सामग्री पर जाएँ

श्रीसिद्धान्तसुधानिधिः/अध्यायः २-पादः ४/आह्निकम् १

विकिस्रोतः तः
श्रीसिद्धान्तसुधानिधिः
आह्निकम् १
[[लेखकः :|]]
आह्निकम् २ →

अथ चतुर्थः पादः।
द्विगुरेकवचनम् ।। 1 ।।
बाहुलकात्कर्तारि ल्युट्। सामान्ये नपुंसकम्। समाहारे द्विगुरेकार्थप्रतिपादकः स्यात्। तद्धितार्थेति सूत्रे समाहारशब्दो भावसाधन इति स्थितम् तथाचैकत्वं न्यायसिद्धम्। तदुक्तं वार्किककृता `नवा समाहारैकत्वा'दिति ततश्च कर्मसाधनत्वभ्रमनिरासार्थं सूत्रम्। स नपुंसकमित्यस्य प्रवृत्त्यर्थं च। नचोत्तरपदनिमित्ते द्विगौ एकत्वविधानार्थमस्त्विति वाच्यम्। तदर्थस्योत्तरपदार्थे गुणभावात्प्रतिपदिकत्वसद्भावेऽपि विभक्त्यनुत्पत्तेः। तद्धितार्थे द्विगावपि पञ्चकपालशब्दं संस्कृतप्रत्ययान्तं कृत्वैकशेषे क्रियमाणे द्विग्वर्थसमुदायस्य द्विग्वर्थत्वाभावाद्बहिरङ्गत्वात्प्रथमकल्पिकेऽन्तरङ्गे द्विगौ चरितार्थत्वाच्चैकवद्भावो वचनसत्त्वेऽपि न प्रवर्तते सुतरां न्यायसिद्धः। यदा तु प़ञ्चसुकपालेषु संस्कृता इति प्रथममेव बहुत्वच्छिन्ना अर्था विवक्षितास्तदा समाहाररूपत्वमेव नास्तीति न दोषः।
द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ।। 2 ।।
अङ्गशद्बस्य प्रत्येकमन्वयः। द्वन्द्वघटकयावत्पदानां उक्तत्रयान्यतममात्राङ्गवाचित्वे एकवद्भावः। पाणिपादम्। मार्दङ्गिकपाणविकम्। रथिकाश्वारोहम्। नेह मार्दङ्गिकाश्वारोहाः। प्राणिनामङ्गमवयवः। तूर्याणामुपकारकम्। सेनाया अपेक्षाबुद्धिविशेषविषयः इति बोद्धम्। पाणिपादमित्यादौ जातिरप्राणिनामित्येव सिद्धे व्यतिकरनिरासार्थं वचनम्। रथवाजिपत्तिकरिणीसमाकुलमित्यादौ सेनाङ्गवाचिपदानां अन्त्यवर्जं द्वन्द्वं कृत्वा अन्त्येन मध्यमपदलोपो व्याख्येयः। पातितै रथनागाश्वैरित्यादौ कृतद्वन्द्वानामेकशेषेणापि समाधेयम्। एतेन इत्थं रताश्वेभनिषादिनां प्रगे इति माघोऽपि व्याख्यातः। यद्यपि समाहारद्वन्द्वेऽपि चार्थे द्वन्द्व इत्यनेन एकवद्भावश्च न्यायेन सिद्धस्तथापि नियमार्थमिदम्। एतेषां समाहार एव द्वन्द्वो नेतरेतरयोग इति। नव समाहारे एषामेव द्वन्द्व इति विपरीतनियमोऽस्त्विति वाच्यम्। तिष्यपुनर्वस्वोरिति सूत्रे बहुवचनग्रहणात् तिष्यपुनर्वस्विदमिति समाहारैकवचनव्यावृत्तेस्तदर्थत्वात्।
अनुवादे चरणानाम् ।। 3 ।।
चरणशब्दः कठकलापादिपरः। कठादिशब्दश्च शाखाभेदेषु मुख्यो अध्येतृषु गौणः। स्फुटं चेदं शाखान्तराधिकरणे। गोत्रंच चरणैः सहेत्येषां जातिसंज्ञा। तत्र जातिरप्राणिनामित्येव शाखाभेदवाचिनामेकवद्भावः सिद्धः। पुरुषभेदानामेकवद्भावार्थमारम्भः। उदगात्कठकालापम्। प्रत्यष्ठात्कठकौथुमम्। उदगात्कौमोदपैप्पलादम्। कठकलापेषु उदितेषु प्रतिष्ठितेषु वा तत्र गन्तव्यमिति पूर्वोक्तं विस्मृत्यासीनं प्रत्युक्तौ भवत्यनुवादः। `स्थेणोरद्यतन्यां चेति वक्तव्यम्'। नेह नन्दन्तु कठकालापा वर्द्धन्तां कठकौथुमाः। अद्यतन्यां किम्। उद्यन्ति कठकालापाः।
अध्वर्युक्रतुरनपुंसकम् ।। 4 ।।
अध्यर्यूद्‌गातृहोतारो यजुःसामर्ग्विदः क्रमात्। इत्यमरः। अत्राध्वर्युशब्दो यजुर्वेदपरः। तत्रोत्पन्नस्य विनियुक्तस्य वा क्रतोर्वाचकानामक्लीबानां द्वन्द्व ेकवत्। अर्काश्वमेधम्। साह्नातिरात्रम्। अध्वर्युपदं किम्। इषुवज्रौ। उद्भिद्बलभिदौ। सामवेद एषां विधानम्। क्रतुशब्दस्य सोमयागेषु रूढत्वाद्दर्शपौर्णमासावित्यादौ नेति वृत्तिः। अनपुंसकं किं राजसूयवाजपेये। अर्धर्चादिपाठात्क्लीबत्वपक्षे प्रत्युदाहरणम्।
अध्ययनतोऽविप्रकृष्टाख्यानाम् ।। 5 ।।
अध्ययनेन निमित्तेन येषामविप्रकृष्टा संनिहिता आख्या तेषां द्वन्द्व एकवत्। पदकक्रमकम्। क्रमकवार्तिकम्। पदं क्रमं वाधीते इति क्रमादिभ्यो वुन्। वृत्तिं संहितामधीते वार्तिकः। उक्थ्यादित्वाठ्ठक् पदाध्ययनोत्तरं क्रमाध्ययनं इति पौर्वापर्यं सन्निधिः अन्त्ये तु क्रमाध्ययनस्य संहिताध्ययनव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वमेव तथेति बोध्यम्। अध्ययनतः किम्। पितापुत्रौ। अविप्रकृष्टेति किम्। याज्ञिकवैयाकरणौ।
जातिरप्राणिनाम् ।। 6 ।।
प्राणिभिन्नवृत्तिर्या जातिः तद्वाचिनां द्वन्द्व एकवत्। आराशस्त्रि। जातिः किम्। नन्दकपाञ्चजन्यौ एकव्यक्तिकत्वान्न जातित्वम्। अप्राणीति किम्।
ब्राह्मणक्षात्रियविट्‌शूद्राः। नञिवयुक्तन्यायेन द्रव्यवृत्तिजातेरेव ग्रहः। नेह रूपरसौ। गमनाकुञ्चने। पृथिव्यप्तेजोवायूनामित्यादौ तु द्रव्यप्राधान्यं विवक्षितम्। बदरामलकानीत्यादेरिष्टत्वात्। रञ्जिता नु विविधास्तरुशैला इत्यादौ मध्यमपदलोपः।
विशिष्टलिङ्गो नदीदेशोऽग्रामाः ।। 7 ।।
अग्रामा इति बहुवचनं सौत्रम्। भिन्नलिङ्गानां नदीवाचिनां देशवाचिनां च ग्रामभिन्नानां द्वन्द्व एकवत्। उध्द्यश्चेरावती च उध्द्येरावति। कुरवश्च सुरुक्षेत्रं च कुरुकुरुक्षेत्रम्। भिन्नलिङ्गः किम्। गङ्गायमुने। मद्रकेकयाः। नदीदेश इति किम्। कुक्कुटमयूर्यौ `अग्रामा इत्यत्र नगराणां प्रतिषेधः' अभक्ष्यो ग्रामकुक्कुट इत्यादौ नगरस्यापि ग्रामशब्देन ग्रहणादारम्भः। नगराणां नायं पर्युदास इत्यर्थः। मथुरापाटलिपुत्रम्। `उभयतश्च ग्रामाणां प्रतिषेधः'। ग्रामनगरयोर्द्वन्द्वे ग्रामनिमित्तः प्रतिषेध एव प्रवर्तते इत्यर्थः। शौर्यं नगरम्। केतवता ग्रामः शौर्यकेतवते। अग्रामाः किम्। जाम्बवं नगरम्। शालूकिनी ग्रामः। जाम्बवशालूकिन्यौ। देश इह जनपदः तेन पर्वातनां न कैलासगन्धमादने।
क्षुद्रजन्तवः ।। 8 ।।
एषां द्वन्द्व एकवत्। यूकालिक्षम्।
क्षुद्रजन्तुरनस्थि स्यादथवा क्षुद्र एव सः।
शतं वा प्रसृतौ येषां केचिदानकुलादपि।।
पश्चादुपन्यस्त एव पक्षोव्यापित्वाद्ग्राह्य इति ग्रन्थकृतः।
येषांचविरोधः शाश्वतिकः ।। 9 ।।
विरोधो वैरम्। नतु सहानवस्थानादि। प्रतियोग्यभावयोरित्यादावतिप्रसङ्गात्। शाश्वतिकः सार्वादिकः। निपातनादिकादेशः तत्वं चात्र एकार्थबिनिवेशप्रयुक्तत्वाभावः। गोव्याघ्रम्। गजसिंहम्। शाश्वतिकः किम्। देवासुरैरमृतमम्बुनिधिर्ममन्थे। एतेन तेषआं न नित्यो विरोधो मथनप्रवृत्तिकाले तदभावादीति निरस्तम्। कालानवच्छिन्नत्वेन वैरविवक्षायां गोव्याग्रमित्यादावव्याप्तेः। विषयान्तरसंचारसुषुप्त्यादौ तद्विच्छेदस्यावश्यकत्वात्। इह पशुशकुनिद्वन्द्वैकवभ्दावविकल्पस्यावकाशो महाजोरभ्रं महाजोरभ्राः। हंसचक्रवाकम्। हंसचक्रवाकाः। येषांचेत्यस्य श्रमणब्राह्मणम्। मार्जारमूषकम्। अश्वमहिषम्। काकोलूकमित्यत्र परत्वाद्विभाषा प्राप्ता चकारस्य निर्धारणार्थतया तां बाधित्वा एकवभ्दाव एव। तेन पशुशकुनिद्वन्द्वे विरोधिनां पूर्वविप्रतिषेध इति नारभ्यम्।
शूद्राणामनिरवसितानाम्।। 10 ।।
अबहिः कृतानां शुद्राणां द्वन्द्व एकवत्। तक्षायस्कारम्। रजकतन्तुवायम्। निरवसानं बहिःकारः। तच्चार्यावर्तात् स च प्रागादर्शात्प्रत्यक्‌कालिकवचनात्। दक्षिणेन हिमवन्तं उत्तरेण पारियात्रमिति भाष्यम्। आदर्शादयः पर्वतविशेषा इति कैयटः। एवं तु किष्किकगान्धिकं शकयवनम्। शौर्यक्रौञ्चीमति न सिध्येत्। ग्रामघोषनगरादिभ्यो बहिर्भावविवक्षायां चण्डालमृतपा इत्यादाव्याप्तिः। यज्ञात्कर्मणस्तदुक्तौ तक्षायस्कारमितिन स्यात्। तस्मात्पात्रादबहिः कृतानामित्येवार्थः।
गवाश्वप्रभृतीनि च ।। 11 ।।
एतानि कृतैकवद्भावानि निपात्यन्ते। गवाश्वम्। गवाविकम्। गवैडकम्। अजाविकम्। अजैडकम् । एषां पशुद्वन्द्वविकल्पः प्राप्तः। कुब्जवामनम्। कुब्जकैरातम् पूत्रपौत्रम्। श्वचण्डालम्। स्त्रीकुमारम्। दासीमाणवकम्। उष्ट्रखरम्। शाटीप्रच्छदम्। प्राणिजात्यर्थानां विध्यर्थः। अप्राणिजातीनामबहुप्रकृत्यर्थः। पाठः। उष्ट्रशशम्। मूत्रशकृत। मूत्रपुरीषम्। यकृन्मेदः। मांसशोणितम्। दर्भपूतीकम्। अर्जुनपुरुषम्। तृणोलपम्। दासीदासम्। अत्र पुमान्‌स्त्रियेत्येकशेषाभावः। कुटीकुटम्। भागवतीभागवतम्।
अत्रवार्तिकम्। `गवाश्वप्रभृतिषु यथोच्चारितं द्वन्द्ववृत्तं, यद्रूप विशिष्टमुच्चारितं तत्रैवैकवद्भाव इत्यर्थः। तेनावङादेशाभावपक्षे न। `अपशवो वा अन्ये गो अश्वेभ्यः पशवो गोअश्वाः।।'
विभाषावृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्।। 12 ।।
शकुन्यन्तानां द्वन्द्वः अन्यत्कण्ठोक्तं द्वन्द्वत्रयं चैंकवद्वा। वृक्षादौ विशेषग्रहणम्। एकपदस्य द्वन्द्वाभावात्पदद्वयैकशेषात् पर्यायद्वयस्यापि विरूपाणामपि समानार्थानामित्येकशेषात्। सामान्यविशेषयोश्च द्वन्द्वनिषेधस्य वाचनिकत्वात्। प्राच्यभरतेष्विति निर्देशादनित्यत्वेऽपि प्रकृते निषेधस्यैव प्रवृत्तेः। प्लक्षन्यग्रोधम् प्लक्षन्यग्रोधाः। रुरुपृषतम्। रुरुपृषताः। कुशकाशम्। कुशकाशाः। व्रीहियवम्। व्रीहियवाः। दधिधृतं दधिधृते। गोमहिषम्। गोमहिषाः। तित्तिरिकपिञ्जलम्। तित्तिरिकपिञ्जलाः। अश्ववडवम्। अश्ववडवौ। पूर्वापरम्। पूर्वापरे। अधरोत्तरम् अधरोत्तरे।
अत्रवार्तिकम्-`बहुप्रकृतिः फलेसनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानाम्'।। समस्थमानपदानां बहुवचनान्तत्वे सत्येवैषां द्वन्द्वः एकवद्भवति नान्यथेत्यर्थः। अनेन प्रकरणविहत एवैक वद्भावो नियतविषयत्वेन व्यवस्थाप्यते नत्वेतत्सूत्रविहित एव। प्लक्षन्यग्रोधावित्यत्र जातिरप्राणिनामिति नित्यैकवद्भावप्रसङ्गात्। वदराम्लकम्। बदरामलकानीति भाष्यम्। तत्र वदरामलकानीति प्राप्ते जातिरप्राणिनामिति नित्य एकवद्भाव इति व्याचष्ट कैयटः।
