सामग्री पर जाएँ

काशिका (पदमञ्जरीव्याख्यासहिता)/तृतीयोऽध्यायः/द्वितीयः पादः

विकिस्रोतः तः
← प्रथमः पादः काशिका (पदमञ्जरीव्याख्यासहिता)
द्वितीयः पादः
[[लेखकः :|]]
तृतीयः पादः →

काशिकावृत्तौ
अथ तृतीयाध्याये द्वितीयः पादः पदमञ्जरी
कर्मण्यण्।। 3.2.1 ।।
कर्मण्यण्।। कर्मणीति। नेदं स्वरूपग्रहणम्; अशब्दसंज्ञा इति प्रतिषेधात्। ननु चार्थस्येयं सञ्ज्ञा न शब्दस्य, अशब्दसञ्ज्ञेति नैवं विज्ञायते-----शब्दस्य सञ्ज्ञा शब्दसञ्ज्ञेति, किं तर्हि? शब्दे संज्ञा सब्दसंज्ञेति। शब्दशब्देन शब्दानामनुशासनं व्याकरणमुच्यते, असति च बाधे कृत्रिमाकृत्रिमयोः कृत्रिमस्यैव ग्रहणं युक्तम्। तस्मात्पारिभाषिकस्य कर्मणो ग्रहणमङ्गीकृत्य तस्यावान्तरभेदमाह----त्रिविधं कर्मेति। ता एव तिस्रो विधा दर्शयति---निर्वर्त्ये विकार्ये प्राप्यं चोति। यदसज्जायते सद्वा जन्मना यत्प्रकाशते तन्निर्वत्त्यम्, यथा-----कुम्भं करोति, पुत्रं प्रसूत इति। यस्य तु सत एव कश्चिद्विकारः क्रियते तद्विकार्यम्, स च विकारः क्वचित्प्रत्यक्षगम्यः, यथा---काष्ठानि भस्म करोति, सुवर्ण कुण्डलं करोतीति, क्वचिच्छास्त्रगम्यः----ब्रीहीन् प्रोक्षतीति, अत्र प्रोक्षणेन ब्रीहीषु कश्चिदतिशयो जन्यत इति शास्त्रादेव गम्यते। एतावता च भेदेन संस्कार्यमेतत्कर्मेति चातुर्विध्यं मीमांसका मन्यन्ते। क्रियाकृतविशेषाभावे तु प्राप्यं कर्म, यथा-----वेदमधीते, चर्च्चां पारयतीति। ननु न `कर्त्तुरीप्सिततमम्' इत्येतदेव कर्म त्रिविधम्, अन्यदप्यस्ति `तथायुक्तं चानीप्सितम्' इति, तच्च द्विविधम्---द्वेष्यमितरच्च; तथा `अकथितं च', एवं `दिवः कर्म च', तथा `अधिशीङ्स्थासां कर्म' इति। तदेवमवान्तरभेदविवक्षायां सप्तविधं कर्म। उक्तं च----
निर्वर्त्य च विकार्य च प्राप्यं चेति त्रिधा मतम्।
तत्रेप्सिततमं कर्म चतुर्धान्यत्तु सञ्ज्ञितम्।।
औदासीन्येन यत्प्राप्यं यच्च कर्त्तुरनीप्सितम्।
सञ्ज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम्।। इति।
तत्किमुच्यते त्रिविधं कर्मेति? केचिदाहुः----कर्त्तुरीप्सिततममेवात्र गृह्यतेऽन्यत्राण् न भवतीति। अन्ये त्वाहुः-----आदित्यं पश्यतीत्यादौ मा भूदित्येवमर्थ कर्मणि निर्वर्त्यमाने विक्रियमाण इति वक्तव्यमित्याशङ्क्य वार्त्तिककारेणोक्तम्----कर्मणि निर्वर्त्त्यमानेविक्रीयमाण इति चेद्वेदाध्यायानामुपसंख्यानमित्यादि। तदनेन प्रदर्श्यते त्रिविधमपि कर्म गृह्यते, न पुनः प्राप्यं न गृह्यत इति, न तु सूत्रान्तरोक्तं व्यावर्त्त्यते। तथा च `दिवः कर्म च' इत्यत्र समावेशस्य प्रयोजनमुक्तम्---मनसा देव इत्यत्र कर्मत्वादण्, करणत्वात्तृतीयेति। एवं च वृक्षावासः पर्वताधिवास इत्याद्यपि यथादर्शनं भवतीति। अनभिधानादिति। तच्चानभिधानं यत्राप्तैरुक्तं तत्रैव। अन्यत्र तु यथालक्षणं भवत्येव, तथा च पठति----यथालक्षणमप्रयुक्ते'इति।
शीलिकामीत्यादि। `शील समाधो',`भक्ष अदने' चुरादिः, `कमु कान्तौ' णिङन्तः, `चर गत्यर्थे' आङ्पूर्वः, णस्य णित्करणं चरेर्वृद्ध्यर्थम्। पूर्वपदप्रकृतिस्वरत्वं चेति। कृदुत्तरपदप्रकृतिस्वरस्यापवादः। मांसशीलेति। अत्राणि सति ङीप्स्यात्, णेऽपि क्वचिदण्कृतं भवतीत्येतत्तु ताच्छीलिक एव णे भवति। `मनेर्दीर्घश्च' इति सप्रत्ययान्तो मांसशब्दः। कल्याणशब्दः `लघावन्ते द्वयोश्च बह्वषो गुरुः' इति मध्योदात्तः। अस्यायमर्थः----अन्ते लघोः परतो द्वयोश्चान्तयोर्लघ्वोः परतो बह्वषः शब्दस्य यो गुरुः स उदात्तो भवति। बह्वष इति बह्वच इत्यर्थः।`अष्' इत्यचः पूर्वाचार्यसञ्ज्ञा।
ईक्षिक्षमिभ्यां चेति। अत्रापि पूर्वपदप्रकृतिस्वरत्वं चेत्येव, वाक्यभेदस्तु वैचित्र्यार्थः। इह यो मासं भक्षयति मांसं तस्य भक्षो भवति, तत्र भक्षयतेः कर्मण्येरजन्तस्य बहुव्रीहिणा सिद्धम्। एवमन्यत्रापि। यः पुनरण्यन्तस्तस्य घञन्तस्य बहुव्रीहिः, नार्थ एतेन। ननु बहुभक्ष इत्यत्र बहोर्नञ्वदित्युत्तरपदान्तोदात्तत्वं प्राप्नोति? एवं तर्हि भावेऽजन्तेन व्यधिकरणपदो बहुव्रीहिर्भविष्यति----बहुषु भक्षोऽस्य बहुभक्ष इति, तत्रोत्तरपदार्थस्य बहुत्वाभावाद्वहुस्वरो न भविष्यति? सत्यम्; अण्बाधनार्थ तु वचनम्, अकारादनुपपदात्कर्मोतपपदो विप्रतिषेधेन। पचादिभ्योऽच्, अनुपपदोऽकारस्तस्यावकाशः----पचतीति पचः, कर्मोपपदस्यावकाशः----काण्डलावः शरलावः; ओदनपाव इत्यत्रोभयप्रसङ्गे परत्वादयमेवाण् भवति। तेनोपधावृद्धिः, उपपदसमासश्च नित्यो भवति। अचि तु षष्ठीसमासो विकल्पितः स्यात्। न चच वाच्यं युगपद्विवक्षायां भवतु विप्रतिषेधः, केवले पच्यर्थे विवक्षितेऽचि कृते पश्चादोदनसम्बन्धे विवक्षिते ओदनपच इत्यपि प्राप्नोति? एकत्वात्प्रयोगस्य। न हि तस्मिन्नेव प्रयोगे विवक्षितं चाविवक्षितं च कर्म भवति। तस्मादोदनपच इत्यसाधुरेव। गङ्गाधरः, श्रीधरः, वज्रधरः, भूधरः, स्रग्धरेति तु सञ्ज्ञाशब्दाः। यदा त्वजपि सर्वधातुभ्य इति पक्षः, तदापवादत्वादेव तस्याण् बाधकः। तथा `इगुपधज्ञाप्रीकिरः कः' अनुपपदस्तस्यावकाशः---विक्षिपः, विलिखः, कर्मोपपदस्य स एव; काष्ठभेद इत्यत्रोभयप्रसङ्गे परत्वादयमेवाण् भवति। तथा `अनुपसर्गाल्लिम्पविन्द' इत्यनुपपदः शस्तस्यावकाशः----लिम्पतीति लिम्पः, कर्मोपपदस्य स एव; कुङ्मलेप इत्यत्रोभयप्रसङ्गे परत्वादयमेवाण् भवति। `आतश्चोपसर्गे' इति कोऽनुपपदस्तस्यावकाशः----सुग्लः सुग्लः, कर्मोपपदस्य स एव; गोसन्दाय इत्यत्रोभयप्रसङ्गे परत्वादयमेवाण् भवति।।
ह्वावमश्च।। 3.2.2 ।।
ह्वावमश्च।। वेञ् तन्तुसन्ताने इति। `वा गतिगन्धनयोः' इत्यस्य ग्रहणं न भवति; अकर्मकत्वात्। भ्रमणार्थो ह्यसौ----सर्वा दिश आवाति वात आवातु भेषजमिति। सोपसर्गस्य तु सकर्मकत्वेऽप्यग्रहणम्; पूर्वेणैवाणः सिद्धत्वात्। वाता वान्ति दिशो दशेति प्रयोगश्चिन्त्यः। अथापि क्वचित्कथञ्चित्सकर्मकत्वम्, तथापि ह्वेञा साहचर्यात्सानुबन्धकस्यैव वेञो ग्रहणम्। माङ् माने इति। ङितो मारूपस्योपलक्षणमेतत्, तेन `मेङ् प्रणिदाने' इत्यस्यापि ग्रहणम्। `मा माने' इत्यस्य तु संभावनार्थस्याकर्मकत्वादग्रहणम्।
आतोऽनुपसर्गे कः।। 3.2.3 ।।
आतोऽनुपसर्गे कः।। कविधौ सर्वत्र प्रसारणिभ्यो डो वक्तव्यः। संप्रसारणभाजः===प्रसारणिनः। `ज्या वयोहानौ' ब्रह्म जिनातीति ब्रह्मज्यः, सर्वत्रग्रहणान्नावश्यमिहैव `आतश्चोपसर्गे'आह्वः प्रह्वः, के हि संप्रसारणप्रसङ्गः, आह्व अ इति स्थिते संप्रसारणे पूर्वत्वे च कृते उवङादेशे आहुवः प्रहुव इति प्राप्नोति, एवं ब्रह्मजिय इति प्राप्नोति। ननु संप्रसारणे कृते आतो लोपस्तस्य स्थानिवद्भावादियङुवङौ न भविष्यतः, लोपो न सिद्ध्यति----अन्तरङ्गत्वात्पूर्वत्वं प्राप्नोति, समानाश्रये च वार्णादाङ्गं बलीय इति? एवं तर्हि प्रागेव संप्रसारणादातो लोपो भविष्यति, परत्वाद् नित्यं संप्रसारणम्, कृताकृतप्रसङ्गित्वात्' आतो लोपस्त्वनित्यः, कृते संप्रसारणे पूर्वत्वेन बाद्ध्यते---यस्य च निमित्तं लक्षणान्तरेण विहन्यते तदनित्यम्। तदेवं परत्वादातो लोपः, ततः संप्रसारणम्, तत इयङुवङौ प्रसक्तावाल्लोपस्य स्थानिवत्त्वान्न भविष्यतः। ननु योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावः, आदिष्टाच्चैषोऽचः पूर्वम्---इदानीमेव ह्युक्तं पूर्वमल्लोपः पश्चात् संप्रसारणमिति? एवं तर्ह्याकारलोपस्यासिद्धत्वादुवङ् न भविष्यति। इहापि तर्हि जुहुवतुः जुहुवतुः आल्लोपस्यासिद्धत्वादुवङ् न प्राप्नोति? आभीयमसिद्धत्वमनित्यमित्यत्र न भविष्यति। अथ वा `संप्रसारणाच्च' `एडः पदान्तात्' इत्यत्र एङ इति योगविभागः---संप्रसारणादेङि परतः पूर्वपरयोः पूर्वमेकादेशो भवतीति। किमर्थमिदम्, न `संप्रसारणाच्च' इत्येव सिद्धम्? ज्ञापनार्थम्-----यत्र संप्रसारणात्पर एङ् संभवति तत्र `आदेच उपदेशेऽशिति' इत्यात्वं न भवतीति। यदि स्यात्पूर्वत्वेन तस्य निवृत्तिविधानमनुपपन्नं स्यात्। तेन जुहुवतुरित्यत्रानैमित्तिकत्वेनान्तरङ्गमप्यात्वमकृत्वा एङ्‌भावादेव लिटि विहिते संप्रसारणे पूर्वत्वे न स्थानिवत्त्वं नासिद्धत्वमिति सिद्धमिष्टम्। आह्वः, प्रह्वः, ब्रह्मज्य इत्यत्र त्वाकारान्तलक्षणः प्रत्ययो नासत्यात्वे भवितुमर्हतीति पूर्वमात्वम्, ततः प्रत्ययः, आल्लोपः, संप्रसारणम्, असिद्धत्वादियङुवङोरभावः।।
सुपि स्थः।। 3.2.4 ।।
सुपि स्थः।। सुपीति न सप्तमीबहुवचनस्य ग्रहणम्, किं तर्हि? प्रत्याहारस्य; `सुप्तिङन्तं पदम्',`सुप आत्मनः क्यच्',`सुपो धातुप्रतिपदिकयोः',`अव्ययादाप्सुपः' इत्यादौ तस्यैव प्रसिद्ध्वात्। द्वाभ्यं पिबतीति। ननु रूढिशब्दा द्विपादयः, ततश्चासन्तमप्यवयवार्तमाश्रित्य कर्मोपपद एव कः करिष्यते? नैतदेवम्; द्वाभ्यां पिबतीत्यादेरवयवार्थस्य सम्भवतोऽपरित्यागेनैव व्युत्पत्तौ सम्भवत्यामस्याः कल्पनाया अयुक्तत्वात्। यत्र त्वत्यन्तमसम्भवः, युक्ता तत्रैव सा कल्पना, यथा---तैलतपायिकादौ। अनेन भावे यथा स्यादिति। आरम्भसामर्थ्यात्तावदयं कर्तुरपकृष्यते, न चान्योऽर्थो निर्द्दिश्यते। अनिर्द्दिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ति, स्वार्थस्च धातूनां भाव एव। ननु `घञर्थे कविधानम्' इति भावे कः सिद्धः? सत्यम्; नित्यसमासार्थन्तु वचनम्, अन्यर्था पाक्षिकः षष्ठीसमासः स्याद्। नित्य एव तूपपदसमासो भवति, तथा चाखूनामुत्थानमित्यस्वपदेन विग्रहः कृतः। घञर्थे कविधानमित्यत्र स्थग्रहणं कर्तृवर्जिते कारकेऽपि यथा स्यादिति।।
तुन्दशोकयोः परिमृजापनुदोः।। 3.2.5 ।।
तुन्दशोकयोः परिमृजापनुदोः।। तुन्दपरिमृज इति। मृजेरजादौ संक्रम इत्यत्र `यस्मिन्विधिस्तदादौ' इत्येव सिद्धे आदिग्रहणं मुख्याजादिपरिग्रहार्थम्, तेन व्यपदेशिवद्भावेनाजादावत्र के वृरद्धिर्न भवति।
आलस्य इत्यादि। आलस्ये गम्यमाने सुखोत्पादने च प्रत्यय इत्यर्थः। तत्र सामर्थ्यादलसे कर्त्तरि सुखस्य चाहर्तरि प्रत्ययो भवतीत्युक्तं भवति। शोकापनोद एवान्य इति। यस्संसारानित्यताद्युपदेशेन शोकमेव केवलमपनुदति, न तु सुखमुत्पादयति स शोकापनोदः। मूलविभुजादिभ्य इति। तादर्थ्य एषा चतुर्थी, मूलविभुजादिसिद्ध्यर्थमिर्त्थः। आकृतिगणश्चायम्, तेन महीध्र---कुध्र---शिरोरुहादि सिद्धं भवति। काकगुहा इति। काकेभ्यो गूहितव्या इति कर्मणि कप्रत्यय इष्यते, अतो घञर्थे कविधानमित्यत्रेदं द्रष्टव्यम्।।
प्रे दाज्ञः।। 3.2.6 ।।
प्रे दाज्ञः।। ददातेरिति। उपलक्षणमेतत्। `गामादाग्रहणेष्वविशेषः' इति सर्वेषामेव दारूपाणां ग्रहणमिष्यते। जानातेश्चेति। जनेस्त्वल्लोपेनायं निर्देशो न भवति; `खनो घ च' `हनश्च वधः' इत्यादौ धातुनिर्द्देशेऽल्लोपस्याकरणात्। प्रेणोपसृष्टादिति। प्रशब्देनोपसर्गेण सम्बद्भादित्यर्थः। `अनुपसर्गे' इति चानुवर्तते, तेन केवलेन प्रेणोपसृष्टादित्यर्थः। अतश्च गोसम्प्रदाय इत्यणेव भवति।।
समि ख्यः।। 3.2.7 ।।
गापोष्टक्।। 3.2.8 ।।
गापोष्टक्।। गायतेरिति। `गामादाग्रहणेष्वविशेषः' इति गाङो लुग्विकर रणस्यापि ग्रहणं प्राप्तं पिबतिसाहचर्यात्तु न भवति। सामगीति। टकः कित्त्वादातो लोपः, टित्त्वान् ङीप्।
सुराशीध्वोः पिबतेरिति वक्तव्यमित्य। पिबतेरिति लुग्विकरणालुग्विकरणपरिभाषालभ्यस्यैवार्थस्य कथनम्, उपपदपरिगणनं तु वाचनिकमेव। क्षीरपेति। स्त्रियामेव विशेषात् स्त्रीलिङ्गमुदाहृतम्।।
हरतेरनुद्यमनेऽच्।। 3.2.9 ।।
हरतेरनुद्यमनेऽच्।। अच्प्रकरण इति। लिङ्गविशिष्टपरिभाषयैव घटग्रहणेन घटीग्रहणेऽपि सिद्धे घटीग्रहणम् परिभाषाया अनित्यत्वज्ञापनार्थम्। सूत्रग्राह एवान्य इति। यस्सूत्रं केवलमुपादत्ते, न तु धारयति तत्राणेव भवतीत्यर्थः।।
वयसि च।। 3.2.10 ।।
वयसि च।। संभाव्यमानं वेति। तेनासत्यपि कवचग्रहणे वयसि गम्यमाने कवचहर इति भवतीति भावः।।
आङि ताच्छील्ये।। 3.2.11 ।।
आङि ताच्छील्ये।। पुष्पाद्याहरणे इत्यादिना ताच्छील्यमुदाहरणे दर्शयति। स्वाभाविकीति। स्वभावे भवा स्वाभाविकी, अध्यात्मादिः। स्वशब्दो द्वारादिषु पठ्यते, तदादिविधिश्च तत्रेष्यते। भाष्यकारप्रयोगात्तु द्वारादिकार्याभावः, स्वार्थिकस्वाभाविकश्ब्दौ भाष्ये प्रयुक्तौ। अस्य विवरणम्---फलानपेक्षेति। कथं पुनः फलमनपेक्ष्य तत्र प्रवर्त्तते, न हि स्वभावः पर्यनुयोगमर्हति।।
अर्हः।। 3.2.12 ।।
स्तम्बकर्णयो रमिजपोः।। 3.2.13 ।।
स्तम्बकर्णयो रमिजपोः।। रमेरकर्मकत्वादिति। ननु `व्याङ्परिभ्यो रमः' `उपाच्च' इत्यत्रोदाहृतम्---देवदत्तमुपरमतीति? एवं मन्यते---`अनुपसर्गे' इति वर्तत इति। जपेश्च शब्दकर्मकत्वादिति। मन्त्रं जपतीत्यादौ तत्रैव प्रयोगदर्शनात्। कर्म न संभवतीति। केवलस्य रमेर्जपेश्च कर्माद्यशब्दात्मकमिति भावः। सूचकः==पिशुनः। स्तम्बेरम इति। `तत्पुरुषे कृति बहुलम्' इत्यलुक्। कर्णे जपिता मशक इति। उपांशुशब्दायितेत्यर्थः।।
शमि धातोः संज्ञायाम्।। 3.2.14 ।।
शमि धातोः संज्ञायाम्।। धातुमात्रादिति। मात्रग्रहणेनापवादविषयेऽपि विधानं भवतीति दर्शयति। शङ्कर इति। एहिकमामुष्मिकं मोक्षाख्यं च सुखं करोतीति शङ्करः। धातुग्रहणस्य प्रयोजनं दर्शयन्मात्रग्रहणप्रतिपादितमेवार्थ स्पष्टीकरोति---शमिसंज्ञायामिति। अस्मिन्सूत्र इत्यर्थः। असति धातुग्रहणे शमिशंज्ञायामित्यस्यावकाशः----शम्भवः, शंवद इति, `कृञो हेतुताच्छील्ये' इत्यस्यावकाशः----श्राद्धकर इति; शङ्करा इत्यत्रोभयप्रसङ्गे परत्वाट्ट एव स्याद्, धातुग्रहणसामर्थ्यादजेव भवति। कुण्डखाडवस्त्वाचार्यो मन्यते---गृणातेः शब्दकर्मण एतद्रूपम्, पृषोदरादित्वाद्रकारस्य ककार इति, तन्मते धातुग्रहणं चिन्त्यप्रयोजनम्।।
अधिकरणे शेतेः।। 3.2.15 ।।
अधिकरणे शेतेः।। पर्श्वादिष्विति। अनधिकरणार्थमिदम्। तद्विग्रहेण दर्शयति----पार्श्वाभ्यामिति। दिग्धसहशय इति। दिग्धेन सह शेते इत्यचि कृते मयूरव्यंसकादित्वात्समासः। दिग्दसहशब्दो मयूरव्यंसकादिस्तस्योपपदसमासः। अवमूर्द्धशय इति। अवनतां मूर्द्धा यस्य अवमूर्द्धा अधोमुखः शेत इत्यर्थः। गिरौ डश्चन्दसीति। यदि छन्दसीत्युच्यते, कथम् `गिरिशमुपचचार प्रत्यहं सा सुकेशी',`आरोपितं यद्रिरिशेन पश्चात्' इति? निरंकुशाः कवयः। अन्ये त्वाहुः-----इह यो गिरौ शेते गिरिस्तस्यास्तीति लोमादिषु दर्शनाच्छप्रत्ययः। तथा चात्रैव वार्त्तिकम्----तद्धितो वेति। न च लोमादिष्वपि छन्दोग्रहणमस्ति, तेन भाषायामपि गिरिश इति भवति। एवं च कृत्वा निघण्टुषु पाठोऽप्युपन्नो भवति। गिरौ शेत इति। गिरावास्त इत्यर्थः।।
चरेष्टः।। 3.2.16 ।।
भिक्षासेनादायेषु च।। 3.2.17 ।।
भिक्षाशेनादायेषु च।। भिक्षाचर इति। चरतिरत्र तत्पूर्वके अर्जने वर्त्तते, चरणेन भिक्षामर्जयतीत्यर्थः। सेनाचर इति। सेनां प्रविशन्नुच्यते। आदायचर इति। आदाय गच्छतीत्यर्थः, भक्षयतीति वा। कथं सहचरः, सहचरीति? पचादिषु चरडिति पठ्यते, सुप्सुपेति समासः।।
पुरोऽग्रतोऽग्रेषु सर्त्तेः।। 3.1.18 ।।
पुरोऽग्रतोऽग्रेषु सर्त्ते।। अग्रे इत्येतेष्विति। एतेनाग्रशब्दस्यैकारान्तत्वं निपात्यत इति दर्शयति। एतच्चाग्रेशब्दस्यच परनिपातनादेव विज्ञायते, अन्यथा `अजाद्यदन्तम्' इति पूर्वनिपातः स्यात्। किमर्थ पुनरेकारान्तत्वं निपात्यते, यावता सप्तम्या अलुकाप्यग्रेसर इति सिद्धम्? यदा तर्ह्यग्रं सरति अग्रेण सरतीति वा विगृह्यते तदाप्यग्रेसर इत्येव यथा स्यात्। कथं `यूथं तदग्रसरगर्वितकृष्णसारम्' इति? `कृत्यल्युटो बहुलम्' इति समर्थनीयम्।।
पूर्वे कर्त्तरि।। 3.2.19 ।।
कृञो हेतुताच्छील्यानुलोम्येषु।। 3.2.20 ।।
