श्रीसिद्धान्तसुधानिधिः/अध्यायः ३-पादः १/आह्निकम् २
← आह्निकम् १ | श्रीसिद्धान्तसुधानिधिः आह्निकम् २ [[लेखकः :|]] |
आह्निकम् ३ → |
अथ द्वितीयमाह्निकम्।
सुप आत्मनः क्यच् ।। 8 ।।
स्वाश्रयसम्बन्धित्वेनेच्छाविषयार्थकात्सुबन्तात्क्यच्प्रत्ययो वा। स्वपदमिच्छापरम्। स्वाश्रयत्वं समवायित्वं धात्ववयवत्वात्सुपो लुक्।। क्याचिचेतीत्वम्। पुत्रमात्मन इच्छति पुत्रीयति। पुत्रविषयकेच्छाबोधे पुत्रस्य स्वीयत्वं स्वरूपसदेव प्रयोगनियामकं तत्र तस्य शाब्दे प्रकारत्वानुभवविरोधात्। यद्यपि क्यचश्चकारो नान्तोदात्तत्वार्थः एकाच्त्वेन प्रत्ययस्वरेणैव सिद्धेः पूर्वं प्रत्ययस्वरः पश्चात्सतिशिष्टो धातुस्वर इति क्रमसत्त्वात्। नापि क्यचिचेचेत्यत्र विशेषणार्थः। तदनुबन्धकग्रहणे नातदनुबन्धकस्येत्यतएव क्यषो व्यावृत्तेः। तन्मात्रानुबन्धकमपहाय तत्तदतिरिक्तोभयानुबन्धकस्य न ग्रहणमित्यस्य तदर्थत्वात्। नापि नःक्ये इत्यत्र सामान्यग्रहणविघातार्थः। अन्यथोक्तरीत्या तत्रक्यषो ग्रहणं न स्यात्। ननु इच्छेति भावेप्रत्ययः। आत्मन इति कर्तरि षष्ठी। क्रियाकारकसम्बन्धस्यान्तरङ्गत्वात्। तथाच राज्ञः पुत्रमिच्छतीत्यत्रापि क्यच्स्यात्। मैवम्। आत्मन इति विशेषणवैयर्थ्यात्। उक्तसम्बन्धमानादृत्य सुबन्तेनैवान्वयात्। तद्वारकस्यैवात्मन इच्छासम्बन्धस्य वाच्यत्वात्। तथाचेच्छासमवायिनः सुबन्तस्य च यःप्रसिद्धसम्बन्धस्तस्येष्यमाणतावच्छेदकत्वे क्यजिति फलितम्। अन्यथा एषितृस्वामिजन्यत्वस्य राजपुत्रेऽपि सत्त्वाद्दोषतादवस्थ्यात्। मात्वावृका अघायवो विदन्नित्यादौ तु व्यसनस्य स्वसंबन्धित्वेनेच्छानुपपत्त्या छान्दसःक्यच्। ज्ञापकं चात्रेत्वबाधनार्थमाकारविधानम्।
अथ सुप इति किमर्थम्। न तावत्प्रातिपदिकवारणार्थम्। सुबन्तात्प्रातिपदिकाद्वा क्यचि विशेषाभावात्। नच पदसंज्ञैव विशेषः। सुबन्तात्प्रत्ययोत्पत्तिपक्षे नियमार्थमावश्यकस्य नःक्ये इति सृत्रस्यैव प्रातिपदिकात्तदुत्पत्तिपक्षे विध्यर्थत्वसम्भवात्। नापि धातुव्यावृत्त्यर्थम्। विशेषविहितस्य सनो बाधकत्वात्। परेच्छायां च सनोऽभावात्।
उच्यते महापुत्रमिच्छति महापुत्रीयतीत्यस्येष्टत्वेऽपि महान्तं पुत्रमिच्छतीति वाक्ये माभूदिति सुबग्रहणम्।
ननु प्रत्येकं सुबन्तत्वात्तथाप्यनिस्तार इति चेत् न। र्कि समुदायादापत्तिः, उतावयवात्। नाद्यः। प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात्। प्रकृतिप्रत्ययसमुदायद्वयस्य ग्रहीतुमशक्यत्वात्। नान्त्यः। अतामर्थ्यात्। महान्तं पुत्रीयतीत्यस्यागमकत्वात्। ऋद्धस्य राजपुरुषः ऋद्धस्योपगोरपत्यं ऋद्धस्यौपगव इत्यादिवत्। तदुक्तम्। `समानाधिकरणानां सर्वत्रावृत्तिरयोगोदकेने'ति। समानादिकरणानां शब्दानां मध्ये एकस्य बहिर्भाव एकस्य च वृत्तिप्रवेशो न भवति। सगुणस्यैव पुत्रस्येषिकर्मत्वादित्यर्थः। नचैवं राज्ञः पुत्रमिच्छतीत्यत्रापत्तिः। सविशेषणानां च सर्वत्रावृत्तिरयोगादेकेनेत्यस्य वाच्यत्वात्। नचैवं पुत्रप्रातिपदिकार्थस्य इच्छाकर्मत्वविरहे द्वितीयाद्यनुपपत्तिः समुदायस्याप्रातिपदिकत्वात्ततोऽपीति वाच्यम्। सामानाधिकरण्यमात्रेण गुणेभ्यस्तदुत्पत्तेः नचैवं प्रत्ययस्याप्यापत्तिः। सविशेषणानामिति निषेधात्। महान्तं पुत्रीयतीत्यस्यागमकत्वात्। क्यजर्थैकार्थीभूतस्य विशेषणस्य व्यपेक्षानुपपत्तेः। युगपदेकांर्थीभावव्यपेक्षयोरयोगात्।
अथ कथं मुण्डयति माणवकमिति असामर्थ्यादितिचेत्। न अत्र माणवकस्य करोतिक्रियाकर्मत्वाभावात्। मुण्डत्वस्यैव तथात्वात्। यत्र तभयोस्तथात्वं तत्र भवत्येव वृत्तिः। बलीवर्दं करोति मुण्डं चेति। मुण्डयतेश्च क्रियाविशेषवाचित्वात्तदपेक्षया माणवके द्वितीया। नचैवं माणवकं मुण्डमिच्छतीत्यत्रापि क्यजापत्तिः। मुण्डत्वमेवेष्यते माणवकशब्दस्तु तदाश्रयविशेषप्रतिपत्यर्थतुत्यत्वादिति(1)वाच्यम्। माणवकस्य मुण्डत्वगुणेन संस्कार्यत्वादुभयोरेवेष्यमाणत्वात्। यद्वा गुणवचनत्वान्मुण्डशब्दस्य सापेक्षत्वेऽपि समासः। क्यच् तु पुत्रीयतीत्यादौ सावकाश इति वैषम्यम्। नच मुण्डयत्ययं नापित इत्यादौ मुण्डत्वविषये प्रावीण्यविवक्षायां द्रव्यविशेषस्यानाकाङ्क्षितत्वाण्णिजपि सावकाश इति वाच्यम्। तत्करोतीति सिद्धे मुण्डादिभ्यः पुनर्विधानस्य सापेक्षत्वेऽपि तद्विधानार्थत्वात्। यद्वा सौत्रधातवस्तेभ्यश्चुरादिवत्स्वार्थे णिच्। यद्यपि तेषामविशेषो नोक्तस्तथापि प्रयोगदर्शनादेव तन्निर्णयसंभवात्। यद्वा गां दोग्धि पय इत्यत्र शुद्धस्य दुहेः पूर्वंगवैव संबन्धः। पश्चात्तु दुहिना पयसः तथा करोति र्मौण्ड्येन संबध्यते। तद्विशिष्टस्तु माणवकेनेत्यदोषः। बद्वा विशेषापेक्षायां वाक्यम्। सामान्यापेक्षायां वृत्तिः। तत्र विशेषप्रतिपत्त्यर्थं माणवकादिपदोपादानम्। नचैवं क्यचोऽप्यापत्तिः। अगमकत्वात्।
अथेष्टः पुत्रः इष्यते पुत्र इति कर्मणि क्यच् स्यान्नवेति संदेहेकेचिदाहुः। इच्छायां क्यज्विधानात् इच्छतीति कर्तृप्रत्ययेन विग्रहवत् उक्तकर्मप्रत्ययाभ्यां विग्रहेऽपि भवत्येवेति।
सिद्धान्तस्तु इष्टशब्दसामासाधिकरण्यात्पुत्र इति विशेषकर्मसंबन्धस्यानुभूतत्वात् तदवस्यायां वृतिरेव नास्ति। कृतः पूर्वं कटोऽनेनेत्यादिवत्। क्रियाफलस्य पुत्रादेः प्रावान्यप्रतिपिपादयिषायां पुत्र इष्ट इत्यादिवाक्यस्यैव प्रयोगात्। क्यजन्तस्याकर्मत्वात्कर्मणि प्रत्ययानुत्पादेन तादृशार्थे क्यजन्तस्य कर्मक्तप्रत्ययान्तस्य दर्शयितुमशक्यत्वात्। वाक्ये च कर्तृप्रत्ययस्य कर्मप्रत्ययस्य वोत्पत्त्यनन्तरमकर्मकत्वेन कर्मणि प्रत्ययानुत्पत्तेः।
`क्यचि मान्ताव्ययस्यप्रतिषेधः'। इदमिच्छति, किमिच्छति। उच्चैरिच्छति। नीचैरिच्छति। `गोतमानाक्षरनान्तादित्येके'। एभ्यः क्यच्प्रत्यय इति न्यासं कुर्वन्तीत्यर्थः। गव्यति। घटीयति। मधूयति। दधीयति। कर्त्रीयति। राजीयति। तक्षयिति। अत्रवाच्यतीत्यादेरसिद्धिः। मतभेदप्रदर्शनार्थं तु भाष्यकारेणेदमुपन्वस्तमित्यभियुक्ताः।।
