सामग्री पर जाएँ

शब्दकौस्तुभः/अध्यायः ३-पादः १/आह्निकम् ४

विकिस्रोतः तः
← आह्निकम् ३ शब्दकौस्तुभः
आह्निकम् ४
[[लेखकः :|]]
आह्निकम् ५ →

।। तृतीयाध्यायस्य प्रथमे पादे चतुर्थमान्हिकम् ।।
(पाoसूo3-1-43)
च्लि लुङि(पाoसूo3-1-43)।। धातोश्च्लिप्रत्वयः स्यात् लुङि परे। इकारो लेरिति सामान्यग्रहणार्थः। चकारः स्वरार्थ इत्युत्तरसूत्रे स्फुटीभविष्यति। अस्यादेशाः सिजादयो वक्ष्यन्ते। नन्वेवं किं च्लिप्रत्ययेन? सिजेवोत्सर्गः प्रत्ययोऽस्तु, तदपवादाश्च क्सादयः सन्तु। न च-"मन्त्रे घस"(पाoसूo2-4-81)इति सूत्रे सर्वधातुषु लेरित्येकेनैव निर्वाहे लाघवार्थं च्लिः कर्त्तव्यः। अन्यथा हि घस्‌नश्‌गमर्थमङो ग्रहणम्। आकारान्तेषु धेटोऽन्तर्भावात्तदर्थं चङो ग्रहणम्। तस्य हि "विभाषा धेट्श्व्योः"(पाoसूo3-1-49)इति चङस्ति। धात्वन्तरार्थं सिचो प्रहणम्। यदि तु जनेः "दीपजन"(पाoसूo3-1-61)इति विहितस्य चिणो लुक् छन्दसि दृश्यते ततस्तस्यापीति त्रीणि चत्वारि वा ग्रहणानि कर्तव्यानि स्युरिति वाच्यम्, च्लिपक्षेऽपि "च्लि लुङि" "च्लेः सिच्"(पाoसूo3-1-43,44)"मन्त्रे घस"(पाoसूo2-4-81)इति सूत्रेषु मिलित्वा च्लिच्लेर्लेरिति त्रयाणां ग्रहणस्य तुल्यत्वात्। न चोक्तरीत्या साम्येऽपि च्लिपक्षे लाघवान्तरमस्ति, "गातिस्था'(पाoसूo2-4-77)इति सूत्रे `सिच' इत्यपनीयतत्स्थाने `लेः' इत्यभिषिच्य मन्त्रेघसादिसूत्रे तस्येवानुवर्तनादिति वाच्यम्, एवं हि वदन् अकृतेष्वेव सिजाद्यादेशेषु तदपवादो लेरेव लुगित्यभिप्रैषि, किं वा आदेशेषु कृतेषु स्थानिवद्भावो नेति?
नाद्यः, `अगुः' `अस्थुः' इत्वादौ सिचः परत्वाभावेन "सिजभ्यस्त"(पाoसूo3-4-109)इति जुसोऽप्रवृत्तिप्रसङ्गात्। न च "आतः"(पाoसूo3-4-110)इति जुस्, तत्रापि `सिच' इत्यस्यानुवृत्तेः।
अथोच्येत्, "आतः" इति सूत्रे सिज्‌ग्रहणं नानुवर्त्तते, तथाच `अगुः' इत्यादौ विध्यर्थं तत् न तु नियमार्थम्, व्यावर्त्याभावात्। न च `अभूवन्' इति व्यावर्त्यम्, तत्र जुसः प्राप्तेरेवाभावात्। न च "सिजभ्यस्त"(पाoसूo3-4-109)इति प्राप्तिः, लावस्थायामेव लुगिति पक्षस्य इदानीं परिगृहीतत्वात्। न चैवम् `अवान्' इत्यत्रापि "आतः"(पाoसूo3-4-110)इति नित्यो जुस् स्यादिति वाच्यम्, "लङः शाकटायनस्यैव"(पाoसूo3-4-111)इति नियमाद्विकल्पोपपत्तेरिति। एवमपि `मा हि गातां' `मा हि स्याताम्' इत्यादिषु "आदिः सिवोऽन्यतरस्याम्"(पाoसूo6-1-178)इत्येष स्वरो न सिद्ध्येत्। तस्माल्लावस्थायां लोप इति प्रथमः पक्षो दुष्ट एवेति स्थितम्।
न द्वितीयः, एवं हि सति "विभाषा घ्राधेट्"(पाoसूo2-4-78)इति सूत्रेणापि च्ल्यादेशानामेव लुक्, इति धेटश्टङोऽपि स स्यात्। तत्र यदा "विभाषा धेट्‌श्वयोः"(पाoसूo3-1-49)इति चङो व्रिकल्पितत्वेन पक्षे सिचि कृते तस्य लुगलुकौ, तदा अधात्, अधाताम्, अधुः। अधासीत्, अधासिष्टाम्, अधासिषुः इति सिद्धमिष्टम्। चङोऽपि लुगभावपक्षे अदधत्, अदधताम्, अदधन्। इति सिद्धम्। लुक्‌पक्षे तु "न लुमता"(पाoसूo1-1-63)इत्यङ्गाधिकारनिर्द्देश इति मते प्रत्ययलक्षणेन द्विर्वचने `अदधात्' इत्यपि चतुर्थं रूपं स्यात्। "न लुमता"(पाoसूo1-1-63)इति नाङ्गाधिकारनिर्द्देशः, किं त्वाङ्गमनाङ्गं वा लुमता लुप्ते प्रत्यये परे पूर्वस्य प्राप्तं सर्वं निषिध्यत इति मुख्यपक्षे तु चङो लुकि द्वित्वाप्रवृत्तौ सिज्‌लुका तुल्यमेव रूपमिति `अधात्' इत्यादौ यद्यपि न दोषः, तथापि बहुवचने `अधान्' इत्यनिष्टमपि चतुर्थ रूपं स्यादेव, इष्यते तु त्रैशब्द्यम् `अधुः, अधासिषुः, अदधन् इति। न च चङो लुकि "आतः'(पाoसूo3-4-110)इति जुस् भविष्यतीति वाच्यम्, तत्र `सिचः' इत्यस्यानुवृत्तेः। अन्यथा तस्य नियमार्थताऽनुपपत्तौ `अभूवन्' इत्यत्र प्रत्ययलक्षणेन "सिजभ्यस्त"(पाoसूo3-4-109)इति जुस्‌प्रसङ्गात्। ननु "च्ल्यभ्यस्तविदिभ्यश्च" इति वक्ष्यामि। एवञ्च चङ्‌लुक्यपि च्लेः परत्वाज्जुस् भविष्यति। "आतः"(पाoसूo3-4-110)इति सूत्रेऽपि लिग्रहणानुवृत्त्यैव नियमात् `अभूवन्' इत्यत्र जुस् न भविष्यति। `मा हि गाताम्' इत्यादौ "आदिः सिचः"(पाoसूo6-1-187)इति स्वरोऽपि सिद्धः। एवञ्च कृतेष्वादेशेषु लुगिति पक्षो निर्बाध एवेति चेत्? न, यदि "च्ल्यभ्यस्त" इति ब्रूष्रे तर्हि क्साङ्‌चङ्‌क्षु दोषापत्तेः। अधुक्षन्, अवोचन्, अदधन्, अत्रापि हि जुस् प्राप्नोति। तस्मात्सिजभ्यस्तेत्येव वक्तव्यम्। "आतः"(पाoसूo3-4-110)इत्यत्र च सिज्‌ग्रहणमनुवर्त्तनीयम्। एवञ्च चङ्‌लुकि बहुवचने `अधान्' इति प्राप्नोतीति दोषः स्थित एव। तस्मात् "गातिस्था'(पाoसूo2-4-77)इत्यत्र सिच इत्येव वक्तव्यम्। ततश्चच्लिपक्षेऽपि च्लिच्लेर्लेरिति त्रयाणां ग्रहणं तुल्यमेवेति स्थितम्। प्रत्युत च्लेरकरणे महल्लाधवम्। "मन्त्रे घस"(पाoसूo2-4-81)इत्यादिसूत्रे हि अङ एव ग्रहणं कर्तव्यम्। सिच् तु "गातिस्था"(पाoसूo2-4-77)इति सूत्रादनुवर्त्यः। धेटो जनेश्च चङ्‌चिणौ वैकल्पिकौ, तत्र यानि लुगुदाहरणानि तानि सिच एव लुका सिद्धानि। न चैवम् "आदिः सिचोऽन्यतरस्याम्"(पाoसूo6-1-187)इति स्वरः स्यादिति वाच्यम्, चङ्‌चिणोर्ग्रहणेऽपि पाक्षिकस्य तस्य दुर्वारत्वात्। तस्मात् "च्लि लुङि" इतिसूत्रं व्यर्थमेवेति चेत्?