कृञो हेतुताच्छील्यानुलोम्येषु।। करोतेर्द्धातोरिति। प्रसिद्धतरत्वाद् द्व्यनुबन्धकस्याप्यस्यैव ग्रहणम्, न तु `कृञ् हिसायाम्' इत्यस्येति भावः। आनुलोम्ये च गम्यमान इति। एतेन हेत्वादीनि नोपपदानीति दर्शयति, एतच्च `शमि धातोः' इत्यत्र धातुग्रहणात्कृञो हेत्वादिषु टप्रतिषेधार्थाद्विज्ञायते। उपपदत्वे हि शम्यपपदे टप्रत्यस्य प्राप्त्यभावादनर्थकं तत्स्याद्। अतौ नैषामुपपदत्वम्, नापि प्रत्ययार्थत्वम्,`कर्त्तरि कृत्' इत्सस्य बाधप्रसङ्गात्। न चासति विरोधे बाधा युक्ता। हेतुरैकान्तिक कारणमिति। एकान्तशब्दो विनयादिषु द्रष्टव्यः, नियतमव्यभिचारीत्यर्थः। एतेन लौकिकस्य हेतोर्ग्रहणमिति दर्शयति। न हि केवले कृञि प्रयोजककर्त्ता सम्भवतीति भावः। ननु लौकिकेनापि हेतुना कर्त्तुर्विशेषणमयुक्तम्, अव्यभिचारात्, न हि कर्तुरनिमित्तत्वमस्ति? सत्यम्; पुनर्हेतुशब्दोपादनादैकान्तिकत्वमाश्रीयते, अन्यथा निमित्तमात्रमुपादीयेत। अनुकूलता==आराध्यचित्तानुवर्तनम्। यशस्करी विद्येति। `अतः कृकमि' इत्यादिना विसर्जनीयस्य सत्वम्।।
दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुष्षु।। 3.2.21 ।।
दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रत्रेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुष्षु।। यथायोगमिति। तत्र दिवाशब्दोऽह्रीति सप्तम्यन्तस्यार्थे वर्तत इति तस्य कर्मत्वानुपपत्तेः `सुपि' इत्यनेनाभिसम्बन्धः, शेषाणां तु कर्मणीत्यनेन। यदि तु दोषामन्यमहः, दिवामन्या रात्रिरितिवद् वृत्तिविषये कर्मत्वमभ्युपगम्येत, तदा दिवाशब्दस्यापि कर्मणीत्यनेन संबन्धः। सकारस्येति। भास्करान्तेति भाशब्दस्य प्रत्ययसन्नियोगेन सकारो निपात्यते, तस्माद्भास्कर इत्यत्र विसर्जनीयजिह्वामूलीयौ न भवतः। अथ वा----सकारस्य विसर्जनीयजिह्वामूलीयौ न भवतः, कुतः? निपातनात्। भास्करान्तेति सूत्रे सकारोच्चारणमेव निपातनम्। कारकर इति। कर एव कारः, प्रज्ञादित्वात्स्वार्थेऽण। अनन्तकर इति। अन्तकरशब्देन नञ्समासेऽप्येतद्रूपं सम्भवति, स्वरे हि दोषः स्यात्----सतिशिष्टोऽव्ययपूर्वपदप्रकृतिस्वरः प्रसज्येत, इष्यते हि गतिकारकोपपदात्कृदिति कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वम्। बहुकर इति। बहुशब्दो वैपुल्यवचनः, संख्यावचनस्य तु चसंख्याग्रहणेनैव सिद्धम्। लिपिलिबिशब्दौ पर्यायौ। अहस्कर इति। अहन् `रोः सुपि' इति रोफः, पूर्ववत्सत्वम्। धनुष्करः, अरुष्कर इति।
`नित्यं समासेऽनुत्तरपदस्थस्य' इति षत्वम्, `किंयत्तद्वहुषु कृञोऽज्विधानम्' इति वार्त्तिकेन सूत्रस्य बाधितत्वाट्टस्याभावाद्धेत्वादिष्वन्यत्र किंकरीत्यसाधुरित्याहुः। क्वचिद् ग्रन्थः---अथ वा वचादिषु पाठः करिष्यत इति। तत्रायमर्थः----इह किमादिग्रहणमपनीय पचादिष्वेव `किंयत्तद्वहुषु कृञः' इति पठितव्यमिति।।
कर्मणि भृतौ।। 3.2.22 ।।
कर्मणि भृतौ।। कर्मणीति स्वरूपग्रहणमिति। अनुवृत्तेन कर्मणीत्यनेन विशेषणात्। कर्मनिर्वेश इति। कर्म क्रिया, तस्य निष्क्रयाय देयं भक्तादिद्रव्यमित्यर्थः।।
न शब्दश्लोककलहगाथावैरचाटुमूत्रमन्त्रपदेषु।। 3.2.23 ।।
स्तम्बशकृतोरिन्।। 3.2.24 ।।
स्तम्बशकृतोरिन्।। स्तम्बकरिरिति। नित्त्वात्कृदुत्तरपदप्रकृतिस्वरेणोत्तरपदमाद्युदात्तं भवति।।
हरतेर्द्दतिनाथयोः पशौ।। 3.2.25 ।।
हरतेर्द्दतिनाथमोः पशौ।। पशौ कर्त्तरीति। एतेन प्रत्ययार्थस्य कर्तुः पशुर्विशेषणम्, न तु तस्य बाधक इति दर्शयति। धातोर्हि प्रत्ययविधानात्तदर्थस्य येन सम्बन्धस्तत्र वाच्ये प्रत्ययो भवितुमर्हति। धात्वर्थस्य च क्रियायाः साधनेन सम्बन्धः। पशुशब्दस्तु चतुष्पाज्जातीयं वस्तुस्वरूपेणाचष्टे, न शक्तिमद्रूपेण, नतरां शक्तिरूपेणेति। न पश्वर्थः स्वरूपेण प्रत्ययार्थो भवितुमर्हतीति युक्तमुक्तम्‌पशौ कर्तरीति। एवं सर्वत्र प्रत्ययार्तविशेषणं द्रष्टव्यम्।।
फलेग्रहिरात्मम्भरिश्च।। 3.2.26 ।।
फलेग्रहिरात्मम्भरिश्च।। उपपदस्यैकारान्तमिति। छन्दस्यकारान्तत्वमपि द्दश्यते---या वनस्पतीनां फलग्रहिरिति। स कुक्षिम्भरिवच्चकारेण समुच्चेतव्यः।।
छन्दसि वनसनरक्षिमथाम्।। 3.2.27 ।।
छन्दसि वनसनरक्षिमथाम्।। वन षण संभक्ताविति। गणे सहपठितयो र्भौवादिकयोरेव ग्रहणम्, न तु `वनु याचने' `षणु दाने' इति तानादिकयोरिति भावः। अत्र साहचर्यमेव हेतुः, निरनुबन्धकत्वं च। ब्रह्मवनिमिति। ब्रह्म वनति, क्षत्रं वनतीति विवक्षयामिन् प्रत्ययः, तदन्ताद् द्वितीयैकवचनम्। गौसनिमिति। गांसनतोति विग्रहः। पथिरक्षी इति। पन्थानं रक्षत इति विग्रहः। हविर्मथन्तीति हविर्मथयस्तेषां हदिर्मथीनाम्।।
एजेः खश।। 3.2.28 ।।
एजेः खश।। ण्यन्तादिति। एजेस्त्वयमिका निर्देशो न भवति; खशः शित्करणात्। तद्धि सार्वधातुकत्वे सति शब्यथा स्यादिति। न चैजेः प्रकृत्यन्तरस्य शपि सत्यसति वा विशेषोऽस्ति। न चेवमिहार्थत्वे सम्भवति, केवलोत्तरार्थत्वं युक्तम्। सित्करणं मुमर्थमिति। खित्कार्योपलक्षणमेतत्। शुनिन्धयः नाडिन्धयः, नासिकन्धय इति ह्रस्वत्वमपि प्रयोजनम्। शकारः सावधातुकार्थ इति। सार्वधातुकसंज्ञार्थ इत्यर्थः। वातशुनीत्यादि। वातादिषु यथासंख्यमुपपदेषु अजादिभ्यो धातुभ्यः खश् प्रत्ययो भवति। शर्द्धजहा इति। `ओहाक् त्यागे' जुहोत्यादित्वाच्छपः श्लौ द्विर्वचने `श्नाभ्यस्तयोरातः' इत्याकारलोपः।।
नासिकास्तनयोर्ध्माधेटोः।। 3.2.29 ।।
नासिकास्तनयोर्ध्माधेटोः।। नासिकन्धम इति। पाघ्रादिसूत्रेण धमादेशः। तच्चैतदित्यादिना यथासंख्याभावे हेतुमाह, तच्चैतत् यथासंख्याभावलक्षणं कार्यम्। एतेन च व्याख्यातॄणां मूलत्वेन सूत्रकारस्याप्यत्र किंचिदभिप्रेतमित्येतावत्प्रदर्श्यते। तेनैतन्न नोदनीयम्-----उत्तरसूत्रवत्प्रत्येकमभिसम्बन्धः कस्भान्न भवति, विपर्ययो वा कस्मान्न भवतीति। स्तनन्धयति। अत्रैव ङीबिष्यते, नान्यत्रेत्याहुः।।
नाडीमुष्ट्योश्च।। 3.2.30 ।।
नाडीमुष्ट्योश्च।। घटिन्धमः, खरिन्धम इति। घटी=घटः, खरी=गर्द्दभी, जातिलक्षणो ङीष्। खारीत्यन्ये पठन्ति स च परिमाणवचनः। वातशब्दो न द्दष्टः।।
उदि कूले रुजिवहोः।। 3.2.31 ।।
उदि कूले रुजिवहोः।। यत्र प्रत्येकमुपपदत्वमिच्छति तत्र समुदायात्सप्तमीमुच्चारयति, यथा---नाडीमुष्ट्योरिति। इह तु विपर्ययः कृतः; तस्मात् `उदि' इति सत्सप्तमी। `कूले' इति त्वर्थनिरपेक्षैवोपपदसंज्ञायां लिङ्गम्। तत्र च `ते प्राग्धातोः' इति उच्छशब्दस्य धातोः प्राक् प्रयोगः। ततः पूर्वः कूलशब्दः। तदेतद्दर्शितम्----उत्पूर्वाभ्यां कूले कर्मण्युपपद इति।।
वहाभ्रे लिहः।। 3.2.32।।
परिमाणे पचः।। 3.2.33 ।।
परिमाणे पचः।। परिमाणशब्दः काष्ठादिनिर्मिते प्रस्थादौ वर्त्तते, न तस्य लिक्लेदवाचिना पचिना कर्मत्वेनान्वयः। अतो न स्वरूपग्रहणम्, किं तर्हि? तद्विशेषाः प्रस्थादयो गृह्यन्ते, ते च परिमेये परिमेये व्रीह्यादौ च वर्त्तन्ते। तत्र परिमाणनिष्ठानां न पचिनान्वय इति परिमेयनिष्ठेषु प्रत्ययः। न तर्हि परिमाणवाचित्वम्, न; परिमामाध्यारोपेण परिमेये प्रस्थादिशब्दस्य प्रवृत्तेः।।
मितनखे च।। 3.2.34 ।।
मितनखे च।। नखम्पचेति। पचिरत्र तापवचनः।।
विध्वरुषोस्तुदः।। 3.2.35 ।।
विध्वरुषोस्तुदः।। अरुन्तुद इति। `अरुर्द्विषदजन्तस्य मुम्' इति उकारात्परो मुम्, संयोगान्तस्य लोपः।।
असूर्यललाटयोर्द्दशितपोः।। 3.2.36 ।।
असूर्यललाटयोर्द्दशितपोः।। असूर्यम्पश्या इति। पाघ्रादिसूत्रेण पश्यादेशः। गुप्तपरं चैतदिति। यद्वचनम्---`असूर्यम्पश्या राजदाराः' इति, एतद् गुप्तिप्रधानम्; तेन सत्यपि सूर्यदर्शने प्रयोगो न विरुद्ध्यत इति भावः। गुप्तिपरत्वमेव प्रकटयति एवं नामेति।।
उग्रम्पश्येरम्मदपाणिन्धमाश्च।। 3.2.37 ।।
उग्रम्पश्येरम्मदपाणिन्धमाश्च।। उग्र पश्यतीति। क्रियाविशेषणमेतत्। इरम्मद इति। `मदी हर्षे' दिवादित्वाच्छ्यनि प्राप्ते तदभावो निपातनात्। इरा=उदकम्। पाणिन्धमाः पन्थान इति। ते पुनर्येषु गच्छद्भिः सर्पाद्यपनोदनाय पाणयो ध्मायन्ते=शब्द्यन्ते।।
प्रियवशे वदः खच्।। 3.2.38 ।।
प्रियवशे वदः खच्।। चकारः खचि ह्रस्वः इति विशेषणार्थ इति। `खे ह्रस्वः' इत्युच्यमाने `एजेः खश्' अङ्गमेजयः, जनमेजयः---अत्रापि प्राप्नोति?`एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य' इत्यत्र न भविष्यति। इह तर्हि---`कुलात्खः' कुलीनः, यस्येति लोपनिवृत्तये ह्रस्वः स्यात्? तत्र धातुप्रत्ययस्य ग्रहणं तत्प्रकरणसाहचर्यादेष चिन्त्यप्रयोजनश्चकारः। प्रत्ययान्तरकणमुत्तरार्थमिति। `द्विषन्तपः' इत्यत्र ह्रस्वणिलोपौययास्याताम्, शप् च मा भूदिति। यद्येवम्, उत्तरत्रैव कर्तव्ये इह करणे किं प्रयोजनम्? अन्येभ्योऽपि भवतीति ज्ञापनार्थम्। तेन `गमेः सुप्युपसंख्यानम्' इति न वक्तव्यं भवति।
मितङ्गम इति। असंज्ञार्थमिदम्, संज्ञायां तु `गमश्च' इति वक्ष्यमाणेनैव सिद्धम्।
द्विषत्परयोस्तापेः।। 3.2.39 ।।
द्विपत्परयोस्तापेः।। द्विषन्तप इति। मुमि संयोगान्तलोपः। द्वितकारको निर्देश इति। तत्रैकेन द्विषच्छब्दो विशेष्यते-----तकारान्तो यो द्विषच्छब्द इति, सौत्रत्वान्निर्द्देशस्य विशेषणस्य परनिपातः। तेन स्त्रियां न भवतीति। अन्यथा लिङ्गविशिष्टपरिभाषया स्यादेव प्रसङ्ग इति भावः।।
वाचि यमो व्रते।। 3.2.40 ।।
वाचि यमो व्रते।। शास्त्रि इति। शास्त्रशब्दाद्विधाने धात्वर्थे णिच्, तदन्तात्कर्मणि क्तः। शास्त्रे विहितः, शास्त्रेण वा=शास्त्रितः। नियम इति। सङ्कल्पविशेषः। वाचंयम इति। `वाचंयमपुरन्दरौ च' इति पूर्वपदस्यामन्तत्वम्। तत एव तर्हि निपातनात्प्रत्ययो भविष्यति। व्रतादन्यत्रापि तर्हि प्राप्नोति? तत्रैव ब्रतग्रहणं करिष्यते----`वाचंयमो ब्रते पुरन्दरश्च' इति, तदेतच्चिन्त्यप्रयोजनम्। एतेन पुरन्दरो व्याख्यातः।
वाग्याम इति। योऽशक्त्यादिना वाचं यच्छति तत्राणेव भवति।।
पूः सर्वयोर्दारिसहोः।। 3.2.41 ।।
पूः सर्वयोर्दारिसहोः।। `द्द विदारणे' इत्यस्य ग्रहणम्; न `द्द भये',`द्दङ् आदरे'-----इत्येतयोरित्युपदेशः। असंज्ञार्थं सहिग्रहणम्, संज्ञायां तु वक्ष्यति। सर्वेसहो राजेति। सर्व संपादयितुं समर्थ इत्यर्थः।।
सर्वकूलाभ्रकरीषेषु कषः।। 3.2.42 ।।
मेघर्त्तिभयेषु कृञः।। 3.2.43 ।।
मेघर्त्तिभयेषु कृञः।। करोतेरिति। कृणोतेस्तु पूर्ववदेवाग्रहणम्। शिवंकर इत्यपि छन्दसि द्दश्यते----शिव एको ध्येयः शिवंकर इति।।
क्षेमप्रियमद्रेऽण् च।। 3.2.44 ।।
आशिते भुवः करणभावयोः।। 3.2.45 ।।
आशिते भुवः करणभावयोः।। अत्र सुपीत्युपतिष्ठते इति। न तु कर्मणीति, भवतेरकर्मकत्वात्। सोपसर्गात्प्राप्त्यर्थाच्च खचा न भवितव्यम्, अनभिधानादिति भावः। आशितशब्दोऽयम् `अश भोजने' इत्यस्मादाङ्पूर्वादविवक्षिते कर्मणि क्तप्रत्ययान्तो गृह्यते---आशितः कर्त्तेति, यस्याद्युदातत्वं विधास्यते। यस्तु `ध्रौव्यगतिप्रत्यवसानार्थेभ्यः' इति भावकर्माधिकरणेषु क्तः, न तदन्तो गृह्यते, अनभिधानादित्याहुः। अन्ये त्वशेर्ण्यान्तात्प्रयोज्ये कर्मणि क्तप्रत्यये कृते य आशितशब्दः स गृह्यते। एवमाशितः कर्तेति यस्याद्युदात्तत्वं तत्रापि प्रयोज्य एव भूतपूर्वगत्या कर्त्तोच्यते, `गतिबुद्धिप्रत्यवसानार्थ'इति अणौ कर्तुर्णौ कर्मसंज्ञाविधानात्। तथा च कृषन्नित्फाल आशितं कृष्णोतीति आद्युदात्तस्यावग्रहो न द्दश्यते। कर्तृग्रहणं तु तत्र भावनिवृत्त्यर्थमिति। आशितम्भव ओदन इति। यावतौदनेनातिथ्यादिराशितो भवति स एवमुच्यते।।
संज्ञायां भृतॄवृजिधारिसहितपिदमः।। 3.2.46 ।।
संज्ञायां भृतॄवृजिधारिसहितपिदमः।। संज्ञावशादित्यादि। `शत्रुन्तपः' इत्यादौ यत्र कर्मार्थानुगमस्तत्र कर्मणीति सम्बध्यते। यत्र तु न रथन्तरमित्यादौ तत्र सुपीति। अरिन्दम इति। अन्तर्भावितण्यर्थो दमिः सकर्मको भवति।।
गमश्च।। 3.2.47 ।।
गमश्च।। योगविभाग उत्तरार्थ इति। उत्तरत्र गमेरेवानुवृत्तिर्यथा स्याद्, भृतॄप्रभॄतीनां मा भूत्।।
अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः।। 3.2.48 ।।
अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः।। अनुबन्धकरणसामर्थ्यादिति। श्रवणार्थस्तु डकारो न भवति, `पादस्य पदाज्यातिगोपहतेषु' इति कृतटिलोपस्य डप्रत्ययान्तस्य निर्देशात्। अत्रात्यन्तानन्तग्रहणमनर्थकम्, अन्तशब्दोऽत्र गृह्यते, तेन कर्मणो विशेषणात्तदन्तविधिर्भविष्यति। उपपदविधौ तु न सर्वत्र तदन्तविधिः, उपपदविधौ तदाद्यादिग्रहणमिति नियमात्। पन्नं पतितं यथा गच्छतीति पन्नगः। `सुदुरोरधिकरणे' इति कर्मणि खलेव भवति----सुगमः, दुर्गम इति। अन्यत्रापि द्दश्यत इति। एवं च सूत्रमपि प्रपञ्चार्थम्।।
आशिषि हनः।। 3.2.49 ।।
आशिषि हनः।। दाराविति। दारुशब्द इत्यर्थः। शब्दापेक्षया पुंल्लिङ्गः,टविधानार्थ वचनम्, अण् `कर्मण्यण्' इत्येव सिद्धः। अन्तग्रहणं विस्पष्टार्थम्, `अलोऽन्त्यस्य' इत्येव सिद्धम्।।
अपे क्लेशतमसोः।। 3.2.50 ।।
कुमारशीर्षयोर्णिनिः।। 3.2.51 ।।
कुमारशीर्षयोर्णिनिः।। `सुप्यजातौ' इति सिद्धेऽताच्छीत्यार्थमिदं वचनम्,शिरसः, शीर्षभावार्थ च।।
लक्षणे जायापत्योष्टक्।। 3.2.52 ।।
  लक्षणे जायापत्योष्टक्।। लक्षणवतीति। एतेनार्श आद्यच्प्रत्ययान्तो लक्षणशब्द इति दर्शयति। एतच्च सूत्रारम्भादेवावसीयते, केवले हि लक्षणे उत्तरेणैव सिद्धः प्रत्ययः। जायाध्नो ब्राह्मण इति। यस्य तिलकालादि जायामरणलिङ्गमस्ति स तां हन्तीति गौणो गदः। एतेन पतिघ्नी व्याख्याता। `गमहन' इत्युपधालोपः, टित्त्वान्ङीप्।।
अमनुष्यकर्तृके च।। 3.2.53 ।।
अमनुष्यकर्तृके च।। अमनुष्यशब्दो रक्षः पिशाचादिषु रूढ इति पूर्वमुक्तम्, इह तु मनुष्यादन्यः सर्व एव गृह्यते। ननु यथा पूर्वसूत्रे लक्षणग्रहणं प्रत्ययार्थस्य कर्तुविशेषणम्, एवमिहाप्यमनुष्यग्रहणं भविष्यतीति नार्थः कर्तृग्रहणेन? `अमनुष्ये' इत्युच्यमाने उपपदत्वमपि विज्ञायेत, तस्मात्कर्तृ ग्रहणम्। कृतघ्नशब्दो मूलविभुजादिषु द्रष्टव्यः।।
शक्तौ हस्तिकपाटयोः।। 3.2.54 ।।
शक्तौ हस्तिकपाटयोः।। विषेण हस्तिनं हन्तीति। नन्वत्राप्यशक्तस्य कर्तृत्वानुपपत्तेरस्त्येव शक्तिः? सत्यम्; शक्तिग्रहणसामर्थ्यात्प्रकर्षविज्ञानादन्यतिरपेक्षस्वबलेनैव हन्तुं या शक्तिः सा गृह्यते, तद्दर्शयति----हस्तिनं हन्तुं समर्थो हस्तिध्नो मनुष्य इति। एवं च हस्तिनं हन्तु मा वा वधीत् सामर्थ्ययोगाद्धस्तिघ्न इत्युच्यते।
कं पाटयति प्रविशत इति। कपाटशब्दं व्युत्पादयति। कवाटमिति तु प्रसिद्धः, तत्राटतेः पचाद्यच्। `कवङ् चोष्णो' इति योगविभागात्कोः कवादेशः।।
पाणिघताडघौ शिल्पिनि।। 3.2.55 ।।
आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्।। 3.2.56 ।।
आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्।। आढ्यादिष्विति। अनेन आढ्यादीनामुपपदत्वं दर्शयति। करणे कारके इत्यनेनापि करणस्य प्रत्ययार्थत्वम्। अथैवं कस्मान्न विज्ञायते---करण उपपदे आढ्यादिषु कर्तृष्विति? उच्यते----`च्व्यर्थेष्वच्चौ' इति वचनाद् आढ्यादिशब्दाः स्वरूपप्रधानाः, न च शब्दानां कर्तृत्वमुपपद्यते। ननु च श्रवणेन करोति सुखमाढ्याशब्द इत्यत्र शब्दस्यापि कर्तृत्वं सम्भवति? एवं तर्हि व्याख्यानात्तथा नाश्रीयते। अच्वाविति तत्पुरुषो बहुव्रीहिर्वा, अच्व्यन्त इत्यर्थः। प्रत्येकं सम्बन्धात्त्वेकवचनम्। कथं पुनच्व्यर्थाश्च भवन्त्यचव्यन्ताश्च भवन्तीत्याह----च्वेविकल्पेन विधानादिति। आढ्यङ्करणमिति। ख्युनः खकारो मुमर्थः, लिङ्गविशिष्टपरिभाषया स्त्रालिङ्गष्वाढ्यादिषूपपदेषु ह्रस्वार्थश्च। नकारः स्वरार्थः। योरनादशः।