अशनायोदन्यधनायाबुभुक्षापिपासागर्धेषु ।। 9 ।।
क्यजन्तास्त्रयो निपात्यन्ते। अशनायति। उदन्यति। धनायति। तत्कालीनोपभोगार्थमशनोदकयोर्धनान्तरस्य चेच्छायामिति बुभुक्षेत्यादेरर्थः कालान्तरोपयोगार्थमशनस्य स्नानार्थमुदकस्य धनाभावे सति धनेच्छायां च उदकीयतीत्याति। एवंच बुभुक्षादिनां प्रयोगोपाधित्वम्।
अन्येतु अशनायतीत्यादिनां बुभुक्षादिकमेवार्थः। प्रकृत्यर्थस्याविवक्षितत्वात्। उदन्या तु पिपासातृडितिकोशात्। किमुधनं धनयितुमिति भारविप्रयोगाच्चेत्याहुः। अत एव धारारायो धनायायदीतिमयूरः।।
अश्वक्षीरवृषलवणानामात्म प्रीतौ क्यचि काम्यच्च ।। 10 ।। 11 ।।
पूर्वोक्तविषये काम्यच्प्रत्ययः स्यात्। पुत्रमात्मन इच्छति पुत्रकाम्यति। चकारोऽन्तोदात्तत्वार्थः। धातुस्वरेणैव सिद्धेः। नापि ककारस्येत्संज्ञापारैत्राणार्थः। आदितः कर्तव्यत्वापत्तेः। तथापि चिदेवायं नन्वनुबन्धान्तरेण व्यपदिश्यते इति नियमार्थत्वात्ककारस्येत्संज्ञापरित्राणसिद्धिः।
अत्रवार्तिकम्। `काम्यचश्चत्करणानर्थक्यं कस्येदर्थाभावा'दिति। अयमर्थः प्रयोजनाभावादेव ककारस्य नेत्संज्ञा। कार्यविशेषस्य वा विरहे लोपमात्रस्य वर्णोपदेशफलत्वानुपपत्तेः। संहितापाठे काम्यच्चेति चकारद्वयेनापि तत्स्थितेश्च। अग्निचित्काम्यतीत्यत्र सघूपधगुणप्रतिषेधोऽपि न फलम्। धातोर्विहितत्वाभावेन काम्यच आर्धधातुकत्वाभावात्गुणप्रसक्तेरेव दुर्लभत्वात्। नापि उपयट्काम्यतीत्यत्र वचिस्वपियजादीनां कितीति संप्रसारणम्। यजादिभ्यो विहितो यः किदिति व्याख्ययेव तस्याप्रवृत्तेः। सुबन्तादस्य विहितत्वात्। विचः छन्दस्येव विधानात्तत्र संप्रसारणाद्र्शनाच्च। एवं तु वाक्काम्यतीत्यत्र संप्रसारणार्थं कित्वं स्यादतोविहितविशेषणत्वमेव युक्तम्। यद्वा धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानान्न दोषः। तस्माच्चित्वं व्यर्थमितिस्थितम्।।
उपमानात्कर्मणः सुबन्तादाचारे क्यच्। पुत्रमिवाचरति पुत्रीयति छात्रम्। अधिकरणाच्चेति वक्तव्यम्। कुटीयति प्रासादे। कुठ्यामिवाचरति इत्यर्थः।
पौरं सुतीयति जनं समराङ्गणेऽसा-
वन्तः पुरीयति विचित्रचरित्रचुञ्चुः।।
नारीयते समरसीम्नि कृपाणपाणे।
रालोक्य तस्य चरितानि सपत्नसेना।।
इति काव्यप्रकाशे वाचकलुप्तायामुपमायां कर्माधिकरणक्यचौ कर्तरि क्यच्चेति त्रयमुदाहृतम्।
तत्र व्याचक्षते। क्यजदीनामाचारमात्रार्थत्वे सुताद्यन्विते आचारे पौरादिकर्मकत्वान्वयो न सत्। नच सुताद्यनन्वितस्यैवाचारस्य पौराद्यन्वयः। प्रकृत्यर्थानन्वितप्रत्ययार्थाबोधात्। अन्यथा चैत्रो न पचतीति बाधधीकाले चैत्रः पचतीतिवाक्याच्चैत्र कृतिमानीति बोधापत्तेः। किञ्चाश्रुतस्येवादिपदस्य कल्पनापेक्षया क्यजादिशक्तिकल्पनमेव युक्तम्। नच गौरवम् सन्प्रत्ययादेरपि इच्छाशक्तिविलोपापत्तेः। तत्रापीच्छतीत्यादेरध्याहारसम्भवात्। अथ तत्रानुशासनबलाद्विनाप्यध्याहारं बोधाच्च शक्तिरिति चेत्। क्यजादावपि समानम्। अतः क्यच आचारजातीयाचारो भेदश्चार्थः। अतएव सुतं सुतीयतीत्यादेर्नप्रयोगः। तथाच पौरं सुतीयतीत्यादेः सुतभिन्नपौरवृत्तिर्यः सुताचारजातीयाचारस्तदनुकूलकृतिमानित्यादिरर्थः। एवंच सुतपौरादेः सादृश्यविशेष्यकबोधात् श्रौती पूर्णपमैवेयं नतु वाचकलुप्तेति।
तत्रेदं वक्तव्यम्। सन्प्रत्ययस्येच्छायामिव क्यचोऽपि भेदादौ शक्तिरित्यनुशासनान्न लभ्यते एव। सुतं सुतीयतीत्यादेश्चाध्याहृतेवशब्दार्थभेदान्वयानर्हत्वादेव वारणम्। प्रकृत्यर्थान्वितेत्यादिकं त्वयुक्तम्। प्रकृतिप्रत्ययार्थयोः परस्परान्वयमात्रस्यावश्यकत्वान्नतु प्रकृत्यर्थान्वयात्पूर्वं प्रत्ययार्थान्वयस्यापि। तावतैवोक्तबोधकाले चैत्रः कृतिमानिति बोधवारणात्। तथा चोक्तव्युत्पत्तिसिद्धिमेव लिखित्वा अद्य स्थित्वेत्यादौ क्त्वाप्रत्ययस्याव्यवहितपूर्वकालस्याद्येत्यनेन सममभेदान्वयबोधः समर्थितो द्रव्योपायविवृतौ(1)पक्षधरमिश्रजलदठक्कुरादिभिः। अतएव देवदत्तेन दृष्टो घट इत्यादौ निष्ठाप्रत्ययार्थस्य विषयस्य तृतीयार्थकृत्यन्वयानन्तरमेव प्रकृत्यर्थदर्शनान्वयाद्देवदत्तकृतिविषयर्दशनविषय इति बोधाभ्युपगमः। तस्मादध्याहृतस्य इवपदस्यैव तद्भिन्नवृत्तित्वं तदवृत्तित्वं चार्थः। तथाच सुतभिन्नवृत्तिसुतवृत्तिपौरविषयकाचारानुकूलकृतिमानिति धीः।
नन्वेवं प्रकृत्यर्थस्य सुतादेः भेदादौ इवार्थे इवार्थस्य च वृत्तित्वस्य क्यजर्थे आचारेऽन्वय इति फलितम्। नच तद्युक्तम्। प्रत्ययार्थानन्वितस्य प्रकृत्यर्थस्यान्यत्रानन्वयात्। प्रत्ययर्थे प्रकृत्यर्थभिन्नस्यान्वयविरहाच्चेति चेन्न। सुतादेः साक्षादाचाररूपप्रत्ययार्थानन्वयेऽपि भेदादिविशेषणतापन्नस्य तदन्वयसत्त्वात्। अतएव यथाकथंचित् सम्बन्धमात्रेण प्रकृत्यर्थान्वयव्युत्पत्तिनिर्वाह इति मिश्रौर्विभावितम्। सुतस्य क्यजर्थभेदे तस्य पौरेऽन्वयव्यवधानेनैवाचाररूपप्रत्ययार्थे तदन्वय इति स्वयमपि लिखितत्वाच्च। अतएव नातिरात्रे षोडशिनं गॉह्णाति इत्यत्र षोडशिग्रहणाभाव इष्टसाधनमित्यादिबोधो दीधीतिकारादिभिः स्वीकृतः। आख्यातार्थकृतौ तदर्थवर्तमानत्वानन्वयाब्युपगमेन द्वितीयनियमाभावाच्च। "नानुपमृद्य प्रादुर्भावात्"इति न्यायसूत्रेऽनुपमृद्यच प्रादुर्भावाभावादिति व्याचक्षाणैर्वाचस्पतिमिश्रदीधितिकारादिभिः प्रादुर्भावस्य नञर्थाभावान्वयं कृत्वा तत्र पञ्चम्यर्थहतुत्वान्वयाङ्गीकाराच्च। "तेषां मोहः पापीयान्नामूढस्येतरोत्पत्तेः" इतिसूत्रेऽपीतरोत्पत्त्यभावादिति बोधोपगमाच्च। कलंजभक्षणाभावाविषयकं कार्यमितिप्राभाकरान्वयबोधस्वीकाराच्चेत्यन्यत्र विस्तरः।
