सामग्री पर जाएँ

वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)/क्त्वाद्यर्थनिर्णयः

विकिस्रोतः तः
← सङ्ख्याविवक्षादिनिर्णयः वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)
क्त्वाद्यर्थनिर्णयः
[[लेखकः :|]]
स्फोटनिर्णयः →


।। अथ क्त्वाद्यर्थनिर्णयः ।।
सिंहावलोकनन्यायेन प्रातिपदिकान्तःपातिप्रत्ययार्थनिरूपणस्मरणप्रसङ्गादाहक्त्वाप्रत्ययादेरिति। निरूपयति-प्रतिपादयति-अव्ययकृत इत्युक्तेरिति। तुमुन्नादय इति। अवतरणिकायां प्रतिपदोक्तत्वेन क्त्वाप्रत्ययोपादानं तु तद्विषये वक्तव्यबाहुल्याद् ब्राह्मणवसिष्ठन्यायेन प्राधान्यद्योतनायेति बोध्यम्। ननु तुमुनादीनां धातोर्विधानाद्धात्वर्थफलेऽपि प्रकृत्यर्थत्वाविशेषात्तत्राप्यर्थे तुमुनादयः स्युरत आह-भाव इति। धात्वर्थप्रधाने व्यापार इत्यर्थः। आदिपदं क्त्वादिसंग्रहार्थम्। तुमुनादीनां व्यापारार्थकत्वे प्रमाणं वक्तिं-अव्ययकृत इति। वार्तिकादिति। अव्ययसंज्ञाप्रयोजकाः कृत्प्रत्यया भाव भवन्तीति वार्तिकार्थः। भाष्यकारा अपि तुमुनादीन् भाव एवाभ्युपगच्छन्ति। परंतु तुमुनादेरसत्त्वभूत एव भावोऽर्थः। पाक इत्यादाविव तुमुनाद्यर्थे लिङ्गसंखअयान्वयाननुभवात्। तथा च धात्वर्थानुवादक एव तुमुनादिरिति पर्यवस्यति। तुमुन्ण्वुलौ क्रियायां क्रियार्थायामिति तुमुन्विधायकं सूत्रम्। अस्यार्थः-अर्थः प्रयोजनं यस्याः सा क्रियार्था। तादृश्यां क्रियायामुपपदे सति क्रियाफलकक्रियावाचक उपपदे सति धातोः-अर्थात्‌फलभूतक्रियावाचकाद्धातोर्भविष्यत्यर्थे तुमुन्ण्वुलौ भवत इति। अत्र क्रियार्थायां क्रियायामित्युक्तेरुद्देश्यत्वरूपतादर्थ्यमपि तुमुन्‌द्योत्यम्। तच्च संसर्गः। प्रकृत्युपपदार्थयोस्तादर्थ्यवत्समानकर्तृत्वमपीहाभिधानबललभ्यः संसर्गः। क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपवैजात्येन तु न भानम्। तुमुनर्थे क्रियान्तराकाङ्‌क्षादर्शनात्। कारकान्वययोग्यतावच्छेदकवैजात्येन तु भानमस्त्येव। एतद्विहितो ण्वुल् कर्तर्येव। कृष्णं द्रष्टुं याति, कृष्णं दर्शको यातीत्यादौ कृष्णकर्मकं भविष्यद्दर्शनोद्देश्यकं दर्शनकर्तृकर्तृकं यानम्, कृष्णकर्मकभविष्यद्दर्शनकर्तृकर्तृकं तद्दर्शनोद्देश्यकं यानमिति रीत्या बोधः। घञादिवाच्यो भावः सिद्धावस्थापन्न एव। पाक इत्यादौ सर्वसंख्यादियोगदर्शनात्। सिद्धत्वं च क्रियान्तराकाङ्क्षोत्थापकतावच्छेदकं यद्बैजात्यं तद्रूपवत्त्वमित्युक्तं प्राक्। तत्रापि प्रकृत्या साध्यावस्थापन्नस्यैवोपस्थितिः। अत एवौदनस्य पाक इत्यत्र ओदनस्येत्यस्य कारकषष्ठीत्वं, भोक्तुं पार दत्यादौ तुमुन् सिद्धश्च संगच्छते। ननु पाक इत्यादिघञन्तोपस्थितसाध्यावस्थापन्नविक्लित्त्यनुकूलव्यापारस्यैकदेशत्वेन कथं तत्रौदनस्येत्यादिकारकाणामन्वयः, पदार्थः पदार्थनान्वेति नतु पदार्थैकदेशेनेतिन्यायादिति चेन्न। तन्न्यायस्य क्रियातिरिक्तविषय एव स्वीकारत्। अत एव भोक्तुं गतः, देवदत्तेन ग्रामो गतः, कृतपूर्वी कटमित्यादौ कारकाणां गुणभूतक्रियायामन्वयोऽनुभूयमानः संगच्छते। वस्तुतो