अभ्यञ्चयन्तीत्यर्थ इति। अनेकार्थत्वाद्धातूनाम्। तेनात्र प्रागनाढ्यः सन्नाढ्यः क्रियत इति अभूततद्भावाभावः। भवतु वाऽभूततद्भावः, तथापि युक्तमेवेदं प्रत्युदाहरणमित्याह---प्रकृतेरविवक्षायामिति। प्रकृतिरेव परिणामित्वेन यत्र विवक्ष्यते, यथा-----तन्तवः पटो भवतीति, तदा च्विप्रत्ययः, तथा च वार्त्तिकम्----`प्रकृतिविवक्षाग्रहणं च' इति, प्रकृतिः कार्यस्य पूर्वावस्था।
अच्वाविति किमिति। अस्य वक्ष्यमाणोऽभिप्रायः, तमाविष्करोति----ननु चेति। ल्युटात्र भवितव्यमिति। `करणाधिकरणयोश्च' इति। न च ल्युटः ख्युनश्च विशेषोऽस्तीति, ल्युटि तावदाढ्योकरणमिति रूपम्, स्वरोऽपि लित्स्वरेणोत्तरपदाद्यु9दात्तत्वम्; ख्युन्यपि नित्स्वरेणाद्युदात्तत्वम्, `खित्यनव्ययस्य' `अरुर्द्विषदजन्तस्य मुम्' इति ह्रस्वत्वम्, मुम् चानव्ययस्य विधीयते, च्व्यन्ताश्चाव्ययम्; `ऊर्यादि च्विडाचश्च' इति निपातत्वात्। स्त्रियामप्युभयत्र `टिड्ढाणञ्' इत्यादिना ङीब् भवति, अतो रूपे स्वरे च नास्ति विशेषः। उत्तरार्थश्चोति। उत्तरसूत्रे खिष्णुच्‌खुकञ्भ्यां मुक्ते तृजादिभिर्भवितव्यमित्यस्ति विशेषः, कथं तर्हि पूर्वमुक्तम्---प्रतिषेधसामर्थ्यादिति? अस्मिन्सूत्रे प्रतिषेधसामर्थ्यादिति भावः। केवलोत्तरार्थत्वे हि तत्रैव `अच्वौ' इत्यवक्ष्यत्, यथा वक्ष्यते----इह किंचित्त्रपो इति। भाष्ये तूत्तरार्थमेव स्थितम्।।
कर्त्तरि भुवः खिष्णुच्खुकञौ।। 3.2.57 ।।
कर्त्तरि भुवः खिष्णुच्खुलञौ।।कर्त्तग्रहणं करणनिवृत्त्यर्थम्, उत्तरार्थं च, खकारो मुमर्थः, चकारः स्वरार्थः, ञकारो वृद्ध्यर्थश्च। किमर्थं खिष्णुजिकारादिः क्रियते, न ख्स्नुरित्येवोच्येत, तत्रायमप्यर्थः---स्वरार्थश्चकारो न कर्त्तव्यो भवति, प्रत्ययस्वरेणैव सिद्धम्? केनेदानीमिकारादित्वं सिद्ध्यति? तत्राह---उदात्तत्वादिति। भवतिरयमुदात्तः, तस्योदात्तत्वादिड् भविष्यति। नञस्त्विति। `नञः' इति पञ्चमी, नञ उत्तरस्य खिष्णुजन्तस्य स्वरमिद्ध्यर्थमित्यर्थः। यद्ययमिकारादिर्नक्रियेत्, ततः सत्यपीटि `कृत्योकेष्णुच्चार्वादयश्च' इत्यस्य ग्रहणं न स्याद् अस्य चकाराभावात्। अथास्यापि चकारः क्रियेत? एवमपि लाक्षणिकत्वात् षत्वणत्वयोश्चासिद्धत्वादिष्णुजिति रूपाभावाद् ग्रहणं न स्यादेव, तत इकारादित्वं क्रियते। ननु च सत्यपीकारादित्वे `तदनुबन्धकग्रहणे नातदनुबन्धकस्य',`एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य' इति वा अलंकृञादीष्णुच एव ग्रहणेन भवितव्यम्,नास्य? इकारोच्चारणसामर्थ्यादस्यापि ग्रहणं भविष्यतीति मन्यते। यद्येवम्, ख्ष्णुजयमस्तु, तत्र षत्वणत्वयोश्चकारस्य चज करणसामर्थ्यादिटि कृतेऽस्यापि ग्रहणं सिद्धमिति चिन्त्यप्रयोजनमिकारादित्वम्।।
स्पृशोऽनुदके क्विन्।। 3.2.58 ।।
स्पृशोऽनुदके क्विन्।। ननु चेत्यादि। `सुपि स्थः' इत्यत्रोक्तम्----सकर्मकेषु कर्मणीत्युपतिष्ठतेऽन्यत्र सुपीति, ततश्च सुबन्त उपपदे क्विन् प्रत्यय इत्युक्तमनुपपन्नमिति भावः। तत्कर्तृप्रचयार्थमिति। `कर्त्तरि कृत्' इत्येव कर्त्तरि क्विनः सिद्धत्वात्कर्त्रनुवृत्तेर्नान्यत्प्रयोजनमस्तीति भावः। कर्तृप्रचयो लभ्यत इति। कर्मण्युपपद एकः कर्त्ता, करणादौ चापर इत्येवं प्रचयो भवति। घृतस्पृगिति। `क्विन्‌प्रत्ययस्य कुः' इति शकारस्य षकारः सोष्मत्वेनान्तरतम्यात्, `झलां जशोऽन्ते'। क्विनः ककारो गुणवृद्धिप्रतिषेधार्थः, इकारः `वेरपृक्तस्य' इति विशेषणार्थः। नकारः किमर्थः, एकाज्भ्यो ह्ययं विधीयते तत्र धातुस्वरेणैव सिद्धम्? यस्तर्ह्यनेकाज्----दधृगिति, वक्ष्यत्येतद्धृषेर्द्धिर्वचनमन्तोदात्तत्वञ्चेति? एवं तर्हि `क्विन्प्रत्ययस्य कुः' `क्विप्रत्ययस्य' इत्युच्यमाने सन्देहः स्यात्----क्वेः क्विपो वा निर्देश इति। क्वेरपि निर्देशे पकारस्य `अनचि च' इति द्विर्वचनम्।।
ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च।। 3.2.59 ।।
ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च।। ऋतौ यजतीति। वसन्तादिके। ऋतुं यजतीति। यस्मिन्यागे ऋतुर्द्देवता, यथा-----वसन्ताय कपिञ्जलानालभते पिशङ्गास्त्रयो वासन्ता इत्यृतुपशूनालभते, ग्रीष्मो हेमन्त उत नो वसन्तः शरद्वर्षा इत्यादौ तदभिप्रायमेतत्। ऋतुप्रयुक्तो वेति। वसन्ते वसन्ते ज्योतिषा यजेतेत्यादौ यत्कर्तृत्वं तदभिप्रायमेतत्। षत्वञ्चेति। अन्यथा `सात्पदाद्योः' इति निषेधः स्यात्। सुबन्तमात्र इति। अन्यथा सकर्मकत्वात्कर्मण्येव स्यात्। केवलादेवेति। एतत्तु क्विन्विधानसामर्थ्यादपि लभ्यते, न हि सोपपदाद्युजेः क्विनि क्विपि वा विशेषोऽस्ति, कुत्वस्य `चोः कुः' इत्यनेनैव सिद्धत्वात्। अनुपपदे तु `युजेरसमासे' इति नुमि कृते नकारस्य कुत्वार्थ क्विनो विधानं भवति सार्थकम्। यदि तु निपातनसाहचर्यात्सोपपदादनुपपदाच्च युजेः क्विन् भवतीत्युच्येत, तदा `सत्सूद्विष' इत्यत्र युजिग्रहणं शक्यमकर्त्तुम्। नलोपः कस्मान्न भवतीति। `कुञ्च क्रुञ्च कौटिल्याल्पीभावयोः' इति नोपधावेतौ धातू। तथा निकुचितिरिति नलोपो द्दश्यते, चुत्वेन तु जकारस्य श्रवणम्, तस्यासिद्धत्वाच्चकारे परतः `चोः कुः'इति कुत्वं न भवति। कुञ्चौ कुञ्च इत्यादौ नकारोपधं तु पठतां स्यात्, तत्र सङिझलीति वचनान्न भवतीति वक्तव्यम्। सङिति प्रत्याहारः सनः सशब्दादारभ्या महिङो ङकारात्। अन्ये तु कुञ्चिरेक एव धातुः, तस्य ककारात्परो रेफोऽपि क्विन्सन्नियोगेन निपात्यते इत्याहुः। तदेतत् `चोः कुः' इत्यत्र वामनो वक्ष्यति।।
त्यदादिषु द्दशोऽनालोचने कञ्च।। 3.2.60 ।।
त्यदादिषु द्दशोऽनालोचने कञ्च।। `पश्यार्थैश्च' इत्यत्र वक्ष्यति----आलोचनं चक्षुस्ताधनं विज्ञानमिति, इह तु ज्ञानमात्रप्रतिषेधं मन्यते। याद्दक् ताद्दगिति। `द्दग्द्दशवतुषु' इति वर्त्तमाने `आ सर्वनाम्नः' इत्यात्वम्। ञकारो विशेषणार्थ इति। आद्युदात्तत्वस्य नकारेणापि सिद्धत्वात् ञकारोपधस्य प्रयोजनं विशेषणमेवेत्यर्थः, न तु स्वरो न प्रयोजनमित्युच्यते। तं पश्यति तद्दर्श इति चक्षुर्विज्ञानेऽणेव भवति। कथं पुनः प्रयुज्यमानस्यैव द्दशेरनालोचनार्थत्वमित्याह---ताद्दशादयो रूढिशब्दा इति। ततः किमित्याह---नैवात्रेति। रूढिशब्दा ह्यसताप्यवयवार्थेन व्युत्पाद्यन्ते, यथा----तैलपायिकादयः। एतदर्थमेवानालोचन इत्युक्तम्। द्दश्यर्थाभावेऽयं विधिः, सति तु द्दश्यर्थेऽणेव भवतीति। भाष्ये तु कर्मकर्तरि व्युत्पत्तिर्दर्शिता----तमिवेमं पश्यन्ति जनाः सोऽयं स इव द्दश्यमानस्तमिवात्मानं पश्यतीति। तत्र कर्मव्यापारमात्रे वा द्दशेर्वृत्तिः, कृत्स्नधात्वर्थाध्यारोपो वा सौकर्यादिशयप्रतिपादनायेति द्रष्टव्यम्।
समानान्योश्चेति। समानस्य द्दग्द्दशवतुषु सभावविधानात्सिद्धम्।
क्सश्चेति। त्यदादिषु समानान्योश्च। ताद्दक्षः, सद्दक्षः, अन्याद्दक्ष इति। `द्दक्षे चेति' वक्तव्यम्' इति सभाव आत्वं च।।
सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्।। 3.2.61 ।।
सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्।। अतः प्रभृतीति। भाष्यकारप्रयोगात्प्रभृतिशब्दयोगे पञ्चमी। वदः सुपि क्यप् चेति। प्रयोजनदिगियं दर्शिता। अत्र ह्यनुपसर्ग इति वर्त्तते, तस्मात् `स्पृशोऽनुदके क्विन्' इत्यादौ प्रयोजनं द्रष्टव्यम्। सुवतेरिति। न्यायस्य तुल्यत्वाद्दैवादिकस्याप्यग्रहणम्।
शुचिषदिति। छान्दसोऽयं प्रयोगः-----हंसः शुचिषदिति। `पूर्वपदात्' इति षन्वम्। शुचिसदिति पाठे लौकिकः प्रयोगः। कथमत्र णत्वमिति। ग्रामणीविषयः प्रश्नः। प्रणीरित्यत्र तु `उपसर्गादसमासेऽपि' इति णत्वमस्त्येव। ज्ञापकादिति। पूर्वपदस्थान्निमित्तादुत्तरस्य नयतिनकारस्यासञ्ज्ञायामपि णत्वं भवतीति सामान्येन ज्ञापकमित्यर्थः। तेनाग्रणीरित्यत्रापि भवति। कर्मण्यणि तु न भवति, नीरूपविषयत्वाज् ज्ञापनस्य । अन्ये तु `अग्रग्रामाभ्यां नयतेरिति वक्तव्यम्' इति वचनाज्ज्ञापनमपि तद्विषयम्, तत्रापि नीरूपविषयमिति स्थिताः।।
भजो णिवः।। 3.2.62 ।।
छन्दसि सहः।। 3.2.63 ।।
छन्दसि सहः।। तुरासाहं पुरोधाय, पृतनाषाट् द्विषो योद्‌धुं पुरुहूतः पृतनाषाड् इति भाषायां प्रयोगाश्चिन्त्याः।।
वहश्च।। 3.2.64 ।।
कव्यपुरीषपुरीष्येषु ञ्चुट्।। 3.2.65 ।।
हव्येऽनन्तः पादम्।। 3.2.66 ।।
जनसनखनक्रमगमो विट्।। 3.2.67 ।।
जनसनखनक्रमगमो विट्।। विशेषणार्थश्चोति। `विवनोः' इत्युच्यमाने हि क्विबादीनामपि ग्रहणं स्यात्। अथात्र निरनुबन्धकत्वादस्यैव ग्रहणम्? `वेरपृक्तस्य' इत्यत्राप्यस्यैव ग्रहणं स्यात्। अथात्र क्विबादीनामपि ग्रहणं स्यात्? `विड्वनोरनुनासिकस्यात्' इत्यत्रापि स्यादिति समानं वच इति भावः। गोषा इति। `सनोतेरनः' इति षत्वम्। अग्रेगा इति। पूर्ववदलुक्।।
अदोऽनन्ने।। 3.2.68 ।।
अदोऽनन्ने।। अन्नाद इति। भाषायामणेव भवति। छन्दसि त्वकारादनुपपदादित्यणि प्राप्ते पचाद्यजिष्यते, तेनान्नाद इत्यन्न इत्यन्न अद इत्यवग्रहो भवति।।
क्रव्ये च।। 3.2.69 ।।
क्रव्ये च।। वाऽसरूपबाधनार्थमिति। तथा च वार्त्तिकम्----अदोऽनन्ने क्रव्यग्रहणं वासरूपनिवृत्त्यर्थमिति। कथं तर्हीति। यदि वाऽसरूपविधिबाधनार्थमिति भावः। कृत्तविकृत्तेति। कृत्तं छिन्नं तदेव पुनर्विशेषतः कृत्तमिति `पूर्वकाल' इति समासः, तस्य पक्वशब्देन पुनः स एव समासः, ततो मांसशब्देन पुनर्विशेषणसमासः। पृषोदरादित्वात्क्रव्यभाव इति। यद्येवम्, क्रव्याद इत्यस्य रूपस्यावर्जनीयत्वादलं वाऽसरूपबाधनार्थेनानेन वचनेन, वार्त्तिकविरोधश्चैवं वदत इत्याशङ्क्याह----कृत्तविकृत्तेत्यादि। अर्थमेदादुभयमपि नास्ति किलेत्ययमभिप्रायः।।
दुहः कब्धश्च।। 3.2.70 ।।
दुहः कब्धश्च।। कामदुधेति। काम्यन्ते इति कामाः, तान् दुग्धे कामदुघा अर्घः=मधुपर्कः।।
मन्त्रेश्वेतवहोक्शास्पुराडाशो ण्विन्।। 3.2.71 ।।
मन्त्रेश्वेतवहोक्शास्पुराडाशो ण्विन्।। एतेभ्य इति। श्वेतादिपूर्वेभ्यो वहादिभ्यो धातुभ्य इत्यर्थः। धातूपपदसमुदाया इति। किमर्थमित्याह---अलाक्षणिकेति। `श्वेतवाः' इत्यादिषु `अवयाः श्वेतवाः पुरोडाश्च' इति निपातनाद्रुत्वम्। उक्थशा इति। नलोपे `अत उपधायाः' इति वृद्धिः, रुत्वम्।
डस्पदस्येति। प्रत्येकमभिसम्बद्ध्यते, भाविपदत्वाश्रयेण चेदमुच्यते, यत्र डसन्तस्य पदत्वं भविष्यति तत्र ण्विनोऽपवादो डस्प्रत्ययो वक्तव्य इत्यर्थः। यद्येवम्, अनेन डसि कृते सौ `अत्वसन्तस्य' इति दीर्घे रुत्वे च श्वेतवा इत्यादि सिद्धम्, नार्थः `अवयाः श्वेतवाः' इति निपातनेन? एवं तर्हि सम्बुद्ध्यर्थ निपातनम्---हे श्वेतवा इन्द्रेति, `अत्वसन्तस्य' इत्यत्र हि `असम्बुद्धौ' इति वर्तते, डसपि वक्तव्यः। उत्वार्थम्----श्वेतवोभ्याम्, उक्थशोभ्यामिति। एवं चोक्यशा इत्यपि सम्बुद्ध्यर्थ निपातनं कर्तव्यं यदि मन्त्रे दर्शनमस्त्रि।।
अवे यजः।। 3.2.72 ।।
अवे यजः।। अवया इति। निपातनाद्रुत्वम्। योगविभाग उत्तरार्थ इति। `पुरोडाशवयजो ण्विन्' इत्येकयोगे श्वेतवहादीनामप्युत्तरत्रानुवृत्तिः स्यात्, यजेश्चावपूर्वस्यैवानुवृत्तिः स्यात्, केवलस्यैव चेष्यते, तदर्थो योगविभाग इत्यर्थः।।
विजुपे छन्दसि।। 3.2.73 ।।
विजुपे छन्दसि।। अथ छन्दोग्रहणं किमर्थम्, यावता मन्त्र इत्यनुवृत्तेरेवभाषायां न भविष्यति, तत्राह---छन्दोग्रहणं ब्राह्मणार्थमिति। मन्त्रव्यतिरिक्तो वेदभागः=ब्राह्मणम्, यथोक्तम्---तच्चोदकेषु मन्त्राख्या, शेषे ब्राह्मणशब्द इति।
किमर्थ पुनरिदमिति। उत्तरसूत्र एव विज्ग्रहणं छन्दोग्रहणं च क्रियतामिति प्रश्नः। नियमार्थमिति। ननु द्दशिग्रहणादेव भाषायां न भविष्यति, सत्यम्; तस्यैव प्रपञ्चार्थमिदम्।।
आतो मनिन्क्वनिब्वनिपश्च।। 3.2.74 ।।
आतो मनिन्क्वनिब्वनिपश्च।। अश्व इव तिष्ठति अश्वत्थामा, पृषोदरादित्वात्सकारस्य तकारः। सुधीवा, सुपीवेति। घुमास्थादिसूत्रेण ईत्वम्। चकारो विचोऽनुकर्षणार्थः। यद्येवम्, उत्तरत्रानुवृत्तिर्न स्यात्? एवं तर्हि चकारोऽप्युत्तरत्रानुवर्त्तिष्यते।।
अन्येभ्योऽपि द्दश्यते।। 3.2.75 ।।
अन्येभ्योऽपि द्दश्यते।। अपिशब्दः सर्वविधिव्यभिचारार्थ इति। विधीयतेऽनेनेति विधिः=उपाधिः। सर्वोपाधिव्यभिचारार्थ इति युक्तः पाठः। द्दशिग्रहणं प्रयोगानुसरणार्थमिति। `यथा प्रयोगे द्दश्यन्ते तथैव भवन्ति' इति वचनव्यक्त्याश्रयेणेति भावः।।
क्विप् च।। 3.2.76 ।।
क्विप् च।। निरुपपदेभ्यश्चेति। एतदपिशब्दस्य सर्वोपाधिव्यभिचारार्थश्यानुवृत्तेर्लभ्यते, न तु सुपीत्यस्य निवृत्तेः; उत्तरसूत्रे `सुप्युपसर्गेऽपीति वर्त्तते' इति वक्ष्यमाणत्वात्, `छन्दसि भाषायाञ्च' इति पूर्वसूत्र एव `छन्दसि' इत्यस्य निवृत्तत्वात्। उखास्रदिति। `स्रंसु ध्वंसु भ्रंसु अवस्रंसने',`अनिदिताम्' इत्युपधालोपः, `वसुस्रंसु' इत्यादिना दत्वम्। वाहभ्रडिति। `भ्रंशु अधः पतने',व्रश्चादिना षत्वम्, `अन्येषामपि द्दश्यते' इति दीर्घः। उखायाः स्रंसते पर्णानि, ध्वंसते, वाहाद् भ्रश्यतीति विग्रहः। ध्वंसिरन्तर्भावितण्यर्थः सकर्मकः। क्वचित्तु वृत्तावेव विग्रहवाक्यानि पठ्यन्ते।।
स्थः क च।। 3.2.77 ।।
स्थः क च।। केत्यविभक्तिको निर्देशः। अन्येभ्योऽपि द्दश्यत इति। क्विबिति सिद्ध एवेत्यपेक्षते। ननु तच्छीलादिग्रहणं तत्रानुवर्त्तते, तस्मात् `क्विप् च' इति क्विप् सिद्ध एवेति वक्तव्यम्। यद्वा तच्छीलादिग्रहणं तत्र न सम्बन्धनीयमिति मन्यते। नन्वेवमपि `सुपि स्थः' इति विशेषविहितः कः सामान्यविहितं क्विपं बाधेत? वाऽसरूपविधिना सोऽपि भविष्यति। शमि धातोः संज्ञायामचम् बाधत इति। अन्यथा यथा कृञो हेत्वादिषु टं बाधते धातुग्रहणात्तथा तिष्ठतेरपि कक्विपौ बाधेत, अतस्तमप्यचं बाधित्वा कक्विपावेव यथा स्यातामिति पुनर्वचनमित्यर्थः। शंस्था इति। क्विपि लुप्ते प्रत्ययलक्षणेन घुमास्थादिसूत्रेणेत्वमत्र प्राप्नोति, भाष्यकारप्रयोगात्तु न भवति। केचित्तु---ईत्वमवकारादाविति वचनं पठन्ति, तेषां सुपीवा सुधीवा, अत्रापि न स्यात्।।
सुप्यजातौ णिनिस्ताच्छील्ये।। 3.2.78 ।।
सुप्यजातौ णिनिस्ताच्छील्ये।। ब्राह्मणानामन्त्रयितेति। ताच्छील्यस्य विवक्षितत्वात्तृन् प्रत्युदाहृतः, `न लोकाव्यय' इति षष्ठीप्रतिषेधः।
उत्प्रतिभ्यामिति। पुनः सुब्ग्रहणस्योपसर्गनिवृत्त्यर्थत्वादयमारम्भः।
साधुकारिणि चेति। अताच्छील्यार्थमिदम्, तच्चैतज्ज्ञापकात्सिद्धं यदयम् `आक्वेस्तच्छील' इत्यत्र तच्छीलेत्यभिधाय साधुकारिग्रहणं करोति, तज्ज्ञापयति---साधुकारिण्यताच्छील्येऽपि णिनिर्भवतीति।
ब्रह्मणि वद इति। ब्रह्म=वेदः। इदमप्यताच्छील्यार्थम्।।
कर्त्तर्युपमाने।। 3.2.79 ।।
कर्त्तर्युपमाने।। उपमानस्योपेमेयापेक्षत्वात् कर्तरि च प्रत्ययविधानात्तस्यैवोपपदकर्त्तोपमानं विज्ञायेत इत्याह---उपपदकर्त्तेति। उष्ट्रक्रोशीति।
इवशब्दो गतार्थत्वाद्वृत्तौ नैव प्रयुज्यते।
समास उपमानानां शस्त्रीश्यामादिके यथा।।
व्रते।। 3.2.80 ।।
व्रते।। समुदायोपाधिश्चायमिति। न प्रत्ययार्थविशेषणम्। तथा हि सति व्रत एव कर्तरि प्रत्ययः स्यान्न तद्वतीति भावः। समुदायोपाधित्वमेव स्पष्टयति---धातूपपदेत्यादि। कामचारः=इच्छाप्रवृत्तिः, तत्प्राप्तौ सत्यां नियमः, स च द्विविधः सम्भवति---स्थण्डिले शेते एव अश्राद्धं भुङ्क्ते एवेत्येवंरूपो वा। तत्र पूर्वके नियमे यदैवासावशक्त्यादिनाऽश्राद्धं न भुङ्क्ते तदैव व्रतलोपः प्राप्नोति। न चैवंविधं शास्त्रमस्ति---स्थण्डिले शयितव्यमेव, अश्राद्धं भोक्तव्यमेवेति। अस्ति तु स्थण्डिल एव शयितव्यम्, अश्राद्धमेव भोक्तव्यमिति। `व्रते' इति तु शास्त्रितो नियमाः---इत्युक्तम्, तस्माद् द्वितीयो नियमो विज्ञायत इत्याह---सति शयन इत्यादि।।