केचित्तु नित्य एकवद्भावे प्राप्ते विकल्पोऽनेन क्रियते इत्याहुः।
अन्ये तु अस्य बहुप्रकृतिके विकल्पविधिपरत्वेन्यत्र नित्यैकवद्भावापत्त्या बदरामलके तिष्ठत इति भाष्यविरोधान्नेदं युक्तमित्याहुः।
अत्रायं वाक्यार्थः। फलादीनां द्वन्द्वोऽनेन लक्षणान्तरेण वा एकवद्भवन् बहुप्रकृतिरेव। तेन प्लक्षन्यग्रोधौ, व्रीहियवौ, कुशकाशौ इत्यादौ प्रकृतविकल्पो जातिरप्राणिनामिति निषेधश्च न। एतत्सूत्रोपात्तानां तु विषयविभागः प्रदर्श्यते। अप्राणिनां नित्यं प्राप्ते विकल्पो विधीयते सचैकजातिव्याप्यानां जातीनां-पदार्थविभाजकोपाधिसाक्षाव्द्याप्यजतिव्याप्यानामिति यावत्। विजातीयानां तु यथाप्राप्तं। व्रीहिकुशप्लक्षमित्यत्र जातिरप्राणिनामिति नित्यः प्लक्षशब्दस्पर्शम्। प्लक्षशब्दस्पर्शाःष इत्यत्र चार्थे द्वन्द्व इत्युभयम्। अद्रव्यवृत्तिजातितया शब्दत्वादेर्जातिरप्राणिनामित्यस्याप्रवृत्तेः। हस्त्यश्वादिषु सेनाङ्गत्वान्नित्यं प्राप्तो विकल्पः। मृगशकुन्यंशे तु यो विभाषा प्राप्त एकवचनो द्वन्द्वः स मृगविशेषाणां तैरवे सह नान्यैरिति। इतरैः सह त्वितरेतरयोग एवेति फलितोऽर्थः।
तेन पूर्वापरम्, अधरोत्तरमिति व्याख्यातम्। अश्ववडवग्रहणं पशुद्वन्द्वत्वादेव सिद्धेः प्रतिपदविधानार्थम्। तेनैकवद्भावपक्षे पूर्ववदश्ववडवावित्येतद्बाधित्वा सनपुंसकमित्यस्य प्रवृत्तिः। तच्छब्देनैकवद्भावविशिष्टपरामर्शात्। पूर्ववदिति तु एकवद्भावाभावपक्षे प्रवर्तते इति।।
विप्रतिषिद्धं चानधिकरण वाचि ।। 13 ।।
नियमार्थमिदम्। एकवद्भावविशिष्टो यो द्वन्द्वो विकल्पेन प्राप्तःस विरुद्धवचनानां यदि भवति तदा अद्रव्यवाचिनामेवेति। तेन विरुद्धद्रव्यार्थानामितरेतरयोग एव। शीतोष्णे उदके स्तः। अत्र विरुद्धत्वं परस्परात्यन्ताभावसामानाधिकरण्यं परम्परया जलविरुद्धत्वं परस्परात्यन्ताभावसामानाधिकरण्यं परम्परया जलस्योष्णत्वं तद्द्वारको गुमद्वयविशिष्टजलयोर्विरोधः। विप्रतिषिद्धं किम्। नन्दकपाञ्चजन्यम्। पाक्षिकः समाहारद्वन्द्वः। कामक्रोधाविति प्रत्युदाहृतं वृत्तौ। तत्राहुः-शोतोष्णं सुखदुःखमित्यादिवत्पाक्षिकैकवद्भावो दुर्वारः। प्रकृतसूत्रस्य नियमार्थत्वात्। नचाद्रव्यवाचिनां यदि भवति तदा विप्रतिषिद्धानामेवेति तदभिप्रायः। शीतोष्णे उदके इत्यस्यानधिकरणवाचीत्येतत्-प्रत्युदाहरणतया तत्रैव लिखितत्वात्, उक्तरीत्या तत्रापि पाक्षिकैकचद्भावापत्तेः।
न दधीपय आदीनि ।। 14 ।।
एतानि नैकवत्सयुः। दधिपयसी, मधुसर्पिषीष सपिर्मधुनी। अन्यथा व्यञ्जनत्वाद्विकल्पः स्यात्। ब्रह्मप्रजापती। शिववैश्रवणौ। स्कन्दविशाखौ।
स्कन्दश्चैव विशाखश्च द्वौ सुतौ संबभूवतुः।।
इति भारतम्। परिव्राट्‌कौशिकौ। प्रवर्ग्योपसदौ। शुक्लवृक्षे। इध्मार्बिहिषी। निपातनादात्वम्। दीक्षातपसी। श्रद्धामेधे। मेधातपसी अध्ययनतपसी उलूखलमुसले। उदूखलमुसले। आद्यवसाने। श्रद्धामेधे। ऋक्‌सामे। वाङ्भनसे। नचात्र दधिपयसीत्यादौ व्यंञ्जनत्वप्रयुक्तविकल्पनिषेधेऽपि जातिलक्षणो नित्य एकवद्बावोऽस्तीति शङ्कनीयम्। लक्षणविशेषप्राप्तेः प्रतियोगित्वेनानुपादानानिषेधः। तथाच तेनेतरेतरयोगे प्रकृतसूत्रेण च समाहारे द्वन्द्वनिषेधात् एषां द्वन्द्व एव न स्यादिति वाच्यम्। नियमवाक्यानां विधिरूपेण प्रवृत्तिरिति पक्षे जातिरप्राणिनामित्यादिभिर्विहितस्यैकद्भावस्यानेन निषेधात्।।
अधिकरणैतावत्त्वे च ।। 15 ।।
द्रव्यसंख्याप्रतीतौ नैतत्स्यात्। दश दन्तोष्ठाः। अयंच प्राण्यङ्गानां समाहार एव द्वन्द्व इति निषेधो न समाहारद्वन्द्वस्य। वैयर्थ्यात् प्रधानभूते समाहारे एव दशत्वसंख्यान्वयापत्तेः। दशपञ्चपूल्येतिवत्। तथाच वर्तिपदार्थानां संख्याविशेषबोधनतात्पर्ये इतरेतरयोगस्य न्यायत एव प्राप्तेः। तेन `पञ्चस्विहास्यांघ्रिकरेष्वभिष्याभिक्षाधुना माधुकरी सदृक्षे'त्यादिशिद्धम्। नचैवं दशब्राह्मणक्षत्रिया इत्यादेरनुपपत्तिः। उक्तन्यायेनैव तद्वारणात्। तत्त्वं तु नोक्तन्यायेन तद्वारणं सुशकम्। उत्तरसूत्रवक्ष्यमाणरीत्याऽवयवेष्वेव संख्यान्वयसंभवात्। दृष्टान्ते तु समाहारिणां भिन्नसंख्यावरुद्धत्वेन वैषम्यात्।।
विभाषा समीपे ।। 16 ।।
शब्दोपात्तसंख्यासामीप्यावच्छिन्नसंख्यया। द्रव्यविशेषणे समाहार एवेत्येवरूपो नियमो वा स्यात्। उपदशम्‌ पाणिपादम्। उपदशाः पाणिपादाः। नवैकादश वेत्यर्थः। तत्रोपदशमिति सामीप्यप्राधान्येऽव्ययीभावः। समीपप्राधान्ये बहुव्रीहिरित्युक्तम् एकवद्भावपक्षेऽव्ययीभावस्य अन्यदा बहुव्रीहेः प्रयोगः। समानसंख्यावगत्यनुरोधात्।यद्यप्यव्ययीभावो निःसंख्यस्तथाप्यभेदैकत्वसंख्याभिप्रायमिति संप्रदायः। सामीप्यतद्वतोरभेदोपचारात्सामानाधिकरण्यम्। नच संख्यायाः समाहार एवान्वयोपपत्तौ द्वन्द्ववर्तिपदार्थानां तत्परिच्छेद्यत्वानुपपात्तेः। समाहारसमाहारिणोरप्यभेदोपचारात्। एकवत्त्वाभावपक्षे बहुव्रीहिः। समानवचनान्तत्वात्। अव्यीभावे बहुवचनानुपपत्तेः। संभवेऽप्यम्भावापत्तेश्च। एकवद्भावपक्षेऽपि बहुव्रीहेरनुप्रयोगे तु षष्ठ्यामुपदशस्य पाणिपादस्येति स्यात्। इष्यते तु उपदशं पाणिपादस्येत्येवमाकरः।
स नपुंसकम् ।। 17 ।।
समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात्। परवल्लिङ्गापवादः। पञ्चगवम्। दन्तोष्ठम्। प्रकरणादनुवाद्यलाभेऽपि सग्रहणमेतत्प्रकरणबहिर्भूतस्यापि समाहारद्वन्द्वस्य परिग्रहार्थम्। अतएव युवोरनाकावित्यादौ समाहारद्वन्द्वे नपुंसकता स्यादिति वदन्ति। एतेन जन्माद्यस्य यत इति सूत्रे जन्मादीति सौत्रनपुंसकत्वानुरोधेन जन्मस्थितिभङ्गमिति शाङ्करभाष्यं व्याख्यातम्।
अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः। पञ्चपूली। अतइत्यधिकारे द्विगोरिति ङीप्‌विधानं चेह लिङ्गम्। `वाबन्तः' आबन्तोद्विगुः स्त्रियां वा। प़ञ्चखट्वम्। पञ्चकट्वी। स्त्रीत्वपक्षे उपसर्जनहस्व इति पूर्वं व्याख्यातम्।
`अनो नलोपश्च, वा च द्विगुः स्त्रियाम्'। पञ्चतक्षम्। पञ्चतक्षी। नचान्तर्वर्तिविभक्त्या पदत्वान्नलोपसिद्धिरिति वाच्यम्। उत्तरपदत्वे चापदादिविधाविति प्रत्ययलक्षणनिषेधात्। `पात्राद्यन्तस्थ प्रतिषेधः'। पञ्चपात्रम्। त्रिभुवनम्। चतुर्युगम्। द्विमासम्। पात्रादिराकृतिगणः।
अव्ययीभावश्च ।। 18 ।।
नपुंसकं स्यात्। अधिस्त्रि उन्मत्तगङ्गम्। पूर्वपदार्थप्राधान्ये लिङ्गाभावे, अन्यपदार्थप्राधान्ये विशेष्यलिङ्गे प्राप्तेऽयमारम्भः। चकारात्पुण्याहम्। सुदिनाहम्। `पुण्यसुदिनाभ्यामह्नःक्लीबत्वम्'। कर्मधारये राजाहःसखिभ्यइतिटच्। रात्राह्नाहाः पुंसीत्यपवादः। सुदिनशब्दः प्रशस्तार्थः। `सुदिनासु सभासु कार्यमेतत्प्रविचिन्वीत विशेषतः स्वयंवे'तिदर्शनात्।
`पथः संख्याव्ययादेः'। त्रयाणां पन्थाः त्रिपथम्। विरूपः पन्थाः विपथम्। समासान्ताव्यभिचारिसंख्यादिपथशब्दसाहचर्यादव्ययादेरपि कृतसमासान्तस्यैवेदम्। नेह। अतिपन्थाः सुपन्थाश्चेति। नपूजनादिति समासान्तनिषेधः। स्वतीभ्यामेवेति परिगणनात्सत्पथश्चार्चितेऽध्यवनीति सिद्धम्।
व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः।
इत्यत्र विपथं कापथमित्येवपाठ इति क्षीरस्वाम्यादयः।
केचित्तु वारः पथश्च मार्गश्चेति त्रिकाण्डशेषात्पथेगतावित्यस्मादचि पथते व्याप्नोतीति पथशब्दोऽकारान्तः। नचैवं विपथ इत्यादि रूपसिद्धावपि कापथ इत्यस्यानुपपत्तिः। काशब्दस्य पथिशब्दे एव विधानादिति वाच्यम्। ईषदर्थे कादेशे कुत्सायामर्थतः पर्यवसानादित्याहुः।
अन्ये त्वेवं सति पथोविभाषेति सूत्रवैयर्थ्यं स्यात्। अपथमित्यस्य पथशब्दादेवापर्य नपुंसकमित्यनेनापन्था इत्यस्य च पथिशब्दनैव सिद्धेरित्याहुः।
अपरे तु अपथं नपुंसकमिति कृतसमासान्तनिर्देशसामर्थ्यात्पथिशब्दे नञस्तत्पुरुषादिति समासान्तनिषेधस्य असखेत्यादौ चरितार्थस्य नित्यं बाधः प्राप्तः अतोऽपन्था इत्यस्य सिद्धये पथोविभाषेति सूत्रमित्याहुः।
तच्चिन्त्यम्। पथशब्देनौवोक्तरीत्याऽपथशब्दसिद्धौ तद्बाधेऽपि क्षतिविरहात्। अपथमित्यत्र कृतसमासान्तस्य पथो निर्देश इत्याग्रहस्य निर्बीजत्वात्। पथःसंख्याव्याव्ययादेरित्यत्र षष्ठ्यन्तविशेषणान्वयादेव पथिशब्दनिर्देशनिर्णयसंभवात्। अपथोविपथः कापथ इत्यादिरूपासिद्धेरिष्टापत्तेश्च। एतेनापथं नपुंसकमितिसूत्रे रात्राद्वाहाः इति सूत्रानन्तरं पथः संख्येतिवार्तिकस्य पठितत्वात्प्रक्रमानुरोधात्कृतसमासान्त एव न्याय्य इत्यपास्तम्। प्रयोजनाभावे साहचर्यस्याकिञ्चित्करत्वात्।
यत्तु वार्तिकस्यावश्यकत्वे तेनैवापथशब्दसिद्धौ सूत्रवैयर्थ्यमित्याशङ्कष कैयटेनोक्तं सूत्रस्य पूर्वकालत्वादिति, तत्र पथशब्दमकारान्तं विना नकिञ्चिदनुपपन्नमिति व्यर्थ एव तदुपन्यासः प्रत्युत पथशब्दसत्त्वे सूत्रस्य तद्धटितपथशब्दविषयत्वेनापि व्याख्यातुं शक्यतया भिन्नविषयत्वात् वार्तिकेन सूत्रस्य गतार्थत्वात् शङ्कैव न स्यादिति त्वदुक्तावेव कैयटफक्किकायाः प्रातिकूल्यमिति यत्किञ्चिदेतत्। इदंच क्लीबत्वविधानं परवल्लिङ्गताया एवापवादः। तेन विपथा नगरीत्यत्र बहुव्रीहौ पन्थानमतिक्रान्तातिपथेति तत्पुरुषे च तदभावः। `द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषुने'ति अतिपथेत्यत्र परवल्लिङ्गताप्रतिषेधात्। नचैवसुत्पथमिति प्रतीकस्य कुगतीति तत्पुरुष इतिकैयटव्याख्यानविरोधः। तत्रोत्कृष्टः पन्था इति विग्रहेण पथ उद्गत इतविग्रहाभावेन गतिसमासत्वाभावात्परवल्लिङ्गस्यैव प्राप्तेः। तस्मादुत्तरपदार्थप्राधान्ये इदं क्लीबत्वविधानमिति सिद्धम्।।