यद्यपि नारीयते इत्यत्र चण्डीदासादिभिरुक्तम्। नात्र वाचकलोपः। क्यङादीनामेव तदर्थविहितत्वेन तत्कर्मक्षमत्वात्। प्रत्यये तथा स्वातन्त्र्येणाप्रयोगस्य वत्यादावपि तुल्यत्वात्। समुदितमेव पदं वाचकम्। प्रकृतिप्रत्ययौ स्वस्वार्थवाचकाविति मतद्वयेऽपि वत्यादिक्यङाद्योः साम्यमेव। सदृशाचारस्य क्यङाद्यर्थत्वे मानाभावात्।
यद्यपि धर्मलोपोऽप्यत्रोपमायां आचाररूपधर्मस्य वस्तुत्वादिवदुपमानुपपादकत्वादिति। तदप्यसत्। उपमानादित्यनेनोपमानत्वेन तद्विशेषाणामिवाचार इत्यनेनापि आचारत्वेन धर्मविशेषाणामनुगमात्। सुतीयतीत्यादौ स्नेहनिर्भरत्वादेर्नारीयतीत्यादौ कातरत्वादेश्च प्रत्ययात्। प्रामाणिकलेखनस्य च तत्र साक्षित्वादित्यलङ्कारकौस्तुभविवरणे विस्तरः।
कर्तुः क्यङ् सलोपश्च ।। 13 ।।
उपमानात्कर्तुः सुबन्तादाचारे क्यङ् तस्य सान्तत्वे सलोपश्च। चकारस्यान्वाचयवृत्तेर्वाक्यभेदस्य च स्वीकारात्। कृष्ण इवाचरति कृष्णायते। ङित्वादात्मनेपदम्। सलोपवाक्ये कर्तुरिति स्थानषष्ठी सकारस्य तद्विशेषणत्वात्तदन्तविधिः। सान्तस्य कर्तुर्लोप इति अतो हंसायते इति न दोषः।
`सलोपो वेति वक्तव्यम्'। पयायते। पयस्यते।
`ओजसोऽप्सरसो नित्यं वाच्यः'। ओजायमाने योऽर्हि जघान। अपसरायते। वृत्तावोजःपदं तद्वत्परम्। विशेषणस्योजस एव सामान्यधर्मत्वं `क्षोणीमास्तृणतीभिरन्तरतमं व्योमेदमोजायते'इति मुरारिः।
अपर आह-सलोपेऽप्सरस इत्येव। ओजायमानामिति छान्दसत्वात्सिद्धमिति मतभेदप्रदर्शनायोपन्यासो न त्वयं स्थितः पक्षः इत्याहुरिति कैयटः। तेन पयायतामभ्युदयस्त्वदीय इति नैषधमपि व्याख्यातम्।
`आचोरेऽवगल्भक्लीबहोडेभ्यः क्विब्वा क्लीबायते। होडते। होडायते। धातुसंज्ञानामेवैतेषामनेकार्थत्वादाचारलक्षणक्रियावचनत्वमपि सिद्धम्। अवहोडेत्यादावप्रत्ययस्तु गुरोश्च हल इत्यनेनापि सिद्धः। तथापि अवगल्भाञ्चक्रे इत्यादौ प्रत्ययान्तत्वादामर्थमारम्भः।
अपर आह-सर्वप्रतिपादकेभ्य आचारक्विब्वक्तव्यः अश्वति। गर्दभति। प्रातिपदिकोपादानादिह सुप इत्यस्य नानुवृत्तिः। तेन शपोऽकारेण सह प्रकृत्यकारस्यातोगुण इति पररूपम्। पदत्वाभावात्। नचैवं पूर्ववार्तिकवैयर्थ्यम्। अनुदात्तानुबन्धेन तङर्थत्वात्। क्विपस्तत्रानुवाद्यत्वात्। तेन गल्भतीत्यादि ज्ञेयम्। अ इवाचरति अति। अतः अन्ति। प्रत्ययग्रहणस्थानेऽनेकाच इयुक्तेर्नाम्। अतुः उः। अन्तरङ्गत्वाद्तोलोपं बाधित्वाऽतोगुणे इति पररूपम्। नचवार्णादाङ्गमिति न्यायेनातोलोपापत्तिः। व्याश्रयत्वात्। नचपरत्वनित्यत्वाभ्यां प्रथमं दीर्घत्वप्राप्तिः। बहिरङ्गत्वेनासिद्धत्वात्। नाप्यपवादत्वेन। आनर्देत्यादौ चरितार्थत्वात्। अन्यत्र चरितार्थस्यापवादस्याप्यन्तरङ्गेण बाधस्वीकारात्। पररूपस्याङ्गग्रहणेन ग्रहणात्प्राप्तमतोलोपं बाधित्वा परत्वादत आदेरिति दीर्घः आत औ णल इत्यौकारादेशः। अतुसादौ आतो लोप इत्याहुः।
वस्तुतो व्याश्रयेऽपि परिभाषाप्रवृत्तेरचः परस्मिन्निति सूत्रीयकौस्तुभे व्यवस्थापितत्वात्, द्वितीयस्याकारस्य पररूपलोपोभयस्थानितया तदंशे समानाश्रयत्वाच्च, पररूपस्यैकः पूर्वपरयोरित्यधिकारयित्वेन द्वयोरप्यकारयोस्तत्स्थानित्वात्। ण्यल्लोपाविति दीर्घं बाधित्वातोलोपस्य दुर्वारत्वाच्च, लक्ष्यं दृष्ट्वा बहुश्रुतैर्निर्णेयम्। मालेवाचरति मालाति। लिङ्गविशिष्टपरिभाषया एकादेशस्य पूर्वान्तत्वेन ग्रहणाद्व प्रातिपदिकेति क्विप्। प्रत्ययान्तत्वादाम्। मालाञ्चकार। अमालात्। ङीसाहचर्यादापोऽपि सोरेव लोपस्य हल्ङयादिसूत्रेण विहितत्वात्। यमरमनमातां सक्चेतीट्सकौ। अमालासीत्। कविरिव कवयति। आशीर्लिङि कवीयात्। नामधातोर्नवृद्धिरिति कैयटादयः। अकवयीत्। अकवायीदिति माधव इति दीक्षिताः।
तत्त्वं तूभयमतेऽपि वृद्धिरेवेति इको गुणवृद्धी इति सूत्रे विवेचितमस्माभिः। तेन भूद्रूशब्दयोरभवीदद्रवीदित्यप्ययुक्तम्। घातुपाठस्थस्यैव भवतेरुपादानात्सिचो लुक्वुक् अभ्यासात्वंचेत्येतेषां न प्रवृत्तिः। बुभाव। बुभुवतुरित्यादि।
प्राञ्चस्तु स्वामास स्वांचकारेत्यादिप्रत्ययान्तत्वादाममुदाहरन्ति। नच कास्यनेकाच्ग्रहणं चुलुम्पाद्यर्थमिति तत्र प्रत्ययग्रहणस्य प्रत्याख्यास्यमानत्वादनेकाच्त्वाभावान्नेदमयुक्तमिति वाच्यम्। क्लीबांचक्रे इत्यादेर्भाष्योदाहणस्यानुपपत्तिप्रसङ्गात्। नच भूतपूर्वादप्यनेकाचो वचनसामर्थ्यादामिति वाच्यम्। अनुबन्धासञ्जनेन तस्य चरितार्थताया भाष्यसिद्धत्वात्। अतएव कास्प्रत्ययादित्याम्प्रत्ययो यथा स्यादिति भाष्यकारैरुक्तम्। आम्प्रत्ययनिमित्ततायां प्रत्ययान्तत्वस्यानवच्छेदकत्वे तद्रूपमुद्देश्यतावच्छेदकीकृत्य विधेरुपन्यासानर्हत्वात्। कास्यनेकाजिति आमित्यस्यैव वक्तव्यत्वापत्तेः।
कशब्दाच्चकाविति हरदत्तः। ण्यल्लोपाविति वृद्धि बाधित्वातोलोपाच्चकेति माधवः। दिव्शब्दाद्देवतीति माधवः। ऊठि यण्। नचासिद्धं बहिरङ्गमिति ऊठ् यणि कार्येऽसिद्धः। नाजा नन्तर्य इति निषेधात्। नच वार्णादाङ्गमिति पूर्वं गुणः। व्याश्रयत्वात्। अतो द्यवतीति दीक्षिताः।
भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः ।। 14 ।।
अभूततद्भावग्रहणं कर्तव्यम्। अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ्हलन्तानामेषां लोपश्च। पूर्ववद्वाक्यभेदोऽन्वाचये चकारः। अभृशो भृशो भवति भृशायते। अभूतेति किम्। क्व दिवा भृशा भवन्ति। ये रात्रौ भृशा नक्षत्रादयस्ते दिवा क्व भवन्तीति काकुः। एवं सत्यच्वेरिति न कर्तव्यम्।
तथाहि-अभूतार्थे च्चिविधानात्तदन्ताक्त्यङ् न भविष्यति। उक्तार्थानामप्रयोगात्। नच पटपटायते इत्यत्र डाच्यपि क्यष्न स्यात् तस्यापि तदर्थे विधानादिति वाच्यम्। तत्र लोहितादिडाज्भ्य इति विशिष्योपादानसामर्थ्यात्। अप्रयुक्त एव भवतौ भवत्यर्थविवक्षायां वचनप्रामाण्यात् डाचं विधाय भवत्यर्थे क्यष् विधीयमानत्वात्। इति वार्तिकम्।
