सामग्री पर जाएँ

शब्दकौस्तुभः/अध्यायः ३-पादः १/आह्निकम् ५

विकिस्रोतः तः
← आह्निकम् ४ शब्दकौस्तुभः
आह्निकम् ५
[[लेखकः :|]]
आह्निकम् ६ →


।। तृतीयाध्यायस्य प्रथमे पादे पञ्चममान्हिकम् ।।
(पाoसूo3-1-87)
कर्मवत्कर्मणा तुल्यक्रियः(पाoसूo3-1-87)।। कर्मशब्देन स्वनिष्ठा क्रिया लक्ष्यते। कर्मस्थया क्रियया तुल्यक्रियो लकारवाच्यः कर्त्ता कर्मवत् स्यात्। "व्यत्ययो बहुलंल्लिङ्याशिष्यङ्"(पाoसूo3-1-85,86)इति द्विलकारको निर्द्देशः। लुप्तनिर्द्दिष्टो वा लकारः। लोपस्तु "संयोगान्तस्य"(पाoसूo8-2-23)इति "हलो यामाम्"(पाoसूo8-4-64)इति वा। तच्च लग्रहणमिहानुवृत्तं षष्ठ्या विपरिणम्येत, लुप्तषष्ठीकं वा, षष्ठ्यर्थश्च वाच्यत्वम्। "कर्त्तरि शप्"(पाoसूo3-1-68)इति सूत्रात्कर्तृग्रहणमनुवृत्तं प्रथमया विपरिणम्यते। तेनाभिमतार्थलाभः। यगात्मनेपदचिण्‌चिण्वद्भावाः प्रयोजनम्। भिद्यते काष्ठं स्वयमेव। अभेदि काष्ठं स्वयमेव। कारिष्यते कटः स्वयमेव। आत्मनेपदस्य त्रीण्यपि इमान्युदाहरणानि। यक्‌चिण्‌चिण्वद्भावानां तु क्रमेणेति विवेकः।
निवृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितम्।
निवर्त्तमाने कर्मत्वे स्वे कर्तृत्वेऽवतिष्ठते।।
अस्याञ्चावस्थायामकर्मकत्वात् कर्त्तरि भावे च लकाराः। तत्र यदा कर्तरि तदा शुद्धे कर्त्तरीव रूपेषु प्राप्तेषु पूर्वावस्थायां भिदेः कर्मीभूते काष्ठे यादृशी क्रिया द्विधाभवनरूपा, करोतेः कर्मणि च कटे उत्पत्तिरूपा, तया तुल्यक्रियोऽयं भिदिकृञोः कर्त्ता लकारवाच्यश्चेत्यतिदेशाद्यगादिचतुष्टयप्रवृत्तिः। यथा निवृत्तप्रेषणस्याकर्मकत्वं, यथा च क्रियायाः क्वचित्कर्मस्थत्वं, क्वचिन्न, तथा "णेरणौ"(पाoसूo1-3-67)इति सीत्रे व्यत्पादितम्। कर्मणेति किम्? करणाधिकरणाभ्यां तुल्यक्रिये मा भूत्। साध्वसिश्छिनत्ति। साधु स्थाली पचति। नन्विह करणाधिकरणत्वावस्थायामसिस्थाल्योर्व्यापारो वस्तुतः सन्नपि धातुना नोपादीयत इति चेत्? किं ततः? नह्यस्मिन् सूत्रे सादृश्यप्रतियोगिभूतायाः क्रियाया धातूपात्तत्वं शब्देनाश्रितं, येन कर्मग्रहणं विनाऽप्यतिप्रसङ्गो न भवेत्। किञ्च कर्तृस्थक्रिया अप्यस्यैव व्यावर्त्या। गच्छति ग्रामः स्वयमेव, आरोहति हस्ती स्वयमेवेति।
अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति च। इत्यादि।
नन्वेवं करोत्यर्थस्य यत्नस्यापि ज्ञानेच्छादिवत्कर्तृस्थत्वात् कारिष्यते कटः स्वयमेवेति कथमुदाहृतमिति चेत्? न, करोतेरुत्पादनार्थत्वस्य प्रागेव वर्णितत्वात्। लकारवाच्यः किम्? भावे लकारोत्पत्तौ मा भूत्, भिद्यते कुसूलेन। इह सत्यतिदेशे कुसूलाद् द्वितीया स्यात्। किञ्च लकारवाच्यत्वविशेषणाभावे कृत्याः खलर्थाश्च अस्मिन् कर्तरि स्युः-भेत्तव्यः कुसूलः स्वयमेवेति। ईषद्भेदः कुसूलः स्वयमेवेति। इष्यते तु भाव एव-भेत्तव्यं कुसूलेन कुसूलस्य वा। "कृत्यानां कर्त्तरि वा"(पाoसूo2-3-71)इति वा षष्ठी। ईषद्भेदं कुसूलेन। यत्त्विह वार्त्तिके "कृत्यक्तखलर्थेषु प्रतिषेधः" इत्युक्तम्, तन्न क्तग्रहणमविवक्षितम्, अन्यत्र सह पाठात्त्विह पठितम्। भवत्येव हि एभ्योऽकर्मकत्वात् "गत्यर्थाकर्मक"(पाoसूo3-4-72)इति सूत्रेण कर्त्तरि क्तः। तथा च "सिनोतेर्ग्रासकर्मकर्तृकस्य"(काoवाo)इति निष्ठानत्वे "सिनो ग्रासः स्वयमेव" इति कर्तरि क्त उदाहरिष्यते!
