सामग्री पर जाएँ

श्रीसिद्धान्तसुधानिधिः/अध्यायः ३-पादः १/आह्निकम् ३

विकिस्रोतः तः
← आह्निकम् २ श्रीसिद्धान्तसुधानिधिः
आह्निकम् ३
[[लेखकः :|]]
आह्निकम् ४ →

तृतीयाध्याये प्रथमपादे तृतीयमाह्निकम् ।। 3 ।।
कण्ड्‌वादिभ्यो यक् ।। 27 ।।
एभ्यो धातुभ्यः स्वार्थे यक्। एते द्विविधा धातवः प्रातिपदिकानि च। यदि हि धातव एव स्युः तदा केषाञ्चिद्दीर्घपाठवैयर्थ्यम्। अकृत्सार्वधातुकयोरितिदीर्गसिद्धेः। प्रातिपदिकमात्रत्वेतु यकः कित्वानर्थक्यम्। आर्धधातुकत्वाभावादेव गुणाप्रसक्तेः। किञ्चकण्डूर्मन्तूरित्यादौयग्रहतिप्रयोगो नस्यात्। यको नित्यत्वात्।
ननुयगन्तादेव क्विपाउक्तरूपसिद्धिः। नचाल्लोपस्य स्थानिवत्त्वादुवङपत्तिः। क्वलुगुपधात्वचङ्‌परनिह्नासकुत्वेषु तन्निषेधात्। नचक्वौ लुप्तमित्यस्य क्वाचित्कत्वादुवङश्चक्विनिमित्तकत्वाभावात्स्यादेव स्तानिवत्त्वमिति वाच्यम्। उवङि कृतेऽपि वकारस्यऊठ्‌संभवात्। वकारस्यादिष्टादचः पूर्वत्वेन तस्मिन् कर्तव्येऽल्लोपस्य स्तानिचत्त्वाभावेन कित्प्रत्ययपरत्वात्। अतएव पुनरुवङोऽप्रवृत्तिः इतिचेत् न, कण्डुवौ कण्डुव इत्यादिप्रसङ्गात्। ओः सुपीत्यस्य यणादेशस्यासंयोगपूर्वपरत्वात्। कण्डूवेत्यत्र नोङ्‌धात्वोरिति विभत्तयुदात्तनिषेधप्रसङ्गाच्च। वल्गुर्मन्तुरित्यादौ दीर्गापत्तेश्च। तस्य यलोपापेक्षयाऽन्तरङ्गत्वाच्च। वलादित्वाभावेन यलोपानापत्तेश्च। नच क्विलोपात्पूर्वं यलोपः। परत्वान्नित्यत्वाच्च क्विपोलोपस्य बलवत्त्वात्। वलीति वर्णाश्रये प्रत्ययलक्षणाभावाच्च। इदंचवेरपृक्तलोपात्पूर्वं वलिलोप इत्यनाश्रित्योक्तम्। तदादरे त्वयं दोषो बहिः कार्यः। नन्वेवं वावचनं करिष्यते तथाच यगभावपक्षे सर्वेषअटसिद्धिः। नचयगन्तात्क्पिपि तत्राप्येतद्दोषतादवस्थ्यमितिवाच्यम्। कण्डूरित्यत्र कर्त्रर्थानवगमादेभ्यो यगन्तेभ्यः क्विबनुत्पत्तेः। मैवम्। संपदादित्वाद्भावे क्पिपो दुर्वारत्वात्। अतएव क्रियायां कण्डूयतीति, वेदनामात्रे कण्डूरिति प्रयोगः संगच्छते। तदुक्तम्।
धातुप्रकरणाद्धातुः कस्य चासंजनादपि।
आहचायमिमं दीर्घं मन्ये धातुर्विभाषितइति।
व्यारव्यातप्रायम्।
यत्तु प्राञ्चः कण्ड्‌वादिभ्यो यक्‌स्य (त्स्वार्थेः कृञर्थे। कण्डूं करोति कण्डूयति। तत्र वन्दन्ति। यग्‌विधेरनन्तरं एतदारम्भात् धातोरेवयग्विधनम्। अतः प्रातिपदिकाद्विधानं करण इत्यस्यानुवर्तनंच न तदनुरुद्धम्। हेतुमति गुपूधूपेति पूर्वोत्तरसूत्रयोर्धातुग्रहणान्वयस्य निर्विवादत्वाच्च। आर्द्धधातुकसंज्ञारूपफलस्य यङादि विषयक्यपि विस्पष्टत्वाच्च। सुख्यतीत्यादावतोलोपस्यान्यथानुपपन्नत्वाच्च। एतेन यकः कित्वमार्धधआतुकत्वमेव ज्ञापयत्यावस्यकत्वात् लाघवाच्चातो नोक्तदोष इति तदभिप्रायकल्पनमपास्तम्। अप्रकृतस्यार्द्धधातुकत्वस्य कल्पने प्रकृतधात्वधिकारक्यागेच गौरवस्य विपरीतत्वात्। कण्ड्‌वादिद्वैविध्यस्यतैरपि स्वकृतस्यानुपपत्तिप्रसङ्गाच्च।
नच यगन्ताः सन्तो धातवः केवलास्तु प्रातिपदिकानि। यद्वा यगन्तधात्ववयवेषु तेषु धातुशब्दो गैणः प्रत्ययसदसद्‌भावाभ्यामवस्थाभेदाच्च द्वैविधअयमिति वाच्यम्। यक आगमत्वाभावेन तद्विशिष्टाः करड्‌वादय इति वचनस्य व्याहतत्वात्। कण्ड्‌वादय इत्यस्यय ग्विशिष्टसमुदायपरत्वेऽपि तस्य प्रातिपदिकत्वाभावस्य स्पष्टत्वात्। एतादृशद्वैविध्यस्य क्यजादिप्रकृतिभूतप्रातिपदिकमात्रसादारण्येन विशिष्योल्लेखानर्हत्वाच्चेति केचित्।
