सामग्री पर जाएँ

श्रीसिद्धान्तसुधानिधिः/अध्यायः २-पादः ४/आह्निकम् २

विकिस्रोतः तः
← आह्निकम् १ श्रीसिद्धान्तसुधानिधिः
आह्निकम् २
[[लेखकः :|]]

चतुर्थपादे द्वितीयामाह्निकम्।।
तद्राजस्य बहुषुतेनैवास्त्रियाम् ।। 62 ।।
तद्राजप्रत्ययस्य लुक्‌स्यात्स्वार्थमात्रकृते बहुत्वे नतु स्त्रियाम्। ऐक्ष्वाकः। ऐक्ष्वाकौ। जनपदशब्दात् क्षत्रियाद्‌ञ् तस्य बहुत्वेलुक् इक्ष्वाकवः। इक्ष्वाकूणां दुरापेऽर्थे इति कालिदासः।
कथं तर्हि ऐक्ष्वाकेषु च मैथिलेषु च फलन्त्वस्माकमद्याशिष इति मुरारिः। अत्राहुः-इक्ष्वाकुषुजनपदेषु भवः। कोपधादण्। अस्य तद्राजत्वाभावान्न लुक्‌ इति। कौख्याः पशवः। तस्यामेव रघोः पाण्ड्या इत्यादौ कौख्ये पाण्ड्येच साधव इति व्याख्येयमिति। रघूणामन्वयं वक्ष्ये, ते यूयं रघवः प्रसिद्धमहसो यैः सोपि देवाधिपः। निरुध्यमाना यदुभिः कथञ्चिदित्यादौ तद्राजत्वाभावादपत्यप्रत्ययस्य लोपानुपपत्तावपि तदपत्ये लक्षणेति ग्रन्थकृतः। वंशत्वं जन्यजनकान्यतरत्वम्। अन्यस्य दुर्वचत्वात्। तथाच रघोरपत्यानां जन्यान् जनकांश्च वक्ष्ये। जनकत्वं साक्षात्परम्परासाधारणम्। जनकत्वेन रघुपर्यन्तानां जन्यत्वेन दशरथादीनां सङ्ग्रहः। तेषामपिरघोरपत्यत्वात् तज्जनकत्वेनाजस्यापि सङ्ग्रह इति न दोषः।
प्रकृतमनुसरामः। इह बहुपदं बहुवचनपर्मर्थपरं वेति संशयः। उभयत्र लिङ्गसद्भावात्। तथाहि-तेनैवेति वचनमाद्ये लिङ्गम्। तद्धि प्रियो वाङ्गो येषां ते प्रियवाङ्गाः इत्यत्र लुको वारणार्थम्। नचतत्संम्भवति। तद्राजस्य बहुत्वे वृत्त्यभावेन लुगप्रसक्तौ तद्वारणायोपायस्यानुपादेयत्वात्। बहुवचनपरत्वे तु तत्र लुक्‌प्रसक्तिः। तथाच तेनैवेत्येतदुपादानं स्वप्रयोज्यनिषेधप्रतियोगिप्रसञ्जकत्वेन बहुषिवित्यस्य बहुवचनपरत्वं ग्राहयतीति फलितार्थः।
द्वितीय त्वस्त्रियामिति लिङ्गम्। तद्धि आङ्यः स्त्रियइत्यत्रलुकोऽप्रवृत्त्यर्थम्। नचोक्तरीत्या तत्रास्ति लुगापत्तिः। स्त्रीप्रत्ययव्यवहितत्वेन बहुवचनस्य तद्राजात्परत्वाभावात्। भवति तु वह्वर्थत्वे आङ्गीशब्दवाच्यानां स्त्रीणां बहुत्वादिति पूर्वपदर्थपरत्वग्राहकत्वमिति। तत्राद्यः पक्षः बहुवचने परे लुगित्ययुक्तः। अन्यथा ह्यस्त्रियामिति निषेधः कर्तव्य इति गौरवम्। एतद्रीत्यातु स्त्रीप्रत्ययव्यवधानादेव तदप्रवृत्तौ निषेधानुपयोगात्। नचाम्बष्ट्यस्यापत्यानि बह्व्यः स्त्रियः आम्बष्ठ्याः वृद्धेत्कोसलाजादादिति ञ्यङ। यङः श्चाबिति चाप्। सवर्णदीर्धः। सचान्तवद्भावान्न व्यवधायक इति लुक्‌प्रसङ्गात्पूर्वपक्षेऽप्यस्त्रियामित्यावश्यकमिति वाच्यम्। अचः परस्मिन्निति स्थानिवद्भावेन लुगप्रसक्तेः।
नच सिद्धान्तेऽपि तेनैवेत्यस्यानुपादानाल्लाघवम्। प्रियवाङ्ग इत्यत्र समासार्थबहुत्वे तद्राजान्तस्य बव्हर्थकत्वाभावादेव लुगप्रसङ्गादितिवाच्यम्। तथापि गार्ग्यश्च वात्स्यश्च वाज्यश्च गर्गवत्सवाजा इत्यादौ लोपप्रतियोगिनोऽपत्यप्रत्ययस्यैकस्मिन्नेवार्थे उत्पन्नत्वात् वह्वर्थत्वाभावाल्लुक् न स्यात्। तदुक्तं द्वन्द्वेऽबहुषु लुग्वचनमिति लुगर्थे वचनान्तरमारम्भणीयं स्यादित्यर्थः। नचपूर्वपक्षेऽपि बहुवचनेपरे लिग्विधाना त्तस्मिन्नितिनिर्देष्टेपूर्वस्येति परिभाषोपस्थाने प्रत्येकस्य बहुवचनपरत्वाभावाल्लोपो न स्यात्। समासादुत्पन्नस्य बहुवचनस्यान्त्यादेव परत्वादिति वाच्यम्। अन्त्यमात्रस्य तावत् सिद्धेः।
किञ्च बिदस्यापत्यानि बहूनि बैदाः। बिदादित्वादञ्। बिदानामपत्यं युवा बैदः, बैदौ। अतइञ्। ण्यक्षत्रियार्षञत इतिलुक्। अत्र बहुष्वर्थेषु उत्पन्नोऽपत्यप्रत्ययो युवापत्यविवक्षायां द्वित्वविशिष्टे एकत्वविशिष्टेवाऽर्थान्तरे संक्रान्तः। तस्य बहुषूत्पन्नत्वात् लुक्‌प्राप्तौ अलुग्‌वचनमारम्भणीयं स्यात्। प्रत्ययपक्षेतु बहुवचनपरत्वाभावादेव नलुक्।