तत्पुरुषोऽनञ्‌कर्मधारयः ।। 19 ।।
कर्मधारयशब्दः समानाधिकरणतत्पुरुषपरः। एवंच खण्डशक्तिपक्षे तत्पुरुषस्य पृथक्‌शक्तिविषयतया नञ्रपदेनापि तदैन्वयः तथा च नञ्‌तत्पुरुषभिन्नः समानाधिकरणतत्पुरुषभिन्नश्च तत्पुरुष इत्यर्थः। केचित्तु नविद्यते नञ्‌कर्मधारयत्वं यत्र भावप्रधान्यादित्याहुः। अधिकारोऽयम्। ननु संज्ञायामित्युत्तरसूत्रे नास्योपयोगः संज्ञायां कथान्तस्येशीनरविषयस्य तत्पुरुषातिरिक्तस्य ञ्‌कर्मधारयरूपस्य वा समासस्यासंभवात्। अनादिसंज्ञाया एव तत्र ग्रहणादिदानींतन्या अनुपादानात्। नाप्युपज्ञोपक्रममितिसूत्रे षष्ठीतत्पुरुषं विना पूर्वपदार्थबाहुल्यानवबोधात्। नापि सभेत्यत्राशालेति वचनात्संघातार्थस्यैव सभाशब्दस्य ग्रहणात् समूहिव्यतिरेकेण समूहानुपपत्त्या षष्ठीतत्पुरुषस्यैव ग्रहणसंभवात् इति चेत्सत्यम्। विभाषासेनेत्यादिसूत्रे तदुपयोगात्। तत्रार्थवशात्षष्ठीतत्पूरुषपर्यवसानानुपपत्तेः। तत्पुरुषः किम्। दृढसेनो राजा। अनञ् किम् असेना। अकर्मधारयः किम्। परमसेना। इहाधिकारपाठस्तु मन्दबुद्यनुग्रहार्थमित्याहुः।।
संज्ञायां कन्थोशीनरेषु ।। 20 ।।
कन्थान्तस्तत्पुरुषःक्लीबं स्यादुशीनरदेशोत्पन्नकन्थायाः संज्ञा चेत्। सुशमस्यापत्यानि सौशमयः तेषां कन्था सौशमिकन्थम्। संज्ञायां किम् वीरकन्या। उशीनरेषु किम्। दाक्षिकन्था।
उपज्ञोपक्रमं तदाद्याचि ख्यासायाम् ।। 21 ।।
उपज्ञायते इत्युपज्ञा। आतश्चोपस्रेग इति कर्मण्यङ्। उपक्रम्यते इत्युपक्रमः। कर्मणि घञ्। नोदात्तोपदेशस्येति न वृद्धिः। उपज्ञाशब्दान्त उपक्रमशब्दान्तश्च तत्पुरुषः क्लीबं स्यात् उक्तधात्वर्थयोः प्राथम्यविवक्षायाम्। पाणिनेरुपज्ञा पाणिन्युपज्ञं ग्रन्थः। नन्दोपक्रमं द्रोणः। आचिख्यासाग्रहणात् संबन्धमात्रविवक्षायां देव दत्तोपज्ञो रथः।।
छाया बाहुल्ये ।। 22 ।।
पूर्वपदार्थबाहुल्ये सति छायान्तस्तत्पुरुषः क्लीबं स्यात्। इक्षूणां छाया इक्षुच्छायम्। एकस्येक्षोरुपजीव्यच्छायां प्रत्यप्रयोजकत्वात्। इक्षुच्छायानिषादिन्य इति तु जात्यभिप्राय एकत्वे, आसमन्तान्निषादिन्य इति केचित्।
सभा राजाऽमनुष्यपूर्वा ।। 23 ।।
राजूपर्वो मनुष्यभिन्नपूर्वश्च सभाशब्दः क्लीबं स्यात्। इनसभम्। ईश्वरसभम्। पर्यास्यैवेष्यते। इदंच सभाशब्दोत्तरमकारप्रश्लेषात्पर्युदासलभ्यमित्युक्तं प्राक्। नेह। राजसभा। चन्द्रगुप्तसभा। विशेषस्य राज्त्वानवच्छिन्नक्यताकत्वात् त राजमादृश्यम्। नृपतिसभामगमन्नवेपमान इति तु नृपतिशब्दस्य गजपतिवद्राजविशेषार्थत्वादिति केचित्। नृपतिशब्दे बहुव्रीहिः। सभाशब्देन कर्मधारयः अनञ्कर्मधारय इत्युक्ते र्नक्लीबत्वमित्यन्ये। अमनुष्यशब्दो रूढ्या रक्षः पिशाचादिपरः। रक्षः सभम्। नेह काष्ठसभा।
अशालाच ।। 24 ।।
शालावाचीसंघातवाची च स भाशब्दः। राजामनुष्यपूर्वत्वे पूर्वेण पूर्वस्य क्लीबत्वमुक्तम्। संधीतार्थार्थमारम्भः। स्त्रीसभम्। स्त्रीसंघात इत्यर्थः। अशाला किम्। अनाथसभा। अनाथकुटीत्यर्थः।
विभाषासेनासुराच्छायाशा लानिशानाम् ।। 25 ।।
एतदन्तस्य तत्पुरुषस्य वा क्लीबत्वम् ब्राह्मणसेनम्। ब्राह्मणसेना। यवसुरम्। यवसुरा। कुड्यच्छायम्। कुड्यच्छाया। शोभार्थोऽप्यत्र छायाशब्दः। `क्व तच्छयच्छायलवोऽपि पल्लवे'। गोशालम् गोशाला। श्वनिशम्। श्वनिशा। कृष्णचतुर्दशीत्याहः। तिरश्चामपिफलकामनास्तीति पूर्वपक्षोपन्यासार्थं `शुनश्चतुर्दश्यामुपवसतः पश्याम इति शाबरभाष्योक्तेः।
परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ।। 26 ।।
एतयोरुत्तरपदलिङ्गसदृशं लिङ्गं स्यात्। कुक्कुटमयूर्याविमे मयूरीकुक्कुटाविमौ। अर्धं पिप्पल्या अर्घापिप्पली। उत्तरपदार्थप्रधानस्य स्वयमेव सिद्धे द्वन्द्वस्योभयपदार्थप्रधानतया पर्यायेण लिङ्गद्वयप्राप्तौ नियमार्थ तत्पुरुषे विध्यर्थं च।
`द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः'। पञ्चकपालः पुरोडाशः। प्राप्तजीविकः। आपन्नजीविकः। अलंजीविकः। निष्कौशाम्बिः। अत्रेदमवधेयम्। अवयवार्थव्यतिरिक्तसमुदायाभावपक्षे द्वन्द्वतत्पुरुषयोरित्यस्य सप्तम्यन्तत्वे। द्वन्द्वे तत्पुरुषं च यत्परं तद्वल्लिङ्गं भवतीति सूत्रार्थः। तथा च कार्यिणोऽनुपादानात्परशब्दस्य ससेबन्धिकत्वात्तदाक्षिप्तपूर्वपदस्यैव कार्यप्रसङ्गे मर्यूगकुक्कुटावित्यत्र पूर्वपदस्य पुंस्त्वातिदेशे स्त्रीप्रत्ययनिवृत्तिः। कुक्कुटमयूर्यावित्यत्र स्त्रीप्रत्ययश्च स्यात्।
यदि तु षष्ठीनर्देशो व्यतिरिक्तश्च समुदाय इत्याश्रित्य समासादन्यवल्लिङ्गमतिदिश्यते उत्तरपदार्थलिङ्गसदृशं समासार्थस्य लिङ्गान्तरमिति तदाश्ववडवावित्यत्र परवल्लिङ्गे प्राप्ते पूर्वपदार्थलिङ्गसदृशं लिङ्गं समासार्थस्य विधीयते नतूत्तरपदार्थस्येति स्त्रीत्वस्यानिवृत्तेरापः श्रवणे प्राप्ते लुग् वक्तव्यः स्यात्। तदुक्तम्। `समासादन्यदितिचेदश्ववडवयोष्टाब्‌लुग्‌वचन'मिति। समासार्थस्य पुंस्त्वेऽपि उत्तरपदार्थस्य स्त्रीत्वानपायात्।
नचोपसर्जनह्रस्वत्वेन निस्तारः। द्वन्द्वे सर्वेषां प्रथमानिर्दिष्टत्वेऽप्युपसर्जनसंज्ञाविरहात् सर्वपदार्थप्रधानत्वात् उपसर्जनसंज्ञायाश्चान्वर्थत्वात्। अतएव राज्ञः कुमार्या इत्यत्र ह्रस्व इति प्रागुक्तम्। नच समुदायार्थेऽवयवार्थस्य गुणभावादुपसर्जनत्वमिति वाच्यम। व्यतिरिक्तसमुदायरूपद्वन्द्वार्थाभ्युपसमेऽपि अवयवार्थानां कार्यसंबन्धात्फलतः प्राधान्यसत्त्वात्।
अभ्युपेत्य तु ब्रूमः। एवमपि कुक्कुटमयूर्यावित्यत्र दोषतादवस्थ्यम्। अथ तत्र पुनः स्त्रीप्रत्ययात्सिद्धम्। तदुक्तं `परवल्लिङ्गमिति शब्दशब्ददार्थाविति'तन्त्रादिना लिङ्गाभिधायी प्रत्ययो नसंभवति तत्रार्थस्यैवातिदेशः। मयुरीकुवकुटावित्यादौ उभयसंबन्धे तूभयोः कुक्कुटमयूर्यावित्यादि। एवं चौपदेशिकस्य ह्रस्वः आतिदेशिकस्य श्रवणंचेति सिद्धमिष्टम्। नच पुनर्हस्वापत्तिः। अनुपसर्जनत्वात्तदन्तस्याप्रातिपदिकत्वाच्च। नचैवमपि दत्तागार्ग्यायण्यौ, दत्ताकारीषगन्ध्ये इत्यत्रह्रस्वे कृते समासात्पुनःष्फक्‌ष्यडनै स्यातामिति वाच्यम्। भस्याढेतद्धिते इति पूर्वोत्पन्नयोर्न्निवृत्तिसंभवादिष्टापत्तेः। मैवम् दत्ता च युवतिश्चदत्तायुवती इत्यत्रतिप्रत्ययद्वयश्रवणापत्तेः। भसंज्ञाविरहेण तत्र पुंवद्भावानुपपत्तेः। तस्मादुपसर्जनह्रस्वे दोष एवेति स्थितम्। इति प्राप्तेः।
सिद्धान्तः `समासादन्यलिङ्गमिति चेदश्ववडवयोष्टाब्‌लुग्वचनं निपातनात्सिद्ध'मिति। विभाषावृक्षमृगोति सूत्रे अश्ववडवेति ह्रस्वोच्चारणेन टापो निवृत्तिर्निपात्यते इति भावः। द्विगुप्राप्तेति वार्तिकमपि प्रत्याख्यातं भाष्ये। तथाहि-परवल्लिङ्गंद्वन्द्वप्राप्तेति वार्तिकमपि प्रत्याख्यातं भाष्ये। तथाहि-परवल्लिङ्गंद्वन्द्वस्येत्येव वक्तव्यम्। नचपूर्वकायोऽर्द्धपिप्पलीत्यादेरसिद्धिः। कर्मधारयाश्रयणेनैकदेशिसमासस्यार्द्धनपुंसकमित्यस्य च प्रत्याख्यानात्। नचषष्ठीसमासनिवृत्त्यर्थ तत्। तस्यापीवृतायाः प्रागुक्तत्वात्। पूर्वापरेत्यत्रापि षष्ठीसमासस्यानभिवानादेव वारणसंभवादिति।
पूर्ववदश्ववडवौ ।। 27 ।।
द्विवचनमतन्त्रम्। अर्थातिदेशोऽयम्। परवल्लिङ्गतापवादः। अश्ववडवौ। अश्ववडवान्। अश्ववडवैर्जवनौरित्यादि।।
हेमन्तशिशिरावहोरात्रे चच्छन्दसि ।। 28 ।।
पूर्ववत्। हेमन्तशिशिरावृतूनांप्रीणामि। हेमन्तश्चशिशिरंच हेमन्तशिशिरौ। हेमन्तः शिशिरोऽस्त्रियामिति शिशिरशब्दस्योभयलिङ्गत्वात्‌हेमन्तशिशिराविति न पठनीयमिति केचित्। वस्ततस्तु नपुंसकशिशिरशद्बस्योत्तरपदत्वेऽपि छन्दसि हेमन्तशिशिरावित्यस्य नियमार्थमेतत्। अहोरात्रे शिवे स्याताम्। द्विवचनमतन्त्रम्। अर्थातिदेशतया निपातनत्वाभावात्। तेन `पूर्वपक्षाश्रितयोऽपरपक्षाः पुरीषमहोरात्राणीष्टका' `अहोरात्राणि विदधत्। न चेदं समाहारद्वन्द्वे सत्येकशेषादेव सिद्धम्। तत्रापि पुंस्त्वस्य वक्ष्यमाणत्वात्। लोके तु दुःखे हेमन्तशिशिरे। अहोरात्रौ पुण्यौ।
रात्राह्नाहाः पुंसि ।। 29 ।।
एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव। रात्रेः पूर्वभागः पूर्वरात्रः। एकदेशिसमासः। `अहः सर्वैकदेशे' त्यच् पूर्वाह्णः। राजाहः सखिभ्यइति टच्। `अह्नोह्न एतेभ्य'इत्यह्नादेशः। अह्नोदन्तादितिणत्वम्। द्व्यहः। `नसंख्यादेः समाहारे'इति अह्नादेशनिषेधः। `अह्नष्टखोरेव'इतिटिलोपः। परवल्लिङ्गमित्यस्यैवायमपवादः। सन्निधानात्। परत्वात्तु समाहारे नपुंसकस्य बाधः। अहोरात्रः। नच रात्रादिनां समासोत्तरपदानामेवानेन पुंस्त्वं विधीयते। तदन्तस्य तु परवदिसमासोत्तरपदानामेवानेन पुंस्त्वं विधीयते। तदन्तस्य तु परवदीस्यनेनैव सिद्धमिति वाच्यम्। समाहारे नपुंसकापत्तेः। तस्य परवदित्येतदपवादत्वात्। नचेष्टापत्तिः। मासेन स्यादहोरात्रः। ते तु त्रिंशदहोरात्र इत्यादिविरोधात्। द्विरात्रस्त्रिरात्र इत्यादौ तु संख्यापूर्वारात्रिरिति लिङ्गानुशासने विशिष्टपुंस्त्वविधानात् वृत्याद्युक्तं पुंस्त्वं चिन्त्यम्। `अनुवाकादयः पुंसीतिवाच्यम्'। अनुवाकः। शंयुवाकः सूक्तवाकः। वाक्यविशेषार्थकत्वात्क्लीबत्वादारम्भः।
अपथं नपुंसकम् ।। 30 ।।