अत्राहुः, असति च्लौ "मन्त्रे घस"(पाoसूo2-4-81)इत्यत्र येभ्यः सिचो लुक् तेषाम् "आदिः सिचः"(पाoसूo6-1-187)इतिस्वरः स्यात्। सति त्वस्मिन् `लेः' इति लावस्थायामेव लुकि सिजभावाद्यथायथं स्वरः। किञ्च आकारान्तेभ्यः सिचो लुकि जुस प्राप्नोति लेस्तु लुकि अन्तिभाव एव भवति। अपि च, "शल इगुपधात्"(पाoसूo3-4-45)इति सूत्रे अनिटः इत्यनेन च्लिं विशेषयितुमपि च्लिरेष्टव्यः। असति हि च्लौ `अनिटः' इति धातोरेव विशेषणं स्यात्। ततश्च `अघुक्षत्' इति न सिद्ध्येत्। ननूदित्त्वादिड्‌षिकल्पे पाक्षिकेणेडभावेन अनिडेवायमिति चेत्? तर्हि नित्यं क्सः स्यात्। ततश्च `अगुहीत्' इति न सिद्ध्येत्। `अनिटः' इति च्लेर्विशेषणे तु यदा च्लिरनिट् तदा क्सः, यदा सेट् तदा सिजिति सिद्धमिष्टम्। तस्मात् यतायथं स्वरोऽन्तिश्चागुहीदिति च्लेः फलमिति स्थितम्।
भाष्ये तु च्लिः प्रत्याख्यातः। यत्तूक्तम्, "आदिः सिचः"(पाoसूo6-1-187)इति स्यादिति, तन्न, तस्य वैकल्पिकतया इष्टस्वरस्य निर्वाधत्वात्, सर्वविकल्पानां छन्दसि व्यवस्थितत्वेन अनिष्टस्यानापाद्यत्वात्। यदपि आकारान्तेभ्यो जुस् स्यादिति। तदपि, न मन्त्रे तादृशस्योदाहरणस्याभावात्। अत्र च भाष्यकारियप्रत्याख्यानमेव प्रमाणम्। यदपि `अगुहीत्' इति न सिद्ध्येदिति। तदपि न, गुहादयो विकल्पितेट इटो भावाऽभावाभ्यां भिद्यन्ते। तत्र ये सेटः तेभ्यः सिच्, अनिङ्भ्यस्तु क्स इति भगवद्भाष्यकाराशयस्य कैयटेन वर्णितत्वात्।
(पाoसूo3-1-44)
च्लेः सिच्(पाoसूo3-1-44)।। च्लेः सिजादेशः स्यात्। इकार उच्चारणार्थ इत्संज्ञको वेति पक्षद्वयमपि "हनः सिच्(पाoसूo1-2-14)इत्यत्र प्रतिपादितम्। चकारः स्वरार्थः। मा हि लावीत्। अत्र हि "आगमा अनुदात्ता" इति इटोऽनुदात्तत्वं प्राप्तं स्थानिन्यादेशे च द्विश्चित्करणाद्वाध्यते। यत्तु कांचत्-प्रत्ययस्वरस्य द्वावपवादी आगमानुदात्तत्वं चित्स्वरश्च। तत्र आद्यं यासुड्‌विधौ ज्ञापितं तद्देशम्, चित्स्वरस्तु षाष्ठः। तत्रापवादविप्रतिषेधे परत्वाच्चित्स्वर एव सिद्ध्यति तत्किं सिचश्चित्त्वेनेति। तन्न, आगमानुदात्तत्वं हि आनुगादिषु प्रकृत्यागमेष्वपीष्यते। कुण्डिनजादीनाञ्च चित्स्वरः, तत्कथमिमौ प्रत्ययस्वरस्यापवादौ स्याताम्? किञ्च इह चित्स्वरस्य परत्वमपि नास्ति, स्थानिवदित्यस्य कार्यातिदेशत्वात्। तस्मादागमानुदात्तत्वेन अविशेषात्सर्वः स्वरो बाध्यत इति तद्बाधनाय सिचश्चित्त्वम्। न च च्लेश्चित्त्वसामर्थ्यादेव तद्बाधः, "मन्त्रे वस"(पाoसूo2-481)इति सूत्रे `लेः' इति सामान्यग्रहणेन तस्य चरितार्थत्वात्। अन्यथा हि निरनुबन्धकत्वादस्यैव ग्रहणं स्यात्, न लिटः। ततश्च "आमः"(पाoसूo2-4-81)इति सूत्रे निरनुबन्धकस्य लेरसम्भवात् लेरिति नानुवर्त्तेत। ततश्च परत्वादन्तरङ्गत्वाच्च तिबादिषु पश्चाल्लुकि `कारयाम्' इत्यस्य प्रत्ययलक्षणेन तिङन्तत्वात् `देवदत्तः कारयाञ्चकार, इत्यत्र आमन्तस्य निघातः ततः परस्य चानिघातः स्यात्। तस्मात् "आमः" इत्यत्र `लेः' इत्यनुवर्त्यमेव। तदर्थञ्च पूर्वत्र सामान्यग्रहणं वाच्यम्, तदविघाताय च्लेश्चकारश्चरितार्थः। च्लेः प्रत्याख्यानपक्षे तु सिच एव चित्त्वेनानन्यार्थेन आगमानुदात्तत्वं बाध्यते।
स्पृशमृशकृषतृपदृपः सिज्वेति वक्तव्यम्(काoवाo)।। स्पृश स्पर्शने(तुoपo142), मृश आमर्शने(तुoपo145), कृष विलेखने(भ्वाoपo1015)एभ्यः क्से प्राप्ते तृप प्रीणने, दृप हर्षविमोचनयोः(दिoपo89,90)आभ्यां पुषादित्वादङि प्राप्ते सिजपि पक्षे अभ्यनुज्ञायते। अस्प्राक्षीत्, अस्पार्क्षीत्, अस्पृक्षत्। अम्राक्षीत्, अमार्क्षीत्, अमृक्षत्। अक्राक्षीत्, अकार्क्षीत, अकृक्षत्। अत्राप्सीत्, अतार्प्सीत्, अतृपत्। अद्राप्सीत्, अदार्प्सीत्, अदृपत्। प्रक्रियाकौमुद्यान्तु प्रकृतवार्त्तिके सृपिणपि प्रक्षीप्य `अस्राप्सीत्, `असार्प्सीत्,' इत्यपि रूपद्वयमुदाहृतम्। तत्तु अप्राणाणिकत्वादुपेक्ष्यम्।
(पाoसूo3-1-45)
शल इगुपधादनिटः क्सः(पाoसूo3-1-45)।। शलन्त इगुपधो यो धातुः तस्मात्परस्य अनिटश्च्लेः क्सः स्यात्। दुह्‌-अधुक्षत्। लिह्‌अलिक्षत्। शलः किम्? अभैत्सीत्। इगुपधात्किम? अभैत्सीत्। इगुपधात्किम्? अधाक्षीत्। अनिटः किम्? अकोषीत्। च्लेः प्रत्याख्यानपक्षे तु `अनिटः' इति धातोरेव विशेषणमिति प्रागेवोक्तम्। यद्यपि अकृत एव क्से लावस्थायां गुणः प्राप्नोति, तथापि इगुपधादिति विशेषणसामर्थ्यान्न भवति। न च कृतेऽपिगुणे भूतपूर्वगत्या विहितविशेषणाश्रयणेन वा क्सोऽस्त्विति वाच्यम्, कित्करणवैयर्थ्यापत्तेः। न च "क्सस्याचि"(पाoसूo7-3-72)इत्यत्र विशेषणार्थं तत्, "सस्याचि" इत्येव सिद्धेः। न चैवं वॄतॄवदिहनिकमिकषिभ्यः से `वत्से' `वत्सा' प्रसङ्ग स्यादिति वाच्यम्, "लुग्वा दुह'(पाoसूo7-3-73)इत्यत्रापि हि `सस्याचि' इत्यतः `सस्य' इत्यनुवर्तते। एवञ्च दुहादिषु यस्य सम्भवः तस्यैव पुर्वसूत्रेऽपि ग्रहणमिति सुवचत्वात्। तस्मात्कित्करणसामर्थ्याद् गुणो नेति स्थितम्।
(पाoसूo3-1-46)
श्लिष आलिङ्गने(पाoसूo3-1-46)।। अत्र योगो विभज्यते-
आलिङ्गने।। श्लिषः परस्यानिटश्च्लेर्योऽयं क्सादेशः स आलिङ्गने एव, न त्वर्थान्तरे। एवं चार्थान्तरे सावकाशोऽङ् आलिङ्गने क्सेन बाध्यते। अश्लिक्षत् कन्यां देवदत्तः। प्रत्यासत्तौ ह्यत्र श्लिषिर्वर्तते न तूपगूहनपरिष्वङ्गापरपर्याये आलिङ्गने। उपाश्लिक्षातां जतुना काष्ठे। नन्विह "शल इगुपधात्"(पाoसूo3-1-45)इति क्सो दुर्वारः। आलिङ्गने एवेति नियमेन हि `अनन्तरस्य'(पाoभाo63)इति न्यायेन श्लिष इति या प्राप्तिः अङ्‌बाधनार्था सैव नियम्यते न तु ततः प्राचीनमपीति चेत्? न, योगविभागसामर्थ्येन सर्वस्याः क्सप्राप्तेः नियमनात्। आत्मनेपदे च अङोऽप्राप्तेः सिजेव पर्यवस्यति। नन्वेवमपि आलिङ्गनएवेति आदेशनियमोऽयमिति कुतः अर्थनियम एवायं किं न स्यात् आलिङ्गने क्स एवेति। ततश्चालिङ्ने अङ् मा नाम भूत्। आत्मनेपदे तु अनालिङ्गनेऽपि पूर्वेम क्सो दुर्वार एवेति चेत्? सत्यम्, उभयथेह नियमसम्भवेऽपि प्रत्ययनियम एवाश्रीयते, लक्ष्यानुरोधात् विधेयविबक्तिनिर्द्देशेन प्रधानत्वाद्वा भाष्यकारोक्तव्याख्यानाद्वेति न कश्चिद्दोषः। श्लिष इति योगे अनिटः किम्? `श्लिष आलिङ्गने'(दिoपo80)इत्यस्यैव ग्रहणं यथा स्यात्। `श्लिषु पृषु प्लुषु दाहे'(भ्वाoपo703)इत्यस्य सेटो ग्रहणं मा भूत्। सानुबन्धकत्वादेव तदग्रहणे तु `अनिटः' इति नावश्यकमिति दिक्।
