धम्---`श्लिषः इत्यको योगः श्लिषश्च क्सो भवति। किमर्थमिदम्? पुषाद्यङो बाधनार्थम्। यथैब तर्ह्यङं बाधते तथा चिणमपि बाधेत---समाश्लेषि कन्या देवदत्तेनेति? `पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्' इति तत्रालिङ्गनेऽनालिङ्गने च श्लिषः क्सो भवति। इदमिदानीं किमर्थम्? नियमार्थम्---आलिङ्गन एव, नान्यत्र। योगविभागसामर्थ्याद्या च यावती च क्सस्य प्राप्तिः सा सर्वा नियम्यते, न त्वनन्तरस्य विधिर्वा भवतीति। श्लिष इति या प्राप्तिः, ङ्बाधनार्था सैव। एवमपि नियमो नोपपद्यते, कथम्? श्लिष इत्येतदङ्बाधनार्थम्। न च तदत्यन्तायाङं बाधितुं प्रभवति; पुषादिपाठसामर्थ्यात्, ततश्चाङ्क्सयोः सर्वत्र विकल्पे प्राप्ते, द्वितीयो योगः-----आलिङ्गने क्स एव नित्यं यथा स्यान्मा कदाचिदङ् भूदित्येवमर्थः स्यात्, किं तर्ह्युच्यते---नियमो नोपपद्यते इति! ननु तत्रभवतापि मुखान्तरेण नियम एवोक्तः? एतावांस्तु विशेषुः----मया प्रत्ययनियम उक्तः---आलिङ्गन एव क्स इति, त्वया पुनरर्थनियमः---आलिङ्गने क्स एवेति, सर्वथा नियमान्न मुच्यामहे। तत्र लक्ष्यानुरोधाद्विधेयविभक्तिनिर्द्देशेन प्रधानत्वाद्वा प्रत्ययनियम एव भविष्यति।।
न द्दशः।। 3.1.47 ।।
न द्दशः।। पूर्वेणेति। `शल इगुपधात्' इत्यनेन। अङ्सिचौ भवत इति। परस्मैपदेष्वन्यत्र सिजेव। अदर्शदिति। `ऋद्दशोऽङि गुणः'। अद्राक्षीदिति। `सृजिद्दशोर्झल्यमकिति'। अथ `च्लेः सिच्' इत्यस्यानन्तरं क्सस्य बाधनार्थ सिजेव कस्मान्न विहितः, इरित्त्वसामर्थ्यादङपि भविष्यति? सत्यम्; तत्रापि `द्दशश्च' इति चकारः कर्त्तव्य इति लाघवे नास्ति विशेषः।।
णिश्रिद्रुस्रुभ्यः कर्तरि चङ्।। 3.1.48 ।।
णिश्रिद्रुस्रुभ्यः कर्तरि चङ्।। चकारो विशेषणार्थ इति। `चङि' इत्यत्र `अङि' इत्युच्यमाने `अस्यतिवक्तिख्यातिभ्योऽङ्' `षिद्भिदादिभ्योऽङ्' अत्रापि प्राप्नोति। यदि पुनरयं ङो विधीयते चकारः शक्योऽकर्तुम्। चिन्त्यं प्रयोजनमस्य। अशिश्रियदित्यादि। अत्र चङि धातुरङ्गं चङन्तं तु तिपि तत्र चङाश्रयस्य गुणस्य चङमेव ङितमपेक्ष्य प्रतिषेधः, किं कारणम्, क्ङितीति निमित्तसप्तमी? नैष दोषः; अन्तरङ्गवियङुवङौ अन्तर्भूतचङपेक्षत्वात्, बहिरङ्गो गुणो बहिर्भूततिबपेक्षत्वात्। अकारयिषातामिति। ण्यन्तात्कर्मणि लुङ्, द्विवचनम्, आताम्। कमेरुपसङ्ख्यानमिति। ननु कमेर्णिङ् विहितः, न च प्रकृत्यन्तरं कमिः सम्भवति, णिङन्तात्तु सूत्रेणैव सिद्धं तत्राह---आयादय आर्द्धधातुके वेति यदा णिङ् नास्तीति। णिङ्पक्षे सन्वद्भाव इति। सन्वत्सूत्रे चङ्परो णिरित्याश्रयणात्। तत्र हि `सन्वल्लघुनि चङि' इति वक्तव्ये परग्रहणं बहुब्रीह्यर्थम्, तत्र णिरन्यपदार्थः, अन्यस्यासम्भवात्।।
विभाषा धेट्श्व्योः।। 3.1.49 ।।
विभाषा धेट्श्व्योः।। अङोऽप्यत्र विकल्प इति। `जॄस्तम्भु' इत्यादिना। अश्वदिति। `श्वयतेरः'। अश्वयीदिति। `ह्म्यन्त'इत्यादिना सिचि वृद्धेः प्रतिषेधाद् गुणः। अधिषातामिति। कर्मणि द्विवचनम्, आताम्। `स्थाघ्वोरिच्च' इति कित्त्वेत्त्वे।।
गुपेश्छन्दसि।। 3.1.50।।
गुपेश्छन्दसि।। यस्मादायप्रत्ययो नाम्ति तत्रायं विधिरिति। सूत्रे केवलस्योच्चारणाद् `गुप गोपने' `गुप व्याकुलत्वे' इत्यनयोस्तु ग्रहणं न भवति; छन्दसि द्दष्टानुविधानात्। दर्शने तु तयोरपि ग्रहणम्। अजूगुपतमिति। `गुपू रक्षणे' `तस्थस्थमिपाम्' इति थसस्तम्, `तुजादीनां दीर्घोऽभ्यासस्य'। अगौप्तमिति। ऊदित्त्वादिडभावपक्षे `झलो झलि' इति सिचो लोपः। अगोपायिष्टमिति। आयप्रत्ययान्तात्सिच्।।
नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः।। 3.1.51 ।।
नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः।। अर्द्द गतौ याचने चेति। `अर्द्द हिंसायाम्' इत्यस्यापि ग्रहणम्, यदिच्छन्दसि दर्शनमस्ति। एतेभ्य इति। तत्रोनयतिश्चुरादिः,ध्वनिरपि `गर्व माने इति प्रागेतस्माददन्ताः' इत्यधिकारे चुरादिः पठितः, घटादौ चापि पठ्यते। एलयतिश्चुरादिः, अर्द्दयतिर्हेतुमण्ण्यन्तः। पूर्वेणेति। `णिश्रि'इत्यादिना। ऊनयीरिति। मध्यमपुरुषैकवचनम्, पूर्ववद्वृद्धौ प्रतिषिद्धायां गुणः, `न माङ्योगे' इत्याडागमप्रतिषेधः। मा त्वायतो जरितुः काममूनयीः---इदं प्रतिसव्यस्य ऋषेर्वचनम्। त्वायतः==त्वामिच्छतः, जरितुः==स्तोतुर्मम, कामम्=अभिलाषं मा ऊनयीः=ऊनं मा कार्षीरित्यर्थः। प्रायेण तु तिबन्तं पठ्यते, कृताडागमं च, तदन्यत्र द्रष्टव्यम्। औनिन इति। सिपि चङि `अजादेर्द्धितीयस्य' इति नशब्दस्य द्विर्वचनम्। प्रायेण तूदाहरणवदिदमपि तिबन्तं पठ्यते। ध्वनयीदिति। तिप्, `न माङ्योगे' इत्यडागमप्रतिषेधः। आर्द्दिददिति। `अजादेर्द्वितीयस्य' `न न्द्राः संयोगादयः' इति दशब्दस्य द्विर्वचनम्।।
अस्यतिवक्तिख्यातिभ्योऽङ्।। 3.1.52 ।।
अस्यतिवक्तिख्यातिभ्योऽङ्।। ब्रूञादेशो वेति। वाशब्दः समुच्चये। एवमुत्तरत्रापि। पुषादित्वादेव सिद्ध इति। परस्मैपदेषु। पर्यास्थतेति। `उपसर्गादस्यत्यूह्योर्वावचनम्' इत्यात्मनेपदेऽङि `अस्यतेस्थुक्'। अवोचदिति। `वच उम्'। आख्यदिति। `आतो लोप इटि च'।।
लिपिसिचिह्वश्च।। 3.1.53 ।।
लिपिसिचिह्वश्च।। लिपिसिचिसहितो ह्वा---इति `मयूरव्यंसकादयः' इति समासः। समाहारद्वन्द्वे तु नपुंसकह्रस्वत्वं स्यात्, इतरेतरयोगे बहुवचनम्। ङसौ `आतो धातोः' इत्याकारलोपः। योगविभाग उत्तरार्थ इति। `अस्यतिवक्तिख्यातिलिपिसिचिह्वः' इत्येकयोगे त्वस्यादीनामप्युत्तरत्रानुवृत्तिः स्यात्, ततश्च तेभ्योऽप्यात्मनेपदे विकल्पः स्यात्।।
आत्मनेपदेष्वन्यतरस्याम्।। 3.1.54 ।।
आत्मनेपदेष्वन्यतरस्याम्।। अलिप्त, असिक्तेति। `झलो झलि' इति सलोपः, `लिङसिचावात्मनेपदेषु' इति कित्त्वाद् गुणाभावः।।
पुषादिद्युताद्य्लृदितः परस्मैपदेषु।। 3.1.55 ।।
पुषादिद्युताद्य्लृदितः परस्मैपदेषु।। एकेनैवादिशब्देन प्रत्येकं सम्बन्धादेव सिद्धे द्वयोरुपादानं चिन्त्यप्रयोजनम्। दिवाद्यन्तर्गण इति। `पुष पुष्टौ' `शुष शोषणो' इत्येवमादिरा गणसमाप्तेः। यत्तु मध्ये `ष्णिह प्रीतौ वृत्' इति वृत्करणं तद्रधादिपरिसमाप्त्यर्थम्। एतच्च `अस्यतिग्रहणमात्मनेपदार्थ पुषादित्वात्' इति वार्त्तिकारवचनाद्विज्ञायते। न भूवादिरिति। `पुष पुष्टौ',`श्रिषु श्लिषु प्रुषु प्लुषु दाहे' इत्येवमादिः, अस्य यदि ग्रहणं स्यात्पुषाद्यनन्तरं पाठाद् द्युतादीनां पृथग्ग्रहणं न कुर्यात्। क्र्याद्यन्तर्गणो वेति। `पुष पुष्टौ' `मुष स्तेये' इत्येवमादिः। तत्र हि चत्वार एव पठ्यन्ते, तत्र यदि ते जिघृक्षिताः स्युर्लृदित एव तान् कुर्यात्; स्वरितेत्त्वादेरपि नेनैव सिद्धत्वात्। अथ पुषादयो द्युतादयश्च लृदित एव कस्मान्न पठिताः? अशक्यस्ते तथा पठितुम्; आदितामौदितामुदितामूदितां च तत्र भावात्। तद्यथा---पुषादिषु तावत् `ञिष्विदा गात्रप्रक्षरणे',`मदी हर्षे',`समु उपशमने',`षिधू राद्धौ' इति; द्युतादिष्वपि `श्विता वर्णे',`ञिमिदा स्नेहने' `ञिक्ष्विदा स्नेहविमोचनयोः',`स्रंसु ध्वंसु भ्रंसु अवस्रंसने' `स्यन्दू प्रस्रवणे' `कृपू सामर्थ्ये' इति। अद्युत्, अश्वितदिति। `द्युद्भ्यो लुङि' इति पक्षे परस्मैपदम्। अलोटिष्टेति। `लुट लुठ प्रतिघाते'।।
सर्त्तिशास्त्यर्त्तिभ्यश्च।। 3.1.56 ।।
सर्त्तिशास्त्यर्त्तिभ्यश्च।। शासेरदादित्वाच्छपो लुक्, इतरत्र निपातनात्। शासु अनुशिष्टाविति। सर्त्त्यर्त्तिभ्यां परस्मैपदिभ्यां साहचर्यादस्यैव ग्रहणम्, न तु `आङः शामु इच्छायाम्' इत्यात्मनेपदिन इति दर्शयति। ऋ गताविति। `ऋ गतिप्राणयोः' इति भौवादिकः, `ऋ सृ गतौ' इति जौहोत्यादिकः। दुयोरप्यत्र निर्द्देश इति केचित्, वयं तु जौहात्यादिकयोरेवार्त्तिसर्त्त्योर्ग्रहणं मन्यामहे। असरदिति। `ऋद्दशोऽङि गुणः'। अशिषदिति। `शास इदङ्हलोः'। `शासिवसिघसीनाञ्च' इति षत्वम्।
पृथग्योगकरणमात्मनेपदार्थमिति। अन्यथा पुषादिद्युताद्य्लृदित्सर्त्तिशास्त्यर्त्तिभ्यः' इत्येकमेव योगं कुर्यात्। एवं हि पृथग्विभक्तिनिर्द्देशश्चकरश्च न कर्त्तव्यो भवति। समरन्तेति। `समो गम्यृच्छि' इत्यात्मनेपदम्, `बहुलं छन्दस्यमाङ्योगेऽपि' इत्याड्भावः, छान्दसत्वादस्य प्रयोगस्य----समन्यवो यत्समरन्त सेनाः, सङ्कल्पा अस्य समरन्त। तथा भट्टिकाव्ये `समारन्त ममाभीष्टाः सङ्कल्पास्त्वय्युपागते' इति। कश्चिदाह---भाष्यविरुद्धमिदम्, भाष्यकारेण हि `समो गम्युच्छि' इत्यत्र मासमृषातां मासमृपतेति आत्मनेपदे सिजुदाहृत इति। अत्राहुः--शासिसाहचर्यादर्त्तिसर्त्त्योरविद्यमानशपोजौहोत्यादिकयोरिह ग्रहणम्; `समो गम्यृच्छि' इत्यत्र तु भौवादिकस्याप्यर्त्तेर्ग्रहणम्, तत्र भौवादिकेऽर्त्तौ सिच उदाहरणमविरुद्धमिति।।
इरितो वा।। 3.1.57 ।।
इरितो वा।। अभित्तेति। स्वरित्त्वादात्मनेपदम्।।
जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च।। 3.1.58 ।।
जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च।। अस्तम्भदिति। `अनिदिताम्' इत्युपधालोपः। अन्यतरोपादानेऽपि रूपत्रयं सिद्ध्यतीति। कथम्? यदि तावद् ग्लुचिरुपादीयते तस्मादङ्सिचोः----ग्लुचत्, अग्लोचीदित्येतद् द्वयं सिद्ध्यति, ग्लुञ्चेस्तु सिचि तृतीयमग्लुञ्चीदिति। अथ ग्लुञ्चिरुपादीयते तस्याग्लुचत् अग्लुञ्चोदिति रूपद्वयं सिद्ध्यति, ग्लुचेस्तु सिचि तृतीयमग्लोचीदिति, किमर्थ तर्हि उभयोरुपादानमित्यत्राह---अर्थभेदात्त्विति। केचिदित्यादि। इदं भाष्यविरुद्धम्; भाष्यकारो हि `अनेकार्थत्वाद्धातूनामर्थभेदो न प्रयोजक उभयोपादानस्य' इत्यन्यतरोपादानं प्रत्याख्यातवान्।।
कृमृद्दरुहिभ्यश्छन्दसि।। 3.1.59 ।।
कृमृद्दरुहिभ्यश्छन्दसि।। अमरदिति। व्यत्ययेन परस्मैपदम्।।
चिण् ते पदः।। 3.1.60 ।।
चिण् ते पदः।। सामर्थ्यादिति। धातोरात्मनेपदित्वात्परस्मैपदबहुवचनस्य स्थाने यस्तशब्दः `तस्थस्थमिपाम्' इति विहितः, तस्यास्मिन्विषयेऽसम्भवः। सामर्थ्यादुदपादीति। `चिणो लुक्'। उदपत्सतेति। `आत्मनेपदेष्वनतः' इत्यदादेशः। इह वेति निवृत्तम्; उत्तरत्रान्यतरस्यां ग्रहणात्।।
दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्।। 3.1.61 ।।
दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्।। जनी प्रादुर्भावे, बुध अवगमने इति । `जन जनने' बुध बोधने' सइत्येतयोस्तु परस्मैपदिनोरिह ग्रहणं न भवति; दीप्यादिभिरात्मनेपदिभिः साहचर्यात्। तेन परस्मैपदिभ्यां कर्मव्यतीहारे आत्मनेपदैकवचनेऽपि तशब्दे चिण् न भवति। यदि परस्मैपदिनोरिह ग्रहणं स्यात्, आत्मनेपदिनोर्न स्यात्; सानुबन्धकत्वात्। कर्तरि चायं विकल्पः, भावकर्मणोस्तु `चिण् भावकर्मणोः' इति नित्यमेव चिण् भवति, परत्वादिह कर्तरीत्यनुवृत्तेर्वा।।
अचः कर्मकर्त्तरि।। 3.1.62 ।।
अचः कर्मकर्त्तरि।। कर्मकर्त्तरीरि। यत्कर्म भूत्वा कर्त्ता भवति तत्रैत्यर्थः। प्राप्तविभाषेयमिति। `कर्मवत्कर्मणा' इत्यतिदेशेन नित्यं चिणः प्राप्तेः। अकारि कटो देवदत्तेनेति। अत्र शुद्धे कर्मणि `चिण् भावकर्मणोः' इति नित्यमेव चिण् भवति। नन्विह कर्त्तरोत्यनुवर्त्तिष्यते, यद्येवम्, शुद्धे कर्त्तरि स्यात्, कर्मणीति वाक्यभेदेन कर्ता विशेषयिष्यते----कर्मणि कर्तरीति ? नैतदेवं शक्यते लब्धुम्; कर्मणीत्युच्यमाने कर्तुर्निवृत्तिरेव स्यात्, चकारेऽपि क्रियमाणे कर्मणि च भवति कर्तरि च भवतीत्यधिकरणयोरेव समुच्चयः स्याद्, न सामानाधिकरण्ये प्रमाणमस्ति।।
दुहश्च।। 3.1.63 ।।
दुहश्च।। अप्राप्तविभाषेयम् `न दुहस्नुनमां यक्चिणौ' इति चिणः प्रतिषेधात्। तत्र दुहिग्रहणे यक्प्रतिषेधार्थ चिण्ग्रहणं स्न्वाद्यर्थम्। अदुग्धेति। `क्सस्याचि'`लुग्वा दुहदिह' इति क्सस्य लुक्।।
न रुधः।। 3.1.64 ।।
न रुधः।। रुधिर आवरणे इति। `अनो रुध कामे' इत्यस्य तु ग्रहणं न भवति, कर्तृस्थभावकत्वेन कर्मकर्तुरभावात्।।
तपोऽनुतापे च।। 3.1.65 ।।
तपोऽनुतापे च।। कर्मकर्तरीति। `तपस्तपः कर्मकस्यैव' इति यत्र कर्मवद्भावोविहितः। तत्र भावकर्मणोरपीति। अपिशब्दात् `कर्मवत्कर्मणा' इति यत्र कर्मवद्भावोऽतिदिष्टस्तत्रापि भवति। अतप्त तपस्तापस इति। अस्यार्थम् `तपस्तपः कर्मकस्यैव' इत्यत्र वृत्तिकार एव वक्ष्यति। अन्ववातप्त पापेनेति। पापेनेति पूर्व यत्पापं कर्म कृतं तेन पश्चात्तप्तोऽभ्याहत इत्यर्थः। शुद्धे कर्मणि लकारः, पापेनेति कर्त्तरि तृतीया। कर्माविवक्षायान्तु शोकार्थे वा तपौ बावे लकारः, पापेनेति हेतौ तृतीया। यदाभ्याहननार्थस्य कर्मकर्त्ता विवक्ष्यते, तदा कर्मवत्कर्मणेत्यतिदेशादात्मनेपदम्, तदापि हेतौ तृतीया।।
चिण् भावकर्मणोः।। 3.1.66 ।।
चिण् भावकर्मणोः।। चिण्ग्रहणं विस्पष्टार्थमिति। `चिण् ते पदः' इत्यतस्तेशब्दवदनुवृत्तेः। यत्तु दीपजनेत्यादावन्यतरस्यांग्रहणम्, तन्न; `रुध' इति तत्प्रतिषेधविधावेव निवृत्तम्, अन्यथा प्रतिषेधविधानमनर्थकं स्यात्। न च प्रतिषेधस्यानुवृत्तिशङ्का, प्राप्तिपूर्वको हि प्रतिषेधः। न च भावकर्मणोः केनचिच्चिणः प्राप्तिरस्ति।।
सार्वधातुके यक्।। 3.1.67 ।।
सार्वदातुके यक्।। इहाशिषि लिङि लिटि चान्तरेणापि विकरणं सर्वेष्वेव धातुषु तिङामेव सद्भावे भावकर्मकर्त्तारस्त्रयोऽपि प्रतीयन्ते-----भविषीष्ट त्वया, कृषीष्ट घटः, भूयात्, क्रियात्, बभूवे, चक्रे घटः, बभूव, चकारेति। अत्तिजुहोल्यादौ कर्त्ता।
क्वचित्तिङामभावेऽपि प्रतीयन्ते त्रयोऽप्यमी।
अशाय्यकारि गच्छेति चिणः सन्निधिमात्रतः।।
अधोगबिभरित्यादौ धातुमात्रेऽपि कर्तृधीः।
तथा व्यतिस इत्यादौ धात्वभावेऽपि कर्तृधीः।।
एवं स्थिते भूयोविषयाभ्यामन्तवयव्यतिरेकाभ्यां शब्दार्थावसायः। व्यभिचारभूमिषु तु तस्मिंस्तस्मिन्विषये तस्य तस्य शब्दस्य स स महिमेति कल्पयितुमुचि तम्। न पुनः क्वचिद्व्यभिचारदर्शनेन सर्वत्रानाश्वासः। ताद्दशौ चान्वयव्यतिरेकौ तिङामेवेति तेषामेव भावकर्मकर्त्तारो वाच्याः। सूत्रकारोऽप्याह---`लः कर्मणि च भावे चाकर्मकेभ्यः' इति, लादेशाश्च तिङः, ततोऽपि तेषामेव तेऽर्था इति मन्यमान आह----भावकर्मवाचिगि सार्वधातुके परत इति। उत्तरसूत्रे च कर्तृवाचिनि सार्वधातुके परत इति शय्यत इति। `अयङ् चि क्ङिति'। अथ यदा द्वौ कर्त्तारौ बहवो वा, तदा कथमास्यते भवद्भ्याम्, आस्यते भवद्भिः----द्विवचनबहुवचने कस्मान्न भवतः? भावे भेदाभावाद्। धत्वर्थो हि भावः।
कर्तृभेदेऽपि नावश्यं धात्वर्थो भिद्यते यतः।
एकामेव क्रियाव्यक्ति बहुषूत्पादयत्स्वपि।।
द्दष्टमेते पचन्तीति कर्मभेदोऽपि ताद्दशः।