इदंत्विह वक्तव्यम्। कण्ड्‌वादीनां प्रातिपदिकमात्रत्वं यकस्तत्प्रकृतिकवैकल्पिकत्वं चेति तावदाशङ्कायां भाष्यारूढमेव। कित्वनिषेध्यगुणप्रसञ्जकत्वेनार्धधातुकत्वमुभाभ्यामेव कल्पनीयम्। प्रकृतेर्धातुकल्पनद्वारा साक्षाद्वेति तु भेदः। नचोक्तरीत्या सा र्वधातुकत्वमप्याक्षिप्येत। गुणप्रसक्तेस्तावतापि निर्वाहात्। प्रकृतेर्धातुत्वाक्षेपे त्वार्द्धधातुकत्वमेव सिध्यति सार्वधातुकत्वबाधादिति वाच्यम्। तिङ्‌त्वाशित्वाभावो धातेर्विहित्वाभावश्चेत्यंशद्वयेन सार्वधातुकत्वाभावनिर्णयात्। अशद्वयबाधापेक्षया धातोर्विहितत्वाभावज्ञानबादेनार्धधातुकत्वकल्पनाया एव युक्तत्वात्। सुख्यदीत्यादावतोलोपानुरोधाच्च। अतएव सन्सूत्रेऽङ्गपरिमाणज्ञानस्य कर्मणइत्यनेन सिद्धान्तः। यगन्ताः कण्ड्‌वादय इत्यत्रापि न व्याघातः आगमाभिप्रायेण तथाप्रयोगो नतुप्रकृत्यभिप्रायेणेति चेत् अत्रापि यगन्तधात्ववयवेषु गौणत्वस्योक्तत्वात्। कण्ड्‌वादयो द्विविधा इत्यत्र कण्डू इत्यादिशब्दस्वरूपमात्रस्योभयानुगतस्य विवक्षितत्वात्। तच्च क्वचिद्धात्ववयवभूतं क्वचिच्च न तथेत्यस्य द्वैविध्यग्रम्थार्थत्वात्।
एतेन कण्ड्‌वादय इत्यस्य यग्विशिष्टसमुदायपरत्वे तस्य प्रातिपदिकत्वाभाव इति दूषणमपास्तम्। विभाजकोपाधेरेव विभाज्योपाधित्वस्य सहृदयेन शङ्कितुम्प्यशक्यत्वात्।
एतेन द्वैविध्यस्य तेनाप्युक्तौ प्रातिपदिकाच्च युगत्पत्तौ केवलधातोः कण्डवतीत्यादि निरस्तम्। प्रातिपदिकत्वमात्राभिप्रायेण ग्रन्थव्याखअयायामुक्तदोषस्य निरनुयोज्यानुयोगत्वात्।
कण्ड्‌ गात्र विघर्षणे। मुन्तुरपराधे रोषेच। वल्गु पूजामाधुर्ययोः। असूञ् उपतापे। मनसउपताप इत्यन्यः पाठः। अर्थनिर्देशान्तर्गतं मनस्पदमिति दीक्षिताः। धात्वन्तरमेवेत्यन्ये। असू अस्‌ इतिकेचित्। अस्यति असूयति। लेट् लोट्‌धौर्त्ये पूर्वभावे स्वप्नेच। पूर्वेत्यपि धातुरिति केचित्। लेट्यति लोट्यति। लेलादीप्तौ। ध्यायतीव लेलायतीवेतिश्रुतौ चलतीवेति वेदान्तिनः। इरस् इरञ् इरज् ईर्ष्यायाम्। इरस्यति। हलिचेति दीर्घः। ईर्यति। ईर्यते। उषस्‌प्रभातीभावे। वेद धौर्त्यस्वप्नयोः। मेधा आशुग्रहणे। कुषुभ क्षेपे। मगध परिवेष्टने। नीचदास्ये वा। तन्तस्‌पम्पस् दुःखे। सुखःदुख तत्क्रियायाम्। सुख्यति। दुख्यति। तदनुभवतीत्यर्थः। सपर पूजायाम्। सपर्यति। अरर अराकर्मणि। भिषज चिकित्सायाम्। भिष्णज् उपसेवायाम्। इषुध शरधारणे। चरण गतौ। खुरण धौर्ये। तुरण त्वरायाम्। भुरण धारणपोषणयोः।
कमर्थिनः कुषुभ्यन्तु कं मगध्यन्तु मागधाः।
कमिषुध्यन्तु यज्वानो रामोऽरण्यं भुरण्यती-
त्यत्र गमनार्थः। गद्गद वाक्‌स्खलने। एला केला खेला विलासे। इलेत्यन्ये। लेखा स्खलने च। अदन्तत्वपक्षे लेख्यति। लिट अल्पकुत्सनयोः। लिट्यति। लाट जीवने। हृणीञ्‌रोषे लज्जायांच। महीङ् पूजायाम्। स्वर्गलोके महीयते। पूज्यो भवतीत्यर्थः। रेखा श्लाघासादनयोः द्रवस् परितापपरिचरणयोः। तिरस् अन्तर्धौ। अगद नीरोगत्वे। उरस् बलार्थः। तरण गतौ। पयस् प्रसृतौ। संभूयस् प्रभूतभावे। अम्बर संबर भरणे। आकृतिगणोऽयम्।।
गूपूधूपविच्छिपणिपनिभ्य आयः ।। 28 ।।
एभ्य आयप्रत्ययः। गुपूरक्षणे। धूपसंताषे। विच्छ गतौ। पण व्यवहारे स्तुतौ च। पनच। गोपायति। धूपायति। इत्यादि। पणायति। पनायति। अनुदात्तेत्त्वस्य केवले चरितार्थत्वान्न तङ्। तेन पनायते इत्यात्मनेपदमुदाहरन् क्षीरस्वामी चिन्त्यः। नचपनेरप्यर्थद्वयमिति। वाच्यम्। पृथङ्। निर्देशवैयर्थ्यादिति जयादित्यसीरदेवदीक्षितादयः।
केचित्तु तन्मते धात्वर्थनिर्देशस्याधुनिकत्वाङ्गीकारादर्थनिबन्धनसाहचर्याश्रयणमयुक्तम्। अर्थद्वयपठितस्य पणेः पनिसाहचर्येणार्थावधारणासंभवाच्च। स्तुत्यर्थेऽनयोः सहपाठाबावात्। नचैवं पञ्चम्यपाङ्‌परिभिरित्यत्रापि साहचर्याद्वर्जनार्थस्यैव परेर्ग्रहणमिति सिद्धान्तविरोधः। तयोरपपरी वर्जने इति सूत्रे पाठादेव वर्जनार्थे साहचर्यस्य दृष्टत्वेनार्थभेदमाश्रित्य तन्निर्णयोपपत्तेरित्याहुः। नचोपलेभे वणिजां पणायामिति भट्टिः।।
ऋतेरीयङ् ।। 29 ।।
स्वार्थे। ऋतीयते। ऋते इति तान्तः सौत्रो धातुः जुगुप्साकृपयोर्वर्तते। ऋतीयते स्यात् घृणयोरितिभट्टम ल्लोक्तेः। जुगुप्सा करुणे घृणे इत्यभिधानात्।
अर्तनं च ऋतीयाच ऋणीया च घृणार्थकाः।
इत्यमरः। तान्तत्वं च वञ्चिलुञ्च्यृतश्चेति निर्देशात्‌इतिकेचित्।
अन्येतु ईयङो दीर्घोचाचरणं तत्र लिङ्गम्। इदन्तत्वे हि इयङमेव कुर्यात्। सर्वणदीर्घेणेष्टसिद्धेरित्याहुः। तन्न एरनेकाच इति यण्‌प्रसङ्गात्।