श्लिष इति योगविभागसिद्धश्च क्सः "पुरस्तादपवाद"(पाoभाo61)न्यायेन अङमेव बाधते न तु चिणन्तेन `समाश्लेषि कन्या देवदत्तेन' इति चिणेव भवति।
(पाoसूo3-1-47)
न दृशः(पाoसूo3-1-47)।। दृशः क्सो न स्यात्। अदर्शत्। अद्राक्षीत्। "इरितो वा"(पाoसूo3-1-47)इत्यङ्‌पक्षे "ऋदृशोऽङि"(पाoसूo7-4-16)इति गुणः। सिच्‌पक्षे "सृजिदृशोर्झलि"(पाoसूo6-1-58)इत्यम्।
(पाoसूo3-1-48)
णिश्रुद्रुस्रुभ्यः कर्त्तरि चङ्(पाoसूo3-1-48)।। एभ्यश्च्लेश्चङ् स्यात् कर्तृवाचिनि लुङि परे। `णि' इति णिङ्‌णिचोः सामान्यग्रहणम्। अचीकमत। अचीकरत्। अशिश्रियत्। अदुद्रुवत्। असुस्रुवत्। कर्त्तरि किम्? अकारयिषातां घटौ देवदत्तेन। चङो ङकारो गुमनिषेधार्थः। चकारश्चङीति विशेषणार्थः। अङीत्युच्यमाने "अस्यतिवक्ति"(पाoसूo3-1-52)इत्यङि "षिद्भिदादिभ्यः"(पाoसूo3-3-104)इचि चाङि अतिप्रसङ्गः। यदि तु "णिश्रि"(पाoसूo3-1-48)इत्यादौ ङ एव क्रियेत तदा शक्यं चित्त्वमकर्तुम्।
कमेरुपसंख्यानम्(काoवाo)।। "आयादय आर्द्धधातुके वा" इति यदाणिङ् नास्ति तदर्थमिदम्। अचकमत। अत्र भाष्यम्-
नाकमिष्ट सुखं यान्ति सुयुक्तैर्वडवारथैः।
अथ पत्काषिणो यान्ति येऽचीकमत भाषिणः।।
अस्यार्थः। अचकमताचीकमतेति शब्दयोः साधुत्वे तुल्येऽपि `अचकमत' इतियस्य विशेषलक्षणसापेक्षतया तत्प्रयोगे क्लेशाधिक्यात्फलाधिक्यम्। तेन कमेर्लुङि किं रूपमिति पृष्टे `अचकमत' इति ये ब्रूयुस्ते सुयुक्तैः रथैः स्वर्गं यान्ति। यैस्तु `अचीकमत' इत्युक्तं ते पादौ कषन्तीति पत्काषिणो यान्ति। "हिमकाषिहतिषु च"(पाoसूo6-3-54)इति पादस्य पदादेशः।
अन्ये तु व्याचक्षते। अकमिष्टेति यैरुक्तं ते एवोपचारादकमिष्टशब्देनोच्यन्ते। तेऽमी सुयुक्तैर्वडवारथैर्गच्छन्तोऽपि सुखं न प्राप्नुवन्ति, अपशब्दोच्चारणात्। अचीकमतभाषिणस्तु पत्काषिणोऽपि सुखं यान्ति।
(पाoसूo3-1-49)
विभाषा धेट्‌श्व्योः(पाoसूo3-1-49)।। आभ्यां च्लेश्चङ् वा स्यात्। अदधत्। सिच्‌पक्षे "विभाषा घ्राधेट्"(पाoसूo2-4-78)इति वा लुक्। अधात्। अधासीत्। अशिश्वियत्। पक्षे "जॄस्तम्भु"(पाoसूo3-1-78)इत्यङ्। "श्वयतेरः"(पाoसूo7-4-78)अश्वत्। सिचि वृद्धेः प्रतिषेधे गुणः। अश्वयीत्। कर्तरीत्येव, अधिषातांगावौ वत्सेन। कर्मणि द्विवचनम्। "स्थाघ्वोरिच्च'(पाoसूo1-2-27)इति कित्त्वेत्वे।
(पाoसूo3-1-50)
गुपेश्छन्दसि(पाoसूo3-1-50)।। गुपेः परस्य च्लेश्चङ् वा स्यात् छन्दसि। आयप्रत्ययाभावस्थल एवेदम्, सूत्रे केवलस्योच्चार णात्। इमान्नो मित्रावरुणौ गृहानजूगुपतं युवम्। गुपू रक्षणे(भ्वाoपo395)लुङ् थसस्तम्। "तुजादीनां दीर्घोऽभ्यासस्य"(पाoसूo6-1-7)इति अभ्यासदीर्घ इति हरदत्तः। कल्पसूत्रेषु तु प्रायेण ह्रस्व एव पठ्यते। पक्षे अगौप्तम्, अगोपिष्टम्। ऊदित्वादिडभावे "वदव्रज"(पाoसूo1-2-3)इति वृद्धिः। " झलो झलि"(पाoसूo8-2-26)इति सिचो लोपः। हट्‌पक्षे "निटि"(पाoसूo7-2-4)इति वृद्धिनिषेधः, गुणः। आयप्रत्ययपक्षे-अगोपायिष्टम्। इति चत्वारि छन्दसि। भाषायान्तु चङन्तं वर्जयित्वा त्रीणि रूपाणि।
(पाoसूo3-1-51)
नोनयतिध्वयत्येलयत्यर्दयतिभ्यः(पाoसूo3-1-51)।। एभ्यो ण्यन्तेभ्यः च्लेश्चङ् न स्यात् छन्दसि। "मा त्वायतो जरितुः काममूनयीः"। त्वायतस्त्वामिच्छतो जरितुः स्तोतुः मम काममभिलाषं मा उनयीः ऊनं मा कार्षीरित्यर्थः। `मा ऊननः' इति भाषायाम्। ऊन परिहाणे(चुoपo356)। चुरादावदन्तः णिच् सिप् चङ् णौ कृतस्याल्लोपस्य स्थानिवद्भावात् "अजादेर्द्वितीयस्य"(पाoसूo6-1-2)इति नशब्दस्य द्विर्वचनम्। अग्लोपित्वान्न सन्वद्भावदीर्घोपदाह्रस्वत्वानि। इह वृत्तिपदमञ्जर्योः प्रायेण औनिनत् इति पाठः। तत्र अभ्यासे इकारः प्रामादिकः। इदञ्च "द्विर्वचनेऽचि"(पाoसूo1-1-51)इति सूत्रे स्फुटीकृतमस्माभिः। "मा त्वाग्निर्ध्वनयीद् धूमगन्धिः"। ध्वन शब्दे(चुoपo357)चुरादिरदन्तः। घटादिर्नान्तश्च। भाषायां तु अग्लोपित्वान्न सन्वत्। अदध्वनत्। घटादेस्तु अनग्लोपित्वात् अदिध्वनत्। ऐलयीत्। ऐलिलत् इति भाषायाम्। इल प्रेरणे(चुoपo127)चुरादिः। आर्दयीत्। आर्दिदत् इति भाषायाम्। अर्द गतौ याचने च(भ्वाoपo127)अर्द हिंसायाम्(चुoउo296)हेतुमण्ण्यन्तौ। इह सूत्रे `छन्दसि' इत्यस्यानुवृत्तिर्वृत्त्यादिमहाग्रन्थसंमता। तथा च भट्टिः-
अजिग्रहत्तं जनको धनुस्तद्येनार्दिदद्दैत्यपुरं पिनाकी। इति।
प्रक्रियाकौमुद्यां तु द्वयमपि लोके इत्युक्तम्। छन्दसीति नानुवर्त्तते, विभाषेति चानुवर्तत इति तदाशयः। इदञ्चाशुद्धम्, सूत्रे नञो वैयर्थ्यापत्तेः सकलमहाग्रन्थविरोदाच्चेत्यास्तान्तावत्।
(पाoसूo3-1-52)
अस्यतिवक्तिख्यातिभ्योऽङ्(पाoसूo3-1-52)।। असु क्षेपणे(दिoपo3); वच परिभाषणे,(अoपo52)ब्रूञो (अoउo34)वचिश्चः ख्या प्रकथने(अoपo50), चक्षिङः(अoआo7)आदेशश्चेति प्राञ्चः। वस्तुतस्तु सार्वदातुकमात्रविषयः ख्यातिः। इह त्वादेशस्यैव ग्रहणम्। एभ्यश्चलेरङ् स्यात् कर्तृवाचिनि लुङि परे। अस्यतेः पुषादिपाठादेव अङि सिद्धे पुनर्ग्रहणमात्मनेपदार्थम्। पर्यास्थत, पर्यास्थेताम्, पर्यास्थन्त। "उपसर्गादस्यत्युह्योर्वावचनम्"(काoवाo)इत्यात्मनेपदम्। अङ्। अस्यतेस्थुक्। कर्मकर्तरि तु प्रत्यये परत्वाच्चिण्, अन्यत्र अङ्। पर्यासि, पर्यस्थेताम्, पर्यास्थन्त। अवोचत्, अवोचताम्, अवोचन्। "वच उम्"(पाoसूo7-4-20)। अख्यत्, अख्यताम्, अख्यन् 'आतो लोपः'(पाoसूo6-4-64)कर्त्तरीति किम्? कर्मणि मा भूत् चिण्सिचावेव यथा स्याताम्। निरासि, निरासिषाताम्।
(पाoसूo3-1-53)
लिपिसिचिह्‌वश्च(पाoसूo3-1-53)।। एभ्यश्चलेरङ् स्यात्। लिप उपदेहे(तुoउo153)अलिपत्। षिच क्षरणे(तुoउo154)। असिचत्। व्हेञ् स्पर्द्धायां शब्दे च(भ्वाoउo1-33)। अव्हत्। "अस्यतिवक्तिख्यातिलिपिसिचिव्ह" इति तु नोक्तम्, एकसूत्रत्वे हि अस्यत्यादीनामपि उत्तरसूत्रे अनुवृत्तौ विकल्पः स्यात्।