पश्यैकस्यां क्रियाव्यक्तौ पच्यन्ते तण्डुला इति।।
न कालभेदे शब्दैक्यमास्यासिष्यत आस्यते।
पाकौ पाका इति त्वत्र शब्दैक्यादेकशेषता।।
अतश्च---
निवुत्तभेदा सर्वैव क्रियाऽऽख्यातेभिधीयते।
श्रुतेरशक्या भेदानां प्रविभागप्रकल्पना।। इति।
तदेवमाख्यातेन भावस्वरूपगतो भेदः प्रतीयत इति द्विवचनबहुवचनाभावः। यत्र तु स्वरूपगत एव भेदस्तत्र भवत्येव, यथा----उष्ट्रासिका आस्यन्ते, हतशायिकाः शय्यन्ते इति। उष्ट्राणां ह्यासिकाः स्वत एव विलक्षणाः, हताश्च नानाप्रकारं शेरते उत्ताना अवाताना विकीर्णकशा विस्रस्तवस्त्रा इति तत्साम्यादाख्यातवाच्यस्यापि भावस्य स्वरूपगतभेदावभासाद् बहुवचनम्। इवशब्दप्रयोगमन्तरेणापि चेवार्थावगतिर्भवति, तदयमर्थः----याद्दशानि हतानामनेकप्रकाराणि शयनानि ताद्दशानि देवदत्तादिभिः क्रियन्त इति। केचित्त्वत्र कर्मणि लकारमिच्छन्ति, उष्ट्रासिकाहतशायिकालक्षणस्य भावस्यः `कालाभावाध्वगन्तव्याः' इति कर्मत्वात्, यथा----गोदोहः सुप्यते इति।
ककारो गुणवृद्धिप्रतिषेधार्थ इति। मृज्यत इत्यत्र वृद्धिप्रतिषेधः। यग्विधान इति। ननु च `कर्मवत्कर्मणा तुल्यक्रियः' इत्यतिदेशादेव यक् सिद्धः, किमुपसङ्ख्यानेन तत्राह---विप्रतिषेधाद्धीति। यदा `कर्मवत्कर्मणा' इत्ययं शास्त्रातिदेशः, तदा तेनतेन शास्त्रेण कर्मकार्याणि भवन्ति। तत्र कर्मणि यग्भवतीत्यस्यावकाशः----शुद्धं कर्म, पच्यते ओदन इति; कर्त्तरि शबित्यस्यावकाशः----शुद्धः कर्त्ता, भवति पचतीति; कर्मकर्त्तर्युभयप्रसङ्गे परत्वाच्छबेव स्यादित्यर्थः। तत्तर्हि उपसङ्ख्यानं कर्तव्यम्? न कर्तव्यम्; `न दुहस्नुनमां यक्चिणौ' इति यक्प्रतिषेधो ज्ञापयति----भवति कर्मकर्त्तरि यगिति। कार्यातिदेशे तु तस्मिंस्तेनैव सूत्रेण भवन्यगेव परो भवति।।
कर्त्तरि शप्।। 3.1.68 ।।
कर्त्तरि शप्।। पकारः स्वरार्थ इति। उपलक्षणमेतत्, ङित्त्वप्रतिषेधार्थः, `शप्श्यनोर्नित्यम्' इति विशेषणार्थश्च। शकारः सार्वधातुकार्थ इति। सञ्ज्ञापरोऽत्र सार्वधातुकशब्दो न सञ्ज्ञिपरः, सार्वधातुकसञ्ज्ञार्थ इत्यर्थः। कर्तृग्रहणस्य `कर्मवत्कर्मणा' इत्यत्रोपयोगः। इह तु सार्वधातुके शब् भवति, श्यन् भवतीति सामान्यविधानेऽपि भावकर्मणोर्यगपवाद इति कर्त्तर्येव शबादयो भविष्यन्ति।।
दिवादिभ्यः श्यन्।। 3.1.69 ।।
दिवादिभ्यः श्यन्।। `मृग अन्वेषणे' इति चुरादावदन्तेष्वात्मनेदी पठ्यते, तत्र मृगयत् इति भवितव्यम्। दिवादिष्वपि पाठान्मृग्यतीति साधुः। कण्ड्वादिषु वा मृगशब्दो द्रष्टव्यः।।
वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः।। 3.1.70 ।।
वा भ्राशभ्लशभ्रमुक्रुमुक्लमुत्रसित्रुटिलषः।। उभयत्रविभाषेयम्। अनवस्थानार्थो भ्रमिः, क्रमित्रसी च दिवादयः, त्रुटिस्तौदादिकः, इतरे भौवादिकाः। भ्राम्यतीति। `शमामष्टानां दीर्गः श्यनि' इति दीर्घः। भौवादिकस्य तु न भवति, अशमादित्वात्। क्रमेः `क्रमः परस्मैपदेषु' इति दीर्घः। क्लमेस्तु `ष्ठिवुक्लम्वाचमां शिति' इति त्रसेर्दिवादिपाठे चिन्त्यं प्रयाजनम्। क्लमेस्तु पुषादिकार्यार्थः।।
यसोऽनुपसर्गात्।। 3.1.71 ।।
यसोऽनुपसर्गात्।। दैवादिक इति। दिवादिपाठोऽस्य सोपसर्गार्थः। अनुपसर्गादिति किमिति। `सम्यसश्च' इत्येतत्सम एवोपसर्गान्नान्यस्मादिति नियमार्थ भविष्यतीति भावः। आयस्यति, प्रयस्यतीति। तुल्यजातीयानां हलन्तानामेव व्यावृत्तिः स्यादिति मन्यते।।
संयसश्च।। 3.1.72 ।।
संयसश्च।। इह `समः' इत्येवास्तु, `यसः' इत्यनुवर्त्तिष्यते, `षम ष्टम् वेक्लव्ये' इत्यस्य ग्रहणशङ्कानिवृत्त्यर्थ तु `संयसः' इत्युक्तम्। एवं तर्हि `समो यसः', `अनुपसर्गाच्च' इत्यस्तु।।
स्वादिभ्यः श्नु।। 3.173 ।।
स्वादिभ्यः श्नु।। सिनोतीति। `षिञ् बन्धने' क्र्यादिपाठात्सिनातीत्यपि भवति।।
श्रुवः श्रृ च।। 3.1.74 ।।
अक्षोऽन्यतरस्याम्।। 3.1.75 ।।
तनूकरणे तक्षः।। 3.1.76 ।।
तनूकरणे तक्षः।।अनेकार्थत्वादिति । अत एव विशेषणोपादानादनेकार्थ्वं विज्ञायते। प्रदर्शनार्थस्तु गणे धातूनामर्थनिर्द्देशः। सन्तक्षति वाग्भिरिति। निर्भर्त्सयतीत्यर्थः।।
तुदादिभ्यः शः।। 3.1.77 ।।
तुदादिभ्यः शः।। तुदतीति। तुद्+ति इति स्थिते परत्वात्प्राप्तमपि गुणं नित्यः शो बाधते।।
रुधादिभ्यः श्नम्।। 3.1.78 ।।
रुधादिभ्यः श्नम्।। श्नम्प्रत्ययो भवतीति। यद्यपि प्रत्ययसंज्ञायां प्रकृत्युपपदोपाधिकारागमान्वर्जयित्वेत्युक्तम्, तथापि विधीयमानत्वेन प्राधान्यात् शबादिवदर्थवत्त्वाच्श्नमः प्रत्ययसंज्ञा भवतीति भावः। तेन शकारस्य प्रत्ययादित्वादित्संज्ञा। शपोऽपवाद इति। देशभेदेनोभयोः सत्यपि सम्भवे नाप्राप्ते तस्मिन्नारभ्यमाणत्वादेकार्थत्वाच्चापवादत्वम्। विकरणा हि सार्वधातुकस्य धातोश्चार्थाभिधाने सहायतां प्रतिपद्यन्ते। शकारः श्रान्नलोप इति विशेषणार्थ इति। अथार्द्धधातुकसंज्ञा मा भूदित्येवमर्थः कस्मान्न भवति? सत्यां हि तस्यामनक्ति, भनक्ति----`अतो लोपः'स्यात्, रुणद्धि, गुणः स्यात्; हिनस्ति, तृणेढि---इडागमः स्यात्; `नेड्वशि कृति' इत्येतदपि नास्ति, अकृत्त्वात्? सर्वमेतत् श्रमः पूर्वभागस्यानङ्गत्वान्न भविष्यति। कथमङ्गत्वम्? यस्मात्प्रत्ययविधिरिति। कोऽर्थः? प्रत्यये विधीयमाने यत्पञ्चम्या निर्द्दिष्टं धातोः प्रारिपदिकादिति तदादि तस्मिन्प्रत्यये परतोऽङ्गमिति। यच्चाम्या निर्द्दिष्टं रुधादिभ्यो धातुभ्य इति न तस्मात्प्रत्ययः, यस्माच्च प्रत्ययः पूर्वभागात्स न तस्मिन्विधीयमाने पञ्चम्या निर्द्दिष्टः, तस्माच्छनादिति विशेषणार्थ एव शकारः। `नान्नलोपः' इत्युच्यमाने `यजयाचयतविच्छप्रच्छरक्षो नङ्' यज्ञानाम्, यत्नानामत्रापि प्राप्नोति, `नामि' इति दीर्घत्वे कृते नादिति व्यपदेशाभान्न भविष्यति, परत्वाल्लोप एव प्राप्नोति। यत्तु `अतो दीर्घो यञि',`सुपि च' इति दीर्धत्वम्, न च तदत्र प्रवर्त्तते, किं कारणम्? `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' इति। इहापि तर्हि न स्याद्---वृक्षायेति? `कष्टाय क्रमणे' इति निर्देशाद्भविष्यति। इहापि तर्हि---यत्नानामिति? निर्द्दिशात्सामान्यापेक्षाया ज्ञापनाद्दीर्घो भविष्यति। एवमपि तस्य पूर्वस्माद्विधौ स्थानिवत्वान्नशब्द एवायमिति नलोपः स्यादेव। तस्माद्विशेषणार्थः शकारः कर्त्तव्यः। अथ क्रियमाणेऽपि शकारे इह कस्मान्न भवति----विश्नानाम्, प्रश्नानामिति? `लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य ग्रहणम्'।।
तनादिकृञ्भ्य उः।। 3.1.79 ।।
तनादिकृञ्भ्य उः।। तनीतीत्यादि। `तनु विस्तारे',`षणु दाने',`क्षणु हिसायाम्'।
अन्यत्तनादिकार्यमिति। तनादिकार्यापेक्षो नियम इत्यर्थः। व्यावर्त्त्यदर्शयति---तनादिभ्यस्तथासोरिति विभाषा सिचो लुग् न भवतीति। नन्वस्तु लुग्विकल्पः, तदभावे `ह्रस्वादङ्गात्' इति लोपो भविष्यति, न च विकल्पेन बाधः, विकल्पं प्रति नित्यस्यासिद्धत्वात्; न च तनादिपाठसमार्थ्यादपदावो वचनप्रामाण्यादिति न्यायेनासिद्धत्वबाधाद्विकल्पेन नित्यस्य वाधः,तनादिपाठस्य विकरणविधौ चरितार्थत्वात्; विकल्पोऽप्यततः अतथा इत्यादौ चरितार्थः; प्रत्युत क्रियमाणे कृञ्ग्रहणे तनादिषु कृञः पाठस्यानन्यार्थत्वाद्येननाप्राप्तिन्यायेन विकल्पो नित्यविधिं बाधेत? इदं हि कृञ्ग्रहणविधौ तनादिषु पाठश्चरितार्थो मा विज्ञायीत्येवमर्थमेव स्यादिति कृञ्ग्रहणप्रत्याख्यानमेव न्याय्यं मन्यामहे।।
धिन्विकृण्व्योर च।। 3.1.80 ।।
धिन्विकृण्व्योर च।। अतो लोपस्य स्थानिवद्भावाद् गुणो न भवतीति। तेन प्रक्रियालाघवाय धिन्विण्व्योर्लोप एव नोक्त इति भावः। लोपे हि गुणस्स्यात्। न चच `न धातुलोप आर्द्धधातुके' इति निषेधः, प्रत्ययसन्नियोगशिष्टत्वेन लोपस्यानार्द्धधातुकनिमित्तत्वात्। ननु नुमनुषक्तयोर्ग्रहणं किमर्थम्? नुमि कृतेऽत्वं यथा स्याद्, `धिविकृव्योः' इत्युच्यमानेऽत्वे कृतेऽत एव परो नुम् प्रसज्येत; अत्वं ह्यन्तरङ्गं प्रत्ययसन्नियोगेन विधानात्; नुमागमस्तु बहिरङ्गः, उत्पन्ने प्रत्ययेऽङ्गस्य सतो विधानात्। ननु चास्त्वङ्गस्य नुम्, लावस्थायामेव भविष्यति; तिबादीनामन्तरङ्गत्वात्। तिबादिष्वेव तर्हि भविष्यति, न; नित्येनात्वेन बाधनात्। नुमागमस्तु शब्दान्तरप्राप्तेरनित्यः। अन्तरङ्गस्तर्हि नुमागमस्तद्विधौ धातुग्रहणात्? तद्धि धातुसंज्ञाप्रवृत्तिकाल एव नुम् यथा स्यादित्येवमर्थम्; अन्यस्योदितोऽसम्भवात्। कथमसम्भवः? यदिदानीमेवोक्तम्----तासेरिदित्करणमनुनासिकलोपप्रतिषेधार्थमिति। नन्वत्रापि पक्षे `नुम्विधावुपदेशिवद्ववचनं प्रत्ययसिद्ध्यर्थम्' इति वचनादुपदेश एव नुम् भविष्यति ? एवं तर्ह्यन्तरङ्गत्वादेव प्राप्तस्य नुमोऽयं निर्द्देशः।।
क्र्यादिभ्यः श्रा।। 3.1.81 ।।
स्तम्भुस्तुम्भुम्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च।। 3.1.82 ।।
स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च।। उदित्त्विप्रतिज्ञानादिति। एषां ह्युकारोऽनुनासिक इत्संज्ञकः प्रतिज्ञायते, तस्य प्रयोजनम्----`उदितो वा' इति क्त्वाप्रत्यये इड्विकल्पः। यदि चैतद्विकरणविषया एवैते स्युस्तन्नोपपद्यते। तस्मादुदित्त्वेन प्रतिज्ञानात्सर्वार्थत्वं विज्ञायते, सर्वे प्रत्ययाः प्रयोजनमेषामित्यर्थः। सर्वप्रत्ययशेषत्वभिति वा।।
हलः श्रः शानज्झौ ।। 3.1.83 ।।
हलः श्रः शानज्झौ।। पुषाण्, मुषाणेति। लोट्, सिप्, तस्य हिः, `क्र्यादिभ्यः श्ना',तस्य शानच्। चकारः स्वरार्थः। अत्र सन्निपातपरिभाषया अनित्यत्वाद् `अतो हेः' इति हेर्लुक्।
ननु च श्नाप्रत्ययस्य प्रकृतत्वात्तस्यैव शानजादेशो भविष्यति, नार्थः श्न इति स्थानिनिर्द्देशेनात आह---श्र इति स्थानीत्यादि। आदेश इत्येष संप्रत्ययः---अवगमो यथा स्यादित्येवमर्थः। असति तु तस्मिन् किं स्यादित्याह---प्रत्ययान्तरमिति। अस्तु प्रत्ययान्तरम्, `क्र्यादिभ्यः' इत्यनुवृत्तेस्तेभ्य एव हलन्तेभ्यो भविष्यतीति न कश्चिद्दोष इत्यत आह----सर्वविषयमिति। अक्र्यादिविषयमपीत्यर्थः। क्र्याद्यनुवृत्तिर्दुर्ज्ञानेति मन्यते। शानचः शित्करणञ्चिन्त्यप्रयोजनम्; स्थानिवद्भावेनैव सिद्धेः। इह `ञिमिदा स्नेहने' दिवादिः, व्यत्ययेन छन्दसि श्ना, तस्य शानजादेशः, मिदान। `मिदेर्गुणः' इति प्रतिषेधविषये विधीयमानो गुणो न भवति, पुनः शित्करणेन `सार्वधातुकमपित्' इत्यस्यापि पुनः प्रवृत्तेरिति केचित्। नेति वयम्; यथैव व्यत्ययेन श्ना भवति, एवं गुणविषये इकारो भविष्यति।।
छन्दसि शायजपि।। 3.1.84 ।।
छन्दसि शायजपि।। गृभायेति। ग्रहिज्यादिसूत्रेण संप्रसारणम्, `हृग्रहोर्भश्छन्दसि' इति हकारस्य भकारः। बधानेति। `बन्ध बन्धने',`अनिदिताम्' इति नलोपः।।
व्यत्ययो बहुलम्।। 3.1.85 ।।
व्यत्ययो बहुलम्।। यथायथमिति। स्वस्मिन् स्वस्मिन्विषये इत्यर्थः। व्यतिगमनं व्यत्यय इति। व्यतिपूर्वादिणो भावे `एरच्'। अन्योऽन्यविषयावगाहनमित्यर्थः। क्वचिदित्यादिना व्यत्ययस्य प्रकारं दर्शयति। न मरतीति। परस्मैपदमप्यत्र व्यत्ययेन। नेषत्विति। नयतेर्लोटि शप्सिपौ। तरुषेमेति। तरतेर्विध्यादौ लिङ्, तथा च `तरेमेति प्राप्ते' इति वृत्तिः;इतरथा `तीर्यास्मेति प्राप्ते' इति वक्तव्यं स्यात्, ततश्शप् सिप् उ त्यय इति त्रयो विकरणाः, धातोर्गुणः। तरुषमस्, ततो यासुट्, `लिङः सलोपोऽनन्त्यस्य' `नित्यं ङितः' `अतो येयः' यलोपः, `आद्गुणः' तरुषेम।
बहुलग्रहणमनर्थकम्, पूर्वसूत्रादपिशब्दस्यानुवृत्तौ छन्दसि व्यत्ययोऽपि भविष्यति, अपिशब्दाद्यथाप्राप्तञ्चेति सर्वमिष्टं सिद्ध्यति। अत आह----बहुल ग्रहणमिति। सर्वस्य प्रकृतस्याप्रकृतस्य च विधेर्व्यभिचारो व्यत्ययलक्षणो यथा स्यादित्येवमर्थमित्यर्थः।
एवमर्थे बहुलग्रहणे सति यदिष्टं सिद्ध्यति तत्श्लोकेन दर्शयति---सुप्तिङुपग्रहेत्यादि। तत्र सुपाम् व्यत्ययः---धुरि दक्षिणायाः। दक्षिणस्यामिति प्राप्ते। तिङाम्----चषालं ये अश्वयूपाय तक्षति। तक्षन्तीति प्राप्ते। लादेशव्यङ्ग्यः क्रियासाधनविशेषः स्वार्थपरार्थत्वव्यक्तवाक्त्वादिको यः स मुख्य उपग्रहः। यथोक्तम्----
य आत्मनेपदाद्भेदः क्वचिदर्थस्य गम्यते।।
अन्यतश्चापि लादेशान्मन्यन्ते तमुपग्रहम्।। इति।
आत्मनेपदाद्धेतोरित्यर्थः। एवमन्यतश्चापि लादेशदिति, इह तु तद्व्यक्तिनिमित्तत्वात्परस्मैपदात्मनेपदयोरुपग्रहशब्दो वर्त्तते। स ब्रह्मचारिणमिच्छते। इच्छतीति प्राप्ते। ऊर्मिर्युव्यति, युध्यत इति प्राप्ते। लिङ्गम---मधोस्तृप्ता इवासते, मधुन इति प्राप्ते। भाषायामपि मधुशब्दं पुंल्लिङ्गं प्रयुञ्जते----`मधूंश्च बिभ्रति र्मयसुरविटपिन इति', तच्चिन्त्यम्। नरः=पुरुषः----अधा स वीरेर्द्दशभिर्वियूयाः, वियूयादिति प्राप्ते, `यु मिश्रये' `विपूर्वः, आशिषि लिङ्। कालवाची प्रत्ययः कालः----श्वोऽग्नीनाधास्यमानेन, लुटो विषये लृट्। हल्---त्रिष्टुभौजः शुफितमुग्रवीरम्,`शुभ शोभार्थे' भकारस्य फकारः। आश्वलायनसूत्रे तैत्तिरीये च भकार एव पठ्यते अच्----उपगायन्ति मा पत्नयो गर्भिणयः, दीर्घस्य ह्रस्वः। स्वरव्यत्ययः----`परादिश्छन्दसि बहुलम्' इत्यत्र वक्ष्यते। कर्तृ शब्दः कारकमात्रस्योपलक्षणार्थः, तद्वाचिनां शब्दानां व्यत्यय इत्यर्थः। विभक्तीनां व्यतत्य इति यावत्। यङाम्---यङिति प्रत्याहारः यङो यशब्दादारभ्य `लिङ्याशिष्यङ्' इति ङकारेण, तेषां व्यत्ययः----आण्डा शुष्मस्य भेदतीत्यादिना वृत्तावेव दर्शितः। एषां सुप्रभृतीनां व्यत्ययमिच्छति चशास्त्रकृत् पाणिनिराचार्यः। सोऽपि तथाविधो व्यत्ययो बाहुलकेन सिद्ध्यति। बहुलस्य भावो बाहुलकम्, मनोज्ञादित्वाद्रुञ्। तत्पुनर्बहुलशब्दस्य प्रवृत्तिनिमित्तं यद्वह्वर्थादानम्। च---शब्दो हेतौ। यस्मादेवमुक्तप्रकारो व्यत्ययो बहुलग्रहणेनैव सिद्ध्यति, तस्माद्वहुलग्रहणं कृतमित्यर्थः।।
लिङ्याशिष्यङ्।। 3.1.86 ।।
लिङ्याशिष्यङ्।। शषोऽपवाद इति। लिङाशिषीत्यार्द्धिधातुकत्वात्कथमत्र शपःप्राप्तिरित्यत आह---छन्दस्युभयथेति। शब्ग्रहणं चोपलक्षणम्। शकेः श्नोरपवादः, स्थादिष्वेवायमङ् प्रायेण द्दश्यत इत्याह----स्थागागमीत्यादि। उपस्थेयमिति। उपपूर्वात्तिष्ठतेराशिषि लिङ्, मिपोम्भावः, यासुटस्सार्वधातुकत्वात् `लिङः स्सलोपोऽनन्त्यस्य', अङि `आतो लोप इटि च', `अतो येयः',`आद्गुणः'। एवमुपगेयमिति। गमेमेति। मस्। वोचेमेति। अङ्, `वच उम्', यासुट्, इयादेशः,वलि लोपः। द्दशेरग्वक्तव्य इति। अङि हि सति `ऋद्दशोऽङि' इति गुणस्स्यात्।।
कर्मवत् कर्मणा तुल्यक्रियः।। 3.1.87 ।।