अन्ये त्वाहुः-क्तग्रहणं विविक्षितमेव, `गवा दुग्धं पय' इत्युदाहरणसम्भवात्। अत्र हि गोः कर्मकर्तृत्वात् तत्र कर्मवदतिदेशे सति क्तः स्यात्। नह्यत्र सिद्धान्ते "गत्यर्थाकर्मक"(पाoसूo3-4-72)इत्येतत्प्रवर्त्तते, पयोरूपेण कर्मणा सकर्मकत्वात्। न चैवं सकर्मकत्वादेव कर्मवदित्यतिदेशो न भविष्यतीति वाच्यम्, दुहिपच्योर्बहुलं सकर्मकयोरिति प्रतिप्रसवात्। न च बहुलग्रहणादेव प्रवृत्तिः, तस्य भाष्ये प्रत्याख्यातत्वादिति दिक्।

वतिग्रहणन्तु शक्यमकर्तुम्। तथाहि, लकारवाच्यस्य कर्तुः कर्मसंज्ञैवास्तु। न च कर्मसंज्ञया कर्तृसंज्ञया बाधः, एकसंज्ञाधिकारादन्यत्र संज्ञानां समावेशात्। न चैवं सकर्मकत्वाभावे लो न स्यादिति वाच्यम्, आनुपूर्व्या सिद्धत्वात्। कर्मसंज्ञा हि लकारोत्पत्तिं प्रतीक्षते, लकारवाच्यस्यैव कर्तुस्तद्विधानात्। ततः प्राक् चाकर्मकत्वानपायेन "भावे चाकर्मकेभ्य"(पाoसूoएo3-4-61)इति भावे कर्तरि च लविधेरप्रत्यूहत्वात्। नन्वेवमपि यगात्मनेपदे न स्यातां, शुद्धयोः कर्मकर्त्रोः सावकाशयोर्यक्‌शपोः परत्वात् शप्प्रसङ्गात्, "भावकर्मणोः"(पाoसूo1-3-13)इत्यात्मनेपदस्य "शेषात्कर्तरि"(पाoसूo1-3-78)इति परस्मैपदस्य च विप्रतिषेधेन परत्वात्परस्मैपदप्रसङ्गाच्चेति चेत्? न, भावकर्मणोर्विहितेन यका अपवादभूतेन आक्रान्तविषयं परिहृत्य सार्वधातुके शबिति उत्सर्गस्य प्रवृत्तिसम्भवात् कर्त्तरिशबिति सूत्रे कर्तृग्रहणमतिरिच्यते। तस्यैतत्फलं-"कर्तैव यः कर्ता तत्र शबादयो यथा स्युः कर्मकर्त्तरि मा भूवन्" इति। नन्वस्मिन् हरदत्तपक्षे "न दुह"(पाoसूo3-1-89)इत्यादिना यकि निषिद्धे शप् न स्यात्। तथा च लिङ्लिटोरिव निर्विकरणप्रयोगापत्तिरिति चेत्? एवं तर्हि कर्त्तरीति योगो विभज्यते, भावकर्मणोरित्यत्रापि भावे, कर्मणि चेति। ततः कर्मणीत्त्यनुवर्त्य कर्मणि कर्त्तरि यक् भवति शपोऽपवादः। न दुहेत्यादौ अपवादाभावात्पुनरुत्सर्गस्य स्थितिः। एतच्च व्याख्यानं यग्विधावेव भाष्ये स्थितम्। एवन्तावद्यक् सिद्धः, न दुहस्नुनमामिति लिङ्गाच्च। तथा "कर्त्तरि कर्म"(पाoसूo1-3-14)इत्यतः "कर्त्तरि" इत्यनुवर्त्त्य "कर्तैवः यः कर्ता तत्र परस्मैपदं, न तु