बहुलमाभीक्ष्ण्ये।। 3.2.81 ।।
बहुलमाभीक्ष्ण्यो।। आभीक्ष्ण्यं पौनः पुन्यमिति। पुनः पुनर्भवितरि वर्तमानाभ्यामव्ययाभ्यां भावे ष्यञ्, अव्ययानां भमात्रे टिलोपः। ताच्छील्यादन्यदिति। एतेन`सुप्यजातौ' इत्यनेनागतार्थत्वं दर्शयति। फलानपेक्षा प्रवृत्तिः=ताच्छील्यम्। गान्धारादयस्तु वातादिसाम्यार्थ देशाचारवशेन कषायादिपाने प्रवर्तन्ते। उदाहरणेषु `आतो युक् चिण्कृतोः' इति युक्, `प्रातिपदिकान्तनुम्विभक्तिषु च' इति णत्वम्।।
मनः।। 3.2.82 ।।
मनः।। मन्यतेर्ग्रहणमिति। `मन ज्ञाने' इत्यस्य दैवादिकस्य। न मनुतेरिति। `मनु अवबोधने' इत्यस्य तानादिकस्य। तिपि गुणेन भवितव्यम्। यदि नेष्यते, संज्ञापूर्वको विधिरनित्यः। किं पुनः कारणं प्रयत्नेन मनोतेर्ग्रहणं निवार्यते, यावता इह द्वयोरपि णिनिः तदेव रूपम्, न चार्थभेद इत्याह----उत्तरसूत्र इति।।
आत्ममाने खश्च।। 3.2.83 ।।
आत्ममाने खश्च।। चकाराण्णिनिश्चेति। वाऽसरूपविधिना सिद्धोऽपि णिनिरविच्छेदाय समुच्चीयते। तेन `करणे यजः' इत्यत्र णिनेरेवानुवृत्तिर्भवति, नानन्तरस्य खशः। आत्मशब्दोऽयं परव्यावृत्तिं कुर्वाणो यस्तत्प्रतियोगिनमर्थमाचष्टे स स्वशब्दपर्यायो गृह्यते, न चेतनद्रव्यवचनः। मननं मानः, भावे घञ्, आत्मनो मान आत्ममानः----कर्मणि षष्ठ्या समासः। तत्र कस्येत्यपेक्षायां प्रत्ययार्थस्य सन्निहितस्य मन्तुरेवात्मन इति गम्यते, तदाह---प्रत्ययार्थः कर्त्तेति। दर्शनियत्वादिना धर्मेणेति विशिष्टमिति शेषः। कर्तरि षष्ठ्यास्तु समासो न भवति, सर्वस्या एव मतेर्मन्तृकर्तृकत्वाव्यभिचाराद्। एवं चेतनद्रव्यवचनेऽप्यात्मशब्दे कर्तरि षष्ठ्यामव्यभिचारादविशेषणं कर्मणि षष्ठ्या, न तु चेतनान्तरे कर्मणि प्रत्ययप्रसङ्गः, तस्मात्स्वशब्दपर्याय एवात्मशब्दः। दर्शनीयम्मन्य इति। शरीरधर्ममपि दर्शनीयत्वादिकमात्मधर्ममेव मन्यन्ते संसारिणः शरीरशरीरिणोरग्न्ययोगोलकयोरिवाभेदं मन्यमानाः। पण्डितम्मन्य इति। एकस्याप्यात्मनस्स्वरूपेण कर्तृत्वं पण्डितत्वादिविशिष्टरूपेण कर्मत्वं च युज्यत एव। यथोक्तमाचार्यैः----
अस्मत्प्रयोगसम्भिन्ना ज्ञानस्यैव च कर्तरि।
भवन्ती तत्र संवित्तिर्युज्येताप्यात्मकर्तृका।। इति।
खशः खकारो मुमर्थः, दर्शनीयम्मन्या कुमारीत्यादौ ह्रस्वार्थश्च। शकारः सार्वधातुकसंज्ञार्थः, दिवादित्वाच्छ्यन्। स्वरस्तु सतिशिष्टोऽपि विकरणस्वरः सार्वधातुकस्वरं न बाधते इति खश एव भवति, न नित्स्वरः। दर्शनीयमानी देवदत्तो यज्ञदत्तस्येति। कर्मणि षष्ठी, तदपेक्षयास्यापि दर्शनीयशब्दस्य गमकत्वात्समासः।।
भूते।। 3.2.84 ।।
भूते।। यस्य सत्ता व्यपवृक्ता तत्सर्व भूतशब्देनोच्यते, तत्र न ज्ञायते कस्मिन् भूते? किं वा धात्वर्थे? तत्राह---धात्वधिकाराच्चेति। चशब्दः पूर्वोक्तेनार्थेनास्य सङ्गतिं द्योतयति। धात्वर्थभूत इति। ननु धात्वधिकाराद्धातौ भूत इति युक्तम्, न धात्वर्थे भूत इति? उच्यते---प्रयोगे प्रत्ययस्य द्योत्यं भूतत्वमर्थस्यैव विशेषणं भवितुर्हति, विशेषणान्तरवत्, न तु शब्दस्य; तस्य स्वाभिधेयप्रतिपादने व्यग्रत्वाद्विशेषणसम्बन्धं प्रत्ययोग्यत्वात्। किञ्च---नित्योधातुरनित्यत्वेऽपि भूतात्प्रत्ययविदिरनुपपन्नः, उच्चारितलक्षणे भूतत्वे विशेषणं व्यर्थ तर्ह्यनुच्चारितात्प्रत्ययविधिः सम्भवति। नित्यश्चायं भूतशब्दोऽतिक्रान्तवाचीति निष्ठायामितरेतराश्रयत्वादप्रसिद्धिरित्यचोद्यम्।।
करणे यजः।। 3.2.85 ।।
करणे यजः।। णिनिरनुवर्तते न खशिति। अत्रोक्तो हेतुः। अग्निष्टोमयाजीति। ननु चाग्निष्टोमशब्दः कर्मनामधेयम्, तत्कथमग्निष्टोमस्य यजिं प्रति करणत्वम्, न हि तदेव तत्र करणं भवति; इदं तु युक्तमुदाहरणम्---सोमेनेष्टवान् सोमयाजी, सान्नाय्येनेष्टवान् सान्नाय्ययाजीति? तत्राह---अग्निष्टोमः फलभावनायां करणं भवतीति। सत्यं याग एवाग्निष्टोमः; यागोऽपि फलभावनायां करणम्, फलस्य स्वर्गादेर्भवतो या भावना उत्पादना तस्यामित्यर्थः। ननु दीक्षणीयादिरुदवसानीयान्तो ज्योतिष्टोमाख्यो याग एव स्वर्गभावना न तदतिरिक्तः कश्चिद्व्यापारो यजनस्यास्ति यत्रः यागः कारण्यमश्नुते? उच्यते, द्विविधो यजमानव्यापारः---सामान्यरूपः, विशेषरूपश्चेति। तत्र समान्यरूप आभ्यन्तर औदासीन्यप्रच्युतिरूपः कृतिप्रयत्नादिपदाभिलप्यः; बाह्मस्तु दीक्षणीयादिरुदवसानीयान्तः प्रसिद्ध एव। एवमोदनं पचनीत्यादिष्वप्यात्मगुणः प्रयत्नः बाह्यश्चादिश्रयणादिर्द्रष्टव्यः। फलं हि प्रेप्सन् तदर्थ प्रयतते, नोदास्ते; यतोऽयमुपायं जिज्ञासते, जानीते च, ज्ञात्वा चोपायमनुतिष्ठति। सैषा स्वर्गादिफलोद्देशेन प्रवृत्ता कृतिर्भावनेत्युच्यते। सा च भाव्यम्, करणम्, इतिकर्तव्यतां चेति त्रितयमपेक्षते---इदमनेनेत्थं भावयेदिति। यथाह----
भावनापेक्ष्यमाणा हि साधनं कि फलस्य मे।
साधनानुग्रहः को वेत्यनृस्यूतमपेक्षते।। इति।।
सैषा सामान्यरूपा वृत्तिर्न शास्त्रकटाक्षमपेक्षते। विशेषरूपा त्वपेक्षते, तथा हि---फलार्थी तदुपायं जिज्ञासते, तदुपायं जिज्ञासमानः श्रृणोति---ज्योतिष्टोमेनस्वर्गकामो यजेतेति। तत्र च पुरुषप्रवर्तनारूपो विधिः श्रूयते, न चापुरुषार्थे पुरुषः प्रवर्तत इति विध्यवरूद्धा भावना भाव्यापेक्षायां समानपदोपात्तमपि दुःखरूपं धात्वर्तमपहाय पदान्तरोपात्तमपि पुरुषोपसर्जनमपि सुखरूपं स्वर्गमेवावलम्बते। ततः करणापेक्षायां समानपदोपात्तो धात्वर्थः करणं भवति, पश्चात्सन्निधिसमाम्नातं दीक्षणीयादीतिकर्तव्यतयान्वेतीत्येषा मीमांसकमर्यादा। यत्र तु न विध्यवरोधो भावनायास्तत्र धात्वर्थ एव भाव्यो भवति, यथा---पचति पाकं करोति, गच्छति गमनं करोतीत्यादि निर्दिश्यते। ननु भावनया सम्पद्यमानस्य ब्राह्यव्यापारस्य कथं तत्र करणत्वम्? को दोषः? करणं खलु सर्वत्र कर्तृव्यापारगोचरः, कुठारेण छिनत्तीत्यत्रापि उद्यमननिपातनरूपेण कर्तृव्यापारेणाप्यमानस्यैव कुठारस्य तत्र करणत्वम्, तदेव कथं द्विधाभवनरुपेण फलेनावच्छिन्नयोस्तयोश्छेदनरूपत्वं न स्वरूपत्वम्, न स्वरूपेण रजके दर्शनात्, सोऽपि हि वस्त्रमुद्यच्छते निपातयति च। अथ द्विधाभवनाभावान्न छिनत्तीत्युच्यते, तदेवमुद्यमननिपातयोश्छेदरूपत्वं कुठारगोचरत्वनिबन्धनमिति तस्य तत्र करणत्वम्, तथेहापि भावनायां स्वर्गभावनारूपत्वमग्निग्टोमाख्ययागगोचरत्वनिबन्धनमिति तस्य तत्र करणत्वम्। तदिदमुक्तम्---फळभावनायां करणमिति। इयं हि फलं धात्वर्थं च सम्पादयति, तत्र फलभावनारूपत्वे ब्राह्यो व्यापारः करणमित्यर्थः। नन्वेवमपि यज्यर्थ प्रति अग्निष्टोमः करणं न भवति? मा भूत्तत्र करणत्वम्, करणं तावत् सम्बन्धि च यजिना सामानाधिकरण्येन । अथ वा---भावनापि धातोरेव वाच्या, न प्रत्ययस्य; तत्र धात्वर्थैकदेश एकदेशान्तरस्य करणम्, अग्निष्टोमशब्दश्च तत्रैकदेशान्तरे वर्तत इति न किञ्चिदनुपपन्नम्।।
कर्मणि हनः।। 3.2.86 ।।
कर्मणि हनः।। कुत्सितग्रहणमिति। पितृव्यवधादिना यः कर्त्ता कुत्स्यते तत्रायं प्रत्यय इति वक्तव्यमित्यर्थः।।
ब्रह्मभ्रूणवृत्रेषु क्विप्।। 3.2.87 ।।
ब्रह्मभ्रूमवृत्रेषु क्विप्।। धातूपपदकालप्रत्ययविषयः। भाष्ये तूपपदविषयनियमद्वयं प्रदर्शितम्, तदुपलक्षणम्, न तु नियमान्तरव्यावृत्त्यर्थमिति गम्यते। ब्रह्मादिष्वेव हन्तेरिति धातुनियमः, अत्रापि नियमे भूत इत्याश्रयणात् कालान्तरे उपपदान्तरेऽपि भवत्येव----पुरुषं हन्ति हनिष्यति वा पुरुषहेति। ब्रह्मादिषु हन्तेरेवेत्युपपदनियमः, अत्रापि भूत इत्याश्रयणात्कालान्तरे धात्वन्तरादपि भवत्येव---वृत्रं जयति जेष्यति वा वृत्रजिदिति। भूतकाले क्विबेवेति कालनियमः। नान्यः प्रत्यय इति। यथा `कर्मणि हनः' `कर्णण्यण्' इति। उपपदान्तरे तु भतेऽपि प्रत्ययान्तरं भवत्येव--पितृव्यं हतवान्पितृव्यघातीति, सोपपदश्च प्रत्ययो नियमेन व्यावर्त्त्यते। निष्ठा तु भवत्येव---वृत्रं हतवानिति। तथा भूत एवेति प्रत्ययनियमः, अत्रापि ब्रह्मादिषु हन्तेरित्याश्रयणादुपपदान्तरे धात्वन्तराच्च कालान्तरेऽपि भवत्येव। कथं पुनरेकस्मिन्नेव योगे चतुर्विधो नियमो लभ्यते? इत्याह---तदेतदिति। अगृह्यमाणविशेषत्वादेव चतुर्विधो नियमो लब्धुं शक्यते, तत्रैव तूपोद्वलकमेतदुक्तं वेदितव्यम्।
बहुलं छन्दसि।। 3.2.88 ।।
सुकर्मपापमन्त्रपुण्येषु कृञः।। 3.2.89 ।।
सुकर्मपापमन्त्रपुण्येषु कृञः।। स्वादिष्विति। सुशब्दं वर्जयित्वेत्यनन्तरमेवाभिधानादतद्‌गुणसंविज्ञानो बहुव्रीहिः, बाहुल्याश्रयणेनैवमुक्तम्, आढ्यो ग्राम इतिवत्।
त्रिविधश्चेति। एतद्वहुलग्रहणानुवृत्तेरेव लभ्यते। कालोपपदप्रत्ययविषय इति। तत्र कालनियमात्कर्म कृतवान्कर्मकार इत्यण् न भवति। उपपदनियमात् मन्त्रमधीमधीतवान्मन्त्राध्याय इत्यणेव भवति, न तु क्विप्। प्रत्ययनियमात् मन्त्रं करोति करिष्यति वेति विवक्षायामणेव भवति, न तु क्विप् शास्त्रकृदिति। `क्विप्‌ च' इति क्विप्।।
सोमे सुञः।। 3.2.90 ।।
सोमे सुञः।। कालधातूपपदप्रत्ययविषय इति। तत्र भूतकालस्य क्विपि नियतत्वात्सोमं सुतवान्सोमसाव इत्यण् न भवति। तथा धातोः सोम एवोपपदे नियतत्वात्सुरां सुतवान्सुरासाव इत्यणेव भवति। तथा सोमस्य सुनोतावेव धातौ नियतत्वात्सोमं क्रीतवान् सोमक्रीरिति क्विब् न भवति, अणेव तु भवति। तथा क्विपो भूते नियतत्वात्सोमं सुनोति सोष्यति वेति विवक्षायां क्विब् न भवति, अणेव तु भवति।।
अग्नौ चेः।। 3.2.91 ।।
अग्नौ चेः।। अत्रापीत्यादि। तत्र भूतकालस्य क्विपि नियतत्वादग्निं चितवानग्निचाय इत्यण् न भवति। धातोश्चाग्नावुपपदे नियतत्वादिष्टकाचिदिति न भवति। अग्नेश्चिनोतावेव नियतत्वादग्निभृदिति न भवति। क्विपश्च भूत एव नियतत्वादग्निं चिनोति चेष्यति वेत्यत्राभावः।।
कर्मण्यग्न्याख्यायाम्।। 3.2.92 ।।
कर्मण्यग्न्याख्यायाम्।। `कर्मणि हनः' इत्यतोऽनुवृत्तं कर्मग्रहणमुपपदम्, इदं तु कर्मप्रत्ययार्थमित्याह---कमण्येव कारक इति। एवकारः पौनर्वचनिकः। उपपदं तावत्कर्मप्रत्ययार्थोऽपि कर्मैवेति। आख्याग्रहणं रूढिसम्प्रत्ययार्थमिति। अग्निशब्दो लोके ज्वलने रूढः, वेदे त्वग्न्यर्थ इष्टकाचयेऽपि प्रचुरः प्रयोगः----य एवं विद्विानग्निं चिनुते, अग्निं चेष्यमाण इति, स मुख्यो जघन्यो वा भवतु; इह त्वसत्याख्याग्रहणे लोकप्रसिद्धिवशेन ज्वलन एव गृह्येत, मा ग्राहि, इष्टकाचय एव गृह्यतामित्याख्याग्रहणमित्यर्थः।।
कर्मणीनिर्विक्रियः।। 3.2.93 ।।
कर्मणीनिर्विक्रियः।। कर्मणीति वर्तमान इति। `कर्मणि हनः' इत्यतः कर्त्तुः कुत्सानिमित्ते कर्मणीति यत्कर्म क्रियासम्बद्धं कर्तुः कुत्सामावहति तत्रेत्यर्थः। सोमादीनां विक्रयः शास्त्रे निषिद्धः।।
द्दशेः क्वनिप्।। 3.2.94 ।।
द्दशेः क्वनिप्।। प्रत्ययान्तरनिवृत्त्यर्थमिति। प्रत्ययान्तरं सह निर्दिष्टं मनिनादि, अणादि च। सोपपदान्निष्ठा तु भवत्येव---पलोकं द्दष्टवानिति।।
राजनि युधिकृञः।। 3.2.95 ।।
राजनि युधिकृञः।। ननु च युधिरकर्मक इति। तत्कथं राजन्‌शब्दे कर्मवाचिन्युपपद इत्युक्तमिति भावः। अन्तर्भावितण्यर्थ इति। अनेकार्थथ्वाद्धातूनां लक्षणया वा यदा ण्यर्थमपि युधिरेवान्तर्भावयति तदा प्रयोज्येन कर्मणा सकर्मको भवतीत्यर्थः।।
सहे च।। 3.2.96 ।।
सहे च।। असत्त्ववचनत्वान्नोपपदं कर्मणा विशेष्यत इति। अतश्च `कर्मणि'इति नानुवर्तते इति भावः। न पुनरनुवर्तमानस्यैवान्नासम्बन्धः, उत्तरत्राप्यनुपयोगात्।।
सप्तम्यां जनेईः।। 3.2.97 ।।
सप्तम्यां जनेईः।। मन्दुरज इति। `वाजिशाला तु मन्दुरा'। `ङ्यापोस्संज्ञाछन्दसोर्बहुलम्' इति ह्रस्वः।।
पञ्चम्यामजातौ।। 3.2.98 ।।
पञ्चम्यामजातौ।। बुद्ध्यादय आत्मगुणाः, खेदः=रागः, खेदात् स्त्रेषु प्रवृत्तिरिति दर्शनात्।।
उपसर्गे च संज्ञायाम्।। 3.2.99 ।।
उपसर्गे च संज्ञायाम्।। प्रजेति प्राणिजातस्यैषा संज्ञा।।
अनौ कर्मणि।। 3.2.100 ।।
अनौ कर्मणि।। पुमांसमनुजात इति। पुमांसमनुरुद्ध्य जात इत्यर्थः, तेनास्य सकर्मकत्वम्। पुमनुज इति पुंसः संयोगान्तलोपः।।
अन्येष्वपि द्दश्यते ।। 3.2.101 ।।
अन्येष्वपि द्दश्यते।। द्विर्जात इति।
मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धनम्।
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते।।
निष्ठा।। 3.2.102 ।।
निष्ठा क्तक्तवतू निष्ठेत्युक्तमिति। ककारः कित्कार्यार्थः, उकार उगित्कार्यार्थः, `अत्वसन्तस्य' इति विशषणार्थश्च। निष्ठायामित्यादि। अप्रसिद्धिः=अनिष्पत्तिः, कस्य? संज्ञायाः, संज्ञिनो वा। कथमित्याह---संज्ञयेति। यदि द्विः क्तक्तवतूपग्रहणं क्रियेत--इह, संज्ञाविधौ च, ततो न स्यादितरेतराश्रयत्वमिति संज्ञयेत्युक्तम्। सतोश्च तयोरिति। लोके शास्त्रे वा न तावल्लोके सानुबन्धावेतौ स्तः, शास्त्रेऽपि यद्यपि `ञीतः क्तः' `नपुंसके भावे क्तः'इति क्तः स्वरूपेण विहितोऽस्ति, भूते तु काले नास्ति, क्तवतुस्तु न क्वाप्यस्तीति भावः। भाविनी संज्ञेति। संज्ञिनो भावित्वात् संज्ञापि भाविनी सूत्रशाटकवत् तद्यथा----अस्य सूत्रस्य शाटकं वयेति तन्तुवाय उक्तः, स पश्यति यदि शाटको न वातव्यः, अथ वातव्यो न शाटकः, शाटको वातव्यश्चेति विप्रतिषिद्धम्, मन्ये स वातव्यो यस्मिन्नुते शाटक इत्येतद्भवतीति। सामर्थ्यादिति। `क्तक्तवतू निष्ठा'इति वचनात् अन्यस्योत्पन्नस्य निष्ठेति संज्ञाया अभावः=सामर्थ्यम्। आदिकर्मणीति। कर्मशब्दः क्रियावाची, एकफलोद्देशप्रवृत्तक्षणसमूहरूपा क्रिया, तत्राद्ये क्रियाक्षणेऽपवृक्तेऽपि धात्वर्थरूपायाः क्रियाया अनपवृक्तत्वाद्वचनम्। न्याय्या त्वाद्यपवर्गात्। न्याय्या त्वेषा भूतकालता, कुतः? आद्यपवर्गात्। आदिभूतक्रियाक्षणोऽपवृक्तः तस्मिन्नेव चावयवे समूहरूपो धात्वर्थः परिसमाप्तः उक्तं च----
समूहः स तथाभूतः प्रतिभेदं समूहिषु।
समाप्यते ततो भेदे कालभेदस्य सम्भवः।। इति।
तथा च प्राकार्षीत्कटं देवदत्त इति लुङपि प्रयुज्यते। कटावयवे वा कटशब्दो द्रष्टव्यः, ततः केषाञ्चित्कटावयवक्षणानामपरिसमाप्तेः प्रकरिष्यति कटं देवदत्त इति लृट्‌प्रयोगोऽप्यविरुद्धः।
अपर आह---ज्ञापकात्सिद्धं यदयम् `आदिकर्मणि क्तः' `कर्तरि च'`उदुपधाद्भावादिकर्मणोरन्यतरस्याम्' इति चाह, तज्ज्ञापयति---भवत्यादिकर्मणि क्त इति। नैतदस्ति ज्ञापकम्, `ञीतः क्तः' इति योऽयं वर्तमाने क्तस्तद्विषयमेतत्स्यात्? यदि तद्विषयमेव स्याद्वर्तमानग्रहणमेव कुर्यात्।।
सुयजोङ्‌र्वनिप्।। 3.2.103 ।।
सुयजोङ्‌र्वनिप्।। सुनोतेरिति। `सु स्त्रु गतौ',`सु प्रसवैश्वर्ययोः'----इत्यनयोरेव निरनुबन्धकयोर्ग्रहणं प्राप्तम्; अनभिधानादुभयपदिना साहचर्याद्वा न भवति। ङकारः सुनोतेर्गुणप्रतिषेधार्थः, इकार उच्चारणार्थः, पकारः स्वरार्थस्तुगर्थश्च।।
जीर्यतेरतृन्।। 3.2.104 ।।
छन्दसि लिट्।। 3.2.105 ।।
छन्दसि लिट्।। आततानेति। `णलुत्तमो वा' इति णित्त्वपक्षे वृद्धिः। धातुसम्बन्धे स विधिरिति। `धातुसम्बन्धे प्रत्ययाः' इत्यधिकारात्। लिट इकारटकारौ विशेषणार्थौ, `लिटः कानज्वा' `लिट्यभ्यासम्योभयेषाम्' इत्यादौ `ल' इत्युच्यमानेऽन्येषामपि लङादीनां ग्रहणं स्यात्, निरनुबन्धकत्वादस्यैव ग्रहणं भविष्यति। परोक्षे लिटोऽपि तर्हि न प्राप्नोति? टकारष्टेरेत्वार्थश्च।।
लिटः कानज्वा।। 3.2.106 ।।