कर्मवत् कर्मणा तुल्यक्रियः।। कर्मणा, तुल्यं वर्त्तत इति कर्मवत् `तेन तुल्यम्' इत्यादिना वतिः,न तु `तत्र तस्येव' इति; तुल्यक्रिय इति प्रतियोगिनि प्रथमानिर्देशात्। अन्यथा तुल्यक्रिये तुल्यक्रियस्येति वा निर्द्देश्यं स्यात्। तथा हि वाक्ये तावद्यतो वतिर्भवति, यश्य प्रतियोगी---उभाभ्यामपि ताभ्यां षष्ठीसप्तम्यौ भवतः,विप्रस्येवास्य शीलम्, मथुरायामिव पाटलिपुत्रे प्राकार इति; उभयोरपि सम्बन्धित्वाद्, आधारत्वाच्च। ततश्चोत्पन्नेऽपि वतौ प्रतियोगिनस्ते एव षष्ठीसप्तम्यावुपतिष्ठेते। तुल्यार्थयोगे तु या तृतीया सोपमानादेव भवति, नोपमेयात्; तुल्यशब्दस्योपमेयनिष्ठत्वात्, तद्यथा---चन्द्रेण तुल्यं मुखमिति ततश्योत्पन्नेऽपि वतावुपमेयात्प्रथमैवावतिष्ठते।
कर्मणेति परिभाषिकं कर्म गृह्यते, न लौकिकं क्रिया कर्म; तस्य हि ग्रहणे क्रियया तुल्या क्रिया यस्येति किमुक्तं स्यात् क्रियायाः, यया कयाचन क्रियया तुल्यत्वाद्! अतस्साधनकर्मणो ग्रहणम्। तत्र साध्यसाधनयोरत्यन्तभेदान्मुख्येन कर्मआ क्रियायाः साद्दश्यासम्भवात्कर्मशब्देन तत्स्था क्रिया लक्ष्यते। भवति हि तात्स्थ्यात्ताच्छब्द्यम्, यथा---मञ्चाः क्रोशन्तीति। तदेतदाह---कर्मणि क्रिया कर्मेति।
विशेषणस्य वैयर्थ्यं न चेदानीं प्रसज्यते।
कर्मणः क्रियया तुल्या न सर्वस्य क्रिया यतः।। इति ।।
कर्मणः क्रियया तुल्यक्रियः, न साधानान्तरस्येत्येवं प्रतिपत्त्यर्थत्वादित्याह---कर्मस्थया क्रियया तुल्यक्रिय इति। तुल्यशब्दस्य नित्यसापेक्षत्वात्कर्मस्थया क्रिययेत्येतदपेक्षस्यापि सूत्रवद्वहुव्रीहिर्नानुपपन्नः। तुल्यशब्दोऽयमस्ति साधारणवचनः----एतौ तुल्यधनाविति, साद्दश्यवचनस्तु प्रसिद्ध एव; तत्राद्यस्य ग्रहणे कर्मणेति यदि मुख्यवृत्तिस्तदा कर्त्तुः कर्मणश्च या साधारणी क्रिया, तत्र यः कर्त्ता कर्मणा सह साधारणक्रियः सकर्मकेषु यः कर्त्तेत्युक्तं भवति। तत्र तुल्यक्रिय इत्यनर्थकम्, कर्मणेत्येव वाच्यं स्यात्। कर्मणा सह यः कर्त्ता प्रतिपाद्यत इत्यर्थः। अथ गौणवृत्तिस्तदायमर्थ----क्रियया हेतुना साधारणक्रियः। कया क्रियया? कर्मस्थया क्रिययेति। एवमपि पचत्योदनं देवदत्त इत्यत्रापि प्राप्नोति, यासौ कर्मस्था विक्लित्तिरूपा क्रिया तया साधारणक्रियत्वात्। अतोऽस्मिन्पक्षेऽनिष्ट्रप्रसङ्गः, प्रसिद्धतरश्च सद्दशपर्यायस्तुल्यशब्द इति प्रयुञ्जानः `साद्दश्यवचनस्तुल्यशब्दः, न साधारणवचनः' इत्याचष्टे। कर्तृभूत इति। कर्त्तरि सम्पन्न इत्यर्थः। च्वेर्विकल्पितत्वादत्राभावः। अथ वा--कर्तृशब्दः कर्तृत्वे वर्तते, भूत इति `भू प्राप्तौ' इत्यस्य `आ धृषाद्वा' इति णिजभावे रूपम्, कर्तृत्वं प्राप्त इत्यर्थः। तत्र पचत्योदनमित्यत्र कर्तृकर्मव्यापारह योरतन्यन्तभेदेन साद्दश्याभावात्कर्मवद्भावाभावः। एवमपि भिद्यमानः कुसुलः पात्राणि भिन्नत्तीत्यत्रापि प्राप्नोति, याद्दशी हि पात्रेषु क्रियाऽवयवविशरणात्मिका ताद्दश्येव कुसूलेऽपि कर्त्तरि लक्ष्यत इति? नैष दोषः; कर्मस्थया क्रियया तुल्या क्रिया यस्य कर्त्तुरित्युक्ते कर्तुत्वोपयोगिनी या क्रिया यदावेशादसौ कर्त्ता भवति सैव क्रिया गम्यते; इह तु पात्रेषु द्दश्यमानं द्विधाभवनं कुसूलेऽपि दैवगत्या द्दष्टमित्येतावन्न पुनस्तत्समावेशादसौ भिनत्ति, स्वयमभिद्यमानोऽपि कुसूल उपरि पतन् पात्राणि भिनत्त्येव। एवमप्यन्योऽन्यमाश्लिषतः, अन्योऽन्यं स्पृशतः, अन्योऽन्यं गृह्णीतः ----अत्र प्राप्नोति, अत्र हि यत्क्रियावेशात्कर्त्ता भवति सैव कर्मण्यपि दृश्यते? सत्यं द्दश्यते; न सा कर्मत्वोपयोगिनी, न ह्यसौ तदावेशात्कर्म भवति; स्वयमनाश्लिष्यतोऽपि परेणाश्लिष्यमाणस्य कर्मत्वसम्भवात्। तदेतदुक्तं भवति----कर्मणः कर्मत्वोपयोगिनी या क्रिया तया तुल्या यस्य कर्तृत्वोपयोगिनी क्रिया स कर्मण तुल्यक्रियः। एवञ्च यस्यैव कर्मणः कर्मावस्थायां या क्रिया कर्त्रवस्थायामपि यदि सैव क्रिया भवति स कर्त्ता कर्मवदित्युक्तं भवति। इदमप्यत्रैवोक्तम्----`यस्मिन् कर्मणि कर्तृभूतेऽपि' इति। तस्मिन्नेव कर्मणि कर्त्रवस्थां प्राप्त इति ह्यत्रार्थः। एवञ्च कर्तृकर्मावस्थाभेदादेकस्या अपि क्रियाया भेदाश्रयं साद्दश्यमुपपाद्यम्।
अतिदेशो रूपनिमित्ततादात्म्यव्यपदेशशास्त्रकार्यातिदेशभेदेनानेकविधः, तवादिस्त्रयाणामसम्भवः। व्यपदेशातिदेशस्तु संज्ञापक्षान्न भिद्यते। तत्र वक्तरणमनर्थकम्। अतः शास्त्रातिदेशः, कार्यातिदेश इति द्वावेव पक्षौ। तत्र शास्त्रातिदेशे `भावकर्मणोः' इत्यादिषु शास्त्रेष्वतिदिष्टेषु तेन तेन शास्त्रेण तत्तत्कार्यं प्रवर्त्तते, ततश्च `भावकर्मणोः' इत्यस्यावकाशः---शुद्धं कर्म, पच्यते ओदनः, `शेषात्कर्तरि परस्मैपदम्' इत्यस्यावकाशः---शुद्धः कर्त्ता, पचति पठति; कर्मकर्त्तर्युभयप्रसङ्गे परत्वात्परस्मैपदं प्राप्नोति? नैष दोषः; `कर्त्तरि कर्मव्यतीहाहे इत्यतः कर्तृग्रहणमनुवर्तते, तेन कर्तैव यः कर्त्ता तत्र परस्मैपदम्, कर्मकर्तरि न भविष्यति। इह तर्हि कर्मणि यग् भवतीत्यस्यावकाशः---शुद्धं कर्म, पच्यते, ओदनः, `कर्तरि शप्' इत्यस्यावकाशः---शुद्धः कर्त्ता, पचति पठति; कर्मकर्तर्युभयप्रसङे परत्वाच्छप् प्राप्नोति? नैष दोषः; `कर्तरि शप्' इत्यत्र कर्तृग्रहणन्न कर्तव्यम्, सार्वधातुके शबिति सामान्यस्य भावकर्मणोर्यगपवादो भविष्यति, एवं सिद्धे यत्कर्तृग्रहणं क्रियते तस्यैतत्प्रयोजनम्----कर्तैव यः कर्ता तत्र शबादयो यथा स्युः, कर्मापदिष्टे मा भूवन्निति? सत्यं प्रतिविहितमायुष्मता! वृथा पुनरयम्प्रयासः, कार्यातिदेशाश्रयेणैव सिद्धेः। तत्र ह्यनेनैवात्मनेपदम्, अनेनैव यगिति परत्वाद्यगात्मनेपदे सिद्ध्यतः। प्रधानं च कार्यम्, तदर्थत्वादतिदेशान्तराणाम्। अतः कार्यातिदेश कर्तृग्रहणमस्ति, यदपि प्रकृतम्`कर्तरि शप्' इति, तदपि सप्तम्यन्तम् `तुल्यक्रिय' इति प्रथमान्तेन सम्बद्धुं नार्हति, तत्राह---कर्तरि शबित्यत इति।
यगात्मनेपदेत्यादि। लान्तस्य कर्त्ता कर्मवदिति वक्ष्यमाणत्वाद्यगादीनामेव सम्भव इति भावः। मिद्यते इत्यादीनि त्रीण्यात्मनेपदस्योदाहणानि यगादीनां क्रमेण। कथं पुनः काष्ठस्य भिदां प्रति कर्तृत्वम्, यावता भिद्यतेऽसौ देवदत्तेन? यो ह्युद्यमननिपातनादि कुठारस्य करोति स भेदने कर्त्ता उच्यते। सर्वेषामेव कारकाणां प्रातिस्विकोऽवान्तरव्यापारोऽस्ति, अकिंचित्करस्य कारकत्वानुपपत्तेः। एतच्च कारकप्रकरणे एवोपपादितम्। तत्र च स्वव्यापारे स्वतन्त्रत्वं सर्वत्रैवास्ति। कारके कर्तृव्यापारेण तिरस्कृतत्वात्तु न्यग्भूतं स्वातन्त्र्यमिति कर्तृत्वं न भवति, करणादिसंज्ञैव भवतीत्येतावत्। सकर्मकास्तु केचिद्धातवः कर्मव्यापारमप्यभिधाय तावत्येवापर्यवस्यन्तस्तदुपसर्जनं कर्तृव्यापारमाचक्षते, तद्यथा----भिदिर्द्धिधाभवनोपसर्जनं द्विधाभावनमाह। न खल्वयमुद्यमननिपातनमात्रवचनः; रजकेऽपि प्रसङ्गात्, सोपि हि वस्त्रमुद्यच्छति निपातयति च। अथ च न भिनत्तीत्युच्यते; द्विधाभवनाभावात्। एतेन छिनत्तिलुनत्ती व्याख्यातौ। तथा पचिरपि विक्लित्युपसर्जनं विक्लेदनमाह। तत्र यदा कर्मणः सौकर्यातिशयप्रतिपादनाय कर्तृव्यापारो न विवक्ष्यते, तदा निवृत्तप्रेषणं कर्म स्वक्रियावयवस्थितं निवर्त्तमाने कर्मत्वे स्वे कर्तृत्वेऽवतिष्ठते। धातुरपि तद्व्यापारमात्रे वर्तते। कथं पुनरुभयवचनो धातुः कर्मव्यापारमात्रवचनो भवति? को विरोधः? अनेकार्था धातवः, समुदायेषु च वृत्ताः शब्दा अवयेष्वपि वर्तन्ते, तदेवं कर्मव्यापारमात्रवाचिषु कर्तृत्वमेव काष्ठादीनाम्, न तु कर्मत्वगन्धोऽप्यस्ति; धातवश्चैते प्रयोगेऽस्मिन्नकर्मकाः, यथा---विक्लिद्यति द्विधा भवतीति; कथं तर्हि कर्मणा तुल्यक्रियः कर्त्ता? न ब्रूमः----अस्मिन् प्रयोगे यत्कर्म तेन तुल्यक्रिय इति, किं तर्हि? प्रयोगान्तरे यत्कर्म तेन तुल्यक्रिय इति। नन्वेवं पचत्योदनं देवदत्तः, राध्यत्योदनः स्वयमेव---अत्रापि प्राप्नोति? अत्र परिहारं वक्ष्यति---धात्वधिकारादिति। कर्तृकर्मणोर्धातोरन्यत्रासम्भवादेव सिद्धेस्तदनुवृत्तिरेकत्वविक्षार्था----यस्मिन्नेव धातौ यत्कर्म तेन तुल्यक्रियस्तस्यैव धातोः कर्तेति। तेन धातुभेदे न भविष्यति?
आह--अध्यारोपोऽयमस्तु, कोऽर्थः? कृत्स्न एव धात्वर्थः कर्मण्यध्यारोप्यते किमत्र देवदत्तेन ओदन एव पाकं करोतीति। एवं हि सौकर्यातिशयः सुतरां प्रतिपादितो भवति, करणाधिकरणवत्, यथा---साध्वसिश्छिनत्ति, साधु स्थाली पचतीति। तत्र येषु तावत्कृत्स्न एव धात्वर्थः कर्मण्यपि सम्भवति---आत्मना बुद्ध्यते, आत्मना मुच्यते, आत्मना हन्यते, आत्मना ताड्यते इति, तेषु शुद्धे कर्मणि लकारः केन चिद्रूपेण कर्तृत्वम्, केनचिद्रूपेण कर्मत्वमिति। तथा भिद्यते कुसूल इति यत्रापि चेतनो भेत्ता न द्दश्यते तत्र वातातपकालाभिवर्षणानामन्यतमस्य कर्तृत्वम्, अध्यारोपो वा। पच्यते ओदनः स्वयमेव, लूयते केदारः स्वयमेवेत्यादावध्यारोप एव, आत्मनैवोवनः पच्यते, न तु देवदत्तेनेति, कएवं नाम पाकेऽनुकूलो भवतीत्यर्थः। तदेवं शुद्धे कर्मणि लकारोत्पत्तेर्नार्थ एतेन। यद्येवम्, भिद्यते कुसूलेनेति भावे लो न स्यात्, सकर्मकत्वात्? अथाप्यत्र भिद्यते कुसूलेनात्मेति कर्मणि व्याख्यायेत। एवमपि भेत्तव्यं कुसूलेन, ईषद्भेदं कुसूलेनेति भावे कृत्यक्तखलर्था न स्युः? न च तत्रापि कर्मणीति शक्यमाश्रयितुं नपुंसकलिङ्गदर्शनात्। तथा नमते दण्डः स्वयमेव, कारयते कटः स्वयमेव, अचीकरत कटः स्वयमेव---यक्चिणोः प्रतिषिद्धयोरपि शप्चङौ न स्याताम्, अकर्तृत्वात्। तस्मात्कर्मव्यापारमात्रवाचिभ्यः कर्तरि भावे च लादय इत्येतदेव साधीयः। तथा च श्रृतं पाक इत्यत्र पचेः कर्मव्यापारे कर्तृव्यापारे च श्रृतमिति भवति; द्वयोरपि पाकशब्दाभिधेयत्वात्।
एवं हि या विमृष्टा शास्त्रं न करिष्यामिति मतिः, सापि त्याज्या। असति सूत्रे `न दुहस्नुनमां यक्चिणौ' इति प्रतिषेधस्य विषयो न प्रदर्शितः स्यात्। किञ्च, यद्यपि पच्यते ओदनः स्वयमेवेत्यादिकः प्रयोगः कर्मणि समर्थ्यते, कर्तरि तु लकारोत्पत्तौ पचत्योदन इत्यादिकः प्रयोगोऽपि प्रसज्येत। तस्मादारब्धव्यं सूत्रम्।
अत्रोदाहरणेषु कर्त्रन्तरव्युदासार्थ स्वयमिति प्रयुज्यते, न त्वेतदुदाहरणाङ्गम्। प्रयुक्त एतस्मिन्नात्मनेत्यस्यार्थे वृत्तेः प्राकृतमेवैतत्कर्म स्यात्---स्वाश्रयमपि यथा स्यादिति। असति वत्करणे कर्तुः कर्मसंज्ञा ज्ञायेत, ततश्चानेन कर्मणा सकर्मकत्वाद् `भावे चाकर्मकेभ्यः' इति भावे लो न स्यात्। सति तु तस्मिन्स्वतः प्राप्तस्याकर्मकव्यपदेशस्यानिवर्तनादकर्मकाणां भावे लः सिद्धो भवति, अकर्म काणां भावे यो लो विधीयते स सिद्धो भवतीत्यर्थः। कथं सिद्धो भवति, यावता नित्योऽयमतिदेशः, नित्ये चास्मिंस्तत्र लविधिरपि कर्मकार्यमेवेति स्यादेवातिदेशः? आतिदेशिकाविरुद्धं स्वाश्रयं वतिना प्राप्तते, न तु विरुद्धमपि। न ह्ययं विकल्पार्थः---कदाचित्कर्मवत्, कदाचिन्नेति। अथ लान्तस्य कर्तेति वक्ष्यमाणत्वादेतत्सूत्रप्रवृत्तेः प्रागेव `लः कर्मणि च' इत्येतत्प्रवृत्तिरङ्गीक्रियते, तच्च प्रवर्तमानमकर्मकत्वाद्भावे कर्तरि च प्रवर्तते, यदा कर्त्तरि तदाऽयमतिदेश इति भावे लविधिः समर्थ्येत। यद्येवम्, मा भूद्वतिः, लकारवाच्यस्य कर्त्तुः कर्मसञ्ज्ञैवास्तु, यगात्मनेपदयोस्त्वप्रसिद्धिः परत्वाच्छबादीनां परस्मैपदस्य च प्रसङ्गः; न च कर्मसञ्ज्ञया कर्तृसञ्ज्ञाया बाधः, एकसञ्ज्ञाधिकारादन्यत्र सञ्ज्ञानां समावेशात्? सत्यम्; उक्तोऽत्र परिहारः----तदेतद्वत्करणं सर्वसाद्दश्यार्थम्। तेनोदाहरणेषु काष्ठादिभ्यो द्वितीया न भवति; इत्यरथा कर्मकार्यत्वात्प्राप्नोति, अभिहितत्वान्न भविष्यति। भवेदयं परिहारः शास्त्रातिदेशे, कार्यातिदेशे त्वनेनैव कर्मकार्याणि प्राप्यन्ते, न चात्रानभिहिताधिकारोऽस्तीति स्यादेव द्वितीया। वत्करणात्तु सर्वसाद्दश्यार्थाद्यथा कर्मण्यभिहितेन भवति, एवं कर्तर्यपीति द्वितीयाभावः। यदा तर्ह्यकर्मकत्वाद्भावे लकारस्तदा प्राप्नोति, तत्राह-----लिङ्याशिष्यङित्यादि। तत्र लग्रहणमनुवृत्त षष्ठ्या विपरिणम्यते इत्यभिप्रायेणाह---लान्तस्य कर्त्तेति। लकारवाच्यः कर्तेत्यर्थः। कुसूलाद् द्वितीया न भवतीति। भिद्यते कुसूलेनेत्यनन्तरोदाहृतेषु उदाहरणेषु तु वत्करणादेव सर्वसाद्दश्यार्थाद् द्वितीयाया अभाव इति भावः। तदेवं वृत्तिकारस्याभिप्रेतम्----एतद्वतिः सर्वसाद्दश्यार्थ इति। किञ्च, नावश्यं द्वितीयैव, कृत्यक्तखलर्था अप्यस्मिन्विषये कर्तर्यतिदेशेन प्राप्नुवन्ति----भेत्तव्यः कुसूलः स्वयमेव, भिन्नः कुसूलः स्वयमेव, ईषद्भेदः कुसूलः स्वयमेवेति; भाव एव चेष्यन्ते---भेत्तव्यं कुसूलेन कुसूलस्य वा, `कृत्यानां कर्तरि वा',`भिन्नं कुसूलेन, ईषद्भेदं कुसूलेनेति। अत्र वार्तिके क्तग्रहणमन्यत्र सहपाठात्पठितम्, यथा-----ककारो गुणवृद्धिप्रतिषेधार्थ इति। भवत्येव ह्येभ्योऽकर्मकत्वाद् `गत्यर्थाककर्मक' इति कर्तरि क्तः। तथा च `सिनोतेर्ग्रासकर्मकर्तृकस्येति वक्तव्यम्' इति निष्ठा---नत्वे। सिनो ग्रासः स्वयमेवेति कर्तरि क्त उदाहरिष्यते। तस्मात्कृत्यखलर्थेष्वेवैष दोषः, अतस्तत्र लान्तस्य कर्तेत्याश्रयणादेवातिदेशाभावः।
कर्मणेति किमिति। धातुवाच्या क्रिया कर्तृ कर्मणोरेव समवेता, तत्र साद्दश्यस्य भेदाधिष्ठानत्वात्कर्तृस्थया क्रियया तुल्यक्रियः कर्त्ता न सम्भवतीति कर्मस्थैव क्रिया आश्रयिष्यत इति मत्वा प्रश्रः। करणाधिकरणाभ्यामिति। तत्स्थक्रिययेत्यर्थः। साध्वसिश्छिनत्तीति। किं पुनरत्र करणाधिकरणव्यापारमात्रे धातुर्वर्तते? आहो स्वित्तत्र कृत्स्नधात्वर्थाध्यारोपः? न तावदाद्यकल्पः, तावति धातोरवृत्तेरसिना छिनत्तत्यत्रापि नैव करणव्यापारो धातुनोपादीयते, केवलं करणत्वादवान्तरव्यापारोऽस्तीत्येतावत्। द्वितीये तु भिन्नक्रियत्वादेवाप्रसङ्गः। तस्मात्करणाधिकरणव्यापारमात्रेऽपि धातोर्वृत्तिमङ्गीकृत्य प्रत्युदाहृतं द्रष्टव्यम्। क्वचितु करणेनापि तुल्यक्रियस्य कर्मवद्भाव इष्यते, यदाह---करणेन तुल्यक्रियः कर्त्ता बहुलमिष्यते, परिवारयति कण्ट
कैर्वृक्षम्, परिवारयन्ते कण्टका वृक्षम्----आत्मनेपदं भवति। वृत्तिकारस्तु `णिचश्च' इत्यात्मनेपदमुपपद्यत इति मन्यमानो नैतदुपसमचष्ट।
धात्वधिकारात्समाने धाताविति। एकस्यैव धातोरित्यर्थः। एतच्च प्रागेव व्याख्यातम्।
कर्मस्थभावकानामित्यादि। यद्यपि क्रियाभावशब्दयोरभिन्न एवार्थः, तथा च `यस्य च भावेन भावलक्षणम्' इति क्रियापि गृह्यते, `लक्षणहेत्वोः क्रियायाः' `कर्मणा तुल्यक्रियः' इति च वाचोऽपि; तथाप्यस्मिन् ग्रन्थे भेदेनोपादानादर्थभेदो द्रष्टव्यः---अपरिस्पन्दरूपो धात्वर्थो भावः, परिस्पन्दरूपस्तु क्रिया। क्व पुनरसौ कर्मस्थः? क्व ववा कर्तृ स्थः? केचिदाहुः----येषु कर्मब्यापारोपसर्जनः कर्तृव्यापारोऽभिधीयते तेषु कर्मस्थः, येषु कर्तृ व्यापार एव तेषु कर्तृ स्थ इति। नेति वयम्; प्रधानक्रिया यत्र समवैति कर्तरि कर्मणि वा तत्स्थो धात्वर्थः, यदुद्देशेन कारकव्यापारः सा प्रधानक्रिया, यथा---पचेर्विक्लित्तिः, गमेर्देशान्तरप्राप्तिः। एवञ्च कृत्वा न्यग्भवनोपसर्जनन्यग्भाववचनोऽपि रुहिः कर्तृस्थक्रियः---आरोहन्ति हस्तिनं हस्तिपका इति; उपरिदेशप्राप्तेरुद्देश्यायाः कर्तरि समवायात्, तत्रेह कर्मस्थेन व्यापारेण कर्तृव्यापारस्योपमानात्।
अस्य चार्थस्य कर्तृस्थव्यापारेष्वसम्भवान्न्यायप्राप्त एवार्थो वृत्तिकारेण दर्शितः। तत्र कर्तस्थव्यापारस्य कर्तृस्थस्य चोदाहरणमात्रं श्लोकेन दर्शयति----कर्मस्थः पचतेर्भाव इति। पच्यते घट इत्यत्र तद्देशस्यैव घटस्य पाक इति भावोऽसौ भवति, कर्मस्थश्च---पच्यते ओदन इत्यत्र परिस्पन्दत एव, पाक्यस्य पाकाभिनिर्वृत्तिरिति कर्मस्थैव पचेः क्रिया भवति। कर्मस्था च भिदेः क्रियेति। भिद्यते कुसूल इत्यत्रावयवविशरणात्मिका भिदिक्रिया भेदस्य परिस्पन्दे सति भवतीति कर्मस्था च भिदेः क्रिया भवति। मासासिभावः कर्तृस्थ इति। मासमास्ते इत्यत्र `कालभावाध्वगन्तव्याः कर्मसञ्ज्ञा ह्यकर्मणाम्' इति मासकर्मकोऽयमासिधातुः, तत्र मासासिधातौ प्रतीयमानोऽर्थो भावः; अपरिस्पन्दरूपत्वात्, स च कर्तृस्थ इत्यर्थः। कर्तृ स्था च गमेः क्रियेति। गमेरर्थः क्रिया, सा च कर्तृ स्थेत्यर्थः। तेनास्यते मासः स्वयमेव, गम्यते ग्रामः स्वयमेवेति न भवति। अथेह कथं कर्मवद्भावः---तस्मादुदुम्बरः सलोहितं पच्यते फलमिति? अत्राहुः---पचिरत्र विषये द्विकर्मकः, वृक्षस्य पाकमन्तरेण फलस्य पाकासम्भवात्। तत्र `अप्रधाने दुहादीनाम्' इति वृक्षोऽकथितं कर्मेति तत्र लकारः, कालस्तु कर्त्तेति। इदं तु वक्तव्यमेव, `सृजियुज्योः श्यंस्तु' इति `सृजि विसर्गे',`युजिर्योगे'---अनयोः सकर्मकयोः कर्त्ता कर्मवद्भवति; तत्र सृजेः श्रद्धोपपन्ने कर्त्तरि कर्मवद्भावः, यग्विषये च श्यन्, चिण्विषये तु चिणेवेष्यते; सृज्यते मालां देवदत्तः, श्रद्धया निष्पादयतीत्यर्थः। श्यनि सति प्रकृतेराद्युदात्तत्वं भवति, यकि तु सार्वधातुकानुदात्तत्वे यक एवोदात्तत्वं स्यात्-----असजि मालाम्, श्रद्धया निष्पादयति स्मेत्यर्थः। `युजिर्'---युज्यते ब्रह्मचारी योगेन।।
तपस्तपः कर्मकस्यैव।। 3.1.88 ।।
तपस्तपः कर्मकस्यैव।। `क्रियाभेदाद्विध्यर्थमिदम्' इति वक्ष्यति। कथं तर्ह्येवकारस्यान्वय इत्याशङ्क्य वाक्यभेदेन व्याचष्टे---तप सन्तापे, अस्य कर्त्ता कर्मवद्भवति, स च तपः कर्मकस्यैवेति। एवकारस्य व्यवच्छेद्यं दर्शयति----नान्यकर्मकस्येति। एतच्च श्रुतस्यैवकारस्यान्वयो वक्तव्य इति मत्वोक्तम्, न पुनरस्य किञ्चित्प्रतोजनमस्ति। क्रियाभेदादिति। अत्यन्तभेदादित्यर्थः। नियमपक्षेऽपि क्रियाणां च भेदोऽपेक्षितः; तुल्यत्वस्य भेदाधिष्ठानत्वात्। क्रियाभेदमेव दर्शयति---उपवासादीनीति। दुः खयन्तीत्यर्थ इति। `सुखदुःख तत्क्रियायाम्' इति चुरादिपाठाण्णिच्। अनेन तापसस्य कर्मत्वे तपेर्दुः खनमर्थ इति दर्शितम्। अर्जयतीत्यर्थ इति। अनेनापि तापसस्य कर्तृत्वे तपेरर्जनमर्थ इति दर्शितम्। क्वचित्तु आर्जयतीति पाठः, तत्राङ्पूर्वस्य प्रयोगः। नन्वेमपि शरीरसन्तापलक्षणा क्रियाऽवस्थाद्वयोऽपि तुल्या, न हि शरीरसन्तापादन्यदर्जनं तापसस्य व्यापारः? तदसत्; वस्तुस्थित्या सतोऽपि शरीरसन्तापस्याशब्दार्थत्वात्, कथमन्यथा तपसः कर्मत्वम्! तस्मादर्जनम्= निष्पादनम्, अलब्धस्य लाभः; दुःखं तु शरीरसन्ताप एवेति स्पष्ट एव क्रियाभेदः। विध्यर्थमेतदिति यदुक्तं तदेवोपसंहरति---पूर्वेणाप्राप्तः कर्मवद्भावो विधीयत इति। अतप्त तपस्तापस इति। `तपोऽनुतापे च'इति चिणः प्रतिषेधात्सिच्, `झलो झलि' इति लोपः।।
न दुहस्ननमां यक्चिणौ।। 3.1.89 ।।
न दुहस्ननमां यक्चियौ।। `दुह प्रपूरणे',`ष्णु प्रस्रवणे'। `टुदु उपतापे', `हमे हसने',`णु स्तवने' इत्येतेषां तु ग्रहणं न भवति, नौतिहसत्योरकर्मस्थक्रियत्वात्। यदि च तेषां ग्रहणामिष्टं स्यादसन्देहार्थम् `न दुनुहस्नमाम्' इत्येव ब्रूयात्, अवयवप्रसिद्धेश्च समुदायप्रसिद्धिर्बलीयसी। कर्मवद्भावापदिष्टाविति। एतेन `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' इति कर्मवत्कर्मणेति प्राप्तयोर्यक्चिणोरयं प्रतिषेधः; न तु `चिण् भावकर्मणोः', `सार्वधातुके यक्'इति शुद्धे कर्मणि भावे प्राप्तयोरिति दर्शयति। दुग्ध इति। यकि प्रतिषिद्धे शप्, तस्य अदादित्वाल्लुक्, `दादेर्धातोर्घः', `झषस्तथोर्धोऽधः' जश्त्वम्। दुहिरयं द्विकर्मकः, तत्र `अप्रधाने दुहादीनाम्' इति यस्मिन्कर्मणि लकारस्तस्य कर्तृत्वविवक्षा, प्रधानं तु कर्म कर्मैवेति, यथा----`स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी' इति। अदुग्धेति। णिच् भावे क्सः, `लुग्वा दुह' इत्यादिना तस्य लुक्। नन्विदानीमेवोक्तम्----`दुहेरनेन यक् प्रतिषिध्यते, चिण् तु `दुहेश्च' इति पूर्वमेव विकल्पितः' इति, तस्मान्नैतदत्रोदाहर्त्तव्यम्। प्रस्नुत इति। यकि प्रतिषिद्धे पूर्ववच्छपो लुक् प्रास्नोष्टेति। चिण्प्रतिषेधे सिच्। नमत इति। अन्तर्भावितण्यर्थोऽत्र नमिः। तत्र यथा नयमति दण्डं देवदत्तः, नमयते दण्डः स्वयमेवेति ण्यन्तस्य कर्मस्थक्रियत्वम्, एवमस्यापि द्रष्टव्यम्।
णिश्रन्थिग्रन्थीत्यादि। णीति णिङो णिचश्च सामान्येन ग्रहणम्। `श्रन्थ ग्रन्थ सन्दर्भे' चुरादावाधृषीयौ, तयोर्णिजभावपक्षे ग्रहणम्। तथा क्र्यादिष्वपि पठ्येते तयोरपि ग्रहणम्। `ब्रूञ् व्यक्तायां वाचि'। आत्मनेपदविधावकर्मका ये धातवो निर्द्दिष्टास्ते यदान्तर्भावितण्यर्थाः सकर्मका भवन्ति त इमे आत्मनेपदाकर्मकाः। वृत्तौ क्वचिदेषामुदाहरणानि पठ्यन्ते, क्वचिन्न। णिचि-----कार्यते कटः स्वयमेव, अचीकरत कटः स्वयमेव, यक्चिणोः प्रतिषिद्धयोः शप्चङौ भवतः। णिङ्-----पुच्छमुदस्यति, उत्पुच्छयते गौः, स यदान्तर्भावितण्यर्थस्तदा उत्पुच्छयते गाम्। पुनः सौकर्यातिशयेन कर्तृत्वविवक्षायामुत्पुच्छयते गौः स्वयमेव, उदपुपुच्छत गौः स्वयमेव। श्रन्थिग्रन्थ्योराधृषीययोः-----ग्रन्थति ग्रन्थं देवदत्तः, श्रन्थति मेखलाम्, ग्रन्थते ग्रन्थः स्वयमेव, अग्रन्थिष्ट ग्रन्थः स्वयमेव; श्रन्थते मेखला स्वयमेव, अश्रन्थिष्ट मेखला स्वयमेव। क्रैयादिकयोस्तु----ग्रथ्नीते ग्रन्थः स्वयमेव, श्रथ्नीते मेखला स्वयमेव। ब्रञ्---ब्रवीति कथां देवदत्तः, ब्रूते कथा स्वयमेव। वचनं शब्दप्रकाशनफलत्वात्कर्मस्थम्। आत्मनेपदाकर्मक-----`वेः शब्दकर्मणः' `अकर्मकाच्च' विकुर्वते सैन्धवाः, वल्गन्तीत्यर्थः। तान्यदाऽन्यो वल्गयति तदा तेषां कर्मत्वम्। पुनः सौकर्यातिशयात्कर्तृत्वविवक्षायाम्----विकुर्वते सैन्धवाः स्वयमेव, व्यकृषत सैन्धवाः स्वयमेव, यक्चिणौ न भवतः। क्वचित्तु बृत्तौ---आहन्ति माणवकम्, आहते माणवकः स्वयमेवेति पठ्यते, तदयुक्तम्; आहन्ति माणवकमिति सकर्मकत्वादात्मनेपदाभावाच्च। अन्ये पुनराहुः-----आत्मनेपदाकर्मकेति धातुपलक्षणम्, हन्तिश्रायम् `आङो यमहनः' इत्यत्र यदा कर्माविवक्षयाऽकर्मकस्तदात्मनेपदस्य निमित्तं स्यात्, तस्याद्यसकर्मकत्वेऽप्यविरुद्धमुदाहरणमिति।
भूषाकर्मकिरादिसनां यक्चिणोः प्रतिषेधो वक्तव्यः। कर्मशब्दः क्रियावाची, भूषाफलं च शोभाख्यं कर्मणि द्दश्यत इति कर्मस्था भूषा। अलंकुरुते कन्या स्वयमेव, अलंकरिष्यते कन्या स्वयमेव, अलमकृत कन्या स्वयमेव; अवकिरते हस्ती स्वयमेव, अवाकीर्ष्ट हस्ती स्वयमेव, अवकरिष्यते हस्ती स्वयमेव----यक्चिण्चिण्वद्भावा न भवन्ति। सन्---मुमुक्षते वत्सः स्वयमेव, अमुमुक्षिष्ट वत्सः स्वयमेव; चिकीर्षते कटः स्वयमेव, अचिकीर्षिष्ट कटः स्वयमेव----प्रकृत्यर्थापेक्षमत्र कर्मस्थक्रियत्वम्, इच्छा तु कर्तृस्था। आर्थ च प्रकृत्यर्थस्य प्राधान्यम्; तदर्थथ्वादिच्छायाः।।
कुषिरजोः प्राचां श्यन् परस्मैपदं च।। 3.1.90 ।।
कुषिरजोः प्रायां श्यन् परस्मैपदं च।। यगात्मनेपदयोरपवादाविति। श्यन्यकोऽपवादः, परस्मैपदमात्मनेपदस्य। श्यन्यकोश्चात्र नुमिस्वरे च विशेषः----कुष्यन्ती जङ्घा, श्यनि `शप्श्यनोर्नित्यम्' इति नित्यं नुमागमः, नित्त्वाच्चाद्युदात्तत्वं भवति; यकि तु `आच्छीनद्योर्नुम्' इति नुम्विकल्पः, लः सार्वधातुकानुदात्तत्वे च यक एवोदात्तत्वं स्यात्।रज्यतीति। `अनिदिताम्' इति नलोपः। कुष्यते, रज्यते इति पक्षे यगात्मनेपदे भवतः।
लिङ्लिटोरिति। आशिषि लिङ्त्र गृह्यते, यदुक्तम्---कुषइरजोः श्यन्विधाने सार्वधातुकवचनम्, अवचने हि लिङ्लिटोः प्रतिषेध इति। स्यादिविषये चेति। आदिशब्देन सिजादीनां ग्रहणम्। चुकुषे, ररञ्च इति। लिट्, आत्मनेपदम्, तस्य एशादेशः। कोषिषीष्टेति। `लिङः सौयुट्', `सुट् तिथोः' लघूपधगुणः। रङ्क्षीष्टेति। `एकाचः' इतीट्प्रतिषेधः, `चोः कुः' इति कुत्वम् गकारः, तस्य चर्त्त्वम्ककारः। अकोषि, अरञ्चीति। चिण्।।
धातोः।। 3.1.91 ।।
धातोः।। आ कुतोऽयमधिकारः किं प्राग्लादेशाद्? आहोस्विदाध्यायपरिसमाप्तेः? इति विचारे द्वितीयं पक्षमाश्रयति--आ तृतीयाध्यायपरिसमाप्तेरिति।
एशः शित्करणात्, तद्धि धातोरित्यधिकारे सति `तस्मादित्युत्तरस्य' `आदेः परस्य' तकारस्य स्थाने एत्वे सति अकारस्य स्थाने टेरेत्वे अयादेशे च सत्ययेशब्दस्य श्रवणं मा भूदित्येवमर्थ कियते। प्राग्लादेशात्पुनर्द्धात्वधिकारेऽलोऽन्त्यस्य विधयो भवन्तीति एकारस्यैकारवचने प्रयोजनं नास्तीति कृत्वान्तरेणापि शकारमन्त्येऽल्यनुसंहारं बाधित्वा सर्वादेशो भविष्यति, किं शकारेण! यद्याध्यायपरिसमाप्तेरयमधिकारः? आद्ये योगे न व्यवाये तिङःस्युः, आद्ये योगे तिबादिसूत्रे येऽमी लावस्थायां स्यादयो विधीयन्ते तेषु कृतेषु तैर्व्यवधाने तिबादयो न स्युः। करिष्यति, हरिष्यति, कर्त्ता, शबादिषु तु न दोषः; तेषां सार्वधातुकाश्रयत्वादकृते लादेशे प्राप्त्यभावात्; तिबादयश्च तत्र सावकाशाः।
न स्यादेत्वम्, टेष्टितां व्यवाय इत्येव---पचते यजते, क्व तर्हि स्यात्? आस्ते, शेते, धत्ते, रुन्धे, बेभिदाते इत्यादौ यत्र न विकरणाः सन्ति।
एशः शित्त्वम् `लिटस्तझयोरेश्' इत्ययमेश् शित्कर्तव्यः। एतच्चोपक्रम एव व्याख्यातम्।
यच्च लोटो विधत्ते तच्च विकरणव्यवाये न स्यात्---`लोटो लङ्वत्'`एरुः' `सेर्ह्यपिच्च' इत्यादि, पचतु, पचतमित्यादि, स्तौतु, जुहोतु, भिनत्तु, आस्तामित्यादावेव स्यात्।
यच्चाप्युक्तं लङ्लिङोस्तच्च न स्यात्---`नित्यं ङितः',`इतश्च',`तस्थस्थमिपां तान्तन्तामः' `लिङः सीयुट्' `यासुट् परस्मैपदेषूदात्तो ङिच्च' इत्यादि, तथा `थासः से' पचसे इत्यादौ न स्यात्? नैष दोषः; विहितविशेषणं विज्ञास्यते---धातोर्विहितस्य लोट इति। यद्येवम्, `विदो लटो वा' इत्यत्रापि विदेर्द्धातोर्विहतस्य लटस्तिबादीनां णलादय इति विज्ञायमाने विन्दति, विन्दतः, विन्दन्तीति लाभार्थस्य विकरणेन व्यवायेऽपि णलादयः प्राप्तुवन्ति? न क्वचिद्धिहितविशेषणं धातुग्रहणमिति सर्वत्र तथा भवितव्यम्। अथ वात्र धातुना विहितं विशेषयिष्यामः, विदिनाऽऽनन्तर्यम्---धातोर्विहितस्य लटो विदेरनन्तरस्येति, `सिजभ्यस्तविदिभ्यश्च' इत्यवापि धातुना विहितं विशेष्यते, अभ्यस्तेन चानन्तर्यम्---धातोर्विहितस्याभ्यस्तादनन्तरस्य ङितो झेरिति; तेनाजक्षिष्यन्, अजागरिष्यन्नित्यादौ न भविष्यति। `आतः' इत्यत्र कथम्, यदि तावद्धातोर्विहितस्याकारादनन्तरस्येति, अलुनन् अपुनन् अत्रापि प्राप्नोति? अथ आकारान्ताद्वातोर्वेहितस्येति, अपिबन्नित्यत्र प्राप्नोति? अस्तु धातोर्विहितस्याकारादनन्तरस्येति, अलुनन् इत्यत्र लुना झि इति स्थिते `श्नाभ्यस्तयोरातः' इति लोपे कृते आकाराभावान्न भविष्यति, नात्र लोपः प्राप्नोति? `ई हल्यघोः' इतीत्वेन बाध्यते। एवमप्याकारान्न भविष्यति? नात्रेत्वं प्राप्नोति, अन्तिभावेन बाध्यते? नात्रान्तिभावः प्राप्नोति, जूस्भावेन बाधनात्? तदेवं लोप ईत्वेन्, ईत्वमन्तिभावेन, अन्तिभावो जुस्भावेन, जुस्भावो लोपेन, लोप ईत्वेनेति लोप ईत्वेनेति चक्रकमव्यवस्था प्राप्नोति? नैष दोषः; आयन्नादिषूपदेशिवद्वचनादुपदेशकाल एव झस्यान्तिभावे कृते लोपः, लोपेन व्यवस्था। किं चात इत्यत्र सिज्ग्रहणमनुवर्तते---आकारान्तात्सिज्लुगन्तादिति, तेन न क्वाप्यनिष्टप्रसङ्गः। तदेवमाध्यायपरिसमाप्तेर्धात्वधिकार इति स्थितम्।
वक्ष्यति तव्यत्तव्यानीयर इति। किं च स्यात् यदि तव्यादिविधो धातोरितित नानुवर्त्तेत ङ्याप्प्रातिपदिकादपि तव्याद्यः स्युः? साधने तव्यादयो विधीयन्ते, साधनं च क्रियायाः। क्रियाया अभावात्साधनाभावः, साधनाभावाद् ङ्याप्प्रातिपदिकात्तव्यादयो न भविष्यन्ति। कथं तर्हि कर्मादिषु विधीयमाना द्वितीयादयो भवन्ति, नैव प्रातिपदिकार्थस्य साधने द्वितीयादयः, किं तर्हि? शब्दान्तरवाच्यक्रियापेक्षे तस्यैव कर्मादिभावे; तव्यादयस्तु प्रकृतिवाच्यक्रियापेक्षे साधने चरितार्था न ङ्याप्प्रातिपदिकाद्भविष्यन्ति? इदं तर्हि प्रयोजनम्----सत्याणवयेत्यादयो येऽपभ्रंशाः क्रियावचनास्तेभ्यस्तव्यादयो मा भून्निति; न हि ते धातवः, भूवादिपाठाश्रयत्वाद्धातुसंज्ञायाः। किञ्च, सोपसर्गाल्लङादयो मा भूवन्निति धात्वधिकारः क्रियते; अन्यथा प्राकरोत, प्रास्थित, अध्यैष्टेति धातूपसर्गसमुदायस्य विशिष्टक्रियावचनत्वात्ततः प्रत्ययविधावङ्गसंज्ञायामडादिप्रसङ्गः। चोदयति----धातुग्रहणमनर्थकम्, यङ्विधौ धात्वधिकारादिति। `धातोरेकाचः' इत्यत्र यङ्विधौ धात्वधिकारादिति `धातोरेकाचः' इत्यत्र यङ्विधौ यद्धातुग्रहणं तस्येहाधिकारादित्यर्थः। परिहारति-----कृदुपपदसंज्ञार्थ त्विति। एतदेव व्याचष्टे----अस्मिन्निति। अस्मिन्नेवेत्यवधारणं द्रष्टव्यम्। तद्दर्शयति---पूर्वत्र मा भूतामिति। असत्यस्मिन्नधिकारे धात्वधिकारे यत्सप्तम्या निर्द्दिष्टं तदुपपदमित्येतावानर्थः स्यात्, ततश्च पूर्वत्रापि स्यात्-----`च्लि लुङि' लुङन्त उपपदे च्लिरिति। एवं कृत्संज्ञापि धातोर्विहितस्यातिङो भवतीति पूर्वत्रापि स्यात्, ततश्च करिष्यतीत्यत्र स्यप्रत्ययस्य कृत्संज्ञायां कृदन्तं प्रातिपदिकमिति प्रातिपदिकत्वे सति तिङोक्तेऽप्येकत्वे वचनग्रहणादेकवचनस्य चोत्सर्गत्वात्सोरुत्पत्तिः प्रसज्येत। तस्मादस्मिन्धात्वधिकारे यथा स्यातां पूर्वत्र मा भूतामिति पुनर्द्धात्वधिकारः क्रियते।