तत्पुरुषे। अन्यत्र त्वपथा नगरी। समासान्तविशिष्टनिषेधान्नेह। अपन्थाः।
अर्धर्चाः पूंसि च ।। 31 ।।
चकारेण क्लीबानुकर्षः। आदिपरिग्रहार्थं बहुवचनम्। आकृतिगणोऽयम्। तेच गणरत्ने संगृहीतास्तएव चास्माभिरक्षरक्रमेण निबध्यन्ते।
अर्द्धर्चकूर्चकवचक्रकचा वर्चस्कपङ्कवलीकाः।
निष्कानीकपिनाकाढकमोदककटकटङ्कपिण्याकाः ।। 1 ।।
मञ्चकपञ्चकदण्डकतण्डकषष्ठिकचषकसरकशोकाः।
शाकाशोकौ शुल्कं मस्तकवरका विटङ्कपिटकशूकाः ।। 2 ।।
फलकनपुंसकमूलकपातकनखपुङ्खशङ्खाश्च।
शृङ्गविडङ्गतडागोद्योगनिदाधा ध्वजव्रजाम्भोजाः ।। 3 ।।
कुञ्जोवाजः कुक्कुटकिरीटकुटकूटकर्वटकपाटाः।
नदनिकटशकटकंकटपटपेटमठकण्ठकाण्डदण्डानि ।। 4 ।।
नीडाण्डमण्डखण्डा खाढतृणस्थाणुवेणुरेणुतुणाः।
तोरणसुवर्णभूषणकार्षापणवारणचरणरणाः ।। 5 ।।
बाणव्रणापराण्हद्रोणावृतहस्तपलितघृतमूताः।
कुस्तक्ष्वेडितवृत्तप्रयुतवसन्तामृतायुता वास्तु ।। 6 ।।
पुन्नपुंसकयोः शेषोर्द्धपिण्याकण्टकाः।
मोदकस्तण्डकष्टङ्कः शाटकः खर्वटोऽर्बुदः ।। 7 ।।
घातकोद्योगचरकतमालामलका नडः।
कुष्टं मुण्डं सीधु पुस्ते क्ष्वोडितं क्षेमकुट्टिमम् ।। 8 ।।
संगमं शतमानार्भशंबलाव्ययताण्डवम्।
कवियं कन्दकार्पासं पारावारं युगन्धरम् ।। 9 ।।
पृयं पत्रीवपात्रीवे यूषं चमसचिक्कसौ।
अर्द्धर्चादौ घृतादीनां पुंस्त्वाद्यं वैदिकं ध्रुवम् ।। 10 ।।
तन्नोक्तमिह लोकेऽपि तच्चेदस्त्यस्तु शेषवत्।
पिण्याकंतिलखलि।। तण्डलं परिस्वारः-च्छदोगानां ग्रन्थविशेषः। दण्डकं छेदः। खर्वटः चतुश्शतग्रामाणां संग्रहस्थानम् अर्बुदोऽक्षिरोगसंख्याभेदौ। पातको गोहत्यादिः। चरकं वैद्यविशेषः। नडोऽन्तः सुषिरं तृणम्। पुस्तं मांसशष्कुली।
द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते।
शतमानं तु दशभिः धरणैः पलमेवच।।
इति स्मृतिः। अर्भोऽक्षिरुक्। शंवलः पथि व्ययः। कवियमश्वमुखवन्धनम्। पारमवारंच नदीतीरे। पूयं क्लिन्नासृक्। प्रग्रीवं वातायनम्। पात्रीवं यज्ञोपकरणम्। विष्कसं यवपृष्ठम्। परवल्लिङ्गमित्यतिदेशोपयोगप्रसङ्गात्पाणिनीयलिङ्गानुशानसूत्राणि व्याख्यायन्ते।
लिङ्गं। स्त्री। अधिकारसूत्रे एते। आद्यो व्यापकः। द्वितीयः पुंसीत्येतत्पर्यन्तः। ऋकारान्तमातृद्वहितृस्वसृयातृननान्दरः। अन्योषामृदन्तानां ङीप्‌विधानात्। स्वस्रादिसप्तकमध्येच तिसृचतसृ एतत्स्थआनिनो स्त्रिचतुरो र्ऋदन्तत्वाभावात्। पञ्चैवेमे स्त्रीलिङ्गः।
अन्यूप्रत्ययान्तोधातुः। अनिप्रत्ययान्तेऽवनिरित्यादिः। ऊप्रत्ययान्तश्चमूरित्यादिः। प्रत्ययेतिकिम्। देवयतेः किप्। दयूः। विशेष्यनिध्न एव।
अशानिभरण्यरणयः पुंसिच। अन्यन्तत्त्वान्नित्यस्त्रीत्वप्राप्तौ पाक्षिकपुंस्त्वार्थभारम्भः। इयमयं वाऽशनिरिति।
मिन्यन्तः।। मिप्रत्ययान्तो निप्रत्ययान्तो धातुः स्त्रियाम्। भूमिः। ग्लानिः। भवामि भवानीत्यादौ असत्त्वभूतत्पान्नानिव्याप्तिः।
वह्निवृष्ट्यग्नयः पुंसि। पूर्वस्यापवादः।
श्रेणियोन्यूर्मयः पुंसिच।। इपमयं वाश्रोणिः।
क्तिन्नन्तः।। कृतिरित्यादि
ईकारान्तश्च लक्ष्मीरित्यादि
ऊङाबन्तश्च कुरूः।। विधा
य्वाद्यन्तमेकाक्षरम्।। ईदूदन्तं प्राग्वत् श्रीः। भूः। एकाक्षरं किम्। वातप्रमीः।। विंशत्यादिरानवतेः।। तद्‌गुणसंविज्ञानो बहुव्रीहिः। आङभिव्याप्तौ। इयं विंशतिः। त्रिंशत् चत्वारिंशत्। पञ्चाशत्। षष्ठिः सप्ततिः। अशीतिः। नवतिः।।
दुन्दुभिरक्षेषु।। दुन्दुभ्या किल तत्कृतं पतितया यद्द्रौपदी हारिता। अक्षेति किम्। केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम्।।
नाभिरत्तत्रिये।। इयं नाभिः।।
उभावन्यत्र पुंसि।। दुन्दुभिर्नाभिश्चोक्तन्पस्मिन्नर्थे पुंसि। नाभिः क्षत्रियः। `समुच्छ्वसत्पङ्कजप6कोमलैरुपाहितभ्रीण्युपनीवि नाभिभिरितिभारविप्रयोगात्पुंस्त्वमपि। लिङ्गस्य लोकाश्रयत्वात्।
नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान्।
द्वयोः प्राणिप्रतीके स्यात् स्त्रियां कस्तूरिकामदे। इति मेदिनी। तलन्तः स्त्रियां स्यात्। शुक्लस्य भावः शुक्लता। ब्राह्मणस्य कर्म ब्राह्मणता। ग्रामाणो समूहो ग्रामता। देव एव देवता।
भूमिविद्युत्सरिल्लतावनिताभिधानानि। भूर्भूमिः। विद्युत्सौदामनी। सरिन्निम्नगा। लता वल्ली। वनिता योषित्।
यादो नपुंसकम्। सरिदर्थोऽपि यादःशब्दः क्लीबम्।
भाःस्रुक् स्रग्‌दिगुष्णिगुपानहः। इयं भा इत्यादिः।
स्थूणोर्णे नपुंसकेच। स्रियां क्लीबेच स्युः स्थूणा।
स्थूणम्। ऊर्णा। ऊर्णम्। स्थूणा स्तम्भः। ऊर्णा मेषादिलोम।
गृहशशाभ्यां क्लीबे। नियमार्थम्। गृहस्थूणम्। शशोर्णं शशलोमनीत्यमरः।
प्रावृट् विप्रुट् रुट्‌तृट्‌विट्‌त्विषः। स्त्रियां स्युः। विप्रुषः स्पर्शमात्रवेद्या जलकणा इति वाचस्पतिमिश्राः।
दर्विविदिवेदिखनिशान्यश्रिवेशिकृष्योषधिकट्यङ्गुलयः। पक्षे ङीप्। दर्वी। दर्विरित्यादि।
तिथिनाडिरुचिवीचिनालिधूलि(किकिःकेंलि चविरात्रज्‌यादयः। इयं तिथिरित्यादि। तिथयो द्वयोरित्यमरः। निखिलान्निशिपूर्णिमातिथीन्। इतिश्रीहर्षः।
शष्कुलिराजिकुट्यशनिवर्ति भ्रुकुटि त्रुटि वलिपङ्क्तयः। एतेऽपि स्त्रियां स्युः।
प्रतिपदापद्विपत्संपत्‌ शरत्संसत्परिषदुषः संवित्‌क्षुत्‌पुन्मुत् समिधः। इयेप्रतिपदित्यादि उषाः प्रातर्देवता जदद्वन्द्यां देवीमुषसमिव वेदे भगवतीमिति भवभूतिः।
आशीर्धूः पूर्गीर्द्वारः। इयमाशीरित्यादि।
अप्सुमनः समासिकतावर्षाणां बहुत्वंच। पुष्पार्थोऽत्र सुसनःशब्दः। प्रायिकं चैषां बहुत्वम्। एका च सिकता तैलदानेऽसमर्थेति भाष्यम्। समां समां विजायते इति सूत्रम्। वेश्या श्मशानसुमना इव वर्जनीयेति मृच्छकटिकायाम्।
स्रक्‌त्वक् ज्योग्वाग्यवागूनौस्फिचः। स्पष्टम्।
तृटिसीमा संवध्याः। स्पष्टम्।
चुल्लिवेणि खार्यश्च। स्पष्टम्।
ताराधाराज्योत्स्नादयश्च। शलाका स्त्रियां नित्यम्। नित्यग्रहणमन्येषां क्वचिद्व्यभिचारसूचनार्थम्।
इति स्त्र्यधिकारः
पुमान्। अधिकारोऽयम्। अधिकारान्तरपर्यन्तः।
घञबन्तः। पाकस्त्यागः। करो गरः। भावार्थ एवेदम्। नपुंसकत्वविशिष्टे भावे क्तल्युङ्‌भ्यां स्रीत्वविशिष्टे तु क्तिनादिभिर्बाधितत्वेन परिशेषात्। कर्मादौ तु घञाद्यन्तमपि विशेष्पलिङ्गं `संबन्धमनुवर्तिष्यते इति भाष्यप्रयोगात्।
घाजन्तश्च। विस्तरः गोचरः। चयः। जयः।
भयलिङ्गभगपदानि नपुंसके। स्पष्टम्।
नङन्तः यज्ञः। यत्नः।
याच्ञास्रियाम्। पूर्वापवादः।
क्यन्तो घुः। किप्रत्ययान्तो घुसंज्ञो धातुः पुंसि। आधिः। निधिः। उदधिः। क्यन्तः किम् दानम्। घुःकिम्। जज्ञिर्वीजम्।
इषुधिः स्रीच। पूर्वस्यापवादः।
देवासुरात्मस्वर्गगिरिसमुद्रनखकेशदन्तस्तनभुजकण्ठखड्गशरपङ्काभिधानानि। एतत्पयार्याः पुंसि। देवाः। अमराः। असुरा दैत्याः। आत्मा क्षेत्रज्ञः। स्वर्गः नाकः। गिरिः पर्वतः। समुद्रोऽकूपारः। नखः कररुहः। केशः कचः। दन्तः दशनः। स्तनः कुचः। भुजो दोः। कण्ठः गलः। खङ्गः करवालः। शरो मार्गणः। पङ्कः कर्दमः इत्यादिः।
त्रिविष्टपत्रिभुवने नपुंसके। स्वर्गपर्यायत्वेन प्राप्तपुंस्त्वापवादः।
द्यौःस्त्रियाम्। द्योदिवोस्तन्त्रेणोक्तिः।
इषुवाहूस्त्रियाच। चात्पुंसि।
बाणकाण्डौ नपुंसकेच। प्राग्वत्। नान्तः। राजा। तक्षा। अपवादो वक्ष्यते।
ऋतुपुरुषकपोलगुल्ममेधआभिधानानिः। कृतुर्यज्ञइत्यादि अभ्रं नपुंसकम्। मेघनामत्वेन प्राप्तपुंस्त्वापवादः।
उकारान्तः। प्रभुः। इक्षुः। विशेषवचनाभावे चेदम्।
धेनुरज्जुकुहूसरयुतनु करेणु प्रियंगवः स्त्रियाम्।
समासे रज्जुः पुंसिच। कर्कटरज्ज्वा। कर्कटरज्जुना।
श्मश्रुजानुवसुस्वाद्वश्रुजतुत्रपुतालूनि नपुंसके वसुचार्थवाची। तेन वसुर्मयूखाग्निधनाधिपेषु इत्यादौ पुंस्त्वम्।
मद्‌गुमधु शीधुसानुकपण्डलूनि नपुंसकेच। तात्पुंसि। रुत्वन्तः। मेरुः। सेतुः।
दारुकशेरुवस्तुमस्तूनि नपुंसके। पूर्वापवादः।
प्राग्रश्मेरकारान्तः। रश्मिदिवसाभिधानमित्यत प्राक् अकारान्त इत्यदिकारः।
कोपधः। स्तबकः कल्कः।
चिबुकशालूक प्रातिपदिकांशुकोल्मुकानि नपुंसके। पूर्वापवादः। कण्टकानीकसरकमोदक चषकमस्तक पुस्तक तटाक निष्क शुष्कवर्चस्क पिनाक भाण्डक पुलाकानि नपुंसकेच्।
टोपधः। अकारान्तत्वे सति टोपधः पुंसि। घटः। पटः। किरीटमुकुटललाटवटवीट शृंगाट कराट लोष्टानि नपुंसके। कुटकूटकवाटकर्पट तटनिकटकीटकटानि नपुंसकेच। चात्पुंसि।
णोपधः। गुणः। पाषाणः।
ऋणलवणपर्णतोरणरणोष्णानि नपुंसके। पूर्वापवादः। कार्षापणस्वर्णसुवर्णव्रणचरणवृषणविषाणचूर्णतृणानि नपुंसके च।
थोपधः रथः काष्ठपृष्ठरिक्थोक्थानिनपुंसके।
काष्ठा दिगर्थास्त्रियाम्। इमाः काष्ठाः। तीर्थप्राथयूथगाथानि नपुंसके च।
नोपधः। इनः। फेनः। जघनाजिन तुहिन कानन वृजिन विपिन वेतन शमनमिथुनश्मशानरत्नानिम्नचिह्नानि नपुंसके। पूर्वापवादः। मानयानाभिधान नलिनोद्यानशयनासनस्थन चन्दनालानसंमानवसनभावनसंभावनविभावन विमानानि नपुंसके च।
पोपधः। यूपः। दीपः। पापरूपोडुप तल्पशिल्पपुष्पशष्प समीपांतरीपाणि नपुंसके। पूर्वापवादः।
शुर्पकुतपकुणपद्वीपविटपानिनपुंसकेच। शूर्पः इदं शूर्पमित्यादि
भोपधः। स्तम्भः कुम्भः
तलभं नपुंसकम्। पूर्व स्यापवादः।
जृम्भं नपुंसकेच। मोपधः। सोमः। भीमः।
रुक्म सिध्मयुग्मैध्मगुल्माध्यात्म कुङ्कुमानि नपुंसके। पूर्वापवादः।
संग्रामदाडिमकुसुमाश्रम क्षेमत्तौमहोमोद्दामानि नपुंसकेच। योपधः। समयः। हयः।