लिटः कानज्वा।। चिक्यान इति। `चिञ् चयने',`विभाषा चेः' इति कुत्वम्, `एरनेकाचः' इति यणादेशः। न च भवतीति। वावचनस्य प्रयोजनं दर्शयति। वाऽसरूपविधिश्च लादेशेषु नास्ति, `हशश्वतोर्लङ् च' इति वचनादित्युक्तम्। नन्वनन्तरसूत्रविहितस्य लिटो नित्यमादेशोस्तु, यस्तु `छन्दसि लुङ्लङ्‌लिटः' इति लिट्, तत्र तिङां श्रवणं भविष्यति? न; तस्य धातुसम्बन्धविषयत्वादधातुसम्बन्धे तिङां श्रवणं न स्यात्। लिण्मात्रस्य च ग्रहणमित्यनन्तरमेव वक्ष्यति।
पूर्वस्यैवेत्यादि। प्रत्ययान्तरं तु कानज् न भवति, वावचनाद्वाऽसरूपविधिनैव लुङादीनां सिद्धत्वादिति भावः। लिण्मात्रस्येति। भाष्ये त्वन्तरस्यैव लिटोऽयमादेशः, लिङ्ग्रहणं च प्रत्ययान्तरत्वं मा विज्ञायीति। वावचनं चोत्तरार्थमिति स्थितम्।
कानचश्चित्करणं स्वरार्थम्। कित्करणं किमर्थम्, न `असंयोगाल्लिट् कित्' इत्येव सिद्धम्, तेन ईजानस्तेपान इत्यादौ संप्रसारणैत्वाभ्यासलोपादिकार्य भविष्यति? संयोगान्तार्थम्----`बन्ध बन्धने' `वृत्तस्य यद्वद्वधानस्य, त्वमर्णवान् बद्वधाना अरम्णा'अत्र `अनिदिताम्' इति नलोपः, छान्दसत्वादभ्यासधकारस्य हलादिश्शेषेण निवृत्त्यभावे `झलां जश् झशि' इति जश्त्वं दकारः। ननु छान्दसः कानच्‌ लिट् च छन्दसि सार्वधातुकमपि भवति, `छन्दस्युभयथा'इति वचनात्, तत्र `सार्वधातुकमपित्' इति ङित्त्वं ङितीत्युपधालोपो भविष्यति? न च संयोगान्तेषु कित्त्वङित्त्वयोर्विशेषोऽस्ति। ऋकारान्तगुणप्रतिषेधार्थ तु, `ऋच्छत्यॄताम्'इति ऋकारान्तानां प्रतिषेधविषये गुण आरभ्यते स यथेह भवति---परितस्तरे इति, एवमिहापि स्यात्----परितिस्तिराण इति, तस्मात्कित्करणम्। कित्करणसामर्थ्याद्भाषायामपि कानजस्तीत्येतत्तु भाष्यविरोधातुपेक्ष्यम्।।
क्वसुश्च।। 3.2.107 ।।
क्वसुश्च।। क्वसोरुकार उगित्कार्यार्थः, जक्षिवानित्यादौ `उगिदचाम्' इति नुम्, उपसेदुषीत्यादौ `उगितश्च' इति ङीप्, `वसोः संप्रसारणम्'इत्यत्र सामान्यग्रहणमप्युकारस्य प्रयोजनम्। कित्करणं किमर्थ न `असंयोगाल्लिट् कित्' इत्येव सिद्धम्? संयोगान्तार्थम्।अञ्जेः आजिवान्---उपधालोपो भवति, छान्दसः क्वसुः लिट्। छन्दसि सार्वधातुकमपि तत्र `सार्वधातुकमपित्' इति। तत्त्वङितीत्युपधालोपो भविष्यति। ऋकारान्तगुणप्रतिषेधार्थन्तु', `ऋच्छत्यॄताम्' इत्ययं गुणः प्रतिषेध आरभ्यते स यथेह भवति---तेरतुस्तेरुरिति, तथा तितीर्वानित्यत्रांपि स्यात्। कित्करणसामर्थ्याद्भाषायामपि क्वसुर्भवतीत्येत्तु भाष्यविरोधादुपेक्ष्यम्। उत्तरसूत्रानर्थक्यं च, यदि भाषायामपि क्वसुर्भवति।।
भाषायां सदवसश्रुवः।। 3.2.108 ।।
भाषायां सदवसश्रुवः।। आदेशविधानादेवेत्यादि। यदि भाषायां सदादिभ्यो भूतसामान्ये लिण्न स्यात्, ततस्ताद्दशस्य लिट आदेशविधानमनुपपन्नं स्यादिति मन्यते। ननु च `लिटः कानज्वा' इत्यत्र पुनर्लिड्गहणस्य प्रयोजनमुक्तम्---योऽपि परोक्षे लिड्‌विहितस्तस्याप्ययमादेशो भवतीति, तच्चेत्सत्यम्, इहापि यः परोक्षे लिट् स भाषायामपि सदादिभ्यः सम्भवतीति तस्येवेदमादेशविधानं स्यात्? उच्यते---लिङ्‌लिड्‌विषयेऽपि परस्तादनुवृत्तेर्भवतीति वक्ष्यति, ततो नानेन परोक्षे लिट आदेशाभिधानम्, किं तर्हि? भूतसामान्ये, ततश्चादेशविधानादेव लिडपि तद्विषयोऽनुमातव्यः। यद्येवम्, तस्य पक्षे क्वस्वादेशः पक्षान्तरे तिङां श्रवणं प्राप्नोति? न वावचनेन क्वसुरभिसम्बद्ध्यते क्वसुर्वा भवतीति, किं तर्हि? लिडभिसम्बद्ध्यते, भाषायां सदादिभ्यो वा लिट्; तस्य नित्यं स्वसुरादेशो भवतीति। वृत्तिग्रन्थोऽप्यस्मिन्नेवार्थ योजनीयः। उपासददिति। लृदित्त्वादङ्। उपासीददिति पाघ्रादिसूत्रेण सीदादेशः। अनूषिवानिति। यजादित्वात्सम्प्रसारणम्`शासिवसिघसीनां च' इति षत्वम्। अन्ववात्सीदिति। `सस्यार्द्धधातुके' इति तत्वम्। अनूवासेति। `लिट्यभ्यासस्योभयेषाम्' इत्यभ्यासस्य सम्प्रसारणम्। लुङ्लङ् विषयेऽपि परस्तादनुवृत्तेर्भवतीति। अन्यथा भूतसामान्ये लुङ् विहितस्त्रैव धातुविशेषेऽनेनादेशविधानेनानुमितो लिडपवादः। तथा भूतविशेषे लङ्‌लिटौ लुङ् एवापवादौ। सदादिभ्यस्तु भूतविशेषे एतत्सूत्रविहितं च कार्य प्राप्नोति, लङ्‌लिटौ च; अपवादविप्रतिषेधाल्लङ्‌लिटावेव स्याताम्।।
उपेयिवानाश्वाननूचानश्च।। 3.2.109 ।।
उपेयिवानाश्वननूचानश्च।। उपपूर्वादिणः क्वसुरिति। निपात्यत इत्यर्थः। लिडादेशश्चायम्; अन्यथा द्विर्वचनाभ्यासदीर्घत्वे अपि निपातयितव्ये स्याताम्। तथा ग्राममुपेयिवानित्यत्र `न लोकाव्यय' इति षष्ठीप्रतिषेधो न स्यात्। द्विर्वचनमिति। इडागमात्पूर्व नित्यत्वात्क्रित इत्यर्थः। अभ्यासदीर्घत्वमिति। `दिर्घइणः किति' इत्यनेन। तत्सामर्थ्यादिति। यदि ह्येकादेशः स्याद्दीर्घविधानमनर्थकं स्याद्; एकादेशेनैव दीर्घस्य सिद्ध्त्वात्। ननु चाभ्यासदीर्घत्वस्येयतुरित्यादिरवकाशः स्यात्, अत्र हि इ इ अतुस् इति स्थिते दीर्घत्वमेकादेशश्च प्राप्नोति, `इणो यण्' इति यणादेशश्च; तत्र `वार्णादाङ्गं बलीयः' इति बह्वाश्रयत्वेनैकादेशस्य बहिरङ्गत्वाद्वा यणेव भवति, ततश्च दीर्घविधानमर्थवद्भवति ? एवं मन्यते----अत्रापि पूर्वपरविधिरेकादेशः पूर्वविधिरिति, तत्र कर्त्तव्ये यणादेशस्य स्थानिवत्त्वात्स्यादेवैकादेशः; तदेवमभ्यासदीर्घत्वमनवकाशत्वात्सवर्णदीर्घत्वं बाधत इति। तस्मात्सुष्ठूक्तम्-----तत्सामर्थ्यादेकादेशप्रतिबन्ध इति। तत्रेति। एवं सतीत्यर्थः। स निपात्यत इति। निपातनाश्रयणमिडर्थम्। अन्यत्सर्वं पूर्वत्रैवेण्ग्रहणादेव सिद्धमित्यर्थः।
यदि तहीडर्थमेतन्निपातनं संप्रसारणविषयेऽपि प्राप्नोति; अत्र वलादेरिति विशेषानुपादानात्, यथा वक्ष्यति----नित्यश्चायं वल्निमित्तो विघातीति, तत्राह-----क्रादिनियमात्प्राप्तश्चेति। चशब्दो हेतौ। नात्रापूर्व इङ् विधीयते, किं तर्हि? योऽयं वलादिलक्षण इट् क्रादिनियमेन प्राप्तः `वस्वेकाजाद्धसाम्' इति नियमेन प्रतिषिद्धः, स एव प्रतिप्रसूयते=प्रतिबन्धपनयनेन पुनः प्रवर्त्त्यते। तेनाजादा वतिप्रसङ्गो न भवतीत्यर्थः। अन्ये तु----अभ्यासदीर्घत्वे कृते धात्विकारस्य व्यञ्जनं यणादेशं निपातयन्ति, ईय्वसु इति स्थिते `वस्वेकाजाद्धसाम्' इत्येवेट् सिद्धः, स च वलादिलक्षण इति नास्त्यतिप्रसङ्गः।
अपर आह---पूर्वसूत्र एवेग्रहणं कर्त्तव्यम्, नार्थो निपातनाश्रयणेन। अत्र यदुक्तम्---ईयतुरित्यत्राभ्यासदीर्घत्वे कृते एकादेशात्पूर्व वार्णादाङ्गं बलीय इति यणि कृतेऽपि तस्य स्थानिवत्त्वादेकादेशः प्राप्नोति, ततश्चावश्यमभ्यासदीर्घत्वेन बाधितव्य एकादेश इति, तन्न; न हि स्थानिवद्भावेन रूपमतिदिश्यते, रूपाश्रयश्च पूर्वपरयोरेकादेशो न यकारस्य भवितुमर्हति। किञ्च, यणादेशेन बाधितस्यैकादेशस्य पुनस्स्थानिवद्भावेनापि प्रवृत्त्यभावो बाधितत्वादेव। किमतो यद्येवामिदं ततो भवति? इणः क्वसौ विहिते द्विर्वचनं च प्राप्नोति, `वस्वेकाजाद्‌घसाम्' इतीडागमश्च। किमत्र कर्त्तव्यम्? परत्वादिट् नित्यं द्विर्वचनं कृतेऽपीटि प्राप्नोति, अकृतेऽपि प्राप्नोतीति। इडपि नित्यः, कृते द्विर्वचनेऽभ्यासदीर्घत्वे एकादेशे च एकाच्त्वात्प्राप्नोति; इदानीगेव ह्युक्तम्---अभ्यासदीर्घत्वेन न बाधितव्य एकादेश इति। तदेवमुभयोर्नित्ययोः परत्वादिट्, द्विर्वचनम्, अभ्यासदीर्घत्वं परस्य यणादेशः ईयतुरित्यादिवत्सिद्धमुपेयिवानिति। बिभिद्वानित्यादौ नित्यत्वात्पूर्व द्विर्वचनमेव भवति।
न चात्रोपसर्गस्तन्त्रमिति। एवमाचार्याणामुपदेश इति भावः। अनुपसर्गाच्चेति। `ईयिवांसमतिस्त्रिधः' इति हि छन्दसि द्दश्यते। लुङादयो भवन्तीति। लङ्‌लिड्‌विषयेऽपि परस्तादनृवृत्तेरयं विधिर्भवतीति दर्शयति। उपागादिति। `इणो गालुङि',`गातिस्थाघुपाभूभ्यः' इति सिचो लुक्। उपैदिति। अदादित्वाच्छपो लुक्,`आडजादीनाम्',`आटश्च'। उपेयायेति। तिपो णलि वृद्ध्यायादेशौ, `द्विर्वचनेऽचि' इति स्थानिवद्भावादिकारस्य द्विवचनम् `अभ्यासस्यासवर्णे'।
अश्नातेरिति। `अश भोजने'। नञ्पूर्वादिति। तेनान्यपूर्वात्केवलाच्च न भवति। नाशीदिति। तिपि सिचि `नेटि' इति वृद्धिप्रतिषेधः, `आडजादीनाम्' `आटश्च', नञा सह सवर्णदीर्घत्वम्। नाशेति। तिपि णलि द्विर्वचने `अत आदेः' इत्यभ्यासदीर्घः, नञा परेण च सवर्णदीर्घत्वम्।
वचेरिति। `ब्रुवो वचिः' इत्यस्य। तथा च लङि अन्वब्रवीदित्युदाहरिष्यते। अन्ये तु `वच परिभाषणे' इत्यस्यापि ग्रहणमिच्छन्ति। कर्त्तरीति। न भावकर्मणोः। एतच्च निपातनाल्लभ्यम्। अन्ववोचदिति। `वच उम्'। अन्वब्रवीदिति। `ब्रु व ईट्'। अनूवाचेति। पूर्ववदभ्याससंप्रसारणम्।
लुङ्।। 3.2.110 ।।
लुङ्।। इह भूतसामान्ये लुङ् विधीयते, तस्य विशेषेऽनद्यतने लङ्‌लिटावपवादौ, तद्विषयेऽपि लुङ् द्दश्यते, आगमाम घोषात्, अपास पयः, अशेयिष्महि पूतीकतृणेषु, अभून्नृपो विवुधसखः परन्तपः, इति चिरवृत्तं कथयतः प्रयुञ्चते? नैष दोषः; विशेषे सामान्यमस्ति, तत्र विशेषाविवक्षायां सामान्याश्रयणेन वस्तुतोऽनद्यतनेऽपि लुङुपपद्यते, द्रूपविवक्षायामेव तु लङ्‌लिटौ, विवक्षोपारूढो ह्यर्थः शब्दप्रयोगनिमित्तः, न वस्तुतः सन्निति। गतमेतत्। वसेरिति। `वस निवासे' रात्रेश्चतुर्थे यामे पृष्टो यदा वाक्यं प्रयुङ्क्ते तदा तस्यातिक्रान्तरात्रिप्रहरत्रयवसनमनद्यतनमिति लङ्प्रयोगे लुङ् वक्तव्यः। लङ्‌निवृत्तिपरं चैतत् लुङ् भूतसामान्यविवक्षया सिद्धः।
जागरणसन्तताविति। यदा प्रयोक्ता सकलमतिक्रान्त रात्रिप्रहरत्रयं जागरिवतान् तदा लुङ्प्रयोगः यदा सुप्त्वा प्रबुद्ध्य तदा लङ्प्रत्यय एवेत्यर्थः।।
अनद्यतनेलङ्।। 3.2.111 ।।
अनद्यतनेलङ्।। `अनद्यतने' इति तत्पुरुषपक्षे पर्युदासश्चेद्व्यामिश्रेऽपि प्राप्नोति---अद्य ह्यो वाऽभुक्ष्महीति, भवति ह्यद्यतनानद्यतनसमुदायोऽद्यतनादन्यः, प्रसज्य प्रतिषेधे तु योऽत्राद्यतनस्तदाश्रयः प्रतिषेधो भवति, किन्तु भूतसमान्ये प्राप्नोति, भूतविशेषे हि प्रतिषेधः। न च सामान्यं विशेशो भवति। पर्युदासेऽप्ययं दोषो द्रष्टव्यः। बहुव्रीहौ न विद्यतेऽद्यतनो यस्मिन् सोऽनद्यतनो भूतो धात्वर्थः, तत्र वर्त्तमानाल्लङ् भवति, ततश्चाद्यतनसमुदायेऽद्यतनस्यैकदेशस्य सम्भवान्न भवति प्रसङ्गः। भूतसामान्येऽपि न भवत्येव, विद्यते हि सामान्ये विशेषः, अतो बहुव्री---हिरेवायं युक्त इत्याह---अनद्यतन इति बहुव्रीहिनिर्देश इति। बहुव्रीहिणा विवक्षितार्थस्य प्रतिपादनं बहुव्रीहेर्वोच्चारणमित्यर्थः। यदि बहुव्रीहिनिर्द्देशः, एवं सत्यद्यतने प्राप्नोति, न ह्यद्यतनेऽद्यतनो विद्यते? अद्यतनेऽपि मुहूर्त्तादिरद्यतनो विद्यते, मुहूर्त्तादावपि क्षणादिः, कथम्? व्यपदेशिवद्भावेन यथा मुख्ये भेदे आधाराधेयभावो भवति---तटे तिष्ठतीति, तथेहापि समुदायावयवभेदाश्रयेण समुदायेऽद्यतनेऽवयवा अद्यतनाः सन्तीत्यनद्यतनो न भवतीत्युच्यते, न तु तत्त्वतः अवयवव्यतिरिक्तोऽत्र समुदाय आधारोऽस्ति। तदुक्तं हरिणा-----
कालस्याप्यपरं कालं निर्द्दिशन्त्येव लौकिकाः।
न च निर्द्देशमात्रेण व्यतिरेकोऽनुगम्यते।। इति।
अद्य ह्य इति।। अद्य ह्यश्चेत्यर्थः। गामश्वं पुरुषं नयमान इतिवच्चशब्दस्याप्रयोगः। अभुक्ष्महीति। `भुजोऽनवने' इत्यात्मनेपदम्, महिङि `लिङ्‌सिचावात्मनेपदेषु' इति सिचः कित्त्वाद् गुणाभावः, `चोः कुः' इति कुत्वम्---गकारः, `खरि च' इति चर्त्त्वम्----ककारः, सिचः सस्य षत्वम्। परोक्षे चेत्यादि। परोक्षशब्दोऽयमतीन्द्रियार्थे वर्त्तते, लोकविज्ञाते लोकप्रसिद्धे प्रयोक्तुर्दर्शनविषये लङन्तस्य शब्दरूपस्य यः प्रयोक्ता तस्य दर्शनविषये लङ् वक्तव्यः। ननु विप्रतिषिद्धमिदम् यदि परोक्षः, कथं दर्शनविषयः? अथ दर्शनविषयः, कथं परोश्रः? शक्यदर्शनत्वाद्दर्शनविषयः, क्वचिद्व्यासङ्गादननुभूतत्वात्परोक्षइति विरोधाभावः। अरुणदिति। `रुधिर् आवरणे',`रुधादित्वात् श्नम्, तिपो हल्ङ्यादिना लोपः। साकेतरोधस्तदानीं प्रयोक्तुर्दर्शनविषयः, शक्यदर्शनत्वात्। लोकप्रसिद्धश्च, क्वचिद्व्यासङ्गादननुभूतत्वात्परोक्षश्च। परोक्ष इति किम्? उदगादादित्यः, इणो लुङ्, गादेशादिकार्यम्।
लोकविज्ञात इति। किम? चकार कटं देवदत्तः। प्रयोक्तुदर्शनविषये इति। किम्? जघान कंसं किल वासुदेवः, हन्तेः परोक्षे लिट्,द्विर्वचनम्,`अभ्यासाच्च'इति कुत्वम्---हकारस्य घकारः। कंसवधश्चिरकालान्तरवृत्तत्वादिदानीं प्रयोक्तुर्दर्शनविषयो न भवति। यस्तु कंसवधेन तुल्यकालः प्रयोक्ता स लङमेव प्रयुक्तवान्----आहत कंसं वासुदेव इति। मूलोदाहरणेऽपि प्रयोक्ता साकेतरोधेन तुल्यकालो वेदितव्यः, तस्येव ह्यसौ दर्शनविषयः, नान्यस्य।।
अभिज्ञावचने लृट्।। 3.2.112 ।।
अभिज्ञावचने लृट्।। वत्स्याम इति। वसेलृट् मस्, `स्यतासां लृलुटोः' इति स्यप्रत्ययः, `सस्यार्द्धधातुके' इति सस्य तकारः, `अतो दीर्घो यञि' इति दीर्घः।
वचनग्रहणमित्यादि। असति वचनग्रहणेऽभिज्ञाशब्द एवोपपदे स्यात्, तस्मिंस्तु सति यावन्तोऽभिज्ञानवचनास्तेषु भवति। बुद्ध्यसे चेतयसे इति। अर्थप्रकरणादिना स्मृतिरूपे ज्ञाने यदानयोर्वृत्तिस्तदात्रापि भवतीति भावः।।
न यदिः।। 3.2.113 ।।
न यदि।। यदीति सतिसप्तमीयम्। अभिज्ञावचनं चानुवर्त्तते, तेन यत्र यच्छब्दोऽस्ति, तत्र यदभिज्ञावचनं तन्नियोगतो यच्छब्देन सहितं भवतीत्यभिप्रेत्याह-----यच्छब्दसहित इत्यादि। अवसामेति। वेसर्लङ् मस्, `नित्यं ङितः' इति सलोपः, दीर्घः, वासमात्रमित्यादिनोत्तरसूत्रस्य नायं विषय इति दर्शयति। यदि तत्रापरं किञ्चिल्लक्ष्यमपेक्ष्येत तदोत्तरसूत्रेण पाक्षिको विधिस्स्यात्, तच्च नेष्यते, तस्मान्न तस्य विषयः।।
विभाषा साकाङ्क्षे।। 3.2.114 ।।
विभाषा साकाङ्क्षे।। उभयत्रविभाषेयमिति। प्राप्ते चाप्राप्ते च। असति यच्छब्दे `अभिज्ञावचने लृट्' इति प्राप्ते सति यच्छब्दे प्रतिषेधे प्राप्ते। आकाङ्क्षणम्=आकाङ्क्षा, आकाङ्क्षया सह वर्त्तते साकाङ्क्षः। आकाक्षङ्क्षा च चेतनावतो धर्मः, तस्मात्साकाक्षङ्क्ष इत्येतत्प्रयोक्तृविशेषणम्, तेन सकर्मक इत्यादिवत्समासः। साकाङ्क्षश्चेत्प्रयोक्तेति। `अङ्गयुक्तं तिङाकाङ्क्षम्' इत्यत्र तु प्रयोक्तृगताकाङ्क्षाध्यारोपेण तिङन्तमाकाङ्‌क्षमिति वक्ष्यते। इह तु मुख्ये प्रयोक्तरि सम्भवति, गौणकल्पनया धात्वर्थविशेषणमयुक्तमिति भावः। ईद्दशे पुनर्विषये प्रयोक्ता साकाङ्क्षो भवतीत्याह---लक्ष्यलक्षणयोः सम्बन्धे इति। यत्रैको धात्वर्थो लक्ष्यः, अपरो लक्षणम्, तत्र द्वयोर्लक्ष्यलक्षणभावेन सम्बन्धे सति प्रयोक्तुराकाङ्क्षा भवति, तत्र न वासमात्रं प्रतिपाद्य प्रयोक्ता चरितार्थो भवति, किन्तु तेन प्रसिद्धेन भोजनादिकं स्मारयितुं प्रवर्त्तते।।
परोक्षे लिट्।। 3.2.115 ।।
परोक्षे लिट्।। परोक्षशब्दोऽयमतीन्द्रियवाचो प्रसिद्धः। व्युत्पत्तिस्तु परमक्ष्णः परोक्षम्, मयूरव्यंसकादित्वात्समासः, `अच्प्रत्यन्ववपूर्वात्' इत्यत्राजिति योगविभागादच् समासान्तः। वृत्तिविषये चाक्षिशब्दः सर्वेन्द्रियवचनः, न चक्षुः पर्यायः; अन्यथेन्द्रियान्तरविज्ञातं वस्तु परोक्षमापद्येत । एवं च कृत्वा दर्शनपर्यायोऽक्षिशब्दो न भवतीति `अक्ष्णोऽदर्शनात्' इत्येवाच् समासान्तोऽस्तु। अन्ये तु `प्रतिपरसमनुभ्योऽक्ष्णः' इति शरत्प्रभृतिषु पाठादच् समासान्त इत्याहुः। स च यद्यप्यव्ययीभावे विधीयते, तथापि परशब्देनाव्ययीभावासम्भवात्समासान्तरे विज्ञायते। एवं तु `क्रियायां परोक्षायाम्' इति भाष्यप्रयोगे टिल्लक्षणो ङीप् प्राप्नोति, तस्मादजन्त एवायम्। तत्र परतः परशब्दस्य परो भावोऽस्मादेव निर्द्देशाद्भवति, परशब्दादुत्तरस्याक्षिशब्दस्यादेरुत्वं वा।