भोक्तुं पाक इत्याद्यसाध्वेव। क्रियार्थायां क्रियायामित्युक्तत्वान्प्रत्यासत्त्या निमित्तनिमित्तिक्रिययोरेकजातीयत्वलाभेन यथा तुमुन्‌प्रत्ययप्रकृतिभूतधातूपस्थाप्या निमित्तिक्रिया स्वप्रकृतिकतुमुनर्थं प्रत्यगुणीभूता साध्यावस्थापन्ना गृह्यते तथा उपपदभूताया निमित्तक्रियाया अपि स्वप्रकृतिकप्रत्ययार्थं प्रत्यगुणीभूतायाः साध्यावस्थापन्नाया एव ग्रहणात्। एतदनुसंधायैव शब्देन्दुशेखरे तुमुन्ण्वुलावितिसूत्रे भट्टनागेशैरुक्तं निमित्तभूतोपदक्रिया चात्र तिङ्‌न्तोपस्थाप्यैवेति। भोक्तुं गत इत्यादौ चोपपदभूता निमित्तक्रिया गमिधातूपस्थाप्या, सा च स्वप्रकृतिकक्तप्रत्ययार्थकर्तारं प्रति गुणभूतेति न तादृशक्रियोपपदे सति तुमुनः साधुत्वमिति भावः। एवं च तुमुन् धात्वर्थानुवादक एव। अत एव घञादिवाच्यो भावो बाह्यः प्रकृत्यर्थात्, तुमुनादिवाच्यस्त्वाभ्यन्तर इत्युक्तं तुमर्थ इति सूत्रे भाष्ये। एवोक्त्वाणमुलादीनामप्यसत्त्वभूतो भाव एवार्थः। ननु क्त्वाप्रत्ययस्यासत्त्वभूतभावमात्रार्थकत्वस्वीकारे समानकर्तृकयोः पूर्वकाल इत्यादीनां वैयर्थ्यापत्तिरित्याशङ्कते-नन्वित्यादि। का गतिरिति। पूर्वकाल इत्यादीनामुपादानात्पूर्वकालादीनां क्त्वाप्रत्ययवाच्यता प्रतीयते। भावमात्रार्थकत्वे तु तदसंगतिः। अतः कर्तृत्वादेः क्त्वाप्रत्ययवाच्यत्वं स्वीकार्यम्। क्त्वाप्रत्ययस्य कर्तृरूपार्थवाचकत्वादेव रोटिकाः पक्त्वाऽहं भोक्ष्य इत्यत्रास्मच्छब्दात्तृतीया न। क्त्वाप्रत्ययेन पाककर्तुरभिधानात्। पाककर्तुर्भोजने स्वनिष्ठकर्तृत्वनिरूपकतासंबन्धेनान्वयातसमानकर्तृकत्वमपि लभ्यत इत्याशयेनाऽऽह-समानकर्तृकत्वादीति। क्त्वाविधायकं तु `समानकर्तृकयोः पूर्वकाले' इति सूत्रम्। तदर्थस्तु-समानकर्तृकयोरिति निर्धारणे षष्ठी। पूर्वकाल इति कर्मधारयः। समान एकः कर्ता ययोस्तौ, तयोः समानकर्तृकयोः क्रियारूपार्थयोर्मध्ये पूर्वकालविशिष्टक्रियारूपार्थवृत्तेर्धातोः क्त्वाप्रत्ययो भवतीति। तथा च पूर्वकालः क्त्वाप्रकृत्यर्थे प्रकारः। पूर्वकाल इत्यस्य स्थाने भूत इति तुनोक्तं, लाघवानादरात्। भूतत्वेन बोधाननुभवाच्च। तुमुन्वत्क्त्वाप्रकृत्यर्थक्रिया क्रियान्तरे विशेषणं धातुसंबन्धाधिकारात्। विशेष्यविशेणभावश्च संबन्धमन्तराऽनुपपन्न इति क्त्वाप्रकृत्यर्थस्याऽऽनन्तर्यसंबन्धेन धात्वन्तरार्थेऽन्वयः। एवं च षष्ठ्याः संबन्धवाचकत्ववत्क्त्वादीनामपि समानकर्तृकत्वादिरूपसंबन्धवाचकत्वं वक्तुं शक्यमिति नवीनाः। प्राचीनास्तु समानकर्तृकयोः क्रयारूपार्थयोर्मध्ये पूर्वकालसंबन्ध्यर्थवाचकाद्धातोः क्त्वेत्यर्थः। पूर्वकाल इति च बहुव्रीहिरित्याशयः। ततश्च वाक्यशक्योक्तसंबन्धतात्पर्यग्राहकाः क्त्वादय इत्यभिप्रेत्याऽऽह-अयं भाव इति। एकवाक्यतेति। भविष्यद्भोजनफलिका वर्तमानकालिकी पाकक्रिया, भोजनोत्तरकालिकं वर्तमानं व्रजनमित्येवंरीत्या एकक्रियामुख्यविशेष्यकबोधानमवादेकवाक्यतेत्यर्थः। सर्वसिद्धा-सर्वानुभवसिद्धा। नतु भुङ्क्ते पचति चेतिवदेककर्तृकं भोजनं, एककर्तृकं च पचनमित्येवं क्रियाद्वयमुख्यविशेष्यका