कर्मकर्त्तरि" इति व्याख्यानादात्मनेपदम्। तस्माद्वत्करणे त्यक्तेऽपि सर्वमिष्टं सिद्ध्यतीति स्थितम्। क्रियमाणे तु वत्करणे अतिदेशोऽयमिति स्पष्टमेव। स च षोढा-रूपनिमित्ततादात्म्यव्यपदेशशास्त्रकार्यातिदेशभेदादिति "स्थानिवत्"(पाoसूo1-1-56)सूत्रे व्युत्पादितम्। इह तु आदितस्त्रयाणामसम्भवः। व्यपदेशातिदेशस्तु संज्ञापक्षान्न भिद्यते। तत्र वत्करणं व्यर्थम। अतो द्वावेव शिष्येते। तत्रापि शास्त्रातिदेशे यगात्मनेपदसिद्ध्यर्थं पूर्वोक्तयत्न आस्थेय इति क्लिष्टता। प्रधानं च कार्यं तदर्थत्वादतिदेशान्तराणाम्। अतः कार्यातिदेश एवायम्। न चास्मिन्पक्षे द्वितीयाऽप्यति दिश्येत, तथा च भिद्यते कुसूलेनेति भावे लकारे कर्तरि द्वितीया स्यादिति वाच्यम्, "लवाच्यस्यैव कर्तुः कर्मवदतिदेशः" इत्युक्तत्वात्। न चैवमपि `भिद्यते कुसूलः' इत्यत्र दोषापत्तिः, अभिहितत्वेन द्वितीयाया अप्रवृत्तेः। नन्विह अनभिहिताधिकारो नास्तीति चेत्? सत्यम्। तथापि वत्करणसामर्थ्यात् यथाऽनभिहिते कर्मणि प्रत्ययः तथैवानभिहिते कर्तर्यपि लभ्येत, तेन अभिदानमस्तीत्युक्तमेव। ननु निवृत्तप्रेषणा लुनातिभिनत्त्यादयोऽकर्मकाः द्विधा भवतीतिवत्, तत्कथं तत्कर्तुः कर्मणा तुल्याक्रियत्वम् इति चेत्? न, नह्यस्मिन्प्रयोगे यत्कर्म तेन तुल्यक्रियतां ब्रूमः, किं तर्हि प्रयोगान्तरे यत्कर्म तेन। नन्वेवं `पचत्योदनं देवदत्तः' `राध्यत्योदनः स्वयमेव' इत्यादावतिप्रसङ्ग इति चेत्? अत्र वार्तिकम्-
कर्मदृष्टश्चेत्समानधातौ(काoवाo)।। इति। न्यायसिद्धं चेदं, धातोरिति ह्यनुवर्तते कर्तृकर्मणी च धातोरन्यत्र न सम्भवत इति सामर्थ्यादेव सिद्धे तदनुवृत्तिरेकत्वविवक्षार्था। यस्मिन्नेव धातौ यत्कर्म तेन तुल्यक्रियस्तस्यैव कर्तेति। तेन धातुभेदे न भवति।
स्यादेतत्, एकस्यापि रूपभेदेन कर्तृत्वं कर्मत्वं च दृश्यते, `आत्मानमात्मना वेत्सि' इति यथा। एवं च `ओदनः पच्यते' इत्यादावपि प्राकृते कर्मण्येव लकारोऽस्तु तत्किं निवृत्तप्रेषणत्वाश्रयणेन, किञ्च कर्मवदित्यतिदेशेन? न चैवं `भिद्यते कुसूलेन' इति भावे लो न स्यादिति वाच्यम्, इष्टापत्तेः। कर्मण्येव हि सोऽस्तु।
(पाoसूo3-1-89)