तदुक्तम्-गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोर्लुगिति। द्व्येकयोरितिभावप्रधानो निर्देशः(1)नचात्र गोत्रेऽलुगचीति सूत्रेणाजादौ प्राग्दीव्यतीये परे लुङ्‌निषेधादेव सिद्धिरितिवाच्यम्। अजादिप्रत्ययपरत्वाभावात्। वर्णाश्रयेच प्रत्ययलक्षणनिषेधात्। एवं बैदस्य बैदयोर्वाऽपत्यं बहवो माणवकाः बिदाः। अत्रापि यञञोश्चेति लुङ्‌न स्यात्। अञो बहुप्रकृतित्वाभावात्। नच प्रत्ययग्रहणे तदन्तग्रहणादञन्तस्यैव बहुत्वेन विशेषणाल्लुक्‌सिद्धिरितिवाच्यम्। काश्यपप्रतिकृतयः काश्यपा इत्यत्रातिप्रसङ्गात्। कस्यपस्य गोत्रापत्यं काश्यपः। बिदादित्वादञ्। तत्प्रकृत्य इत्यर्थं इवेप्रतिकृताविति कन्‌प्रत्ययः। जीविकार्थेचापण्य इति वा। आर्चासुपूजानार्थासुचित्रकर्मध्वजेषु चेति पाठाद्वा तस्य लुक्। एतस्याञन्तस्य बहुषु वृत्तेर्लुक्‌प्रसङ्गात्। तस्मादञ्‌यो बहुष्वित्येव तत्र वक्तव्यम्। प्रत्ययादर्शनस्यैव लुगादिसंज्ञाविधानात्। प्रत्ययानामेव कार्यभाक्त्वेन बहुत्वेनतेषामेव विशेषणीयत्वात्। तथाच बिदा इत्यत्राञ्‌प्रत्ययस्यैकस्मादेवोत्पन्नतया लुङ् नस्यादिति लुग्वचनं कर्त्तव्यम्। तदुक्तम्-एकवचनस्य द्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि इति। उक्तार्थम्।
अथोच्यते। युगपदधिकरणवचने द्वन्द्ववचनात् गर्गवत्सवाजा इत्यत्र वर्तिपद6यस्यार्थत्रयवाचकत्वात्प्रत्येकं तद्राजप्रत्ययानां बहुत्वार्थकत्वमस्त्येवेति द्वन्द्वे पूर्वोक्तमबहुषु लुग्वचनमनारब्यमेवेति। तर्हि पूर्वपक्षिमापि बहुवचने परे लुगङ्गीकारात् बहुवचनं प्रत्येकस्यादपि परतोऽस्त्येवेति न तद्दोषावकाश इति समानम्। नच लुकि कृते कथं तदिति वाच्यम्। प्रत्ययलक्षणेन निर्वाहात्। नच नलुमताङ्गस्येति तन्निषेधः शङ्क्यः। लुमता लुप्तो यः प्रत्ययस्तस्मिन् यदङ्ग तस्य यत्कार्यं अङ्गाधिकारविहितं तद्बहिर्भूतं वा तन्न भवतीति तद्व्याख्यानात्। लुक्‌च प्रत्यस्यैव कार्यं नतु समस्तस्याङ्गस्येति प्रत्ययलक्षणस्य सुलभत्वात्। एतेनाङ्गानतिक्रान्तोऽत्यङ्ग इत्यत्र अतिआङ्ग जस् इति स्थितेऽन्तरङ्गानपीति न्यायेन लुकि पूर्वं कृते बहुवचनपरत्वाभावात्तद्राजलोपो न स्यात्।
नन्वेवं पञ्चभिर्गार्गीभिः क्रीतः पटः पञ्चगार्ग्यो दशगार्ग्य इत्यत्रातिप्रसङ्गः। क्रीतार्थस्यार्हीयस्य ठकोऽध्यर्धेति लुक्। लुक्‌तद्धितलुकीति स्त्रीप्रत्ययस्य लुक्। तत्र यञ्‌लुकोऽङ्गकार्यत्वाभावादुक्तरीत्या प्रत्ययलक्षणप्रवृत्याभिसमाश्रित्य यञञोश्चोति लुक्‌प्रसङ्गात् पञ्चगर्गो दशगर्ग इत्यस्यापत्तेः। नचास्त्रियामिति निर्वाहः। वर्तिपदार्थस्यार्थान्तरेऽर्थे पुंसि गर्गमयमित्यत्र लौकिकविग्रहे सुबन्दप्रयोगेऽपि प्रातिपदिकादेव प्रत्ययोत्पत्त्या बहुवचनपरत्वाभावाल्लुङ् न स्यादित्यपि परास्तम्। समर्थानां प्रथमाद्वेत्यधि कारात्सुबन्तेनैव सामर्थ्यात्। सुबन्तस्यैव द्वितीयस्य सम्बन्धात्। प्रातिपदिकाधिकारस्य तु वृद्धादिविशेषणार्थत्वात्।
नन्वेवं बिदानामपत्यं बैदः बैदौ इत्यत्र लुक् स्यादिति सिद्धान्तिनं प्रतिउक्तापत्तिर्नसङ्गच्छते। उक्तरीत्या बहुवचनपरत्वेन पूर्वपक्षिणाप्यलुको वक्तव्यत्वात्। यदि त्वचीत्यनेनैव निषेधः। वर्णाश्रये इति निषेधस्य वर्णरूपाश्रयकार्यनिषेधकत्वेन प्रत्ययस्यासाधारणं यद्रूपं तत्त्वेन यत्र निमित्तत्वं तद्विषयकत्वाभावात्। अतएव गोहितमित्यादाववादेशादयो न भवन्ति। अच्त्वस्य प्रत्ययाप्रत्ययसाधारण्येन वर्णाश्रयत्वात्। अतृणेडित्यत्रेमागमस्तु तिपो लुप्तत्वेऽपि प्रत्ययलक्षणेन भवत्येव। तस्य हलादिपित्सार्वधातुकाश्रयत्वात्। सार्वधातुकत्वस्य प्रत्ययत्वव्याप्यत्वात्। एवं लुकोऽपि अजादिप्रत्ययाश्रयत्वेन वर्णाश्रयत्वाभावादित्युच्यते तदपि तुल्यम्। अथवाऽविशेषेणालुकं विधाय हलिनेति निषेधो वक्तव्यः। तेन गर्गरूप्यमित्यादो नदोषः। नचैवं बिदानामपत्यं बहवो माणवका इत्यत्रापि अलुक्‌स्यादिति वाच्यम्। अपत्याधिकारादन्यत्र लौकिकस्यापत्यमात्रस्य गोत्रस्य ग्रहणात्। युवबहुत्वे वर्तमानस्यैव यञञोश्चेति लुक्‌सम्भवात्। नच तत्राप्यलुक्‌प्रवृत्तिः स्यादिति वाच्यम्। समर्थानांप्रथमादित्यस्यानुवृत्त्या समर्थानां प्रथमस्य गोत्रप्रत्ययस्यालुग्‌भवति इति