ननु चाधिकारेण ते संज्ञे विधास्येते, प्रत्ययसंज्ञा च तत्र, ते पूर्वत्र भविष्यत इत्याशंक्य प्रयोजनान्तरमाह----आर्द्धधातुकसंज्ञार्थे चेति। कः पुनरार्द्धधातुकसंज्ञायां द्वितीयधातुग्रहणस्योपयोग इत्यत आह----धातोरित्येवं विहितस्येति। लूभिरिति। अत्र सत्यपि प्रातिपदिकत्वे धातुत्वमप्यस्ति; पूर्वप्रवृत्ताया धातुसंज्ञाया अनिवर्तनात्। ततश्च धातोरेवायं विहित इति आर्धधातुकसंज्ञा स्यादेव। यदि तु शमिधातोरित्यत्र धातुग्रहणस्य द्वितीयस्यार्द्धधातुकसंज्ञार्थं स्वरितत्वं प्रतिज्ञायेत, अयमप्यधिकारः शक्योऽकर्तुम्। वासरूपविधिरप्यधिकारेण सिद्धः, तेन क्सादिभिः सिचः समावेशो न भविष्यति।।
तत्रोपपदं सप्तमीस्थम्।। 3.1.92 ।।
तत्रोपपदं सप्तमीस्थम्।। `सप्तमोस्थम्' इत्यस्यार्थमाह--सप्तम्या निर्दिष्टमिति। सप्तम्या विभक्त्योच्चारितमित्यर्थः। सप्तम्यन्तेन पदेन प्रिपादितमिति वा। अस्मिन्पक्षे सूत्रे सप्तमोशब्देन सप्तम्यन्तमुच्यते। सप्तम्यन्तेपदे कर्मणीत्यादौ प्रतिपाद्यत्वेन स्थितं कुम्भादिकमित्यर्थः। प्रथमे तु पक्षे कमणीत्यादेर्यः सप्तम्या निर्देशः, स एव कुम्भमित्यादेरपि प्रयोगगतस्य सप्तम्या निर्देशः, यथा----`तस्यापत्यम्' इत्यादौ तस्येति सामान्यं विशेषापलक्षणार्थमिति तदोयमेव प्राथम्यं विशेषाणामपि भवति, तद्वदत्रपि। कुम्भकार इति अत्रोपपदत्वात्समासः, कृदुत्तरपदप्रकृतिस्वरत्वं च भवति।
स्थग्रहणमित्यादि। सूत्रेषु यः सप्तम्या विभक्त्या निर्देश उच्चारणं सप्तम्यन्तेन वा पदेन प्रतिपादनं तदेव संज्ञाङ्गमिति प्रतिपत्त्यर्थमित्यर्थः। ननु सप्तमीशब्देन साहचर्यात्सूत्रादिषु सप्तम्या निर्दिष्टं ग्रहीष्यते, नार्थ एतदर्थेन ग्रहणेन? तत्राह----अन्यथा हीति। मुख्यार्थसम्भवे गौणस्याग्रहणात् सप्तम्या एव संज्ञास्यात्; संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधात्। न चासतस्संज्ञिनः संज्ञाशक्या विधातुमिति यत्र सप्तमी श्रूयते तत्रैव स्यादित्यर्थः। स्तम्बेरम इति। `स्तम्बकर्णयोरमिजपोः' इत्यच्, `तत्पुरुषे कृति बहुलम्' इत्यलुक्। यत्र वेति। यत्र सूत्रे सप्तमीश्रुतिः, सप्तमीशब्दस्य श्रवणमित्यर्थः। अशब्दसंज्ञेति स्वरूपग्रहणप्रतिषेधादभ्युपगम्यवादोऽयम्, सर्वथेष्टं सिध्यतीत्यत्र तात्पर्यम्। स्थग्रहणात्त्विति। स्थग्रहणे सति सौत्रसप्तम्युपलक्षितस्य संज्ञाविधानात्सर्वत्र सिध्यतीत्यर्थः।
ननु च लघ्वर्थ संज्ञाकरणम्, तत्किमर्थ गुर्वी संज्ञा क्रियत इत्यत आह----गुरुसंज्ञाकरणमिति। `उपोच्चारितं पदमुपपदम्'---इत्येवमर्थानुगता संज्ञा अन्वर्थसंज्ञा। समर्थपरिभाषाव्यापारार्थमिति। इह यदा स्वार्थद्रव्यलिङ्गात्मकस्त्रिकः। प्रातिपदिकार्तः, तदा नान्तरेण विभक्रिं कर्माधिकरणाद्युपपदमुपपद्यत इत्यवश्यमुत्पाद्या विभक्तिरिति पदविधित्वादेव सिद्धः परिभाषाव्यापारः, पञ्चकपक्षेऽपि तु प्रातिपदिकस्यैव कर्माद्यभिधायित्वेन पदविधित्वाभावात्परिभाषाव्यापारो न स्यादित्यन्वर्थया संज्ञया बलात्प्रवर्त्त्यते? नैतदस्ति; पञ्चकपक्षेऽपि विभक्युत्पत्त्या पदत्वे सत्येव प्रत्यय इति प्रतिपादनात्। ननु `गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः' इति वचनात्कथमुपपदस्य मुबन्तत्वम्----सामि स्मर्त्ता भवान्? `उपपदमदिङ्' इत्यत्र हि सुपेति तृतीयान्तमेव निवृत्तम्, सुबिति प्रथमान्तमनुवर्तत इत्यवोचाम, कथमपरथा चर्मकारादौ नलोपादि स्यात्! पश्य कुम्भं करोति कटमिति। धातोरिति वर्त्तते, कर्मादिशब्दाश्च सम्बन्धिशब्दाः, तत एवं विज्ञास्यामः----यस्य धातोर्यत्कर्मेति। एवमपि महान्तं कुम्भं करोतीत्यत्र प्राप्नोति? न वा भवति; धातोर्यत्कर्मेति। एवमपि महान्तं कुम्भं करोतीत्यत्र प्राप्नोति? न वा भवति; महाकुम्भकार इति भवति, यदेतद्वाक्यम्----महान् कुम्भो महाकुस्भः महाकुम्भं करोतीति। यदा त्वेतद्वाक्यम्-----महान्तं कुम्भं करोतीति, तदा नेष्यते। किं च स्याद् यद्यत्र स्यात्? कुम्भशब्दस्य कारशब्देन समासे कृते तदर्थ एकार्थीभावात् महच्चब्देन समासो न स्याद्, अन्वर्थत्वादेव संज्ञायाः सप्तमीनिर्दिष्टत्वेऽपि प्रकृत्यर्थविशेणात्तद्विशेषणानां च उपोच्चारितपदत्वाभावादुपपदसंज्ञा न भवति।
अथ तत्र---ग्रहणं किमर्थम्? धात्वधिकारः प्रतिनिर्दिश्यते------तत्रैतस्मिंस्तृतीये धात्वधिकार इति। नैतदस्ति प्रयोजनम्, अधिकारादप्येतत्सिद्धम्? इदं तर्हि प्रयोजनम्---सप्तमीस्थस्य प्रत्ययोत्पत्तिं प्रति निमित्तत्वं यथा स्यादिति, कथम्? प्रत्यय इति वर्त्तते---सप्तमीस्थमुपपदसंज्ञं भवति, तत्र चोपपदे सत्येव प्रत्यय इति। अथ कर्मणीत्यादिका सत्सप्तमी, तत्कुतोऽसत्युपपदे प्रत्ययप्रसङ्गः? न; कर्मणीत्यादिका सौत्री स्पतम्यर्थापेक्षा, तथा हि सत्यण्प्रत्ययस्याभिधेयं कर्म स्यात्----यथा---`धः कर्मणि ष्ट्रन्' इति, तथा चोपपदत्वं न प्रतीयेत, अतो यथेत्संज्ञार्थमनुनासिकत्वं प्रतिज्ञायते तथार्थनिरपेक्षा केवलमुपपदसंज्ञाया लिङ्गं सप्तमी, तथा न छातोरण् भवति कर्म चोपपदमित्येतावानर्थः स्यात्। कर्मणः प्रत्ययोत्पत्तिं प्रति निमित्तत्वं न प्रतीयेत, तस्मात्तदर्थं तत्र---ग्रहणम्, किमिदानीं हेय एवायं ग्रन्थस्तत्रैतस्मिन्धात्वधिकार इति? न ब्रूमो हेय इति, सोपस्कारस्तु भवति---एत---स्मिन्धात्वधिकारे यत्सप्तम्या निर्दिष्टं तदुपपदसंज्ञं भवति, तत्र च सति प्रत्यय इति।।
कृदतिङ्।। 3.1.93 ।।
कृदतिङ्।। तिङ्वर्जित इति। तिङ्त्वेन त्यक्तस्तिङ्त्वेन रहितः, तिङोऽन्य इति यावत्।
अतिङिति किमिति। इह क्रियमाणोऽप्ययं प्रतिषेधः स्वाश्रयामेव तिङः कृत्सञ्ज्ञं बाधीतुं प्रभवति, न तु लकारस्य कृत्त्वात्स्थानिवद्भावेन प्राप्ताम्; `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' इति वचनादिति मत्वा प्रश्नः। तिङ्भाविनो लकारस्यैव कृतसञ्ज्ञा प्रतिषिद्ध्यते, प्रतिषेधसामर्थ्याद्वा स्थानिवद्भावो न भविष्यतीत्युत्तरम्। चीयात्स्तूयादिति। ननु च ज्ञापकादेतत्सिद्धम्, यदयम् `अकृत्सार्वधातुकयोः' इति पृथक् सार्वधातुके प्रतिषेधं शास्ति, तद् ज्ञापयति----अकृदिति प्रतिषेधो न तिङ्क्षु भवतीति। यदि स्यात्; चिनुयात्, सुनुयादित्यादौ सार्वधातुकेऽपि कृत्प्रतिषेधादेव दीर्धो न भविष्यति, किं पृथक् सार्वधातुकपर्युदासेन! इह तर्हि पचति, पठति----`ह्रस्वस्य पिति कृति तुक्' इति तुङ् मा भूदिति? तुग्विधौ धात्वादेरित्यतो धातुग्रहणमनुवर्तिष्यते। एवमपि---चिकीर्षति, जिहीर्षतीत्यत्र प्राप्नोति? शपा व्यवधानान्न भविष्यति। एकादेशे कृते नास्ति व्यवधानम्? `एकादेशः पूर्वविधौ स्थानिवद्भवति' इति व्यवधानमेव। नात्र स्थानिवद्भावः प्राप्नोति; परत्वादन्तवद्भावेन बाद्ध्यते। तस्माच्चिकीर्षतीत्यादौ तुङ्मा भूदित्यतिङिति प्रतिषेधः कर्त्तव्यः। किञ्च, तिङन्तस्य कृदन्तं प्रातिपदिकमिति प्रातिपदिकसंज्ञायां पचेरन्---नलोपः प्राप्नोति, पपाच ब्राह्मणी-----टाप्प्राप्नोति, सर्वत्र च स्वद्युत्पत्तिः प्रसज्येत, तदेतदस्मादन्यार्थादतिङिति प्रतिषेधादेव सिद्धे चीयादित्यादौ ज्ञापकं नाश्रयितव्यमिति वृत्तिकारो मन्यते स्म।।
वाऽसरूपोऽस्त्रियाम्।। 3.1.94 ।।
वाऽसरूपोऽस्त्रियाम्।। `असरूपः' इति पदच्छेदः, अन्यथा लाधवे विशेषाभावलादसन्देहर्थ `सरूपोऽस्त्रियां वा' इति ब्रूयात्। अपवादविषयेऽपि केषाञ्चित्कृतां प्रवृत्तिर्यथा स्यादित्येवमर्थमिदं वचनम्। यथोक्तम्-----असरूपस्य वावचनमुत्सर्गस्य बाधकविषये निवृत्त्यर्थमिति। परिभाषा चेयम्, अस्मिन्धात्वधिकारे स्त्र्यधिकारव्यतिरेकेण यान्यसरूपस्यापवादस्य विधायकानि शास्त्राणि तच्छेषभूता, तत्र तत्र वचने क्रियमाणे गौरवं स्यादिति साधारणरूपेण परिभाष्यते। तत्र च `असरूपः' इति व्यर्थ कृण्मात्रस्य विकल्पने सर्वस्यैवासरूपत्वाद्यत्किञ्चित्कृदपेक्षया; असरूपपदं चैतत्सापेक्षं प्रतियोगिनि यतोऽत्र भिन्नरूपत्वमसरूपत्वमित्यते। केनचिद्धि किञ्चित्सरूपमसरूपं वा भवति, तत्र केनासरूप इत्यपेक्षायां स्वविधानवेलायां यः स्वस्मिन्विषये प्राप्तः स एव बुद्धिस्थः प्रतियोगी गम्यते, अपवादविधानसमये चोत्सर्गः, तमपि विषयमवागाऋढुमुढौकमान उपारूढो बुद्धौ भवतीति तदपेक्षया भिन्नरूपोऽपवाद एवात्रासरूपो विवक्षित इत्याह---असरूपोऽपवादप्रत्यय इति। एवं स्थिते यद्ययमुत्पत्तिविकल्पस्स्याद्, अपवादप्रत्ययो वा भवतीति, ततः स्वविषये कामं विकल्पस्तस्य लभ्यते, न तूत्सर्गः प्रवर्त्तेत। तत्रातद्विषयो ह्यसौ, उत्सर्गापवादशास्त्रयोर्हि प्रमितिव्यापारे पर्यवसिते पश्चादियमत्रैव प्रदेशेस्थिताऽपवादस्य पक्षे प्रवृर्त्ति प्रतिबध्नाति। अपवादशास्त्रेण यः स्वीकृतो विषयस्तद्व्यतिरिक्तविषया सामान्यशास्त्रस्य प्रमितिरित्यपवादस्याप्रवृत्तावपि नैवोत्सर्गस्य तस्मिन्विषये प्रमितिः प्रवृत्तिर्वोपपद्यते, तद्धितवत्; तद्यथा----दक्षस्यापत्यम् अत इञि विकल्पिते पक्षेऽण् न भवति, अपि तु वाक्यमेव भवति, तत्कस्य हेतोः? `समर्थानां प्रथमाद्वा' इति तटस्थेन पक्षे प्रवृत्तिर्निरुद्ध्यते, न पुनरेकवाक्यतया प्राप्तिरेव विकल्परूषितेति, तथेहापीति। अपवादाभावपक्षे प्रकृतिरेव कर्त्राद्यभिधानायानुज्ञाता स्याद्, यथाग्निचिदित्यादौ क्विबादिलोपे, तदाह---तत्रोत्पत्तिर्वा प्रसङ्गो यथा तद्धित इति।
तमिममुत्पत्तिविकल्पपक्षे दोषं द्दष्ट्वा बाधकत्वं विकल्प्यत इत्याह---वाबाधको भवतीति। उक्तं च `सिद्धं त्वसरूपबाधकस्य वावचनात्' इति, असरूपो वा बाधको भवतीति वक्तव्यमित्यर्थः। ननु तत्रतत्रोच्यते---यत्रान्यत्क्रियापदं न श्रूयते तत्रास्तिर्भवतिपर इति, ततश्चासरूपो वेत्युक्ते भवतीत्येवाध्याहारो युक्तः, न पुनर्वा बाधक इति? उच्यते---उत्पत्तिविकल्पस्य प्रयोजनं केवलायाः प्रकृतेः प्रयोगः, केवला च प्रकृतिः स्वार्थमात्रमभिधातुमसमर्था, किं पुनः कर्त्रादिकमभिधास्यति! प्रकृतिप्रत्ययसमुदाये हि प्रयुज्यमानेऽन्वयव्यतिरेकाभ्यामयं प्रकृत्यर्थः, अयं प्रत्ययार्थ इति व्यवस्थाप्यते; अनुत्पन्नप्रत्यया तु प्रकृतिर्न कञ्चिदप्यर्थ गमयति। प्रयोगोऽपि हि तस्या दुर्लभः; परश्चेति नियमात्। तद्धिते त्वनुत्पत्तिपक्षेऽप्युत्सर्गप्रवृत्तिव्यतिरेकेण प्रत्ययान्तरमस्ति षष्ठी, इह तु न तथेति सामर्थ्याद्वहिरङ्गमपि बाधकत्वमपि कल्प्यते। ननु चच शास्त्रं शास्त्रेण बाद्ध्यते, न पुनः कार्य कार्येण, निदानोच्छेदेनैव हि निदानिन उच्छेदः शक्यते कर्त्तुम्, न हि प्रदीपेऽनुच्छिन्ने तत्प्रकाश उच्छिद्यते, तत्किमुच्यते---अपवादप्रत्यय इति, एवं तु वक्तव्यम्----अपवादशास्त्रमिति? उच्यते----सर्वस्यैवापवादशास्त्रस्य स्वगतमसारूप्यमव्यभिचारीति प्रत्ययद्वारकं तदाश्रयणीयमित्यपवादप्रत्यय इत्युक्तम्। एवम्भूतस्य प्रत्ययस्य विधायकं शास्त्रमित्यर्थः।
यद्वा----प्रत्ययस्य बाधकत्वविकल्पसामार्थ्याच्छास्त्रमपि पक्षे बाधकं भविष्यति।
अथ वा वृत्तौ वस्तुमात्रं दर्शितम्; यथा त्वयमर्थ उपपद्यते तथा सूत्रं व्याख्येयम्। तत्रेदं व्याख्यानम्---परिभाषेयमित्युक्तम्, तत्रेक्परिभाषावदियमपि पदमुपस्थापयति----अस्मिन्धात्वधिकारे यत्रासरूपोऽपवादप्रत्ययो विधीयते तत्र वेत्युपतिष्ठते, स्त्र्यधिकारे तु नेति। किं कृतं भवति? `ददातिदधात्योर्विभाषा' इत्यादिवत् प्रमितिरेव विकल्परूषिता भवति, ततस्तद्वदेवोत्सर्गस्य प्रवृत्तिसिद्विरिति। अथ `असरूप उत्सर्गप्रत्ययोऽपवादविषये वा भवति' इति विज्ञायमाने को दोषः? न खलु कश्चिद्दोषः; अपवादविकल्पे प्राप्ते विभाषा, उत्सर्गविकल्पे त्वप्राप्तविभाषेति, किन्तु प्रतियोग्यपेक्षमसरूपपदमप्यपवादमेव गोचरयतीत्युक्तम्।
`अस्त्रियाम्' इत्यत्र पक्षत्रयं सम्भवति---अभिधेयसप्तमी वा स्यात्---स्त्रियामभिधेयायां वासरूपो न भवतीति, स्त्रियामित्येव वा विहितस्यासरूपस्य निषेधः स्यात्---स्त्रियामित्युच्चार्य ये विधीयन्ते ते नेति, स्त्रीग्रहणं वा स्वर्यते स्वरितेनाधिकारावगतिर्भवतीति---स्त्रियां क्तनिन्नित्यस्मिन्नधिकारे नेति। तत्राद्ये पक्षे विक्षिपा, विक्षोपिका, विक्षेप्तेति कविषये ण्वुल्तृचौ न स्याताम्। द्वितीये तु `कर्मव्यतिहारे णच् स्त्रियाम्' व्यावक्रोशी, व्यावक्रुष्टिरिति णयो विषये क्तिन् न स्यात्, द्वयोरपि स्त्रियामित्युच्चार्य विधानादिति, ममाद्ययोः पक्षयोर्दोषं द्दष्ट्वा तृतीयं पक्षमाश्रित्याह----स्त्र्यधिकारविहितप्रत्ययं वर्जयित्वेति। केचिदाहुः----अपवादप्रत्ययं वर्जियित्वेति वक्तव्ये प्रत्ययं वर्जयित्वेति वचनं प्रत्ययमात्रपरिग्रहार्थम्, तेनोत्सर्गापवादयोर्द्वयोरपि स्त्र्यधिकारनिवेशिनोरयं प्रतिपेधः। किं सिद्धं भवति? आसना, आस्या-----स्त्र्यधिकारविहितेनापि युचापवादेन ऋहलोर्ण्यतः समा वेशः सिद्धो भवति। घञस्तु क्तिन्नादिभिरनभिधानादसमावेश इति। अन्ये तु----अपवादो वा बाधको भवतीति प्रकृतत्वात्स एवात्र प्रत्यय इति व्याचक्षते, तेन घञः क्तिन्नादिभिरसमावेशः। आस्येत्यत्र कृत्यल्युटो बहुलमिति ण्यदिति। ण्वुल्तृचावुत्सर्गाविति। चावुत्सर्गाविति। धातुमात्रे विधानात्। इगुपघज्ञाप्रीकिरः क इत्यपवाद इति। धातुविशेषे विधानात्। किं पुनः प्रयोगगतमसारूप्यम्? आहोश्विदुपदेशगतम्? किं चातः? प्रयोगे लादेशेषु प्रतिषेधः----ह्योऽपचदित्यत्र लुङपि प्राप्नोति, प्रयोगे ह्यसरूपत्वात्, लङ्यनच्कस्तकारः प्रत्ययः लुङि अपाक्षीदितीच्छब्दः; श्वः कर्तेत्यत्र लृडपि प्राप्नोति? ज्ञापकात्सिद्धम्, यदयम् `हशश्वतोर्लङ् च' इति लिड्विषये लङं शास्ति, तज् ज्ञापयति----न लादेशेषु वासरूपविधिरिति। एवमपि ग्रामणीः, ग्रामनाय इति क्विबादिविषयेऽणादयो न स्युः, न हि क्विबादयः प्रयोगे रूपवन्तः, लोपविधानात्तेषाम्। तस्मादुपदेशगतमसारूप्यम्। यद्येवम्, अनुबन्धभिन्नेषु विभाषाप्रसङ्गः, काणोरपि ह्युपदेशे भिन्नं रूपम्, प्रयोगे तु समानम्, तत्राह---नानुबन्धकृतमिति। अनुबन्धानामनेकान्तत्वात्तत्कृतमसारूप्यं नाश्रीयते, तथा च `उदीयां माङः' इति श्रूयमाणेऽपि ङकारे तस्यानेकान्तत्वादव्याहतमेजन्तत्वमित्यात्वं प्रयुक्तम्। `ददातिदधात्योर्विभाषा' इति विभाषाग्रहणं च लिङ्गमस्यार्थस्य; अन्यथाऽनुबन्धकृतादसारूप्यादेव शविषये णो भविष्यतीति किं तेन!