अत्राहुः, एवं सतु "न दुहस्नुनमाम्"(पाoसूo3-1-89)।। इत्यादिना यक्चिणोः प्रतिषेधस्य विषयविभागो न लभ्येत। अपि च `नमतेदण्डः" कारयते अचीकरत वा कटः' इत्यादौ यक्चिणोः प्रतिषिद्धयोऽरपि शप्चङौ न स्याताम्, अकर्तृत्वात्। किं च `पचत्योदनः' इत्यपि प्रयोगः प्रसज्येत। तस्मान्निवृत्तप्रेषणतामाश्रित्यातिदेशसूत्रमारब्धव्यमेवेति।
करणेन तुल्यक्रियः कर्त्ता बहुलं कर्मवदिति वक्तव्यम्(काoवाo)।। परिवारयति कण्टकैर्वृक्षम्। परिवारयन्ते कण्टका वृक्षम्। अत्रात्मनेपदं सिध्यति। न च "णिचश्च"(पाoसूo1-3-74)इत्यनेन तत्सिद्धिः, क्रियाफलस्य कर्तृगामित्वे सत्येव तत्प्रवृत्तेः। इह तु तदभावेऽप्यात्मनेपदस्येष्यमाणत्वात्। बहुलग्रहणान्नेह-`साध्वसिश्छिनत्ति'।
सकर्मकाणां प्रतिषेधो वक्तव्यः(काoवाo)।। अन्योन्यमाश्लिष्यतः। अन्योन्यं स्पृशतः। एतच्च न्यायसिद्धम्। तथाहि, कर्मस्थया क्रियया तुल्या क्रिया यस्य कर्तुरित्युक्ते सन्निधानादिदं गम्यते-यत्क्रियावेशादसौ कर्ता सैव चेत्कर्मत्वोपयोगिनीति। न चैतदिहास्ति, स्वयमनाश्लिष्यतोऽपि परेणाश्लिष्यमाणस्य कर्मत्वसम्भवात्। परसमवेतसंयोगाख्यफलानुकूलव्यापारयोश्चलनात्मकयोरेकधातूपात्तयोरपि स्वरूपेमात्र भेदात्। एतेन `भिद्यमानः कुसूलः पात्राणि भिनत्ति' इत्यपि व्याख्यातम्। द्विधाभवनस्य दैवगत्या कुसूलनिष्ठत्वेऽपि पात्रनिष्ठकर्मतायामप्रयोजकत्वात्। स्वयमभिद्यमानोऽपि हि कुसूलः ुपरी पतन् पात्राणि भित्त्येव। नन्वेवमपि पचिरूधादीनां द्विकर्मकामामेकस्य कर्मणः कर्तृत्वेऽप्यपरेण सकर्मकत्वावस्थायां कर्मवद्भावः प्राप्तः, तन्निषेद्‌धुं सकर्मकाणां प्रतिषेधवचनं कर्तव्यमेवेति चेत्? योगविभागात्सिद्धम्। तथाहि,
तपेः।। तपेरेव सकर्मकस्य न त्वन्यस्य। ततः, तपः कर्मकस्यैव। तपेरित्यनुवर्तते। यद्वा वार्तिके योगविभागः करिष्यते-
दुहिपच्योर्बहुलं सकर्मकयोः(काoवाo)।। अत्र "दुहिपच्योः सकर्मयोः" इत्येकं वाक्यं नियमार्थं-`दुहिपच्योरेव न त्वन्येषाम्' इति। दुग्धे गौः पयः। तस्मादुदुम्बरः सलोहितं फलं पच्यते।। गौरुदुम्बरश्चात्र कर्मकर्त्ता। "अकथितं च"(पाoसूo7-4-51)इति सूत्रे वार्तिकमुपष्टम्भकमित्यवधेयम्।