भाष्यकारास्त्वाहुः। अच्वेरिति पर्युदासेनाच्व्यन्ते च्विसदृशेऽभूततद्भावे क्यङिवधानाद्वार्तिकमेव नारभ्यमिति। अत्र, अभिमनस्, सुमनस्। उन्मनस्। दुर्मनस् इति हलन्ताः प्रकृतयः पठ्यन्ते। तत्र तत्रोपसर्गाणां प्रत्ययार्थे विशेषणत्व मुत प्रकृत्यर्थ इति विचारः। यदि मनश्शब्देनासमस्ता सुदुरुदभयः तदाद्यः पक्षः, मनश्शब्दश्च तदा वृत्तिविषये तद्वति वर्तते। मनस्वी सुष्ठु भवति। उद्भवति। दुर्भवति। आभिमुख्येन भवतीत्यस्मिन्नर्थे क्यङित्यर्थसम्पत्तिरिति केचित्।
अन्येतु अस्मिन्नर्थे भवतिः प्राप्त्यर्थो गृह्यते। अतो मनः शब्दस्य मत्वर्थलक्षणया तद्वत्परत्वम्। किन्तु मनः शोभनं प्राप्नोतीत्यादिरर्थ इत्याहुः। यदातु अभ्यादीनां मनः शब्देन कृतबहुव्रीहिकाणां निर्देशस्तदा प्रकृत्यर्थविशेषणत्वमिति द्वितीयः पक्षः। तत्र पूर्वपक्षेऽभिमनायते इत्यादौ मनः शब्दात्क्यङि मनायते इत्यादेस्तिङन्तस्य अतिङन्तात्स्वादेः परत्वात्तिङङतिङ इति निघातः स्यात्। प्रकृत्यर्थ विशेषणत्वे तु सुमनायते इति विशिष्टस्यतिङन्तत्वात्तद्व्यतिरिक्तपदात्परत्वं नास्तीति न निघातः।
किन्तु तत्र अड्ल्यब्द्विर्वचनेषु दोषः स्यात्। उपसर्गस्य धातुस्वरूपान्तर्भावात् ततः पूर्वमट् स्यात्। एवं समासाभावाल्यप् नस्यात्। क्यङन्ताच्च सनि कृते सोपसर्गस्य द्वित्वं स्यात्। तथाच स्वमनायत सुमनाय्य अभिमिमनायिषत इत्यादिकं न स्यात्। मैवम्। संग्रामयतेः सोपसर्गाद्विधेरावश्यकत्वात्। अससंग्रामत शूर इति यथा स्यात्। नच संग्रामेत्यखण्डमेव नतु सोपसर्गमिति वाच्यम्। वा पदान्तस्येति परसवर्णविकल्पानुपपत्तेः। तच्च नियमार्थम्। अस्मादेव सोपसर्गान्न त्वन्यस्मादिति। तथा च धातुसंज्ञानिमित्ते प्रत्यये कर्तव्ये उपसर्गसमानाकारं पूर्वपदं पृथक्कर्तव्यमिति ज्ञाप्यते। अन्यथा ग्रामेत्येवानुदात्तेतमपठिष्यत्। अर्थात् संशब्दपूर्वत्वलाभसंभवात्। इक् स्मरणे इत्यादावधिवत्। अनुबन्धश्च तत्र द्वितीयोऽकारः। पररूपाश्रयणात्। अन्यथा णौ चङीत्युपधाह्रस्वापत्तेः। पूर्वपदोपादानाद्यत्र समासस्तस्त्रैव पृथक्करणं नत्वांदोलयित्वा प्रेङखोलयित्वेत्यादौ। आन्दुदोलत्। अपिप्रेङ्खोलत्। अवधीरत्कवज्ञायांकेति ण्यन्तसंज्ञा। आववधीरत्। इति बोपदेवः। अवधीर्येति काव्यप्रयोगास्तु धीरेति धात्वन्तरमूहित्वा समर्थनीयाः। एवंच स्वरविधावपि नदोषः। तत्रोपसर्गस्य धातावन्तर्भावात्। प्रत्ययार्थपक्षोऽप्येवं साधीयान्। नच तत्रोपसर्गार्थे क्यङ्विधानात्तत्प्रयोगो न स्यात्। अपि काकः रादीनां मध्ये कस्यार्थे क्यङिति विशेषानवगमेन तदर्थ मुपसर्गविशेषस्य प्रयोगात्। उत्पुच्छयत इत्यत्रापि। अनेकयोगसत्त्वेन विशेषस्यावश्यकत्वात्। भृश शीघ्र चपल पण्डित उत्सुक उन्मनम् अभिमनस् दुर्मनस् रोदस् शश्वत् प्रमत् वेहत् रश्वित तृपत शुचिवर्चस् ओजस् सुजरत्।
लोहितादिडाज्भ्यः क्यष् ।। 15 ।।
पूर्वोक्तविषये। वा क्यष इति परस्मैपदविकल्पः लोहितायति। लोहितायते। पटपटायति। पटपटायते। अव्यक्तानुकरणादिति डाचो विवक्षायां `डाचि बहुलं द्वे' इति द्वित्वम्। ततो डाच् टिलोपः। पूर्वपटच्छब्दचरमावयवस्य तकारस्य नित्यमाम्रेडिते इति पररूपात्पकारान्तर्भावः। अत्र ककारषकारौ भाष्ये प्रत्याख्यातौ। वा क्यष इत्यत्र वायादित्यतोऽपि सिद्धेः। नियमार्थत्वात्प्रकारणस्य पाश्येत्यादावदोषात्। क्याच्छन्दसीत्यत्रापि भुरण्युरित्यादिसंग्रहाय यादित्येव वाच्यत्वात्। एतेन ककारो व्याख्यातः। नच गुणनिषेधार्थः। आर्द्धधातुकत्वाभावादेव तदप्रसक्तेः। नच यस्य हलः क्यस्य विभाषेत्यत्र सामान्यग्रहणार्थः। हलन्तादेतदविधानात्। एतेन नः क्ये इत्येतदर्थत्वमप्यपास्तम्। नच लोहितायतीत्यत्राकृत्सार्वधातुकयोरितिदीर्घाद्यर्थः तत्र किङद्ग्रहणाननुवृत्तेः। नच उरुया इत्यत्र सुपां सुलुगिति तृतीयास्थाने यादेशे दीर्घापत्तिः। छान्दसत्वात्। उपगायन्तु मां पत्नयो गर्भिणयो युवतय इतिवत्पुनर्हस्वसम्भवाच्च।
अत्रवार्तिकम्। `लोहितादिडाभ्यः क्यष्वचनं भृशादिष्वितराणि' इति लोहितशब्दाड्डाजन्ताच्च क्यष् विधेयः। आदिशब्दो व्यर्थः। अन्येषां भृशादिपाठेन निर्वाहात्। परस्मैपदस्यानिष्टत्वात्। तेन।
लोहितश्यामदुःखानि हर्षगर्वसुखानिच।
मूर्छानिद्राकृपाधूमाः करुणानित्यचर्मणी।।
इति पठितानां पदद्वयोदाहरणं निर्मूलम्।
कष्टाय क्रमणे ।। 16 ।।
तादर्थ्ये चतुर्थी। कष्टार्थं यत्प्रातिपदिकं तस्मात्क्रमणेऽर्थे क्यङ्। अभिधानस्वाभाव्यात्। क्रमणविशेषस्यानार्जवस्य लाभः। अयमेवार्थः। `सत्रकक्षकष्टकृच्छ्रगहनेभ्यः पापचिकीर्षाया' मिति वार्तिककृता व्याख्यातः। सत्रादयश्च शब्दा वृत्तिविषये पापपर्यायाः। नच पापादिशब्देऽतिप्रसङ्गः। व्यवस्तितविभाषाविज्ञानात्। कष्टायते। सत्रायते। पापं कर्तुं प्रवर्तत इत्यर्थः।
कर्मणो रोमन्थतपोभ्यां वर्तिचरोः ।। 17 ।।
रोमन्थतपः शब्दाभ्यां कर्मभ्यां वर्तनायां चरणे चार्थे क्यङ् उत्साहे। रोमन्थं वर्तयति रोमन्थायते। तपश्चरति `तपसः परस्मैपदंच'। `तपस्यते लोकजिगीषुरग्ने'रिति च्छान्दसत्वात्। उद्गीर्णस्यावगीर्णस्य वा मन्थो रोमन्थ इति भाष्यम्। मुखप्रदेशादाकृष्टत्वमुद्गीर्णत्वम्। अपानदेशान्निःसृतत्वमवगीर्णत्वमिति कैयटः। `हनुचलन' इति वक्तव्यम्। एतेन हनुचलनसहचरितं चर्वितस्य मुखप्रदेशादाकर्षणपूर्वकं चर्वणमुपलक्षयति। नेह। कीटो रोमन्थं वर्तयति। अपानदेशान्निःसृतमश्नातीत्यर्थ इति कैयटः। वर्तुलं करोतीति न्यासकारादयः। अनभिधानादत्र नेति भाष्यम्। वर्तीत्यत्र ण्यन्तत्वाद्युचः प्राप्तावपि अस्मादेव निपात नात्क्विबिति बहवः। वस्तुतः इगन्तमेतत्। अर्थे लक्षणा। यदुपास्तिमसदवत्रेत्यादावुपयकारैस्तथा व्याख्यानात्। चरोरिति भावे क्विप्।
बाष्पोष्मभ्यामुद्वमने ।। 18 ।।
बाष्पमूष्माणं वा उद्वमति बाष्यायते। ऊष्मायते।
`फेनाच्चेति वक्तव्यम्'
`मन्थेनेव तमोमयो निधिरपामह्नाय फेनायते' इति मुरारिः।
शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे ।। 19 ।।
शब्दं करोति शब्दायते इत्यादि। `शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणा' इति मेघदूतः। `कस्तस्मै प्रथमाय मानिषु महावीराय वैरायत्' मिति मुरारिः। द्वितीयेनोपमन्युनाम्ना मुनिना सह कलहायमानो दुर्वासाः साम गायन् क्रोधान्धो विस्वरम करोदितिहर्षचरितम्। पक्षे तत्करोतीते णिजपीष्यते इति संप्रदायः। शब्दयतीत्यादि।
`अटाट्टाशीकाकोटापोटा सोटा प्रुष्टा स्रुष्टा सुदिनदुर्दिननीहारग्रहणंकर्तव्यम्।'
अटायते। अट्टायते इत्यादि।
सुखादिभ्यः कर्तुवेदनायाम् ।। 20 ।।
कर्तृ इति लुप्तषष्ठीकम्। तच्च सुखादिविशेषणम्। वेदनस्य कर्तारमन्तरेणानुपपत्त्या तद्विशेषणवैयर्थ्यात्। तथाच वेदनाकर्तुः सुखादेर्वेदनायामित्यर्थः। वेदनापदस्य साक्षात्कारपरत्वे तात्पर्यग्राहकं कर्तृपदमिति यावत्। पर(तस्तद्)गुणानां परायोग्यतया स्वसुखस्यैव स्वीयप्रत्यक्षविषयत्वात्। सुखायते। दुःखायते। नेह सुखं वेदयते प्रसाधको राज्ञः, मुखप्रसादादिलिङ्गेनानुमिनोतीत्यादिरर्थः। सुख दुःख तृप्र अप्र आप्र अलीक करुण कृपण सोढ प्रतीप।
नमोवरिवश्चित्रङः क्यच् ।। 21 ।।
क्रियाविशेषे। पूजायां परिचर्यायामाश्चर्ये च। करण इत्यनुवृत्तस्य लक्ष्यानुरोधेन विशेषपरत्वात् एवं पुच्छादौ बोध्यम्। नच वेदनाग्रहणात्करणच्छेदः। वेदनारूपे करण इत्यन्वयसंभवात् नमस्यति देवान् वरिवस्यति गुरून् चित्रीयते विस्मयते इत्यर्थः ङकारः क्यजन्तानुबन्धः प्रातिपदिकानुबन्धे प्रयोजनाभावात्। तेन क्यजन्तादात्मनेपदम्।
केचित्तु परसमवेताश्चर्योत्पादनमस्यार्थः। `ततश्चित्रीयमाणोसौ' इति भट्टिप्रयोगादित्याहुः।
अथ नमस्यति देवानिति कथं द्वितीया चतुर्थ्याः प्रसङ्गादितिमैवम्। नमस्यधातुव्युत्पत्तये नमः शद्बसदृशावयवान्तरकल्पनेऽपि प्रकृत्यन्तरत्वात्। अर्थवत एव नमो निपातस्य योगे चतुर्थीविधानात्। यद्वा उपपदविभक्तेः कारकविभक्तिर्बलीयसीति सिद्धम्।
पुच्छभाण्डचीवराण्णिङ् ।। 22 ।।
पुच्छमुदस्यति उत्पुच्छयते। `हर्षोत्पुच्छयमानकर्णकरवोत्कर्णं व्रजायोत्सुकाः'। विपुच्छयते। परिपुच्छयते। विविधं विरुद्धं वा उत्क्षेपणं व्यसनम्। परितः क्षेपणं पर्यसनम्। णाविष्ठवदित टिलोपः। भाण्डानि समाचिनोति। राशीकरोति। संभाण्डयते संचीवरयते भिक्षुः। अर्जयति परिधत्ते वा। उदपुपुच्छत। समबभाण्डत। समचिचीरवरत। ङकारस्त्वात्मनेपदार्थः। णकारोणेरनिटीति सामान्यग्रहणार्थः।।
मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्योणिच् ।। 23 ।।
कृञर्थे। इदं च प्रातिपदिकाद्धात्वर्थ इति णिचि सिद्धे प्रपञ्चार्थम्। राजानमतिक्रान्तवानत्यरराजत्। इत्यादावपि तद्दर्शनेन तत्करोति तदाचष्टे इत्यस्य धात्वर्थत्वनियमपरत्वाभावात्। सापेक्षेभ्योऽपि णिजर्थमिति प्रागुक्तम्। मुण्डं करोति मुण्डयतीत्यादि। व्रताभ्दोजनतन्निवृत्त्योः। पयः शुद्रान्नं वा व्रतयति। वस्त्रात्समाच्छादने। संवस्त्रयति। हल्यादिम्यो ग्रहणे। अदन्तत्वं निपातनात्। हलं कलं वा गृण्हाति हलयति कलयति। महद्धलं हलिः। परत्वादादौ वृद्धिः पश्चाट्टिलोपः इष्ठवद्भावेनत्यग्लोपित्वान्न सन्वद्भावदीर्घौ। अजहलत्। अचकलत्। तदुक्तम्। हलिकल्योरदन्तत्वनिपातनं सन्वद्भावप्रतिषेधार्थमिति। न चेकारलोपादप्यग्लोपः। परत्वाद्धृद्धौ ऐकारलोपे तदभावात्। कृतं गृण्हाति कृतयति। तूस्तानि विहन्ति तूस्तयति। न च कृताकृतप्रसङ्गित्वाल्लोपो नित्यः। वृद्धेरपि तथात्वात्। नच शब्दान्तरप्राप्तेरनित्यः। वृद्धेरपि तथात्वात्। यद्यपि लोपाभावेऽचोञ्णितीति अन्त्यस्य इकारस्य वृद्धिः। लोपसत्त्वे त्वत उपधाता इति हकारोत्तराकारस्येति एकलक्षणविहिताया एकास्थानिकायाश्च वृद्धेर्न शब्दान्तरात्प्राप्तिः। तथापि वृद्धिशब्दवाच्यत्वेन द्वयोरभेदमाश्रित्य भाष्यकृतोक्तम्।
ननु टिलोपस्य स्थानिवद्भावादत उपधाया इति वृद्धिर्न प्राप्नोति। अत्राहुः--`प्राप्तौ सत्यां स्थानिवद्भावेन प्रतिबन्धः क्रियते। पृर्वविधौ तद्विधानात्। अप्राप्तौ तु पूर्वविध्यभावात् स्थानिवद्भाव एव न स्यात्। वस्तुतो लोपे कृते वृद्धेरप्राप्त्या नित्यत्व वक्तव्यम्। न्याय व्युत्पादनार्थं त्वन्यथोक्तमिति।
धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ।। 22 ।।
क्रियातिशये वर्तमानादेकाचो हलादेर्धातोर्यङ् स्यात्। पुनः पुनरतिशयेन वा पचति पापच्यते। सन्यङोरिति द्वित्वम्। अभ्यासदीर्घः। यद्यपि समभिहारस्तुल्यकालीनानामनेकेषां मूर्तानां धर्मः क्रिया चैकेन धातुना युगपदनेका न बोध्यते। साध्यैकस्वभावतया निवृत्तभेदाया एकस्या एवाभिधानात्। समुदायघटकानां चाधिश्रयणादीनां अवयवानां यौगद्यं नास्तीति न समभिहारसंभवः। तथापि।
`गुणभूतैरवयवैः समूहः क्रमजन्मनाम्।
बुध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते।
समूह्णः स तथाभूतः प्रतिभेदं समूहिषु।।
समाप्यते ततो भेदे कालभेदस्य संभवः।।
इति रीत्या पूर्वापरसमानकालीनव्यापारसमुदायस्य बुद्धिविशेषविषयतापन्नस्य क्रियात्वात्तदवयवावान्तरव्यापारगतः पौनः पुन्येनानुष्ठीयमानप्रधानक्रियागतो वा समभिहारो गौण इहाश्रयणीयः। यद्वाधिश्रयणादीनां तादर्थ्यात् क्रियात्वम्। मुख्यं तु यदव्यवहितोत्तरं फलोत्पत्तिस्तस्यैव व्यापारस्य। तदुक्तम्-
अनन्तरं फलं यस्याः कल्प्यते तां क्रियां विदुः।
प्रधानभूतां तादर्थ्यादन्यासां तु तदाख्यया।
अतोऽवयवत्वं साधारे चोक्तम्। धातुग्रहणं सन्सूत्रस्थधातुपदवद्व्यख्येयम्। एकाचः किम् जागर्ति। हलादेः किम् ईक्षते भृशमित्यादौ मा भूत्। भृशं शोभते रोचते इत्यादौ त्वनभिधान्ना। पौनः पुन्ये तु भवत्येवेत्याहुः। सूचिसूत्रिमूत्र्यठ्यर्त्यशूर्णोतीनामुपसंख्यानम्। अनेकाच्त्वादजादित्वाच्चाप्राप्तौ वचनम्। सोसूच्यते। सोसूत्र्यते। अटाठ्यते। अरार्थते। अशाश्यते।