नचाकृत्सर्वेतिदीर्घेण यङैव सिध्येदिति ताच्यम्। सन्यङोरिति द्वित्वापत्तेरिति कोचित्। तन्न सन्‌साहचर्येणार्थविशेषवाचकस्यैव यङः तत्र ग्रहणसंभवात्। नच स्वार्थिकस्यापि सनचकस्यैव यङः तत्र ग्रहणसंभवात्। नच स्वार्थिकस्यापि सनस्तत्र ग्रहाद्दोषतादवस्थ्यम् तथापि ङकारफलस्यात्मनेपदस्यादितो ङित्वेनापि संभावात्। ङ्यप्रत्ययविधानेन सिद्धेः।। ङिदन्तत्वस्य समुदाये सुलभत्वात्। अन्यथा भ्राजधातोर्ऋकारस्य प्रागपि पठितुं शक्यत्वादित्यादेरनुपपत्तेः।।
कमेर्णिङ् ।। 30 ।।
स्वार्थे। कमु कान्तौ। कामयते। अथ णकारोऽत्र व्यर्थः। किङतिचेति निषेधेन वृध्यर्थत्वानुपपत्तेः। नच णकारसामर्थ्याद्वृद्धिः। णेरनिटीत्यत्र सामान्यग्रहणार्थत्वेन सामर्थ्यापक्षयात्। नच तत्रैव सामान्यग्रहणविघातार्थत्वेन ङकारोऽपि चरितार्थः। तन्मात्रस्यानुबन्धान्तरेणापि संभवात्। आत्मनेपदार्थत्वेन ङस्य चरितार्थत्वाच्च। तथाच द्वयोः सावकाशतया वृद्धिनिषेध एव। विध्यपवादत्वेन निषेधानां बलीयस्त्वात्।
स्यादेतत् नकम्यमिचमामिति मित्त्वनिषेधात् कमेर्न वृद्धिनिषेधोऽन्यथा ङित्वादेव वृद्धिनिषेधतादवस्थ्ये मित्त्वप्रतिषेधवैयर्थ्यात्। अथ कामयमानं प्रयुङ्क्ते इति णिङन्ताण्णिचि णिनिमित्ताया वृद्धेर्हस्वत्वं माभूदित्येतदर्थत्वेन सार्थक्यम्। नचणिज्निमित्तवृद्धेरर्ह्रस्वत्वमेव न प्राप्नोति णिङा व्यवधानादिति वाच्यम्। णेरनिटीति लोपे तदभावात्। नच स्थानिवद्भावादिति वाच्यम्। तथापि णिजनमित्तवृद्धेर्णङ्‌निमित्तह्रस्वत्वं माभूत् इत्यर्थकत्वेन चरितार्थत्वात्।
अथ तत्र ह्रस्वत्वमेव न प्राप्नोति। अन्तरङ्गे ह्रस्वे कर्तव्ये बहिरङ्गाया वृद्धेरसिद्धत्वादिति चेत्। तथापि णिज्कनिमित्तवृद्धेर्णिङा व्यवधानेन तदन्ते प्रसक्त्यभावात् लोपे कृतेऽपि स्थानिवद्भावात्। नच क्विलुगुपधेति उपधाविधौ स्थानिवद्भावनिषेध शङ्क्यः। प्रत्ययविधिमात्रविषयत्वात्। अतएव पटयतीत्यादौ टिलोपस्य स्थानिवद्भावान्नोपधावृद्धिः। तस्माण्णिज्‌निमित्तवृद्धेर्णिङन्ते प्रसक्त्यभावान्न तस्या ह्रस्वत्वनिषेधार्थं मित्त्वप्रतिषेधः सार्थक इति चेन्न।
तथापि चिण्णमुलोदीर्घोऽन्यतरस्यामिति दीर्घत्वं कमेर्णिङि माभूदित्येतदर्थं मित्त्वप्रतिषेधप्रवृत्तेः। नच तत्र ह्रस्वविकल्प एव विधेयः। अशमि, अशामीत्यनयो र्ह्रस्वे तदभावे स्वाभाविकवृध्द्यवस्थाने च सुलभत्वात्। तथाच तदर्थं मित्त्वप्रतिषेधस्य नोपयोग इति वाच्यम्। ण्यन्ताण्णौ कृते पूर्वंणिलोपे स्तानिवद्भावेन णिचा व्यवधानात्तत्र ह्रस्वस्य दुर्लभत्वापत्तेः। दीर्घविधाने तु नपदान्तेति सूत्रेण दीर्घविधौ स्थानिवद्भावनिषेधात्तत्सिद्धिरिति वैषम्यम्।
किञ्च आयादिनामार्धधातुके वैकल्पिकत्वाद्‌णिङन्तात्कमेर्यदा णिच् क्रियते तदा मित्त्वनिषेधोऽर्थवानेवेति वृद्धिप्रतिषेधौ दुर्वार इति।
अत्र वार्तिकम्-तद्धितकम्योरिक्‌प्रकरणादिति। इग्लक्षणयोरेव गुणवृध्योः ङ्कितिचेत्ययं निषेधः। अत उपधाया वृद्धिस्तु नेग्लक्षणा। अतइति स्थानिनिर्धेशात्। एवं नडादिभ्यः फकि कृते नाडायन इति कितिचोति वृद्धिरपि इत्यर्थः।।
आयादय आर्धधातुके वा ।। 31 ।।
इह परसप्तमीत्वे पक्षद्वयं संभाव्यते। यदैतद्वाक्यनिरपेक्षैरायादिविधिवाक्यैः परनिमित्तानपेक्षा आयादयो विधीयन्ते तदाऽऽयादिभ्यो यदार्धधातुकं तस्मिन् परेऽनेन तेषां पाक्षिकी निवृत्तिः क्रियते। शब्दानां नित्यत्वेऽपि प्रक्रियादशायां क्वचितुत्पन्नस्य लोपादिना निवृत्तिः। क्वचिदपवादविधिना तद्विषये उत्सर्गस्यानुत्पत्तिर्ज्ञाप्यत इति निवृत्तिपक्षस्याप्युपपत्तेः। अथ तद्योगस्य सूत्रत्रयशेषतया एतदेकवाक्यतया तेषां प्रवृत्तिस्तदा आयादिप्रकृतिके आर्धधातुके परत आयादयो विकल्पेनोत्पद्यन्ते इति पक्षः। नचैवं सार्वधातुके आयादीनां दौर्लभ्यम्। गुपूधूपेत्यत्रैवार्धधातुके वेति वक्तव्ये पृथक्‌पाठसामर्थ्यात्सार्वदातुकेऽप्यायादयो भवन्तीति विज्ञानात्। तत्राद्ये गोपायांचकार। गोपायति न स्यात्। गोपायशब्दस्य प्रत्ययान्तत्वात्। अकारेण क्तिनो बाधात्। गुप्तइत्यत्र क्तप्रत्यये परे आयस्य पाक्षिकनिवृत्तौ प्रत्ययलक्षणेन लधूपधगुणप्रसङ्गश्च। नचात्र सूत्रे लोपशब्देन लोपानुपादानान्न प्रत्ययलक्षणत्वमिति वाच्यम्। प्रत्ययलोपसूत्रेलोपसंत्रासूत्रे च तद्भावितग्रहणस्यानाश्रित्वात्। द्वितीये तु गोपायांचकारेत्यस्यासिद्धिः। प्रत्ययान्तत्वं विनामो दुर्लभत्वात्। आमनुत्पत्तौ च निमित्ताभावादायप्रत्ययानुत्पत्तेः। अथायादिप्रकृतेर्यदार्धधातुकं लिट् तस्मिन् परे आयादिविकल्पप्रवृत्तेस्तेषां च विकरणवदाम्‌मध्यपातित्वादेतत्सिद्धम्। तथापि गोपायेति न स्यात्। प्रत्ययान्तत्वाभावादप्रत्ययादित्यस्याप्रवृत्तेः।