ओदनं पचतीत्यादावतिप्रसङ्गनिवारणाय "बहुलम्" इति द्वितीयं वाक्यम्। तच्च प्रत्याख्यातं भाष्ये। दुहिपच्योरिति हि कर्मकर्तृविषयकम्, कर्मस्थया क्रियया तुल्यक्रिय एव विधायकं नियामकं वा? उभयथाऽपि `ओदनं पचति' इत्यादौ प्रसङ्ग एव नास्तीति। न च कर्मकर्तर्येव परस्मैपदार्थं बहुलवचनं, तस्यानिष्टत्वादिति दिक्।
सृजियुज्योः श्यंस्तु(काoवा)।। अनयोः सकर्मकयोः कर्ता बहुलं कर्मवद्भवतीति वक्तव्यम्। यगपवादश्च श्यन्।
सृजे श्रद्धोपपन्ने कर्तर्येवेति वक्तव्यम्(काoवाo)।। सृज्यते स्रजं युज्यते ब्रह्मचारी योगम्। श्यनि सति प्रक-तेराद्युदात्तत्वं भवति। यकि तु लसार्वधातुकानुदात्तत्वे यक एवोदात्तत्वं स्यात्। कौमुद्यां तु "श्रद्धावत्कर्तृकात् स्रजेर्यक्चिणौ कर्तरि के चित्" इत्युक्तम्। तत्र यगित्यशुद्धम्, आत्मनेपदानुक्तेश्च न्यूनतेति दिक्।
भूषाकर्मकिरादिसनां चान्यत्रात्मनेपदात्(काoवाo)।। भूषावाचिनां किरादीनां सन्नन्तानां च यक्‌चिणौ न भवत इति वक्तव्यमित्यर्थः। अलं कुरुते कन्या स्वयमेव। अलमकृत। भूषाफलस्य शोभाख्यस्य कर्मणि दर्शनात् कर्मस्था भूषा। ण्यन्तानां तु भूषार्थानां वक्ष्यमाणेनापि यक् चिणोः प्रतिषेधेन सिद्धत्वान्नेह मुख्योदाहरणता-भूषयते कन्या स्वयमेव। अबुभूषत कन्या स्वयमेव। किरादि-अवकिरते हस्ती स्वयमेव। अवाकीर्ष्ट हस्तिनं कश्चित्। पांस्वादिनाऽवकिरति। तत्र सौकर्यात् हस्ती कर्तृत्वेन विवक्ष्यते। गिरते। अगीर्षट। किरादिस्तुदाद्यन्तर्गणः। सन्--चिकीर्षते कंटः स्वयमेव। अचिकीर्षिष्ट। इहेच्छायाः कर्तृस्थत्वेऽपि करोतिक्रियापेक्षं कर्मस्थक्रियत्वम्।
(पाoसूo3-1-88)
तपस्तपःकर्मकस्यैव(पाoसूo3-1-88)।। तप सन्तापे(भ्वाoपo1010)। अस्य कर्त्ता कर्मवत्स्यात् स च तपःकर्मकस्यैव नान्यकर्मकस्य। क्रियाभेदाद्विध्यर्थमेतदिति वृत्तिः। तथाहि, उपवासादीनि तपांसि तापसं तपन्ति, दुःखयन्तीत्यर्थः। तथा च तापसस्य कर्मत्वे तपेर्दुःखनमर्थः। कर्तृत्वे तु अर्जनमर्थः। तापसस्तप्यते, तपोऽर्जयतीति यावत्। नन्वेवमपि शरीरसन्तापलक्षणक्रिया अवस्थाद्वयेऽपि तुल्या, नहि शरीरसन्तापादन्यत् अर्जनं नाम तापसस्य व्यापारोऽस्ति। तथा च भाष्यसम्मतं नियमार्थत्वमेव वृत्तिकृता कुतो नादृतमिति चेत्?