(पाoसूo3-1-54)
आत्मनेपदेष्वन्यतरस्याम्(पाoसूo3-1-54)।। पूर्वेम नित्ये प्राप्ते विभाषेयम्। अलिपत, अलिप्त। असिचत, असिक्त। अङभवे सिच्। "झलो झलि"(पाoसूo8-2-26)इति सलोपः। "लिङ्‌सिचौ"(पाoसूo3-7-53)इति कित्त्वाद् गुणाभावः। अव्हत, अव्हास्त।
(पाoसूo3-1-55)
पुषादिद्युताद्य्‌लृदितः परस्मैपदेषु(पाoसूo3-1-55)।। श्यन्विकरणपुषादेर्द्युतादेर्लृदितश्च परस्य च्लेरङादेशः स्यात्परस्मैपदेषु। पुष पुष्टौ, शुप शोषणे,(दिoपo76,77)इत्येवमादिरादिवादिगणसमाप्तेः पुषादिः। यत्तु मध्ये `ष्णिह प्रीतौ'(दिoपाo94)वृत् इति वृत्करणं तद्रधादिसमाप्त्यर्थम्। "अस्यतिवक्ति"(पाoसूo3-1-52)इति सूत्रे "अस्यतिग्रहणमात्मनेपदार्थं पुषादित्वात्" इति वार्तिककारवचनं चात्र प्रमाणम्। अपुषत्। अशुषत्। यस्तु भूवादिः पुष पुष्टौ, श्रिषु श्लिषु प्रुषु प्लुषु दाहे(भ्वाoपo71,-75)इत्येवमादिः, सोऽत्र न गृंह्यते, द्युतादीनां पृथक्करणाज्ज्ञापकात्। ते हि तत्र पुषेरुत्तरत्र पठ्यन्ते। योऽपि पुष पुष्टौ, मुष स्तेये(क्र्याoपo57,58)इति क्र्यादिषु पठितः, सोऽप्यत्र न गृह्यते। तत्र हि चत्वार एव धातवः यदि च ते जिघृक्षिताः स्युर्लृदित एव ते क्रियेरन्। यत्तु स्वरितेत्त्वादेरपि तेनैव सिद्धत्वादिति हरदत्तेनोक्तम्, तत्र तेषां निरनुबन्धकत्वात् ग्रहेः स्वरितेत्त्वेऽप्यादिशब्दार्थालाभात्। अङ आदिशब्दार्थत्वे तु अपिशब्दार्थालाभादिति दिक्।
अथ सिद्धान्तेऽपि पुषादयो द्युतादयश्च लृदित एव कुतो न पठिता इति चेत्? न, प्रत्येकं लृकारपाठे विपरीतगौरवापत्तेः। न चानुबन्धान्तरेण लृकारो निमातुं शक्यः, तत्तत्कार्यानिर्वाहप्रसङ्गात्। आदितामीदितामुदितामूहिताञ्च तत्र सत्त्वात्। तद्यथा-पुषादिषु ञिष्विदा गात्रप्रक्षरणे(दिoपo82), मदी हर्षे(दिoपo12)। शमु उपशमे,(दिoपo95)षिधू संराद्धौ(दिoपo86)इति पठ्यन्ते। द्युतादिष्वपि श्विता वर्णे; ञिमिदा स्नेहने, ञिष्विदाम्नेहनमोचनयोः(भ्वाoआo343,-345),स्रंसुध्वंसु अवस्रंसने(भ्वाoआo355,356), स्यन्दू प्रस्रवणे, कृपू सामर्थ्ये(भ्वाoआo762,763)इति पठ्यन्ते। अद्युतत्। अश्वितत्। "द्युद्‌भ्यो लुङि"(पाoसूo1-3-91)इति पाक्षिकं परस्मैपदम्। गम्लृ(भ्वाoपo1--7)अगमत्। परम्मैपदेष्विति किम्? अद्योतिष्ट। इह "नन्दिग्रहिपचादिभ्यः"(पाoसूo3-1-134)इतिवत् पुषद्युतादीत्येक एवादिशब्दः पठितुं युक्तः। तथा तु न कृतमित्येव।
(पाoसूo3-1-56)
सर्तिशास्त्यर्तिभ्यश्च(पाoसूo3-1-56)।। एभ्यश्च्लेरङ् स्यात्। शासु अनुशिष्टौ(अoपo65)अस्यैव ग्रहणम्, सर्त्यर्तिभ्यां परस्मैपदिभ्यां साहचर्यात्। न तु `आङः शासु इच्छायाम्'(अoआo12)इत्यात्मनेपदिन इह ग्रहणम्। अर्तिसर्त्योरपि "ऋ सृगतौ"(जुoपo16,17)इति जौहोत्यादिकयोरेवेह ग्रहणम्, अविद्यमानशापा शासिना साहचर्यात्। तेन भौवादिकयोः सिजेव। चकारेण `परस्मैपदेषु' इत्यनुकृष्यते। तच्चो त्तरार्थं न त्विहान्वेति, पृथग्योगकरणसामर्थ्यात्। अन्यथा हि "पुषादि द्युताद्य्लृदित्सर्तिशास्त्यर्तिभ्यः" इत्येव पठेत्। एवं हि पृथग्विभक्तिनिर्द्देशश्चकारश्च न कर्त्तव्यो भवति। अथवा मण्डूकप्लुत्या उत्तरत्रैव परस्मैपदग्रहणं सम्भन्‌त्स्यते। यद्वा `इहानुकृष्टं सत् परस्मैपदे दृष्टो यः शासि' इति व्याख्येयम्। "शास इदङ्‌हलोः"(पाoसूo6-4-34)इति सूत्रे कैयटग्रन्थोऽप्येवं नेयः। सर्ति-असरत्। `ऋदृशोऽङि"(पाoसूo7-4-16)इति गुणः। अशिषत्। "शास इदङ्‌हलोः"(पाoसूo6-4-34)"शासिवसि"(पाoसूo8-3-)इति षत्वम्। आरत्। समन्यवो यत्समरन्त सेनाः। "समो गम्यृच्छिभ्याम्'(पाoसूo1-3-29)इत्यत्र "अर्त्तिश्रुदृशिभ्यश्च"(काoवाo)इति वार्त्तिकेनात्मनेपदम्। "बहुलं छन्दस्यमाङ्योगेऽपि"(पाoसूo6-4-75)इत्यडभावः।
समारन्त ममाभीष्टाः सङ्कल्पास्त्वय्युपागते।
इति भट्टिः। यत्तु 'समो गम्यृच्छि'(पाoसूo1-3-29)इत्यत्र भाष्ये सिजुदाहरणं तद्भौवादिकस्येति तत्रैवावोचाम्।
(पाoसूo3-1-57)
इरितो वा(पाoसूo3-1-57)।। इरितो धातोश्च्‌लेरङ् वा स्यात् परस्मैपदेषु। अभिदत्। अभैत्सीत्। परस्मैपदेषु किम्? अभित्त। स्वरितेत्त्वात्तङ्।
(पाoसूo3-1-58)
जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च(पाoसूo3-1-58)।। एभ्यश्च्लेरङ् वा। अजरत्, अजारीत्। स्तम्भुः सौत्रो धातुः। अस्तभत्, अस्तम्भीत्। म्रुचु म्रुचु गतौ(भ्वाoपo195,196)अम्रुचत्-अम्रोचीत्। अम्लुचत् अम्लोचीत्। ग्रुचु ग्लुचु, स्तेयकरणे(भ्वाoपo197,198)। अग्रुचत्, अग्रोचीत्। ग्लुञ्चु षस्ज गतौ(भ्वाoपo201,202)। अग्लुचत्, अग्लुञ्चीत्। अश्वत्, अश्वयीत्। अशिश्वियत्। 'विभाषा धेट्‌श्व्योः"(पाoसूo3-141)इत्यत्र व्युत्पादितमेतत्। ग्लुचुग्लुञ्चोरेकतरोपादानेनापि रूपत्रयं यद्यपि सिद्ध्यति, तथापि ग्लुञ्चावुपात्ते `अग्लुचत्' `अग्लुचीत्' इति द्वयम्। ग्लुचेस्तु सिचि अग्लोचीत्। तथा ग्लुचावुपात्ते तस्याग्लुचत्, अग्लोचीत्। ग्लुञ्चेस्त्वग्लुञ्चीदिति। तथापि अर्थबेदात्सूत्रकृता उभावुपात्तौ। भाष्यकृता तु धातूनामनेकार्थत्वेनेष्टसिद्धिमाश्रित्य अन्यतरो न कर्त्तव्य इत्युक्तम्। एतेन द्वयोरुपादानसामर्थ्यात् ग्लुञ्चेरनुनासिकलोपो न भवतीति जयादित्योपन्यस्तङ्केषां चिन्मतं परास्तम्, भाष्यविरुद्धत्वात्।
(पाoसूo3-1-59)
कृमृदृरिहिभ्यश्छन्दसि(पाoसूo3-1-59)।। एभ्यश्चलेरङ् वा स्याच्छन्दसि। अकरत्। अमरत्। व्यत्ययेनेह परस्मैपदम्। अदरत्। यत्सानोः सानुमारुहत्। यत्तु ऋग्भाष्ये इमामृचं व्याचक्षाणैरुक्तम्-रुहे र्लङि तिपि शपि "संज्ञापूर्वको विधिरनित्यः"(पoभाo25)इति लघू पधगुणो न भवतीति, तत्प्रौढिवादमात्रमित्यवधेयम्। लोके तु-अकार्षीत्। अमृत। अदारीत्। अरुक्षत्।
(पाoसूo3-1-60)
चिण्ते पदः(पाoसूo3-1-60)।। पद गतौ(दिoआo60)अस्मात् च्लेश्चिण् स्यात् तशब्दे परे। आत्मनेपदैकवचनमेवात्र गृह्यते न तु "तस्थस्थमिपाम्"(पाoसूo3-4-11)इति विहितः, धातोरात्मनेपदित्वेन तस्येहासम्भवात्। वेति निवृत्तम्, उत्तरत्र अन्यतरस्यांग्रहणात्। उदपादि सस्यम्। समपादि भैक्षम्। त इति किम्? उदपत्साताम्। उदपत्सत।