व्याख्यानात्। प्राथमकल्पिके प्रत्ययार्थे वर्तमानस्य तस्य प्राथम्यं यथा गार्गिया इत्यादौ। प्रकृतेतु युवप्रत्ययस्य लुकि कृते गोत्रप्रत्ययान्तस्य बैदशब्दस्य युवलक्षणं द्वितीयमर्थमुपसंक्रान्तत्वान्नप्राथम्यमिति पुनरलुग्विध्यप्रवृत्तेः। इदंचावश्यमभ्युपगम्यम्। अत्रिभरद्वाजिका, वसिष्ठकश्यपिका, भृग्वङ्गिरसिका, कुत्सकुशिकिका, अत्रेरपत्यानीति `इतश्चानिञ' इति ढक्। भरद्वाजस्यापत्यानि। बिदादित्वादञ्। उभाभ्यां युवबहुत्वेऽत इञ्। तस्य ण्यक्षत्रियार्षेति लुक्। अत्रिभृगु कुत्सेतिढकी लुक्। यञञोश्चेति अञो लुक्। अत्रिभरद्वाजानां मैथुनिकेति द्वन्द्वाद्‌बुन् वैरमैथुनिकयोरितिवुन्। कश्यपकुत्साभ्यामञ्। वसिष्ठादिभ्य ऋष्यण्।
यदि द्वितीयमर्थमुपसंक्रान्तस्याप्यलुक् स्यात्। यद्वा गर्गभाचीति यथाश्रुतन्यासेऽपि अलुक् दुर्वारः स्यात्। यद्वा गर्गभार्गविकाग्रहणं नियमार्थम्। गर्गादिभ्यो यञ्। तस्य लुक्। भृयुशब्दादृष्यण्। तदन्ताद्यून्यञ्। तस्य लुक्। गर्गभूगूणां मैथुनिकेति वुन्। अत्रात्रिभृगुकुत्सेत्यादिना लुक् प्राप्तो गोपवनादिपाठेनन प्रतिषिध्यते। यदिच द्वितीयमर्थमुपसंक्रान्तस्याप्यलुक् स्यात्तदा गोपवनादिषु गर्गभार्गविकापाठो व्यर्थः स्यात्। अतो द्वितीयमर्थमुपसंक्रान्तस्यालुग्विधिर्नप्रवर्तते इति तेन ज्ञाप्यते इति नकोऽपि दोष इति कल्प्यते। इदमपि समानम्। यदप्युक्तं बैदस्य बैदयोर्वाऽपत्यं बहवो मामवका बिदाः। अत्राञो बहुप्रकृतिकत्वाभावाल्लुक्‌न स्यादिति। नच काश्यपप्रतिकृतयः काश्यपाइत्यत्र दोषः। अपत्यबहुत्वे वर्तमानस्यैवअञन्तस्य तत्रग्रहणात्। प्रतिकृतिबहुत्ववृत्तेः काश्यपाइत्यञन्तस्य लुगप्रसक्तेः लोपप्रतियोगिप्रत्ययार्थत्वेन साजात्यविवक्षयोक्तार्थलाभात्। गोत्रयूनोरपत्यत्वेन साजात्यसत्त्वात्। प्रतिकृतेश्च तदभावात्। तस्मात्सिद्धान्तेऽपि नगौरवम्। इति चेत्सत्यम्। तथापि पूर्वपक्षेऽपि दोषस्यानुपन्यासादिति प्राप्ते-
सिद्धान्तमाह भाष्यकारः। बहुवचने परतो लुगित्युच्यमाने अत्रय इत्यत्र दोषः। तथाहि-अत्रिशब्दादितश्चानिञ इति ढक्। कित इत्यन्तोदात्तत्वम्। तत्र जसि परतो लुकिक्रियमाणेऽनुदात्तस्य च यत्रोदात्तलोप इत्युदात्तनिवृत्तिस्वरेण जस उदात्तत्वं स्यात्। अर्थपक्षेतु लुकः परनिमित्तत्वाभावान्न तत्प्रसङ्ग इति जसोऽनुदात्तौ सुप्पितौ इत्यनुदात्तत्वमेव। आंग्यः स्त्रिय इत्यादिवारणाय त्वस्त्रियामिति कृतमेवेति दिक्।
अथास्त्रियामिति पर्युदासः, प्रसज्यप्रतिषेधो वा आद्ये गार्गीच वात्स्यश्च वाज्यश्चेति द्वन्द्वे सर्वेषां लुक् स्यात्। एकैकस्य शब्दरूपस्य स्त्रीपुंसात्मकसमुदायाभिधायित्वात्। अन्त्ये तु नेति स्पष्टमेवेति चेदत्रापि भाष्यम्। देवा ज्ञातुमर्हन्तीति। देवा दिव्यदृशः पण्डिता इति यावत्। तत्रद्वेधा कैयटेन व्याख्यातम्। पर्युदासस्यैकवाक्यतया लाघवान्न्याय्यत्वमिति केचिदाहुः। अन्ये तु गार्गीशब्देन स्त्रीत्पप्रयुक्तानामर्थानामभिदानाद्यञेलुकानभाव्यम्। अन्येषां तु भाव्यमित्याहुः।
अथ यत्र लोपभाजां तद्रहितानां चसमासस्तत्रलोपप्रतियोगिप्रत्ययान्तपदस्य बव्हर्थत्वाल्लोपः, उत तेनैवेतिवचनात् नलोपः।(1)अविद्यमानासन्निधिकृतत्वात् बहुत्वस्य तन्मात्रकृतत्वाभावादिति चेत्। अत्रापि भाष्यम्। उभयथापीति ज्ञापकसद्भावात्। भृगुवत्साग्रायणेषु, अगार्ग्यगालवानामिति च प्रयोगदर्शनात्। आद्ये हि द्वौ लोपिनौ। आग्रायणस्तु नडादिफगन्तत्वात्तद्राजसंज्ञानास्तीत्यलोपी द्वयोश्च लुक् कृतः। अन्त्येतु द्वौ लोपिनौ। गालवस्तु ऋष्यणन्तः पूर्ववन्न लोपी। नच लोपिनो लोपः कृत इति तथाच ज्ञापकद्वयसद्भावादुभयमप्युपपन्नमिति भावः।
यस्कादिभ्योगोत्रे ।। 63 ।।