किसलयहृदयोत्तरीयाणि नपुंसके। गोमयकषायमलयान्वयाव्ययानि नपुंसकेच। रोपधः। क्षुरः। अङ्कुरः।
द्वाराग्रस्फारतक्रचक्रवप्रक्षिप्रक्षुद्रच्चिद्र नारतीरदूरकृछ्ररन्ध्राश्रश्वभ्र(ग)मीर तिमिरक्रूरविचित्रकेयूरकेदारोदर शरीरकन्दर मन्दारपञ्जरजठराजिरवैरचामरपुष्करगह्वरकुहरकुटीकरुलीरचत्वार काश्मीरनीराम्बरशिशिर तन्त्रमन्त्रक्षेत्रमित्रकलत्रचित्रसूत्रव क्त्रनेत्रगोत्राङ्गुलित्र भलत्रास्त्रशास्त्रवस्त्र पत्र पात्रक्षेत्राणि नपुंसके। पूर्वापवादः।
शुक्रमदेवतायाम्। इदं शुक्रं रेतः।
चक्रवज्रान्धकार सारवारपारक्षीरतोमर श्रृङ्गारभूङ्गारमंदारोशीरतिमिरसिशिराणिनपुंसकेच। सोपधः। वत्सः। वायसः। महानसः।
पनसबिसबुस साहसानि नपुंसके। चमसांसरसनिर्यासोपवासकार्पासवास मास कांसमांसानि नपुंसकेच। कंसं चाप्राणिनि। कंसोऽस्त्री पानभाजनम्। प्राणिनि तु कंसो राजा।
समाप्तोऽकारान्ताधिकारः।
रश्मिदिवसाभिधानानि। एतानि पुंसि। रश्मिः मयूखः। दिवसः। घस्रः।
दीधितिः स्त्रियाम्। पूर्वापवादः।
दिनाहनी नपुंसके। तद्वत्।
मानाभिधानानि। कुडवः। प्रस्थः।
द्रोणाढकौ नपुंसकेच। इदं द्रोमम् अयं द्रोमः।
खारीमानिके स्त्रियाम्। इयं खारी। इयं मानिका।
दाराक्षतलाजासूनां बहुत्वंच। एते वयमिमे दाराः।
नाड्यपजनोपपदानि व्रणाङ्गपदानि। अयं नाडीव्रणः। अंपाङ्गः जनपदः। उक्तस्थले क्लीबत्वनिवृत्त्यर्थं सूत्रम्।
मरुद्गरुत्तरदृत्विजः अयं मरुदित्यादि।
ऋषिराशिदृतिग्रान्थिक्रिमिध्वनिबलिकौलि मौलिरविकविकपिमुनयः। ध्वजगजमुञ्जपुञ्जाः।
हस्तकुन्त व्रातवातदूतधूर्तसूचतूतमुहूर्ताः। मुहूर्तोऽस्त्रियामित्यमरः।
खण्डमण्डकरण्डवरण्ड तुण्डगण्ड मुण्डपाखण्ड सिखण्डाः।
वंशांशपुरोडाशाः। पुरोदाश्यते इति पुरोडाशः। निपातनाड्डुत्वम्।
ह्रदकन्दकुन्दवुद्बुदशब्दाः। अर्घपथिमथ्यृभुक्षिस्तम्बनितम्बपूगाः। पल्लव पल्वक कफरेफ कटाहनिर्व्यूहमठमणि तरङ्गतुरङ्गगन्धस्कन्धमृदङ्ग सङ्ग समुद्रपुंरवाः।
सारऱ्यतिथिकुक्षिबस्ति पाण्यञ्जलयः। इति पुंल्लिङ्गाधिकारः।
नपुंसकम्। अधिकारोऽयम्।
श्रवे ल्युडन्तः। हसनम्। भावे किम्। इध्मव्रश्चनः। कुठारः।
निष्ठाच। भाव इत्यनुवर्तते। हसितम्। गीतम्।
त्वष्यञौ तद्धितौ। शुक्लत्वं। शौक्लयम्। षित्वसामर्थ्यात्पक्षे स्त्रीत्वम्। चातुर्यम्। चातुरी। सामग्र्यम्। सामग्री।
कर्मणिच ब्राह्मणादिगुणवचनेभ्यः। ब्राह्मणस्य कर्म ब्राह्मण्यम्।
यद्यढक् यगञण्‌वुञ्‌छाश्च। भावकर्मणोरनुवृत्तिः।
स्तेनाद्यत्। स्तेयम्।
सख्युर्यः। सख्यम्।
कपिज्ञात्योर्ढक्। कापेयम् ज्ञातेयम्।
पत्यन्तपुरोहितादिभ्यो यक्। आधिपत्यम्।
प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् औष्ट्रम्।
औद्गात्रम्।
युवादिभ्योऽण्। द्वैहायनम्।
द्वन्द्वमनोज्ञादिभ्यो वुञ्। पैतापुत्रकम्। मानोज्ञकम्।
हौत्रादिभ्यः अच्छावाकीयम्।
अव्ययीभावः। आधिस्त्रि। `द्वन्द्वैकत्वम्'। पाणिपादम्।
अभाषायां हेमन्तशिशिरावेहारात्रेच। अनञ्‌कर्मधारयस्तत्पुरुषः। अदिकारोऽयम्।
अनल्पे छाया शरच्छायम्।
राजामनुष्यपूर्वा सभा। इनसभमित्यादि।
सुरासंनाच्छायाशालानिसास्त्रियांच।
शिष्टः परवत्। अन्यस्तत्पुरुषः परवल्लिङ्गः स्यात्।
रात्राह्नाहाः पुंसि। अपथपुण्याहे नपुंसके।
संख्यापूर्वारात्रिः। संख्येति किम्। सर्वरात्रः।
द्विगुः स्त्रियांच। पञ्चमूली। त्रिभुवनम्।
इसुसन्तः। हविः। धनुः।
अर्चिः स्त्रियांच। इयमिदंवाऽर्चिः।
च्छदिः स्त्रियामेव पटलं छदिरित्यमरः। साहचर्यात्क्लीबे इतित्वमरव्याख्यातारः।
मुखनयनलोहवनमांसरुधिरकार्मुक विवरहल घनान्नाभिधानानि। मुखम्। आननम्। नयनम्। लोचनमित्यादि।
सीरार्थौदनाः पुंसि। वक्त्रनेत्रारण्यगाण्डीवानिपुंसिच। अटवी स्त्रियाम्।
लोपधः। कुलम्। कूलम्। म्थलम्।
तूलोपलतालकुसूलतरल कवलदेवलवृषलाः पुंसि। अयं तूलः।
शलिभूलमङ्गलसामलकमलतलमुसलकुण्डलपललमृणालवालनिबलपलगलाविडालाखिलशूलाः पुंसिचा।
शतादिःसंख्या। शतम्। सहस्रम्। शतदिरिति किम्। एको द्वौ बहवः। पूर्वपदभ3मनिरासार्थं संख्यापदम्। शतश्रृङ्गो नाम पर्वतः।
सतायुतप्रयुताः पुंसिच।
लक्षाकोटी स्त्रियाम्। कियती पञ्चसहस्री कियती लक्षाऽयकोटिरपि कियती। `वा लक्षा नियुतंचतदित्यमरात्क्लीबेऽपि लक्षम्।
शङ्कुः पुंसि। सहस्रः क्वचित्।
मन्द्व्यच्कोऽकर्तरि। मन्नन्तो द्व्यच्कः क्लीबे नतु कर्तरि। चर्म। वर्म। द्व्च् किम्। अणिमा। महिमा। अकर्तरिकिम्। ददाति दामा।
ब्रह्मन् पुंसिच। नामलोमनी नपुंसके। प्रपञ्चार्थम्। असन्तो द्व्यच्कः।। यशः। मनः तपः। द्व्यच्‌किम् चन्द्रमाः।
अप्सराः स्त्रियाम्।। त्रान्तं। पत्रम्। छत्रम्।।
यात्रामात्राभस्त्रादंष्ट्रावरत्राः स्त्रियामेव।। भृत्रामित्र(छात्रपुत्रमन्त्र)वृत्रमेढ्रोष्ट्राः पुंसि।। तस्यमित्राण्यमित्रास्ते इति माघः।
पत्रपात्रपवित्रसूत्रच्छत्राः पुंसिच।। बलकुसुमयुद्धपत्तनरणाभिधानानि। पद्मकमलोत्पलानि पुंसिच। वापुंसिपद्ममित्यमरः।। पद्माह्निमेप्रावृषिखञ्जरीटानिति श्रीहर्षः।।
आहवसंग्रामौ पुंसि। आजिः स्त्रियामेव। फलजातिः। फलवाची शब्दः क्लीबे। आमलाकम्। आम्रम्।।
वृक्षजातिः स्त्रियामेव। क्वचिदेवेदम्। हरीतकी।।
वियज्जगच्छकन् कृषत् पृषत् शकृत् यकृदुदश्वितः नवनीतावतानृतामृतनिमित्तवित्तपित्तव्रतरजतवृत्तपलितानि।। श्राद्धकुलिशदैवपीठकुण्डाङ्गददधिसक्थ्याज्यस्यदाकाशकण्वबीजानि दैवं पुंसिच।। धान्याज्यसस्य रूप्य कुप्यपण्याधिष्ण्यहव्यकव्यकाव्यमत्यापत्यमूल्यशिक्यकुड्यहर्म्यतूर्यसैन्यानि। द्वन्द्वबर्हदुःखबडिशपिच्छबिम्बकुटुम्बशरवृंदारकाणि।। अक्षमिन्द्रिये।। इति नपुंसकाधिकारः।
स्त्रीपुंसयोः। गोमणियष्टमुष्टिपाटलिशाल्मलितृटिमषिमरीचयः।। मन्युसिन्धुकर्कन्धु किष्कुकण्डुरेणवः।। गुणवचनमकारान्तं नपुंसकंच।। त्रिलिङ्गमिति फलितार्थः। पटु, पटुः, पट्‌वी।
अपत्यार्थतद्धिते।। औपगवः।। औपगवी।।
इति स्त्रीपुंसाधिकारः।।
पुंनपुंसकयोः घृतभूतमुस्तक्ष्वेलितैरावतपुस्तकबुस्तलोहिताः।। श्रृङ्गार्घनिदाघोद्यमशल्लयदृढाः। व्रजकुञ्जकुथकूर्चपुच्छदर्पार्मार्द्वर्चदर्भपुच्छाः। कबन्धौषधायुधान्धाः।। दण्डमण्डखण्डशवसैन्धवपार्श्वाकाशकुशकाशांकुशकुलिशाः।। शलाकायां कुशा। अयोविकारः कुशा।
गृहमेहदेहपट्टपटहाष्टापदाम्बुदककुदाश्च।।
इति पुंनपुंसकाधिकारः।। अविशिष्टलिङ्गम्।।
अव्ययम्।। कतियुष्मदस्मदः। ष्णान्तासंख्या।। शिष्टा परवत्।। षान्तनान्तीभिन्ना संखअया विशेष्यलिङ्गा।।
गुणवंचनं च।। धर्मिलिङ्गमित्यर्थः।।
कृत्याश्च।। करणाधिकरणयोर्ल्युट्।। सर्वादीनि सर्वनामानि।। स्पष्टार्थेयं त्रिसूत्री। िति पाणिनीयलिङ्गानुशासनं समाप्तम्।।


चतुर्थपादे प्रथमाह्निकम् (प्रकृतमनुसरामः)
इदमोऽन्वोदशेऽशनुदात्त स्तृतीयादौ ।। 32 ।।
अन्वादेशविषयस्येदंशब्दस्य तृतीयादावनुदात्तोऽसादेशः स्यात् एकस्मिन् विधावुद्देश्यत्वेनोपात्तस्य विध्यन्तरेऽप्यनुपदेशोपादानमन्वादेशः। पश्चात्कथन्‌मात्रस्य तथात्वे देवदत्तं भोजनय इमंच यज्ञदत्तमित्याचक्ष्यमाणस्यैनादेशस्य प्रसङ्गात्। तत्र प्रत्यासत्त्या इदमैव कथितस्यानुकथनमेव तथेतिभ्रान्तिनिरासार्थम्-अन्वादेशश्च कथितानुकथनमात्रमिति भाष्यम्। तेन शब्दान्तरेणेदमा वेति नाग्रहः। अतएवैकस्याभिधेयस्य पूर्वशब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनमन्वादेश इति वृत्तावुम्। उद्देश्यत्वंच तत्कोटिप्रवेशसाधारणम्। वन्यद्विपेनोन्प्रथितात्वगस्य, अथैनमद्रेस्तनाशुशोचेत्यत्रास्येत्यस्योद्देश्यत्वविशेषणत्वात्। अथैनमद्रेस्तनयाशुशोचेत्यत्रास्येत्यस्योद्देश्यत्वविशेषणत्वात्। अथ कथं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापयेति।
अत्राहुः-तदमुमिति अदःशब्दएव पाठ्यइति। अन्ये तु भीरुरयमिति न विधिः किन्त्वनुवाद इति।
तत्न्न। पर्वतोवह्निमानित्यत्र वह्नेरिव विषयताविशेषस्यैवात्र विधिपदार्थत्वादज्ञानतज्ञापकत्वरूपस्य विधित्वस्याविवक्षितत्वात्। अयं भीरुरित्यानुपूर्व्या इदमुद्देशेन भीरुत्वस्य विधेयत्वावश्यकत्वात्। अपूर्वं बोधयितुमित्यस्य कोर्थः, सम्बोध्यं बोधयितुमितिवा यं कंचिदिति वा। नाद्यः। सम्बोधनरहितवाक्ये तदसिद्धेः। तदेनमुल्लाङ्घितशासनं विधेरित्यादेरसिद्धेश्च। नान्त्यः। प्रकृतेऽपि तस्य सत्त्वात्।
तस्माद्वाक्यद्वयस्य परस्परनिरपेक्षत्वे सत्येवान्वादेशः। अत्रापि भीरुत्वस्य तच्छब्देन हेतुन्वप्रतीरेकवाक्यत्वान्न तथा। वन्यद्विपेनोन्मथिता त्वगस्येत्यस्य शोचनहेतुत्वेऽपि तस्यशब्दानुपात्तत्वान्नदोष इति केचित्। एतेनायं दण्डोहरानेन। एतमातंङितं विद्यादित्यपि व्याख्यातम्। मर्यादाभिविधौच य इत्यनेन सहैकवाक्यत्वात्। तदुक्तंवृत्तिकारैः--यत्र किञ्चिद्विधाय वाक्यान्तरेण पुनरन्यदुपदिश्यते सोऽन्वादेशःष इहतु वस्तुनिर्देशमात्रं कृत्वैकमेव विधानमिति। एतेन निरपेक्षत्वान्नान्वादेशत्वमित्यपास्तम्। अनु-पश्चादादेशो विधिरिति निराकाङ्क्षत्वस्य प्रतीयमानत्वात्(1)।
यत्तु तथापि तदेनमुल्लङ्घितशासनंविधे र्विधेहि कीनाशनिकेतनातिथिमित्येतद्विरोध इति तन्न। यद्वाक्यापेक्षमन्वादेशत्वं तद्वाक्यार्थमात्रस्यान्वादेश वाक्यार्थहेतुत्वे एवान्वादेशात्वाभावात्। तदेनमित्यत्र चानेकवाक्यार्थानां हेतुत्वादिति दिक्।
हे रोहिणि त्वमसि शीलवतीषु धन्या।
एनं निवारय पतिं सखि दुर्विनीतम्।
जालान्तरेण मम वासग्रहं प्रविष्टः।
श्रोमीतटं स्पृशति किं कुलधर्म एषः।