(पाoसूo3-1-61)
दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्(पाoसूo3-1-61)।। एभ्यश्च्लेश्चिण् वा स्यात्ते परे। अदीपि, अदीपिष्ट। अजनि, अजनिष्ट। अबोधि, अबुद्ध। अपूरि, अपूरिष्ट। अतायि, अतायिष्ट। अप्यायि, अप्यायिष्टा।। जनी प्रादुर्भावे(दिoआ43), बुध अवगमने इत्यनयोर्दिवाद्योरिह ग्रहणम्। यत्तु जन जनने(दिoआo66)भ्वादिः, बुध बोधने(भ्वाoपo883)बुधिर् बोधने(भ्वाoउo100)भ्वादी, तेषां नेह ग्रहणं नित्यात्मनेपदिभ्यां दिवादिभ्याञ्च दीपिपूरिभ्यां साहर्चेयण तादृशयोरेव जनिबुध्योर्ग्रहणात्। यत्तु अकर्मकसाहचर्यादकर्मकयोरेवेति माधवेनोक्तम्। तच्चिन्त्यम्, "क्रमादमुं नारद इत्वबोधि सः" अबोधितज्जागरदुःखाक्षिणी" इत्यादिप्रयोगविरोधात्। अयञ्च विकल्पः कर्तर्येव। भावकर्मणोस्तु नित्यञ्चिण्, परत्वात्, इह कर्तरीत्यनुवृत्तेर्वा।
(पाoसूo3-1-62)
अचः कर्मकर्तरि(पाoसूo3-1-62)।। अजन्ताद्धातोश्लोश्चिण् वा। स्यात्कर्मकर्त्तरि तशब्दे परे। प्राप्तविभाषेयम्। अकृत मा कटः स्वयमेव। अलावि अलिविष्ट वा केदारः स्ययमेव। अच इति किम्? अभेदि काष्ठं स्वयमेव। कर्मकर्तरीति किम्? अकारि कटो देवदत्तेन।
(पाoसूo3-1-63)
दुहश्च(पाoसूo3-1-63)।। दुहश्च्लेश्चिण् वा स्यात्कर्मकर्त्तरि तशब्दे परे। अदोहि अदुग्ध वा गौः स्वयमेव। चिण भावे, "लुग्वा दुह"(पाoसूo7-3-73)इति क्सस्य वा लुक्। पक्षे अधुक्षत। कर्मकर्तरीति किम्? शुद्धकर्मणि चिणेव यथा स्यात्। अदोहि गौर्गौपालकेन। अप्राप्तविभाषेयम्, "न दुहस्नुनमां यक्‌चिणौ"(पाoसूo3-1-81)इति चिणः प्रतिषेधात्। तत्र दुहिग्रहणं यक्‌प्रतिषेदार्थम्। चिण्‌ग्रहणन्तु स्नुनमर्थम्।।
(पाoसूo3-1-64)
न रुधः(पाoसूo3-1-64)।। रुधश्चलेः कर्मकर्त्तरि चिण् न। अरुद्ध गौः स्वयमेव। शुद्धे कर्मणि तु-अरोधि गौर्गौपालकेन। रुधिर् आवरणे(रुoउo1)इत्यस्यैवात्र ग्रहणं न तु अनो रुध कामे इत्यस्य, कर्तृस्थभावकत्वेन कर्मकर्तुरभावात्।
(पाoसुo3-1-65)
तपोऽनुतापे च(पाoसूद3-1-65)।। च्लेश्चिण् न स्यात् कर्मकर्त्तरि अनुतापे च। अनुतापः पश्चात्तापः, तस्य ग्रहणमकर्मकर्त्रर्थम्। तत्र हि भावकर्मणोरपि प्रतिषेधो भवति। "कर्मवत्कर्म"(पाoसूo3-1-87)इति कर्मवद्भावातिदेशस्थलेऽपि-अतप्त तपस्तापसः, तप आर्जिजदित्यर्थः। अत्र "तपस्तपःकर्मकस्यैव"(पाoसूo3-1-88)इति कर्मवद्भावातिदेशात्प्राप्तिः। अनुतापे-अन्वतप्त पापेन। पूर्वं यत्पापं कर्म कृतं तेन पश्चादभ्याहत इत्यर्थः। शुद्धे कर्मणि लकारः। पापेनेति कर्त्तरि तृतीया। कर्माविवक्षायां शोकार्थे वा तपो भावे लकारः। हेतौ तृतीया। यदा तु अभ्याहननार्थस्य तपेः कर्मस्थभावकस्य कर्मकर्त्ता विवक्ष्यते तदा 'कर्मवत्कर्मणा'(पाoसूo3-1-87)इत्यतिदेशादात्मनेपदम्। तदापि हेतौ तृतीया।
(पाoसूo3-1-66)
चिण् भावकर्मणोः(पाoसूo3-1-66)।। धातोच्लेश्चिण् स्यात् भावकर्मवाचिनि तशब्दे। अशापि भवता। अकारि कटस्त्वया। चिण्ग्रहणं स्पष्टार्थम्, 'चिण् ते पदः"(पाoसूo3-1-60)इत्यतस्ते इत्यस्येव चिण्‌ग्रहणस्याप्यनुवृत्तेः। यत्तु "दीपजन"(पाoसूo3-1-60)इत्यत्र अन्यतरस्यांग्रहणं, तत् "न रुधः"(पाoसूo3-1-64)इत्यत्रैव निवृत्तम्। अन्यथा नञो वैयर्थ्यापत्तेः। न च प्रतिषेध एव इहानुवर्त्तेतेति वाच्यम्, तस्य प्राप्तिपूर्वकत्वात्, भावकर्मणोश्च केनापि चिणः प्राप्तेरभावात्। न च "श्लिषः" इति विभक्तेन योगेन विधीयमानः क्सः पुषाद्यङमिव इमं चिणमपि बाधेत, अतोऽत्र चिणेव यथा स्यात् क्सो मा भूदित्येतदर्थं पुनश्चिण्ग्रहणमिति प्रकृतसूत्रे भाष्यारूढं प्रयोजनमस्त्येवेति वाच्यम्, तस्यापि पाक्षिकत्वात्। समुदायापेक्षायां ह्येतदुक्तम्। अवयवापेक्षायां पुरस्तादपवादन्यायेन श्लिषेः क्सोऽङमेव बाधते न तु चिणमिति प्रागेवोक्तम्।
(पाoसूo3-1-67)
सार्वधातु के यक्(पाoसूo3-1-67)।। भावकर्मवाचिति सार्वधातुके परे धातोर्यक् स्यात्। आस्यतो शय्यते त्वया। "अयङ् यि ङ्किति"(पाoसूo7-4-22)इति शीङोऽयादेशः। क्रियते कटः।
इह कर्मणि यक् भवतीत्यस्यावकाशः शुद्धं कर्म-पच्यते ओदनः। कर्तरि शपोऽवकाशः शुद्धं कर्ता। कर्मकर्तर्युभयप्रसङ्गे-यग्‌विधाने कर्मकर्तर्युपसंख्यानम् तर्हि कर्तव्यम्। न कर्तव्यम्। कार्यातिदेशात्सिद्धम्। कर्मवत्कर्तरीत्यनेनैव हि यगात्मनेपदादीनि विधीयन्ते इति यगेव परः। शास्त्रातिदेशपक्षेऽपि "न दुहस्नुनमां यक्‌चिणौ"(पाoसूo3-1-89)इति ज्ञापकात् कर्मकर्तरि यगेव भविष्यति।
अत्रेदमवधेयम्, भावकर्मकर्त्तारो लकारार्थाः। "लः कर्मणि च भावे चाकर्मकेभ्यः"(पाoसूo3-4-69)इति सूत्रात्। तत्र हि चकारेण `कर्तरि' इत्यनुकृष्यते। तच्च वाच्यार्थसमर्पकमिति पूर्वसूत्रे स्थितम्। उत्तरत्रापि "तयोरेव कृत्य"(पाoसूo3-4-70)इत्यत्र तथैवेति सन्दंशात्प्रायपाठाच्च मध्येऽपि वाच्यसमर्पकतैवोचिता प्रधानभूतधात्वर्थाश्रयः कर्ता,फलाश्रयश्च कर्म, फलव्यापारयोश्च धातुनैवोपात्तत्वात्। आश्रयमात्रं लकारार्थः, अनन्यलभ्यस्यैव शब्दार्थत्वात्। ततश्च तिङामपि सएवार्थः, तेषां लादेशत्वात् स्थान्यर्थाभिधानसमर्थस्यैव चादेशत्वात्। विकरणतां द्योतयन्ति, यक्‌चिणौ तु फले। ननु विपरीतमेवास्तु, 'कर्तरि शप्"(पाoसूo3-1-68)इत्यादेरव्यनुशासनस्य स्वरसेन शबादय एव वाचकाः, लकारास्तु द्योतका इतीति चेत्? न, आशीलिर्ङि लिटि च अदादिजुहोत्यादिषु च शबाद्यभावेऽपि तत्प्रतीतेः। यद्यपि-
क्वचित्तिङामभावेऽपि प्रतीयन्ते त्रयोऽप्यमी।
अशाम्यकारिगच्छेति चिण्‌शप्‌सन्निधिमात्रतः।।
अदोगबिभरित्यादौ घातुमात्रेऽपि कर्तृधीः।
तथाप्यासत इत्यादौ धात्वभावेऽपि कर्तृधीः।।
