वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)/स्फोटनिर्णयः
← क्त्वाद्यर्थनिर्णयः | वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः) स्फोटनिर्णयः [[लेखकः :|]] |
।। अथ स्फोटनिरूपणम् ।।
पूर्वोक्तप्रकृतिप्रत्ययाद्यर्थविचारस्यावास्तविकत्वं ध्वनयितुमाह-सिद्धान्तेति। स्फोटस्यैव वाचकत्वमिति सिद्धान्तनिश्चयमित्यर्थः। आह-ब्रूते-वाक्यस्फोटोऽतीति। अष्टो पक्षा इति। तानेवाष्ट पक्षान्क्रमेण नामतो निर्दिशतिवर्मस्फोट इत्यादिना। अण्डपदवाक्येति। अखण्डपदस्फोटोऽखण्डमाक्यस्फोटश्चेति द्वयमित्यर्थः। जातिस्फोटा इति। वर्णजातिस्पोटः, पदजातिस्फोटो, वाक्यजातिस्फोट इति त्रय इत्यर्थः। पदस्य वाक्यस्य चाखण्डत्वेऽपि तत्र जातिर्नास्तीति न मन्तव्यम्। अत एव चरमं पक्षद्वयमूद्भूतमिति ज्ञेयम्। स्फुटति प्रकाशतेऽर्थोऽस्मादिति व्युत्पत्त्याऽर्थबोधकः शब्दः स्फोट इति पर्यवस्यति। उच्चारिताद्व्यञ्जकाच्छब्दात्तत्सदृशस्फोटाख्यशब्दस्य ज्ञानं तस्माच्चार्थज्ञानमिति क्रमः। शब्दनित्यत्वविचारे स्फोटाख्यशब्द् एव नित्यः स एव त्तार्थवानित्यष्टानां पक्षाणां भाष्याद्याकरसंमततया व्यावर्त्याभावाद्वाक्वग्रहणं व्यर्थमित्याह-अनर्धकमिति। दुरर्थकं चेति। भाष्यसिद्धान्तसिद्धवर्मादीतरस्फोटानां व्यावृत्तिबोधकत्वादित्यर्थः। ननु किमर्थं तर्हि वाक्यग्रहणमत आह-वाक्यस्फोटातिरिक्तानामिति। अवास्तवत्वमिति। अष्टानां स्फोटानां मध्ये वाक्यस्फोट एव मुख्यः। शक्तिग्राहकशिरोमणिना वृद्धव्यवहारेण प्रथमतो वाक्य वाक्य एव शक्तिग्रहेण लाके वाक्यस्फोटस्यैवार्थबोधकत्वात्। वर्णस्फोटादीनां तु केवलं सास्रप्रक्रियानिर्वाहाय स्वीकार इत्यर्थः।एतदाशयेनैवाऽऽह-अतिनिष्कर्ष इति। इति मतस्थितिरिति। वैयाकरणानां महाभाष्यकारादीनामित्यर्थः। स्फोटशब्दस्य पङ्गजादिशब्दवद्योगरूढत्वेन वाक्यस्फोट इत्यस्य वाक्य वाचकमित्यर्थः। एवं वर्णस्फोटानीनां वर्णादयो वाचका इत्यर्थः। तत्र क्रमेण सर्वांस्तान्निरूपयन् प्रथमं तावद्वर्मस्फोटमाह-साधुशब्देऽन्तरिति। विप्रतिपत्तिर्विवादः। अत्र नैयायिका एवमाहुः-साधुशब्दघटतिब्रविसर्गादिभिः समारिता लादयः स्वादयश्च स्थानिभूता एव वाचकाः। ल कर्मणि चo स्वौजसमित्यादिभिस्तेषामेव वाचकत्वस्य प्रतिपादितत्वात्। तिब्विसर्गादीनां त्वादेशिलकारादिस्मृतिद्वारा बोधकत्वं लिपिवदिति। तथा च लकारादयो वाचका इति विधिकोटिरन्येषां नैयायिकानामित्यर्थः। लादयो वाचका नेति निषेधकोटिरस्माकं वैयाकरणानामित्यर्थः। एवं चाऽऽदेशद्वारा साधुशब्दान्तगताः स्थानिभूता लादयः स्वादयश्च वाचका न वेति विप्रतिपत्तिशरीरमिति फलति। यदि तु साधुशब्दान्तर्गतास्तिब्विसर्गादयो वाचका न वेति विप्रतिपत्तिशरीरमभ्युपगम्येत तर्हि विधिकोटिरन्येषां, निषेधकोटिर्वैवाकरणानामित्युत्तरग्रन्थः प्रोच्यमानोऽत्यन्तं विसंगतः स्यात्। नैयायिकैस्तिबादीनां वाचकत्वस्यानभ्युपगमात्। वैयाकरणैस्तिबादीनामेव वाचकत्वस्य सिद्धान्तितत्वाच्च। तस्मात् `साधुशब्देऽनन्तर्गता वाचका नवेति विप्रतिपत्तिशरीरम्' इत्यमुमर्थं गुरुभिः पाठ्यन्ते छात्राः। तत्र साधुशब्देऽनन्तर्गता इत्यस्य श्रूयमाणतिब्विशर्गादिनां स्थानित्वेन कल्पिताः, अत एव साध्यनन्तर्गता लादयः स्वादयश्चेत्येवार्थो बोध्यः। एवं च लादीनामेव वाचकत्वं, नतु प्रयोगघटकानां तिब्विसर्गादीनामिति मन्यमानान्नैयायिकान् प्रत्याह-साधुशब्देऽन्तर्गता हि वाचका नतु तत्स्मृता इति। प्रतिपदं तदर्थं वर्णयति-साधुशब्दे-पचति, रामः, इत्यादिप्रयुज्यमाने, अन्तर्गता घटकास्तिब्विसर्गादय एव बोधकाः-वाचका इत्यर्थः। बोधकपदाद्वाचकत्वलाभः कथमत आह-तेषामेवेति। साध्वन्तर्गतश्रूयमाणतिब्विसर्गादीनामेवेत्यर्थः। शक्तत्वस्य-वाचकत्वस्येत्यर्थः। बोधजनकत्वमेव शक्तिरिति, प्रागिति। इन्द्रियाणां स्वविषये, इत्यादिसप्तत्रिंशत्(37)कारिकायामिति भावः। व्यवस्थापितत्वादिति। साधकबाधकविचारेम निश्चितत्वादित्यर्थः। `शक्तिः पदार्थान्तरम्' इति मतेऽपि बोधकत्वान्यथानुपपत्त्या कल्प्यमाना शक्तिर्बोधकत्वसमनियतेति साधुशब्दानन्तर्गतेषु बोधकत्वाभावे सिद्धे शक्यभावोऽप्यर्थात्सिध्यतीति बोध्यम्। न त्विति। साध्वन्तर्गतश्रूयमाणतिब्विसर्गादिभिः स्मारिता लादयः स्वादयश्च वाचको नैवेत्यर्थः।। 60 ।।