एभ्यः परस्य गोत्रप्रत्ययस्य लुक् स्यात् तत्कृते बहुत्वे नतु स्त्रियाम्। गोत्रे कुञ्जादिभ्यशच्फञ् इति गोत्रप्रत्ययप्रकरणं तस्मादन्यत्र लौकिकगोत्रग्रहणम्। अपत्याधिकारे गोत्रग्रहणसामर्थ्यादेव पारिभाषिकगोत्रग्रहणम्। यस्काः। लह्यः। बहुषुकिम्। यास्कः लाह्यः। स्त्रियांतु यास्क्यः स्त्रियः। गोत्रेकिम्। यास्काः छात्राः। यस्क लह्य द्रुह्य अयस्थूण तृणकर्ण एते पञ्च शिवादौ इत्यण्। सदामत्त कम्बलभार अहिर्ोग कर्णाटक पिण्डीजङ्घ बकसक्थ एभ्यः षड्‌भय इञ्। विश्रि कद्रू अजबस्ति मित्रयु एभ्यश्चतुर्भ्यः शुभ्रादित्वाढ्ढक्। रक्षोमुख जङ्खारथ मन्थक उत्कांस कटुक पुष्करसत् वेषपुर पिरमेखल कोष्टुमाय क्रोष्टुमान क्रोष्टुपाद शीर्षमाय एभ्यो द्वादशभ्य इञ्। यद्यपि तौल्वल्यादौ इञः प्राचामिति प्राप्तस्य लुक् प्रतिषेधाय पठितस्य पुष्करसदित्यस्य प्राच्यत्वे विवादाभावात्। बह्वच इञः प्राच्यभरतेष्वित्येव लुक्‌सिद्धः। तथापि गोपवनादिप्रतिषेधबाधाय तस्य यस्कादिषु पाठः। तत्र तौल्वल्यादय इत्यस्य कौश्चित्पठ्यमानत्वात्। यैस्तु तत्र नपठ्यतेतैरप्यस्मादेवज्ञापकात्तौल्यादिप्रकृतिभूतानां तुल्वलेत्यादिनां गोपवनाद्यन्तर्भावस्थानुमेयत्वात्। खरपद अस्य नडादित्वात्फक्।पदक पर्यक आभ्यामत इञ्। भलन्दन अस्माच्छिवादित्वादण्। भण्डिल भण्डिव भण्डित एभ्यश्चतुर्भ्योऽश्वादित्वात्फञ्।
यञञोश्च ।। 64 ।।
गोत्रे यद्यञन्तमञन्तंच तदवयवयोरेतयोर्लुक् तत्कृते बहुत्वेनतु स्त्रियाम्। गर्गाः। वत्साः। गर्गादिभ्यो यञो लुक्। विदाः। ऊर्वाः। विदाद्यञो लुक्। तत्कृतोति किम्। प्रियगार्ग्याः अन्यपदार्थकृतमिह बहुत्वम्। अस्त्रियां किम्। गार्ग्यः स्त्रियः। गोत्रेकिम्। द्वैप्याः। द्वीपादनुसमुद्रं यञ्। औत्साः। उत्सादिभ्योऽञ्। प्रवराध्यायप्रसिद्धमिहगोत्रम्। नेह। पौत्रदौहित्राः। तद्राजसंज्ञारहितानां गुगर्थमेतदादिरारम्भः।
यञादीनामेकस्य द्वयोर्वा तत्पुरुषे षष्ठ्या उपसंख्यानम्। आदिपदेन वक्ष्यमाणानामपि बहुत्वे लुग्भाजामुपग्रहः। आदिशब्दस्य व्यवस्थापरत्वात्। गार्ग्यस्य गार्ग्ययोर्वाकुलं गार्ग्यकुलं गार्गकुलंवा। बैदस्य बैदयोर्वा कुलं बैदकुलं बिदकुलं वा। यञादीनां किम्। आङ्गकुलादौ माभूत्। संख्याविशेषग्रहणं किम्। गर्गाणां कुलं गर्गकुलम्। परत्वाद्विकल्पो माभूत्। तत्पुरुषेतिकिम्। गार्ग्यस्य समीपमुपगार्ग्यम्। षष्ठयाः किम्। शोभनगार्ग्यः। कर्मधारये माभूत्।
अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च ।। 65 ।।
बहुत्वे गोत्रप्रत्ययस्य लुक् स्यात्। अत्रयः। भृगवः। कुत्साः। वसिष्ठाः। गोतमाः। अङ्गिरसः। यथात्वाङ्गिरसः पूर्वे भृगवश्चावसोधिरे। अत्रयश्च वसिष्ठाश्च तथेतस्त्त्वापसेधिमेति आथर्वणश्रुतिः। तेनैवेत्येव प्रियात्रेयाः। आस्त्रियमित्येव। आत्रेय्यः स्त्रियः।
वव्हच इञः प्राच्यभरतेषु ।। 66 ।।
प्राच्यगोत्रे भरतगोत्रे च वर्तमानस्य बह्वच्प्रकृतिकस्य इञो बहुत्वे लुक्। पन्नागाराः। मन्थरैषणाः। युधिष्ठिराः। अर्जुनाः। बब्हचः किम्। चैकयः। पौषयः। प्राच्यभरतेषु किम्। बालाकयः। हास्तिदासयः। इह कर्मधारये प्राच्यग्रहणं व्यर्थम्। व्यावर्त्याभावात्। द्वन्द्वे तु अन्यत्र भरतानामभावात्। प्राच्यग्रहणेनैव सिद्धिः।
यद्यपि सामान्यविशेषयोर्वाचनिको द्वन्द्वनिषेधः तथापि सौत्रत्वादेव तत्संभवः। एवं चान्यत्र प्राच्यग्रहणे भरतग्रहणं नभवतीति ज्ञापनाय भरतानां पृथङ् निर्देशः। तेनेञः प्राचामित्यत्र भरतगोत्रग्रहणं न। औद्दालकिः पिता। औद्दालकायनः पुत्रः।
न गोपवनादिभ्यः ।। 67 ।।
गोत्रप्रत्ययस्य न लुक्। गौपवनाः। शैग्रवाः। बिदाद्यन्तर्गणो गोपवनादिः। तत्समाप्तये मध्ये वृत्करणाभावात्। आगणान्ताद् ग्रहणे प्राप्ते गोपवनादिप्रतिषेधः प्राग्घरितादिभ्य इति वाच्यम्। तेन हारिता इत्यत्रालुगेव।।
तिककितवादिभ्यो द्वन्द्वे ।। 68 ।।