तथापि तत्र परमते लुप्तस्मृतं बोधकम्। अस्माकन्तु यः शिष्यते स लुप्यमानार्थाभिधायीत्युक्ताभ्युपगमात् सर्वं सुस्थम्। तत्र कर्तृकर्मणी वदन् तिङ् तन्निष्ठां सङ्ख्यामपि प्रतिपादयतीति कर्तृकर्मणोर्द्वित्वे बहुत्वे च द्विवचनबहुवचने भवतः। भावे लस्तु असत्त्वावस्थापन्नां धात्वर्थभूतां क्रियामेव अभिधत्ते द्योतयति वेति तत्र प्रथमपुरुषैकवचनमेव भवति, न मध्यमोत्तमौ, युष्मदस्मत्सामानाधिकरण्याभावात्। नापि द्विवचनबहुवचने, द्वित्वबहुत्वयोरप्रतीतेः। एकवचनन्तु उत्सर्गः करिष्यत इति भाष्याद्भवति। अत्र बहुवचनेत्यप्युत्सर्गः, `उष्ट्रासिका आस्यन्ते' `हतशायिकाः शय्यन्ते' इत्यत्र भाष्ये तदभ्युपगमात्। उष्ट्राणां हि आसिकाः स्वरूपत एव विलक्षणाः, हताश्च नानाप्रकारं शेरते उत्ताना अवताना विकीरणमकेशा विस्रस्तवस्त्रा इत्यादि। तत्साम्यादाख्यातवाच्यस्यापि भावस्य स्वरूपगतभेदावभासाद्वहुवचनं भवत्येव। इवशब्दप्रयोगमन्तरेणापि इवार्थावगतिर्भवति, परत्र परशब्दः प्रयुक्त इति न्यायात्। तदयमर्थः-`यादृशानि हतानामनेकप्रकाराणि शयनानि तादृशानि देवदत्तादिभिः क्रियन्ते' इति। एवञ्चेह `आसिकाः' `शायिकाः' इति द्वितीयाबहुवचनान्तं, क्रियाविशेषणत्वेन कर्मत्वात्। न चैवं क्लीबत्वमेकवचनं च स्यादिति वाच्यम्, "स्त्रियां क्तिन्"(पाoसूo3-3-94)इत्यधिकारात् स्त्रीत्वावधारणेन "सामान्ये नपुंसकम्"(काoवाo)इत्यस्याप्रवृत्तेः, बहुत्वावधारणेन च एकवचनाप्रवृत्तेरिति दिक्।
के चित्तु `कर्मण्ययं लकारः' इति मन्वाना आसिकाशायिकाशब्दौ प्रथमान्तावित्याहुः। तथाहि, आसिकाशायिकयोर्भावतया कालभावाध्वगन्तव्य इति कर्मत्वे `गोदोहः सुप्यते' इतिवत् कर्मणि लः। उष्ट्रासिकाहतशायिकयोश्च आख्यातप्रकृत्युपस्थिते आसनशयने प्रति परिच्छेदकत्वेनान्वयः, गोदोहस्येव स्वापे। परिच्छेदकत्वं च आसिकाशा यिकयोः सादृश्यद्वारकं, गोदोहस्य तु कालोपाधिनेत्यन्यदेतत्। एतच्च विवक्षान्तरे भवत्येवेति कैयटादयः।
भाष्यकारैस्तु भावेऽपि लविधाने बहुत्वं स्वीकृतमित्युक्तम्। न चेवमाख्यातवाच्यस्य भावस्य असत्त्वावस्थापन्नतेति सिद्धान्तो भज्येतेति वाच्यम्, लिङ्गायोगस्य करणादिकारकायोगस्य चेह असत्त्वावस्थात्वेन विवक्षितत्वात्। अत एव `पचति भवति, पच्यते भवति, पश्य मृगो धावति' इत्यादौ वाक्यार्थभूतायाः क्रियायाः क्रियान्तरं प्रति कर्तृत्वकर्मत्वाभ्यामन्वयेऽपि न काचित् क्षतिः। न चैतावता घञादिसाम्यं, घञादिवाच्यो हि भावः सलिङ्गो यथायथं सकलकारकान्वितश्चेति वैषम्यस्य स्पष्टत्वात्। अत्र वैषम्ये अनुभवबलकल्प्यः शब्दशक्तिस्वभाव एव नियामकः। तदेतदुक्तम्-"कृदभिहितो भावो द्रव्यवत्प्रकाशते" इति। कृत्स्वपि तुमुनादौ न सत्त्वार्थकत्वम्। एतच्च "अव्ययकृतो भावे" इति वार्त्तिके स्फुटीभविष्यति। अनव्ययकृत्स्वपि `शयितव्यं भवद्भिः' इत्यादौ एकत्वसंख्याय एवान्वयः, न तु द्वित्वादेरित्यादि यथानुभवं यथाकरञ्च विवेक्तव्यम्।
(पाoसूo3-1-68)
कर्त्तरि शप्(पाoसूo3-1-68)।। कर्तृवाचिनि सार्वधातुके परे धातोः शप् स्यात्। पकारः स्वरार्थः ङित्त्वप्रतिषेधार्थश्च। शकारः सार्वधातुकार्थः 'शप्‌श्यनोः"(पाoसूo7-1-81)इत्यादौ विशेषणार्थश्च। पचति। पठति। कर्तृग्रहणं "कर्मवत्कर्मणा"(पाoसूo3-1-87)इत्यत्रोपयोक्ष्यते। इह तु सार्वधातुके शप् भवतीति सामान्यविधानेऽपि न क्षतिः, भावकर्मणोर्यगादेरपवादत्वात् कर्तर्येव शपः पर्यवसानात्। न च यग्विधौ भावकर्मग्रहणं नानुवर्त्तत इति वाच्यम्, `पचति' इत्यादौ शबादिमेव निमित्तत्वेनाश्रित्य यकः प्रसङ्गात्।
(पाoसूo3-1-69)
दिवादिभ्यः श्यन्(पाoसूo3-1-69)।। शपोऽपवादः। दीव्यति। सीव्यति। मृग अन्वेषणे(चुoआo368)इति चुरादावदन्तेष्वात्मनेपदी पठ्यते। तस्य-
पयः पारावारं परमपुरुषोऽयं मृगयते।
इत्यादि भवति। दिवादिष्वपि पाठात् `मृग्यति' इति साधुः। `कण्ड्वादिषु वा मृगशब्दो द्रष्टव्यः' इति हरदत्तादयः।
(पाoसूo3-1-70)
वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः(पाoसूo3-1-70)।। एभ्यः श्यन् वा। टुभ्राशृ टुभ्लाशृ दीप्तौ(भ्वाoपo849,850)। भ्रमु अनवस्थाने(दिoपo99)भ्रमु चलने(भ्वाoपo865)द्वयोरपि ग्रहणम्। क्रमु पादविक्षेपे (भ्वाo474)। क्लमु ग्लानौ(दिoपo1010)। त्रसी उद्वेगे(दिoपाo11)। त्रुटी छेदने(तुoपo95)। लष कान्तौ(भ्वाoउo913)। इहे अनवस्थानार्थो भ्रमिः क्लमित्रसी च दिवादयः। त्रुटिस्तौदादिकः। इतरे भौवादिकाः। अत उभयत्र विभाषेयम्। भ्राश्यते, भ्राशते। भ्लाश्यते, भ्लाशते। भ्राम्यति, भ्रमति। दैवादिकस्य भ्रमेः "शमामष्टानां दीर्घः श्यनि"(पाoसूo7-3-74)इति श्यनि दीर्घः। भौवादिकस्य तु न भवति, अशमादित्वात्। क्राम्यति, क्रामति। "क्रमः परस्मैपदेषु"(पाoसूo7-3-76)इति दीर्घः। अयञ्च `शति' इत्यनुवृत्तेः शपिश्यनि च भवति। कौमुद्यान्तु `क्रमो दीर्घः स्याच्छपि' इति व्याख्याय श्यनि ह्रस्व एवोदाहृतः। तदशुद्धमेव। क्लाम्यति, क्लामति। "ष्ठिवुक्लमुचमां शिति"(पाoसूo7-3-75)इति दीर्घः। क्लमेर्दिवादिपाठः पुषादिकार्यार्थः। कौमुद्यान्तु भौवादिकस्य तु `क्लमति' इत्युक्तं तदपाणिनीयमेव। त्रस्यति, त्रसति। त्रसेर्दिवादिपाठे फलं चिन्त्यमिति हरदत्तः। त्रुट्यति, त्रुटति। लष्यति, लषति।
(पाoसूo3-1-71)
यसोऽनुपसर्गात्(पाoसूo3-1-71)।। अनुपसर्गाद्यसेः श्यन् वा स्यात्। यस्यति, यसति। अनुपसर्गात्किम्? आयस्यति। प्रयस्यति। इह नित्यं श्यन्, यसु प्रयत्ने(दिoपo104)इत्यस्य दैवादिकत्वात्।
(पाoसूo3-1-72)
संयसश्च(पाoसूo3-1-72)।। सम्पूर्वाद्यसेः श्यन्वा। संयस्यति, संयसति। इह "यसः संयसश्च" इत्येव वक्तुं युक्तम्, सोपसर्गाच्चेत् संयस एव न तु प्रयसादेः" इति नियमेनेष्टसिद्धेः।
(पाoसूo3-1-73)
स्वादिभ्यः श्नुः(पाoसूo3-1-73)।। स्पष्टम्। सुनोति। षिञ् बन्धने(स्वाoउo2,क्र्यांoउo5)इत्यस्य स्वादौ क्र्यादौ च पाठात् `सिनोति, सिनाति' इत्युभयं भवति।
(पाoसूo3-1-74)
श्रुवः शृ च(पाoसूo3-1-74)।। श्रुवः श्नुः प्रत्ययः स्यात्तत्सन्नियोगेन `श्शृ' इत्ययमादेशश्च। शृणुतः, शृण्वन्ति।
(पाoसूo3-1-75)
अक्षोऽन्यतरस्याम्(पाoसूo3-1-75)।। अक्षू व्याप्तौ(भ्वाoपo655)भौवादिकः। अस्मात् श्नुर्वा स्यात्। अक्ष्णोति, अक्षति।
(पाoसूo3-1-76)
तनूकरणे तक्षः(पाoसूo3-1-76)।। श्नुर्वा स्यात्। काष्ठं तक्ष्णोति, तक्षति वा। तनूकरणे किम्। सन्तक्षति, वाग्भिर्भर्त्सयतीत्यर्थः।
(पाoसूo3-1-77)
तुदादिभ्यः शः(पाoसूo3-1-77)।। तुदति। नुदति। `तुद्-ति' नुद्-ति' इति स्थिते परत्वात्प्राप्तं गुणं नित्यत्वाच्छो बाधते।