दर्शनान्तराभिनिवेशिनां नैयायिकानां मतं दूषयितुमुपन्यस्यति-ये त्विति। प्रयोगसप्रवायिनां तिब्विसर्गादीनां वाचकत्वाभावे कारणमाह-तेषामित्यादि। प्रयोगघटकामां तिव्विसर्गदीनामित्यर्थः। बहुत्वेनेति। स्वस्थानिभूतलादिस्वाद्यपेक्षया बहुत्वेनेत्यर्थः। शक्त्यानन्त्येति। बहुषु तेषु प्रत्येकं शक्तिकल्पनया शक्तीनामप्यनन्तत्वमापद्येतेत्यर्थः। बहुत्वस्यापरिच्छिन्नतयाऽनन्तत्वेन शक्त्यनन्त्यमिति भावः। शक्त्यानन्त्यमित्युपलक्षणम्। तेन शक्ततावच्छेदकत्वमपि बह्वीष्वादेशनिष्ठानुपूर्वीषु कल्पनीयं स्यादिति गौरवमप्यत्र पक्षे दृषणान्तरं बोध्यम्। किं च यत्र लाद्यादेशानां लुगादिनाऽभावस्वरूपता तत्राभावस्य क्वापि बोधजनकत्वादर्शनेनाऽऽदेशानां बोधकत्वं सुतरामसंभवीत्यत आह-एधांचक्र इति। अत्र `आमः' इति लिटो लुक्। लुगादेरभावरूपस्येति। अभावरूपस्येति हेतुगर्भं विशेषणम्। यतो लुगादिरूपस्याऽऽदेशस्याभावरूपत्वमतस्तस्य बोधकत्वासंभवः। बोधकत्वरूपशक्तेर्भावनिष्ठत्वादभावेन क्वचिदपि बोधाजननादिति भावः। एधांचक्र इत्यत्रानुप्रयुज्यमानदातूत्तरश्रूयमाणतिङादेशेनैव कालकारकाद्यवगम इति स्पष्टं निबन्धेषु। यद्यपि तदर्थकालकारकादीनामनुप्रयुज्यमानकृञाद्यर्थ एवान्वयस्तथाऽपि अभेदेन तदर्थान्वय्येधत्याद्यर्थेऽपि तस्याऽऽर्थिकं भानं संभवत्येव अत एव `कृञ् चानुप्रयुज्यते' इति सूत्रे कौमुद्योमुक्तम्-तेषां क्रियासामान्या वाचित्वादामप्रकृतीनां विशेषवाचित्तात्तदर्थयोरबेदान्वय इति। अभेदान्वयश्चेत्यम्-एधादयस्तावत्तत्तत्फलानुकूलव्यापारार्थकाः, कृञ-उत्पत्त्यनुकूलव्यापारार्थकः भ्वस्ती चापि सत्तानुकूलव्यापाराभिधायकौ। उत्पत्त्यादिकमाम्प्रकृत्यर्थफलनिष्ठमेव प्रत्यासत्तेः। तथा चैधांचक्र इत्यत एककर्तृको वृद्ध्यनुकूलव्यापाराभिन्नः परोक्षानद्यतनभूतोत्पत्त्यनुकूलो व्यापार इति बोधो बोध्यः। एवं चाऽऽदेशानां वाचकत्वमिति पक्षेऽपि नात्र कश्चिद्दोष इत्यतां ब्रह्मेत्युक्तम्। आदिपदं वारि. पच, या, अपाति, इत्यादिसंग्रहार्थम्। लुगादेरित्यादिना लुब्लोपयोः संग्रहः। अत्र सर्वत्र लुगादेरादेशस्पाभावरूपत्वेनाभावस्य च बोधजनकत्वायावात्संख्याकर्मदेबोधो न स्यादित्यादेशानां वाचकत्वपक्षे दोषस्तदवस्य इति भात्रः। नन्वत्रापि, यः शिष्यते स लुप्यमानार्थाभिधायीतिन्यायेन प्रकृतिरेव लुप्तप्रत्ययार्थबोधजनिकेति चेन्न। प्रकृतेस्तत्तत्प्रत्ययार्थे शक्तिक्पनापेक्षयाऽयत्र पौषमहः, रामेषु, पयसा, पयसे, लिहौ, दुहावित्यादौ वाचकत्वेन क्लॄप्तस्य प्रत्ययस्य स्मरणकल्पनैव लघीयसीत्याह-र्कि तु तैरिति। तिव्विसर्गात्मकादेशैरित्यर्थः। स्मृता लादयः स्वादयश्च स्थानिभूता एव वाचका इत्यर्थः। स्थानिनो वाचकत्वे शक्ततावच्छेदकलाघवमप्यस्तीत्याह-लत्वस्येति। यथा अनेकासु घटव्यक्तिषु अयं घटोऽयं घट इत्येवं याऽनुगतप्रतीतिः-एकधर्मप्रकारकबुद्धिर्जायते तादृशवृद्ध्युपपत्तये घटत्वजातिः कल्प्यते तथा लडादिषु सर्वत्रायं लोऽयं ल इत्येवं जायमानानुगतप्रतीतिसिद्ध्यर्थं कल्प्यमानस्य लत्वस्य जातित्वं सिध्यति। अनुगतप्रतीतिरेव जातिकल्पिकेति भावः। तथा च घटत्वस्येव लत्वस्यैव शक्ततावच्छेदकत्वकल्पनमुचितं, तच्च शक्यतावच्छेदकं जातिरूपतयैकमेवैति शक्ततावच्छेदकलाघवं भवतीत्यर्थः। आदेशानां वाचकत्वे तेषां नानाकारत्वात्सर्वत्रानुगतैगधर्मस्य कल्पयितुमशक्यत्वाच्छक्यतावच्छेदकस्यापि नानात्वं स्यादिति शक्यतावच्छेदकगौरवं स्यादिति भावः। लादीनां वाचकत्वे युक्त्यन्तरमप्याह-अव्यभिचाराच्चेति। व्यभिचारः--कार्यकारणभावनियमभङ्गः, तदभावोऽव्यभिचारस्तस्मादपि स्तानिनो लकारस्यैव वाचकत्वं युक्तमित्यर्थः। घटपदार्थविषयकज्ञानं प्रति तदर्थकघटपदज्ञानं कारणम्। अत एव येन घटपदं न ज्ञायते, तज्जज्ञानेऽपि तदर्थो वा न ज्ञायते तस्य घटपदार्थज्ञानं न जायत इति लोके दृष्टत्वादन्वयव्यतिरेकाभ्यां