भिन्नवाक्यतेति भावः। सा चैकवाचक्यता भोजनपाकक्रिययोर्विशेषणविशेष्यभावमन्तरा नोपपद्यत इत्याह-अन्यथेति। विशेषणविशेष्यभावं निनाऽप्येकवाक्यत्वाङ्गीकार इत्यर्थः। एकवाक्यतापत्तेरिति। एककर्तृका वर्तमानकालिकी भुजिक्रिया, एककर्तृका वर्तमानकालिकी व्रीजिक्रियेति क्रियाद्बयमुख्यविशेष्यताशाली बोधोऽनुभवसिद्धः, नतु तत्रैकमुख्यविशेष्यताशालिरूपैकवाक्यताऽनुभवसिद्धेत्यर्थः। एवं च विशेषणविशेष्यभावोपपादकः संबन्धोऽवश्यं वक्तव्य इत्याह-तथा चति। तयोरिति। भुजिपचिक्रिययोरित्यर्थः। विशेषणविशेष्यभावनिरूपकः संबन्धः समानकर्तृकत्वपूर्वोत्तरकालित्ववदन्योऽपि बहुविधः संभवतीति सोऽपि क्त्वाद्योत्य इत्याशयवानाह-जन्यत्वमित्यादि। सामानाधिकरण्यमिति। एकाश्रयवृत्तित्वमित्यर्थः। एककर्तृकत्वमिति यावत्। पूर्वोत्तरभाव इति। पूर्वकालवृत्तित्वोत्तरकालवृत्तित्वसमुदाय इत्यर्थः। व्याप्यत्वमिति। भोजनजनिकेति। भोक्तुं पचतीत्यत्र भोजनपचनक्रिययोर्जन्यजनकभावः संबन्धः, स च तुमुन्‌द्योत्यः। तुमुन्ण्वुलायित्यत्र क्रयार्थायामित्युक्तः। क्रियार्थत्वं च जन्यजनकभावरूपमिति भावः परे तूद्देश्यत्वनिरूपकत्वरूपं तादर्थ्यं तुमुनादिद्योत्यं संसर्गतया भासते, तच्च-तदिच्छाधीनेच्छानिषयत्वम्। भोजनेच्छाधीनेच्छाविषयत्वात्पाकस्य भोजननिष्ठोद्देश्यत्वनिरूपकत्वम्। भविष्यत्त्वमपि तुमुन्‌द्योत्यम्। तुमुन्ण्वुलावित्यत्र भवित्यतीत्यनुवृत्तेः। तथा च भविष्यद्भोजनोद्देश्यको भोजनकर्तृकर्तृकः पाक इति बोधः। भोजनजन्येति। भुक्त्वा तृप्त इत्यत्र भोजनतृप्त्योर्जन्यजनकभावसंसर्गद्भोजनजन्या या तृप्तिस्तदाश्रय इत्यर्थः। गत्यर्थाकर्मकेति कर्तरि क्तप्रत्ययविधानात्। ननु भुक्त्वा तृप्त इत्यत्र तत्कर्तृकभोजनानन्तर्यवती या तृप्तिस्तदाश्रय इत्येवमानन्तर्यसमानकर्तृकत्वयोरेव संसर्गतया भानमस्तु किं गुरुशरीरस्य जन्यत्वस्य संसर्गतया भानस्वीकारेणेत्यत आह-अत एवेति। जन्यत्वस्य संसर्गतया भानस्वीकारदेवेत्यर्थः। न प्रयोग इति। भोजनजन्यतृप्तौ जलपानानन्तर्यसत्त्वेऽपि पीत्वा तृप्त इति न प्रयोगो भवति। निरुक्ततृप्तौ जलपानजन्यत्व भावादित्यर्थः। य एव भोजनाश्रयः स एव तृप्त्याश्रय इति भोजनतृप्त्योरेकाश्रयवृत्तिरूपसामानाधिकरण्यस्य संसर्गतया प्रतीतेः समानकर्तृकत्वमपि लब्धमिति बोध्यम्। सामानाधिकरण्यं च संसर्ग इति। तथा च भुक्त्वा व्रजतीत्यत्र तत्कर्तृकपूर्वकालवृत्तिभोजनोत्तरकालवृत्ति तत्कर्तृकं व्रजनमिति बोधः। पूर्वोत्तरकालवृत्तित्वं सामानाधिकरण्यं चेति द्वयस्य संसर्गत्वेन भानाद्यादृशो बोधाकारः संपद्यते तमाहभोजनसमानेति। भोजनेन समानाधिकरणमाश्रयो यस्या व्रजनक्रियायाः सेत्यर्थः। य एव भोजनक्रियाया आश्रयः स एव व्रजनक्रियाया आश्रय इति भावः। तदुत्तरकालिकीति। पूर्वकालवृत्तिभोजनोत्तरकालिकी व्रजनक्रियेत्यर्थः। मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा(रघु वं. स.1 श्लो.77)अस्य, अवजानासि मां यस्मादतस्ते न भविष्यतीति पूर्वार्धम्। अत्र स्थितस्येत्यध्याहारः। मत्प्रसूतिमनाराध्य स्थितस्य