अत्राहुः, वस्तुतश्शरीरसन्तापस्य सत्त्वेऽपि शब्दान्न तत्त्वेन भानं किं त्वर्जनत्वेनैव। अन्यथा तपसः कर्मत्वानुपपत्तेः। तथाच तुल्यक्रियत्वाभावाद् विध्यर्थतैवेति। लुङि-अतप्त तपस्तापसः। "तपोऽनुतापे च"(पाoसूo3-1-65)इति चिणः प्रतिषेधात्सिच्। तस्य "झलो झलि"(पाoसूo8-2-26)इति लोपः। तपःकर्मकस्येति किम्? उत्तपति सुवर्णं सुवर्मकारः। एवकारस्तु व्यर्थ एव। श्रुतस्य तस्य अन्वयो वक्तव्यं इति चेत्?सत्यम्, वाक्यं भित्त्वा कथंचिदन्वयः प्रदर्शित एव।
(पाoसूo3-1-89)
न दुहस्नुनमां यक्‌चिणौ(पाoसूo3-1-89)।। एषां यक्‌चिणौ न स्तः। कर्मवदतिदेशेन प्राप्तयोरयं निषेधः, "अनन्तरस्य"(पoभाo63)इति न्यातात्। तेन शुद्धे कर्मणि भावे स्त एव। दुहेरनेन यक्‌निषिध्यते। चिण् तु "दुहश्च"(पाoसूo3-1-63)इति सूत्रेण प्रागेव विभाषितः, दुग्धे गौः स्वयमेव। अदुग्ध, अदोहि गौः स्वयमेव। यकिप्रतिषिद्धे शप्, अदादित्वात्तस्य लुक्, "दादेः"(पाoसूo8-2-32)इति घः, "झषस्तथोः"(पाoसूo8-2-40)इति धत्वम्, जश्‌त्वम्। अप्रधाने दुहादीनामिति यस्मिन्कर्मणि लकारस्तस्य कर्तृत्वविवक्षा, प्रधनं कर्म तु कर्मैव।
`स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी'।
इतिवत्। चिणबावे क्सः, लुग्वादुहेति लुक्। प्रस्नुते। प्रास्नोष्ट, चिणि प्रतिषिद्धे सिच्। नमते दण्डः स्वयमेव। अनंस्त। अन्तर्भावितण्यर्थोऽत्र नमिः। तत्र यथा `नमयति दण्डं देवदत्तः' `नमयते दण्डः स्वयमेव' इति ण्यन्तस्य कर्मस्थक्रियत्वम्, एवमस्यापि द्रष्टव्यम्।
यक्‌चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञामुपसंख्यानम्(काoवाo)।। कारयते कटः स्वयमेव। अचीकरत। उच्छ्रयते दण्डः स्वयमेव। उदत्वात्कर्मस्थम्। भारद्वाजीयाः पठन्ति-
णिश्रन्थिग्रन्थिब्रूञात्मनेपदाकर्मकाणामुपसंख्यानम्।। इति णीति णिङ्‌णिचोः सामान्यग्रहणम्। णिजुदाहृतः। णिडः-पुच्छमुदस्यति उत्पुच्छयते गौः। अस्यान्तर्भावितण्यर्थतायाम्-उत्पुच्छयते गाम्। पुनः सौकर्यातिशयेन कर्तृत्वविवक्षायाम्-उत्पुच्छयते गौः स्वयमेव। उदपुपुच्छत। इह ण्यन्तात् यक्‌चिणोः प्रतिषिद्धयोः शप्चङौ भवतः। कौमुद्यां तु कर्मकर्तरि चङ् नेत्याह। अकारयिष्टेत्युदाहृतं तदशुद्धमेव। श्रन्थ ग्रन्थ सन्दर्भे(चुoपo305,306)। चुरादावाधृषीयौ। तयोर्णिजभावपक्षे ग्रहणम्। ग्रन्थति ग्रन्थं देवदत्तः। श्रन्थति मेखलाम्। ग्रन्थने ग्रन्थः स्वयमेव। अग्रन्थिष्ट। श्रन्थते। अश्रन्थिष्ट। क्र्यादावपि इमौ पठ्येते, तयोरपीह ग्रहणम्। श्रथ्नीते ग्रथ्नीते स्वयमेव। आत्मनेपदविधावकर्मका ये धातवो निर्दिष्टास्ते यदाऽन्तर्भावितण्यर्थाः पुनश्च निवृत्तप्रेषणास्त इहोदाहरणम्। तद्यथा-"वेः शब्दकर्मणः" "अकर्मकाच्च"(पाoसूo1-3-34,35)। विकुर्वते सैन्धवाः, वल्गन्तीत्यर्थः। तान्विकरोति, वल्गयतीत्यर्थः। पुनः सौकर्यात्कर्तृत्वे-विकुर्वते सैन्धवाः स्वयमेव। व्यकृषत। यत्तु वृत्तौ पठ्यते `आहन्ति माणवकम्, आहते माणवकः स्वयमेव' इति, तदयुक्तम्, `आहन्ति माणवकम्'। इत्यस्य सकर्मकत्वादात्मनेपदाभावाच्चेति हरदत्तः।