इह क्तल्युट्तुमुन्खलर्थेषु वासरूपवधिः प्राप्नोति। हसितं छात्रस्य शोभनं हसनं छात्रस्य, अत्र क्तल्युडविषये घञपि प्राप्नोति। तुमुन----इच्छति भोक्तुम्, अत्र `इच्छार्थेषु लिङलोटौ' इति लोट् प्राप्नोति, तुमुना च बाध इष्यते, लिङ् तु `लिङ् च' इति वचनाद्भवात्येव। यद्येवम्, अस्मादेव नियमाल्लोडपि न भविष्यति। कलर्थ----आतो युच्' ईषत्पानः, अत्र खलपि प्राप्नोति। ननु स्त्र्यधिकारे तावदस्त्रियामिति प्रतिषेधादस्याप्रवृत्तिः परस्तादपि विच्छिन्नत्वादेव न भविष्यति? स्यादेतदेवम्, यद्ययमधिकारः स्यात्, परिभाषा त्वेषेत्युक्तम्। इष्यते च स्त्र्यधिकारादूर्ध्वमपि वासरूपविधिः-----आसित्वा भुङ्क्ते,आस्यते भोक्तुमित्यपि यथा स्याद्; अन्यथा भोजनार्थत्वादासनस्य पौर्वकाल्यमवगम्यते तुमर्थाधिकाराद्भावे क्त्वाप्रत्ययस्तत्रैव च लकार इति समानविषयत्वाद्वाध्यबाधकभावः स्यात्। तथा कालो भोक्तुम्, कालो भोजनस्य---मुमुना ल्युटो बाधः स्यात्। तस्मात् स्त्र्यधिकारस्य परस्तादपि वासरूपविधिरेषितव्यः, `अर्हे कृत्यतृचश्च' इत्यत्र कृत्यतृज्ग्रहणं ज्ञापकम्---स्त्र्यधिकारस्य परस्तादनित्यैषा परिभाषेति। तस्मात् क्तल्युट्तुमुन्खलर्थेषु प्रतिषेधोऽवक्तव्य एव।।
कृत्याः प्राङ् ण्वुलः।। 3.1.95 ।।
कृत्याः प्राङ् ण्वुलः।। ण्वुलतृचाविति वक्ष्यतीति। `रोगाख्यायां ण्वुल् बहुलम्' मित्ययं त्ववधिर्न भवति; `अर्हे कृत्यतृचश्च' इति पृथक् तृचो ग्रहणात्। यद्येवम्, `प्राङ् ण्वुलः' इति न वक्तव्यम्, `कृत्याः' इत्येवास्तु, तृज्ग्रहणादेव ज्ञापकात्परतोऽनुवृत्तिर्न भविष्यति, योगापेक्षं च ज्ञापकम् `ण्वुल्तृचौ' इत्यस्माद्योगात्प्राक् कृत्यसञ्ज्ञाधिकार इति? सत्यम्; `कृत्याः' इत्येतावदेव पठितं सूत्रकारेण। वृत्तिकारस्तु, भाष्ये पूर्वपक्षरूपेण पठितं सूत्रे प्रचिक्षेप। विचित्रा हि वृत्तेः कृतिर्वृत्तिकारेण! `कृत्याः' इति बहुवचनमनुक्तसमुच्चयार्थम्, तेन `केलिमर उपसङ्ख्यानम्' इत्यादि नोपसंख्येयं भवति।।
तव्यत्तव्यानीयरः।। 3.1.96 ।।
तव्यत्तव्यानीयरः।। वसेरिति। `वस निवासे' इत्यस्य ग्रहणम्, न तु `वस आच्छादने' इत्यस्य लुग्विकरणस्य। `तयोरेव कृत्यक्तखलर्थाः' इति वचनात्त्कर्त्तरि न प्राप्नोतीति वचनम्, णिद्वद्भावार्थं च। वास्तव्य इति। तद्वितान्तो वा पुनरेषभविष्यति, वास्तुनि भावो वास्तव्यः, दिगादित्वाद्यत्। अवास्तव्य इत्यत्र स्वरभेदो नास्ति, `कृत्योकेष्णुच्' इति यदन्तोदात्तत्वं तदेव `ययतोश्चातदर्थे' इत्यनेन भविष्यति। केलिमर इति। ककारो गुणवृद्धिप्रतिषेधार्थः, रेफस्स्वरार्थः।
कर्मकर्त्तरि चायमिष्यत इति। भाष्ये तु `पचेलिमा माषाः, पक्तव्याः; भिदेलिमास्सरलाः, भेत्तव्याः' इति शुद्धे कर्मणि प्रदर्शितम्।।
अचो यत् ।। 3.1.97 ।।
अचो यत्।। अज्ग्रहणं किमिति। पूर्वसूत्र एव यद्ग्रहणं कर्त्तव्यमिति प्रश्नः। यावतेत्यादि। द्वये हि धातवः----अजन्ताः, हलन्ताश्च। तत्र हलन्ताद् ण्यतं वक्ष्यति, अतः पारिशेष्यादजन्तादेव यद्भविष्यतीत्यभिप्रायः।
अजन्तभूतपूर्वादपीति। पूर्व भूतो भूतपूर्वः सुप् सुपा' इति समासः, अजन्तश्चासौ भूतपूर्वश्च अजन्तभूतपूर्वः। दित्स्यं धित्स्यमिति। दाञो धाञश्च सन्, द्विर्वचनम्, `सनिमीमाघु' इत्यादिना इस, `सः स्यार्द्धधातुके' इति तत्वम्, `अत्र लोपोऽभ्यासम्य' दित्स धित्स इति स्थिते, अनुत्पन्न एवार्द्धधातुके बुद्धिस्थे एवातो लोपे कृते सम्प्रत्ययं कृते सम्प्रत्ययं हलन्त हि ण्यत् स्याद्; अज्ग्रहणात्तु भूतपूर्वमजन्तत्वमाश्रित्य यद्भवति। तेन `यतोऽनावः' इत्याद्युदात्तत्वम्, ण्यति तु तित्स्वरितं स्यात्। चिकीर्ष्यमित्यादौ तु ण्यद्यतोर्विशेषाभावः। `यतोऽनावः' इत्यत्र हि `द्व्यचः' इति वर्त्तते। यदा त्वाद्धंधातुके परतो लोपः, तदैतदज्ग्रहणं न कर्तव्यमेव।
तकिशसीत्यादि। `तकि हसने',`शसु हिसायाम्',`चते चदे याचने',`यती प्रयत्ने',`जनी प्रादुर्भावे',`यतोऽनावः' इति स्वरार्थ जनेर्यद्विधानं जन्यमिति रूपम्, न तु ण्यतापि सिद्धम्; `जनिवध्योश्च' इति वृद्धिप्रतिषेधात्। शसिमपि केचित्पठन्ति-----तद्वा नाराशंस्यं राद्व्यं च।
हनो वा वध चेति। हन्तेर्वा यत्प्रत्ययो भवति, तत्सन्नियोगेन च वधादेशः। वध्यमिति। तद्धितान्तो वा पुनरेष भविष्यति---वधमर्हतीति वध्यः, `दण्डादिभ्यः' इति यत्।यदि तद्धितः, समासो न प्राप्नोति---असिवध्यः, मुसलवध्य इति, कृति पुनः सति `कृर्तृकरणे कृता बहुलम्' इति समासः सिद्धो भवति। घात्यमिति। `हनस्तोचिण्णलोः' इति तत्वम्, `हो हन्तेर्ञ्णिन्नेषु' इति कुत्वम्।।
पोरदुपधात् ।। 3.1.98 ।।
पोरदुपधात्।। पाक्यं वाक्यमिति। `चजोः कु घिण्ण्यतोः' इति कुत्वम्। कोप्यं गोप्यमिति। `कुप कोपने', `गुप व्याकुलत्वे'। आप्यमिति। `आप्लृ व्याप्तो' एषु त्रिषु `यतोऽनावः' इत्याद्युदात्तत्वं न भवति, तित्स्वरित एव तु भवति।।
शकिसहोश्च।। 3.1.99 ।।
शकिसहोश्च।। शक्लृ शक्ताविति। उपलक्षणमेतत्, `शक विभाषितो मर्षणे' इत्यस्यापि ग्रहणम्। षह मर्षण इति। ननु `षह शक्यर्थे' इत्यस्यैव परस्मैपदिनोऽननुबन्धकस्य ग्रहणं प्राप्तम्, नैष दोषः; प्रत्ययविधिविषयत्वादननुबन्धकपरिभाषायाः, तस्माद् द्वयोरपि ग्रहणम्। अन्ये तु `कृत्यल्युटो बहुलम्' इति वृत्तिकारोक्तयोरेव ग्रहणमिच्छन्ति।।
गदमदचरयमश्चानुपसर्गे।। 3.1.100 ।।
गदमदचरयमश्चानुपसर्गे।। अनुपसर्गेम्य इति। सूत्रे `अनुपसर्गे' इति व्यत्ययेन पञ्चम्यर्थे सप्तमीति भावः। अत एवोपसर्गादन्योऽनुपसर्गस्तस्मिन्ननुपसर्गे उपपद इत्यर्थो न भवति। एवं हि केवलेभ्यो न स्यात्, `वदः सुपि क्यप् च' इत्यत्र सुब्ग्रहणमनर्थकं स्यात्? `अनुपसर्गे' इति हि वर्त्तते तत्र नञिवयुक्तन्यायेयेनोपसर्गसद्दशस्य सुबन्तस्य ग्रहणं भविष्यति।
नियमार्थमिति। अनुपसर्गादेव यथा स्यात्सोपसर्गान्मा भूदिति। कथं तर्हि तेन न तत्र भवेद्विनियम्यमिति? प्रमादपाठोऽयम्, विनियाम्यमिति पाठः। एतेन `इति यत्नोपचर्यम्' इति व्याख्यातम्।
चरेराङि चागुराविति। सोपसर्गार्थ वचनम्। आचया देश इति गन्तव्य इत्यर्थः। उपनेता=गुरुः।।
अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु।। 3.1.101 ।।
अवद्यपण्यवर्या गह्यपणितव्यानिरोधेषु।। अवद्यमिति। निपात्यत इति। वदेर्नञ्युपपदे `वदः सुपि क्यप् च' इति यत्कपोः प्राप्तयोर्यदेव यथा स्याद्----गर्ह्य एव च यथा स्यादित्युभयार्थ निपातनम्। अवद्यं पापमिति। अवदनार्हत्वात्। अनुद्यमन्यदिति। गुरुनामादि। तद्धि गर्ह्यं न भवत्यथ च वदनार्हमपि न भवति। अत्र क्यबेव भवति, यजादित्वात्सम्प्रसारणम्, `नलोपो नञः',`तस्मान्नुडचि'। पण्यं व्यवहर्त्तव्यमिति। निपातनस्य रूढ्यर्थत्वात् पण्यशब्दस्य च तत्रैव रूढत्वात्। उक्तं च-----
धातुसाधनकालानां प्राप्त्यर्थ नियमस्य च।
अनुबन्धविकाराणां रूढ्यर्थं च निपातनम्।। इति।
पाण्यमन्यदिति। स्तुत्यमित्यर्थः। वर्येति स्त्रियां निपात्यत इति। सूत्रेऽवद्यादीनि अविभक्तिकानि पृथक् पदानि, न तु द्वन्द्वस्य जसन्तनिर्देश इति भावः। शतेन वर्येति। `वृङ् सम्भक्तौ' इत्यस्येदं निपातनम्; तत्रैवानिरोधसम्भवात्। वृत्यान्येति। `वृञ् वरणे' `एतिस्तुशास्वृ' इत्यादिना क्यप्। वार्या ऋत्विज इति। `एतिस्तुशास्वृ' इत्यत्र वृञो ग्रहणम्, वृङस्तु स्त्रीलिङ्गादन्यत्र ऋहलोर्ण्यदेव भवति। भट्टिकाव्ये तु पुँल्लिङ्गेऽपि यदेव प्रयुक्तः----`सुग्रीवो नाम वर्योऽसौ भवता चारुविक्रमः' इति।।
वह्यं करणम्।। 3.1.102 ।।
वह्यं करणम्।। वहेर्द्धातोः करणे यत्प्रत्ययो निपात्यत इति। अर्थव्याख्यानमेतत्। `वह्यमिति निपात्यते करणं चेद्भवति' इति वक्तुं युक्तम्।।
अर्यः स्वामिवैश्ययोः।। 3.1.103 ।।
अर्यः स्वामिवैश्ययोः।। स्वमिन्यन्तोदात्तत्वञ्चेति। अथ यो वैश्यः स्वामी च, तत्र कथम्? उच्यते-----वैश्याख्यायामाद्युदात्तत्वम्, स्वाम्याख्यायामन्तोदात्तत्वम्। तथा च `अर्यस्य स्वाम्याख्यायाम्' इति फिट्सूत्रे आख्याग्रहणं कृतम्। आर्यो ब्राह्मण इति। प्राप्तव्य इत्यर्थः।।
उपसर्या काल्या प्रजने।। 3.1.104 ।।
उपसर्या काल्या प्रजने।। उपपूर्वात्सर्त्तेरिति। भौवादिकस्य जौहोत्यादिकस्य च `सर्त्तिशास्त्यर्त्तिभ्यश्च' इति निर्देशात्सूत्राद्वहिरपि लुका निर्द्देशः। प्राप्तकाला काल्येति। `तदस्य प्राप्तम्' इति वर्त्तमाने `कालाद्यत्' इति यत्। प्रजननम्=प्रजनः, भावे घञ्, `जनिवध्योश्च' इति वृद्धिप्रतिषेधः। उपसर्या गौरिति। गर्भाधानार्थ वृषभेणोपगन्तुं योग्येत्यर्थः, वृषभोपगमनस्य प्राप्तकालेति यावत्। उपसार्येति। उपसरणीया, प्राप्तव्येत्यर्थः।।
अजर्य सङ्गतम्।। 3.1.105 ।।
अजर्य सङ्गतम्।। सङ्गमने कर्त्तरीति। सूत्रे `सङ्गतम्' इति `नपुंसके भावे क्तः।' इति दर्शयति। कर्त्तरीति `तयोरेव कृत्यक्तखलर्थाः' इति भावे भा भूदिति निपातनाश्रयणम्। तेन भावे सङ्गतकर्तृकेऽपि ण्यदेव भवति----अजार्य सङ्गतेनेति। अजरितेति। तृच्।।
वदः सुपि क्यप् च।। 3.1.106 ।।
वदः सुपि क्यप् च।। अनुपसर्गे इति वर्त्तत इति। `सत्सूद्विष' इत्यादौ सूत्रे वक्ष्यति----उपसर्गग्रहणं ज्ञापकमन्यत्र सुब्ग्रहणे उपसर्गग्रहणं न भवतीति। तच्चावश्यं तथैवाश्रयणीयम्----`सुप्यजातौ' `स्पृशोऽनुदके क्विन्' इत्यादावुपसर्गग्रहणं मा भूदिति, ततश्च नार्थ इहानुपसर्गग्रहणानुवृत्त्या। सुबन्ते उपपदे अनुपसर्ग इति। यद्यपि पूर्व बहुव्रीहेः पञ्चम्यर्थे सप्तमीति व्याख्यातम्, इह तु विरोधाभावात्तत्पुरुषात्स्वार्थ एव सप्तमीति भावः। ब्रह्मोद्यमिति। भावे क्यप्, पूर्ववत्संप्रसारणम्। ब्रह्मवेदः, तस्य वदनमित्यर्थः। कथं पुनः सकर्मकाद्भावे कृत्यप्रत्ययः यावता भावे चाकर्मकेभ्यः `तयोरेव कृत्यक्तखलर्थाः' इति वक्ष्यति; न च कर्माविवक्षयाऽकर्मकत्वम्; ब्रह्मेति कर्मणः श्रुतत्वात्? तस्मादुत्तरसूत्रादिह भावग्रहणमपेक्षणीयमित्याहुः।।
भुवो भावे।। 3.1.107 ।।
भुवो भावे।। यत्तु नानुवर्तत इति पूर्वसूत्रे चानुकृष्टत्वात्। ननु `तयोरेव कृत्यक्तखलर्थाः' इति भावकर्मणोः कृत्या विधीयन्ते, `अनुपसर्गे' इति चानुवर्त्तते, अनुपसर्गश्च भवतिरकर्मक एव, अतः सामर्थ्याद्भाव एव भविष्यति? ननु च प्राप्त्यर्थः सकर्मक एव? सत्यम्; व्यक्तिनिर्द्देशात्, प्राथम्याच्च सत्तार्थस्यैव ग्रहणम्। न चच कालादिकर्मणि प्रसङ्गः अनभिधानात्, तत्किमर्थ भावग्रहणम्? इत्यत्राह---भावग्रहणमुत्तरार्थमिति। `हनस्त च' इति सकर्मकादपि हनो भावे यथा स्याद्---ब्राह्महत्या वर्तत इति, कर्मणि मा भूत्----त्वया घात्यो वृषल इति।।
हनस्त च।। 3.1.108 ।।
हनस्त च।। ब्रहामहत्येति। स्वभावतः स्त्रीलिङ्गत्वमस्य क्यबन्तस्य, यथान्येषां भावे कृत्यानां नपुंसकत्वम्। छन्दसि तु क्यबन्तस्यापि नपुंसकत्वमिष्यते----सनादेव दस्युहत्याय जज्ञिषे। छन्दिस च स्त्रियां चिद्वक्तव्यः----अस्यै ब्रह्महत्यायै तृतीयं परिगृहाणेति। प्रघातो वर्तत इति। किं पुनः कारणं घञ् प्रत्युदाह्रियते, न ण्यदित्यत आह----ण्यत्तु भावे न भवतीति। कर्माविवक्षायामकर्मकत्वे सत्यपीति भावः। सकर्मकात्तु भावे ण्यतः प्राप्तिरेव नास्ति।।
एतिस्तुशास्वृद्दजुषः क्यप्।। 3.1.109 ।।
एतिस्तुशास्वृद्दजुषः क्यप्।। `एति' इति तिपा निर्द्देशः किमर्थः? धातोग्रंहणं यथा स्यादिवर्णान्तस्य मा भूदिति। अत्र चेण एव ग्रहणम्, नेङिकोः, तयोरधिपूर्वयोरेव प्रयोगादेतीति निर्देशानुपपत्तेः। तथा च----`रक्षार्थ वेदानामध्येयं व्याकरणम्' इति भाष्ये यदेव प्रयुक्तः। केचित्तु `इण्वदिक इति वक्तव्यम्' इति वचनादधीत्या मातेत्यप्युदाहरन्ति। स्तुत्य इति। ह्रस्वस्य तुक्। शिष्य इति। `शास इदङ्हलोः' इतीत्त्वम्, `शासिवसिघसीनां च' इति षत्वम्, `आङः शासु इच्छायाम्' इत्यस्यापि ग्रहणमविशेषात्। तेनाशास्यमिति धातुस्वरेण मध्योदात्तं पदं भवति। ण्यति तु `गतिकारकोपपदात्कृत्' इति अन्तस्वरितत्वं स्यात्। केचित्तु `शासु अनुशिष्टौ' इत्यस्यैव ग्रहणमिच्छन्ति। ओरावश्यक इत्यादि। इह स्तुग्रहणस्यावकाश आवश्यकाविवक्षायाम्----स्तुत्य इति; `ओरावश्यके' इत्यस्यावकाशः----अवश्यलाव्यमिति; अवश्यस्तुत्य इत्यत्रोभयप्रसङ्गे परत्वाद् ण्यत्स्यात्, पुनः क्यब्ग्रहणात्क्यबेव भवति। वृग्रहणे वृञो ग्रहणमिष्यते न वृङ इति। ज्ञापकात्, यदयम् `ईडवन्दवृशंसदुहां ण्यतः' इति वार्यशब्दस्याद्युदात्तत्वं शास्ति, तत्र चेडिवन्दिभ्यां साहचर्यादात्मनेपदिनो वृङो ग्रहणम्।
शंसिदुहीत्यादि। `शंसु स्तुतौ' `दुह प्रपूरणे' गुहू `संवरणे' । शस्यमिति। क्यप्पक्षे उपधालोपः। भाष्ये एतदुपसङ्ख्यानं न द्दष्टम्।
आङ्पूर्वादिति। `अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु'। आज्यमिति। `कृत्यल्युटो बहुलम्' इति करणे क्यप्, पूर्वदुपधालोपः। अथ कस्माद् ण्यत्येवोपधालोपो नोक्तः? कुत्वप्रसङ्गात्तित्स्वरप्रसङ्गाच्च। तस्मात्क्यबन्त एषः। यद्येवम्, अवग्रहः प्राप्नोति---आज्यमित्या अज्यमिति? अवगृह्यताम्, को दोषः? न हि लक्षणेन पदकारा अनुवर्त्त्याः, किन्तु पदकारैर्नाम लक्षणमनुवर्त्त्यम्। पदविच्छेदो हि पौरुषेयः, संहितैव तु नित्या। अर्थ चार्थनिश्चयाभावे नावगृह्णन्ति; यथा---- हरिव इति, किं हरिशब्द इकारान्त उत हरिच्छब्दस्तकारान्त इति सन्देहात्।
कथमिति। इण एवैतद्रूपमिति मन्यमानस्य प्रश्नः। एरिति। `इ गतौ' इत्यस्य।।
ऋदुपधाच्चाक्लृपिचृतेः।। 3.1.110 ।।
ऋदुपधाच्चाक्लृपिचृतेः।। क्लृपिचृती वर्जयित्वेति। `क्लृपू सामर्थ्ये' `चृती हिंसाग्रन्थनयोः' कृपेर्लत्वस्यासिद्धत्वाद्दकारलृकारयोस्सवर्णसंज्ञाविधानाच्च ऋदुपधात्वम्। कॄत संशब्दने ण्यदेव भवतीति। `अनित्यण्यन्ताश्चुरादय' इति णिजभावपक्ष इति भावः। इदमेव च तपरकरणं लिङ्गम्----अनित्यण्यन्ताश्चुरादय इति। णिजन्तात्तु णिलोपे कृते चाकृते च दित्स्यं धित्स्यमितिवद्यदेव भवति।
पाणिसर्ग्येति। पाणिभ्यां सृज्यत इत्युपपदसमासः, पूर्ववत्कुत्वम्। एवं समवसर्ग्येत्यत्रापि।।
ई च खनः।। 3.1.111 ।।