ते प्रजा न भविष्यतीति सुरभिकर्तृको राजकर्मकः शाप इत्यर्थः। तथा च स्थितिक्रियामादाय समानकर्तृकत्वादेर्निर्वाहान्न क्त्वाप्रत्ययानुपपत्तिः। तथा च स्थितिक्रियामादाय समानकर्तृकत्वादेर्निर्वाहान्न क्त्वाप्रत्ययानुपपत्तिः। तथा च मत्प्रसूतिकर्मकाराधनाभावसमानाधिकरणा या स्थितिस्तादृशस्थित्याश्रयाभिन्नत्वत्संबन्धी भविष्यत्प्रजाकर्तृकभवनाभाव इति बोधः। पूर्वोत्तरकालवृत्तित्वेऽव्यवधानांशोऽपि निवेशनीयः। तेन पूर्ववर्षोत्पन्नं श्वशुरगृहे भोजनं सांप्रतिकवर्षाधिकरणकं च व्रजनमादाय श्वशुरगृहे भुक्त्वा व्रजतीति न प्रयोगः। तादृशभोजनव्रजनयोदर्धिर्घकालकृतव्यवधानसत्त्वादित्यर्थः। अव्यवधानं च तात्पर्यवशात्क्वचिद्दण्डेन क्वचिन्मुहूर्तेन क्वचित्प्रहारहरादिना यथायथं ग्राह्यम्। तेनाद्य भुक्त्वा श्वो गन्तेति न प्रयोगानुपपत्तिः। नन्वेवं पूर्वोत्तरकालत्वादेः संसर्गत्वाङ्गीकारे मुखं व्यादाय स्वपितीति प्रयोगो न स्यात्। स्वापकाल एव मुखव्यादानमिति व्यादानस्य स्वापपूर्वकालत्वाभावात्। तथाऽधीत्य तिष्ठतीति प्रयोगस्याप्यनुपपत्तिः। अध्ययनस्थित्योः सहभावेनावस्थानादध्ययनानन्तर्यस्य स्थितावसत्त्वादित्याशयवानाह-अधीत्य तिष्ठतीत्यादि। अत्राध्ययनसहितस्थिष्ठतीति बोधः। न त्वादावध्ययनं कृत्वा तदुत्तरकाले तिष्ठतीत्यर्थः। यदा हि तत्कर्तृकाध्ययनोत्तरकालिकत्वेन तत्कर्तृकस्थितिर्बोदनीयत्वेन विवक्ष्यते तदाऽधीत्य तिष्ठतीति प्रयोगो भवत्येव। अत्रत्यप्रयोगस्तु यदा यदा तिष्ठति तदा तदाऽध्ययनसहभावेनैव तिष्ठतीत्यर्थबोधनविवक्षयेति भावः। एवं मुखं व्यादाय स्वपितीत्यत्रापि यदा यदा हि स्वपिति तदा तदा तु मुखव्यादानसाहित्येनैव स्वपितीत्यर्थविवक्षेति बोध्यम्। तथा च `अभावकालेऽप्रयोगात्' पूर्वकालिकाध्ययनस्वापोत्तरकालिक्यौ स्थितिस्वापक्रिये इत्यर्थबोधनेच्छया निरुक्तप्रयोगयोरकरणादित्यर्थः। न तु तादृशेऽर्थ तादृशेप्रयोगौ न भवत इति भावः। अत्र यदा यदेति वीप्सया स्थितिस्वापयोर्व्याप्यत्वं, तदा तदेत्यनेन चाध्यनव्यादानयोर्व्यापकत्वं च सूचितम्। एवं च व्यापकमध्ययनं विना कदापि न तिष्ठति, किंतु निरन्तराध्ययनशालीत्यर्थः। तथा मुखव्यादानं व्यापकं विना कदापि न स्वपिति, किंतु निरन्तरमुखव्यादानवत्स्वापशलीत्यर्थ इति भावः। कालविशेषावच्छिन्नेति। तत्तत्कालविशेषावच्छिन्नं यत्तत्कर्तृमध्ययनं मुखव्यादानं च, तन्निष्ठव्यापकतानिरूपितव्याप्यता तत्कर्तृकस्थितिस्वापयोर्बुध्यत इति तत्र व्याप्यत्वं सामानाधिकरण्यं च संसर्ग इति भावः। एवं च स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वादध्ययनं व्यादानं च व्यापकम्। स्वं-तत्कालविशेषावच्छिन्नौ स्थितिस्वापौ, तदधिकरणं-तादृग्‌देवदत्तः, तन्निष्ठो योऽत्यन्ताबावः-अध्ययनमुखव्यादानयोरत्यन्ताभावो नाऽऽयाति, देवदत्ते तयोः सत्त्वात्। अपितु घटात्यन्ताभावः,प्रतियोगी घटः, अप्रतियोगि अध्ययनं मुखव्यादानं च, अप्रतियोगित्वं च तयो रिति कृत्वा स्थितिस्वापनिरूपितव्यापकत्वमध्ययनमुखव्यादानयोर्वर्तते। तथा स्वाभाववदवृत्तित्वं