अन्ये त्वाहुः-आत्मनेपदाकर्मकेति धातूपलक्षणं, हन्तिश्चायम् "आङो यमहनः"(पाoसूo1-3-28)इत्यत्र यदा कर्माविवक्षया अकर्मकः, तदा आत्मनेपदस्य निमित्तम्। तस्यात्र सकर्मकत्वेऽपि अविरुद्धमुदाहरणमिति।
(पाoसूo3-1-90)
कुषिरजोः प्राचां श्यन् परस्मैपदं च(पाoसूo3-1-90)।। कुषनिष्कर्षे(क्र्यापo46)। रञ्ज रागे(भ्वाoउo1024)। अनयोर्धात्वोः कर्मकर्तरि यक् न स्यात् किन्तु श्यन् परस्मैपदञ्च। आत्मनेपदापवादः। कुष्यति पादः स्वयमेव। रज्यति वस्त्रं स्वयमेव। प्राचाङ्ग्रहणं विकल्पार्थम्। कुष्यते। रज्यते। "न दुह"(पाoसूo3-1-89)इति सूत्रात् यक् नेत्यनुवर्त्त्य तस्मिन्नेव स्थले श्यन् विहितः। तत्सन्नियोगशिष्टं च परस्मैपदम्। तेन आशीर्लिङ्‌लिटोः स्यादीनां च विषये श्यन् परस्मैपदे न भवतः। कोषिषीष्ट पादः स्वयमेव। रङ्क्षीष्ट वस्त्रं स्वयमेव। चुकुषे। ररञ्जे। कोषिष्यते। रङ्‌क्ष्यते। अकोषि। अरञ्जि इत्यादि। श्यन्‌यकोः स्वरे नुमि च विशेषः-कुष्यन्ती जङ्घा। श्यनि "शप्श्यनोर्नित्यम्"(पाoसूo7-1-81)इति नुमागमः, नित्त्वादाद्युदात्तश्च। यकि तु "आच्छीनद्योः"(पाoसूo7-1-80)इति नुम्‌विकल्पः लसार्वधातुकानुदात्तत्वेन यक एवोदात्तत्वं च स्यात्।
(पाoसूo3-1-91)
धातोः(पाoसूo3-1-91)।। आतृतीयसमाप्तेरधिकारोऽयम्। यद्यपि "धातोरेकाचो हलादेः"(पाoसूo3-1-22)इति सूत्राद्धातुग्रहणमनुवर्तत एव, तथापि आर्द्धदातुकसंज्ञाया आश्रितशब्दव्यापारत्वलाभाय पुनर्धातुग्रहणम्। अन्यथा `लूभ्याम्' `पूभ्याम्' इत्यादौ भ्यामादेरिट् प्रकृतेर्गुणश्च स्यात्। धातोरित्येवमविधानात्तु न भवति। तथा कृत्संज्ञा उपपदसंज्ञा चास्मिन्नेव दात्वधिकारे यथा स्यादित्येवमर्थमपीदम्। अन्यथा पूर्वत्रापि स्यात्, ततश्च `करिष्यति' इत्यत्र स्यप्रत्ययस्य कृत्संज्ञायां कृदन्तस्य प्रातिपदिकत्वे सोरुत्पत्तिः स्यात्, एकवचनस्यौत्सर्गिकत्वात्। "प्रातिपदिकार्थ"(पाoसूo2-3-46)इति सूत्रे वचनग्रहणाच्च। तथा "च्लि लुङि"(पाoसूo3-1-43)इत्यस्य लुङन्ते उपपदे च्लिरित्यर्थः स्यात्। वासरूपविधेश्च पूर्वत्र प्रवृत्तौ क्सादिभिः सिचः समावेशः स्यादिति। तस्मात् धातोरिति कर्तव्यमिति स्थितम्। एतच्च शक्यं प्रत्याख्यातुम्। तस्मात् धातोरिति कर्तव्यमिति स्थितम्। एतच्च शक्यं प्रत्याख्यातुम्। तथाहि, "शमि धातोः"(पाoसूo3-2-14) इति यद्धातुग्रहणं तदेव द्वितीयं सार्वधातुकार्द्धधातुकसंज्ञयोरनुवर्तिष्यते। कृदुपपदसंज्ञे वासरूपविधिश्च अधिकारेणैव व्याख्यास्यन्ते। "प्रत्ययः" "परश्च"(पाoसूo3-1-1,2)इत्यादिवत्। तेन पूर्वत्र न तत्प्रसङ्गः।