ई च खनः।। दीर्घोच्चारणं किमर्थम्, न `इ च खनः' इत्येवोच्येत, दीर्घस्य ह्रस्वस्य वा आद्गुणे नास्ति विशेषः, ह्रस्वादेशे `षत्वतुकोरसिद्धः' इत्येकादेशस्यासिद्धत्वाद् ध्रस्वाश्रयस्तुक् स्यादिति चेत्? न; पदान्तपदाद्योरेकादेशस्तुग्विधावसिद्धः, अन्यथा वृक्षेच्छत्रमिति ङावाद्गुणस्यासिद्धत्वाद् `छे च' इति ह्रस्वाश्रयो नित्यस्तुक् स्यादित्यत आह----दीर्घनिर्द्देश इत्यादि। एतेन ह्रस्वद्वयमत्र विधीयते, न दीर्घ इति दर्शयति। पूर्व तु यथाश्रुताश्रयणेनोक्तमीकारश्चान्तादेश इति। तत्रेति। प्रश्लेषे सति। ये विभाषेत्यात्वबाधनार्थ इति। अन्यथा `ये विभाषा' इत्यस्यावकाशः---खायते, खन्यते; अस्य त्ववकाशः----यस्मिन्पक्षे आत्वं नास्ति; आत्वपक्षे उभयप्रसङ्गे परत्वादन्तरङ्गत्वाच्चात्वं स्यात्। एतच्च `ये विभाषा' इति विषयसप्तमीपक्ष उच्यते। तदा हि यकारादौ बुद्धिस्थ एव भवदात्त्वमन्तरङ्गम्, अयं त्विकारः क्यपा सह विधानाद्वहिरङ्गः। परसप्तमीपक्षे त्विदमेवेत्त्वमन्तरङ्गम्, परनिमित्तमनपेक्ष्य विधानात्।।
भृञोऽसंज्ञायाम्।। 3.1.112 ।।
भृञोऽसंज्ञायाम्।। भर्तव्या इत्यर्थ इति। एतेन क्रियाशब्दत्वं दर्शयन् संज्ञात्वमपाकरोति। संपूर्वाद्विभाषेति। असंज्ञायामेव सूत्रेण नित्यं प्रसक्तस्य क्यपोऽयं विकल्पः। प्राप्तविभाषेत्यर्थः।
संज्ञायामित्यादि। प्रतिषेधस्येति शेषः। असंज्ञायामित्यस्य प्रतिषेधस्य भार्यो नाम क्षत्रिय इत्यत्र पुंसि द्दष्टत्वाच्चरितार्थत्वान्न ते=सूत्रकारस्य भार्या शब्दः सिद्ध्यतीत्यपर्थः। पुंसि चरितार्थे हि प्रतिषेधे स्त्रियां क्यपा भवितव्यम्। ननु भार्याशब्दोऽपि संज्ञा, अभ्रियमाणापि हि भार्या भार्येत्युच्यते, तत्कुतोऽस्य क्यपः प्रसङ्गः? न ब्रूमोऽनेन क्यपा भवितव्यमिति; यस्तु संज्ञायामेव विधीयते `संज्ञायां समजनि' इत्यादिना, तस्यात्र प्रसङ्गः। न च तस्यापि प्रतिषेधसामर्थ्यान्निवृत्तिः, पुंसि प्रतिषेधस्य चरितार्थथ्वादिति चोद्यम्। उत्तरमाह---स्त्रियां बावाधिकारोऽस्तीति। ननु `सञ्ज्ञायां समजनिषद' इत्यत्र वक्ष्यति---`भाव इति न स्वर्यते पूर्वक एवार्थाधिकारः' इति, यथा---समजन्ति तस्यामिति समज्या, निषदन्ति तस्यामिति निषद्येत्यादि भवति, तत्कथमिदमुच्यते----स्त्रियां भावाधिकारोऽस्तीति? नेदमपूर्व चोद्यम्, वृत्तिकार एव हि तत्र वक्ष्यति----कथं तदुक्तं स्त्रियाम् भावाधिकारो ऽस्तीति। स्त्रियां स्त्रीप्रकरणे `संज्ञायां समजनि' इत्यादिना क्यपि विधीयमाने भावस्याधिकारोऽभिधेयभावोपगमलक्षणो व्यापारोऽस्ति; शब्दशक्तिस्वाभाव्याद्। भाव एव तेन क्यब् भवति, न कर्मणि, तेन भार्या प्रसिद्ध्यतीति कर्मणीत्यभिप्रायः। `एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य' इति `भृञ् भरणे' इत्यस्यैव क्यब्विधौ ग्रहणम्, न `डुभृञ् धारणपोषणयोः' इत्यस्य। अतस्तस्माद्वा `भृञ् भरणे' इत्यस्माद्दीर्घान्ताद्वा भार्येति प्रसिद्ध्यतीति परिहारान्तरमप्यत्र सम्भवति।।
मृजेर्विभाषा।। 3.1.113 ।।
मृजेर्विभाषा।। परिमार्ग्य इति। `मृजेर्वृद्धिः' पूर्ववत्कुत्वभ्।।
राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः।। 3.1.114 ।।
राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः।। राज्ञा सोतव्य इति। अभिषिक्तः क्षत्रियो राजा, तेन सोतव्योऽभिषवद्वारेण निष्पादयितव्य इत्यर्थः, कर्मणि क्यब् दीर्घत्वं च निपात्यते। राजा वा इह सूयत इति। अत्र पक्षे लतात्मकः सोमो राजा, राजानं क्रीणन्तीत्यादौ दर्शनात्। सुनोतिरत्राप्यभिषवे। अधिकरणे क्यब्निपातनं रूढ्यर्थम्, तेन ज्योतिष्टोमादौ न भवति। पूर्वस्मिन्नपि पक्षेऽश्वमेधादावतिप्रसङ्गः। सूसतिभ्यामिति। ननु `सर्तेरुत्वं सुवतेर्वा रुडागमः' इत्यभिधानाद्विकल्पोऽत्राभिप्रेत इति चार्थाभावाद् द्वन्द्वानुपपत्तिः? भाष्यकारप्रयोगात्तु द्वन्द्वः। प्रयुक्तं हि भाष्ये `सूसर्त्तिभ्यां च सर्त्तेरुत्वं सुवतेर्वा रुडागमः' इति। सर्तरुत्वमिति। दीर्घत्वं तु रपरत्वे सति `हलि च' इत्येव सिद्धम्। सुवतेर्वा रुडागम इति। सुवतेरिति पञ्चमी, सुवतेः परस्य क्यप इत्यर्थः। रुगागम इति पाठे षष्ठी। सरतीति आकारो। `षू प्रेरणे' तुदादिः, कर्मणि लोकं प्रेरयतीत्यर्थः, उदिते हि तस्मिन्क्रियासु लोकस्य प्रवृत्तिः। कर्तृ प्रत्ययेन कर्त्तरि निपातनं दर्शयति। एवं रुच्याव्यथ्ययोरपि द्रष्टव्यम्। आह च `सूर्यरुच्याव्यथ्याः कर्त्तरि' इति। कुप्यमिति। संज्ञायामेतदिष्यते, सुवर्णरजतव्यतिरिक्तस्य धनस्येयं संज्ञा। सर्वत्रातिप्रसङ्गो निपातनाश्रयेण परिहार्यः। कर्मकर्तरि निपातनमिति। अन्तोदात्तस्य चेति द्रष्टव्यम्। आह हि----`कृष्टपच्यस्यान्तोदात्तत्वं कर्मकर्तरि च' इति। शुद्धे तु कर्मणि कृष्टपाक्य इत्येव भवति।।
भिद्योद्ध्यौ नदे।। 3.1.115 ।।
पुष्यसिद्ध्यौ नक्षत्रे।। 3.1.116 ।।
पुष्यसिद्ध्यौ नक्षत्रे ।। पुष्यन्त्यस्मिन्नर्था इति। आरब्धा इति शेषः। सिद्धन्त्यस्मिन्निति। अत्रार्था इत्यपेक्ष्यते। पुष्पसिद्धशब्दौ पर्यायौ। स्वरूपपरत्वात्तु सूत्रे द्वन्द्वः।।
विपूयविनीयजित्या मुञ्जकल्कहलिषु।। 3.1.117 ।।
लिपूयविनीयजित्या मुञ्जकल्कहलिषु।। विपूयो मुञ्ज इति। रज्वादिकरणाय शोधयितव्य इत्यर्थः। विनीयः कल्क इति। कल्कशब्दोऽयमस्ति पिष्ट औषधे----`पथ्या सुण्ठी सैन्धवांशस्य कल्कः पेयो नित्यं सर्वरोगक्षयाय' इति, तैले घते वा औषधे प्रक्षिप्ते यदजीषं तत्रापि वर्त्तते, तापे च प्रसिद्धः----`तपो न कल्कोऽध्ययनं न कल्कः' इत्यादौ; इह तु प्रथमस्य ग्रहणमिति केचित्। विशेषेणेति वयम्, तथा च माघः प्रायुङ्क्त----`अविनीय संभ्रमविकासिभक्तिभिः' इति। जित्य इति। बलेनाक्रष्टव्यः। कृष्टसमीकरणार्थं स्थूलं काष्ठं हलिरिच्युत्यते।।
प्रत्यपिभ्यां ग्रहेश्छन्दसि।। 3.1.118 ।।
पदास्वैरिबाह्यापक्ष्येषु च।। 3.1.119 ।।
पदास्वैरिबाह्यापक्ष्येषु च।। अस्वैरिणीति। `ईर प्रेरणे' स्वयमेवेरितुं शीलमस्या इति ताच्छीलिको णिनिः, `स्वादीरेरिणोः' इति वृद्धिः। बाह्यायामिति। बहिर्भवा `बहिषष्टिलोपश्च' इति यञ्टिलोपौ, पक्षे भवः पक्ष्यः दिगादित्वाद्यत्। यस्य प्रगृह्यसंज्ञा विहितेति। ननु पदावयवस्य द्विवचनादेः प्रगृह्यसंज्ञा, न तु पदस्य? सत्यम्; यौगिकस्त्वयं पदशब्दः----पद्यते मग्यतेऽनेनार्थ इति। यद्वा प्रातिशाख्ये द्विवचनान्ते पद एव प्रकृह्यशब्दः प्रसिद्धः। सन्निकर्षोऽत्र गृह्णातेरर्थः। स्वरसन्ध्यभावादग्नी इत्यादौ कियतापि कालेन व्यवधानात्परस्परमचो न सन्निकृष्यन्ते। अवगृह्यमिति। समासे पूर्वपदम्, तत्र हि पदकालेऽवग्रहो विच्छेदः गृह्यका इमे गृहीतिका इत्यर्थ इति। उभयत्रानुकम्पायां कन्। पञ्जरादिबन्धेन परतन्त्रीकृताः शुकादय उच्यन्ते। ग्रामगृह्येति। शेषलक्षणायाः षष्ठ्याः समासः। वासुदेवगृह्येत्यत्र तु कर्त्तरि षष्ठ्याः शेषषष्ठ्या वा समासः।।
विभाषा कृवृषोः।। 3.1.120 ।।
विभाषा कृवृषोः।। वृष्यमिति। `वृषु सेचने'।।
युग्यं च पत्त्रे।। 3.1.121 ।।
युग्यं च पत्त्रे।। पतत्यनेनेति पत्त्रमिति। `दाम्नीशस' इत्यादिना करणे ष्ट्रन्। `तद्वहति रथयुगप्रसङ्गम्' इति प्राग्दीव्यतीयेनैव यथा सिद्धम्। स्वरेऽपि नास्ति भेदः----क्यपि धातुस्वरः, यत्यपि `यतोऽनावः' इत्याद्युदात्तत्वम्, अयुग्यमित्यत्रापि न स्वरे भेदः, `ययतोश्चातदर्थे' `कृत्योकेष्णुच्चार्वादयश्च' इत्युभयत्रान्तोदात्तविधानात्।।
अमावस्यदन्यतरस्याम्।। 3.1.122 ।।
अमावस्यदन्यतरस्याम्।। अमाशब्दः सहार्थे वर्तत इति। अमात्य इत्यादौ दर्शनात्। तस्मिन्नुपपद इति। उपपदत्वमपि निपातनादेव, अमेति वा सप्तम्या लुका निर्देशः। तकारोच्चारणात्प्रकृतस्य क्यपस्तावन्निपातनं न भवति। यदि तु परमप्रकृतस्य यतो निपातनं स्यात् स्वरे दोषः----स्यात्---यति सति वस्याशब्दे `यतोऽनावः' इत्याद्युदात्तत्वम्; कृदुत्तरपदप्रकृतिस्वरत्वेऽपि स एव स्वरोऽवतिष्ठेत, ण्यति त्वन्तस्वरितत्वं भवति। तथा यता मुक्तेऽमावास्येत्यधिकरणे ण्यन्न प्राप्नोति, `कृत्यल्युटो बहुलम्' इति भविष्यति। एवमप्युपपदसमासो न प्राप्नोति? मयूरव्यंसकादित्वाद्भविष्यति। एवमपि `गतिकारकोपपदात्' इति स्वरो न प्राप्नोति? तथा `अमावास्याया वा' इति ण्यदन्तस्य यत्कार्थ तद्यदन्तस्यामावस्यशब्दस्य न स्याद्, भिन्नत्वात्? इति यदन्तपक्षे दोषं द्दष्ट्वा प्रकृतस्यापि ण्यत एव निपातनमित्याह----ण्यत्प्रत्ययो भवतीति। किं तर्हि उच्यते-----ण्यत्प्रत्ययो भवतीति, न पुनर्ण्यत्प्रत्ययो निपात्यत इति? सत्यम्, स एवार्थः, निपातनाद् ण्यत्प्रत्यो भवतीत्यर्थः। अन्यतरस्यां वृद्ध्यभावो निपात्यत इति। ण्यत्प्रत्ययो नित्यः, वृद्ध्यभावस्तु पाक्षिक इत्यर्थः। सह वसत इति। सन्निकृष्टौ वसत इत्यर्थः। यदुक्तम्---ण्यत्प्रययो निपात्यत इति, तत्रायं गुण इत्याह---एकदेशविकृतस्यानन्यत्वादिति। ण्यति ह्यमावास्येति स्वतः प्राप्तं रूपम्, वृद्ध्यभावस्तु तस्यैव विकार इति भावः। यद्वा-----ण्यति वृद्धौ कृतायां पक्षे ह्रस्वोऽपि निपात्यते, स एव वृद्ध्यभाव उक्तः। एवं श्लोकेऽप्यवृद्धितामिति।
किमत्र निपात्यत इत्याशङ्कायां श्लोकः-----अमावसोरित्यादि। वृद्धिभावाभावकृतविशेषाश्रयो द्विवचननिर्द्देशः। निपातयामीति। एकस्यैवेति शेषः, अभापूर्वयोर्वसोर्ण्यन्तयोर्मध्य एकस्य वृद्ध्यभावमहं निपातयामीत्यर्थः। सूत्रकारेणैक्यमापन्नस्यैतद्वचनम्। तथा सति किं सिद्धमित्यत्राह---तथेति। एका तद्धितवृत्तिरेकदेशविकृतस्यानन्यत्वाद् एतयोर्द्वयोरपि सिद्ध्यतीत्यर्थः। स्वरश्च मे प्रसिद्ध्यतीति। एवं निपातयतो मम स्वरोऽपि सिद्ध्यति। व्याख्यातः स्वरः।।
छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्थस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छच्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि।। 3.1.123 ।।
छन्दसि निष्टर्क्यदेबहुयचप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृदानि।। नुगभावश्चेति। यदा जुहोतेस्तदेति भावः। उपचाय्यपृडमिति। `मृड सुखे'`पृड च' इत्येतस्मात् `इगुपधलक्षणः कः, उपचाय्यं च तत्पृडं चेति कर्मधारयः। हिरष्ये चेति वक्तव्यमिति। हिरण्येऽभिधेय इत्यर्थः। व्यत्ययमिति। आद्यन्तविपर्यास इत्यर्थः।
ण्यदेकस्मादिति। एकस्माद्वातोर्ण्यत्प्रत्ययो निपात्यते, तदनन्तरेषु देवहूयादिषु चतुर्षु चतुर्भ्यो धातुभ्यः क्यब् निपात्यते, उपसर्गभेदान्नयतेर्भेदः। द्वौ क्यपाविति। द्वाभ्यां धातुभ्यां द्वौ क्यपौ निपात्येते इत्यर्थः। ण्यद्विधिश्चतुरिति। सुजन्तमेतत्, क्रियाभ्यावृत्तिवाचिचतुरो वा ण्यद्विधीयत इत्यर्थः।।
ऋहलोर्ण्यत्।। 3.1.124 ।।
ऋहलोर्ण्यत्।। ऋवर्णान्तादिति। अर्त्तेस्तु ग्रहणं न भवति; हला साहचर्यात्, परं कार्यमिति निर्द्देशाद्, `ईडवन्दवृशंसदुहां ण्यतः' इति लिङ्गाच्च।।
ओरावश्यके।। 3.1.125 ।।
ओरावश्यके।। अवश्यं भाव आवश्यकमीति। मनोज्ञादित्वाद् वुञ्, अव्ययानां भमात्रे टिलोपः। किं पुनरवश्यार्थवाचिन्युपपदे प्रत्यये? आहोस्विदावश्यके द्योत्ये? तत्राद्ये पक्षे उपपदरहितात्प्रत्ययो न स्यात्---लाव्यं पाव्यमिति, तस्माद् द्वितीयः पक्ष आश्रीयत इत्याह---आवश्यके द्योत्य इति।
स्वरसमासानुपपत्तिरिति। उपपदपक्षे उपपदसमासो लभ्यते, गतिकारकोपपदात्कृदित्युत्तरपदप्रकृतिस्वरत्वं च; द्योत्यपक्षे त्वेतदुभयमपि न सिद्ध्यतीत्यर्थः। अवश्यलाव्यमीति। `लुम्पेदवश्यमः कृत्ये' इति मलोपः। द्योतितार्थस्यापि क्वचित्प्रयोगो द्दश्यते, लाघवं प्रत्यनादरात्। न त्वेतदत्र वक्तव्यम्; `लुम्पेदवश्यमः कृत्ये' इति वचनादेव द्योतिते अवश्यमः प्रयोग इति तस्यावश्यकर्त्तव्यादौ चरितार्थत्वात्। मयूरव्यंसकादित्वादिति। तस्याकृतिगणत्वादिति भावः। उत्तरपदप्रकृतिस्वरत्वे चेति । मयूरव्यंसकादिनिपातनादेव स्वरोऽपि भविष्यतीत्यपि शक्यं वक्तुम्।।
आसुयुवपिरपिलपित्रपिचमश्च।। 3.1.126 ।।
आसुयुवपिरपिलपित्रपिचमश्च।। पुप्रभृतीनां द्वन्द्वेन आसुनोतेर्द्वन्द्व इत्याहुः। सुनोतेरभिसम्बन्धस्तदाह---आङ्पूर्वात्सुनोतेरिति। `षु प्रसवैश्वर्ययोः' इत्यस्यत्वग्रहणम् `कृत्यल्युटो बहुलम्' इति। `यु' इति `युमिश्रणे इत्यस्य ग्रहणम्। `युञ् बन्धने' इत्यस्य तु सानुबन्धकत्वादग्रहणम्। यतोऽपवाद इति। `अचो यत्' `पोरदुपधात्' इति यथायोगं प्राप्तस्य। दाभ्यमिति। दभेर्धातुष्वपठितस्यापि चुरादौ `बहुलमेतन्निदर्शनम्' इति वचनाच्छिष्टप्रयोगाच्च क्षपयत्यर्थयत्यवधीरयत्यादिवद्धातुत्वं द्रष्टव्यम्।।
आनाय्योऽनित्ये।। 3.1.127 ।।
आनाय्योऽनित्ये।। रूढिरेषेति। तेन घटादावतिप्रसङ्गो नोद्भावनीय इति। निपातनाच्च रूढित्वम्। उक्तं हि----रूढ्यर्थं च निपातनमिति। कुतः पुनरनित्यत्वमित्यत्राह---तस्य चानित्यत्वमिति। नित्यमजागरणादिति। सततमज्वलनादित्यर्थः, ज्वलनमेव हि तस्य जागरणम्। दक्षिणाग्नावपि विशिष्ट एवेष्यते, न सर्वत्रैवेति दर्शयति---यश्चेति। योनिः=उत्पत्तिस्थानम्। वैश्यकुलादित्यादिनायोनिविकल्पं दर्शयति।
आनाय्योऽनित्य इति चेदिति। घटादिष्वपि प्रसङ्ग इति शेषः। भवेदिति। सम्भावने लिङ्। निपातनादेव सम्भाव्यत इत्यर्थः। एकयोनाविति। आहवनीयेन। आनेयो ह्यन्यथा भवेदिति। घटादावनित्येभिन्नयोनौ च दक्षिणाग्नौ, `अचो यत्' इति यदेव भवतीत्यर्थः।।
प्रणाय्योऽसम्मतौ।। 3.1.128 ।।
प्रणाय्योऽसम्मतौ।। असम्मताविति बहुब्रीहित्याह---अविद्यमाना संमतिरस्मिन्निति। सम्मतिश्चात्र संमननं प्रीतिविषयभावोपगमनं कर्मव्यापारो विवक्ष्यते, न संमन्तृव्यापारः; तथा सत्यसंमन्तरि निपातनप्रसङ्गात्, तस्य चानिष्टत्वादित्यभिप्रायेणाह----संमतता संमतिरिति। संमतिरमिलाषोऽप्युच्यत इति। भोगविषयोऽप्यादरः सम्मतिशब्देनोच्यते, तन्त्रेणेत्यर्थः।।
पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु।। 3.1.129 ।।
पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु।। मीयतेऽनेनेति मानम्, हूयत इति हविः, निवसत्यस्मिन्निति निवासः, समिधामाधानी ऋक् सामिधेनी। माङो ण्यत्प्रत्यय इति। करणे तत्र `आतो युक् चिण्कृतोः' इति युक्। मेयमन्यदिति। भावकर्मणोर्यदेव भवतीत्यर्थः। सान्नाय्यमिति। सम्यग्नीयते होमार्थमग्निं प्रतीति कर्मणि ण्यत्। हविर्विशेष इति। ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्यायामिति विहितयोर्दधिपयसोः। माघस्तु यथाश्रुतार्थग्राही हविर्मात्रे प्रायुङ्क्त----`हुतमयमवलीढे साधु सान्नाय्यमग्निः' इति। निचीयतेऽस्मिन्धान्यादिकमिति अधिकरणे ण्यत्। धाय्येति। धीयतेऽनया समिदिति करणे ण्यत्, पूर्ववद्युक्। ऋग्विशेषस्येति। `प्रवोवाजा अभिद्यवः' इत्यादिकस्य। कि तर्हि काचिदेवेति। समिध्यमानवतीं समिद्धवतीं चान्तरेण विकृतिषु प्रक्षिप्यमाणा पृथुयाजा अमर्त्य इत्यादिका। कथं पुनरयं विशेषो लभ्यत इत्याह----रूढिशब्दोह्य यमिति। अत एव निपातनाश्रयणमिति भावः। रूढित्वमेव द्रढयति----तथा चेति। धाय्याः शंसतीति ज्योतिष्टोमे मरुत्त्वतीये शस्त्रे विधानमेतत्। सामिधेनीग्रहणं प्रयोगविषयोपलक्षणार्थमिति भावः।।