अत्र वार्तिकम्-सिद्धं तु सार्वधातुके नित्यवचनात्। अविशेषेणायादिन् विधाय सार्वधातुके नित्यमिति वचनमारब्यम्। नन्वेवं स्यादिभिरायादीनां बाधप्रसङ्गः, करिष्यति इत्यादौ गोपायतीत्यादौ च परस्परपरिहारेणोभयेषां सावकाशतया गोपायिष्यतीत्यादौ परत्वात्स्यादीनां प्राप्तेः गोपायतीत्यत्र प्रयोजनाभावेन शपोऽनुत्पत्तेरिति चेन्न। तत्रापि गोपायतीत्यत्र शप्‌श्यनोर्नित्यमित्येतदर्थं शप अवश्यकत्वात्। लक्षणसत्त्वाच्च। कामयते इत्यत्रशपं विना इष्टसिद्धेश्च। तथाच निरवकाशत्वादेव तत्रायादीनां सिद्धेः। अथैवमपि आयादिभिः स्यादीनां बाधो दुर्वार इति चेत् तर्हि शपि नित्यमित्येव वचनं कर्तव्यम्। नचैवमपि विच्छेस्तौददिकत्वादसंग्रहः स्यादिति वाच्यम्। शिति नित्यमित्येव सूत्रणीयत्वादिति।
भाष्यकारास्तु आर्धधातुके इति विषयसप्तमी। ततश्चार्धधातुकविवक्षायापेव गुपादिभ्यो वैकल्पिकेष्वायादिषु कृतेषु यथाप्राप्तं प्रत्यया भविष्यन्तीति सूत्रभेदो नाश्रयणीय इत्याहुः।।
सनाद्यन्ता धातवः ।। 32 ।।
सन् क्यच् काम्य् क्यङ् क्पष् क्पिप् णिच् णिङ् यङ् यगाय ईयङ् च एते द्वादश सनादयः एतदन्ता धातुसंज्ञाः स्युः। संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणाभावादन्तग्रहणम्। ननु भुवोर्थं वदन्ति भूवादय इति व्याख्यानात्क्रियावाचिनां सनाद्यन्तानामपि धातुसंज्ञा सिद्धा इतिचेन्न। भूप्रभृतयो वासदृशा इत्यर्थमाश्रित्य क्रियावचनत्वे सति गणपठितस्य धातुसंज्ञाविधानात्। अन्यथा हिरुगित्यादावतिव्याप्तेः। नन्वेवं भूवचिख्याञादीनांआदेशानां तन्न स्यात्। यद्यपि भूवचिख्यादयो धातुमध्ये पठ्यन्ते तथाप्यादेशानां तद्भिन्नत्वात्। जग्ध्यादीनां स्वरूपेणापि पाठाभावाच्चेति चेत्। न, स्थानिवद्भावेन तत्सिद्धेः।
अत्र भाष्यम्-हष्यदीनामर्था आदिश्यन्ते सनादिषु। इष्यादयश्च पाठमध्यगता इति तेषामपि स्थानिवद्भावेन सिद्धं धातुत्वम्। नचादेशशब्दस्य रूढतया स्थानिनिवृत्तप्रयोजकस्यैवादेशत्वम्। इष्यादिप्रयोगप्रसङ्गे च सनादीनां न विधानमिति वाच्यम्। आदिश्यन्ते इत्यादेशा इति क्रियानिमित्तत्वात्तस्य। नच षष्ठीनिर्दिष्टस्यादेशः स्थानिवदिति वाच्यम्। षष्ठीग्रहणस्यतत्र निवर्तनात्। नचापवादेषूत्सर्गप्रसङ्गः। तेषामपि स्थानिवत्त्वप्रसङ्गादिति वाच्यम्। शवाद्यपवादनानं श्यनादीनां शित्करणेन तदभावज्ञापनादिति।
अत्र प्रत्यवतिष्ठन्ते। स्थानिवभ्दावेन सनादीनां धातुसंज्ञाविधाने संज्ञाविधौ प्रत्ययग्रहणे तदन्तविध्यभावात्प्रत्ययानामेवाडादिधातुकार्यप्रसङ्गः। तेषामेवेष्याद्यर्थे विधानात्। यङ्‌प्रत्ययसमभिहारविशिष्टक्रियावचनाध्दातोः स्वार्थे। आयादीनांच शुद्ध एव स्वार्थे विधानात्तेषां स्थानिनः कस्यचिन्निवृत्त्यभावात्स्थानिवभ्दावानुपपत्त्या धातुसंज्ञानुपपत्तिश्चेति।
अत्र कैयटः। कर्तुमिच्छतीति करणाङ्गे इत्यर्थे सर्वे सर्वपदादेशा इति न्यायाद्वर्तमानस्येषेः प्रसङ्गे चिकीर्षशब्दः सनन्त आदिश्यते इति सिद्धं तदन्तस्य धातुत्वम्। एवं समभिहारविशिष्टलवनक्रियावाचिलृशब्दप्रसङ्गे लोलूयशब्दो, गुपेः प्रसङ्गे गोपायशब्दश्चादिश्यते इति भगवतो भाष्यकारस्याभिप्राय इति। ननु भूवादयो धातव इत्यत्र सनाद्यन्ताश्चेतिन्यासे यद्यपि सनादीनामियत्ता न लभ्यते तथापि सनाद्यन्ता धातव इत्यनन्तरं भूवादयश्चेति सूत्रणीयम्। एकवारं धातुपदोपादानेन लाघवादिति चेत्। तथैव युक्तमिति केचित्। तच्चिन्त्यम्। अनुदात्तङित इत्यत्र धातुग्रहणानुवृत्तेः कैयटादिप्रसिद्धत्वात्। अत्रैव तदारम्भे च तस्या दुर्लभत्वात्।