पदार्थपदज्ञानयोः कार्यकारणभावः सिद्धः। तत्र तदर्थकपदज्ञानं कारणं तदर्थज्ञानं च कार्यम्। एवं कर्त्राद्यर्थज्ञानं प्रति तदर्थकलडादिलकारज्ञानस्य कारणत्वाद्यत्र कर्त्राद्यर्थज्ञानं तत्र तादृशार्थज्ञानात्प्राङ् नियमेन तादृशार्थकलकारज्ञानसस्वाद्यत्सत्त्वे यत्सत्त्पं यदभावे यदभाव इत्यन्वयव्यतिरेकसिद्धपदार्थपदज्ञानयोः कार्यकारणभावस्य न व्यतिरेकव्यभिचार इति एतस्मात्कारणादपि स्थानिन एव लादेर्वाचकत्वं युक्तमिति भावः। आदेशानां वाचकत्वमिति मते व्यतिरेकव्यभिचारदोषोऽस्तीत्याह-आदेशानामिति। पचति, रामः, इत्यादिपरिनिष्ठितप्रयोगे श्रूयमाणानां तिब्विसर्गाद्यादेशानां वाचकत्वे सति तेषां निप्तसाद्यादेशानां भिन्नतया-तिबादेसापेक्षया तसादेशो भिन्नस्तसादेशापेक्षया च तिबादेशो भिन्न इति तिप्प्रतियोगिकभेदवांस्तस्, तस्प्रतियोगिकभेदवांश्च तिबित्येवं परस्परप्रतियोगिकभेदादनेकतया कर्त्राद्यर्थज्ञानं प्रति तदर्थकतिबादेशज्ञानं तथा तदर्थकतसादेशज्ञानं च कारणमिति वक्तव्यम्। तत्र भवति, भवतः इत्युभयत्रापि कर्त्राद्यर्थज्ञानसत्त्वेऽपि भवतीत्यत्र कर्त्रर्थज्ञानकारणीभूततसादेशज्ञानं नास्ति भवत इत्यत्र च तादृशज्ञानकारणीभूततिबादेशज्ञानं नास्तीति कार्यसत्त्वेऽपि कारणाभावाद्व्यतिरेकव्यभिचारः स्पष्ट एवेति भावः। आनुगुण्याच्चेति। लः कर्मणि च भावे चेत्यादिसूत्रार्थानुसारादपि लकाराणायेव वाचकत्वमिति स्पष्टमेवावगम्यते। यथा च लकाराणां वाचकत्वे व्याकरणशास्त्रप्रवर्तकपाणिन्यादेरनुशासनमुपलभ्यते, न तथा तिव्विसर्गाद्यादेशानां वाचकत्वेऽनुशासनमुपलभ्यते। इत्याहुरिति। एवं चाऽऽदेशिनां लकाराणामेव वाचकत्वं प्रामाणिकमिति तदाशयः। न चैवं भू-ल इत्यतोऽपि वोघापत्तिरिति वाच्यम्। तादृशघोधे भवतीत्यादिसमभिव्याहारविशेषस्य कारणत्वेनाभ्युपगमात्। अन्यथा तवापि मते भू-अति इत्यादेरपि बोघापत्तिः प्रसज्येत। स्थानिभूतलकारज्ञानविधुराणां बोधस्तु आदेशेषु शक्तिभ्रमादुपपद्यते। अपभ्रंशेषु शक्तिभ्रमाद्बोधकत्वकल्पनादिति भावः। एवं च श्रूयमाणमात्रवर्मनिष्ठवाचकतापिरहाद्वर्जस्फोटो न युक्त इति भावः। तान्नैयायिकादीनित्यर्थः। स्वसाधकेति। तित्विसर्गाद्यदिशानां वाचकत्वमिति यत्स्वमतं तत्परिपोषकयुक्तिभिरित्यर्थः। निराचष्टे-निरस्यति-व्यवस्थितेर्व्यवहृतेरिति। कथं कर्तुरवाooo। व्यवस्थानुरोघादिति। प्रमाणैरर्थनिर्धारणं व्यवस्था, तदनुसारादित्यर्थः। वाचका इति। साधुशब्दययोगघटकाः श्रूयमाणतिव्विसर्गादय एव वाचकाः,तैः स्मृता लादयो वाचका नेत्यर्थः। एवं च व्यवस्थितेरित्यस्य पञ्चम्यन्तस्य पूर्वकारिकोक्ते `बोधकाः' इत्यत्रान्वयः। एवं व्यवहृतेरित्यादिद्वयस्यापि तत्रैवान्वयो बोध्यः। अत्र संप्रदायविद एवमाहुः-आदेशानां वाचकत्वे राम इत्यत्र विसर्ग एकत्वस्य वाचक इति व्यवस्था सिध्यति। समृतानां नाचकत्वेऽव्यवस्था स्यात्। तथा हि-राम इत्यत्र विसर्गेण किं सुः? किंवा रूः? किंवा सिः स्मर्तव्यः। पाणिनीयैः सुः, अन्यै रूः, कालापतन्त्राभिज्ञैः सिः, विहितः। यस्तु सकलतन्त्राभिज्ञस्तस्य विनिगमनाविरहेण प्रतिबन्धात्कस्यापि स्मरणं न स्यात्, इति। तत्तु न समीचीनम्। अनेकलिपिज्ञानसत्त्वेऽपि यथा नम्शब्दे एककाले न शब्दोपस्तितिप्रतिबन्धस्तथा सकलव्याकरणाभिज्ञस्य नाऽऽदेशिश्मृतिप्रतिवबन्धः। किंतु सर्वेषां स्मृतिः, तया चार्थोपस्थितिः,सा चाविलक्षणा, विलक्षणा-विभिन्ना, तथा ना किं त्वेकरूपैवेत्यर्थः। अत ए घटकलशाद्यनेकपर्यायेभ्योऽप्यविलक्षणबोध उपपद्यते। अतोऽन्यथा व्याचष्टे-तथाहीत्यादिना। बोधादिति। पचतीत्यादौ येषां लकारादिज्ञानं नास्ति तादृशानामपि लौकिकानां कर्त्राद्यर्थबोधदर्शनान्न लकाराणां वाचकत्वं कल्पयितुं युज्यतै। एवं च कार्यसत्त्वे कारणाबावाव्द्यतिरेकत्र्यभिचारात्सुतरां लकारस्य वाचकत्वासंभवः। तथा च बोदानापत्तिरेवात्राव्यवस्थापदार्थ इति भावः। यदुक्तं लकारवाचकत्ववादिभिः पचतीत्यादौ स्तानिभूतलकारज्ञानविधुराणां त्रोधस्तु अपभ्रंशोष्विव तिङ्क्षु शक्तिभ्रमादुपपद्यत इति तन्निराकुवंन्नाह-न चेति। तेषामिति। पचतीत्यादौ लकारज्ञानशून्यानां लौकिकानामित्यर्थः। शक्तिभ्रमादिति। यता चाकचक्यादिदर्शनाच्छुक्तौ रजतत्वभ्रमस्तद्वत्सर्वत्र पचतीत्यादिप्रयोगे तिङ एव दर्शनाल्लकारस्य च सिद्धप्रयोगे क्वाप्यदर्शनेन तिङक्ष्वेव वाचकत्वशक्तिरिति तेषां भ्रम इत्यर्थः। तस्येति। पचतीत्यादौ श्रूयमाणतिङादेशाज्जायमानकर्त्राद्यर्थबोधहेतोर्वाचकत्वस्येत्यर्थः। मानामावादिति। भ्रमत्वे प्रमाणाभावादित्यर्थः। यत्र विषयस्य बाधस्तत्रैव भ्रमत्वमिति नियमः। यथा शुक्तौ रजतत्वस्य बाधात्तज्ज्ञानस्य भ्रमत्वं, तथा प्रकृते वाचकत्वस्याबाधात्तज्ज्ञानस्य भ्रमत्वं वक्तुमशक्यम्। पचतीत्यादिघटकतिङादेशात्कर्त्राद्यर्थबोदोदयेन तत्र वाचकत्वशक्तेरबाधितत्वेन भ्रमत्मस्य सुतरां वक्तुमशक्यत्वेन भ्रमत्व मानाबाव इति भावः। ननु तिबाद्यदेशानामनेकत्वात्तत्र वाचकत्वशक्तिस्वीकारे तदेवानेकत्वं प्रतिबन्धकं स्यादित्यत आह-आदेशिनामपीति। तिब्विसर्गाद्यादेशस्थाननिनामित्यर्थः। तत्तद्वैयाकरणैरिति। पाणिनिकालापशाकटायनापिशलिप्रभृतिशाब्दिकैरित्यर्थः। भिन्नानामिति। सुः, सिः, रुः, लट्, कट्, अन्यैश्चान्यः कश्चनेत्यादिप्रकारेम भिन्नानां स्वस्वेच्छयोक्तत्वात्। शास्त्रप्रवर्तकाचार्याणां स्वतन्त्रेच्छत्वादिति भावः। तत्र कः स्थानी शक्तः-वाचकः, कश्च नेति निर्धारयितुमशक्यत्वेनायमेव स्थानी वाचक इत्येवं व्यवस्थाया अनुमत्तेरित्यर्तः। ननु विनिगमनाविरहात्सर्वषामपि स्तानिनां वाचकत्वमस्त्वित्याशङ्क्याऽऽह-सर्वेषामिति। स्वतन्त्रेच्छानां वैयाकरणानां भेदाद्भिन्नानां स्थानिनां सर्वेषामित्यर्थः। शक्तत्वेवाचकत्वशक्तिमत्त्वे अभ्युपगते, इति शेषः। गौरवमिति। अनेकेषां स्थानिनां प्रत्येकं शक्तिकल्पनावरयंभावेन शक्त्यनेकत्वाद्वौरवमित्यर्थः। नन्वेवमपि आदेशापेक्षया तत्स्थानिनामल्पसंख्यत्वेन तत्प्रयुक्तलाघवानुरोधात्स्थानिनामेव वाचकत्वमायातीत्यत आह-व्यभिचारश्चेति। राम इत्यादावेकत्वाद्यर्थज्ञानं सर्वानुभवसिद्धम्। तादृशानुभवनिर्वाहायैकत्वाद्यर्थविषयकज्ञानं प्रति सर्वस्थानिज्ञानं कारणमित्येवं कार्यकारणभावो वाच्यः। तत्र राम इत्यत्र पाणिनिमते स्थानिभूतसुप्रत्ययज्ञानसत्त्वेऽपि सिप्रत्ययज्ञानं नास्ति, तथा कालापमते सिप्रत्ययज्ञानसत्त्वेऽपि सुप्रत्ययज्ञानं नास्ति। एकत्वाद्यर्थज्ञानं तूभयमतेऽप्यस्त्येवेति एकैकाभावे सत्यपरेणैकत्वाद्यर्थबोधजननात्कारणाभावेऽपि कार्यसत्त्वाव्द्यतिरेकव्यभिचारश्चास्तीत्यर्थः। ततश्च यद्भयादादेशानां वाचकत्वमिति पक्षस्य परित्यागस्तौ दोषौ स्तानिनां वाचकत्वमिति पक्षेऽपि दुर्निवारावेवेति भावः। एकत्वाद्यर्थज्ञानात्प्राङ्नियमेनाऽऽदेशज्ञानसत्त्वेन कार्यकारणभावस्य व्यभिचाराभावात्प्रयोगान्तर्गतानामादेशानामेव वाचकत्वं युक्तमित्याह-आदेशानां प्रयोगान्तरिति। एवं च पक्षद्वयेऽपि गौरववव्यभिचारदोषयोः साम्येऽपि स्तानिनो वाचकत्वमिति पक्षे स्थानिस्मरणकल्मनाकरणप्रयुक्तं गौरवमधिकं, आदेशानां वाचकत्वमिति पक्षे तन्नेति लाघवं भवतीत्याह-तथा चेत्यादि लाघवमित्यन्तम्। ननु पदतदर्थयोर्वाच्यवाचकभावात्मको यः संबन्धः सा शक्तिरिति मञ्जूषायां भट्टनागेशैरुक्तत्वाद्यत्र सास्त्रेम वाच्यवाचकभाव प्रतिपादितस्तत्रैव सा शक्तिरङ्गीकर्तुमुचिता। वाच्यवाचकभावश्य लः कर्मणीत्यादिशास्त्रेण लादिष्वेवोक्तस्तस्माल्लादीनामेव वाचकत्वं युक्तम्। आदेशस्मरणकल्पनागौरवं तु प्रामाणिककत्वान्न दोषावहमित्यरुचिं मनसिकृत्य प्रयोगे श्रूयमाणानां तिबाद्यादेशानां वाचकत्वाभ्युपगमे युक्त्यन्तरं निरूपयतिव्यवहृतेरिति। मुख्य इति। शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद्व्यवहारतश्च। वाक्यस्य शेषाद्विवृत्तेर्वदन्ति सांनिध्यतः सिद्धपदस्य वृद्धाः।। इत्यभियुक्तपठितशक्तिग्राहकशिरोमणिर्व्यवहारो मुख्यः प्रधानमित्यर्थः। मुख्यत्वं चं तस्य शक्तिग्रहे जननीये शक्तिग्राहकान्तरनिरपेक्षत्वरूपम्। व्याकरणादीनां तु न तादृशं मुख्यत्वम्। तस्यापत्यमित्यादिनाऽणादिप्रत्ययस्य शक्तिग्रहे जननीयेऽपत्यादिशब्दशक्तिग्रहोऽपेक्षितः, स