इत्यत्र त्वयं श्रोणीतटं स्पृशति एनं निवारयेति व्यत्यासेन योज्यम्। आशीविषेम रदनच्छददंशदानमेतेन ते पुनरनर्थतया न गण्यमित्यत्र त्वन्वादेशविषयत्वमविवक्षितम्। अभून्नृपो विबुधसख इत्यत्रानद्यतनव्ववदित्याहुः।
ननु टायामेसि चान्वादेशो वक्ष्यते, अन्याः सर्वा हलादय एव विभक्तयाः, त6 इद्रूपलोपेनैवसिद्धमतोऽनुदात्तत्वमात्रं विधेयमिति चेत्। न, साकच्खार्थमादेशारम्भात्। नहि तत्रेद्रूपलोपो लभ्यते। अक इति प्रितिषेधात्। इमकाभ्यां छात्राभ्यां रात्रिरधीता, अथो आब्यामहरप्यधीतमिति। शित्करणं तु सर्वादेशार्थम्। अन्यथाऽलोन्त्यस्य स्यात्।
नचान्त्यादेशे प्रयोजनाभावादेतद्व्यावृत्तिः, त्यदाद्यत्वेनैव तत्राकारसत्त्वादिति वाच्यम्। आदेशान्तरप्रतिषेधार्थत्वेन सार्थक्यसम्भवात्। मो राजि समः क्वावित्यादिवत्। यद्वाऽकारद्वयात्मकोयमादेशोऽनेकाल्त्वात्सर्वस्य भविष्यतीति न कर्तव्यं शित्वम्। यद्वाऽनुदात्तत्वमात्रं विधेयम्। विचित्रास्तद्धितवृत्तय इत्यन्वादेशेऽकचोऽनुत्पत्तेः। महाविभाषाधिकारेण व्यवस्थितविभाषाविज्ञानात्। नचाकचं विनाऽज्ञातार्थनावबोधः। आदेशपक्षेऽपि समानन्वात्। प्रकरणादिना तदुपपादने त्वकचमन्तरेणापि तदुपपत्तेः। लाघवस्य सम्भवात्।
अत्रेदमवधेयम्। अन्वादेशपक्षे आभ्यामिति सर्वानुदात्तम्। सुप्स्वरेण विभक्तेरप्यनुदात्तत्वात्। अन्वादेशत्वाभावेतु अन्तोदात्तम्। ऊडिदंपदाद्यप्‌पुम्रैद्युभ्य इति विभक्तेरुदात्तत्वात्। नन्वन्वादेशत्वेऽपि उक्तसूत्रेण विभक्तेरुदात्तत्वं स्यात्। नचेष्टापत्तिः। प्रतेबभ्रुविचक्षणशंसामि, आभ्यां गा अनुइत्यादौ तददर्शनात्। मैवम्। अन्तोदात्तग्रहणानुवृत्त्या अन्तोदात्तादिदमादेः परस्या एव विभक्तेरुदात्तविधानात्। अशश्चानुदात्तत्वात्।
स्यादेतत्। तथापि सावेकाचस्तृतीयादिर्विभक्तिरित्याद्युदात्तत्वं दुर्वारम्। साविति सप्तमीबहुवचनस्य ग्रहणात्।
यत्तु हरदत्तः। ऊडिदमिति सूत्रेःन्तोदात्तानुवृत्तिसामर्थ्यान्नात्र सावेकाच इत्यस्य प्रवृत्तिः। अनेन तेन वा उदात्तत्वे विशेषाभावात्। नच यदीमेना उशत इत्यत्र शसोव्यावृत्त्या तस्य चरितार्थत्वम्। तत्र सावेकाच इत्यस्याप्रवृत्तेरिति वाच्यम्। ग्रीवायां बद्धोऽपि कक्ष आसनि मत्स्यं नदीन उदमिक्षियन्तमित्यादिवारणायएकाच इत्यस्यावश्यमनुवर्त्त्यतया तत एव सिद्धेः। अन्तोदात्तानामेवासन्नित्यादीनामादेशविधौ पाठात्। यद्वा साविति प्रथमैकवचनमेव ग्राह्यम्। नच त्वयेत्यत्रातिप्रसङ्गः। नगोश्वन्साववर्णेति प्रतिषेधात्। शेषेलोपाष्टिलोप इति पक्षे सावेका च्त्वाभावाच्च। रूपविवक्षायां प्रयोजनाभावादेभिरित्यादौ प्राप्तिरेव नास्तीति।
तच्चिन्त्यम्। आभ्यामित्येद्व्यावृत्त्यैवान्तोदात्तनुवृत्तेरुपक्षीणत्वात्। नहि तत्र सावेकाच इत्यस्य प्रवृत्तिः। सप्तमीबहुवचने एषु इत्यत्र ए इतिरूपं तस्याभ्यामित्यत्राभावात्। तथाच एभिरग्ने सुन्वन्तिसोमान्पिबसि त्वमेषामित्यादौ एइति रूपसत्त्वाद्विभक्ते रुदात्तत्वप्रसङ्गः स्यादेव। अन्ये त्वन्वादेसेऽशमुदाहरन्ति। सप्तमीबहुवचनेएष्विति अशादेशे भवत्येकाच्। प्रथमैकवचने त्वयमेकाच् नभवतीति स्वराप्रसङ्गइओति कैयटग्रन्थानुसारादिष्टापत्तिर्वैदिकपाठविरोधात्। द्वितीयसमाधानमप्ययुक्तम्। रूपाविवक्षायां दोषाभ्यां स्वाहेत्यादौ तैतिरीयके मध्योदात्तविरोधापत्तेः। प्रथमैकवचने तस्यैकाच्त्वात्। इन्द्रो जातो वसितस्य राजेत्यत्रान्तोदात्तत्वानुपपत्तेश्च। यानितिरूपस्य षष्ठ्यामभावात्। सप्तमीबहुवचनग्रहणे तु यादिति तकारान्तप्रकृतिरूपस्य षष्ठ्यामपि सत्त्वात्सिद्धं विभक्तेरुदात्तत्वमिति।
अत्रदीक्षिताः--सावेकाच इत्यत्राप्यन्तोदात्तग्रहणमनुवर्तनीयमतोऽन्वादेशे आब्यामेभिरित्यादौ नोदात्तत्वप्रसङ्गः। वृत्तिकारादिभिस्तदनुक्तावपिफलानुरोधेन तदनुवर्तने बाधकाभावात्।
एतदस्त्रतसोस्त्रतसौ चानुदात्तौ ।। 33 ।।
अन्वादेशविषयस्यैतदोऽश्‌स्यात् सचानुदात्तस्त्रतसोः परतस्यतौ चानुदात्तौ स्तः। एतस्मिन् ग्रामे सुखं वसामः, अथो त्राधीमहेऽतो न गन्तास्मः। त्रतसोः प्रत्ययस्वरेणोदात्तत्वं माभूदित्यनुदात्तारम्भः।
ननु त्रतसिलोः कृतयोः प्रकृतेर्लित्स्वरेणोदात्तत्वे शेषनिघातेनानुदात्तश्चतयोर्भाविष्यतीति त्रतसौचानुदात्तवित्यंशो नकार्य इति चेत्। न, लित्स्वरस्य परत्वेऽपि नित्यत्वात्। लित्स्वरस्त्वनुदात्ते कृते नप्रवर्तते। अनुदात्तविधानसामर्थ्यात्। ततश्च पूर्वस्य उदात्तभाविनो विरहे त्रतसोः यथाप्राप्तः प्रत्ययस्वर एव यथा स्यात्। अपवादनिर्मुक्ते उत्सर्गस्य प्रवृत्तिनियमात्। अत एव गोः पदप्रं वृष्टोदेव इत्यत्र वर्षप्रमाणऊलोपश्चास्यान्ततरस्यामिति णमुल ऊकारलोपस्य च सहविधानात् लित्स्वराभावे प्रत्ययाद्युदात्तत्वे सति कुदुत्तरपदप्रकृतिस्वरेणान्तोदात्तंपदमिति सिद्धान्तः। तस्मादवश्यारब्यमनुदात्तत्वम्।
द्वितीयाटौस्स्वेनः ।। 34 ।।
द्वितीयायां टापि ओसोश्चेदमेतदोरेनादेशः स्यादन्वादेशविषये। इमं छात्रं छन्दोथऽध्यापय, एनं व्याकरणमध्यापयेत्यादि। एतं छात्रं छन्दोऽ
ध्यापय, अथो एनं व्याकरणमध्यापेयत्यादि।
यद्यपि पूर्वसूत्रे इदमित्यस्य नानुवृत्तिः तथाप्यत्र स्थानिविशेषानुपादानादवश्याक्षेप्ये तस्मिन्नपेक्षालणेनाधिकारेण पूर्वसूत्रोपात्तयोरिदमेतदोरनुवृत्तेः स्थानित्वसिद्धिः। एतमातं ङितं विद्यात्, अयं दण्डो हरानेन इत्यादौतु यथादेशस्तथा व्याख्यातम्। तथाचैतच्छब्दस्य पूर्वोक्तार्थचतुष्टयपराकारपरामर्षकत्वात् ङिद्विधावुद्देश्य परामर्शकत्वमेव नास्ति। उभयभिन्नार्थे ङित्वमित्यस्यैव चतुर्थचरणानुसारेणार्थसिद्धत्वात्। अयं दण्डइत्यत्रापि इदमुद्देशेन दण्ड एव विधेयः।
तथा च पूर्वविधावुद्धेश्यत्वेन दण्डस्यानुपादानान्नान्वादेशत्वम्। अतएव पूर्वस्मिन् विधावुद्देश्यत्वेनोपात्तस्येत्युक्तम्। नच तत्र मानाभावः। भाष्याद्युदाहृतस्योक्तप्रयोगस्यैव तथात्वात्।
अथ कथं `शोणं पदप्रमयिनं गुणमस्य पश्य किंचास्य सेवनपरैव सरस्वती या। एनं भजस्व सुभगे भुवनाधिनाथं के वा भजन्ति तमिमं कमलाशयाने'ति। नचान्वादेशमादाय द्वितीयस्यनान्वादेशत्वमिति वाच्यम्। अन्वादेशलक्षमस्य साधारण्यात्तथाकल्पने मानाभावात्। नच विध्यर्थकप्रत्ययान्तपदधटितवाक्ये एव तदिति वाच्यम्। मानाभावात्। अथैनं प्रत्यबोधयदित्यादिप्रयोगविरोधाच्च।
उच्यते तत्रेदंशब्दस्योद्देश्यपरामर्षकत्वाभावात्, तच्छब्देनैव निर्दिष्टत्वात्। नच वैय्यर्थ्यम्। संभेदे(1)तदभावात्। अत एव `योविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः। आत्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भय'मित्यत्र इदंशब्दस्य तच्छब्दसमानार्थकत्वं काव्यप्रकाशादावङ्गीकृतं एवं `यत्तदूर्जितमत्युग्रं क्षात्रं तेजोऽस्य भूपतेः। दीव्यताक्षैस्तदा तेन नूनं तदपि हारितम्,।। `करवाल करालदोः सहायो युधि योऽसौ विजयार्जुनैकमल्लः। `यदि भूपतिना स तत्र कार्ये विनियुज्येत ततः कृतं कृतं स्यात्'। इत्यादौ यच्छब्दाव्यवहितोत्तरवर्तिनोस्तददसोरपि उद्देश्यमात्रसमर्पकत्वमित्यप्युक्तम्। एतेन त्वमेव तमिमित्यपिव्याख्यातम्। एकपद्येन योजयितुमशक्यत्वात्। नचविनिगमकाभावः। प्राथम्यस्यैव तथात्वात् इमं प्रसिद्धं। यः पूर्वभुक्तस्तं वरुणं केचन भजन्तीत्यर्थात्। एतेन `विबुधैरसि यस्य दारुणैरसमाप्ते परिकर्मणि स्मृतः। तमिमं कुरु दक्षिणेतरं चरणं निर्मितराग मे हिमे'इति कुमारप्रयोगः। `तमिमं ज्योतिष्टोमादिभिरिष्टै'रिति कुसुमाञ्जालिश्च व्याख्यातः। अतएव `तमेतं वेदानुवचनेन विविदिषन्ती'ति बृहदारण्यकं सङ्गच्छते। `तमात्मेत्येवोपासीतेत्यारभ्येत्येषसेतुर्विधरण' इत्यन्तैः सूत्रादिभिः उक्तम्। एतं बुद्धेः साक्षिणमिति व्याख्यातत्वाच्च। `नपुंसकैकवचने एनदिति वक्तव्यम्'। अन्यथाऽतोमित्यम्भावे एनमित्यापत्तेः कुण्डमानय प्रक्षालयैनत्परिवर्त्तयैनत्। नन्वेवंसर्वत्राप्येनत् एव वक्तव्यः त्यदाद्यत्वेनपुल्लिंगेएनमित्यस्यक्लीवसाधारण्येनएनौएनान् एने एनानीत्यस्यचसिद्धेरितिचेत् न एनाछ्रितकइत्यस्यचेष्चत्वात् अतरङ्गानपिविधीन्वहिरङ्गोलुग्वाधतइतित्यदाद्यत्वं बाधित्वालुक्‌प्रवृत्तौप्रत्ययलक्षणनिषेधात्त्यदाद्यत्वस्याप्रवृत्तेः।
अत्रभाष्यं `यथालक्षमप्रयुक्ते' इति प्रयोगानुपलम्भे लक्षणानुसारेण संस्कारप्रवृत्तिः तत्र नलुमताङ्गस्येत्यत्रांगाधिकारनिर्देशे तद्वहिर्भूते एतदादेशविधौ प्रत्ययलक्षमत्वादेनछ्रितक इति भाव्ये अथांगसम्बन्धिकार्यमात्रेप्रत्ययलक्षमनिषेधो नत्वं ङ्गाधिकारविहितत्वाग्रहः तदा एतच्छ्रितक इति भाव्यमिति संप्रदायविदः।
केचित्तु एतछ्रितइत्येवभवति सुपोधात्वितिलुकाएनस्यैनदादेशस्यवाबाधात्। एनदित्यस्यतकारोच्चारणसामर्थ्यादेकपदाश्रयत्वेनांतरंगे स्वमोर्लुकि प्रवृत्तावपि बहिरंगे समासलुकि तदप्रवृत्तेः।
आर्द्धधातुके ।। 35 ।।