एभ्यो गोत्रप्रत्ययस्य बहुषुलुक्‌द्वन्द्वे। तैकायनयश्च कैतवायनयश्च तिककितवाः। तिकादिभ्यः फिञो लुक्। नच गणे द्वन्द्वरूपाणामेव पाठात्तिकादिभ्य इत्येवोच्यतामिति वाच्यम्। द्वन्द्वे पूर्वपदानामेव प्रत्ययस्य लुक् नतूत्तरपदानामिति शङ्कानिवृत्त्तयर्थत्वात्। वाङ्खरयश्च भाण्डीरथयश्च वङ्खरभण्डीरथाः। अत इञो लुक्। औपकायनाश्च लामकायनाश्च उपकलमकाः। नडादिफको लुक्। माढकयश्च नारकयश्च मढकनरकाः। अत इञो लुक्। वाकनखयश्च स्वागुरपरिणद्वयश्च वकनखश्वगुरपरिणद्धाः। औब्जयश्च काकुभाश्च उब्जककुभाः। अत इञ्‌शिवाद्यणोर्यथाक्रमं लुक्। लाङ्कयश्च शान्तमुखयश्च लङ्कशान्तमुखाः। अतइञोलुक्।(1)औरगयश्च शालङ्यश्च उरगशलङ्कयः। तिकादिफिञतइञार्लुक् काष्णार्जिनयश्च कार्ष्णसुन्दरयश्च कृष्णाजिनकृष्णसुन्दराः। अतइञोलुक्। आग्नि वेश्याश्च दाशेरकयश्चाग्निवेशदाशेरकाः। गर्गादियञोऽतइञश्च लुक्। भ्राष्ट्रकयश्च कापिष्ठलपश्च भ्राष्ट्रककपिष्ठलाः। अतइञो लुक्।।
उपकादिभ्योऽन्यतरस्यामद्वन्द्वे ।।
एभ्यो गोत्रप्रत्ययस्य बहुत्वे वा लुक् द्वन्द्वेऽद्वन्द्वे च। अद्वन्द्व पदस्य द्वन्द्वानुवृत्त्यभावज्ञापकत्वात्। एषां मध्ये त्रयो द्वन्द्वास्तिककितवादिषु पठ्यन्ते इति वृत्तिः। कैयटस्तु भ्राष्ट्रकि कापिष्ठलि इति द्वन्द्वस्य तिककितवादिषु षाठोऽनार्षः। भ्राष्ट्रककपिष्ठलाः। भ्राष्ट्रकिकापिष्ठलयः इति भाष्योदाहरणादित्याह। तस्मात्कृष्णाजिनकृष्णसुन्दराः अनयोः पूर्वेण द्वन्द्वे नित्यो लुक्। अद्वन्द्वे विकल्पः। उपका औपकायनाः। लमका लामकायनाः। कृष्णाजिनाः कार्ष्णाजिनयः। कृष्णसुन्दराः कार्ष्णसुन्दरयः। अन्येषां तु द्वन्द्वे तदभावे वा विकल्पेन लुक्। भ्राष्ट्रकाः। भ्राष्ट्रकयः। कापिष्ठलाः। कापिष्ठलयः। वडारक अडारक भ्रटुक अकन्धक पिङ्गलक पिष्ठ सुषिष्ट मयूरकर्ण खरिजङ्घ शवाषम पतञ्जल कावेरिणि गडु उषितक कुश कुत्स निदाघ कलशीलकण्ठ कान्कण्ठ कृष्णपिङ्गलकर्ण पर्णक जटिलक बधिरक जन्तुक अनुलोम प्रतिलोम अविदग्ध प्रतान अनभिहित।।
आगस्त्यकोण्डिन्ययोरगस्तिकुण्डिनच् ।। 70 ।।
एतदवयवस्याणो यञ्श्च गोत्रप्रत्ययस्य बहुषु लुक्। प्रकृतिभागस्य यथाक्रमं उक्तावादेशौ च स्याताम्। अगस्तयः कुण्डिनाः ननु द्वयोर्विशिष्टयोरेवादेशद्वयं यथाक्रमं विधियतां किं प्रत्यय लोपं विधाय प्रकृतिभागस्यादेशकरणेनेति चेत् न, आग स्तीया इत्यस्यासिद्धिप्रसङ्गात्। अगस्त्यादृष्यणि आगस्त्यः। अगस्तीनां छात्रा इति प्राग्दीव्यतीयेऽजादौप्रत्यये विवक्षितेऽप्यगस्तीत्यादेशापत्त्या वृद्धत्वाभावाच्छो न स्यात्। लुकं कृत्वाऽगस्तीत्यादेशविधाने तु तत्र गोत्रेऽलुगचीति लुक्प्रतिषेधात्। तत्संनियोगशिष्ट आदेशोपि नभवति इति वृद्धत्वाच्छप्रत्यये सूर्यतिष्यागस्त्येति यलोपे चकृते आगस्तीयाइति सिद्धम्। कौण्डिन्येतु उभयथापि न विशेषः। कौण्डिन्यशब्दात्कण्वादिभ्योगोत्र इत्यणि कृते आपत्यस्येति यलोपेच कौण्डिनाः छात्राइत्येवसिद्धेः। चकारः स्वरार्थः। कुण्डिनीशब्दस्येनिप्रत्यये मध्योदात्तत्वात्। गर्गादिभ्यो यञ्। भस्याढेइति पुंवद्भावे नस्तद्धिते इति टिलोपे कौण्ड्य इति स्यात् अस्मादेव निपातनान्न पुंवत्। यस्येतिचेतीकारलोपः। वस्तुतष्टिलोपाभावमात्रं निपात्यम्।
सुपोधातुप्रतिपदिकयोः ।। 71 ।।
एतयोरवयवस्यसुपो लुक्। पुत्रमात्मन इच्छति पुत्रीयति। सनाद्यन्ता इति प्रत्ययविशिष्टस्य धातुसंज्ञायां पुत्रपदोत्तरद्वितीयाया लुक्। सुबन्तात्क्यच्। राज्ञः पुरुषो राजपुरुषः।।
अदिप्रभृतिभ्यः शपः ।। 72 ।।
एभ्यः शपो लुक्। अत्ति। योन्यदेवमुपासते इत्यादौ आसतेरादानार्थे रूपम्। आश्वसेयुर्निशाचराः। न विश्वसेदविश्वस्ते इत्यादौ गणकार्यस्यानित्यत्वान्न लुक्। घटादयः षित इत्येव सिद्धे क्षमूष् इति षित्करणेन ज्ञापितत्वादिति केचित्। पचाद्यजन्तादाचारकिवॉबित्यन्ये। एतेन पथिकवनिता प्रत्ययादाश्वसन्ति इति मेघदूतं, देवीगिरां दीर्घतरं श्वसन्तीति भानुदुत्तप्रयोगश्च व्याख्यातः।।
बहुलं छनदसि ।। 73 ।।
बहुलं शपो लुक्। वृहं हनति वृ6हा। अहिः शयते। बहुलोक्तरन्यत्रापि। त्राध्वं नो देवाः।।
यङोऽचि च ।। 78 ।।
अच्प्रत्ययेपरे यङो लुक्। लोलुवः। पोपुवः। पचाद्यच्। इदमेव ज्ञापयति सर्वे धातवः पचाद्यन्तःपातिन इति। चकारादन्यत्रापि बहुलम्। वेभिदीति। चेच्छिदीति। अत्राच्प्रत्ययनिमित्तको लुक् परनिमित्तकः चकारलभ्यस्त्वनैमित्तिक इति विवेकः। अत्र भाष्यमते छन्दसीत्यस्यानुवृत्तिः नतु वृत्तिमते। हुश्रुवोरित्यत्र सार्वधातुकग्रहणेन क्वचिद्भाषायामपि यङ्लुको भाष्यकारेणापि स्वीकारात्। पूर्वप्रयोगानुसारेणैव प्रयोगव्यवस्तासंभवात्।