व्याप्यत्वम्। स्वं-अध्ययनमुखव्यादाने, स्वाभावः-अध्ययनव्यादानयोरभावः, स्वाभाववान्-तादृग्देवदत्तः, तद्‌वृत्तिगमनपचनादि, तदवृत्ति--स्थितिस्वापौ, तदवृत्तित्वं स्थितिस्वापयोरिति कृत्वा अध्ययनव्यादाननिरूपितं व्याप्यत्वं स्थितिस्वापयोर्बोध्यम्। ततश्च कालविशेषावच्छिन्नेत्यादिग्रन्थस्यायमर्थः-तत्कालवाच्छिन्नस्वाधिकरणोनिष्ठात्यन्ताभावप्रतियोगितानवच्छेदकाध्ययनमुखव्यादानत्ववत्सामानाधिकरण्यरूपं व्याप्यत्वं स्थितिस्वापनिष्ठं तद्बोधादिति। एवं चेति। जन्यत्वादीनां संसर्गतया भाने चेत्यर्थः। अन्यलभ्यत्वादिति। वाक्यशक्तिलभ्यत्वान्न तेषां क्त्वाप्रत्ययवाच्यत्वमिति परममूले यदुक्तं `अव्ययकृतो भावे' भवन्तीति तत्सम्यगेवेति भावः। इतमत्र बोध्यम्-समानकर्तृकेतिसूत्रविहितक्त्वान्तप्रयोगस्थले समानकर्तृकत्वापूर्वोत्तरभावयोः संसर्गतया भानं सार्वत्रिकम्। जन्यत्वादीनां तु तात्पर्यवशात्क्वचिदेव तथा भानमिति। एतावता वाक्यार्थवर्णनेन यत्फलितं तदाह--एंवं चेति। समानकर्तृकत्वादीनां क्त्वादिप्रत्ययवाच्यत्वाभावे चेत्यर्थः। प्रकृत्यर्थक्रिययोरिति। प्रकृत्यर्थश्च क्रिया चेति द्वंद्वः। अथवा क्त्वाप्रत्ययस्य समभिव्याहृतक्रियावाचकघटकतप्रत्ययस्य च प्रकृतिर्ग्राह्या। तथा च प्रकृत्योरर्थौ ये क्रिये तयोरित्यर्थ इति नासंगतिः। संसर्गे-समानकर्तृकत्वादिरूपे वाक्यशक्त्योक्तसंबन्धे। तात्पर्यग्राहकत्वेन द्योतकाः क्त्वाप्रत्ययादय इत्यर्थः। निरुक्तसंबन्धद्योतकत्वमेव क्त्वादीनां नतु वाचकत्वमिति भावः। अत एवेति। क्त्वादीनां सयानकर्तृकत्वादिसंबन्धद्योतकत्वादेवेत्यर्थः। भाष्यप्रतीकमिति। समानकर्तृकयोरिति सूत्रे-इह कस्मान्न भवति पूर्व भुङ्क्ते पश्चाद् व्रजति' इत्यत्र भोजनव्रजनयोः समानकर्तृकत्वेन पूर्वोत्तरकालिकत्वेन च क्त्वामापाद्य तत्समाधानार्थं स्वशब्देनोक्तत्वान्न' इत्युत्तरितम्। तदर्थस्त्वयम्-स्वं-क्त्वाप्रत्ययबोध्यार्थः पूर्वोत्तरकालः, तद्वाचकः शब्दः-पूर्वं पश्चादिति च, तेन पूर्वोत्तरकालस्योक्तत्वादुक्तार्थानामप्रयोग इति न्यायात्क्त्वाप्रत्ययो न भवतीति। पौर्वापर्यकाले द्योत्य इति। नतु विषय इति। प्रयोगघटकशब्द्रबोध्ये पौर्वापर्ये क्त्वादिर्न विधीयते, किंतु द्योत्ये विधीयत इति कैयटश्च। अत्र पूर्वपश्चाच्छब्दाभ्यां पौर्वापर्यस्योक्तत्वान्न क्त्वा इत्यर्थः। अनेन भाष्यकैयटग्रन्थेन पूर्वोत्तरकालत्वादेर्द्योतकत्वमेव क्त्वादीनां, नतु वाचकत्वमिति स्पष्टमेव सूचितमिति संसर्गतयैव भानं भाष्यकैयटसंमतमिति भावः। क्त्वाप्रत्ययार्थविषये यन्मतान्तरं तद्‌दूषयितुमनुवदति-यत्त्विति। समानकर्तृकयोरिति बहुव्रीहिः। क्रियारूपार्थोऽन्यपदार्थः। पूर्वकाल इति च पूर्वः कालो यस्येति षष्ठ्यर्थे बहुव्रीहिः। तथा च समानकर्तृकयोः क्रियारूपार्थयोर्मध्ये पूर्वकालसंबन्धिक्रियारूपार्थवाचकाद्धातोः क्त्वेत्यर्थात्‌क्रियाया धातुनैव लाभात्तत्तत्क्रियाकर्तृकर्तृकत्वरूपं समानकर्तृकत्वं क्त्वाप्रत्ययवाच्यमित्यङ्गीकर्तव्यम्। समानकर्तृकेत्युपादानात्समानकर्तृकत्वस्य