चेच्छब्दान्तरेण, तस्यापि शब्दान्तरेणैव शक्तिग्रह इत्यभ्युपगमेऽनवस्थाप्रसङ्गः स्यात्। अतो व्यवहारस्यापत्यादिशब्दशक्तिग्रहसंपादनद्वाराऽपेक्षितत्वान्न व्याकरणादीनां शक्तिग्राहकेषु मुखअयत्वं, किंतु व्यवहारस्यैव तादृशं तत्त्वमिति भावः। व्यवहारश्चाऽऽप्तानां गुर्वादीनां तत्तदर्थं बोधयितुं तत्तच्छब्दप्रयोगकरणरूपः यथा कम्बुग्रीवाद्रिमन्तमर्थं बोधयितुं घटमानयेति वाक्ये घटपदं प्रयुज्यते वृद्धैः। आप्तो नामानुभवेन पदपदार्थतत्त्वस्य कार्त्स्न्येन निश्चयवान्। अथवा अर्थतत्त्वज्ञानवान्। अर्थतत्त्वज्ञानमाप्तिः, तया प्रतीत आप्त इति व्युत्पत्तेः। स चेति। वृद्धव्यवहारजन्यशक्तिग्रहश्चेत्यर्थः। त एवेति। प्रकृते साधुशब्दप्रयोगघटकश्रूयमाणतिब्विसर्गाद्यादेशेष्वेव निरुक्तशक्तिग्रहसत्त्वातिङाद्यादेशा एव कर्तृकर्माद्यर्थवाचका इत्याशयः। एवकारेणाऽऽदेशस्थानिभूतलकारादीनां व्यावृत्तिः। ननु शक्तिग्राहकशिरोमणिना वृद्धव्यवहारेण तिङ्क्षु गृह्यमाणाऽपि शक्तिर्लाघवादादेशिनि व्यवस्थाप्यते, न तु तिङ्क्षु गौरवात्। यथा व्यवहाराद्वाक्ये गृहीताऽपि शक्तिर्लाघवात्तत्तत्पदे कल्प्यते तद्वत्। यद्वा नयनानयनादिव्यवहाहस्य लोडादिविधिप्रत्ययान्तप्रयोगं विनाऽनुपपत्तेस्तेन प्रयोगेण विधिप्रत्ययान्तप्रयोगान्तःपातिवर्मानां वाचकत्वसिद्धावपि विधिप्रत्ययरहितप्रयोगघटकवर्णानां वाचकत्वं लः कर्मणि चेत्यादिशास्त्रविहितमेवाङ्गीकर्तव्यम्। शास्त्रेण चाऽऽदेशिनि लादावेव शक्तिरुक्तेति विधिप्रत्ययान्तान्तर्गतवर्णानां वाचकतायाः सिद्धावन्यत्रापि आदेशिषु सा कल्पनीयेत्यरुचेः साधकान्तरमाह-किं चेति। तद्धेतुन्यायत इति। तद्धेतोरेव तदस्तु किं तेनेति न्यायस्वरूपम्। तस्य हेतुस्तद्धेतुस्तस्य तद्धेतोरिति विग्रहः। तस्य-कपालादेः, हेतोः-मृदादेरेव, तत्-घटादिकारणत्वं, अस्तु किं तेनान्तर्गडुना कपालादिरूपकार्येणेत्यर्थः। लाघवमूलकश्चायं न्यायः। कपालादिकारणस्य मृदादेरेव घटादिकारणत्वकल्पनेनैकस्मिन्नेव कारणत्वमिति लाघवं, सत्येवं पुनः कपालादेरपि। घटादिकारणत्वकल्पने तूभयत्र कारणत्वकल्पनया गौरवादिति भावः। तद्धेतोरेवेत्याद्याकारको न्यायस्तद्धेतुन्यायः। तद्धेतुन्यायपदयोः संभावनापूर्वपदकः कर्मधारय इति तात्पर्यम्। तमिमं न्यायं प्रकृते संगमयति-लकारस्येति। आदेशिन इत्यर्थः। बोधकत्वे-वाचकताशक्तिमत्त्वे, अब्युपगते सतीति शेषः। `भू-ल' इत्यतोऽपीति। अलौकिकप्रक्रियावाक्यतोऽपीत्यर्थः बोधापत्तिरित। सत्ताकर्तृकबोधप्रतीत्यापत्तिरित्यर्थः। तादृशवाक्यात्तादृशार्थबोधो लोकानां नैव जायत इत्यनुभवविरुद्धं स्थानिनो वाचकत्वमिति भावः। तादृशबोध इति। एककर्तृकवर्तमानकालिकसत्तानुकूलो व्यापारा इत्याकारके आपादिते बोध इत्यर्थः। भव्-अतीति समभिव्याहारोऽपीति। अव्यवहितोत्तरत्वसंबन्धेन भूधातुविशिष्टातिघटितं भवतीति शब्दरूपं सहोच्चारणमपि कारणत्वेनाभ्युपेयत इति चेदित्यर्थः। तथा च समभिव्याहृतातिबाद्यादेशादुपस्थितो यः स्थानी लकारः स एव वाचकः, नतु साक्षादुच्चारित इति भावः। आवश्यकत्वादिति। पीनत्वान्यथानुपपत्त्या रात्रिभोजनस्येव भू-ल, इत्यस्य बोधजनकत्वान्यथानुपपत्त्या भवतीत्यादिसमभिव्याहारस्याऽऽवश्यकत्वात्यन्तापेक्षित्वात्तदृशसमभिव्याहारस्यैव वाचकत्वरूपा शक्तिः स्वीक्रियतां लाघवादित्यर्थः स्थानिनो वाचकत्वाभ्युपगन्तुर्गौरवं भवतीत्याह-अन्यथेति। स्थानिनो वाचकत्वस्वीकार इत्यर्थः। गौरवमेव प्रदर्शयति-लकारस्येति। उपलक्षणत्वाल्लकारादेरित्यर्थः। वाचकत्वं-वाचकत्वरूपा शक्तिः, समभिव्याहारस्य च कारणतेत्येवमुभयं कल्पनीयमिति गौरवमित्यर्थः। तथा च कर्त्राद्यर्थबोधहेतोर्लकारज्ञानस्य हेतोः समभिव्याहारस्यैव वाचकत्वमास्तां एकत्रैव वाचकत्वकल्पनेन लाघवात्, किं तेनान्तर्गडुना लकारवाचकत्वकल्पनेन गुरूभूतेनेति भावः। नन्वेतावता यौक्तिकविवेचनेन समभिव्याहारस्य वाचकत्वे सिद्धेऽपि न साधुशब्दघटकधातुप्रत्ययान्तर्गतवर्णानां तत्सिद्धमत आह-तथा चेति। समभिव्याहारस्य वाचकत्वे चेत्यर्थः। विनिगमनाविरहादिति। भवतीत्यादिसमभिव्याहारस्य