नन्वत्राजिति प्रत्याहारः एव गृह्यतमिति चेत्। अत्राहुः। तथासत्यणीत्येवावक्ष्यत्। यङन्तादन्यस्याचोऽसंभवात्। नच पापच्यै इत्यत्र तत्संभवः। शपा व्यवधानात्। एकादेशस्य स्थानिवद्भावात्। लिटस्तझयोरेशित्वाम आवश्यकत्वात्। अमन्त्र इतिवचनान्मन्त्रे कथञ्चित्तत्संभवे तु यङा प्रत्ययेन साहचर्यात्।।
जुहोत्यादिभ्यः श्लुः ।। 75 ।।
मण्डूकप्लुत्या शपोऽनुवृत्तिर्नतुसन्निहितस्यापि यङः श्लाविति द्वित्वविधानसामर्थ्यात्। अन्यथा सन्यङो रित्यनेनैव सिद्धेः।।
बहुलं छन्दसि ।। 76 ।।
शप श्लुः स्यात्। जुहोत्यादिभ्योऽपिक्वचिन्न। देवतानो स्वस्ति मघवा धात्विन्द्रः। दाति प्रियाणि। अन्यस्मादपि। पूर्णां विविष्टि। जनिमाविवक्ति।।
गतिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु ।। 77 ।।
एभ्यः सिचो लुक् परस्मैपदेषु। लुगेवानुवर्तते नतु श्लुः। व्याख्यानात्। गादेशस्यश्तिपि शब्लुकानिर्देशात्। इणादेशो गा अत्र गृह्यते नतुगै इत्यादिः। अतएवगामादाग्रहणेष्वविशेष इत्यस्य न प्रवृत्तिः। अन्यव्यावृत्तरूपेणैवोपादानात्। गादेशस्य लुङ्मात्रविषयकत्वेऽप्यनुकरणेऽपि प्रकृतिवदित्यतिदेशेन शपो लुक्‌प्रवृत्तेः। अगात्। अस्थात्। अदात्। अधात्। पिबतेरेवग्रहणं नतु पातेः। लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणात्। अपात्। अभूत्। अस्त्यादेशस्यापीदं रूपम्। आर्धधातुकमात्रविषयकस्यतस्य शपो लुक्‌सम्बन्धाभावेन लुग्विकरणपरिभाषाया अप्रवृत्तेः। गैशब्द इत्यस्य त्वगासीत्, पारक्षणे अपासीत्। यमरमनमातामितीट्‌सकौ। पैशोषणे इत्यस्यापि नसंग्रहः लाक्षाणिकत्वात्। परस्मैपदे किम्। अगासातां ग्रामौ देवदत्तेन।
अत्रभूभ्य इतिभीधातोर्ङसानिर्देशः। एरनेकाचइति। यण्। तेन माभेः शशाङ्कसमसीधुनि नास्ति राहुरिति सिद्धमिति कल्पनमनादेयम्। मास्यभैषस्त्वियाद्यैव इतिभट्टिविरोधात्। माभेर्मांसं विक्था इति तु छान्दसम्। माभेरिति तु प्रामादिकमित्याहुः। आगमशासनस्यानित्यत्वादिडभावे वा समाधेयम्।।
बिभाषा घ्रधेट्‌शाच्छासः ।। 78 ।।
पूर्वविषये वा लुक्। धेटः पूर्वेण प्राप्ते इतरेणत्वप्राप्ते विकल्पः। अघ्रात्। अधात् अशात्। अच्छात्। असात्। शोछो तनूकरणे षोऽन्तकर्मणि। पक्षे अघ्रासीदित्यादि। परस्मैपदे किम्। अघ्रासत सुमनसो देवदत्तेन। कर्मणितङ्।
तनादिभ्यस्तथासोः ।। 79 ।।
सिचो वालुक् तथासोः परतः। थासासाहचर्यादेकवचनस्य तस्य ग्रहणम्। अतत। अतथाः। अतनिष्ट। अतनिष्ठाः। असात असाथाः। जनसनेत्यात्वम्। पक्षेऽसनिष्ट असनिष्ठाः। यूयमतनिष्टेत्यत्र न लुक्। बहुवचनस्यात्रानुपादानात्।
मन्त्रे घसह्वरणशवृदहाद्‌वृचकृगमिजनिब्यो लेः ।। 80 ।।
एभ्यो लेर्लुक् मन्त्रे। अक्षन् पितरोमीमदन्त पितरः। घः स्लादेशेगमहनेत्युपधालोपः। शासिवसीति षत्वम्। अडभावे मात्वा वृकासो अशिबास उक्षन्। ह्‌वृकौटिल्ये इत्यस्य गुणविशिष्टस्य निर्देशः। अकारउच्चारणार्थः। माह्वर्मित्रस्य। धूर्तिः प्रणङ् मर्त्यस्य। नशेर्वेति कुत्वम्। वृइति वृङ्‌वृञोर्ग्रहणम्। सुरुचो वेन आवः। मानआधक्। दादिति आकारान्तग्रहः। आप्राद्याबापृतिवी अन्तरिक्षम्। वृजुवर्जने। भारोअस्मिन् महाधने परावर्क्। परावर्ग्भारृद्यथा। अक्रन् कर्म कर्मकूतः। आग्मन्। मन्त्रपदं ब्राह्मणस्याप्युपलक्षणम्। अज्ञत वा अस्य दन्ताः। ऐतरेय ब्राह्मणे हरिश्चन्द्रं प्रतिवरुणस्योक्तिः।
लिग्रहणमादिः सिचोऽन्यतरस्यामिति स्वरस्याप्रवृत्त्यर्थम्।
अन्यथासिचमेवान्ववर्तिष्यदितिकैयटहरदत्तादयः। नचलिङ्गलिटोरपि लोपापत्तिः। सिचः स्थानिभूतो योलिः इति व्याख्यानात्। केचित्तु बिभाषेत्यनुवर्तते। न ता अगृभ्णन्नजनिष्टहिषइत्याद्यनुरोधात्। तेन सिजनुवृत्त्यादिकमपि अफलम्। नचलिङ्लटोर्लुगापत्तिः। छन्दसि रूपान्तरस्यानापाद्यत्वादित्याहुः।
आमः ।। 81 ।।