(पाoसीo3-1-78)
रुधादिभ्यः श्नम्(पाoसूo3-1-78)।। एभ्यः श्नम् प्रत्ययः स्यात्। मित्त्वादन्त्यादचः परः। तक्रकौण्डिन्यन्यायेनायं शपं बाधते। शकारः "श्नान्नलोपः"(पाoसूo6-4-23)इति विशेषणार्थः। "नान्नलोपः" इत्युच्यमाने `यज्ञानां' `यत्नानाम्' इत्यत्रापि स्यात्। न च "नामि"(पाoसूo6-4-3)इति दीर्घत्वे कृते "नात्" इति व्यपदेशाभावान्न भविष्यतीति वाच्यम्, एकदेशविकृतस्यानन्यत्वेन सत्यपि दीर्घे `नात्' इति व्यपदेशसम्भवात्। किञ्च परत्वाल्लोपेनैव भाव्यम्। न च ततोऽपि परत्वात् "सुपि च"(पाoसूo7-3-12)इति दीर्घोऽस्त्विति वाच्यम्, "सन्निपात"(पoभाo87)परिभाषया तस्य नाम्यप्रवृत्तेः न चैवं रामाणामित्यादौ "नामि"(पाoसूo6-4-3)इति दीर्घोऽपि न स्यादेवेति वाच्यम्, आरम्भसामर्थ्यान्नामीति दीर्घे कर्तव्ये सन्निपातपरिभाषाया अप्रवृत्तेः। "सुपि च"(पाoसूo7-3-102)इति दीर्घस्तु "रामाभ्याम्" इत्यादौ चरितार्थः सन्निपातपरिभाषां बाधितुं नेष्टे। यत्तु हरदत्तेनोक्तं `कष्टाय' इति निर्द्देशात्सामान्यपेक्षज्ञापकाद्दीर्घो भविष्यति, एवमपि तस्य पूर्वस्माद्विधौ स्थानिवत्त्वान्नशब्द एवायमिति नलोपः स्यादेवेति। तच्चिन्त्यम्, सामान्यापेक्षेण हि ज्ञापकेन परिभाषायाः क्वाचित्की अप्रवृत्तिरिति लक्ष्यानुरोधात्सिध्यतु नाम, औत्सर्गिकी तत्प्रवृत्तिः किमर्थमिह त्याज्या। `यत्नानाम्' इत्यादिलक्ष्यसिद्ध्यर्थमेवेति चेत्? सत्यपि दीर्घे लक्ष्यं न सिध्यतीति समनन्तरमेवोक्तत्वात् स्वयमपि लक्ष्यासिद्धेर्वक्ष्यमाणत्वाच्च। किञ्च "पूर्वस्माद्विधौ " इति अतिस्थवीयः, तस्य हि पूर्वस्मान्निमित्तत्वेनाश्रितादित्यर्थः स्थितः। यच्चेहानादिष्टादचः पूर्वं नकारव्यञ्जनमात्रं न तन्निमित्तत्वेनाश्रितम्, यच्च निमित्तं नकाराकारसंघातः नासावनादिष्टादचः पूर्व इति यत्किञ्चिदेतत्। तस्मात्प्रागुक्तविधया एकदेशविकृतस्यानन्यत्वात्प्राप्तिः। दीर्घात्प्रागेववेति विशेषणार्थः शकारः। न चैवमपि `विश्नानां' `प्रश्नानाम्' इत्यत्रातिप्रसङ्गः, अनर्थकत्वात्। न च विकरणेऽप्येवमेवेति वाच्यम्, एकदेशिमते तस्य वाचकत्वात्। मुख्यमतेऽपि द्योत्येनार्थेनार्थवत्वात्। अत एव प्रत्ययसंज्ञाया अन्वर्थत्वेऽपि श्नमि तत्प्रवृत्तौ "लशकु"(पाoसूo1-3-8)इति शस्येत्संज्ञा सिध्यति। किञ्च "लक्षणप्रतिपदोक्त"(पoभाo115)परिभाषयाऽपि `विश्नानाम्' इत्यादौ नातिप्रसङ्गः। तस्मात् "श्नान्नलोपः"(पाoसूo6-4-23)इति विशेषणार्थः श्नमः शकार इति स्थितम्। न चार्धधातुकसंज्ञानिवृत्त्यर्थोऽपि सोऽस्तु, सत्यां हि तस्यां अनक्ति, भनक्ति, अतो लोपः स्यात्। रुणद्धि, भिनत्ति, गुणः स्यात्। हिनस्ति, तृणोढि, इडागमः स्यात्। 'नेड् वशि"(पाoसूo7-2-8)इति तु नेह प्रवर्त्तते, अकृत्त्वादिति चेत्? न, सत्यप्यार्द्धधातुकत्वे क्षत्यभावात्। न च लोपो गुण इड् वेति त्रितयं स्यादित्युक्तमिति चेत्? न, त्रितयस्याप्यागमत्वात्, श्नमः पूर्वभागस्य चानङ्गत्वात्। तथाहि, "यस्मात्प्रत्ययविधिः"(पाoसूo1-4-13)इत्यस्यायमर्थः-प्रत्यये विधीयमाने यत्पञ्चम्या निर्द्दिष्टं धातोः प्रातिपदिकादित्यादि तदादि तस्मिन्परतोऽङ्गमिति। इह तु यत्पञ्चमीनिर्द्दिष्टं रुधादिभ्यो धातुभ्य इति, न तस्मात् प्रत्ययः परः, यस्माच्च पूर्वभागात्प्रत्ययः परः, नासौ तस्मिन्विधीयमाने पञ्चम्या निर्द्दिष्ट इति दिक्।
रुणद्धि। भिनत्ति।
(पाoसूo3-1-79)
तनादिकृञ्भ्य उः(पाoसूo3-1-79)।। तानादिभ्यः कृञ्श्च उप्रत्ययः स्यात्। तनोति। करोति। कृञ्ग्रहणं भाष्ये प्रत्याख्यातं, तनादित्वादेव सिद्धेः। ननु तनादिकार्यापेक्षनियमार्थं तदस्तु। तेन "तनादिब्यस्तथासोः"(पाoसूo2-4-79)इति वैकल्पिकस्य सिज्लुकोऽप्रवृत्तौ `अकृत' `अकृथाः' इत्यत्र द्वैरूप्यं न भवतीति चेत्? मैवम्, सत्यपि लुग्विकल्पे तदभावे "ह्रस्वादङ्गात्"(पाoसूo8-2-27)इति लोपेनेष्टसिद्धेः। न च विकल्पेन नित्यस्य बाधः, विक्लपं प्रति नित्यस्यासिद्धत्वात्। न च तनादिपाठसामर्थ्यादपवादो वचनप्रामाण्यादिति न्यायेनासिद्धत्वबाधनाद्विकल्पेन नित्यस्य बाधः, तनादिपाठस्य विकरणविधौ चरितार्थत्वात्। विकल्पोऽपि `अतथाः' इत्यादौ चरितार्थः। प्रत्युतक्रियमाणे कृञ्ग्रहणे तनादिषु कृञः पाठस्य अन्यार्थत्वात् "येननाप्राप्ति"(पoभाo59)न्यायेन विकल्पो नित्यविधिं बाधेन। कृञ्ग्रहणन्तु विकरणविधौ तनादिषु पाठश्चरितार्थो मा भूदित्येवमर्थं स्यात्। तस्मात्कृञ्ग्रहणपरित्याग एवोचितः।।
(पाoसूo3-1-80)
धिन्विकृण्व्योर च(पाoसूo3-1-80)।। धिवि प्रणिने(भ्वाoपo594)कृवि हिंसाकरणयोः(भ्वाoपo599)अनयोरकारोऽन्तादेशः स्यादुप्रत्वयश्च। शपोऽपवादः। "अतो लोपः"(पाoसूीo6-4-48)। तस्य स्थानिवद्भावाल्लघूपधगुणो न। धिनोति। कृणोति। नुमनुषक्तयोर्ग्रहणं नुम्‌विधिरुपदेशावस्थायामेव प्रवर्त्तत इति ज्ञापनार्थम्। तेन नुम्‌विधावुपदेशिवद्वचनं प्रत्ययसिद्ध्यर्थमिति वचनं न कर्तव्यं भवति। सिचस्तासेश्चेकार उच्चारणार्थ इति पक्षे नुम्विधौ दातुग्रहणमपि न कर्तव्यं भवति, तज्ज्ञाप्यस्यानेनैव ज्ञापनात्।
(पाoसूo3-1-81)
क्र्यादिभ्यः श्रा(पाoसूo3-1-81)।। स्पष्टम्। क्रीणाति। प्रीणाति। स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यःश्नुश्च(पाoसूo3-1-82)।। आद्याश्चत्वारः सौत्राः। स्कुञ् आप्रवणे(क्र्याoउo6)। एभ्यः श्रा स्यात् श्नुश्च। स्तभ्नाति, स्तभ्नोति। हौ शानच्-स्तभान, स्तभ्नुहि। स्तुभ्नाति, स्तुभ्नोति। स्कभ्नाति, स्कभ्नोति। स्कुभ्नाति, स्कुभ्नोति। स्कुनाति, स्कुनीते। उदित्करणसामर्थ्यात्सौत्राणामपि धातूनां सर्वार्थत्वं, न त्वेतद्विकरणमात्रविषयत्वम्।
(पाoसूo3-1-82)
हलः श्नः शानज्झौ(पाoसूo3-1-82)।। हलः परस्य श्नाप्रत्ययस्य शानच् स्याद्धौ परे। पुषाण। मुषाण। लोट्, सिप्, तस्य हिः।
(पाoसूo3-1-83)