स्यतासी लृलुटोः ।। 33 ।।
लृ इति लृङ् लृटोः सामान्यग्रहणम्। यथाक्रमं लृलुटोः स्यतासी स्याताम्। भविष्यति। भविता। आर्द्धधातुकस्येडवलादेरिति इट्।
ननु विकरणानां कउत्सर्गः कोऽपवादः। नच यगुत्सर्गः। भावकर्मग्रहणानुवृत्त्या सार्वधातुकमात्रे विधानात्। शबादयः स्यादयश्च तदपवादा विशेषविहितत्वादिति वाच्यम्। पचति पचत हत्यादौ अपवादयोः शबादिस्ययोः सावकाशतया पक्ष्यतीत्यत्र परत्वाच्छवादिप्रसङ्गात्। किञ्च भावकर्मणोर्यग्विधानान्न तयोरुत्सर्गापवादभावः। समानविषयकत्वाभावात्। नच यक्‌शपावुत्सर्गौ श्यनादयो अपवादा इति वाच्यम्। दीव्यति पक्ष्यतीत्यादौ द्वयोः सावकाशयोः देविष्यतीत्यादौ परत्वाच्च्यनादिभिः स्यादीनां वाधप्रसङ्गात्। मैवम्। श्यनादयः शपआदेशाः शप्‌स्यादिभिर्बाध्यते इति दिवादिभ्यः स्यादिविषये शप एवाप्रसक्त्या तदादेशानां श्यनादीनां प्रसक्त्याभावात्। कर्तरिशबित्यतोऽनुवृत्तस्य शप्‌पदस्य दिवादिभ्य इति पञ्चम्या तस्मादित्युत्तरस्येति षष्ठ्यन्तत्वकल्पनात्। यद्वा सार्वधातुके यक्। स्यतासील़लुटोः च्लिलुडि च्लेः सिच् एवं कर्तरिशबत्यस्मादनन्तरं। एवं दिवादिभ्यः श्यनित्यस्मात्। एवमन्यत्राप्यवधेयम्।
यद्वा लावस्थायामेव स्यादय इत्यन्तरङ्गाः। सार्वधातुके श्यनादय इति बहिरङ्गाः। ननु स्यादिभ्यः परत्वाल्लादय एव स्युः। नचतेषामनित्यत्वम्। कृतेष्वपि स्यादिषुआतृतीयपरिमाप्तेर्धात्वधिकारेऽपि धातोर्विहितस्य लस्येति विहितविशेषणाश्रयणाल्लादेशानां प्रसङ्गात् मैवम्। लादेशोत्तरभावित्वेऽपि स्यादीनामन्तरङ्गत्वानपायात्। तद्विधौ सार्वधआतुकत्वादेः प्रत्ययधर्मस्य कर्त्रादेर्थविशेषस्य वानपेक्षितत्वात्। श्यनादिविधौ तु तस्याश्रितत्वेन तेषां बहिरङ्गत्वात्।
अवश्यंच लादेशानन्तरं स्यादिविधिरभ्युपेयः। अन्यथा तासेः परस्य लसार्वधातुकस्यादात्तविधानं `विकरणस्वरः धातुस्वरं न बाधते' इत्यत्र ज्ञापकं न स्यात्। लावस्तायां तासेः परस्य सार्वदातुकस्यानुदात्तत्वमप्राप्तमेवेति तस्यापूर्वविधित्वमेव स्यात् लादेशोत्तरं तासिप्रवृत्तौ तु तदुदात्तस्यैव सतिशिष्टत्वात्तत्परस्य सार्वधातुकस्य शेषनिघातेनानुदात्तत्वं सिद्धमेवेति वैयर्थ्यप्रसङ्गादनुदात्तविधानमुक्तार्तज्ञापकं संपद्यते।
एतेन संख्याशास्त्रात्मनेपदपरस्मैपदशास्त्राभ्यां सह लादेशविधानस्यैकवाक्यत्वात् लादेशानां बहिरङ्गत्वात् लावस्थायामेवान्तरङ्गात्वात्प्रतिपदविधानाच्च स्यादयो भवन्तीति निरस्तम्। उक्तज्ञापकानुपपत्तेरिति कैयटः।
सिब्बहुलं लेटि ।। 34 ।।
लेट् छन्दसि वक्ष्यते। सिबुत्सर्गः छन्दसि सनाद्यन्ते वाच्यः। परिनिमित्तमनुपादाय सनादिवर्गे धातोः सिब्विधेयः। तदन्तस्य धातुसंज्ञायां इन्द्रे वस्तेन नेषतु इत्यादि सिद्धम्। नीधातोः। सिपि गुणे लोट्। गेषृनेषृभ्रेषृहेषृगतावित्यत्र नेषतेरपि प्रकृत्यन्तरत्वात्सिद्धमितिवेत् तथापि अवयासिसीष्ठ इत्यत्रैकाज्‌लक्षणेट्‌प्रतिषेधो माभूत्। यातेरवपूर्वात्सप्। लिङ् सुट् सीयुट्। सबन्तस्याङ्गस्यानेकाच्त्वादिट्। नच सिपैवानेकाच्त्वमस्त्विति वाच्यम्। श्रवणप्रसङ्गेन तस्योच्चारणार्थत्वस्यावश्यं वाच्यत्वात्। तदन्तस्य धातोरेकाच्त्वादिट्‌प्रतिषेधापत्तेः।
अथ याशब्द उपदेशेऽनुदात्तः न तस्मात्परमार्द्धधातुकम्। सिपा व्यवधानात्। सिवन्ताञ्च परमार्धधातुकं नत्वसावुपदेशेऽनुदात्त इति चेत्। मैवम्। सनाद्यन्ता धातव इतयस्य सनाद्यवयवा धातुसंज्ञा इत्यर्थे सिपो याद्यवयवत्वात् यातिग्रहणेन ग्रहणादिट्‌प्रतिषेधप्रसङ्गात्। स्थानिवत्त्वेन तत्सूत्रप्रत्याख्यानपक्षेऽपि स्थानिवद्भविन सिबन्तस्यानुदात्तत्प्रसङ्गात्।
अथवा यथान्यासपाठापेक्षमिदं भाष्यम्। यद्यप्यतोलोप इति लोपावश्यकत्वात्सबकारश्रवणं न कुत्रापि ततश्च तदनुबन्धः पकारो व्यर्थः। अनुदात्तस्य श्रवणाभावात्। तथापि सकारमात्रे कृते छन्दस्युभयथेति आशिषि लिङोऽ