ननु चेत्यादि। एकफलोद्देशेन प्रवृत्तत्वादैक्यमिवापन्ना विततरूपः क्षणप्रवाहो धात्वर्थः, स कार्त्स्न्येनैकस्मिन्क्षणे न सम्भवतीति सद्वस्तुविषयैरिन्द्रियैर्न गह्यते, ततश्चैकैकस्य क्रियाक्षणस्य प्रत्यक्षत्वेऽपि समूहरूपो धात्वर्थः सर्वः परोक्ष एव, ततश्चाव्यभिचारादविशेषणमिति भावः। सत्यमेतदिति। अनन्तरोक्तं मन्यते। किमर्थ तर्हि परोक्षग्रहणमित्याह---अस्त्विति। यत्र साधनशक्त्याश्रयभूतं फूत्कारसीत्कारादिविशिष्टं संरब्धरूपं द्रव्यं प्रत्यक्षम्, तत्र धात्वर्थ एव प्रत्यक्षाभिमानो लौकिकानाम्। अभिमानः=मिथ्याज्ञानम्, तद्व्यावृत्तये परोक्षग्रहणम्। यदि तर्हि यत्र साधनशक्त्याश्रयं द्रव्यं परोक्षम्, तत्र लिङ् भवति तर्हि उत्तमो न प्राप्नोति, तत्र हि बुद्धीन्द्रियशरीरादिसंघातः कर्ता, स चात्मनः प्रत्यक्ष एव। `परस्मैपदानाम्' इति तु णलादेशवचनं `णलुत्तमो वा' इति च, `छन्दसि लुङ्लङ्‌लिटः',`अत्यन्तापह्नवे' इति चापरोक्षे यो लिट् तद्विषयं भविष्यतीत्यत आह---उत्तमविषयेऽपि चित्तव्याक्षेपादिति। मदस्वप्नादिभिश्चित्ते व्याक्षिप्ते भवति वै कश्चित्स्वकृतमेव न जानाति, पश्चादेव त्वया कृतमिति पार्श्वस्थेभ्यः श्रुत्वा प्रयुंक्ते---सुप्तोऽहं किल विललापेति। किलेत्यज्ञानं सूचयति। अत्यन्तापह्नव इति। अपह्नवः=अलापः। कलिङ्गो नामजुगुप्सितो देशः, तत्र प्रविश्य त्वया चिरकालं स्थितमिति कश्चिदुक्तस्सन्नाह---नाहं कलिङ्गं जगामेति। न केवलमवस्थानमेव प्रतिषिध्यते, किं तर्हि? तद्धेतुभूतगमनमपीति भवत्यत्यन्तापह्नवः। तथा दक्षिणापथं प्रविश्यायाज्ययानादिकं त्वया कृतमिति कश्चिदुक्तः सन्नाह---नाहं दक्षिणापथं प्रविवेशेति। अत्राप्ययाज्ययाजनादेर्हेतुभूतः प्रवेश एव प्रतिषिद्ध्यत इत्यत्यन्तापह्नवः। क्वचित् दक्षिणापथं प्रविष्टोऽसीति वृत्तावेव पठ्यते, तत्र प्रविश्येदं कृतवानित्यर्थः।।

हशश्वतोर्लङ् च।। 3.2.116 ।।
प्रश्ने चासन्नकाले ।। 3.2.117 ।।
प्रश्ने चासन्नकाले।। भूतानद्यतनपरोक्ष इति वर्त्तत इति। अयमर्थोऽनुवर्त्तत इत्यर्थः,न पुनरेवंविधस्समासः प्रकृतोऽस्ति। प्रष्टव्यः प्रश्न इति। कर्मसाधनं प्रश्नशब्दं दर्शयति। करणसाधने तु प्रश्नक्रियासाधनभूते धातावासन्नकाल इत्यर्थस्स्यात्, तत्रासन्नकाल इत्यनर्थकम्, न ह्यनुच्चारितात्प्रत्ययविधानम्, उच्चारितश्चासन्नकाल एव। भावसाधनेऽप्यासन्नकाले प्रश्रे वर्त्तमानादित्यर्थस्स्यात्, ततश्चार्थान्तरवाचिभ्यो लङ् न स्यात्, अतः कर्मसाधनोऽयं प्रश्रशब्दः। तत्र पञ्चवर्षाभ्यन्तरमासन्नकालम्, पञ्चवर्षातीतं तु विप्रकृष्टकालमिति वर्णयन्ति।।
लट् स्मे।। 3.2.118 ।।
लट् स्मे।। नडेन स्म पुराधीयते इति। अधिपूर्वादिङः कर्मणि लकारः, कर्माविवक्षायां वा भावे, नडेनेति कर्त्तरि तृतीया। अथ वा---अधीयते इति कर्त्तरि बहुवचनम्, `आत्मनेपदेष्वनतः' इत्यदादेशः, नडेनेति सहयोगे तृतीया। अन्ये तु व्याचक्षते---पुराकल्पे---पुराकल्पे नडाख्यं तृणविशेषं हस्ते गृहीत्वाधीयाना अधीयते स्मेति।।
अपरोक्षे च।। 3.2.119 ।।
अपरोक्षे च।। पूर्वसूत्रेण परोक्षे विधानादपरोक्षे न प्राप्नोतीत्ययमारम्भः, पूर्वसूत्र एव परोक्षग्रहणं निवर्तिष्यते। यद्येवम्, तत्सम्बन्धादनद्यतनग्रहणमपि निवर्तेत मा निवृतदित्येवमर्थमिदम्, द्वयोर्हि प्रकृतयोरेकनिवृत्तिर्यत्नेन क्रियमाणा इतरस्यानिवृत्तिमनुमापयति।।
ननौ पृष्टप्रतिवचने।। 3.2.120 ।।
ननौ पृष्टप्रतिवचने।। पृष्टमिति कर्मणि क्तः, पृष्टस्य प्रतिवचनं पृष्टप्रतिवचनम्। वृत्तौ तु वस्तुमात्रं दर्शितम्। प्रश्नपूर्वके प्रतिवचन इति। उदाहरणे पूर्वशः प्रश्रः,उत्तर उदाहरणम्। पृष्टग्रहणार्थकं प्रश्नपूर्वकमेव प्रतिवचनम्? तन्न; विरुद्धमपि वचनं प्रतिवचनं वचनाभिमुखं प्रतिवचनमित्यपि सम्भवात्। तस्मात् पृष्टग्रहणम्। अत्यन्तासन्नकाले चायं विधिरिष्यते, तत्र निर्वृत्तायामपि पाकादिक्रियायां तत्कृतस्य श्रमादरेनुवृत्तिः। एवं च श्रमादिदर्शनेन सैव क्रिया वर्त्तत इति शक्यं वक्तुमिति। `वर्त्तमाने लट्' इत्येव सिद्धेः प्रत्याख्यातमिदम----`ननौ पृष्टप्रतिवचने'इत्यशिष्यम्, क्रियासमाप्तेरविवक्षितत्वादिति।।
नन्वोर्विभाषा।। 3.2.121 ।।
पुरि लङ् चास्मे।। 3.2.122 ।।
पुरि लङ् चास्मे।। अनद्यतनग्रहममित्यादि। लुङ्ग्रहणं चात्र लिङ्गम्। यदि हि भूतमात्रेऽयं विधिः स्यात् विभाषा लटो विधानात्तेन मुक्ते लुङपि भविष्यति, कि लुङ्ग्रहणेन! अनद्यतनग्रहणानुवृत्तौ तु लटा मुक्ते लङेव स्यादिति कर्त्तव्यं लुङ्ग्रहणम्। अन्येऽपीति। लङ्‌लिटौ, अभिज्ञावचने लृट्---अभिजानासि देवदत्त वत्स्यन्तीह पुरा छात्रा इति।।
वर्त्तमाने लट्।। 3.2.123 ।।
वर्त्तमाने लट्।। प्रारब्धोऽपरिसमाप्तश्चेति। अधिश्रयणादिरधः श्रयणपर्यन्त ओदनफलावच्छिन्नो विततरूपो व्यापारनिचयः पचेरर्थः। एवं सर्वत्र स यावता कालेन निवर्तते स कालो वर्त्तमानः, तद्योगाद्वर्त्तमानो धात्वर्थ इत्यर्थः। तेन निष्पन्नस्यार्थस्य भूतत्वादनिष्पन्नस्य च भावित्वान्निष्पन्नानिष्पन्नव्यतिरेकेण राश्यन्तरस्याभावाद्वर्त्तमानाभाव इति चोद्यं परिहृतम्। इहाध्ययने प्रवृत्ता यदा भोजनादिक्रियां कुर्वन्तो नाधीयते तदा अधीयत इति प्रयोगो न प्राप्नोति? नैष दोषः; आफलनिष्पत्तेरध्ययनमपरिसमाप्तमन्तरालवर्तितु भोजनादिक्वं नान्तरीयकं तस्यैव वावयवक्रिया। यमपि भवान्मुक्तसंशयं वर्त्तमानकालं न्याय्यं मन्यते----भुङ्क्ते देवदत्त इति, अत्राप्यवश्यं भुञ्जानो हसति जल्पति पानीयं वा पिबति, तत्र चेद्युक्ता वर्त्तमानकालता, इहापि युक्ता द्दश्यताम्। उक्तं च----
व्यवधानमिवोपैति निवृत्त इव द्दश्यते।
क्रियासमूहो भुज्यादिरन्तरालप्रवृत्तिभिः।।
न च विच्छिन्नरूपोऽपि स विरामान्निवर्त्तते।
सर्वैव हि क्रियाऽन्येन सङ्कीर्णैवोपलभ्यते।।
तदन्तरालद्दष्टा वा सर्वैवावयवक्रिया।
साद्दश्यात्सति भेदे तु तदङ्गत्वेन गृह्यते।। इति।
एतदप्यनेनैवोक्तं प्रारब्धोऽपरिसमाप्तश्च वर्तमान इति। इह तिष्ठन्ति पर्वताः, स्रवन्ति सिन्धव इति पर्वतादिस्थित्यादेः सर्वदाभावाद् भूतभविष्यदभावात्तत्प्रतिद्वन्द्विरूपस्य वर्तमानस्याप्यभाव इति लण् न प्राप्नोति? नैष दोषः; कालत्रयवर्तिनां राज्ञां याः क्रियाः पालनादिका भूतादिभेदेन भिन्नास्ताः पर्वतस्थित्यादेर्भेदिकाः, ततश्च ये सम्प्रति राजानस्तत्क्रियाभेदेन भिन्नाया पर्वतादिस्थितेर्वर्तमानत्वम्। एवं च कृत्वा भूतभविष्यत्कालयोगोऽप्युपपद्यते-----तस्थुः पर्वता नलदुष्यन्तादिकाले, स्थास्यन्ति पर्वताः कल्किविष्णुकाले। लटष्टकारष्टेरेत्वार्थः।।
लटः शतृशानचावप्रथमासमानाधिकरणे।। 3.2.124 ।।
लटः शतृशानचावप्रथमासमानाधिकरणे।। शकारः सार्वधातुकसंज्ञार्थः, ऋकार उगित्कार्यार्थः, चकारः स्वरार्थः। प्रथमाशब्दस्सुपामाद्ये त्रिके प्रसिद्धः, प्रथमाया अन्याऽप्रथमा=द्वितीयादिः, तत्र प्रत्ययग्रहणपरिभाषया तदन्तविधिः, अप्रथमान्तं द्वितीयाद्यन्तमित्यर्थः। अधिकरणम्=अभिधेयम्, समानम्=साधारणम्, अभिधेयं यस्य तत्समानाधिकरणम्, अप्रथमान्तेन समानाधिकरणमप्रथमासमानाधिकरणम्। तृतीयेति योगविभागात्समासः। द्विपदो वा बहुव्रीहीः-----अप्रथमासमानाधिकरणं यस्येति। `यस्य च भावेन' इति सप्तमी अप्रथमासमानाधिकरणे लटि सति, तस्य लट इति षष्ठ्यर्थे सप्तमी। एष पर्युदासपक्षो दर्शितः। प्रसज्यप्रतिषेधपक्षे तु नञो भवतिना संबन्धः। प्रथमाशब्देन प्रथमान्तं गृह्यते। शेषं समानम्।
तत्राद्ये पक्षे कुर्वतोऽपत्यं कौर्वतः, पाचतः, कुर्वतो भक्तिः कुर्वद्भक्तिः कुर्वाणभक्तिरिति प्रत्ययोत्तरपदयोः शतृशानचौ न स्याताम्, न ह्यत्र द्वितीयाद्यन्तेन सामानाधिकरण्यम्, न हि कुर्वतो देवदत्तस्य भक्तिः कुर्वतो देवदत्तस्यापत्यमित्यत्र समासतद्धितौ भवतः, सापेक्षत्वात् पदान्तरनिरपेक्षत्वे प्रथमान्तेन सामानाधिकरण्याभावः। प्रसज्यप्रतिषेधे तु प्रथमान्तेन सामानाधिकरण्याभावाददोषः। अस्तु तर्हि स एव? एवमपि कुर्वतो भक्तिरस्य कुर्वद्भक्तिः, कुर्वाणभक्तिरत्र न प्राप्नोति, ये चाप्येते समानाधिकरणवृत्तयस्तद्धितास्तेषु न स्यात्---कुर्वत्तरः, कुर्वाणतरः; कुर्वद्रूपः कुर्वत्कल्प इति? पर्युदासेऽप्येष दोषो द्रष्टव्यः।
एवं तर्हि `प्रत्ययोत्तरपदयोश्च' इति लक्षणशेषः कर्त्तव्यः, तत्र पृथगुत्तरपदग्रहणम् `अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते' इति समासार्थाया विभक्तेर्लुकिकृते प्रत्ययलक्षणप्रतिषेधात्प्रत्ययपरत्वार्थम्। ननु च प्रत्ययोत्तरपदयोः सतोः शतृशानचौ भवतः, तयोश्च कृत्त्वात्प्रातिपदिकत्वे सति विभक्त्युत्पत्तौ सत्यां तद्धिताः, समासश्च, समासे च सत्युत्तरपदं तदितरेतराश्रयं भवति? नैष दोषः; ड्याप्‌प्रतिपदिकात्तद्धिताः, ते लकारस्य कृत्त्वाद्भविष्यन्ति, उत्तरपदेऽपि विधानसामर्थ्यात्तिङादेशं बाधित्वा लान्तस्य प्रातिपदिकत्वमाश्रित्य सुबुत्पत्तौ समास इति सिद्धम्। एवमपि वीक्षमाणस्यापत्यं वैक्षमाणिरित्यकृते शानचि अकारान्तत्वाभावादत इञोऽप्रसङ्गः, पचतितरामित्यत्र शतृशानचौ प्राप्नुतः, तथा पचतिरूपमित्यादौ `तिङश्च' इत्येतत्तु लङादिविषयमेव स्यात्।
तदेवं सर्वत्र दोषसद्भावे समासोऽपि तावन्न्याय्यो भवतीति पर्युदासमाश्रित्याह----अप्रथमान्तेन चेदित्यादि। तस्येति। लटः। कथं पुनर्लटो द्वितीयाद्यन्तेन सामानाधिकरण्यम्, यावता `लः कर्मणि च' इत्यनेन कर्तृकर्मणोर्विधीयमानो लकारः क्रियां प्रति गुणभूते कर्तृकर्मणी प्रतिपादयति, तथा च क्रियाप्रधात्वादाख्यातस्य क्रियान्तरयोगाभावाच्छक्त्यन्तरावेशाभावः, न हि भवति पचत्योदनं देवदत्तं पश्य पच्यते ओदनेन तृप्तः अपचदोदनं देवदत्तं पश्य पच्यते ओदनेन तृप्त इति, यथा----अन्येषु कृत्सु पाकं पश्य, पाकेन तृप्त इति? सत्यम्; तिङ्भाविनो लकारस्यायं स्वभावः यदुक्तगुणभूते कर्तृकर्मणी प्रतिपादयति, शत्रादिविषयस्य क्रियोपसर्जनकर्त्राद्यभिधानम्, ततश्च क्रियान्तरयोगे सति तन्निमित्तं द्वितीयाद्यन्तसामानाघिकरण्यमुपपद्यते। यद्यपि केवलस्य लटः प्रयोगाभावादप्रथमान्तेन सामानाधिकरण्यं न क्वचिदुपलब्धम्, तथापि तदादेशयोः शतृशानचोर्दर्शनात् स्थानिनो लकारस्यापि तद्योग्यत्वमनुमीयते, तेन लटः प्रक्रियार्थ विहितस्य काल्पनिकप्रथमान्तेन सामानाधिकरण्यमस्तीति दोषाभावः।
अथ लड्ग्रहणं किमर्थम्----आदेशौ यथा स्यातां प्रत्ययान्तरं मा भूतामिति? नैतदस्ति; पूर्वसूत्रत एव लड्ग्रहणं स्वरयिष्यते, तस्येहानुवृत्तस्यार्थात् षष्ठ्या विपरिणामे तस्यैवादेशौ भविष्यतः, न प्रत्ययान्तरमत आह----लडिति वर्तमाने पुनर्लड्ग्रहणमिति। क्वचित्प्रथमासामानाधिकरण्येऽपि भवत इति। अप्रथमासमानाधकरणत्वाभावोपलक्षणमिदम्, तेन कौर्वतः, कुर्वद्भक्तिरित्यादयोऽपि भवन्ति। सन्निति। `अस् भुवि',`श्नसोरल्लोपः'। विद्यमान इति। `विद सत्तायाम्',`दिवादिरनुदात्तेत्। जुह्वदिति। `नाभ्यस्ताच्छतुः' इति नुमभावः।
माङ्याक्रोश इति। माङि लुङोऽपवादः, तथा पुनर्लड्ग्रहणाद्योऽपि भूते लट् `ननौ पृष्टप्रतिवचने' इति तस्यापि भवतः----ननु मां कुर्वन्तं पश्य, ननु मां कुर्वाणम्पश्येति। एतच्च `ननौ पृष्टप्रतिवचने' इत्यत्र भाष्यकारेणोक्तम्।
केचिदित्यादि। न चैवं पचन्तम्पश्येत्यादावपि विकल्पप्रसङ्ग इत्यत आह---व्यवस्थितविभाषा चेयमिति। यथादर्शनमिति। प्रथमासमानाधिकरणे विकल्पः, पचन्तं पश्येत्यादौ `प्रत्ययोत्तरपदयोश्च'नित्यम्पचतितरामित्यादौ नैव भवतः, अन्यथा तिङोऽपि स्थानिवद्भावात्स्यात्प्रसङ्गः। न तर्हीदानीमिदं वक्तव्यम्---अप्रथमासमानाधिकरण इति? वक्तव्यं च। किं प्रयोजनम्? नित्यार्थम्। नन्वेतदपि विभाषयैव सिद्धम्? सत्यम्; स एवार्थो वचनेन स्पष्टीक्रियते। एतेन `सम्बीधनै च' `लक्षणहेत्वोः' इति च व्याख्यातम्।।
सम्बोधने च।। 3.2.125 ।।
सम्बोधने च।। हे पचन्निति। संयोगान्तलोपस्यासिद्धत्वान्नलोपाभावः। अत्र सम्भोधने प्रथमा, अयमादेशश्चेत्युभयं मिलितं सम्बोधनं द्योतयति।।
लक्षणहेत्वोः क्रियायाः।। 3.2.126 ।।
लक्षणहेत्वोः क्रियायाः।। लक्ष्यते चिह्न्यते येनेति। चिह्नयतिरवधारयत्यादिवच्चुरादिषु द्रष्टव्यः। धात्वर्थविशेषणं चैतदिति। नोपपदं क्रियाया इति वचनात्। उपपदं हि धातोर्भवति, स च क्रियावचन इति क्रियाग्रहणमनर्थकमुपपदत्वे स्यात्। क्रियायाश्च लक्षणापेक्षया कर्मत्वम्, हेत्वपेक्षया तु शेषत्वम्, तत्रोभयानुग्रहाय कर्मणोऽपि शेषत्वविवक्षया शेषलक्षणैव षष्ठी, वृत्तौ तु वस्तुमात्रं प्रादर्शि। क्रियाविषयाविति। शयाना भुञ्जत इति। अत्र शयनं लक्षणं भोजनस्य। तिष्ठन्तोऽनुशासतीति। अत्रापि स्थानमनुशासनस्य। अर्जयन्वसतीति। `अर्ज प्रतियत्ने' चुरादिराङ्पूर्वः।
लक्षणहेत्वोरिति किमिति। क्रियासम्बन्धिन्यर्थे वर्तमानादिति विज्ञायमाने लक्षणहेत्वोरपि भविष्यत इति प्रश्नः, अतिप्रसङ्गेन तूत्तरम्। पचति च पठतिचेति। अत्र द्वयोः क्रिययोरेकस्मिन्साधने समुच्चयात्तद्द्वारेण परस्परसम्बन्धोऽप्यस्तीत्युभयत्रापि प्रसङ्गः। यः कम्पते सोऽश्वत्थ इति। बहुषु वृक्षेषु तिष्ठत्सु कम्पनेनाश्वत्थो लक्ष्यते, तच्च द्रव्यम्। यदुत्प्लवते तल्लघ्विति। अत्राप्युत्प्लवनेन लाघवं गुणो लक्ष्यते। निषदनं निमज्जनं तेन गौरवं गुणो लक्ष्यते। इह तु योऽधीयान आस्ते स देवदत्त इति आसिक्रियाया एवाध्ययनक्रियालक्षणम्, न देवदत्तस्य, आसिक्रिया तु तस्य लक्षणम्। एवं यस्तिष्ठन्मूत्रयति स ब्राह्मणब्रुव इति, अत्रापि स्थितिक्रिया मूत्रणक्रियाया एव लक्षणम्, सैव तु देवदत्तस्याशौ चादेर्लक्षणं न स्थितिक्रियेति सूत्रेणैव सिद्ध आदेशः। कथं शयाना वर्धते दूर्वा, आसीनं वर्धते विषमिति, न ह्यासनशयते वृद्धेर्लक्षणम्, किं तर्हि? स्वभावमात्रकथनमेतत्? भवति वै स्वभावाख्यानमपि लक्षणम्, यथा----चैतन्यलक्षणं पुरुष इति। पूर्वनिपातव्यमिचारलिङ्गमिति। `द्वन्द्वे घि',`अल्पाच्तरम्' इति यौ पूर्वनिपातौ तयोर्व्यभिचारे लिङ्गमित्यर्थः। तेन धूमाग्नी, मृदङ्गशङ्खपणवा इत्यादिप्रयोगोपपत्तिः।।
तौ सत्।। 3.2.127 ।।
तौ सत्।। तौग्रहणं किमर्थम्, संज्ञाविधिर्यथा स्यात् सदित्यस्य प्रत्ययस्य विधिर्मा भूदिति? नैतदस्ति प्रयोजनम्, पूर्वसूत्रे शतृशानचौ स्वरयिष्येते, तत्सामर्थ्यात्तयोरनुवृत्तयोः संज्ञैव भविष्यति, तत्राह----तौग्रहणमुपाध्यसंसर्गार्थमिति। लट्स्थानिकत्वाद् वर्त्तमानकालविहितत्वं चोपाधिः, तेनोपाधिनाऽसंबन्धार्थः, तौग्रहणमित्यर्थः, किं सिद्धमित्याह---शतृशानज्मात्रस्येति। असति तौग्रहणे याद्दशौ शतृशानचौप्रकृतौ लट्स्थानिकौ वर्त्तमानकालौ च ताद्दशयोरेव संज्ञा स्यात्, ततश्च लृडादेशयोर्न स्यात्। `लृटस्सद्वा' इत्येतत्तु वचनं सत्संज्ञकप्रतिरूपयोर्विधानार्थ स्यात्, यथा----अमी पिष्टपिण्डाः सिंहाः क्रियन्तामिति तदाकाराः क्रियन्ते। विहितयोस्तूत्तरकालं संज्ञा न सिध्यति, ततश्च ब्राह्मणस्य पक्ष्यन्, ब्राह्मणस्य पक्ष्यमाण इति समासप्रतिषेधो न स्यात्; तस्यां दशायां सत्संज्ञाया अभावात्। एवं भूतकालयोरपि न स्यात्। `वर्त्तमानसामीप्ये वर्त्तमानवद्वा' इति वचनाद्‌भूतेऽपि शतृशानचौ भवतः। एवं तत्रापि वर्त्तमानवदित्यतिदेशेन विधानमेव तयोर्भूते सिद्ध्यति, न तु संज्ञा। प्रत्ययाधिकाराद्वि प्रत्यय एवातिदिश्यते, न सज्ञा। तथा `ननौ पृष्टप्रतिवचने'इत्यपि लटः शतृशानचौ भवत इत्युक्तम्, तयोरपि संज्ञा न भवेत्, तौग्रहणे सति तयोरपि संज्ञा भवति----ननु मां ब्राह्मणस्य कुर्वन्तम्पश्य ननु मां ब्राह्मणस्य कुर्वाणम्पश्येति। अथ क्रियमाणेऽपि तौग्रहणे कथमिव कालान्तरविहितयोः संज्ञा सिद्ध्यति, यावता प्रकृतस्यैव वस्तुनस्सर्वनाम्ना परामर्शः? सत्यम्; तौग्रहणसामर्थ्यात्तु विशेषणांशरित्यागेन शतृशषानचो रूपमात्रं परामृश्यते।।