वाच्य ऊर्णोर्णुवद्भावो यङ्मसिद्धिः प्रयोजनम्।
आमश्च प्रतिषेधार्थमेकाचश्चेदुपग्रहात्।।
नुवभ्दावातिदेशआदेकाच्त्वप्रयुक्तो यङ्इडभावश्च। इजादित्वाभावादामभावश्च। उदाहरणानि। ऊर्णोनूयते। ऊर्णुनाव। ऊर्णुतः। ऊर्णुतवानित्यादि। तथा चानेनावश्यकातिदेशेन गतार्थत्वाद्यङ् विधाबुर्णोतेरुपसंख्यानं न कर्तव्यमित्याशयः। क्रियासमभिहारे यङो विप्रतिषेधेन लोड्विधानम्। यङोऽवकाशः। लोलूयते इत्यादिरधातुसंबन्धः। लोटस्तु अनेकाजहलादिर्धातुसबन्धः क्रियासमभिहारवृत्तिः। स भवान् जागृहीत्येवायं जागर्ति। ईहस्वेहस्वेत्येवायमीते। इहोभयंप्राप्तोति। सभवान् लुनीहि लुनीहीत्येवायं लुनाति। लोट् भवति विप्रतिषेधेन। केवलस्य लोटः समभिहारानभिव्यञ्जकत्वात्तदन्तस्य द्वित्वं यदा तु यडन्तेन समभिहारान्तरं प्रतिपिपादयिषितं तदा विरोधाभावाद्भवत्येव। लोलूयस्व लोलूयस्वत्येवायं लोलूयते। न वा नानार्थत्वात्कर्तृकर्मणोर्ल विधानम्। क्रियाविशेषे स्वार्थे यङ। लोड् बहिरङ्गः कर्त्राद्यपेक्षत्वाद्धातुसंबन्धापेक्षत्वाच्चेति स्वार्थे समभिहारे विहितो यङन्तरङ्गः। अतोविप्रतिषेधो नारभ्यः। सन्विधानाद्वाग्रहणानु कर्षाद्यङो वैकल्पिकत्वेन तदभावपक्षे लोटः सावकाशत्वात्। एवं यङैव समभिहारस्य द्योतितत्वान्नित्यवीप्सयोरिति क्रियासमभिहारे द्वे भवत इति वा द्विर्वचनाभावः। भृशार्थे पौनः पुन्यविवक्षायां तु पापच्यते पापच्यते इति भवत्येव।।
नित्यं कौटिल्ये गतौ ।। 23 ।।
गत्यर्थादेकाचो हलादेर्धातोः कौटित्यविशिष्टसमभिहार एव यङ् नित्यग्रहणस्य नियमार्थत्वात्। चङ्क्रम्यते। कुटिलं गच्छतीत्यर्थः। नित्यग्रहणं भाष्ये प्रत्याख्यातम्। चंक्रम्यते इति पदबोध्यार्थस्य कुटिलं क्रामतीतिवाक्येन बोधयितुमशक्यतया तदर्थ वाक्याप्रवृत्तेः। कौटिल्यमात्रप्रतिपिपादयिषायांतुवाक्यस्येष्टत्वात्।
लुपसदचर जपजभदहदश गॄभ्यो भावगर्हायाम् ।। 24 ।।
एभ्यो धात्यर्थ गर्हायामेव यङ्। गर्हितं लुम्पति लोलुप्पते। गर्हितस्य प्राप्त्यभावाद्वा प्रतियोगितो लोपायोग्यत्वाद्वा तत्प्रतियोगिकलोपनिन्दा। सासद्यते। चञ्चूर्यते जञ्जप्यते। जञ्जभ्यते। दंदह्यते। दंदश्यते। जपजभ दहदशेतिनुक्। जेग्ल्यते। ग्रोयङीतिरेफस्य लत्वम्। तक्रकौण्डिन्य न्यायेन कौटित्यभावगर्हायां यङः क्रियासमभिहारमपोद्यस्वीकृतत्वात्तत्रार्थे यङभाबः।।
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्ण चुरादिभ्यो णिच् ।। 25 ।।
प्रातिपदिकाद्धात्वर्थ इति धातुसूत्रेण सिद्धौ जुरादिव्यतिरिक्तानामुपादानं प्रपञ्चार्थम्। सत्यं करोति सत्यापयति।
"अर्थवेदसत्यानामापुक्चेतिवक्तव्यम्"! अर्थापयति। वेदापयति। आचार्यमतभेददर्शनाय भाष्येऽत्र बहवः पक्षा उपन्यस्ताः। आपुकि पुकि आकि वा पूर्वं कृते पश्चात्तद्विशिष्टाण्णिजुत्पत्तौ णाविष्ठवदित्यतिदेशेन टिलोपः स्यादिति आशङ्क्यअगेव कर्तव्यः। पररूपेऽचोञ्णीतीति वृद्धौ कृतायामादन्तत्वात् णिनिमित्तः पुक्। अत्रापि टिलोपापत्तिः नच वचनसामर्थ्यं वृद्धिबाधेन कृतार्थत्वसम्भवात्। अगागममन्तरेणापि तत्सिद्धेः। तस्मादापुक् वक्तव्यः, तस्य णिज्भक्तत्वात्प्रातिपदिकाकारस्य टिलोपे सत्यापयति। एवं पुक् आक् वा विधेयः। वचनसामर्थ्याट्टिलोपाभाव इति।।
हेतुमतिच ।। 26 ।।
हेतुपदमत्र तत्प्रयोजको हेतुश्चेति पारिभाषिकहेतुपरम्। तद्व्यापारो हेतुमत्पदार्थः। सच त्रिविधः। प्रेषणमध्येषणं तत्समर्थाचरणंचेति। यद्यपि प्रयोजकस्यहेतुव्य पदेशः सकलकारकसाध्यपाकाद्यपेक्षो नतु तदर्थावान्तरप्रेषणादिव्यापारापेक्षः। काष्ठस्य पाकापेक्षया करणत्वस्य ज्वलनापेक्षया कर्तृत्वस्य दर्शनात्। ततश्च हेतुत्वस्य पाकनिरूपित्तत्वात्तस्यैव हेतुमद्व्यपदेशो युक्तो नतु प्रेषणादेः। तदनिरूपकत्वात्। स्वनिरूपकप्रतियोगिकत्वस्यसंबन्धिशद्वे व्युत्पसिद्धत्वात्। तथापिणिच्प्रकृत्यैव प्रधानक्रियायाः प्रकाशितत्वात्तदर्थेणिचोऽनुपादानात्तस्या नहेतुमत्पदार्थत्वं। नापि प्रयोजकानिरूपकस्य प्रयोज्यस्य, तस्य द्रव्यत्वात्सिद्धरूपत्वात् णिचश्च स्वभावात्करणाधिकाराद्वा क्रियार्थत्वा। अतः पारिशेष्यात्पाकार्थो यः प्रेषणादिलक्षणो यश्च पाकाद्यपेक्षहेतुव्यपदेशहेतुत्वोपलक्षितप्रयोजकसाध्यो व्यापारः स एव गृह्यते। इह पचतीत्युक्ते प्रयोज्यसाध्य एव व्यापारो बुध्यते नतुप्रयोजकसाध्यः। अतः करणस्य प्रत्ययार्थस्य हेतुमतीति विशेषणात् प्रत्ययार्थविशेषणत्वपक्षे णिजर्थः प्रेषणादिः। अथानेकार्थत्वाद्धातूनां तादर्थ्याद्वाऽधिश्रयणादिवत्प्रयोजकव्यापारोऽपि धात्वर्थः। पञ्चभिर्हलैः कृषतीति दर्शनात्। पचतीत्यादौ तु द्योतकस्य णिचो विरहादप्रतीतिः। सोऽयं प्रकृत्यर्थविशेषणपक्षः। इत्युभयथासंवाद्विचारः।
ननु प्रकृत्यर्थविशेषणपक्षे हेतुमत इति पञ्चमीनिर्देशः स्यात्। हेतुमतीति सप्तमीनिर्देशात्तु प्रत्ययार्थविशेषणत्वमेव निर्णीतमितिकुतः संदेह इति वाच्यम्। प्रमाणे स्त्रियासित्यादौ प्रमाणे स्त्रियां च वर्तमानात्प्रातिपदिकादिति विषयसप्तमीनामपि दर्शनेन हेतुमत्यभिधेये णिच्। उत, हेतुमति वर्तमानाद्धातोरिति तत्संभवात्। तत्र प्रत्ययार्थविशेषणत्वमेव युक्तम्। अन्वयव्यतिरेकाभ्यां णिचो वाचकत्वावधारणात्। द्योतकत्वकल्पने गौरववात्। प्रत्ययेत्यस्यान्वर्थत्वाच्च। अतएव तनूकरणे तक्ष इत्यादौ तनूकरणादीनां न प्रकृत्यर्थत्वम्। कर्त्रादीनां सार्वधातुकार्थत्वात्। किञ्च प्रकृत्यर्थत्वपक्षे उक्तः करोति, प्रेषितः करोतीत्यादौ णिच्स्यात्। प्रकृत्योक्तऽपि प्रयोजकव्यापारे तत्स्वीकारे उक्तप्रेषितादिशब्दाभिहितेऽपि तस्य दुर्वारत्वात्। करोत्यर्थस्य हेतुमद्विषयत्वात्। प्रत्ययार्थत्वे तु उक्तार्थत्वाण्णिजभावः। पाचयत्योदनं देवदत्तो यज्ञदत्तेनेत्यत्र प्रयोज्यप्रयोजकयोर्द्वयोरपि कर्त्राः कर्तृलकारेणाभिधानापत्तौ पाचयतो देवदत्तयज्ञदत्तविति स्यात्। धातूपात्तव्यापाराश्रयत्वस्य साम्यात्। प्रत्ययार्थत्वे तु धात्वर्थव्यापारस्य प्रत्ययार्थव्यापारे विशेषणत्वाण्णिजर्थकर्तुरेव प्राधान्यादभिधानं नतु तत्प्रकृत्यर्थकर्तुरिति तत्रानभिहिते कर्तरि तृतीया। गमितो ग्रामं देवदत्तो यज्ञदत्तेनेत्यत्राप्युभयव्यापारस्य गम्यर्थत्वात् गत्यर्थाकर्मकेति कर्तरि क्तप्रत्ययः स्यात्। इष्यते तु प्रयोज्यस्य कर्मत्वात्कर्मण्येव। तदुक्तम्-
अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मण इति।
व्यतिभेदयन्ते इत्यत्र विशिष्टस्य धात्वर्थत्वात् `न गतिर्हिसार्थेभ्य' इति आत्मेनपदीनषेधः स्यात्। प्रत्ययार्थत्वे तु णिजर्थस्य प्रयोजकव्यापारस्य व्यतीहारो नतु प्रकृत्यर्थस्य प्रयोज्यव्यापारास्येति प्रत्ययार्थव्यतीहारनिमित्तस्तङिति।
ननु प्रत्ययार्थपक्षे प्रयोज्ये कर्तरि कर्मसंज्ञा स्यात् ण्यर्थस्य प्राधान्यात्तद्वारेण तस्येप्सिततमत्वात्। ग्रामं गमयति ग्रामाय गमयतीति गत्यर्थकर्मणीति विभक्तिद्वयं न स्यात्। ण्यर्थं प्रत्येव ग्रामप्रयोज्ययोः कर्मत्वेन ग्रामस्य गमिकर्मत्वा भावात्। भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानामिति प्रयोज्ये षष्ठी न स्यात्। ण्यर्थकर्मत्वात् कर्तृत्वाभावात्। अभिषावयतीत्यादौ उपसर्गस्य व्यर्थविशेषकत्वात्सुनोर्ति प्रति अनुपसर्गत्वात्षत्वं नस्यात् इति चेन्मैवम्।
गतिबुद्ध्यादिसूत्रस्य नियमार्थतया एतेषामेवाण्यन्तावस्थायां कर्ता व्यन्तावस्थायां कर्मसंज्ञो नत्वन्येषमिति। पाचयतीत्यादौ दोषाभावात् नच तत्र स्वव्यापारापेक्षया प्रयोज्यस्यापि परत्वात्कर्तृसंज्ञाप्राप्तौ कर्मसंज्ञाविधानार्थमेव गत्यादिसूत्रमिति वाच्यम्। ण्यर्थस्य प्राधान्यात्तेनेप्सिततमस्य प्रयोज्यस्यकर्मत्वसिद्धेः प्रधानाप्रधानव्यापारसंनिधौ प्रधाननिमित्तकार्यस्यैव प्रवृत्तेः। नियमवशात्तु प्रधानप्रयुक्तकार्यव्यावृत्तौ गुणनिमित्तकार्यसद्भावात्सिद्धं कर्तृत्वम्। तदुक्तम्-
गुणक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मतां गतः।
नियमात्कर्मसंज्ञायाः स्वधर्मेणाभिधीयते इति।
ग्रामं गमयतीत्यत्रापि प्रकृत्यर्थस्यैव ग्रामः कर्म नतु ण्यर्थस्य ग्रामकर्मिकां गमनक्रियां प्रेष्यः प्राप्नोतीति तथार्थलाभात्। एधोदकस्योपस्कुरुष्वेति साधनविशिष्टक्रियायामेव तस्य प्रेषणादेधोदकस्योपस्कारयतीत्यत्रापि प्रकृत्यर्थापेक्षयैवैधोदकस्य कर्मत्वात्। भेदिकेत्यत्रापि कृद्ग्रहणस्य कर्तृभूतपूर्वांदिपि षष्ठ्यर्थत्वात्स्वक्रियापेक्षकर्तृत्वाश्रयषष्ठीसंभवात्। प्रयोज्यव्यापाराभिमुख्यस्यैवाभिशद्वस्य द्योत्यत्वात्तस्य सुनोत्यर्थविशेषकत्वादभिषावयतीति षत्वसिद्धेः। ण्यर्थविशेषकत्वेतु षत्वाभावस्येष्टत्वात्। तदेवं प्रत्ययार्थपक्ष एव भाष्यकृता समर्थितः।
कैयटस्तु प्रकृत्यर्थपक्षोऽपि साधुरेव। दोषाणां सुपरिहरत्वात्। प्रयोज्यव्यापारोपसर्जनस्य प्रयोजकव्यापारस्य धात्वर्थत्वात्तस्यैव णिचा द्योतनात्प्रधानकर्तर्येव लकारोत्पत्त्या कर्तृद्वयाभिधानाभावेन प्रयोज्यस्य तृतीयान्तत्वोपपत्तेः। णिचा च द्योतकेन प्रधानभूतस्य गत्यर्थत्वं निवर्तितम्। गमनानुकूलव्यापाररूपप्रधानार्थस्याभिधानादिति व्यन्तात्प्रयोजककर्तरि क्तस्यानुत्पत्तेः। व्यतिभेदयन्त इत्यत्रापि हिंसानुकूलव्यापारस्यैव धात्वर्थतया विशेष्यत्वेन हिंसायास्तदर्थत्वाभावान्नात्मनेपदनिषेध इत्याह।
अथ पृच्छतु मा भवानित्यत्र प्रष्टुः प्रयोज्यत्वादेतद्वाक्यवक्तुश्च प्रयोजकत्वात्तद्व्यापारे णिच्प्रसङ्गः। तथाचैकविषयत्वाण्णिच्लोटोः पर्यायः स्यादिति चेत्। न, प्रश्नक्रियायाः कर्ता त्वं भवेति कर्तृत्वस्यैवात्र विधेयत्वात। राजा भव युध्यस्वेतिवत्। प्रश्नप्रवृत्तौ सिद्धायां तु तत्र प्रयोजकत्वाभावादेव णिजप्रसङ्गात्।
ननु पाचयतीत्यादावपि स्वयं प्रवृत्ते प्रेरणानुपयोगात्समानमेवेतिचेत्। सत्यम्। प्रश्नो हि जिज्ञासाविषयविषयकं वाक्यम्। णिजर्थोऽपि पूर्वोक्तस्त्रेधा। प्रेषणमाज्ञा। अध्येषणं प्रार्थनम्। समर्थाचरणं त्बनुमतिरुपदेशोऽनुग्रह इति। अनुमतिर्निवारणाभावेच्छा उपदेशस्तदर्थिनस्तदुपायकथनम्। ज्वरहरणकामो दशमूलिकपायंपिबेदित्यादौ, अनुग्रहो बहुधाकेनचिज्जिधांसितं पलायमान न्निरुन्धतः कारणाभावविघटकत्वेनानुग्राहकत्वं कारीषोऽग्निरध्यापयत इत्यत्राध्ययनप्रतिकूलशैत्यापनायकत्वेनाग्नेः। एवंचानुमतेः पृथगुपादानं गोबलीवर्दन्यायेन अनुरोध्येच्छाया विपरीतायास्तत्प्रवृत्तिविरोधित्वेन तद्भावेनानुमन्तुरनुग्रहकत्वात्। एवं प्रवर्तनात्वं णिचः शक्यतावच्छेदकामित्यप्ययुक्तम्। चेतनशब्दमात्रव्यापारत्वात्तस्या अग्न्यादेरध्ययनादिप्रयोजकत्वानुपपत्तेः। तदतिरिक्तप्रवर्तनात्वे मानाभावात्। तमसः पारं दर्शयति भगवान् सनत्कुमार इत्यत्रापि ब्रह्मसाक्षात्कारप्रतिबन्धकाविद्यानिवृत्त्युपयोगितदुपदेशसंपादकत्वादनुग्राहकत्वम् तन्निवृत्तिश्चोपदेशमात्रादिति वेदान्तिनः। परम्परया निदिध्यासनादिति तार्किकाः।
एवं स्थिते जिज्ञासायां नैतद्वाक्यवक्तुरुपयोगस्तस्या ज्ञानविशेष्यकेष्टसाधनाताज्ञानजन्यत्वात्। नापि उक्तवाक्ये अर्थविशेषविशेष्यकस्वीयजिज्ञासाविषयत्वप्रकारकश्रोतृसमवेतज्ञानसाधनत्वज्ञानेनैव तदुत्पत्तेः। किन्तु प्रष्टव्यार्थनिर्वचनसामर्थ्यप्रदर्शनमात्मनोऽनेन विधीयते ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु सर्वे वा पृच्छतेत्यादिवत्। तच्च न प्रश्नस्वरूपोपयोगि जिज्ञासानिवृत्तेरबुधप्रश्नेनानुपपत्तावपि प्रश्नस्वरूपस्य निर्वाहात्। तथाच यदीयव्यापारो नियोज्यप्रवृत्तिविषयक्रियास्वरूपसिद्धौ उक्तान्य तमविधयोपयोगी स एव प्रयोजक इति सिद्धम्।
एतेन-
द्रव्यमात्रस्य तु प्रैषे पृच्छ्यादेर्लोट् विधीयते।
सक्रियस्य प्रयोगस्तु यदा स विषयो णिचः।।