वाचकत्वमुत तादृशसमभिव्याहारघटकवर्णानां वाचकत्वमित्येवमन्यतरकोटिनिश्चायकप्रमाणाभावात्समभिव्याहृतवर्णानामपि वाचकत्वं सिध्यतीत्यर्थः। केचित्तु समभिव्याहारस्य वाचकत्वे सति तद्घटकानेकवर्णानां वाचकतावच्छेदकत्वं कल्पनीयमिति गौरवं भवति। वर्णानां वाचकत्वे तु निरुक्तानुपूर्व्या एकस्या एव वाचकतावच्छेदकत्वमिति लाघवं भवतीति लाघवमेव वर्णानां वाचकत्वेऽनुगमकम्। अन्ये तु आदेशेनाऽऽदेशी स्मार्यते तेन चार्थो बोध्यत इति मते येऽस्मन्मते वाचकतावच्छेदकास्ते तन्मते स्मारकतावच्छेदका वाच्यास्तथा च तद्धेतुन्यायेन स्मारकतावच्छेदकानामेव वाचकतावच्छेदकत्वमास्तां लाघवात्, किं तेन पुनर्लकारादिषु वाचकतावच्छेदकत्वपरिकल्पनेनान्तर्गडुना गौरवादित्याहुः। समभिव्याहृततावद्वर्णवृत्तिर्वाचकतेत्यङ्गीकारान्न तदघटकैकैकादिवर्णात्तत्तदर्थबोधापत्तिरिति ध्येयम्। लकारस्य वाचकत्वे त्वदुक्तसिद्धान्तभङ्गापत्तिरिति तत एवाऽऽदेशानामेव वाचकत्वं सिध्यतीत्याह-किं चेतीति। अयं भावः-पक्तेत्यादौ कृत्प्रत्ययस्य कर्तृवाचकत्वं, पचतीत्यादौ तिङनते च तिङो भावनावाचकत्वमिति मीत्मांसकप्राचीननैयायिकैः सिद्धान्तिम्। लकारस्यैव वाचकत्वे तूभयत्र स्थानिनो लकारस्यैकत्वाच्शत्रादिरूपे कृति कर्तृवाचकत्वासंभवाल्लकारस्य भावनामात्रवाचकत्वन्निरुक्तसिद्धान्तो दुरुपपाद इति तद्भङ्गः स्यात्। तथा च लकारवाचकत्ववादिनस्तव स्वोक्तिविरोध इति भावः। नव्यनैयायिकमते नायं विरोधः। तैः सिद्धप्रयोगघटकश्रूयमाणविबादीनामेव वाचकत्वाङ्गीकारादिति ज्ञेयम्। नन्वादेशानां वाचकत्वे कथमसौ कृत्तिङोः कर्तृभावनावाचकत्वविभागो व्यवतिष्ठत इत्यपेक्षायामाह-आदेशानां वाचकत्वे चेति। आदेशानां बहुत्वात्तन्निष्ठवाचकतावच्छेदकत्वस्यापि बहुत्वेन तिङ्त्वेन भावनावाचकत्वं शानजादित्वेन च कर्तृवाचकत्वमित्यभ्युपगमादुपपद्यतेऽसौ विभागव्यवस्थेति भावः। अथ लकारवाचकत्ववादी शानजादेः कर्तृवाचकत्वं साधयितुं शङ्कते-न चेति। कृतिर्लकारार्थ इति। प्राचीननैयायिकैर्लकाराणां कृतौ शक्तिर्लाघवात्। न तु कर्तृरि, कृतिमतः कर्तृत्वेन तत्र शक्तौ गौरवादित्युच्यते। तस्यायमाशयः-कृत्याश्रयत्वं कर्तृत्वमिति हि तन्मतम्। तथा सति लकारस्य कर्तृकाचकत्वे वाचकतवच्छेदिकाः कृतयो वक्तव्याः। ताश्चानन्ता इत्यनन्तासु कृतिषु कृतिनामनन्तत्वेऽपि कृतिरित्युपलक्षणं गौरवं भवति। कृतिवाचकत्वे तु लकारस्य कृतीनामनन्तत्वेऽपि कृतित्वजातेरेकत्वेनैकस्यामेव वाचकतावच्छेदकत्वकल्पनमिति लाघवं स्पष्टमेवेति। कृतिरित्युपलक्षणं भावनायाः। मीमांसकैर्हि भावनावतः कर्तृत्वेन तत्र शक्तौ निरुक्तरीत्या गौरवेण तत्परित्यज्य लाघवानुरोधाल्लाकारस्य भावनामात्रवाचकत्वाङ्गीकारादिति भावः। तथा च पचमान इत्यादिशानजाद्यन्तस्थले कृत्यादिर्लकारार्थः, जञ्जभ्यमानाधिकरणन्यायेनाऽश्रयस्तु(कर्ता तु) शानजाद्यर्थः कर्तरि कृदित्यनुशासनादिति शङ्काशयः। तथा चानुशासनद्वयेनोभयत्र शक्तिपतिपादनाच्शानजादेर्भिन्नया शक्त्या कर्तृवाचकत्वं लभ्यत इति भावः। तदेतन्न युक्तं शानजादौ कर्तरि कृदित्यस्याप्रवृत्तेरित्याह-स्थान्यर्थेनेति। अयमर्थः--लः कर्मणि चेत्यादिना सकर्मंकेभ्यः कर्मणि कर्तरि चाकर्मकेभ्यो भावे कर्तरि च लकारा विहिताः। लटः शतृशानचावित्यादिना लटः स्थाने शतृशानचावादेशौ विहितौ। तत्र तथा लकारविधायके कर्मणि चेत्याद्यर्थनिर्देशः कृतेऽस्ति तद्वन्नात्र शत्रादिविधायके तदर्थनिर्देशो दृश्यते, किंतु लटः स्थाने तावादेशतयोक्तौ। तथा च शत्रादेः कोऽर्थः, कमर्थं शत्रादिः प्रतिपादयतीत्यर्थांशे आकाङ्क्षायां सत्यां स्थान्यर्थाभिधानसमर्थस्यैवाऽऽदेशतेति भाष्यसिद्धान्तात्स्थानी यमर्थं ब्रूते तमेवार्थमादेशोऽभिधत्त इति लभ्यते। ततश्च स्थानिनो लटो योऽर्थः कर्त्रादिस्तेनैवार्थेनार्थवांस्तदादेशः शत्रादिरिति सानजादेः कर्वाद्यर्थकत्वेनार्थांशे निराकाङ्क्षतया शानजादौ कर्तरि कृदित्यस्यार्थविधायकस्य सुतरामप्रवृत्तिः। अत एव तैः शय्यमाने, आस्यमाने चायं गत इति भावे, क्रियमाण इति कर्मणि च शानचो न कर्तृबोधकत्वम्। अन्यथा