पूङ्यजोः शानन्।। 3.2.128 ।।
पूङ्यजोः शानन्।। इहैते शानन्नादयो यदि लटोऽनुवृत्तिमाश्रित्य तस्यैवादेशाः क्रियेरन्, वेति वक्तव्यम्, पवमानः यजमानः, पवते यजत इत्यपि यथा स्यात्, वाऽसरूपविधिना तिङो बविष्यन्ति, न लादेशेषु वाऽसरूपविधिरस्तीत्युक्तम्। साधनाभिधानम्---साधनस्य चाभिधानं प्राप्नोति `लः कर्मणि च भावे चाकर्मकेभ्यः' इति भावकर्मणोरपि प्रसङ्गः। परस्स्वरश्च न सिद्ध्यति---कतीह पवमानाः, `अदुपदेशाल्लसार्वधातुकम्' इत्यनुदात्तत्वं प्राप्नोति। आत्मनेपदसंज्ञा---`तङानावात्मनेपदम्' इत्यात्मनेपदसंज्ञा च प्राप्नोति, ततश्च परस्मैपदिभ्यश्चानश् न स्यात्कतीह नन्दमानाः। तस्मादशक्या एवैते लादेशा विज्ञातुमिति मत्वाह---शानन्प्रत्ययो भवतीति। शकारस्सार्वधातुकसंज्ञार्थः, नकारस्स्वरार्थः।
यदीत्यादि। `न लोकाव्यय' इत्यत्र स्वरूपस्य ग्रहणं मन्यमानस्य प्रश्नः। तृन्निति प्रत्याहारनिर्देशादिति। षष्ठीप्रतिषेध इत्यनुषङ्गः।
द्विषश्शतुर्वा वचनमिति। `द्विषोऽमित्रे' इति योऽयं शतृप्रत्ययस्तस्य प्रयोगे वा षष्ठी भवति, प्रत्याहारेऽन्तर्भावान्नित्यं प्रतिषेधे प्राप्ते वचनम्। यस्यापि तन्निति स्वरूपग्रहणं तेनाप्येतद्वक्तव्यम्---पक्षे षष्ठी यथा स्यान्नित्यं मा भूदिति। शेषविज्ञानात्सिद्धम्, कर्मणि शेषत्वेन विवक्षिते षष्ठी, कर्मरूपेण विवक्षिते द्वितीयेति।।
ताच्छील्यवयोवचनशक्तिषु चानश्।। 3.2.129 ।।
ताच्छील्यवयोवचनशक्तिषु चानश्।। मण्डयमाना इत्यादि। `मडि भूषायाम्',`भूष अलङ्कारे' चुरादी, `असु क्षेपणे',पर्यासः===सन्नहनम्, शिखापर्यायः शिखण्डशब्दः। वचनग्रहणं विस्पष्टार्थम्।।
इङ्धार्योः शत्रकृच्छ्रिणि।। 3.2.130 ।।
इङ्धार्योः शत्रकृच्छ्रिणि।। अकृच्छ्रः सुखसाध्यो यस्य धात्वर्थ इति। अस्तीति शेषः। `अत इनिठनौ' इतीनिः, अपुत्रा भार्यादिवद् बहुव्रीहिणैव सिद्धे तत्पुरुषान्मत्वर्थीयः कृतः; लघुत्वम्प्रति सर्वत्रानादरात्। इङ आत्मनेपदित्वाद्धारयतेश्च कर्त्रभिप्राये शता न सिद्ध्यति, लसार्वधातुकानुदात्तत्वं च प्राप्नोतीत्ययमारम्भः।।
द्विषोऽमित्रे ।। 3.2.131 ।।
द्विषोऽमित्रे।। असन्देहार्थम् `मित्रे द्विषः' इति सूत्रान्यासादकारप्रश्लेषो विज्ञायत इत्याह---अमित्रश्शत्रुरिति। अमेर्द्विषतीति त्रच्प्रत्ययः, न पुनरयं नञ्समासः, परवल्लिङ्गप्रसङ्गात् लोकाश्रयत्वाल्लिङ्गस्य। स्वरे दोषः, चित्स्वरो हीष्यते। बह्वचास्तु मध्योदात्तममित्रशब्दमधीयते---अमित्रस्य व्यथया मन्युमिन्द्रः, अमैरमित्रमर्दय। द्विषेस्स्वरितत्वात्कर्त्रभिप्राये शता न प्राप्नोतित्ययमारम्भः।।
सुञो यज्ञसंयोगे।। 3.2.132 ।।
सुञो यज्ञयंयोगे।। कर्मसाधनस्संयोगशब्द इत्याद---यज्ञसंयुक्तेऽभिषव इति। सर्वे सुन्वन्त इति। प्रयोगः। तस्य विषयमाह---सर्वे यजमानास्सत्त्रिण उच्यन्ते इति। सूत्रेषु हि ये यजमानास्ते ऋत्विज इति सर्वे प्रधानकर्त्तारः। इह `सुञो यज्ञे' इत्येव सिद्धम्, यज्ञविषयश्चेत्सुनोत्यर्थो भवतीत्यर्थः, तत्किं संयोगग्रहणेन? तत्राह---संयोगग्रहणमिति। `लटः शतृशानचौ' इत्यनेनाप्यप्रधाने कर्त्तरि न भवति, संयोगग्रहणसामर्थ्यात्प्रधानकर्त्ता=अधिकारी।।
अर्हः प्रसंसायाम्।। 3.2.133 ।।
अर्हः प्रसंसायाम्।। अर्हति चौरो वधमिति। `लटः शतृशानचौ' इत्यनेनापि न भवति, प्रथमासमानाधिकरणत्वात्। अस्तु वा `अदुपदेशाल्लसार्वधातुकम्' इत्यनुदात्तः।।
आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु।। 3.2.134 ।।
आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु।। तदित्यादि। `धातोः' इति वर्तते, धातुश्च शब्दः, न तस्य शीलादिप्रतिविशेषणत्वमुपपद्यते, तस्मात्तस्य योऽर्थः स शीलादीनां त्रयाणां विशेष्याणां विशेषणत्वेन त्रिभिस्तच्छब्दैर्निर्दिश्यते। तत्र धात्वर्थे शीलं यस्य स धात्वर्थो धर्मो यस्य तस्य धात्वर्थस्य साधुकारीत्येवमित्यर्थः।
तद्धर्मा तदाचार इति। धर्मशब्दस्याचारे प्रसिद्धत्वात्। विनापि शीलेनेति। तच्छीलाद्भेदं दर्शयति। यो धात्वर्थ साघु करोतीति। विनापि शीलेनेत्यनुषङ्गः।।
तृन्।। 3.1.135 ।।
तृन्।। मुण्डयितार इति। श्राविष्ठायनानां गोत्रविशेषाणामेष कुलधर्मः। अपहर्त्तार इति। अह्वरदेशे भवा आह्वरकाः, `रोपधेतोः प्राचाम्' इति वुञ्, तेषामेव देशधर्मः। श्राद्धे सिद्धेः। निर्वृत्ते। उन्नेतार इति। अयमपि कुलधर्मः।
तृन्विधाविति। अताच्छील्याद्यर्थ आरम्भः। तृजेव भवतीति। तृन्तृचौ `शंसिक्षदादिभ्यः संज्ञायां चानिटौ' इत्यनेन। स्वरे विशेष इति। तृनि `तादौ च निति कृत्यतौ' इति गतेः प्रकृतिस्वरस्स्यात्, तचि तु कृत्स्वरो भवति। `तृन्तृचौ' इत्यस्यैव विषयव्यवस्थार्थमिदम्। अनुपसर्गेभ्यस्तृन्, सोपसर्गेभ्यस्तृजिति प्रपञ्चार्थ वा, तथा च प्रशास्तेति। तृच्यपीण्नास्ति।
नयतेः षुक् चेति। गुणे कृते षुग् वेदितव्यः, प्रकृत्यन्तरं वा; नेषति, नेषतुः, नेषिथेति दर्शनात्।
अनिट्त्वं चोत। त्विषः स्वत एवानिट्त्वादुक्तवक्ष्यमाणसर्वोपसंख्यानशेषभूतमिदम्। तेन पोता, क्षत्तेत्यनिटत्वं भवति।
क्षदेरिति। धातुष्वपठितोऽपि क्षदिरस्मादेव वचनादभ्युपगम्यते, आत्मनेपदी चायम्। उक्षाणा वा वहतं वाक्षदन्त इति बह्वृचब्राह्मणप्रयोगात्। क्वचिदधिकृत इति। द्वाररक्षणे, रथप्राजने च।।
अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्।। 3.2.136 ।।
अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्।। कृञिति करोतेर्ग्रहणम्, प्रसिद्धेः, न हिसार्थस्य। `जनी प्रादुर्भावे' `डुपचष्पाके',`पचि व्यक्तीकरणे इत्यस्येदित्त्वान्नुमा भाव्यमिति नायं निर्द्देशः सम्भवति। `शल हुल पत्लृ गतौ' `उत्पतिष्णू च चेरतुः खरदूषणौ' इति भट्टिकाव्ये प्रयोगः।`पद गतौ' इत्यन्ये पठन्ति। `मदो हर्षे',`मद तृप्तियोगे' इत्ययं तु चुरादिः, तस्योन्मदेति निर्द्देशो न सम्भवति। `रुच दीप्तौ',`त्रपूष् लज्जायाम्',`वृतु वर्तने' `वृधु वृधौ',`षह मर्षणे',`चर गत्यर्थः। येऽत्र सोपपदा उपात्तास्तत्रोपात्तादेव रूपाद्भवति, तत एतन्न नोदनीयम्----`उदः पचपतमद' इति वक्तव्यम्, किं स्वरूपतः? प्रत्येकमुत्पूर्वपाठेनेति तेन समुत्पतिष्णुरिति न भवतीत्याहुः। ये तु निरुपपादा उपात्तास्तेभ्यो यथादर्शनं भवति।।
णेश्छन्दसि।। 3.2.137 ।।
णेश्छन्दसि।। पारयिष्णव इति। `अयामन्ताल्वाय्येत्न्विष्णुषु' इत्ययादेशः।।
भुवश्च।। 3.2.138 ।।
भुवश्च।। छन्दसीत्युच्यते, तत्कथम्----`जगत्प्रभोरप्रभविष्णु वैष्णवम्' `विष्णवे प्रभविष्णवे' इति? निरंकुशाः कवयः। भ्राजिष्णुनेति। नैतद्भाष्ये समाश्रितम्।।
ग्लाजिस्थश्च ग्स्नुः।। 3.2.139 ।।
ग्लाजिस्थश्च ग्स्नुः।। चर्त्वभूत इति। चर्त्वं प्राप्तश्चर्त्वेन वा प्राप्त इत्यर्थः। श्र्युकः कितीत्यत्रापीति। गकारोऽपि चर्त्वभूतो निर्द्दिश्यत इत्यनुषङ्गः।
वस्नोर्गित्त्वान्न स्थ ईकारः। स्थास्नुरित्यत्र ईकारो न भवति, क्स्नोर्गित्त्वात्। कङितोरीत्वशासनात्। ककारेऽकार उच्चारणार्थः। क्ङितोर्हीत्त्वमुच्यते, अयं तु गित्। यद्येवं जिष्णुर्भूष्णुरित्यत्र गुणः प्राप्नोति? ----गुणाभावस्त्रिषु स्मार्यः। गित् कित् ङिदिति त्रिषु गुणाभावः स्मर्तव्यः; `क्ङिति च' इत्यत्र गकारप्रश्लेषात्। इह तर्हि भूष्णुरिति `श्र्युकः किति' इतीट्प्रतिषेधो न प्राप्नोति?----श्र्युकोऽनिट्त्वं गकोरितोः। श्र्युकः परस्य यदनिट्त्वं तद्‌गकारककारयोर्द्वयोरपीतोर्भवति, न केवलं ककारे; तत्रापि गकारस्य चर्त्वभूतस्य निर्द्देशात्। यद्येवम्, चर्त्वस्यासिद्धत्वाद् `हशि च' इत्युत्वं प्राप्नोति? सौत्रो निर्द्देशः, असंहितया वा निर्द्देशः करिष्यते छन्दसि। दंक्ष्णवः पशव इति। क्स्नोर्गित्त्वादुपधालोपाभावः।।
त्रसिगृधिधृषिक्षिपेः क्नुः।। 3.2.140 ।।
त्रसिगृधिधृषिक्षिपेः क्नुः।। त्रस्नुरिति। `नेड्वशि कृति' इतीट्प्रतिषेधः।।
शमित्यष्टाभ्यो घिनुण्।। 3.1.141 ।।
शमित्यष्टाभ्यो घिनुण्।। इतिशब्द आद्यर्थे इति। अनेकार्थत्वान्निपातानाम्। तत्र `शम्' इति आदिर्येषामिति बहुव्रीहौ सुपो लुक्, `शमु उपशमने',`तमु काङ्क्षायाम्',`दमु उपसमने',`श्रमु तपसि खेदे च',`भ्रमु अनवस्थाने',`क्षमूष् सहने',`क्लमु ग्लानौ',`मदी हर्षे'। उकार उच्चारणार्थ इति। नानुबन्धः, अनुबन्धे हि सति शमिनौ शमिन इत्यत्र `उगिदचाम्' इति नुम् प्रसज्येत;शमिनितरा, शमिनितमेत्यत्र नद्याः शेषस्यान्यतरस्याम् `उगितश्च' इत्यन्यतरस्यां ह्रस्वः स्यात्; `घरूपकल्पचेलड्' इति नित्यमिष्यते, तस्मान्नायमनुबन्धः, किं तूच्चारणार्थ इति व्याचक्षते। भाष्ये तु `अकार उगित्कार्यार्थोऽनुबन्ध एव' इति स्थितम्। तत्र ह्रस्वत्वं विकल्पेनेष्यते, न नित्यम्। नुम्विधौ तु झल्ग्रणमनुवर्त्तिष्यते, अझलन्तत्वान्न प्रविष्यति। शमीति। `नोदात्तस्य' इति वृद्धिप्रतिषेधः। उन्मादीति। ननु मादीत्यत्र चरितार्थमेतत्, उत्पूर्वात्त्वलंकृञादिसूत्रेण विशेषविहित इष्णुजेव प्राप्नोति, वाऽसरूपविधिना घिनुण् भविष्यति, ताच्छीलिकेषु वाऽसरूपविधिर्नास्तीत्येतत्तु प्रायिकमिति वक्ष्यते। असितेति। `असु क्षेपणे',तृन्नेव भवति।।
सम्पृचानुरूधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरामुषाभ्याहनश्च।। 3.2.142 ।।
सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रहदुहयुजाक्रॣविविचत्यजरजभजातिचराचरामुषाभ्यहनश्च।। `पुची संपर्के', रुधिर् आवरणे'; `अनो रुध कामे' इत्यस्य तु दैवादिकस्याग्रहणम्; पृचिना साहचर्यात्। अनुना सह पठितस्य दैवादिकस्य ग्रहणमित्यन्ये। `यम उपरमे',`यसु प्रयत्ने', `सृ गतौ',`सृज विसर्गे', देवृ देवने',`ज्वर रोगे',`क्षिप् प्रेरणे',`रट परिभाषणे',`वद व्यक्तायां वाचि',`दह भस्मीकरणे',`मुह वैचित्ये',`दुष वैकृत्ये',द्विष अप्रीतौ',`द्रुह जिघांसायाम्',`दुह प्रपूरणे',`युजिन् योगे',`क्रीडृ विहारे, `विचिर् पृथग्भावे',`त्यज हानौ',`रञ्ज रागे',`भज सेवायाम्',`चर गत्यर्थः, `मुष स्तेये',`हन हिसागत्योः'। परिदेविर्बूवादिरिति। गृह्यते इति सम्बन्धः। क्रीडार्तस्य तु ण्यन्तस्याग्रहणम्, अण्यन्तैः साहचर्यात्, प्रतिपदोक्तत्वाच्च। अत एव `दिव परिकूजन' इत्यस्य चौरादिकस्यापि न भवति। संपर्कीति। `चजोः कु घिण्ण्यतोः' इति कुत्वम्। येऽत्र संपूर्वाः तेषां द्वन्द्वं कृत्वा `सम एतेभ्यः' इति वक्तव्यम्, एवमाङ्पूर्वेषु परिपूर्वेषु च, एवं सिद्धे यत्प्रतिपदं पठति तस्यैतत्प्रयोजनम्---उपात्तादेव रूपाद्यथा स्यात्, उपसर्गान्तरयुक्तान्मा भूदिति।।
वौ कषलसकत्थस्रम्भः।। 3.2.143 ।।
अपे च लषः।। 3.2.144 ।।
प्रे लपसृद्रुमथवदवसः।। 3.2.145 ।।
प्रे लपसृद्रुमथवदवसः।। `रप लप व्यक्तायां वाचि',`सृ गतौ,'`द्रु गतौ', `मथे विलोडने'।।
निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ्।। 3.2.146 ।।
निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिधादिव्याभाषासूयो वुञ् ।। `णिदि कुत्सायाम्' `तृह हिसि हिंसायाम्',`क्लिश विबाधने',`खाद्द भक्षणे',`णश अदर्शने' ण्यन्तः, भाविना णिलोपेन निर्देशः, अकारस्त्वागन्तुकः। केचित्तु विनाशीति ण्यन्तमेव पठन्ति। क्षिपिरटी उक्तार्थौ, वदिर्ण्यन्तः, `भाष व्यक्तायां वाचि',असूयतिः कण्ड्वादियगन्तः।
अथ किमर्थ निन्दादिभ्यो वुञ् विधीयते, न `ण्वुल्‌तृचौ' इति ण्वुलैव सिद्धम्, तदेव रूपम्, स्वरोऽप्यसूयतिमेकं वर्जयित्वान्यत्र स एव; असूयतेस्तु ण्वुलि प्रत्ययात्पूर्वमुदात्तं स्यात्, वुञि तु `ञ्नित्यादिः' इति। तस्मादेवैकस्माद् वुञ् विधेयः, अन्येभ्यस्तु ण्वुलैव सिद्धम्, योऽयं तच्छीलादिषु तृन्विधीयते स बाधकः प्राप्नोति, वाऽसरूपविधिना ण्वुलपि भविष्यति, तत्राह---ण्वुलैव सिद्ध इति। तृजादयो न भवन्तीति। न केवलं ण्वुल्विषयमेव ज्ञापकम्, किं तर्हि? प्रत्ययमात्र विषयमित्यर्थः।।
देविक्रुशोश्चोपसर्गे।। 3.2.147 ।।
देविक्रुशोश्चोपसर्गे।। देवयतेरिति। दीव्यतेर्हेतुमण्णिजन्तस्य, `दिवि कूजने' इत्यस्य चुरादिण्यन्तस्य च।।
चलनशब्दार्थादकर्मकाद् युच्।। 3.2.148 ।।
चलनशब्दार्थादकर्मकाद् युच्।। चोपन इति। `चुप मन्दायां गतौ'। शब्दन इति। `शब्द शब्दने' चुरादिः, शब्दप्रातिपदिकाद्वा `तत्करोति' इति णिच्।।
अनुदात्तेतश्च हलादेः।। 3.2.149 ।।
अनुदात्तेतश्च हलादेः।। जुगुप्सन इति। `गुपादिष्वनुबन्धकरणमात्मनेपदार्थम्' इत्युक्तत्वाद् `अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति' इति समुदायस्यानुदात्तेत्वम्। तत्रासत्यादिग्रहणे तदन्तविधिः स्यात्, ततश्चात्र न स्यात्, अतस्तदन्तविधिर्मा बूदित्येवमर्थमादिग्रहणम्।।
जुचंक्रम्यदंद्रम्यसृगृधिज्वलशुचलषपतपदः।। 3.2.150 ।।
जुचंक्रम्यदंद्रम्यसृगृधिज्वलशुचलषपतपदः।। `जु' इति सौत्रो धातुः। गतिवचन इत्येके। वेगवचन इत्यन्ये। `क्रमु पादविक्षेपे',`द्रम हम्म मीमृ गतौ',`सृ गतौ',`गृधु अभिकांक्षायाम्',`ज्वल दीप्तौ',`शुच शोके',`लष इच्छायाम्',`शल हुल पत्लृ गतौ',`पद गतौ'।
ननु चात्र चंक्रम्यप्रभृतयः केचिच्चलनार्थः पदिस्त्वनुदात्तेत्, तेभ्यो यथायोगं पूर्वसूत्राभ्यामेव युच् सिद्धः, किमर्थमिह ग्रहणमित्यत्राह---चलनार्थानामित्यादि। प्रपूर्वः पदिः सकर्मकः। ज्ञापकार्थमिति। ज्ञापनं ज्ञापकम्, भाष्यकारप्रयोगाद्भावे ण्वुल्। अन्ये पदिग्रणं वर्णयन्तीति। भाष्यकारादयः। ते हि मन्यन्ते---सकर्मकात्पदेर्युचा न भवितव्यम्; अनिभाधानादिति। यथाह---पदिग्रहणमनर्थकमनुदात्तेतश्च हलादेरिरि सिद्धत्वात्? वासरूपनिवृत्त्यर्थ त्विति। ताच्छीलिके वाऽसरूपविधिर्नास्तीति निन्दादिसूत्रे तच्छीलादिषु कर्तृषु वाऽसरूपविधिना तृजादयो न भवन्तीति ज्ञापितम्। इह तु ताच्छीलिकेषु परस्परं वाऽसरूपविधिर्नास्तीति ज्ञाप्यते। अलंकर्तेति। एवमलंकृञास्तृन्न भवतीत्यर्थः। यथा तु पदिग्रहणं ज्ञापकं तथा दर्शयति----तथा हीति। उकञा विशेषविहितेनेति। `लशेषविहितेनेति। `लषपतपद' इत्यादिना। प्रायिकं चैतदिति। एतच्च `सूददीपदीक्षश्च' इत्यत्र वक्ष्यते। गन्तेति। गमेर्लषपतपदाद्युकञ्‌विषये तृन् भवति। विकत्थन इति। `वौ कषलष' इति घिनुण्‌विषयेऽनुदात्तेल्लक्षणो युज् भवति।।
क्रुधमण्डार्थेभ्यश्च।। 3.2.151 ।।
न यः।। 3.2.152 ।।
नयः।। `अय वय नय तय गतौ' इति नयतेरनुदात्तेत्त्वादेव युचः सिद्धत्वान्नतस्येदं ग्रहणम्, किं तर्हि? प्रतिषेध एवेति मत्वाऽऽ----यकारान्तादिति। पूर्वेणेति। `अनुदात्तेतश्च' इत्यादिना। क्नूयिता, क्ष्मायितेति। `क्नूयी शब्दे',`क्ष्मायी विधूनने'।।
सूददीपदीक्षश्च।। 3.2.153 ।।
सूददीपदीक्षश्च।। `षूद क्षरणे',`दीपी दीप्तौ',`दीक्ष मौण्ड्ये'।
ननुताच्छीलिकेषु वासरूपविधिर्नास्तीति ज्ञापितम्, तत्कथं वाऽसरूपेण युजिह प्राप्नोति? तत्राह---ताच्छीलिकेष्विति। प्रायिकत्वस्य चायमेव प्रतिषेधो लिङ्गम्, सर्वत्र वाऽसरूपविधेरभावे विशेषविहितेन रप्रत्ययेन बाधितत्वादेव युज् न भविष्यतीति प्रतिषेधोऽयमनर्थकस्स्यात्। तथा चेत्यादिना प्रायिकत्वस्य प्रयोजनं दर्शयति। नानेन प्रतिषेधेन युज्रयोरेव समावेशो ज्ञाप्यते, यथा भाष्ये प्रतिभासः, किं तर्हि? ज्ञापकस्यैव प्रायिकत्वम्। तेन `गन्ता खेटं विकत्थनः' इत्यपि भवति। एतच्च पूर्वमेवोक्तम्।