"क्र्यादिभ्यः श्ना'(पाoसूo3-1-83)। तस्य शानच्, चित्त्वादन्तोदात्तः। 'सन्निपात"(पoभाo87)परिभाषाया अनित्यत्याद्धेर्लुक्। हलः किम्? क्रीमीहि। हौ किम्? पुष्णाति। `श्नः' इति स्थानिनिर्द्देश आदेशत्वलाभाय। इतरथा हि प्रत्ययान्तरमेवेदं स्यात्। ननु तथैवास्तु को दोष इति चेत्? न, `पच' `पठ'इत्यादावपि शपं बाधित्वा शानच्प्रसङ्गात्। न च "क्र्यादिभियः"(पाoसूo3-1-187)इति अनुवर्त्तत इति वाच्यम्, `स्तभान' `स्तुभान' इत्यादिचतुर्णामसिद्ध्यापत्तेः। न च स्तम्भ्वादयोऽप्यनुवर्तयितुं शक्याः, बिशेषविहितेन शानचा श्न इव श्नोरपि बाधे `स्तभ्नुहि' इत्यादेरसिद्धिप्रसङ्गात्। न च `श्नुश्च' इत्यप्यनुवर्त्त्यम्, क्र्यादेरपि श्नुप्रसङ्गात्। न च स्तम्‌भ्वादिभ्य एव श्नुः, शानच् तु तेभ्यः क्र्यादिभ्यश्चेत्यत्र प्रमाणमस्ति। तस्माद्यथान्यासमेवास्तु। शानचः शित्करणे प्रयोजनं चिन्त्यम्, स्थानिवद्भावेनैव सिद्धेरिति हरदत्तः।
अत्रेयं चिन्ता, अनुबन्धकार्येऽपि क्वचिदनल्‌विधाविति निषेधः प्रवर्त्तत इति ज्ञापनार्थमिदम्। तेन वार्त्तिकमते `ब्रूतात्' इत्यत्र ईण्न। भाष्यमते तु `भविषीष्ट' इत्यत्र ङित्त्वं नित्यं न भवति। एतच्च "ङ्किति च"(पाoसूo1-1-5)इति सूत्रे स्फुटीकृतमस्माभिः।
(पाoसूo3-1-84)
छन्दसि शायजपि(पाoसूo3-1-84)।। अपिशब्दाच्छानच् हौ अहौ च। गृभाय जिव्हया मधु। बधान देवसवितः। "हृग्रहोर्भश्छन्दसि'(काoवाo)इति गृह्णातेर्हकारस्य भकारः। "अनिदिताम्"(पाoसूo6-4-24)इति वध्नातेर्नलोपः। यो अस्कभायदुत्तरम्। अस्कभ्नादित्यर्थः।
(पाoसूo3-1-85)
व्यत्ययो बहुलम्(पाoसूo3-1-85)।। विकरणाः प्रक्रान्ताः, तेषां छन्दसि बहुलं व्यत्ययः स्यात्। व्यतिगमनं व्यत्ययः। व्यतिपूर्वादिणो(अoपo35)भावे एरच्। क्वचिदन्योन्यविषयावगाहनम्। क्वण्डानि भेदति। `भिनत्ति' इति प्राप्ते। न ह्यस्या अपरञ्चन जरसा मरते पतिः। `म्रियते'इति प्राप्ते।
जीवचामरवासाधो व्याधमाजीवमामरः।
इत्यपि पुराणादौ छान्दसर्दशनात्समाधेयम्। इन्द्रो वस्तेन नेषतु। नयतेर्लोटि तिपि शप्सिपौ द्वौ विकरणौ। इन्द्रेण युजा तरुषेम वृत्रम्। `तरेम' इत्यर्थ-। तरतेर्विध्यादौ लिङ्, मस्, उः, सिप्, शप्, इति त्रयो विकरणाः। धातोर्गुणः। तरुष् मस् इति स्थिते "नित्यङ्ङितः"(पाoसूo3-4-11)इति सलोपः। यासुट्। "अतो येयः"(पाoसू7-2-80)। यलोपः। "आद् गुणः"(पाoसूo6-1-87)। बहुलग्रहणं सर्वविधिव्यभिचारार्थम्। तथा च भाष्यम्-
सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च।
व्यत्ययमिच्छाति शास्त्रकृदेषां सोऽपि च सिद्धति बाहुलकेन।।
सुपां व्यत्ययः-युक्तामातासीद् धुरि दक्षिणायाः। दक्षिणस्याम् इति प्राप्ते। तिङां-चषालं ये अश्वयूपाय तक्षति। `तक्षन्ति' इति प्राप्ते। लादेशव्यङ्ग्यः क्रियासाधनविशेषरूपः स्वार्थपरार्थत्वादिश्चोपग्रहशब्दस्य वाच्यः। यथोक्तम्-
य आत्मनेपदाद्भेदः क्वचिदर्थस्य गम्यते।
अन्यतश्चापि लादेशान् मन्यन्ते तमुपग्रहम्।। इति।
आत्मनेपदादिति लादेशादिति च हेतौ पञच्मी। इह तु तत्प्रतीतिनिमित्ते परस्मैपदे आत्मनेपदे च उपग्रहशब्दो लक्षणया वर्तते। ब्रह्मचारिणमिच्छते। `इच्छति' इति प्राप्ते। प्रतीपमन्य ऊर्मिर्युध्यति। `युध्यते' इति प्राप्ते। मधोस्तृप्ता इवासते। मधुन इति प्राप्ते। भाषायान्तु यद्यप्यर्द्धर्चादित्वादुभलिङ्गो मधुशब्दोऽस्ति तथापि अर्थविशेष एव। तथा--
मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः।
अर्द्धर्चादिगणे पाठात् पुन्नपुंसकयोर्मधुः।।
इति शाश्वतकेशात्। अमृते तु नपुंसक एव। अत एव व्यत्ययोदाहरणं दत्तम्। माघस्तु--
सरसमकरन्दनिर्भरासु प्रसवविभूतिषु विरुधां विरक्तः।
ध्रुवममृतपनामवाञ्छयासामधरमधुं मधुपस्तवाजिहीते।।
इत्यत्रामृतवाचकमधुशब्दं पुल्लिङ्गं प्रयुञ्जानश्चिन्त्यः, शाश्वतकोशात्। नरः पुरुषः। अधासवीरैर्दशभिर्वियूयाः। `वियूयात्' इति प्राप्ते। यु मिश्रणे(अoपo23)विपूर्वः आशिषि लिङ्। कालवाची प्रत्ययः कालः। श्वोऽग्नीनाधास्यमानेन। लुटो विषये लृट्। हल्-त्रिष्टुभौजः शुफितमुग्रवीरम्। शुभ शुम्भ शोभार्थे(तुoपo41,42)भकारस्य फकारः आश्वलायनसूत्रे। तैत्तिरीये भकार एव पठ्यत इति हरदत्तः। वस्तुतस्तु आश्वलायनसूत्रेऽपि भकार एव पठ्यते। हल्व्यत्ययोदाहरणन्तु सुहितमिति प्राप्त इति भाष्यानुरोधेन स्पष्टम्। अच्-उपगायन्तु मां पत्नयो गर्भिण्यः। दीर्घस्य ह्रस्वः स्वरव्यत्ययः "परादिश्छन्दसि बहुलम्"(पाoसूo6-21-99)इत्यत्र वक्ष्यते। कर्तृशब्दः कारकमात्रस्योपलक्षणं तद्वाचिनीनां विभक्तीनां व्यत्यय इति हरदत्तः। एवन्तु सुप्तिङ् इत्येव गतार्थता स्यात्, तस्मात्कारकवाचिनां कृत्तिद्धितादीनामपि व्यत्यय उदाहार्यः। तथा च "कर्मण्यण्"(पाoसूo3-2-1)सूत्रे भाष्यम्अत्रादायेति च कृतां व्यत्ययश्छन्दसीति। तच्च तत्रैवस्फुटीकरिष्यामः। यङिति प्रत्याहारः यको यशब्दादारश्य "लिङ्याशिष्यङ्"(पाoसूo3-1-86)इति ङकारेण। तेषां व्यत्ययः प्रागेवोदाहृतः। एवं सुप्तिङ्प्रभृतीनां व्यत्ययं शास्त्रकृत्पाणिनिरिच्छति। स च बाहुलकेन सिष्यति। बहूनर्थान् लात्यादत्त इति बहुलं तस्य भावो बाहुलकम्। मनोज्ञादित्वाद् वुञ्।
(पाoसूo3-1-86)
लिङ्याशिष्यङ्(पाoसूo3-1-86)।। छन्दसि धातोरङ् प्रत्ययः स्यात् आशिषि लिङि परे। स्थागागमवचिविदिशकिरुहिष्वेवायमङ् प्रायेम दृश्यते। उपस्थेयं वृषभन्तुग्रियाणाम्। उपपूर्वात्तिष्ठतेराशिषि लिङ् मिपोऽम्, यासुट्, "छन्दस्युभयथा"(पाoसूo6-4-86)इति सार्वधातुकसंज्ञाया अपि सत्त्वात् "लिङ सलोपोऽनन्त्यस्य"(पाoसूo7-2-71)इति सलोपः। अङि "आतो लोपः"(पाoसूo6-4-64)"अतो येयः"(कoसूo7-2-80)। सत्यमुपगेयम्। गमेम जानतो गृहान्। मन्त्रं वोचेमाग्नये। "वच उम्"(पाoसूo7-4-20)विदेयमेनां मनसि प्रविष्टाम्। व्रतं चरिष्यामि तच्छकेयम्। अस्रवन्तीमारुहेमास्वस्तये।
दृशेरग् वक्तव्यः(काoवाo)। पितरञ्च दृशेयं मातरञ्च। अङि तु सति "ऋदृशोऽङि"(पाoसूo7-4-16)इति गुमः स्यात्। अथ कथं `उपस्थेयाम् शरणं बृहन्त' इति? स्थेमेति हि प्राप्नोति।
अत्र भाष्यम्-सार्वधातुकत्वाल्लिङ सलोप आर्द्धधातुकत्वादेत्वमिति। "एर्लिङि"(पाoसूo6-4-67)इति सूत्रेणेति भावः। अङ् चात्र न कार्यः, बाहुलकात्।
।। इति श्रीशब्दकौस्तुभे तृतीयाध्यायस्य प्रथमे पादे चतुर्थमान्हिकम् ।।