त्वत्रापि शानचः कर्तृबोदकत्वमापद्येत। इदं च लः कर्मणीत्यादिव्याकरणानुशासनानुसारेम लकाराणां कर्त्राद्यर्थकत्वं गृहीत्वोक्तम्। नैयायिका मीमांसकाश्च लकाराणां क्रमेण कृतिमात्रवाचकत्वं भावनामात्रवाचकत्वं च मन्यन्ते। तन्मते स्थानिनो लटो योऽर्थः कृतिर्भावना च तेनैवार्थेन=कृत्या भावनया चार्थवांस्तदादेशः शत्रादिरिति शानजादेः कृत्याद्यर्थकतयाऽर्थांशेनिराकाङ्क्षत्वेन शानजादौ कतरि कृदित्यस्यार्थविधायकस्याप्रवृत्तिः। आकाङ्क्षितविधानस्यैवोचितत्वादिति योजनीयम्। यत्र कृत्प्रत्ययो विदीयते तदर्थस्तु नैव निर्दिश्यते, किं त्वर्थांशे साकाङ्क्षः कृत्प्रत्ययो भवति तादृश एव कृति कर्तरि कृत्, इत्यर्थविधायकमनुशासनं प्रवर्तते तादृशाकाङ्क्षादूरीकरणाय, आकाङ्क्षितविधानास्यैवोचितत्वादिति भावः। यथा पक्ता पाचक इति। प्रकृतस्थले शानजादेः स्तान्यर्थेनार्थवत्त्वान्निराकाङ्क्षतया शानजादौ कर्तरि कृदिति शास्त्रमर्थविधायकं नैव प्रवर्तितुमृत्सहत इति तात्पर्यार्थः। अथार्थांशे निराकाङ्क्षेऽपि कृति कर्तरि गृदित्यस्य प्रवृत्तिरस्तु का हानिरित्याशङ्क्याऽऽह-अन्यथेति। उक्तवैपरीत्ये। अर्थंशे निराकाङ्क्षेऽपि कृति कर्तरि कृदितिशास्त्रप्रवृत्तावभ्युपगतायामित्यर्थः। घञादाविति। अर्थनिर्देशरहिते ण्वुल्तृचाविति विहिते तृजादौ स्वार्थसाकाङ्क्षतया यथा कर्तरि कृदिति प्रवर्तते, एवं `भावे' इत्यर्थनिर्देशपुरस्कारेण विहितत्वादर्थांशे निराकाङ्क्षे घञादावपि कर्तरि कृदित्यस्य प्रवृत्त्या तृजादेरिव घञादेरपि कर्त्रर्थबोधकत्वमापद्येत। आदिपदग्राह्ये नपुंसके भावे क्तः, ल्युट्च, स्त्रियां क्तिन्, इत्यादावपीयमापत्तिर्बोध्या। इष्टापत्तिस्तु कर्तुमशक्या। घञूल्युडादेस्तादृशार्थप्रतीत्यननुभवात् पक्ता देवदत्त इत्यत्रेव पाकदेवदत्तयोः सामानाधिकरण्येनान्वयबोधापत्तेश्चेति भावः। एवं च आख्यातेन तिङा, शतृशानजादिभिश्च यदि लडेव स्मार्थते, एवाकारेण तिङ्शत्रादीनां स्मारकत्वमेव, नतु वाचकत्वमिति सूचितम्, तर्हि पचतीत्यादिस्थले कर्तुर्वाच्यत्वाभावः(भावनाया वाच्यत्वामीयर्थः)पचमान इत्यादौ शानजाद्यन्ते तु कर्तुर्वाच्यत्वमित्येवं त्वन्मतसिद्धो वाच्यत्वावाच्यत्वमिभागः कथं सिध्येत्! उभयत्रापि लटः स्थानित्वेनैक्यात्तस्य च कृत्याद्यर्थवाचकत्वादुभयत्रापि कृत्याद्यर्थवाचकत्वमेव स्यादिति त्वत्संमतो वाच्यत्वावाच्यत्वविभागो नैव सिध्येदित्यर्थः। तदेत्तद्विचारयेति किंचेत्यादिद्वयोः कारिकार्धयोस्तात्पर्यभूतोऽर्थो बोध्यः।। 61 ।।(2)
अथ चैत्रः पचमान इत्यादावबेदेनान्वयबोधानुभवानुरोधाच्छानजादेः कर्ता वाच्यः स्यादित्याशङ्कते-देवदत्तः पचमान इति सामानाधिकरण्यानुधादिति। अधीयानश्चैत्र इत्यादिस्थले अध्ययनानुकूलक्रियाश्रयाभिन्नश्चैत्र इत्येवमभेदान्वयानुरोधादित्यर्थः। विभिन्नविभक्तिराहित्येव सत्यभेदनैकार्थबोधजनकत्वस्य सामानाधिकरण्यशब्दार्थत्वादिति भावः। यदि कर्ता शानजर्थो न स्यात्तदाऽधीयानश्चैत्र इत्यादिस्थलेऽनन्वय एव स्यात्, अभेदस्य बाधितत्वात्। आधाराधेयभावसंबन्धेनान्वयस्याध्ययनानुकूलक्रियाश्रयश्चैत्र इत्येवंरूपस्य नामार्थयोरभेदान्वयव्युत्पत्तिविरोधेनासंभवादिति ध्येयम्। कर्ता वाच्य इति। पीनत्वान्यथानुपपत्त्या रात्रिभोजनमिव सर्वानुभवसिद्धाभेदान्वयबोधान्यथानुपपत्त्या शानचः कर्ता वाच्यः कल्प्यत इत्याक्षिप्य प्रतिबन्द्या समाधत्ते-तरबाद्यन्ततिङ्क्ष्वस्ति। नामार्थयोरभेदोऽपि। नामार्थयोरभेदान्वयः, नामार्थश्च नामार्थश्च नामार्थातयोः, नामजन्यप्रतिविशेष्ययोरेवान्वयः, स चाभेदेनैवेति तदर्थः। नामपदेन च प्रातिपदिकप्रकृतिकसुबन्तं, अपदं न प्रयुञ्जीतेति भाष्यात्। तच्च नामाव्ययातिरिक्तमेव गृह्यते, नामाख्यातोपसर्गनिपाताश्चत्वारि पदजातानीति भाष्ये नामापेक्षयोपसर्गादेः पृथग्ग्रहणात्। यदि च नामपदेनाव्ययस्यापि ग्रहणमिष्येत तर्हि नामपदेनैव तत्संग्रहस्य सिद्धत्वात्पृथगुपसर्गादिग्रहणं न कुर्यात्। यस्माच्चोपसर्गादेः पृथग्ग्रहणं करोति तस्मादेवमवगम्यते यन्नामपदेनाव्ययग्रहणं नेष्यत