पि सार्वधातुकत्वाददुपदेशात्परस्य लसार्वधातुकस्यानुदात्तत्वे सति प्रत्ययस्वरेण वा सशब्दाकारस्योदात्ततया तस्यानुदात्त इटि परेऽतोलोप इति इटउदात्तनिवृत्तिस्वरेण उदात्तत्वं स्यात्। पकारोच्चारणे तु तत्सामर्थ्यात्सकाराकारस्य धातुस्वरेणोदात्तत्वं न भवति। एवत्प्रदेशपाठाद्वा याशब्दस्यैव धातुस्वरः तथाचानुदात्तस्य सशब्दाकारस्य लोपो नतूदात्तस्येति उदात्तनिवृत्तिस्वराभावः। तिङ्‌ङतिङ इति निघातो निपातैर्यद्यदीति निषिद्धः अवशब्दस्य तिङिचोदात्तवतीति निघातः।
सिप्‌बहुलं छन्दसि णिद्वक्तव्यः। सविता धर्मसाविषत्। प्रण आयूंषि तारिषत्। षूप्रेरणेइत्यस्मात्तरतेश्च लेट्। णित्वाद्वृद्धिः।
कास्‌प्रत्ययादाममन्त्रेलिटि ।। 35 ।।
कासः प्रत्ययान्ताच्च लिटि परे आम् स्यात् नतु मन्त्रे। अतो ब्राह्मणे भव्तयेव। तंह कश्यपो याजयांचकारेत्यादि। कास्‌ग्रहणे चकास उपसंख्यानम्। चकासामास। नच कास्‌ग्रहणात्सिद्धिः। अत्रत्यकास्‌ग्रहणस्यानर्थकत्वात्। यद्वा कास्यनेकाज्‌ग्रहणं चुल्लुम्प द्यर्थम्। प्रत्ययग्रहणमपनीय तत्स्थनेऽकाच इति वक्तव्यम्। चुलुम्पांचकार। चुलुम्प् लोपे इति बोपदेवः।
अम्भोधेर्नारिकेलीरसमिव चुलुकै रुच्चुलुम्पंत्यपो ये।
इति भवभूतिः। वृत्करणं यजादिसमाप्त्यर्थम्। भ्वादिस्त्वाकृतिगण इति सिद्धान्तात्। दरिग्रामास चिकीर्षाबभूव। इत्यादय(ईङन्ता) उदाहार्याः।।
इजादेश्च गुरुमतोऽनृच्छः ।। 36 ।।
इजादे र्गुरुमत ऋच्छत्यन्यस्य धातोर्लिटि परे आम्स्यात्। इन्दामास। एधाञ्चक्रे। गुरुमत आम्विधाने लिण्निमित्तात्प्रतिषेधः। इयेष उवोषेत्यादौ माभूत्। यद्यपि उवोषेत्यत्र उषविदेत्यामा विकल्पेन भाव्यं तथापि द्विबहुवचनयोर्गुणाभावाद्गुरुमत्त्वात्प्रतिषेधे परमिति प्रतिपदविधेश्च बलवत्त्वमनाश्रित्य भाष्यकृतोदाहृतम्। ईषतुरीषुरित्यत्रापि सवर्णदीर्घे गुरुमत्वादिजादेः सर्वत्र गुरुमत्वादाम्प्रसक्तिरिति भावः। गुरुमद्ग्रहणं तु इयजिथ त्वं इयजाहं उपवाहं इत्यादिव्यावृत्त्यर्थं स्यात्।
यद्वा उपदेशे गुरुमत इति व्याख्येयम्। तथाचोक्तवार्तिकमनारभ्यम्। नचैवं व्युच्छाञ्चकारेत्यत्राव्याप्तिः। तुगागमोत्तरमेव तत्र संयोगे गुर्विति गुरुत्वप्रवृत्तेरिति वाच्यम्। ऋच्छेति पर्युदासेन तुङ्‌निबन्धन गुरुमत्वस्योपदेशग्रहणेन व्यावृत्तिर्नेत्यस्य ज्ञापितत्वात्। तुग्ग्रहणंचागममात्रोपलक्षणम्। तेनोखांचकारेति नुमागमनिबन्धनगुरुत्ववतोऽपि तत्सिद्धिः। अतएवानृच्छेतिज्ञापनार्थमेव नतु निषेधार्थम्। ऋच्छत्यॄतामिति गुणविधानेन ऋच्छतेर्लिटि आमभावस्य ज्ञापयितुं शक्यत्वात्। नचाम्विधानेऽपि गुणार्थं तद्विधानमिति वाच्यम्। तस्मिन्निति निर्दिष्टे पूर्वस्येति परिभाषाबाधकल्पनापेक्षया आम्‌विरहज्ञापनस्य लघुत्वात्। नच ऋगतिप्रापणयोरित्यस्य गुणविधानार्थं तदस्तु। नच शित्येव तदादेशविधआनाल्लिटिच तदभावात्तत्परत्वासम्भवः तत्प्रकृतिमात्रपरत्वसम्भवात्। तिष्ठतेरित्। जिघ्रतेर्वेत्यादौ चङि परे तिष्ठजिघ्रयोरादेशयोरभावेऽपि स्ताघ्राधात्वोरुपादानात् तद्वदत्रापि ऋच्छतीति श्तिपा धातुनिर्देश इत्यस्य च वक्तुं शक्यत्वात्। नच तत्र गुणविधानवैयर्थ्यम् द्विर्वचने सवर्णदीर्घेच कृते एकादेशस्य धातुग्रहणेन ग्रहणेऋकारान्तत्वाद्‌गुणे रपरत्वेच अरतुः अरुरिति स्यात्। यणादेशात्‌पूर्वं द्विर्वचनं परत्वात्। स्थानिवद्भावेन यणादेशोत्तरमपि द्विर्बचनप्रवृत्त्या द्वयोरपि नित्यत्वात्। यद्वा। निन्यतुरित्यत्र भाविनं यणमालोच्य यथापूर्वं नेयङ्। एवं द्वित्वे कृते सवर्णदीर्घप्रवृत्त्या न पूर्वं यण्। यणि कृतेतु स्थानिवत्त्वाद्‌द्विर्वचनम्। यणादेशं बाधित्वा परत्वात्सवर्णदीर्घः अभ्यासग्रहणेन ग्रहणे तु उरदत्वं रपरत्वं हलादिः शेषः आतआदेरिति दीर्घत्वं अतोलोप इत्याकारलोपश्चेति आरतुः आरुरिति सिद्धमितिचेन्न।