ण्यक्षत्रियेतियावदधिकारोयं ननु व्याक्तौ पदार्थे तत्तद्व्यक्तीनां विशिष्य शास्त्रतात्पर्यविषयत्वादार्द्धधातुक इति परसप्तम्याभाव्यं तथाच पूर्वमार्द्धधातुकप्रत्ययोत्पत्तिः ततोवक्ष्यमाणैरादेशैर्भाव्यं अन्यथानिमित्ताभावात् तत्रार्द्धधातुकविशेषाश्रयेषुजग्ध्यादिषुयद्यापिनदोषस्तथापिसामान्याश्रयेषु अस्तेर्भूः अजेर्वी चक्षिङ ख्याञादिषुदोषोदुर्वारः तथाहि भव्यं प्रवेयं आख्येयं इति नस्यात् ण्यत्प्रत्ययोत्तरं आदेशेतच्छ्रवणप्रसङ्गात् पूर्वंहलन्तत्वेनयत्प्रत्ययस्यदुर्लभत्वात् नचजातिपक्षमाश्रित्यार्द्धधातुकसामान्यमुपजीव्यं नतुविशेष इति वाच्यं निर्विशेषसामान्याभावात् लव्यंपव्यमित्यादावार्द्धधातुकसामान्ये गुणावादेशयोः कृतयोर्हलंतलक्षणस्यण्यतोदुर्वारत्वाच्च। दित्स्यंधित्स्यमिति आर्द्धधातुकसामान्येअतोलोपेकृतेण्यत्प्रसङ्गाच्च नचाविशेषेणजध्यादीन्विधायसार्वधातुकेनेतिनिषेधोविदास्यतेनत्वार्द्धधातुकइत्यधिकार इति वाच्यं सूत्रभेदप्रसङ्गात्।
उच्यते जातिपक्षएवाश्रयणीयः नचदित्स्यमितिदोषः अचोयदित्यत्रत्यमज्ग्रहणमजंतभूतपूर्वापितदर्थमिति वक्ष्यमाणत्वात् नचजातेः परत्वासम्भवः अतएवबिषयसप्तम्याश्रयणात् तताचार्थधातुकविविक्षायां प्रथमतएवादेशादिप्रवृत्तौ पश्चाद्यथानिमित्तं प्रत्ययविशेषाव्यवतिष्ठन्ते बुद्धिस्थत्वं च अभिव्यक्तेप्रत्ययविशेषे आर्द्धधातुकमित्याकारकबुद्धिविषयत्वमेवेति बोध्यं। व्यक्तिपक्षेतुआर्द्धधातुकास्वितिपठितव्यं अर्श आदित्वाहच् सति सप्तम्या आर्द्धधातुकपरासुशब्दसंहतिषुव्युत्पाद्यमानास्वस्त्यादीनां भ्वादय आदेशाइत्यर्थः। नन्वङ्गाधिकारस्थे आर्द्धधातुकाधिकार एवजग्ध्यादीन्विधायायमधिकारस्त्यज्यतां मैवं जक्षतुः अधिजगेअध्यगीष्ट वभूव विव्यतुः इत्यत्रतत्तदादेशानामाभीयत्वेनासिद्धत्वादुपधालोपाल्लोपेत्ववुग्यणामभावापत्तेः। नच तर्हि तेप्यत्रैव विधीयन्तामिति वाच्यम्। गतो गतवानित्यत्रानुनासिकलोपस्य सिद्धत्वादतोलोपापत्तेः। आर्धधातुकोपदेशकाले यदकारान्तमिति व्याख्यायासिद्धवत्सूत्रप्रत्याख्याने तु एक आर्द्धधातुकाधिकारो मास्तु। आङ्गास्यैवाधिकारस्य विषयसप्तमीत्वं परसप्तमीत्वं चेतिज्ञापकबलेनोभयरूपतासम्भवात्।
अदोजग्धिर्ल्यप्ति कित ।। 36 ।।
अदो जग्ध्यादेशः स्यात्। ल्पपि तादौ कितिच। प्रजग्ध्यम्। जग्धः जग्धिः। अन्निमित्यत्रतुन। अन्नास्म इति निपातनादिति वृत्तिः।
ननु ल्यबोदशात्पूर्वं क्त्वाप्रत्ययमाश्रित्यैव जग्धिरस्तु किंल्यपः पृथग्ग्रहणेन। नच परत्वात्पूर्वमेव ल्यप्। प्रकृत्यादेशस्य तकारादिप्रत्ययमात्रापेक्षतयान्तरङ्गत्वात्। ल्यबोदशस्य तु पूर्वपदापेक्षसमासापेक्षत्वेन बहिरङ्गत्वादितिचेत्।
मैवम्। अन्तरङ्गानपिविधीन् बहिरङ्गो लुग्बाधने इति ज्ञापनार्थत्वात्। तेन प्रधाय प्रस्थायेत्यादौ दधातेर्हिभावं स्थाधातोरित्वं च बाधित्वा ल्यबादेशः। अन्यथाऽन्तरङ्गत्वात्तयोः प्रसङ्गेल्यबादेशस्योपदोशिवद्वचनमनादिष्टार्थं बहिरह्गलक्षणत्वादिति वचनमाश्रयणीयं स्यात्। तेन प्रदायेत्यत्र न ददादेशः प्रखन्येत्यत्र जनसनेत्यात्वाभावः, येविभाषेति विकल्पः। प्रक्रम्येत्यनुनासिकस्य क्विझलोरिति दीर्गाभावः, आपृच्छ प्रदीव्येत्यत्र नशठाविति बोध्यम्। अत एव व्याघ्रभूतिरवादीत्-
जग्धिविधिर्ल्यपियत्तदकस्मात्सिद्धिमदस्ति कितीति विधानात्।
हिप्रभृतींस्तु सदा बहिरङ्गो ल्यब्‌भवतीति कृतं तदु विद्धि।
जग्धौ सिद्धेऽन्तरङ्गत्वात्तिकितीति ल्यबुच्यते।
ज्ञापयत्यन्तरङ्गाणां ल्यपा भवति बाधनम्।
लुङ्‌ सनोर्घरुलृ ।। 37 ।।
अदेर्घस्लृ आदेशो लुङि सनिच। लृदित्वादङ्। अघसत्। अत्तुमिच्छति जिघत्सति। सन्यङोरिति द्वित्वम्। हलादिः शेषः। सन्यत इतीत्वम्। कुहोश्चुरिति अभ्यासे जकारः। अच्युपसंख्यानम्। प्रात्तीति प्रघसः।
घञपोश्च ।। 38 ।।
अनयोर्घस्लृ। घासः। प्रघसः। उपसर्गेऽद इत्यप्।
बहुलं छन्दसि ।। 39 ।।
घस्तां नूनम्। मन्त्रेघसेत्युपधालोपाभावार्थं बहुलोपादानम्। आत्तामत्तमध्यतो मेदउद्‌धृतम्। बहुलं छन्दसीत्यडभावः। सग्धिश्चमे। व्याख्यातम्।
लिट्यन्यतरस्याम् ।। 40 ।।
अदो लिटि अयमादेशो वा स्यात्। जघास आद। नच भ्वादिषु घस्लृ अदने इति स्वतन्त्रोऽपि धातुः तस्य जघासेति, अत्तेश्चादति सिद्धे किमनेनेति वाच्यम्। तस्यासार्वत्रिककत्वज्ञापनार्थत्वात्। तथाच यत्र लिङ्गं वचनं वास्ति तत्रैव तस्य प्रयोगो नान्यत्र। तथाहि-पाठः शपि परस्मैपदे लिङ्गम्। घसति। घसतु। अघसत्। घसेत्। लृदित्करणमङि। अघसदित्यादि। अनिट्‌कारिकासु पाठो वलाद्यार्थधातुके। घस्ता। घत्स्यति इत्यादि। सृधस्यदः क्मरजिति विशिष्योपादानात् घस्मरः। अन्यत्रानभिधानम्।
वेञो वञिः ।। 41 ।।
वेञो लिटि परे वयिरादेशो वा उवाय। ऊयतुः ऊयुः। `लिटि वयोय'इति यकारस्य संप्रसारणनिषेधः। ववौ, ववतुः। ववुरित्यादि। आदेशाभावपक्षे रूपम्।
हनो वध लिङि ।। 42 ।।
लुङिच ।। 43 ।।
अत्र वदादेशः। वध्यात्। अवधीत्। विधिलिङ्स्त्वार्थधातुकत्वाभावान्न। हन्यात्। अकारस्योच्चारणार्थत्वे लुङि अतो हलादेर्लघोरिति हलन्तलक्षणावृद्धिः स्यात्। हन्तीति वधकः। हन्तेर्ण्वुल्। औपसंख्यानिको वधादेशः। तत्रातउपधाया इति वृद्धिः प्राप्ता, जनिवध्योश्चेति यद्यपि निषिद्धा, तत्रापि स्थानिवद्भावाद्धनस्त इति तकारोऽन्तादेशः स्यात्। अवधीदित्यादौ एकाच उपदेशेऽनुदात्तदिति इट्‌प्रतिषेधश्च स्यात्। इति प्राप्ते वार्तिकम्। `आदेशे वृद्धितत्वप्रतिषेध इङ्‌विधिश्चेति। तथाचोक्तवचनादतिप्रसङ्गसमाधानमिति वार्तिकाभिप्रायः।
भाष्यकृतस्त्वाहुः-अदन्त एवायम्। तेनातो लोपस्य स्थानिवद्भावाद्धलन्तत्वं नास्तीति वृद्धेरप्रसङ्गः। तत्पमप्यलोन्त्यस्य विधीयमानमकारस्य लुप्तत्वान्न भवति। स्वरविधौस्थानिवत्त्वाभावात्। नापिधकारस्यअल्लोपस्य स्थानिवत्त्वेन धकारस्यान्तत्वाभावात्। स्वोपदेशेऽनेकाच्छत्वाच्च नेट्‌प्रतिषेध इति। अन्यत्स्थानिवत्सूत्रे निर्णितम्।
अत्मनेपदेष्वन्यतरस्याम् ।। 44 ।।
हनो वधादेशो वा। आत्मनेपदं यो लुङ् तत्परे आर्द्धधातुके। आवधिष्ट। आवधिषाताम्। आवधिषत। आहत। आहसाताम्। आहसत। आङो यमहन इत्यात्मनेपदम्। हनः सिजिति कित्वम्। अनुदात्तोपदेशेति नलोपः। पूर्वसूत्रे योगविभागसामर्थ्यादात्मनेपदेषु लिङि नास्य प्रवृत्तिः।
इणो गा लुङि ।। 45 ।।
इण्‌गतौ इत्यस्यगा इत्यादेशो लुङि। गातिस्थेति सिचोलुक्। अगात्। इण्वदिक इतिवक्तव्यम्। अध्यगात्। अध्यगुः आत इति झेर्जुस्।
णौ गमिरबोधने ।। 46 ।।
इणो गमिः स्याण्णौ नतुबोधने। गमयति। बोधने तु प्रत्याययति। इण्वदिक इति वक्तव्यम्। अधिगमयति। इक् स्मरणे।
अत्र केचित्। आर्धधातुकबहिर्भूतानामपि कार्याणामतिदेशः। तेनेणोयण् इकोऽपि। अधियन्ति। अधीत्य। एतिस्तुशास्विति क्यबित्याहुः।
अन्येतु आर्धधातुकीयानामेवादिदेसादियङेव। अधीयन्ति अत एव `ससीतयोराघवयोरधीयन्निति भट्टिरित्याहुः।
सनि च ।। 47 ।।
इणो गमिः स्यान्नतुबोधने। जिगमिषति। बोधने तु प्रतीषिषति। इह सनि कृतेऽजादेर्द्वितीयस्योति वचनात्सनेव द्वित्वम्। सन्यत इतीत्वम्। आदेशप्रत्यययोरिति षत्वम्। बोद्‌धुमिच्छतीत्यर्थः। अतिदेशादिकोऽपि। अधिजिगमिषति। कर्मणि तङ्। अज्झनगमां सनीति झलादौ सनि दीर्घः। गमेरिट्‌ परस्मैपदेषु इत्युक्तेरात्मनेपदे तदभावात्। जिगांस्यते। अधिजिगांस्यते। अजादेशगमेरेव दीर्घविधानात्प्रकृतिगमेर्न र्दीर्घः। जिगंस्यते। सञ्जिगंसते।
इङश्च ।। 48 ।।
इङ्‌ अध्ययनेऽस्यगमिः स्यात्सनि। अधिजिगांसते। अध्ययनं कर्तृमित्छतीत्यर्थः।
गाङ्‌ लिटि ।। 49 ।।
इङो गाङ्‌ स्याल्लिटि परे विवक्षिते वा। अधिजगे। नच स्थानिवद्भावादात्मनेपदसिद्धौ ङित्त्ववैयर्थ्यम्। गाङ्कुटादिभ्य इत्यत्रेणो गादेशस्य ग्रहणं माभूदित्यर्थकत्वात्। अन्यथा अगासातां ग्रामौ देवदत्तेनेत्यत्र ङित्वादीत्वप्रसङ्गात्। न च गाङ्गतावित्यस्यैव तत्रोपादानम्। तदीयङकारस्यैवात्मनेपदप्रवर्तनेन चरितार्थत्वादादेश ङित्वस्य त्वनन्यार्थत्वेन बलवत्त्वात्।
अथ सानुबन्धाद्यत्र षष्ठ्युच्चार्यते तत्रेत्संज्ञायामकृतायामेवादेशप्रवृत्तिः। कृतायां वा इत्संज्ञायां तन्निबन्धनकार्याणि न प्रवर्तन्ते इति ज्ञापनार्थं ङकारनिर्देशः। तदुक्तम्-ज्ञापकं वा सानुबन्धस्यादेशवचन इत्कार्याभावस्येति तेन चक्षिङः ख्याञादेशे नित्यमात्मनेपदं न भवति किन्तु ञित्वाद्वैकल्पिकमेव। पचमानौ यजमान इत्यत्र टितइत्येत्वं न। नन्दना कारका। इत्यत्र युवोरनाकावित्यादेशयोः कृतयोः उगितश्चेति ङीप्, उगिदचामिति नुम् च न भवति। ल्युः कर्तरीत्यमरेण पुस्वोक्तेः प्रायिकत्वात्। अत एव विशिष्य सा भीमनरेन्द्रनन्दनेति श्रीहर्षः।
नन्वेवं तस्थस्थमिपां तान्तन्ताम इत्यत्र मिपोऽनुबन्धविशिष्टस्य निर्देशादमादेशस्य पित्वानुपपत्तौ सार्वधातुकमपिदितिङित्वादचिनवम्, अकरवमित्यादौ ङ्किचेति निषेधाद्गुणो न स्यात्। माहिस्मचिनवमित्यत्रानुदात्तत्वं च न स्यात्। एवं वेदवेत्थ इत्यत्रापि तिप्सिपोरादेशे गुणो न स्यादिति चेन्न। पकारमपनीय तस्थस्थीमनामित्येव पठनीयत्वात्‌. णल्थलोर्विधौ तिप्सिपोरनुबन्धविशिष्टयोरनुपादानाच्च। अत्र भाष्यम्। ञित्करणसामर्थ्यादेव तङ्‌विकल्पसिद्धेः। तिप्तसिइत्यादौ उपात्तानामेवात्मनेपदानामत्वविधानात्। सिद्धं तु युवोरनुनासिकत्वादिति वक्ष्यमाणत्वात्। ततश्च स्थानिनोरेवोगित्वा भावे तदादेशयोरुगित्वस्य दूरापास्तत्वात्। तस्माद्विशेषणार्थमेवङित्वमितिस्थितम्।
विभाषालुङ् लृङोः ।। 50 ।।
णौ च संश्चङोः ।। 51 ।।
इङो गाङ् वा स्यात् सन्‌परे चङ्‌परे च णौ। अधिजिगापयिषति। अध्यापिपयिषति क्रीङ्‌जीनां णावित्यात्वम्। अध्यजीगपत्। अध्यापिपत्।।
अस्तेर्भूः ।। 52 ।।