क्त्वावाच्यत्वप्रतीतेरिति भावः। कर्तृकर्तृकत्वस्य वाच्यत्वमनादृत्य द्योतकत्वाभ्युपगमे बाधकमाह-अन्यथेति। समानकर्तृकत्वस्य क्त्वावाच्यत्वानभ्युपगम इत्यर्थः। तृतीयाप्रसङ्ग इति। ओदनं पक्त्वेति क्त्वाप्रत्ययेन कर्तुरनभिधानादहमित्यस्मच्छब्दात्कर्तरि तृतीयायाः प्रसङ्गः स्यादित्यर्थः। ननु अनभिहित इत्यत्राभिहिते नेति प्रसज्यप्रतिषेधाश्रयणे भोक्ष्य इति तिङा कर्तुरुक्तत्वान्न ययेति तृतीयापत्तिरित्याह-न चाऽऽख्यातेनेति। अनभिहित इत्यत्राभिहिते नेत्येवं प्रसज्यप्रतिषेध आश्रयितुमशक्यः, वाक्यभेदादिदोषग्रस्तत्वात्। तथा च भोक्ष्य इति भुजधातूत्तरतिङा भुजिक्रियाकर्तुरुक्तत्वेऽपि पचिक्रियाकर्तुरनभिधानेनाभिहितभिन्नत्वान्मयेति तृतीया दुर्वारा। कर्तुरेकत्वेऽपि कर्तृत्वनिरूपकक्रियाभेदात्कर्तृभेदेन पचिक्रियाकर्तुरनभिहितत्वमित्यर्थः। तदाह-अनभिहिते भवतीति। अत एवेति। अनभिहित इत्यत्र लाघवेन पर्युदासाश्रयणादेवेत्यर्थः। अनभिहित इत्यत्र पर्युदासाश्रयणे न केवलं लाघवं किंतुफलमप्यस्तीत्याह-प्रासादे आस्त इति। प्रसीदत्यस्मिन्निति प्रपूर्वकात्सद्‌धातोरधिकरणे हलश्चेति घञ्। उपसर्गस्य घञीति पूर्वपदस्य दीर्घः। अत्र प्रकृत्यर्थसदिक्रियानिरूपिताधिकरणत्वस्य घञोक्तत्वेऽपि आसिक्रियानिरूपिताधिकरणत्वस्यानुक्तत्वात्प्रसादे इति सप्तमीति अनभिहित इत्यत्र भाष्ये स्पष्टमित्यर्थः। उपसंहरति-तस्मादिति। क्त्वकर्तृवाचित्वं निरस्यति-तन्नेति। क्त्वः कर्तृवाचकत्वं सूत्रान्न लभ्यते इत्येतत्स्पष्टयितुं सूत्रार्थमाह-समानकर्तृकयोः क्रिययोरित्यादि। क्रियारूपान्यपदार्थे समानकर्तृकयोः पूर्वकाल इति च त्रहुव्रीहिः तथा च समानः कर्ता ययोस्तादृशक्रिययोर्मध्ये पूर्वकालसंबन्धिक्रियारूपार्थवाचकाद्धातोः क्त्वेत्यर्थात्ससमानकर्तृकत्वस्य पूर्वकालत्वस्य च क्रियारूपधात्वर्थविशेषणतैवावगम्यते, न तु विधेयक्त्वाविशेषणतेति भावः। यथा चित्रगुर्गौप इत्यत्र चित्रगवीणां गोपरूपान्यपदार्थविशेषणत्वमेव नतु गोपस्येव तन्निष्ठसत्ताविशेषणत्वं तद्वदित्याशयः। एवं च कर्तुः क्त्वावाच्यत्वं कथमपि न लभ्यत इति तात्पर्यम्। ननु यदि कर्तृवाचित्वं क्त्वो न विवक्ष्यते तदा समानकर्तृकत्वादेर्जन्यत्वादिवदाकाङ्क्षादिवशात्संसर्गतयैव प्रतीतेः सिद्धत्वात्तदुपादानं सूत्रे व्यर्थमेव स्यादिति पूर्वोक्तरीत्या समानकर्तृकत्वस्य क्त्वावाच्यत्वमास्थेयमित्याशङ्क्याऽऽह-अन्यथेति। पूर्वोक्तरीत्या कर्तुः क्त्वावाच्यत्वे विवक्षित इत्यर्थः। समानकर्तरीति। समानकर्तृकयोरित्यपनीय तत्स्थाने समानकर्तरीति वदेत्कर्तरि कृदितिवदित्यर्थः। समानकर्तरीत्यस्यैककर्तरीत्यर्थः। अस्य क्त्वा भवतीति शेषः। क्त्वार्थकर्तुः केन कर्त्रा ऐक्यमित्यपेक्षायां प्रत्यासत्त्या समभिव्याहृततिङन्तोपस्थाप्यविशेष्यभूतक्रियाकत्रैक्यं गुह्यते। तथा च पूर्वकालिकबोजनक्रियाकर्त्रभिन्नकर्तृनिष्ठं तदुत्तरकालिकं व्रजनमिति भुक्त्वा व्रजतीत्यत्र शाब्दबोधः। यतश्च तथा सूत्रन्यासो न कृतस्ततः कर्तुः क्त्वावाच्यत्वं पाणिनेर्नेष्टमित्यवगम्यत इति