परत्वादुरदत्त्वस्य प्रवृत्तेः। नच सवर्णदीर्घस्य वर्णमात्राश्रयत्वादुरदत्वस्य चाङ्गाधिकारीयत्वेन परिनिमित्ततया बहिरङ्गत्वात्पूर्वं सवर्णदीर्घ एव स्यादितिं वाच्यम्। प्रागभ्यासविकारे भ्योऽङ्गाधिकाराश्रयणात्। उरदत्वस्याप्यन्तरङ्गत्वात्। ततश्च परत्वान्तरङ्गत्वाभ्यामुरदत्वम्। रपरत्वं हलादिः शेषः। अतआदेरिति दीर्घः। परस्य यण्‌इत्यारतुरित्यादिसिद्धेः। अथ सप्तमाध्यायसमाप्तिपर्यन्तमङ्गाधिकारः बहुवचननिर्देशात्। अन्यथा वव्रश्चेत्यादि न स्यात्। उरदत्वस्य परनिमित्तत्वाभावेऽचःपरस्मिन्नितिस्थानिवत्त्वाभावेन संप्रसारणे इतिनिषेधाप्रवृत्तौ वकारस्य संप्रसारणापत्तेरितिचेत्।
तथापि ऋच्छत्यॄतामित्यत्र ऋऋतामितिप्रश्लेषेणार्तेर्विशिष्यगुणविधानात्। ऋच्छतिपदेन तस्य ग्रहीतुमशक्यत्वात्। नचऋकारनिर्देशे चक्रतुरित्यादावतिप्रसङ्गः वर्णग्रहणेतदन्तग्रहणादिति वाच्यम्। ऋतश्च संयोगादे रित्यस्य नियमार्थत्वात्। तस्माद्विनैवार्तेर्गुणवचनम् आरतुरित्यादि ऋच्छिग्रहणं विनैवार्तेर्लिटि गुणसिद्धिः एवंचानृचत्छ इतिपर्युदासउच्छेराम्बेत्यन्यतरदावश्यकमिति स्थितम्।
भाष्यकारस्तु उभयं न वक्तव्यम्। उपदेशे गुरुमतइत्यस्यानाश्रयणात्। नचेयेषेत्यादावतिव्याप्तिः। सन्निपातपरिभाषया समाधानात्। लिट्संनिपातकृतगुमस्य लिड्‌लोपनिमित्तमामं प्रति निमित्तत्वानुपपत्तेः। आमि सति हेर्लुक्‌प्रसङ्गात्। ऊर्णोतेस्तु नाम्। नुवभ्दावस्योपसंख्यातत्वात्। यद्वा संहितयापाठेनृच्छो दयायासश्चेति, ऋच्छ उकारान्तस्याचाम्‌निषेधात्। लुप्तविभक्ति निर्देशश्चायम्।
दयायासश्च ।। 37 ।।
दय दानगतिरक्षणर्हिसादानेषु। अय गतौ आस उपवेशने एभ्य आम् लिटि। दयांचक्रे। अयांचक्रे। आसांचक्रे।
उषविदजागृभ्योऽन्यतरस्याम् ।। 38 ।।
ओषांचकार। उवोष। विदामास। विवेद। जागरांबभूव। जजागार। विदेराम् किद्वक्तव्यः। तेन गुणाभावः। यद्वा विदेत्यकारान्तत्वम् आम्विधौ सूत्रे संनिपात्यते। तेनलधूपधत्वाभावान्न गुणः। आम्विधावित्युक्तेर्वेत्तीति सिद्धम्। लिट्‌संनियोगेनेत्युक्ते तु विवेदत्यपि नस्यात्। तथाच भारद्वाजीयाः पठन्ति। विदेराम् किन्निपातनाद्वागुणत्वमिति।
भीह्रीभृहुवंश्लुवच्च ।। 39 ।।
ञिजी भये। ह्रीलज्जायाम्। डुभृञ् धारणपोषणयोः। हु दानादनयोः। एभ्यो लिटि वाम्। आमि श्लाविवकार्यंच। श्लुवदतिदेशे प्रयोजनं द्वित्वेऽतिदेशेन गुणः। नलुमताङ्गस्येति निषेधस्य प्रत्ययलोप इत्येतस्य प्राप्तिविषयकत्वात्। बिभयां चकारजिह्रयामास, विभरांबभूव, जुहवामास।
कृञ्चानुप्रयुज्यते लिटि ।। 40 ।।
आमन्ताल्लिट्‌पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते। उदाहरणमुक्तम्। ननु विनापि वचनमनुप्रयोगसिद्धिः। तथाहि आमन्तात्कालविशेषमात्रं गम्यते। नतु साधनसंख्यादि। तथाच तदभिव्यक्त्यर्थं प्रकृत्यन्तरप्रयोग आवश्यकः। तत्र तस्यैव धातोर्नानुप्रयोगः। ओषामुवोषेति। उत्तरेणैव सर्वार्थप्रत्ययादामन्तवैयर्थ्यात् नापि पचत्यादेः आम्प्रकृतिसम्बद्धसाधनाद्यनवबोधात्। कृञस्तु सामान्यवचनत्वादनुप्रयोगः। वृक्षः शिंशपेतिवत्सामान्यविषेशेषयोरभेदान्वयात्तदर्थान्वययोग्यत्वात्। नच भ्वस्त्योरपि सामान्यत्वात्तत्प्रयोगवारणार्थं सूत्रम्। तदनुप्रयोगस्येष्टत्वात्। नच सूत्रात्तदलाभः। कृभ्वस्तियोग इत्यत्र कृशब्देन कृञो ञकारेण प्रत्याहारग्रहणात्। सम्पदाचेति सम्पदेस्तदन्तरभीवेऽपि अनन्वितार्थत्वेन तन्निरासात्। नाप्यात्मनेपदविध्यर्थम्। सिद्धेऽनुप्रयोगे पुनर्वचनमत्यन्तानुगुणस्योनुप्रयोगार्थम्। तेनात्मनेपदप्रकृतेरामन्तस्यात्मनेपदान्त एव करोतिरनुप्रयुज्यते। तथाचम्प्रत्ययवत्सूत्रं नारभ्यमितिवाच्यम्।