क्रतौ कुण्डपाय्यसंचाय्यौ।। 3.1.130 ।।
क्रतौ कुण्यपाय्यसंचाय्यौ।।ण्यति प्रकृते यत्प्रत्ययान्तः कुण्डपाय्यशब्दो निपात्य इत्युक्तम्, तत्र प्रयोजनमाह---यतोऽनाव इतीति। यदुत्तरपदस्याद्युदात्तत्वं कृदुत्तरपदप्रकृतिस्वरेण स एव स्वरः सिद्धो भवतीत्यर्थः। ण्यति तु स्वरितत्वं स्यात्।।
अग्नी परिचाय्योपचाय्यसमूह्याः।। 3.1.131 ।।
अग्नी परिचाय्योपचाय्यसमूह्यः।। अग्नाविति। न ज्वलने, किं तर्हि? तदर्थइष्टकाचयनविशेषे; तत्रैव रूढत्वात्। इह संपूर्वात् `ऊह वितर्के, इत्यस्मादनेकार्थत्वाद्वहेरर्थे वर्त्तमानाद्धलन्तत्वाद् ण्यति समूह्यमिति सिद्धम्। तथा च----`समूह्यं चिन्वीत पशुकामः पशवो वै पुरुषः पशूनेवास्य तत्समूहति' इति वह्यर्थेनोहिना ब्राह्मणे समूह्यशब्दो निरुक्तः।।
चित्याग्निचित्ये च।। 3.1.132 ।।
चित्याग्निचित्ये च।। चित्योऽग्निरिति। कर्मणि यदपवादः क्यब् निपात्यते, तेनाद्युदात्तत्वं भवति। भावे यकारप्रत्यय इति। किमर्थ पुनरत्रापि क्यबेव न निपातितः, एवं हि तुग निपात्यो न भवति, तत्राह---तेनान्तोदात्तत्वं भवतीति। अग्नावित्येवेति। तच्च चित्यशब्दस्यैव विशेषणार्थम्, नाग्निचित्याशब्दस्य; तस्य भावे निपातितत्वात्। तदेतद्दर्शितम्---चेयमन्यदिति।।
ण्वुल्तृचौ।। 3.1.133 ।।
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः।। 3.1.134 ।।
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः।। आदिशब्दः प्रत्येकमभिसम्बद्ध्यत इति। गणपाठादिति भावः। अपोद्धृत्य ये पठ्यन्त इति। ते गृह्यन्त इत्यन्वयः। अपोद्धृत्येति बुद्ध्या पृथक्कृत्येत्यर्थः। किमर्थ पुनरपोद्धृत्य प्रत्ययविधानम्, यावता नन्दनादीनां गणपाठादेव सिद्धं साधुत्वम्? उच्यते---असत्यस्मिन्नष्टाध्याय्यां क्वचिदप्यनुपयोगाद्रणत्रपयाठोऽनार्षोऽध्यवसीयेत।
नन्दिवाशीत्यादि। `टुनदि समृद्धौ', `वाश्रृ शब्दे',`मदी हर्षे', `दुष वैकृत्ये',`राध साध संसिद्धौ',`वृधु वृद्धौ',`शुभ शुम्भ शोभार्थे',`रुच दीप्तौ'। दूषण इति। `दोषो णौ' इत्यूत्वम्। सहितपीत्यादि। `षह मर्षणे', तप सन्तापे',`शमु दमु उपशमे'। जल्पन इत्यादि। `जल्प जप वक्तायां वचि'। `रमु क्रीडायाम्',`द्दप हर्षविमोचनयोः',`क्रदि आह्वाने रोदने च'। `कृष विलेखने',`हृषु अलीके'। `अर्द्द हिंसायाम्',जनमर्द्दयतीति जनार्दनः, कर्मण्यणि प्राप्ते। एवमुत्तरत्रापि कर्मण्युपपदे द्रष्टव्यम्। `यु मिश्रणे',`षूद क्षरणे'। मधुनाऽसुरः, तं सूदयतीति मधुसूदनः। `ञिभी भये', णिचि `भियो हेतुभये षुक्'। `लूञ् छेदने',`णश अदर्शने',`दमु उपशमे,----ण्यन्तौ, चित्तं नाशयतीति चित्तनाशनः, कुलं दमयतीति कुलदमनः।
ग्राहीत्यादि। `ग्रह उपदाने',`षह मर्षणे',`तसु उपक्षये',`दसु च',`भस भर्त्सनदीप्त्योः'। तिष्ठतेरातो युक्। `मत्रि गुप्तभाषणे' चुरादिः, अर्द्द हिसायाम्। रक्षेत्यादि। `रक्ष पालने',`श्रु श्रवणे',`डुवप् बीजसन्ताने',`शो तनूकरणे'---एषा निशब्द उपपदे णिनिः। याचीत्यादि। `टुयाचृ याच्ञायाम्',`हृञ् हरणे',`व्रज गतो'`वदव्यक्तायां वाचि',`वस निवासे'---एषां प्रतिषिद्धानां णिनिभवति, प्रातषिद्धार्थानामित्यर्थः। प्रतिषिद्धार्थता च नञ्पूर्वाणां भवतीति दर्शयति। अयाचीत्यादि। यद्यपि विशब्दोऽपि विगर्द्दभरथिरित्यादौ प्रतिषेधे द्दष्टः, याच्यादीनां तु विपूवाणा णिनिर्न द्दश्यत इति नञ्येव णिनिर्विज्ञायते। अचामित्यादि। अजन्तानां धातूनामचित्तकर्तृकाणां प्रतिषिद्धार्थानां णिनिर्भवति, न विद्यते चित्तमस्येत्यचित्तः स कर्त्ता येषां ते तथोक्ताः। विशयी विषयीति। `शीङ् स्वप्ने',`षिञ् बन्धने', वृद्ध्यभावो निपातनात्। अभिभावी भूत इति। अभिभूतवानभिभावी। अपराधी, अवरोधी। `राध साध संसिद्धौ',`रुधिर् आवरणे'। परिभवी, परिभावीति। पक्षे वृद्ध्यभावः।
पचेत्यादि। `डुपचष्पाके'। `वच परिभाषणे',डुवपिरुक्तार्थः, एवं वदिरपि। `चल कम्पने',`पत्लृ गतौ'। नदडिति। `नद अव्यक्ते शब्दे'। ठकारो ङीबर्थः, एवमुत्तरत्रापि। `भष भर्त्सने',प्लुङ् गतौ',`चर गत्यर्थः',`गॄ निगरणे',`तॄ प्लवनतरणयोः',`चुर स्तेये',`दिवु क्रीडादौ',`सूदिरुक्तार्थः,`जॄष् वयोहानौ',मृङ् प्राणत्यागे',`क्षमूष् सहने',`षिवु तन्तुसन्ताने',`मिष स्पर्द्धायाम्',`कुप क्रोधे',`मिधृ मेधाहिसनयोः',`व्रण गात्रचूर्णने'चुरादिः, `नृती गात्रविक्षेपे',`द्दशिर् प्रेक्षणे',`सृप्लृगतौ'। `डुभृझ् धारणपोषणयाः',जारं विभर्तीति जारभरा। एवं श्वानं पचतीति श्वपचा, न्यङ्क्वदिषु श्वपाकशब्दस्य पाठात्पक्षे कर्मण्यणपि भवति। पचादिराकृतिगण इति। तत्सम्बन्धिन आदिशब्दस्य प्रकारवचनत्वात्। तथा च `शिवशमरिष्टस्य करे' इति कृञोऽच् प्रत्ययः कृतः। घटेश्च `कर्मणि घटोऽठच्' इति। तथा यङन्तानां `यङोऽचि च' इति यङोऽस्मिन्नचि लुगुक्तः। भाष्ये च `अजपि सर्वधातुभ्यो वक्तव्यः' इत्युक्तम्। पचाद्यनुक्रमणं तु नदडित्यादावनुबन्धासञ्जनार्थम्, कर्मोपपदानाम् इगुपधानां च बाधकबाधनार्थम्, देवेडित्युभयार्थम्, अन्येषां तु प्रपञ्चार्थ द्रष्टव्यम्।।
इगुपधज्ञाप्रीकिरः कः।। 3.1.135 ।।
इगुपधज्ञाप्रीकिरः कः।। इगुपधादीनां समाहारद्वन्द्वे नपुंसकत्वेन ह्रस्वप्रसङ्गदितरेतरयोगे द्वन्द्वः, व्यत्ययेन भ्यसः पञ्चम्येकवचनम्। तत्र कृशब्दस्य धात्वनुकरणत्वात्प्रकृतिवदनुकरणम्, विभक्तावित्वम्। ज्ञ इति। `आतो लोप इटि च' प्रिय इति। `प्रीञ् तर्पणे',इयङादेशः। किर इति। `कॄ विक्षेपे',`ऋत इद्धातोः'। पचादिषु द्रष्टव्या इति यद्यप्यजपि तृजादिवत्सर्वधातुभ्यो भवति, तथाप्यपवादबाधनार्थमेते पचादिष्ववश्यं पाठ्या इत्यर्थः।।
आतश्चोपसर्गे।। 3.1.136 ।।
पाघ्राध्माधेट्द्दशः शः।। 3.1.137 ।।
पाघ्राध्माधेट्द्दशः शः।। `पा पाने',`घ्रा गन्धोपदाने',`ध्मा शब्दाग्निसंयोगयोः',`धेट् पाने',`द्दशिर् प्रेक्षणे'।`पा रक्षणे' इत्यस्य तु लुग्विकरणत्वादग्रहणम्। उत्पिब इत्यादि। पाघ्रादिसूत्रेण यथायोगं पिबादय आदेशाः। व्याघ्र इति। अत्र `आतश्चोपसर्गे' इति क एव भवति; अत्र च `व्याघ्रादिभिः' इति वचनं लिङ्गम्।।
अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च।। 3.1.138 ।।
अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च।। `अनुपसर्गात्' इति व्यत्ययेनैकवचनमित्याह----अनुपसर्गेभ्य इति। `लिप उपदेहे',`विद्लृ लाभे'आगामिना नुमा सनुम्कयोर्ग्रहणम्, तेन विध्यन्तराणामग्रहणम्। `धृञ् धारणे',`धृञ् अवस्थाने'----ण्यन्तयोर्द्वयोरपि ग्रहणम्। `पार तीर कर्मसमाप्तौ',`विद चेतनाख्यानादिषु' चुरादिः, ज्ञानाद्यर्थानामन्यतमो वा हेतुमण्ण्यन्तः। `एजृ कम्पने'ण्यन्तः, `चिती संज्ञाने' चुरादिः, सातिर्हेतुमण्ण्यन्तः, `षह मर्षणे' चुरादिर्हेतुमण्ण्यन्तो वा। लिम्पः, विन्द इति। `तुदादिभ्यः शः' `शे मुचादीनाम्' इति नुम्। धारयादिषु शब्गुणायादेशाः।
नौ लिम्पेरिति। छन्दसि तु `छर्त्ता च विधर्त्ता च विधारय' इति द्दश्यते।
अरविन्द इति। अराकाराणि दलान्यरशब्देनोच्यन्ते।।
ददातिदधात्योर्विभाषा।। 3.1.139 ।।
ददातिदधात्योर्विभाषा।। ददः, दध इति। शपः श्लुः, द्विर्वचनम्, `श्नाभ्यस्तयोरातः' इत्याकारलोपः। `दद दाने',`दध धारणे'इत्येताभ्यामचि कृते ददः दध इति सिद्धम्, दाधाभ्यामपि णे कृते दायो धाय इति, इदं तु वचनं स्वरार्थम्---अददः अदध इति `अच्कावशक्तौ' इत्यन्तोदात्त्वं मा भूत्, नञ्स्वर एव यथा स्यादिति।।
ज्वलितिकसन्तेभ्यो णः।। 3.1.140 ।।
ज्वलितिकसन्तेभ्यो णः।। इतिशब्द आद्यर्थ इति। अनेकार्थत्वान्निपातानाम् `उच्चावचेष्वर्थेषु निपतन्तीति निपाताः' इति निरुक्तकारो निपातशब्दं निराह। ज्वलितीत्यविभक्तिको निर्द्देशः, ज्वलादिभ्य इत्यर्थः। कसिरन्ते येषां ते कसन्ताः, तत्र ये कसमधीत्य वृदिति पठन्ति तेषां मते कसन्तग्रहणं चिन्त्यप्रयोजनम्। ननु च `ज्वल दीप्तौ' इति द्विः पठ्यते----घटादिषु, परस्ताच्च; तेषामसत्यस्मिन्विशेषणे सन्देहः स्यात्----किं पूर्वो ज्वलिरादिः? उत पर इति? अतः कसः समीपभूतेभ्यो ज्वलादिभ्य इति विशेषणमर्थवत्, नैतत्सुष्ठूच्यते; यद्यन्तशब्दः समीपवचनः, बहुव्रोहौ तत्पुरुषे च कसेर्ग्रहणं न प्राप्नोति, पूर्वत्र ज्वलतावादावभिप्रेते तदनन्तर एव धातुरुपादीयेत; परोपदेशेनैव ज्वलतेर्ग्रहणसिद्धेः। घटादिपाठश्च मित्संज्ञायां चरितार्थः, इतरस्त्वचरितार्थ इति स एवादिर्भविष्यति। अचोऽपवाद इति। तस्यापि सर्वधातुविषयत्वादिति भावः। `भ्रमु चलने' इत्यस्य ज्वलादिपाठः किमर्थः,यावता पचाद्यचि भ्रम इति सिद्धम्, णेऽप्येतदेव रूपम्, `नोदात्तोपदेशस्य' इति पृद्धिप्रतिषेधात्? इहाभ्रम इति `अच्कावशक्तौ' इति स्वरो मा भूदिति।।
श्याद्व्यधास्रु संस्वतीणवसावहृलिहश्लिषश्वसश्च।। 3.1.141 ।।
श्याद्व्यधासु संस्वतीणवसावहृलिहश्लिषश्वसश्च।। अनुपसर्गादिति निवृत्तमिति। उत्तरसूत्रे पुनरनुपसर्गग्रहणात्। विभाषेति चेति। निवृत्तमित्यपेक्ष्यते। विभाषा ग्रहणं ह्यनुपसर्गग्रहणेन सम्बद्धम्, अतस्तन्निवृत्तावस्यापि निवृत्तिः। श्यैङ् इति । `श्यैङ् गतौ' इत्यस्मात् शी आत् श्यादिति शीङो यणादेशेन ग्रहणं न भवति; व्याख्यानात्, झटिति प्रतीतावनारोहाच्च। आकारान्तेभ्य इति। एतेन अत्तेरच्छब्दान्तानां पतिप्रभृतीनामकारान्तानां च ग्रहणं न भवतीति दर्शयति। एतदपि व्याख्यानादेव। `व्यध ताडने',`स्रु गतौ' आङ्पूर्वः, संपूर्वश्च, `इण् गतौ' अतिपूर्वः, `षोऽन्तकर्मणि' `हृञ् हरणे' अवपूर्वौ, `लिह आस्वादने',`श्लिष आलिङ्गने',`श्वसप्राणने'। येऽत्र सोपसर्गास्तेभ्यः सोपसर्गेभ्य एव भवति, शेषेभ्यस्त्वविशेषेण। बाधकबाधनार्थमिति। `आतश्चोपसर्गे' इति विशेषविहितः कः सामान्यविहितस्य णस्य बाधकः, तद्वाधनार्थमिदम्। एतेनावस्यतेरुपादानं व्याख्यातम्। अवश्याय इति। पूर्ववद्युक्।।
दुन्योरनुपसर्गे।। 3.1.142 ।।
दुन्योरनुपसर्गे।। दाव इति। वनवह्निः। कथं तत्रैव दव इति? नयतिसाहचर्यात्सानुबन्धकस्य दुनोतेरिह ग्रहणम्। निरनुबन्धकाद्दवतेः पचाद्यचि भविष्यति। करणसाधनो वा `ऋदोरप्' इत्यबन्तः।।
विभाषा ग्रहः।। 1.3.143 ।।
विभाषा ग्रहः।। व्यवस्थितविभाषा चेयमिति। एतदेव स्पष्टयति---जलचर इति। भव इति। भवत्येव न तु कदाचिन्न भवतीति भवः=देवः, संसारश्च। भावाः=पदार्थाः।।
गेहे कः।। 3.1.144 ।।
गेहे कः।। गेह इति। प्रत्ययाथंस्य कर्त्तुर्विशेषणम्, नोपपदम्; `गृहपतिना संयुक्तः' इति निर्देशादित्याह---गेहे कर्त्तरीति। तास्त्थ्याद्दाराश्चेति। गेहमित्यपेक्ष्यते, तेन गौणस्यापि गेहस्य ग्रहणमिति दर्शयति। तच्च तन्त्रावृत्त्योरन्यत राश्रयणेन लभ्यते, तत्र वेश्मनि पुंल्लिङ्गबहुवचनान्त एव----गृहान्ह दाहको भवति, गृहानुत्तरया संकाशयते, गृहान्गच्छ, गृहानहं सुमनसः प्रपद्य इति। नपुंसकलिङ्गोऽभिधेयवचनः, एवं दारेष्वपि। अन्ये तु---गृहशब्दो वेश्मन्येव मुख्यः, दारेषु गौण इति वदन्ति, तथा `न गृहं गृहमित्याहुर्गृ हिणी गृहमुच्यते' इति वेश्मन्येव मुख्यतां दर्शयन्ति। यथा वृत्तिकारेणोक्तं तथा दारेष्वपि मुख्य एवेति लक्ष्यते।।
शिल्पिनि ष्वुन्।। 3.1.145 ।।
शिल्पिनि ष्वुन्।। पूर्वेण साहचर्यात् सिल्पिनीत्यपि प्रत्ययार्थस्य विशेषणम्, नोपपदमित्याह----शिल्पिनि कर्त्तरीति। क्रियासु कौशलं शिल्पं तद्यस्यास्तीति सिल्पो।
नृतिखनीत्यादि। एतद्वचनमेव; तेनाह्वाता, आह्वायक इत्यादौ न भवति। रञ्जेनुनासिकलोपश्चेति। एतत्तु ज्ञापकात्सिद्धम्, यदयम् `जनीजॄष्क्नुसुरञ्जोऽमन्ताश्च' इति मित्संज्ञां शास्ति, तज्ज्ञापयति----रञ्जेरकित्त्वेऽप्यनुनासिकलोपो भवतौति।।
गस्थकन्।। 3.1.146 ।।
गस्थकन्।। गायतेरिति। `कै गै शब्दे',`गामादाग्रहणे ष्वविशेषः' इति `गाङ् गतौ' इत्यस्यापि ग्रहणं प्राप्तम्, अनभिधानान्न भवति। थकन्प्रत्ययो हि गायत्यर्थविषयमेव शिल्पिनमभिधातुं समर्थः।।
ण्युट् च।। 3.1.147 ।।
ण्युट् च।। णकारो युगर्थः, टकारो ङीबर्थः। योगविभाग उत्तरार्थ इति। उत्तरत्र ण्युट एवानुवृत्तिर्यथा स्यात्, थकनो मा भूदिति।।
हश्च व्रीहिकालयोः।। 3.1.148 ।।
हश्च व्रीहिकालयोः।। जहातेरिति। `ओहाक् त्यागे'। जिहातेरिति। `ओहाङ्गतौ'। प्रायेण जिहीतेरिति पाठः, स त्वयुक्तस्तिपः पित्त्वादीत्वाभावात्। जहातेः ककारोऽत्र सामान्यग्रहणार्थः, अन्यथा एकानुबन्धकत्वादस्यैव स्यात्। अथ हाङ इत्युच्येत, एवमपि तस्यग्रहणं न स्यात्, तस्माद् द्वयोरपि ग्रहणम्। `ब्रीहिकालयोः' इति कर्त्तुर्विशेषणम्, नोपपदम्; त्रिचतुर्भ्यो हायनस्य `दामहायनान्ताच्च' इति वचनादिति मत्वाह---व्रीहौ काले च कर्त्तरीति। जहत्युदकमिति। कृत्वेति। व्रीहौ हायनशब्दस्य प्रवृत्तिनिमित्तं दर्शितम्। जाङ्गलदेशोद्भवाः केचिद् व्रीहयो हायना इत्याहुः। जिहीते भावानिति। भावाः पदार्थास्तान् जिहीते गच्छति परिच्छेदकत्वेन व्याप्नोतीत्यर्थः।।
प्रुसृल्वः समभिहारे वुन्।। 3.1.149 ।।
प्रुसृल्वः समभिहारे वुन्।। `प्रुसृल्व' इति पञ्चम्याः स्थाने जस्, `ओस्सुपि' इति यणादेशः। साधुकारित्वं लक्ष्यत इति। प्रायः सहचरित्वात् पुनः पुनरनुष्ठानं समभिहारः, यश्च यां क्रियां पुनः पुनरनुतिष्ठति तस्य प्रायेण कौशलमुपजायते, अतः प्रायः साहचर्यात्साधुकारित्वं लक्ष्यते, लक्षणया तत्र वर्त्तत इत्यर्थः, तेन किं सिद्धं भवतीत्याह----सकृदपीति।।
आशिषि च।। 3.1.150 ।।
आशिषि च।। आशिषि गम्यमानायामिति। न वाच्यायाम्; कर्त्तरि कृत्' इति कर्त्तुरेव वाच्यत्वात्। प्रार्थनाविशेष इति। अप्राप्तस्याभिलषितस्य प्राप्तुमिच्छा प्रार्थना=आशीः। स चेत्क्रियाविषय इति। `धातोः' इत्यधिकाराद्, धातोश्च क्रियावचनत्वात्। अमुष्याः क्रियाया इति। जीवनादिकायाः, अनेन प्रयोक्तॄधर्मत्वमाशिषो दर्शयति। जीवतादिति। आशिषि लोट्प्रयोगेणोदाहरणे आशिषं दर्शयति।।
इति श्रीहरदत्तमिश्रविरचितायां पदमञ्जर्यां तृतीयस्याध्यायस्य प्रथमः पादः।।
--------***********--------