इजादेश्चेत्यादिनाम् वक्ष्यते। ततः परस्य लुक्। ईहांचक्रे। तिबाद्यादेशापवादत्वाल्लावस्थायामेवायम्। तेन चक्षुः कामं याजयांचकारेत्यादावामन्तस्यातिङन्तत्वादनिघातः। अनुप्रयुज्यमामानस्य च निघातः। आमन्तस्य सुबन्तत्वात्पदत्वम्। कृन्मेजन्त इत्यव्ययत्वात्सुपोलोपः। कृदतिङित्यत्र तिङ्‌भाविन एवलकारस्य कृत्संज्ञानिषेधात्। नचैवं यत्प्रकारयाचकारेत्यत्र तिबादिलुकि सति गतिर्गतौ तिङिचोदात्तवतीति प्रशब्दस्य निघातो नस्यात्। आमन्तस्य तिङन्तत्वाभावादिति वाच्यम्। प्रशब्दस्य कारयामित्यनेन समासे समासस्वरेणान्तोदात्तेऽव्ययपूर्वपदप्रकृतिस्वरेम चाद्‌युदात्ते प्राप्ते तत्बाधेन कृत्स्वरे कृते शेषनिघातेनैव प्रशब्दानुदात्तत्वसिद्धेः। नच नकारयांचकारेत्यादौ सुबन्तत्वेन नञ्‌समासापत्तिः। ततश्च नकारलोपापत्तिरिति वाच्यम्। अनभिव्यक्तार्थेनामन्तेन सह सामर्थ्याभावात्।
आमोलेर्लोपेलुङ्‌लोटोरुपसंख्यानम्। तां वैजवापयोविदामक्रन्। अस्य भवन्तो विदाङ्कुर्वन्तु। लिग्रहणानुवृत्त्याऽन्यत्र नप्राप्नोतीत्यारम्भः। अनुप्रयोगवचनसामर्थ्यात्प्रत्ययमात्रलोपस्येष्टत्वात् तदनुवृत्तिर्नेतिभाष्यम्। तत्रनिपातनेनापि लुक्‌सिद्धिरितिकैयटः। आमन्तस्यानभिव्यक्तपदार्थत्वात्स्वाबाविक्येव तरबादेरनुत्पत्तिर्लुग्‌द्वारेणान्वाख्यायते।।
अव्ययादाप्सुपः ।। 82 ।।
अव्ययाद्विहितस्यापः सुपश्च लुक्। तत्र शालायाम्। अथ तत्र बार्तिकम्। अव्ययादापो लुग्वचनानर्थक्यं लिङ्गाभावादिति। नच स्त्रीसमानाधिकरणत्वात्तदापत्तिः। भूतमियंब्राह्मणीत्यत्रातिप्रसङ्गात्। यद्यपि एकत्वे सुः इत्याद्येकवाक्यत्वे सुबुत्पत्तिर्नप्राप्नोति। अव्ययानां संख्याराहित्यात्। तथाप्यविशेषेणस्वाद्युत्पत्तौ द्व्येकयोरित्यादिर्नियमविधिः। यद्वाऽस्मादेव ज्ञापकात्सुबुत्पत्तिः। तेनप्रत्ययलक्षणेन पदत्वाद्रुत्वादिसिद्धिः। अतएव घटो नेत्यादौ शङ्खः पाण्डुर इत्यादौच निपातोत्तरविभक्तीनां प्रतियोगित्वादौ लक्षणेति तार्किकसंप्रदायः।।
नाव्ययीभावादतोम्त्वपञ्चम्याः ।। 83 ।।
अत्र योगविभागः। अदन्तादव्ययीभावात्सुपो लुङ् न ततोऽम्त्वपञ्चम्याः। पञ्चमी भिन्नस्यामादेशश्च। अलुक् सर्वविभक्तिसाधारणःअम्भावस्तु पञ्चमीभिन्नस्यैवेति फलितम्। अन्यथा पञ्चम्यां अम इवालुकोऽपि प्रवृत्त्यापत्तेः। यद्वा तुशब्दोऽवदारणार्थः। तथाचापञ्चम्या अमेव लुक्‌ तु तस्या अपीत्येक वाक्यतायामपि तदर्थसिद्धिः। दिशयोर्मध्यमपदिशम्।
पञ्चमीप्रतिषेधेऽपादानपञ्चम्या ग्रहणम्। नेह आपाटलिपुत्रं वृष्टो देवः। कर्मप्रवचनीययोगेऽत्र पञ्चमी। यद्वाऽव्ययीभावाद्विहितायाः पञ्चम्या अमादेशनिषेधः। अत्रतूत्तरपदाद्विहिता सा। तस्याश्च समासावयवत्वात्तस्यच प्रातिपदिकत्वाल्लुकि कृते समासात्सुशब्दे उत्पन्ने तस्या अम्भावः। यदातु समासाद्विहिता पञ्चमी तदा श्रूयते एव। आउपकुम्भात्। कुम्भस्यसमीपमित्यव्ययीभावः। तत आङ्‌योगे पञ्चमी।।
तृतीया सप्तम्योर्बहुलम् ।। 84 ।।
अम्भावः स्यात्। उपदिशम्। उपदिशेन। उपदिशे एतेन `प्रतिहट्टपथे घरट्टजादि'ति नैषधं(1)व्याख्यातम्। सप्तम्या ऋद्धिनदीसमाससंख्यावयवेभ्यो नित्यमिति वाच्यम्। बहुलग्रहणसिद्धार्थकथनमेतत्। ऋद्धिः-सुमद्रम्। सुमगधम्। नदीसमासः-उन्मत्तगङ्गम्। लोहितागङ्गम्। संख्या-एकविंशतिभारद्वाजम् त्रिपञ्चाशद्गौतमम्। एकर्विशतिर्भरद्वाजाः। त्रिपञ्चाशद्गौतमवंश्या इति संख्यावंश्येनेति समासः। वर्तिपदानां स्वार्थविसिष्टार्थान्तराभिधायित्वाद्गौतम भार्द्वाजशब्दयोरेकत्वविशिष्टयोरेकत्वविशिष्टेऽर्थान्तरे संक्रमात्तद्राजस्येति लुगभाव इति कैयटः। वृत्तिप्रवेशात्प्रागेव गर्गाणां कुलं गर्गकुलमित्यादिवल्लोपप्रसङ्गाद्भाष्यप्रयोगादेव नलोप इति दीक्षिताः। ततः सप्तमी। नित्योऽम्भावः।
लुटः प्रथमस्य डारौरसः ।। 85 ।।
लुडादेशस्य प्रथमपुरुषस्य एते आदेशाः स्युः। नच टेरेत्वमात्मनेपदे परत्वात्स्यादिति वाच्यम्। पुनः प्रसङ्गविज्ञानेन ततदुत्तरमेवोक्तादेशानां प्रवृत्तेः। ईजतुरित्यादौ संप्रसारणे कृते द्वित्ववत्।