भावः। ननु यदि कर्तुः क्त्वावाच्यत्वं नेष्यते तर्हि ओदनं पक्त्वाऽहं भोक्ष्य इत्यत्रास्मच्छब्दात्तृतीयापत्तिस्तदवस्थैव स्यादित्याशङ्क्य तां निराकर्तुमाह-तृतीयापादनं त्विति। आख्यातार्थक्रियाया इति। भावप्रधानमाख्यातमिति यास्कोक्तेस्तिङन्तोपस्ताप्यक्रिया विशेष्यभूता, सा चात्र भोक्ष्य इति भुजिक्रियेत्यर्थः। कतुंरभिधानादिति। तादृशप्रधानभूतक्रियानिरूपितकर्तुस्तिङोक्तत्वात्तादृशप्रधानक्रियाविशेषणभूतायाः क्त्वाप्रत्ययप्रकृतिभूतधातूपस्थाप्यायाः पचिक्रियायाः कर्तुरप्युक्तत्वेन तत्र तृतीयापादनं न संभमतीत्यर्थः। कर्तृत्वनिरूपकपाकभोजनक्रिययोर्भेदन तन्निरूपितकर्तृत्वयोर्भेदेऽपि प्रधानभोजनक्रियानिरूपितकर्तृत्वविशिष्टकर्तुरभिधाने सतितद्विशेषणीभूतपचिक्रियानिरूपित कर्तृत्वविशिष्टकर्तुर्पयभिधानस्य भाष्यादिसंमतत्वेन प्रकृतोदाहरणे तृतीयापादनं सुतरां दुर्वचमिति भावः। अत्रार्थे हरिकारिके प्रमाणयति-उक्तं चेति। प्रधानेतरयोरिति। अस्य क्रिययोरित्यत्रान्वयः क्रिययोश्च निरूपितत्वसंबन्धेन कारकशक्तावन्वयः। कारकशक्तेश्चऽऽश्रयतासंबन्धेन द्रव्येऽन्वयः। तथा च विशेष्यविशेषणभूतक्रियाद्वयनिरूपितकारकशक्तिद्वंय पृथग्यत्रैकद्गव्याश्रितं भवतीति शेषः। शक्तिर्गणाश्रयेति। तत्र विशेषणभूतक्रियानिरूपिता कारकशक्तिः, विशेष्यभूतक्रियानिरूपितां कारकशक्तिमनुरुध्यतेऽनुसरतीत्यर्थः। तदनुरोधमेव विशदयति-प्रधानविषयेति। प्रधानक्रियानिरूपिता कारकशक्तिर्यदा प्रत्ययेन-तिङाऽबिधीयते तदा गुणक्रियानिरूपिता कारकशक्तिस्तदुत्तरप्रत्ययेनानभिहिताऽपि तद्वदभिहितवत्प्रतीयत इत्यर्थः। एतत्तुल्यन्यायात्प्रधानक्रियानिरूपितकारकशक्तेस्तिङाऽनुक्तत्वे सति गुणक्रियानिरूपितकारकशक्तिः स्ववाचकदातूत्तरप्रत्ययेनोक्ताऽप्यनुक्तवद्बोध्या। स्वशब्देन गुणक्रिया ग्राह्यमा। अत एव प्रासादे इत्यत्र घञ्‌प्रत्ययेन गुणभूतसादिक्रियानिरूपिताधिकरणशक्तेरुक्तत्वेऽपि आस्त इति तिङन्तोपस्थितप्रधानासिक्रियानिरूपिताधिकरणशक्तेस्तिङाऽनुक्तत्वेन सदिक्रियानिरूपिताधिकरणशक्तेरप्यनुक्तवत्प्रतीयमानत्वेन प्रासादे आस्त इत्यत्र सप्तमीति भाष्य उक्तम्। अवस्यं चैतद्‌गुणक्रियानिरूपितकारकशक्तेः प्रधानक्रियानिरूपितकारकशक्त्यनुरोधित्वमङ्गीकर्तव्यम्। अन्यथौदनं पक्त्वाऽऽहं भेक्ष्य इत्यत्र क्त्वः कर्तृवाचकत्वस्वीकारेण तृतीयापादनस्य निरसनेऽपि पक्त्वौदनो मया भुज्यत इत्यत्रौदनपदोत्तरं द्वितीयांपादनं दुर्निवारं स्यादित्याशयवानाह-किं चेति। अन्यथेति। गुणक्रियानिरूपितकारकशक्तेः प्रधानक्रियानिरूपितकारकशक्त्यनुरोधित्वानभ्युपगम इत्यर्थः। क्त्वार्थतापत्तिरिति। पक्त्वौदनो भुज्यत इत्यत्रौदने भुजिक्रियानिरूपितं तथा पचिक्रियानिरूपितं चेति क्रियाद्वयनिरूपितं कर्मत्वद्वयं प्रतीयते। तत्र मुजधातूत्तरतिङ्‌प्रत्ययेन भुजिक्रियानिरूपितकर्मत्वस्योक्तत्वेऽपि पचिक्रियानिरूपितक्तर्मत्वस्य पचिधातूत्तरक्त्वाप्रत्ययेनानभिधानाधोदनपदोत्तरं द्वितीया प्रसज्यते। तद्वारणार्थं क्त्वः कर्मवाचकत्वमप्यङ्गीकर्तव्यं भवतीति