परस्मैपदेनापि कर्त्रर्थस्यावगमात्तदन्तानुप्रयोगस्याम्प्रत्ययवदिति सूत्रव्यतिरेकेम दुर्वारत्वात्। नच लट्‌परानुप्रयोगवारणार्थम्। तस्यामन्तार्थभूतकालविरुद्धकालबोधकत्वेनानुप्रयोगप्रसक्तिविरहात्। अनुप्रयोगस्यामन्तार्थाभिव्यक्त्यर्थत्वात्। सांप्रतिकवर्तमानतासंभवेभूत(पूर्व)पूर्वाश्रये लट्‌प्रयोगानुपपत्तेः। नचनिष्ठापरस्यानुप्रयोगवारणार्थम्। पुरुषोपग्रहविशेषानवगमप्रसङ्गेन तदनुप्रयोगवारणात्। नापि लुङ्‌परस्य तद्वारणार्थम्। अनद्यतनकालावबोधात्तन्निवृत्तेः। नापि लङ्‌परस्य तद्वारणार्थम् अनद्यतनपरोक्षबोधापत्तेरेव तदभावात्। नापिहशश्वतोर्लङ्‌वेत्यनद्यतने भूते परोक्षे लङ्‌विधानात्तदन्तानुप्रयोगवारणार्थम्। लिट्‌प्रयोगे तदन्तानुप्रयोगस्यैव न्याय्यत्वात्। लोकवेदयोस्तथैव दर्शनात्। विकल्पितानां खादिरपलाशादिसाधनानां मध्ये येनोपक्रमस्तेनैव समाप्तिविधानात्। उपक्रान्तभ्रंषे तत्प्रतिनिधेरेवोपादानं नतु साधनान्तरस्य। साधनभेदेन क्रियान्यत्वादुपक्रान्तक्रियानिर्वाहविहरात्। लोकेऽपि स्वस्वामिभावप्रतिपादनाय यदा गवांखामीति षष्ट्‌युपक्रान्ता तदाश्वानांचेत्यत्रापि षष्ठ्येव प्रयुज्यते। अश्वेषुइत्युक्ते अश्वेषु तिष्ठतीत्यादेरपि प्रत्ययस्य प्रसङ्गात्।
यत्तु सर्वत्र सन्देहसम्भवात्सप्तम्यन्तप्रयोगोच्छेदापत्तिः। सन्देहनिवर्तकसामग्र्यां तादृशप्रयोगापत्तिश्च दार्ष्टान्तिके सन्देहाभावेन भाष्यविरोधश्च। आमन्तात्परं लङन्तानुप्रयोगेऽर्थान्तरसन्देहाभावादिति। तन्न। सन्देहस्य सार्वत्रिक्तेव मानाभावात्। सप्तम्यन्तोपक्रमे सप्तम्यन्तप्रयोगसम्भवाच्च। तस्माद्योऽर्थोयया शब्दाकृत्या प्रतिपादयितुमुपक्रान्तस्तयैवासौ निर्वाह्यः। प्रतिपत्तिलाघवात्। अन्यथा शब्दान्तरविषयकशक्तिज्ञानादेस्तदतिरिक्तार्थतात्पर्यसङ्कोचार्थं प्रक्रान्तार्थपरत्वादिप्रतिसन्धाने च तद्गौरवप्रसङ्गादिति प्राप्ते-
सिद्धान्तः। विपर्यासनिवृत्यर्थं व्यवहितनिवृत्यर्थंचेति। सिद्धेऽनुप्रयोगे नियमार्थं वचनम्। आमन्ताव्यवह्नितोत्तरमेवानुप्रयोगो न पूर्वं नापि व्यवहितमिति कथं तर्हि `तं पातयां प्रथममास पपात पश्चात्'। `सिन्धोः सोऽप्येकदेशे तमपि चुलुकयां कुम्भयोनिश्चकारे' त्यादि। प्रमाद एवायमिति केचित्। पातं यातीति पातयाः इत्यादिव्याख्येयमित्यन्ये।। तथापि `संयोजयां विधिवदास समेतबन्धु'रित्यनुपपन्नम्। घञन्तत्वे संयोगेत्यापत्तेरिचेत्। न घञर्थे कप्रत्ययस्यानुसन्धेयत्वात्।
प्रकृतमनुसरामः। अनुप्रयुज्यमानयोर्भ्वस्त्योरामन्तानुरोधेन सकर्मकत्वात्कर्मणि लिट्। आमन्तवाच्यक्रियायाः प्राधान्यात्।
तपर्त्तुर्पूतावपि मेदसांभरा विभावरीभिर्बीभरांबभूविरे।
इत्यादिदर्शनात्। अस्तेर्भावकर्मणोर्लिटि कृते एशिइटिच रूपे विप्रतिपत्तिः। उभयत्रापि हएतीति हादेश एधामहे `ईक्षामहे इतिकेचित्। तासिसाहचर्यादिट्‌येव हत्वं तासेरेशोऽसम्भवादित्यन्ये। तत्साहचर्यादेव सार्वधातुके एव एति हत्वं नत्वत्रार्द्धधातुकत्वात्। अत उक्तद्वये एधामासे, ईक्षामासे एत्येव रूपमित्यपरे।
विदांकुर्वन्त्वित्यन्यतरस्याम् ।। 41 ।।
लोटि विदेराम् लोडन्तकरोत्यनुप्रयोगश्च निपात्यते। विदप्रकृतिकस्य लोटो लोपश्च। आम इत्यत्र लेरित्यस्यानुवृत्तौ तत एव लोटोऽपि लोपः। एवमुत्तरसूत्रे लुङ्‌लिङोरपि बोध्यम्। पुरषवचने त्वविवक्षिते। इति शब्दस्य प्रकारार्थस्योपादानात् सादृश्यंतु विदामित्येतदुत्तरप्रयुज्यमानलोडन्तकरोतित्वेन ग्राह्यमते नातिप्रसङ्गः।
विदांकुर्वन्तु महतस्तलं विद्विषदम्भसः।
इति माघः।
किं नस्तेन विदांकरोतु भगवानम्भोजिनविल्लभः।
इति मुरादीः।
एवं विदांकुरु इत्यादि। आमभावपक्षे वेत्तु वित्तात् वित्तां विदन्तु इत्यादि ।।
अभ्युत्सादयां प्रजनयां चिकयां रमयामकः पावयां क्रिया द्विदामक्त्रन्निति छन्दसि ।। 42 ।।
अकरिति लुङन्तकरोत्यनुप्रयोगश्च आद्यचतुष्टये निपात्यते। तत्रापि चिकयामिति शुद्धाच्चिञ आम् द्विर्वचनं कुत्वं च। त्रिभ्यो ण्यन्तेभ्य आम्मात्रमिति विवेकः। अकरित्यत्र तिपि सार्वधातुकगुणः। हल्‌ङ्यादिलोपः। मन्त्रे धसेति सिचो लोपः। अभ्युत् सादयामकः प्रजनयामकः। चिकयामकः। रमयामकः। अभ्युदसीषदत्। प्राजीजनत्। अचैषीत्। अरीरमत् इतिलोके। पिक्षिकं छन्दस्यपीदम्। विकल्पस्यानुवर्तनात्। पावयां क्रियात्। पवतेः पुनातेर्वा ण्यन्तादाशीर्लिङि आम्। तादृशस्यैव कृञोऽनुप्रयोगः तां बैजवापयो विदामक्रन् वेत्तेर्लुङयाम्। लुङन्तकृञोनुप्रयोगः सिचो लुक्। झनतः इतश्चेति लोपः। संयोगान्तलोपः। अवेदिषुरित्यर्थः।
इति श्रीसिद्धान्तसुधानीधौ तृतीयस्याध्यायस्य प्रथमे पादे तृतीयमाह्निकम्।