अस्तेर्भूभावः स्यादार्धधातुके। तत्रास्तेः प्रयोगनिवृत्त्यर्थआरम्भः। भविता। भवितुम्। इन्दामासेत्यादावनुप्रयोगाविधानसामर्थ्याभूभावः। अन्यथाऽभूततद्भावेऽस्तिकृभूयोगे इति पठित्वाऽस्तिं प्रत्याहाराद्बहिः कुर्यात्। यथान्यासे मयो यण इति भकारवकारयेर्द्वित्वेऽर्धमात्रागौरवात्। यद्वा क्रस्चानुप्रयुज्यत इति वा ब्रूयात्। प्रादुरासवहुलक्षपाच्छविः इत्यादौ तिङन्तप्रतिरूपकमव्ययमखण्डमेव। एतेन प्रादुरासुरथ कामकेलय इत्यपि व्याख्यातम्। आसेत्यसतेरिति वामनः। अस गतिदीप्त्यादानेषु। लुका निर्देशादस्य न भूभावः।।
ब्रुवो वचिः ।। 53 ।।
बूञ् व्यक्तायां वाचि। अस्य वचिरादेश आर्धधातुके।। वचपरिभाषणे लुङ्। वच उम्। अवोचत्।।
चक्षिङः ख्याञ् ।। 54 ।।
लिटु च ।।
अत्र भाष्यम्। ख्‌शाञ्‌ इत्ययमादेशः। पूर्वत्रासिद्धमित्यधिकारे णत्वप्रकरणानन्तरं शस्य यत्वं विभाषा वक्तव्यम्। तथाच तस्यासिद्धत्वात्तन्निमित्तककार्यं न भवति। किन्तु शकारनिमित्तकमेव। चर्त्वस्य तु परत्वात्तस्मिन् कर्तव्ये यत्वं सिद्धमेवेति चर्त्वं न प्रवर्तते इति ख्यातेत्यादि सिद्धम्। यत्वाभावपक्षेतु खकारस्य चर्त्वेन ककारे कृते क्शातेत्यादि सिद्धम्।
तथाच वार्तिकम्। असिद्धे शस्य यवचनं विभाषेति। तेन सुष्ठुप्रचष्टे सुप्रख्यः। आतश्चोपसर्गे इति कः। सुप्रख्यस्य भावः सौप्रख्यम्। योपधलक्षणो वुञ् भव इत्यर्थे सौप्रख्यीयः। धन्वयोपधादिति बुञभावे वृद्धाच्छः। आख्यात इत्यत्र संयोगादेरातो धातोर्यण्वत इति निष्ठानत्वाभावः। पुख्यानमित्यत्र पुमः खय्यम्पर इति रुत्वाभावः। पर्याख्यानमित्यत्र शकारेण व्यवधानात्कृत्यच इतिणत्वाभावः। ख्याप्रकथने इत्यस्यापि तथा लुबयोगाप्रख्यानादिति निपातनात्। नमः ख्यात्रे इत्यत्र सस्थानत्वाभावात् शर्‌परे इत्यस्यैव प्रवृत्तिः। जिव्हामूलीयस्येयं पूर्वाचार्यसंज्ञा। तस्मात्ख्‌शाञादेश इति स्थितम्। वर्जने प्रतिषेधो वक्तव्यः। अवसंचक्ष्याः परिसंचक्ष्याः वर्ज्या इत्यर्थः। असनयोश्चप्रतिषेधः। नृचक्षारक्ष इति वेदे। नृचक्षोरक्ष इति लोके विचक्षणः। अनुदात्तेतश्च हलादेरिति युच्‌। बहुलं तण्यन्नवधकगात्रविचक्षणाजिराद्यर्थम्। सर्वप्रकरणोपक्षोयमारम्भः। तणि इतिसंज्ञाछन्दसोः पूर्वाचार्यसंकेतः। अन्नम्। अत्र जग्ध्यादेशाभावः। वधक इतिण्वुल्। तत्र वधादेशो विधीयते। गात्रम्। इण औणादिके ष्ट्रनि गादेशः। विचक्षण इति ख्याञादेशाभावः। अजिरेत्यत्र वीभावाभाव इत्यर्थः।
अत्रेदमवधेयम्-ख्याप्रकथने इत्यप्यदादौ पठ्यते। ससार्वधातुकमात्रविषयः। अन्यथा तस्मान्नमः ख्यात्रे इत्यत्र जिह्वामूलीयस्य दूर्वारतया सस्थानत्वं नमः ख्यात्रे इति वार्तिकस्यासङ्गतिप्रसङ्गात् इति केचित्।
तच्चिन्त्यम्। तावतापि यत्र जिह्वामूलीयप्रसक्तिस्तादृशसमभिव्याहारे तत्प्रयोगो नास्तीत्येव कल्ययितुमुचितत्वात्। नध्याख्येति नन्वनिर्देशप्रसङ्गाच्च। ख्याप्रकथने इत्यस्यैव प्रतिपदोक्तत्वात्स निषेधो नतु ख्‌शाञादेशस्य। तत्र यत्वस्य लाक्षणिकत्वादितिकैयटोक्तेश्च। लुब्योगाप्रख्यानादित्यत्र निपातनाण्णत्वाभाव इति प्रतिपादककैयटग्रन्थविरोधाच्च।
एतेन नध्याख्येत्यत्र ख्याग्रहणं नकर्तव्यमेवेति निरस्तम्। भाष्यवार्तिककाराभ्यां तथानुक्तत्वात्। एतेनख्याधातुरपि ख्‌शादिर्यत्वविधिरप्युभयसाधारम इति हरदत्तमाधवादिग्रन्थोप्यपास्तः। चक्षिङमुपक्रम्यैव तद्विधानात्सार्वधातुकेऽपि ख्‌शादिप्रयोगापत्तेश्च। इष्टापत्तेशअच स्वपरग्रन्थविरुद्धत्वात्। एतेन गोसंख्य इत्यत्र गाः सञ्चष्टे इत्येव विग्रह इत्यपि निरस्तम्। अत एव संपूर्वस्य ख्यातेर्नप्रयोग इति तत्र न्यासकारः। अतएव दृशे विख्येचेति सूत्रे ख्यातेरपि केप्रत्यय इति तेनैवोक्तम्। संख्येतिप्रयोगस्तु सूत्रे ख्यातेरपि केप्रत्यय इति तेनैवोक्तम्। संख्येतिप्रयोगस्तु आदेशस्येति तदभिप्रायः। एतेन ख्याधातौ नेतिकेचिदिति प्राचीनोक्तर्व्याख्याता। पुंख्यानमित्यत्रफलैकरूप्यार्थं नभवत्येवेत्यर्थत्वात्। वुञ्‌रुत्वजिह्वामूलीयानां तुतत्रेष्टत्वात्। रूपद्वये बाधकाभावात्। नचाप्रख्यानादित्यादेशप्रयोगेऽप्युपपत्तेर्ज्ञापकत्वानुपपत्तिः। असनयोश्च निषेधात्। बाहुलके च प्रमाणाभावात्। इति दिक्।
वालिटि ।। 55 ।।
पूर्वोक्तं लिटि वास्यात्। चख्यौ। चक्शौ। चचक्षे। चयो द्वितीयाः शरि पौष्करसादेरिति ककारस्य न खकारः।
अजेर्व्यघञपोः ।। 56 ।।
अज गतिक्षेपणयोः अस्य वीत्यादेशो वा स्यादार्थधातुकविषये घञमपञ्च वर्जयित्वा। विवाय। विव्यतुः विव्युः। वीभावनिषेधे क्यच उपसंख्यानम्। समज्या। नचापोऽकारमारब्य क्यपः पकारेणप्रत्याहारात्सिद्धमिति वाच्यम्। संवीतिरित्यत्र वीभावानुपपत्तेः। वस्तुतो वाग्रहणमनुवर्त्त्य व्यवस्थितविभाषशया व्याख्येयम्। तेन प्रवेता, प्रवेतु, प्रवीतोरथः, संवीतिरित्यत्र वीभावः। समाजः उदाजः। समजनं समज्येत्यत्र तदभावः। तेन वलादावार्धधातुके ल्युटिट विक्ल्पः। प्राजितेत्यपि सिद्धम्। नियन्ता प्राजिता यन्ता सूत इत्यमरः। प्राजनम्। प्रवयणम्। नचैवं वायावित्यस्य वैयर्थ्यम्। नहि तद्विकल्पार्थम्। अपितु यजिमनीति बाहुलकाद्युचि अजतेर्वीभावविधानार्थम्। तेन वायुरिति सिद्धमिति भाष्यम्। एवं थलादौ आजिथेत्यादि ज्ञेयम्। पूर्वमेव प्रत्ययोत्पत्तेर्हलादित्वाद्यङ्। वेवीयते। यङ्‌लुक्‌तु न। लुकाविषयापहारादार्थधातुकव्यक्त्यभिव्यक्त्यभावात्। संग्रहः कौस्तुभे उक्तः।
अजेर्वी वेति घञपोः क्यपि चायं न संमतः।
वलादौ यौ च वान्यत्र नित्यमित्येव निर्णयः।
आर्धधातुकाधिकारः समाप्तः।
ण्यक्षत्रियार्षाञितो यूनि लुगणिञोः ।। 58 ।।
क्षत्रियपदं तद्गोत्रपरम्। ऋषेरपत्यमार्षम्। इतश्चानिञ इति ढकि शिवादित्वादण्। आर्षेयं वृणीते इत्यादौ शुभ्रादित्वाढ्ढक्। ण्यप्रत्ययान्तात्क्षत्रियगोत्रप्रत्ययान्तादृष्यभिदायिनो गोत्रप्रत्ययान्तात् ञितश्च परयोर्युवाभिधायिनोरणिञोर्लुक् वा। कुर्वादिभ्यो ण्यः। कौर्यः पिता। ततो यूनीञ्। तस्य लुक्। कौरव्यः पुत्रः।
यस्तु तिकादौ कौख्यशब्दः तत्र कुरुनादिभ्यो ण्य इति विहितक्षत्रियगोत्रोपादानात्कौरव्यायणिरितिफिञ्। इदं तु ब्राह्मणगोत्रम् ण्यः। ऋष्यन्धकेत्यण्। इञ्। तस्य लुक्। श्वाफल्कः पिता। श्वाफल्कः पुत्रः। क्षत्रिय। वसिष्ठादृष्यण्। तत इञ्। तस्यलुक्। वासिष्ठः पिता। वासिष्ठः पुत्रः। आर्ष। विदाद्यञ्। यूनि इञ्। तस्य लुक्। बैदः पिता। बैदः पुत्रः। ञित्। अणो यथा-तिकादिभ्यः। फिञ्। तस्माद्यूनि प्राग्दीव्यतोऽण्। तस्य लुक्। तैकायनिः पिता। तैकायनिः पुत्रः।
कुत्सायाम् सौवीरगौत्रं च विनेदम्। तत्रफेच्छचेति छप्रसङ्गात्।।
यमुन्दश्च सुयामाच वार्ष्यायणि फिञः स्मूताः।
इति परिगणनस्यार्षत्वादितिवृद्धाः। एभ्यः किम्। शिवादिभ्योऽण्। यूनि इञ्। तस्य लुक्। कौहडः पिता। कौहडिः। पुत्रः। यूनि किम्। वामरथ्यस्य छात्राः वामरथाः कुर्वादिभ्योण्यः कण्वादिभ्योगोत्रे इति शैषिकोऽण्। वामरथ्यस्य कण्वादिवत्सर्वमिति कुर्वादिषु पाठान्न तस्य लुक्। अणिञोः किम्। दाक्षेरपत्यं युवा दाक्षायणः। यञिञोश्चेति फक्।
अब्राह्मणगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानम्। मात्रपदं कार्त्स्न्यपरम्। क्षत्रियादिजातिं विनापि अब्राह्मणत्वमात्रेण ततः परस्याणिञ्भिन्नस्यापि लुगित्यर्थः। बौधिः पिता। बौधिः पुत्रः। जाबालिः पिता। जाबलिः पुत्रः। औदुम्बरिः पिता। औदुम्बरिः पुत्रः। भण्डिजङ्घकर्णखरकौ वैश्यौ ताभ्यामत इञ्। तदन्तात्फको लुक्। भाणिजङ्‌घिः पिता पुत्रश्च। कार्णखरकिरप्येवम्।
पैलादिभ्यश्च ।। 59 ।।
युवप्रत्ययस्य लुक् स्यात् पीलायावेत्यण्। अणो द्व्यच इति फिञ् तस्य लुक् पैलः पिता पुत्रश्च। अन्ये पैलादय इञन्ताः। तेभ्य इञः प्राचामिति लुक्‌सिद्धावप्यप्रागर्थः पाठः। पैलशालङ्कि, सात्यकि, सात्यंकामि, औदव्रजि, औदमेयि, औदञ्चि, औदमञ्जि, दैवस्थानि, पैङ्गलि, औदयिनि, भौलिङ्गि, वाणि, सौमनि, औदमानि, औञ्जिह्मयनि, औञ्जिहानि, औदशुद्धि, आकृतिगणोऽम्।
तद्राजाच्चाण इत्यन्तर्गणसूत्रम्। तद्रजसंज्ञकादणः परस्य युवप्रत्ययस्य लुक्। द्व्यञ्मगधेत्यण्। अणोद्व्यव इति फिञ्। तस्य लुक् आङ्गः पिता पुत्रश्च।।
इञः प्राचाम् ।। 60 ।।
गोत्रे य इञ् तदन्ताद्‌युवप्रत्ययस्य लुक् तच्चेद्ग्रोत्रं प्राचाम्। नच प्राचामिति विकगल्पार्थम्। अभियुक्तव्याख्यानात्। पन्नं प्राप्तं अङ्गारं येन पन्नागारः। तत इञ्। यञिञोश्चेतिफक्। तस्य लुक्। पान्नागारिः पिता पुत्रश्च(1)। प्राचां किम्। दाक्षिः। पिता दाक्षायणिः पुत्रः।।
न तौल्वलिभ्यः ।। 61 ।।
तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य पूर्वेण प्राप्तो लुक् न। तुल्वलस्यापत्यं तौल्वलिः पिता। फक्। तौल्वलायनः पुत्रः। तौल्वलि, तैल्वलि, धारणि, पाराणिष धारयति पारयतिभ्यां नन्द्यादिल्युः। तत इञ्। दैलीपि, दैवालि, दैवमित्रि, दैवयज्ञि। देवा मित्रमस्य। देवेभ्यो यज्ञमस्येत्यर्थः। प्राणेहति, चापटकि, आनुहरति, श्वाफल्कि, आनुमति, आहिसि, आसुरि, आयुधि, नैमिषि, आसिबन्धकि, बैलि, पौष्कि, पौष्करसादिआनुहारति। पुष्करे तीर्थविशेषे सीदति पुष्करसत्। अनुहरतीत्त्यनुहरत्। बाह्वादित्वादिञ्‌। अनुशतिकादित्वादुभयपदवृद्धिः। पौष्यि, वैरीक, वैहति, विलक्षणौकर्णो अस्य वैकर्णिः। कामलि। उपकोशलो हवै कामलायन इति छन्दोग्योपनिषत्। कारेणुपालि। करेणुं पालयति करेणुपालः। श्रीः।
इति श्रीसिद्धान्तसुधानिधौ द्वितीयस्य चतुर्थपादे प्रथममाह्निकम्।।