(पाoसूo3-1-92)
तत्रोपपदं सप्तमीस्थम्(पाoसूo3-1-92)।। सप्तम्यन्ते पदे "कर्मणि" इत्यादौ प्रतिपाद्यत्वेन स्थितं कुम्भादिकं सप्तमीस्थं तद्वाचकं पदमुपपदसंज्ञं स्यात्, तस्मिंश्च सत्येव वक्ष्यमाणः प्रत्ययः स्यात्, महासंज्ञाकरणसामर्थ्यात्। पदमत्र संज्ञि। तेन समर्थपरिभाषा व्याप्रियते। संज्ञाप्रदेशा "उपपदमतिङ्"(पाoसूo2-2-19)इत्यादयः।
(पाoसूo3-1-93)
कृदतिङ्(पाoसूo3-1-93)। अस्मिन् धात्वधिकारे तिङ्‌भिन्नः प्रत्ययः कृत्सञ्ज्ञः स्यात्। कर्तव्यम्। करणीयम्। अतिङ किम्? चीयात्। सञ्ज्ञाप्रदेशाः कृत्तद्धितसमासाश्चेत्येवमादयः। "अतिङ्" इति शक्यमकर्तुम्। कथं चीयादिति? ज्ञापकात्सिद्धम्। "अकृत्सार्वदातुकयोः"(पाoसूo7-4-25)इति सूत्रे अकृदित्येव सिद्धे पुनः साव्दातुकग्रहणं ज्ञापयति `न तिङां कृत्सञ्ज्ञा भवति' इति। न च श्यन्निवृत्त्यर्थं सार्वधातुकग्रहणमिति वाच्यम्, दिवादिषु ह्रस्वान्तस्य दीर्घार्हस्याभावेन व्यावर्त्त्याप्रसिद्धेः। भाष्ये तु तिङां कृत्सञ्ज्ञायामिष्टापत्तिः कृता। न चैवं तिङन्तस्य प्रातिपदिकत्वात्स्वाद्युत्पत्तिः स्यादिति वाच्यम्, तिङा एकत्वादेरुक्तत्वात्। न च वचनग्रहणादुक्तेऽपि तदापत्तिः, `एकः' इत्यादौ चरितार्थत्वात्। "अतिशायने तमबिष्ठनौ" 'तिङश्च'(पाoसूo5-3-55,56)इत्यनेन तिङन्तानामसुबन्तत्वज्ञापनात्। न चैवमपि `पचति' `पठति' इत्यत्र "ह्रस्वस्य पिति कृति"(पाoसूo6-1-71)इति तुक्प्रसङ्गः, तुग्विधौ 'धात्वादेः"(पाoसूo6-1-64)इति सूत्रात् धातुग्रहणानुवृत्तेः। एवमपि `चिकीर्षति' `जिहीर्षति' इत्यादौ स्यादिति चेत्? न, शपा व्यवधानात्। एकादेशे कृते नास्ति व्यवधानमिति चेत्? न, एकादेशस्य पूर्वविधौ स्थानिवद्भावात्। न च स्थानिवद्भावं बाधित्वा परत्वादन्तवद्भावः, तस्य प्रत्याख्यास्यमानत्वात्। न चैवमपि "अतिङ्" इति प्रत्याख्यायमाने `पचेरन्' इत्यत्र प्रातिपदिकान्तत्वान्नलोपः स्यादिति वाच्यम्, 'झस्य रन्"(पाoसूo3-4-105)इति नकारोच्चारणसामर्थ्यादेव लोपाप्रावृत्तेः। इह तर्हि `चीयात्' इति कृद्यकारत्वाद्दीर्घो न स्यादिति चेत्? नैष दोषः, सार्वदातुकप्रतिषेधो ज्ञापयति "अकृतीति प्रतिषेधः तिङ्क्षु न प्रवर्तते" इति। न चैवमपि तिङ्समासे कृदुत्तरपदस्वरः स्यादिति वाच्यम्, इष्टापत्तेः, `यो जात एव पर्यभूषात्' इत्यादौ तथैव पाठस्य निर्विवादत्वात् गतिकारकोपपदात्कृत्"(पाoसूo6-2-139)इति सूत्रे कृद्ग्रहणस्य प्रत्याख्यास्यमानत्वाच्चेति दिक्।
।। इति श्रीशब्दकौस्तुभे तृतीयाध्यायस्य प्रथमे पादे पञ्चममान्हिकम् ।।