इति हरिवाक्यं व्याख्यातम् प्रैषशब्देन प्रवृत्तप्रेषणस्य स्पष्टमभिधानात्तस्य यथोक्तार्थ एव पर्यवसानात्।
एतेन प्रयोज्यप्रवृत्त्युपहिता प्रयुक्तिर्णिजर्थः। केवला तुलोडर्थः। यद्वा प्रयोक्तृधर्मः प्रयुक्तिर्लोडर्थः अनियतकर्तृका तुणिजर्थः। पचेति हि वक्तैव प्रेरकः। पाचयतीत्यादौ तु वक्तृभिन्नोपीति अशास्त्रीयवैधर्म्यमात्राभिधानं निरस्तम्। प्रयोज्यस्य प्रवृत्यभावेऽपि पाचयतीत्यादिव्यवहारात् शब्दप्रयोगस्य वक्तृविशेषनियत्वेऽपि प्रेरणस्यैकधर्मत्वादितिदिक्।
अत्र वार्तिककारः कृष्यादिषु चानुत्पत्तिः निर्व्यापारेऽपि पञ्चभिर्हलैः कृषतीतिप्रयोगदर्शनात्तत्रान्यैः कर्षयतीत्यर्थावगमात्। कृषेर्विलेखनार्थत्वात्। णिच्प्रसक्तौ तन्निषेथो वक्तव्यः। यज्यादिषु वा विपर्यासः पुष्पमित्रो यजते याजका याजयन्ति। अत्र हि यजेः प्रक्षेपविशेषार्थत्वात् तत्रचर्त्विजां कर्तृत्वाद्यजमानस्य व प्रयोजककर्तृत्वात्पुष्पमित्रो याजयते याजका यजन्तीति प्राप्तम्। तत्र पुष्पमित्रादिव्यापारे णिजभावो वक्तव्यः।
भाष्यकारास्तु नात्र कृषिर्बिलेखनवृत्तिः किन्तु भक्तबीजबलीवर्दैर्यत्प्रतिविधानं तद्रूपसमर्थाचरणलक्षणव्यापारार्थः। धातूनामनेकार्थत्वात्। अतएव यत्समये उक्तसंविधानकरणं तत्र विलेखनाप्रवृत्तावपि उक्तप्रयोगः संगच्छते। ततश्चोपपदयोगाध्दातुनैव तस्यार्थस्य प्रकाशितत्वान्न णिच्। बिभाषोपपदेन प्रतीयमाने इति तङभावः। विलेखनार्थत्वे तु पञ्चभिर्हलैः कर्षयतीति णिजिष्टएव। यज्यर्थोपि न प्रेक्षेपमात्रं किन्तु त्यागविशेषोऽपि। सच यजमानसाध्य एव तत्प्रयोजकास्त्व्रिजइति सिद्धमिष्टमित्याहुः।
तत्करोत्युपसंख्यानं सूत्रयत्याद्यर्थम्। व्याकरणस्य सूत्रं करोति सूत्रयतीत्याद्यर्थं करोत्यर्थेऽपि णिज्वक्तव्यः। लक्ष्यलक्षणसमुदायो वा व्याकरणशब्दार्थ इति षष्ठी, लक्षणमात्रार्थत्वे तु व्यपदेशिवद्भावेन षष्ठी। इहसत्वार्थस्यापि सूत्र शब्दस्य णिजर्थेन सहैकार्थीभावे व्याकरणेन सह संबन्धानाकाङ्क्षत्वाव्द्याकरणशब्दोत्तरं न षष्ठी किन्तु करोत्यर्थापेक्षा द्वितीयैव। तेन सह सामर्थ्यात्। इदंच प्रक्रियाविभागार्थम्। सूत्रिधातोर्विशिष्टक्रियावचनस्य सत्त्वादितिकैयटः।
आख्यानात्कृतस्तदाचष्चे इति कृल्लुक् प्रकृत्तिप्रत्यापत्तिः प्रकृतिवच्चकारकम्' आख्यानं वृत्तम्। कर्मणिल्युट् तस्मात्तदाच्ष्टे इत्यर्थेणिच् आख्यानान्तर्गतकृत्प्रत्ययनिवृत्तिः प्रकृतेः स्वरूपेणावस्थानं णिजपेक्षया प्रकृतित्वात्कंसवधादिमादाय यथाख्यानक्रियापेक्षं कंसवधादेः कर्मत्वं तथा तन्निरूप्यकर्मत्वाभाववतोऽपि कंसादेरित्युक्तम्। प्रकृतिवद्भावादिदेशनच कंसादेः णिच्प्रकृत्यपेक्षया बहिःकृतत्वात्तस्याङ्गसंज्ञाविरहान्न ततोऽडागमादि। एवंतु वत्करणेन स्वाश्रयकार्यस्यापि प्रवृत्या पुष्ययोगं जानाति पुष्येणयोजयतीति तृतीया। यद्वा प्रकृत्या तुल्यं वर्तते इति प्रकृतेरिववा प्रकृतिवदितिचातिदेशद्वयाश्रयणाल्लक्ष्यानुरोधात्क्वचित्कस्यचित्प्रवृत्तिरित्याश्रयणीयम्। प्रकृतिप्रत्यापत्त्याच नलोपादेरपि निवृत्त्या राजागमनमाचष्टे राजानमागमयतीत्याद्युपपत्तिः। अतएव लुप्यमानकृत्प्रत्ययप्रकृत्यर्थं प्रति यत्कारकं तद्वदिति न व्याख्यातम्। अत्र राज्ञ आगमनं प्रति कर्तृत्वेन कर्मत्वासिद्धेः अतएव क्रियाख्यानमत्र ग्राह्यं नतु संज्ञाभूताख्यानमात्रम्। कंसवधमाचष्टे कंसं घातयति। बलिं बन्धयति कृद्ग्रहणे गतिकारकपूर्वस्यापिग्रहणात्कंसवधादीनां कृदन्तत्वम्।
दृश्यर्थायां प्रवृत्तौ णिज्वाच्यः। कृतस्तदाचष्टे इत्यादिपूर्ववत् एवमुत्तरत्र। मृगान् रमयति। यदारण्यस्थो रममाणान् मृगान् प्रतिपद्यमाचष्चे एतस्मिन्नवकाशे एवंविधा मृगा संतीति तदा प्रतिपाद्यदर्शनार्थाप्रवृत्तेः। यदातु ग्रामस्थो मृगरमणमाचष्टे तदामृगाणामसन्निकर्षान्नदृश्यर्था प्रवृत्ति रितिवाक्यमेव।
आङ्लोपश्च कालात्यन्तसंयोगे मर्यादायाम्। आरात्रिविवासमाचष्टे रात्रिं विवासयति। आङो लोपोऽत्राधिकः। रात्रिनिवृत्तिपर्यन्तं कथाः कथयतीत्यर्थः।
चित्रीकरणे प्राप्यर्थे। आश्चर्यकरणे गम्ये तत्प्राप्नोतीत्यर्थे णिज्वक्तव्यः। उज्जयिन्याः प्रस्थितो माहिष्मत्याम् सूर्यमुद्गमयति तत्र सूर्योद्गमनं प्राप्नोतीत्यर्थः। एकदिनेन तत्र गमनादाश्चर्यम्।
नक्षत्रयोगे जानात्यर्थे। पुष्ययोगं जानाति पुष्येण योजयति। मघाभिर्योजयति। पुष्यो योगक्रियाकर्ता सहि चन्द्रं संबध्नाति। उभयप्राप्तौ कर्मणीति नियमात्षष्ठ्यभावे तृतीयासमासः। कंसं घातयतीत्यादौ सन्नियोगशिष्टन्यायेन कृत्प्रत्ययाभावाद्वधादेशनिवृत्तावपि अत्र कुत्वस्य सन्नियोगशिष्टत्वाभावात् तन्निवृत्त्यर्थं प्रकृतिप्रत्यापत्तिवचनम्।
वस्तुतस्तु सर्वत्र हेतुमतिचेत्येव पराधीनप्रवृत्तेरपि।
निमित्तेभ्यः प्रवतन्ते सर्व एव स्वभूतयः।
अभिप्रायानुरोधोऽपि स्वार्थस्यैव प्रसिद्धये।।
इति वाक्यपदीयोक्तरीत्या परम्परया स्वार्थपरत्वपर्यवसानात्। गुर्वादेराज्ञाकरणेन हि ऐहिकामुष्मिकफलसंपत्तेः प्रयोज्यत्वस्य च प्रयोजकाभिप्रायानुवृत्तिनिबन्धनत्वात्। त्वरया माहिष्मतीं प्राप्नुयामित्यभिप्रायस्य सृर्येण स्वोदयद्वारा संपादनात्। नचकंसं घातयतीत्यादौ चिरातीते वर्तमानत्वान्वयायोगात् वार्तिकावश्यकत्वमिति वाच्यम्। कंसाद्यनुकारिणां नटानां व्यारव्यानोपाध्याध्यैः शौभिकपदाभिधेयैर्धातनात्। कंसपदस्य सामाजिकवृत्तिकंसत्त्वप्रकारकज्ञानविशेष्यनटपरत्वात्। चित्रेष्वपि उद्गूर्णनिपातितप्रहारदर्शनात्। कथकेष्वपि वुद्धिविषयत्वेन वर्तमानव्यपदेशात्। तदुक्तं हरिणा-
शब्दोपहितरूपांस्तान् बुद्धेर्विषयतां गतान्।।
प्रत्यक्षानिव केसादीन् साधनत्वेन मन्यते।।
अतएव तद्दर्शनादिना यथायोग्यं तद्विषयकरागद्वेषादीनां तत्कार्याणां चोपलम्भ इति भाष्यम्।
इति श्रीसिद्धान्तसुधानिधौ तृतीयाध्यायस्य प्रथमे पादे द्वितीयाह्निकम्।