कर्मणः क्त्वावाच्यतापत्तिरित्यर्थः। प्रकारान्तरेणेति। क्त्वः कर्तरि शक्त्यङ्गीकारेण द्वितीयावारणं न संभवतीत्यर्थः। पचिक्रियानिरूपितकर्मत्वस्यौदनगतस्य क्त्वाप्रत्ययेनानभिधानादिति भावः। कर्तृवाचकत्ववत्क्त्वः कर्मवाचकत्वेऽपीष्ठापत्तिरेवेति तु वक्तुमशक्यम्। तादृशकल्पनायां प्रमाणभावाद्गौरवाच्च। गुणक्रियानिरूपितकारकशक्तेः प्रधानीक्रियानिरूपितकारकशक्त्यनुरोधित्वानुसरणे तु तिङन्तोपात्तप्रधानबुजिक्रियानिरूपितकर्मत्वशक्तेस्तिङाऽभिधानाद् गुणभूतपचिक्रियानिरूपितायास्तस्याः शक्तेः क्त्वयाऽनभिधानेऽष्यभिहितवत्प्रतीयमानत्वान्न द्वितीयापत्तिरिति संपिण्डितोऽर्थः। अपि च वाचकत्वपक्षे क्त्वादीनां जन्यत्वव्याप्यत्वादिनाऽनेकार्थत्वापत्तिः। जन्यत्वादीनां वाच्यत्वे प्रत्ययार्थत्वात्प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमिति न्यायेन तेषां विशेष्यत्वापत्त्या भुक्त्वा भुक्त्वा व्रजीत्यत्र आभीक्ष्ण्ये द्वे वाच्ये' इति द्वित्वानापत्तिः। क्रियाप्राधान्यभावात्। नच सिद्धान्तेऽपि क्त्वान्तोपस्थितक्रियाणां तिङन्तोपात्तक्रियायां विसेषणत्वात्क्रियाप्राधान्यविरहेण भुक्त्वा भुक्त्वेति द्वित्वानापत्तिस्तदवस्थैवेति वाच्यम्। भावप्रधानमाख्यातमित्यस्य प्रत्ययार्थस्य प्राधान्यमिति न्यायापवादकत्वे प्रत्ययार्थापेक्षया तत्प्रकृतिभूतधात्वर्थस्य प्राधान्यमित्यर्थस्यैव विवक्षितत्वेन क्रियान्तरं प्रति विशेषणत्वेऽपि क्त्वान्तोपात्तक्रियाणां न क्रियाप्राधान्यस्य हानिः। जन्यत्वादीनां क्त्वावाच्यत्वे तु तेषां प्रत्ययार्थत्वेन विशेष्यत्वात्क्रियाप्राधान्यं भज्येतेति भावः। अत्रेदं बोध्यम्-औत्सर्गिकप्रत्ययार्थप्राधान्यापवादकेन भावप्रधानमाख्यातमितिवचनेन तिङन्तोपात्तक्रियायाः प्राधान्यबोधनात्स्नात्वा भुक्त्वा पीत्वा व्रजतीत्यादौ व्रजनक्रिया(निरूपित)वधिकपूर्वकालत्वमादायैव सर्वत्र क्त्वा, नतु भोजनादिक्रियावधिकपर्वकालत्वमादाय। तथा सति तस्यापत्यमित्यादावेकत्वादेरिव प्रकृतेसमानकर्तृकयोरिति द्विवचनोपात्तस्य द्वित्वस्याविवक्षायामप्यमीषां ब्राह्मणानां पूर्वमानीयतामित्युक्ते सर्वेभ्यः पूर्व एवाऽऽनीयते, नतु यस्यात्कस्माच्चित् पूर्वो मध्यमस्तथाऽत्रापि स्नारेरेव क्त्वाप्रत्ययः स्यान्नतु भुज्यादेः। एवं स्नानादिपानान्तक्रियाणां व्रजनक्रियायामेवान्वयः। नतु स्नानक्रियाया भोजनादौ। गुणानां च परार्थत्वादिति न्यायेन स्नानादिपानान्तक्रियाणां परस्परमसंबन्धादित्यर्थः। अत एव तत्र भुक्त्वा पीत्वा स्नात्वा व्रजतीति विपरीतप्रयोगोऽप्युपपद्यते। आवाह्य षोडशोपचारैः पूजयेदित्यत्राऽऽवाहनविशिष्टे पूजने षोडशोपचारैरित्यस्य करणत्वम्। पूजने आवाहनवैशिष्ट्यं वाऽन्तर्यसंबन्धेन। तथाच आवाहनोत्तरकालिकं षोडशोपचारकरणकं पूजनमित्यर्थबोधादावाहनस्य षोडशोपचारान्तर्गतत्वेऽपि न दोष इति बोध्यमित्यलम्।। 59 ।।
इति वैयाकरणभूषणसारव्याख्यायां शांकर्यां क्त्वाद्यर्थनिर्णधः।
रङ्गभट्टतनूजेन शंकरेण विनिर्मिते।
सारीयेऽभूद्विवरणे तुमुन्क्त्वाद्यर्थनिर्णयः।। 13 ।।