ननु स्थानिनः षट् आदेशास्तु त्रयः अतो यथासंख्येन कथं निर्वाह इति चेत्। न, अर्थत आन्तर्येण व्यवस्थासंभवात्। यद्वा डारौरसश्च डारौरसश्चेत्येकसेषाश्रयणात्, कृतैकशेषाणां द्वन्द्वे तु एकवचनद्विवचनयोर्डा, बहुवचनैकवचनयो रौ,द्विवचनबहुवचनयोश्च रसादेशः स्यात्। कृतद्वन्द्वानामेकशेषे तु तिप्तस्‌झीनां डारौरसः क्रमेण। तआतांझ इत्येषां डारौरस इतीष्टसिद्धिः। अयमर्थो भाष्ये-
डारौरसः कृते टेरे यथा द्वित्वप्रसारणे।
समसंख्येन नार्थोऽस्ति सिद्धं स्थानेऽर्थतोऽन्तरा।।
आन्तर्यतो व्यवस्था त्रय एवेमे भवन्ति सर्वेषाम्।
टेरेत्वंच परत्वात्कृतेऽपि तस्मिन्निमे सन्तु।। इति।
स्यादेतत्। डादेशोऽलोन्त्यपरिभाषयाऽन्त्यमात्रस्य प्राप्नोति। नच शित्करणेन निर्वाहः सार्वधातुकत्वापत्त्या श्वः कर्तेत्यत्र तास्यनुदात्तेदिति सूत्रेण तासेः परं लसार्वधातुकमनुदात्तमित्यस्य निघातस्यापत्तेः। तिङ्‌ङतिङ इति निघातस्य तु न प्रसङ्गः। नलुटीति निषेधात् इति चेत्। न, अन्त्यादेशेऽपि टिलोपेन आख्याततकारसहितस्यैव आसो निवृत्त्या रूपसिद्धेः। नचान्त्यस्य डादेशे तकारान्तं नाङ्गम्। तकारस्य प्रत्ययावयवत्वात्। प्रत्ययावधिकपूर्वभागस्यैवाङ्गसंज्ञाविधानादिति वाच्यम्। डित्वसामर्थ्याद्भसंज्ञामङ्गसंज्ञां विनैव तत्प्रवृत्तेः। नचैवं तिङ्‌ग्रहणेन ग्रहणं न स्यात्‌ रूपान्तरापत्तेरिति वाच्यम्। पचन्ति पचन्तु इत्यादिवदेकदेशविकृतस्यानन्यत्वात्।
अथवा सर्वादेशः प्रत्ययसंज्ञेत्संज्ञा लोपश्चेत्येतेषां पूर्वपूर्वसापेक्षत्वादनेकाल्त्वादेव सिद्धम्। अन्तादेशत्वे हि प्रत्ययावयव एव स्यान्नतु प्रत्ययः। समुदायस्यैव तथात्वात्। तदभावे च नेत्संज्ञा। तदभावेच न लोपः। अतः पूर्वमनेकाल्त्वात्सर्वादेशः। तत इत्संज्ञादिति न क्षतिः। यद्वा अ, अ इति प्रश्लिष्टनिर्देशोऽयम्। तेनानेकाल्त्वात्सर्वादेश इति भाष्यम्।
स्यादेतत्। तिबादीनांलसार्वधातुकानुदात्तत्वं परत्वात्प्राप्नोति। शब्दान्तरप्राप्त्याऽनुदात्तस्यादेशानां चानित्यत्वात्। तथाच तेषामुदात्तत्वं न स्यात्। इति चेत्। न, अन्तरङ्गत्वादादेशानामेव प्रथमं प्रवृत्तेः। नच तथापि तेषामनुदात्तत्वं क्रियतामुत लोप इति वीक्षायां परत्वाट्टिलोप एव ततः पुनः प्रसङ्गविज्ञानादनुदात्तत्वमेव डादीनां स्यादिति वाच्यम्। टिलोपानन्तरं स्वरविप्रतिषेधाश्रयेण उदात्तनिवृत्तिस्वरस्यैव तास्यनुदातोदित्यनुदात्तत्वं बाधित्वा प्रवृत्तेः। नतु तथात्मनेपदैकवचनस्य तस्य स्थाने योऽजादेशः तत्रपरत्वाट्टिलोपे कृते पश्चादेवानुदात्तत्वप्रवृत्त्याऽनुदात्त्स्य च यत्रोदात्तलोप इत्यस्याप्रवृत्तेः। अनुदात्ते कृते सति तद्विशिष्टनिमित्तको यत्रोदात्तलोपस्तत्रैव तत्संभवात् तिप्स्थानीयडादेशस्तु तिपः पित्त्वेनानुदात्तत्वात्स्थानिवद्भावेनानुदात्त इति तत्र स्यादे वोदात्तनिवृत्तिस्वरेणोदात्तत्वम्। तकारस्थानीयडादेशे तु तास्यनुदात्तेदित्यस्य प्रवृत्तिं विनानुदात्तस्यचेति स्वरस्यैवानवकाशत्वेन तोयर्विप्रतिषेधायोगादिति चेत्।
अत्र भाष्यकाराः। लसार्वधातुकानुदात्तत्वं हि प्रत्ययस्वरस्यापवादः। नचापवादविषये उत्सर्गा अभिनिविशन्ते तथाच परत्वाट्टिलोपे कृतेऽपि अनुदात्तस्यतेचि स्वरः प्रवर्तते एव। उदात्तत्वाभावमात्रस्य तत्रत्यानुदात्तशब्देन विविक्षितत्वात्। एवं स्थिते शास्त्रीयानुदात्तत्वाभावेऽपि डादेशे प्रत्ययस्वरस्य प्रवृत्तिविरहेण उदात्तत्वाभावरूपानुदात्तत्वस्य सत्त्वात् उदात्तनिवृत्तीस्वरो निःप्रत्यूह एव। नचतासेरुदात्तत्वात्पूर्वमेव टिलोपप्रवृत्तेरुदात्तलोपोऽपि कथमिति वाच्यम्। बाधकाभावेन उदात्तविशिष्टस्यैवतासेः प्रवृत्तेः डादेशेतु अपवादप्रवृत्तेर्भावितया पूर्वं न प्रत्ययस्वरप्रवृत्तिरित वैषम्यम्। तस्मात्पदद्वयेऽपि स्वरसिद्धिरिति सर्वं शिवम्।
इति श्रीसिद्धान्त सुधानिधौ द्वितीयाध्यायस्य चतुर्थपादे द्वितीयमान्हिकम्। पादोऽद्यायश्चायं समाप्तः।
सद्विद्वत्पदवाक्यमाननिगमाकूपारपारङ्गम्
8ीलक्ष्मीधरलब्धबोधजनुषा विश्वेश्वरेणोदिते।
श्रीसिद्धान्तसुधानिधौ सुधिषणैरध्यायमध्यायतं(1)
ध्यायंध्यायमिहाभिधेयमधुना शोधाय धीर्धीयताम् ।। 1 ।। ?