अथ वा नन्द्यदिष्विति। योगविभागस्त्विदानीं वैचित्र्यार्थः।।
लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ्।। 3.2.154 ।।
लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ्।। अपलाषुकमिति। अशोभनमित्यर्थः। नन्वत्र विशेषविहितत्वाद् `अपे च लषः' इति घिनुणा भाव्यम्, अयं तु केवलेऽन्योपसर्गपूर्वे च लषौ चरितार्थः, वाऽसरूपविधिनोकञ् भविष्यति? ताच्छीलिकेषु वाऽसरूपविधिर्नास्तीत्येतत्तु प्रायिकमित्युक्तम्। आघातुकं पाकलिकस्य मूत्रमिति। पाकलो नाम गजानां व्याधिविशेषः, स यस्यास्ति स पाकलिकोः, `द्वन्द्वोपतापगर्ह्यात्' इतीनिरेव प्राप्नोति, व्रीह्यादिपाठान्न भवति। पाकलिको गजस्तस्य मूत्रं स्पृष्टमाघ्रातं वान्यान् गजान्हन्ति, एष तस्य स्वभावः। आगामुकं वाराणसी रक्ष आहुरिति। यः शापादिना रक्षोभूतः तं मोक्षार्थ वाराणसीं प्रत्यागमनशीलमाहुरित्यर्थः।।
जल्पभिक्षकुट्टलुण्टवृङः षाकन्।। 3.2.155 ।।
जल्पभिक्षकुट्टलुण्टवृङः षाकन्।।`जल्प जप व्यक्तायां वाचि', `भिक्ष याच्‌ञायाम्',`कुट्ट छेदने' `लुण्ठ स्येये----चौरादिकौ, `वृङ् सम्भक्तौ'।।
प्रजोरिनिः।। 3.2.156 ।।
प्रजोरिनिः।। इनेरिकारो नकारस्येत्संज्ञा मा भूदिति।।
जिद्दक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च।। 3.2.157 ।।
जिद्दक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च।। `जी जये' जि अभिभवे'---द्वयोरपि ग्रहणम्, `द्दङ् आदरे',`श्रिञ् सेवायाम्',`इण् गतौ,`टुवम् उद्वमने',`व्यथ भयचलनयोः' नञ्पूर्वः, नञः कृतलोपस्य निर्द्देशः, निपातनाच्च ऩञो धातुना समासः, ततो वलोपः, ततः प्रत्ययः। `अम रोगे',`भू सत्तायाम्'। द्वयोरपि ग्रहणमिति। `क्षिष् हिंसायाम्' इत्यस्य तु सानुबन्धकत्वादग्रहणम्। षू प्रेरण इत्यस्य ग्रहणमिति। `षूङ् प्राणिगर्भविमोचने'`षूङ् प्राणिप्रसवे' इत्येतयोस्तु सानुबन्धकत्वादग्रहणम्। प्रजोरप्यत्रैव ग्रहणं कर्तव्यम्, एवं हि चकारो न वक्तव्यो भवति? तथा तु न कृमित्येव।।
स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्।। 3.2.158 ।।
स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्.। चुरादावदन्ताः पठ्यन्त इति। तेन णौ कृतस्यातो लोपस्य स्थानिवद्भावात्पतयतेः `अत उपधायाः' इति वृद्धिर्न भवति, स्पृहयतिगृहयत्योश्च लघूपधगुणो न भवतीति भावः। श्रत्पूर्वो धाञिति। धेटस्तु श्रत्पूर्वस्याप्रयोग एव। अथ किमर्थमालुज्विधीयते, न लुजेवोच्येत? का रूपसिद्धिः? स्पृहयालुः शपि कृते `अतो दीर्घो यञि' इति दीर्घो भविष्यति? तत्र हि `तुरुस्तुशम्यमः सार्वधातुके' इति सार्वधातुकग्रहणमनुवर्तते, न तु तिङ्ग्रहणम्, लकारस्येत्संज्ञाप्रयोजनाभावान्न भविष्यति, यकारादित्वाद्वा। किं यकारो न श्रूयते? लुप्तनीर्दिष्टो यकारः, एवमपि श्रद्धालुर्न सिद्ध्यति, कथम्? शपः श्लुर्द्विर्वचनम्, `श्नाभ्यस्तयोरातः' श्रद्दध्लुरिति प्राप्नोति? अथापि `संज्ञापूर्वको विधिरनित्यः' इति द्विर्वचनं न प्रवर्तिष्यत इत्युच्येत? एवमपि ज्ञापनार्थमालुज् विधीयते, एतज् ज्ञापयति---यत्रालुचैव रूपसिद्धिस्ततोऽप्ययं भवतीति। तेनालुचि शीङो ग्रहणमित्येतन्न वक्तव्यं भवति।।
  दाधेट्‌सिशदसदो रुः।। 3.2.159 ।।
दाधेट्‌सिशदसदो रुः।। `गामादाग्रहणेष्वविशेषः' इति दारूपाणां यथाभिधानं ग्रहणम्। धेट् पाने, `षिञ् बन्वने', `शद्लृ शातने',`षद्लृ विशरणगत्यवसादनेषु।।
सृघस्यदः क्मरच्।। 3.2.160 ।।
सृघस्यदः क्मरच्।। घसिः प्रकृत्यन्तरमस्ति।।
भञ्चभासमिदो घुरच्।। 3.2.161 ।।
भञ्चभासमिदो घुरच्।।`भञ्चो आमर्द्दने',`भासृ दीप्तौ,'`ञिमिदा स्नेहने'।।
विदिभिदिच्छिदेः कुरच्।। 3.2.162 ।।
विदिबिदिच्चिदेः कुरच्।। न लाभार्थस्येति। ज्ञानार्थस्येदमुपलक्षणं न लाभार्थस्येत्यर्थः। कुत इत्याह---स्वभावादिति। तेन `लुग्विकरणालुग्विकरणयोरित्येतदपि न प्रवर्तत इत्यर्तः। विदिभिदिच्छिदेर्ङिदिति प्रकृतस्यैव घुरचो ङित्त्वातिदेशेनैव सिद्धे `प्रत्ययान्तरकरणमातिदेशिकं ङित्त्वमनित्यम्' इति ज्ञापनार्थम्। तेन `धू विधूनने' कुटादिः, ततः `अर्त्तिलूधू' इतीत्रप्रत्ययो कृते ङित्कार्य न भवति। केचितु---धुवित्रमित्येवेच्छन्ति, प्राणा वै धुवित्राणीति छान्दसं तदनुसारेण कल्पसूत्रेषु प्रयोगः। कर्मकर्त्तरीति। माघस्तु शुद्धे कर्तरि प्रयुङ्क्ते---`गुरुमत्सरच्छिदुरया दुरयाचितमङ्गना' इति।।
इण्नश्जिसर्त्तिभ्यः क्वरप्।। 3.2.163 ।।
इण्नश्जिसर्त्तिभ्यः क्वरप्।। क्वरपः पकारः स्वरार्थः, तुगर्थश्च। इत्वरीति। `टिड्‌ढाणञ्' इत्यादिना ङीप्।।
गत्वरश्च।। 3.2.164 ।।
जागरूकः।। 3.2.165 ।।
यजयपदशां यङः।। 3.2.166 ।।
नमिकम्पिस्म्यजसकमहिंसदीपो रः।। 3.2.167 ।।
नमिकम्पिस्म्यजसकमहिंसदीपो रः।। अजसेत्यकार आगन्तुकः। क्रियासातत्ये इति। क्रियाणामविच्छेदेन प्रवृत्तिः===क्रियासातत्यम्। कथं तर्हि अग्निषु प्रयोगः----अजस्रानजुहूत इन्धीरन्निति, आधानाद् द्वादशरात्रमजस्रा इति? अत्राप्यजस्रजागरणादजस्राः।।
सनाशंसभिक्ष उः।। 3.2.168 ।।
सनाशंसभिक्ष उः।। न सनिर्धातुरिति। `षणु दाने' `वन षण संभक्तौ' इति च धातुर्न गृह्यते, कुतः? गर्गादिषु विजिगीषुशब्दस्य पाठात्। न शंसेः स्तुत्यर्थस्येति। एतदाङा सह निर्द्दशाद्विजायते---इच्छार्थो हि स तेन सह पठ्यते, न स्तुत्यर्थः।।
विन्दुरिच्छुः।। 3.2.169 ।।
विन्दुरिच्छुः।। विदेरिति। ज्ञानार्थस्य ग्रहणं नेतरेषाम्, अभिधानात्, निपातनाद्वा। बिन्दुशब्दस्तु पवर्गादिः `बिदि अवयवे' इत्यस्मादौणादिके `मृगय्वादयश्च' इत्युप्रत्यये भवति। वकारस्यच्छन्दसि पक्षे भकार इष्यते---वैश्वदेवा भिन्दव इति। इषेरिति। `इषु इच्छायाम्' इत्यस्य। `इषु गतौ' `इष `आभीक्ष्ण्ये' इत्येतयोस्तु पूर्ववदग्रहणम्।।
क्याच्छन्दसिः।। 3.2.170 ।।
क्याच्छन्दसिः।। क्य इति क्यच्क्यष्कयङां सामान्येन निर्देश इति। सूत्रे वृत्तौ च ककारानुबन्धवतो धातुसंज्ञानिमित्तस्य प्रत्ययस्योपलक्षणात् कण्ड्वादियकोऽपि ग्रहणम्, तेन भुरण्युः तुरण्यवोऽङ्गिरसो नक्षत्रसपर्येम सपर्यव इत्यादि भवति। भाषायां च सुम्नयुशब्द उणादिषु मृगय्वादिषु पाठाद् द्रष्टव्यः। मित्रयुरिति। `क्यचि च' इतीत्वम्, `अकृत्सार्वधातुकयोः' इति दीर्घत्वं च न भवति, `न छन्दस्यपुत्रस्य' इति निषेधात्।।
आद्दगमहनजनः किकिनौ लिट् च।। 3.2.171 ।।
आद्दगमहनजनः किकिनौ लिट् च।। किकिनौ लिट् चापरार्थे प्रयुज्यमानाः शब्दा वतिमन्तरेणापि वत्यर्थ गमयन्ति, गौर्वाहीक इतिवदित्याह---लिड्वच्च तौ भवति इति। किकिनौ भवतः, लिट् च प्रत्ययो भवतीत्ययं त्वर्थो न भवति; तथा हि सति `लिट् किकिनः' इत्येव ब्रूयात्। कार्यातिदेशश्चायम्। यद्येवम्, `लः परस्मैपदसंज्ञा किकिनोः स्यात्, ततश्च देङ्द्दङादिभ्य आत्मनेपदिभ्यो न स्याताम्। न लकारस्य परस्मैपदसंज्ञा, किं तर्हि? तदादेशानाम्, न चैतावादेशौ। एवमपि भावकर्मकर्तृषु त्रिष्वपि लिड्वद्भावात्किकिनौ प्राप्नुतः? नैषः;उत्पन्नयोर्लिट्कार्यमतिदेश्यम्। उत्पत्तिश्च तयोः कर्त्तर्येव भवति; `कर्तरि कृत्' इत्यनेनास्यैकवाक्यत्वात्। अनभिधानाद्वा भावकर्मणोर्न भविष्यतः। वर्तमानाधिकाराच्च वर्तमाने किकिनोर्विधानमिति भूतकालतापि विरोधान्नातिदिश्यते। स्वरूपाबाधेन च कार्यादिदेशः प्रवर्तत इति तिबादीनां कानच्क्वस्वोश्चाभावः। आदिति दकारो मुखसुखार्थ इति। आदित्ययं दकारः, स च मुखसुखार्थ इत्यर्थः। न त्वयं तपर इति। तश्चासौ परश्च तपरो नायमकारात्परस्तकारो जश्त्वेन निर्द्दिष्ट इत्यर्थः। किं कारणमित्याह---मा भूदिति। तकारो मुखसुखार्थ इति पाठे तु आदित्ययं तकारः स मुखसुखार्थः, न तु तपरकार्यसम्पादनार्थ इत्यर्थः। पपिः सोममिति। `न लोकाव्यय' इति षष्ठीप्रतिषेधो लिटः कार्यमिति सोमशब्दाद् द्वितीया। ततुरिरिति। `बहुलं छन्दसि' इत्युत्वम्। `द्विर्वचनेऽचि' इति स्थानिवद्भावात् `तॄ' इत्येतद् द्विरुच्यते। जज्ञिरिति। `गमहन' इत्युपधालोपः, चुत्वम्।
तद्वाघनार्थ कित्त्वमिति। अर्तेर्ऋकारान्तानां च किकिनोर्गुणो मा भूदित्येवमर्थमित्यर्थः।
उत्सर्ग इति। धातुमात्राद्विधानं कर्तव्यमित्यर्थः। कस्मादित्यत्राह---सदादिभ्यो दशनादिति। सेदिः नेमिरिति। सदेर्नमेश्चैत्वाभ्यासलोपौ।
सहिवहित्यादि। अत्र भाषायामित्यपेक्ष्यते। पापतिरिति। `नीग्वञ्चु' इत्यादिना नीगागमः प्राप्तः सासहिवावहिचाचलिपापतीनां निपातनम्' इति वार्त्तिककारवचनान्न भवति। इदं तु वृत्तौ पठितं वाक्यम्। अपर आहेति भाष्ये पठितम्, तत्रापि भाष्यकारवचनान्नीगभावः। उक्तं हि तेन---तान्येवोदाहरणानीति।।
स्वपितृषोर्निजिङ्।। 3.2.172 ।।
शॄवन्द्योरारुः।। 3.2.173 ।।
भियः क्रुक्लुकनौ।। 3.2.174 ।।
स्थेशभासपिसकसो वरच्।। 3.2.175 ।।
स्थेशभासपिसकसो वचच्।। ईश्वर इति। `नेड्वशि कृति' इतीट्प्रतिषेधः। स्त्रियामीश्वरा। विन्यस्तमङ्गलमहौषधिमीश्वरायाः। `ईश्वरीं सर्वभूतानाम्' इति तु छान्दसः। औणादिको वरडित्यन्ये। `पुंयोगादाख्यायाम्' इत्यन्ये। `अन्येभ्योऽपि द्दश्यन्ते' इति क्वनिपि `वनो र च' इति ङीब्रावीत्यन्ये।।
यश्च यङः।। 3.2.176 ।।
यायावर इति पूर्ववदिटि प्रतिषिद्धे `अतो लोपः',`लोपो व्योर्वलि',`अल्लोपस्य स्थानिवत्त्वादाल्लोपः प्राप्तो वरे कृतस्य स्थानिवत्त्वनिषेधान्न भवति।।
भ्राजभासधुर्विद्यु तोर्जिपॄजुग्रावस्तुवः क्विप्।। 3.2.177 ।।
भ्राजभासधुर्विद्यु तोर्जिपॄजुग्रावस्तुवः क्विप्।। `भ्राजृ दीप्तौ',`भासृ दीप्तौ',`तुर्वी थुर्वी धुर्वी हिंसायाम्',`द्युत दीप्तौ',`उर्ज बलप्राणनयोः',`पॄ पालनपूरणयोः',`जु' इति सौत्रो धातुः,`ष्टुञ् स्तुतौ' ग्रावपूर्वः।
जवतेर्दीर्घत्वं चेति। केचिदाहुः---सूत्रे `जू' इति दीर्घः पठितव्य इति। विध्य न्तरोपसंग्रहार्थ द्दशिग्रहणमुत्तरसूत्रादपक्रष्टव्यमित्यन्ये। ग्रावस्तुदिति। ग्रावशब्दः सप्तमीनिर्देशाभावेऽप्युपपदसंज्ञ इष्यते। अन्ये तु सूत्रनिर्देशाद्धातुनैव समासे पश्चात्क्विपं कुर्वन्ति।।
अन्येभ्योऽपि द्दश्यते।। 3.2.178 ।।
अन्येभ्योऽपि द्दश्यते।। विध्यन्तरोपसंग्रहार्थमिति। द्दशिग्रहणे सति यथा क्विबन्ता धातवो द्दश्यन्ते, तथैव तेऽनुगन्तव्या इत्यर्थो भवति। एवं च ते तथानुगता भवन्ति यदि यथायोगं द्विर्वचनादयो--भवन्ति। विध्यन्तरमेव दर्शयतिक्वचिदिति। तथा चाहेति। वार्त्तिककारः। आयतं स्तौत्यायतस्तूः। कटं प्रवते कटप्रूः। दिद्‌युदिति। `द्युतिस्वाप्योः सम्प्रसारणम्' इत्यभ्यास्य सम्पसारणम्। कथं पुनरभ्याससंज्ञा, यावता प्रत्यासत्तेः षाष्ठिक एव द्विर्वचने सा विधीयते, अत एवाष्टमिके न भवति? एवं तर्हि द्दशिग्रहणादेव सम्प्रसारणम्, अभ्याससंज्ञा च द्रष्टव्या। जगदिति। `गमः क्वौ' इति मलोपः। अत्रापि पूर्ववदेxxxxxxसकार्यम्।
द्वे चेति चकारेण दीर्घः समुच्चीयमानो दीर्घश्रुत्या `अचश्च' इत्युपस्थानादचा च तदन्तविध्याश्रयणाज्जुहोतेरेवाजन्तस्य विज्ञायते, न द्युतिगम्योरित्याह---जुहोतेर्दीर्घित्वं चेति। जुहूरिति। करणस्यात्र कर्तृत्वविवक्षा।
धीरित्यत्रापि करणस्यैव कर्तृत्वविवक्षा, पुरुषो हि ध्यायति, न धीः।।
भुवः संज्ञान्तरयोः।। 3.2.179 ।।
भुवः संज्ञान्तरसोः।। धनिकाधमर्णयोरिति। यस्मै ऋणं धार्यते स धनिकः, यो धारयति सोऽधमर्णः, तयोरन्तरे मध्ये यस्तिष्ठति विश्वासार्थ स प्रतिभूरित्युच्यते। ग्रामयोरन्तरे यस्तिष्ठति तत्र न भवति। एतच्च द्दशिग्रहणानुवृत्तेर्लभ्यते। यद्येबम्, संज्ञेयं भवति, तत्र `संज्ञायाम्' इत्येव सिद्धम्? अत्राहुः-----यावद्भव्यभाविन्यः संज्ञा भवन्ति, प्रतिभूशब्दस्तु सत्येव तस्मिन्नृणप्रतिदाने निवर्तते।।
विप्रसंभ्यो ङ्वसंज्ञायाम्।। 3.2.180 ।।
विप्रसंभ्यो ङ्वसंज्ञायाम्।। मितद्रवादिभ्य इति। मितादिपूर्वेभ्यो धातुभ्य इत्यर्थः। शम्भुरिति। अन्तर्भावितण्यर्थोऽत्र भवतिः।।
धः कर्मणि ष्ट्रन्।। 3.2.181 ।।
धः कर्मणि ष्ट्रन्।। कर्मणि कारक इति। उपपदं तु कर्म न स्मभवति, यदि स्यात् `कर्मण्यण्' इत्यस्मिन्नेव प्रकरणे ष्ट्रनं विदध्यात्। ननु चोत्तरसूत्रे पुनः ष्ट्रन्ग्रहणं कर्त्तव्यं स्यात्, अस्तु लघीयो हि कर्मग्रहणात्ष्ट्रन्ग्रहणम्। न चेह वर्त्तमानकाले ष्ट्रन्प्रत्ययः, धात्रीत्युक्ते क्रियाकारकसम्बन्धमात्रं गम्यते। अतः `कर्मणि' इति प्रत्ययार्थ एव, नोपपदम्।।
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे।। 3.2.182 ।।
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे।। दाप् लवन इति। `दैप् शोधने' इत्यस्य त्वग्रहणम्, अनभिधानात्। युजिर्योग इति। `युज समाधौ' इत्यस्य तु पूर्ववदेवाग्रहणम्, अनभिधानात्। युजिर्योग इति। `युज समाधौ' इत्यस्य तु पूर्ववदेवाग्रहणम्। करणे कारके इति। उपपदं तु करणं न भवति, अजादिषु दंष्ट्राशब्दस्य पाठात्। अत एव च पाठात्सूत्रेऽनुनासिकलोपेन निर्द्देशेऽपि ष्ट्रनि न भवति ल्युट्येव तु भवति। योऽत्र सेट् ततः `तितुत्र' इत्यादिनेट्प्रतिषेधः।।
हलसूकरयोः पुवः।। 3.2.183 ।।
हलसूकरयोः पुवः।। तच्चेत्करणं हलसूकरयोरवयवो भवतीति। एतेन हलसूकरयोरभिधेयत्वमुपपदत्वं च निरस्यति। मुखमुच्यते इति। नान्यः कर्णादिः। एतदपि स्वभावादेव लभ्यते।।
अर्त्तिलूधूसूखनसहचर इत्रः।। 3.2.184 ।।
अर्त्तिलूधूसूखनसहचर इत्रः।। इकारोपदेशः `तितुत्र' इति `एकाचः' इति च यथायोगमिट्प्रतिषेधो मा भूदिति। स्वरार्थश्च, इटि हि सत्यागमानुदात्तत्वं स्यात्, इका तु प्रत्ययाद्युदातद्तत्वम्।।
पुवः संज्ञायाम्।। 3.2.185 ।।
पुवः संज्ञायाम्।। बर्हिष्पवित्रमिति। बर्हिषा कृतं बर्हिषः पवित्रं भवति, तत्र षष्ठीसमासः, `नित्यं समासेऽनुत्तरपदस्थस्य' इति षत्वम्। येनाज्यमुत्पूयते तत्पवित्रम्। अनामिकायाश्चाङ्गुलेर्वेष्ठनं जपादिषु।।
कर्त्तरि चर्षिदवतयोः।। 3.2.186 ।।
कर्त्तरि चर्षिदेवतयोः।। ऋषौ करणे इति। ऋषिः==वेदमन्त्रः, `तदुक्तमृषिणा' इति दर्शनादित्याहुः।।
ञीतः क्तः।। 3.2.187 ।।
ञीतः क्तः।। भूते निष्ठा विहितेत्यादि। तत्र येननाप्राप्तिन्यायेन क्तस्यैव वर्त्तमानविषयतया भूतविषयता बाध्यते, यथा---`वडवाया वृषे वाच्ये' इत्यत्र वक्ष्यते---अपत्ये प्राप्तस्ततोऽपकृष्य वृषे विधीयत इति। एवमुत्तरविहितस्यापि। ज्ञातमित्येतत्तु भूतेऽपि भवति, तेनेत्यधिकारे उपज्ञात इति तद्धितविधानात्। वर्त्तमाने हि `क्तस्य च वर्त्तमाने' इति षष्ठ्या भाव्यम्। एवं च `पूजितो यः सुरैरपि' इत्यादीनां साधुत्वं चिन्त्यम्।।
मतिबुद्धिपूजार्थेभ्यश्च।। 3.2.188 ।।
मतिबुद्धिपूजार्थेभ्यश्च।। मतिरिच्छेति। बुद्धेः पृथगुपादानाद् बुद्धिर्न गृह्यते। मत इति। `अनुदात्तोपदेश' इत्यनुनासिकलोपः।
शीलित इत्यादि। `शील समाधौ',`रक्ष पालने',`क्षमूष् सहने',`क्रुश आह्वाने रोदने च',`जुषी प्रीतिसेवनयोः',`रुष रोषे',`हृञ् हरणे';`हृषु अलीके',`हृष् तुष्टौ' इति वा; `तुष तुष्टौ',`कमु कान्तौ',`यम उपरमे',`कष हिंसायाम्' मृङ् प्राणत्यागे'। तत्राद्यौ सेटौ, उदितामुदितां च `यस्य विभाषा' इतीट्प्रतिषेधः, ईदितः `श्वीदितो निष्ठायाम्' इति। हृष्ट इति। `हृषेर्लोमसु' इति। कषेः `कृच्छ्रगहनयोः कषः' इति। रुषेः `रुष्यमत्वरसंधुषास्वनाम्' इति विकल्पः।
सुप्त इति। सुपेः `त्रीतः क्तः' इत्येव सिद्धे नजिङा तच्छीलादिषु बाद्या मा भूदिति समुच्चीयते। क्वचित्तु सृप्त इति पठ्यते।।
इति श्रीहरदत्तमिश्रविरचितायां पदमञ्चर्यो
तृतीयस्याध्यायस्य द्वितीयः पादः।।
----*****----