इति। नामपदेनाव्ययस्याग्रहणादेव घटं पटं च षश्येत्यत्र घंट समुच्चयवन्तं पटं पश्येति बोदस्यानुभवसिद्धत्वात्समुच्चगस्यानुयोगित्वरूपभेदसंबन्धेन पटेऽन्वयो नानुपपन्नः। नामपदेनाव्ययग्रहणे तु समुच्चयस्य नामार्थस्य नामार्थे पटे भेदसंबन्धेनान्वयो नोपपद्येत, नामार्थयोरित्यादिव्युत्पत्तिविरोधादिति भावः। तथा च यथा कृत्सु-पचमान इत्यादिकृदन्तेषु नामताऽस्ति तथा तरबाद्यन्ततिङ्क्ष्वपि-पचतितरां मैत्रः पचतिकल्पं मैत्र इत्यादिष्वपि नामता स्फुटा स्पष्टाऽस्ति। तथा तयोरभेदेनान्वयोऽपि पचमानश्चैत्र इत्यादिना तुल्य एवास्तीति शानजादिवदाख्यातस्यापि कर्तृवाचकत्वमापद्येत। तच्च त्वन्मतेऽनिष्टमिति भावः। तरबाद्यन्तेति। तरबादिरन्ते परसमीपे येषां तेषु तिङ्क्षु तिङन्तेष्वित्यर्थः। तादृशतिङन्तस्थलानि दर्शयति-पचतितरामित्यादिना। अत्र तिङश्चेत्यनुवर्तमाने `द्विवचनविभज्योपपदेo, इति सूत्रेण द्वयोर्मध्य एकस्यातिशये द्योत्ये पचतीतितिङन्तात्तरष्। तरबन्तात्किमेत्तिङव्ययघादिति आमुः। वस्तुतस्त्वत्रातिशायन इति प्रकृत्यर्थविशेषणम्। तथा च द्वयोर्मध्य एकस्यातिशयविशिष्टार्थवृत्तेस्तिङन्तादित्यर्थः। आदिशब्दसंग्राह्यमाह-पचतिकल्पमिति। अत्रेपदसमाप्तावित्यादिना कल्पप्प्रत्ययः। ईषदसमाप्ताविति प्रकृत्यरथविशेषणम्। तथा चेषदसमाप्तिविशिष्टेऽर्थे वर्तमानात्तिङन्तात्कल्मवित्यर्थः। एवं चात्र तरवादिरयं स्वार्थे फलति। तिङन्तेषु च भावप्रधानमाख्यातमिति यास्कवचनानुसारेण धात्वर्थस्य प्राधान्यमिति भाष्यादौ सिद्धान्तितत्वेनातिशयादिकं धात्वर्थगतमेव प्रतीयते। ततश्चात्रातिशयितविक्लित्त्यनुकूला भावना, ईषदसमाप्तविक्लित्त्यनुकूला च भावना पचतितरामित्यादेरर्थः। तादृशभावनायाश्चात्र नामार्थत्वं स्पष्टमेवेति मैत्रेण नामार्थेन समं तस्या अभेदेनान्वयस्यात्यन्तासंभवादनुभूयमानसामानाधिकरण्यान्यथानुपपत्त्या शानजादेरिवाऽऽख्यातस्यतिङोऽपि कर्ता वाच्य इत्येवं कल्पनीयं स्यात्। तच्च मीमांसकादीनामत्यन्तानिष्टम्। तैर्हि लकाराणां भावनादिवाचकत्वं सिद्धन्तयित्वा तिङोऽपि भावनादिवाचकत्वस्यैवाऽऽदृतत्वादिति भावः। पचतिकल्पमित्यादौ तिङ कर्त्रर्थबोधकत्वं प्रकारान्तरेण साधयितुं नैयायिकादिरीत्या शङ्कते-न चेति। सामानाधिकरण्यानुरोधादिति। पचतिकल्पं मैत्र इत्यादौ सर्वानुभूयमानाभेदान्वयबोधौपपत्त्यर्थं लकारस्य कर्तरि लक्षणाऽऽश्रीयते। लकारशक्यभावनाद्यर्थसंबन्धस्य कर्तरि गृहीतत्वात्स्वशक्यसंबन्धरूपलक्षणया कर्तृरूपोऽर्थो गृह्यत इति चेन्न तद्युक्तमित्याह-पचमान इत्यत्राप्यापत्तेरिति। पचमानश्चैत्र इत्यादावपि सर्वानुभवसिद्धोभेदान्वयबोधनिर्वाहार्थं लटः कर्तरि लक्षणापत्तेरित्यर्थः। न च सा मीमांसकादेस्तवेष्टा। लटो भावनादिवाचकत्वमपरित्यज्य केवलं तदादेशशत्रादेरेव कर्तृकर्मादिवाचकत्वाङ्गीकारादिति भावः। ननु नामार्थयोरिति व्युत्पत्तौ नामपदेन सत्त्वप्रधानानि नामानीति निरुक्तवचनाल्लिङ्गसंख्यान्वितद्रव्यमुख्यविशेष्यकबोधजनकं गृह्यते। तिङन्तप्रकृतिकतरबाद्यन्तस्य त्वसत्त्वभूतभावनामुख्यविशेष्यकबोधजनकत्वेन नामत्वाभावान्नामार्थयोरित्यस्याप्रवृत्त्या नाबेदेनान्वयः, किं त्वतिशयितविक्लित्त्यनुकूलभावनाश्रयश्चैत्र इत्यादिरीत्या भेदेनैवान्वय इति न तिङः कर्तृवाचकत्वापत्तिर्दोषः। किंच तिङः कर्तृवाचकत्वमिति वैयाकरणस्य तव मतेऽपि पचतितरां मैत्र इत्यादौ कथं मैत्रस्य क्रियाविशेषणीभूतेन तिङर्थकर्त्रा सहाभेदान्वयः। नामजन्यप्रतीतिविशेष्ययोरेवान्वयः स चाभेदेनैवेति व्युत्पत्तिशरीरस्योक्तत्वात्। इति चेन्न। नामपदेन प्रातिपदिकमात्रस्य सुबन्तमात्रस्य वा ग्रहणम्। क्रियाप्रधानमाख्यातं द्रव्यप्रधानं नामां यतः क्रियां पृष्टस्तिङाऽऽचष्टे किं देवदत्तः करोति? पचतीति। द्रव्यं पृष्टः कृताऽऽचष्ठे कतरो देवदत्तः? यः पाचक इतीति प्रशंसायां रूपबिति सूत्रे भाष्योक्तेः। प्रकृतिः प्रत्ययो विभक्तिरित्येतन्नाम। सता द्रव्यं लिङ्गं संख्येति नामार्थः। तेषु द्रव्यं प्रधामिति निरुक्तभाष्योक्तेश्च नामपदेन सुबन्तमेवोच्यत इति म़ञ्जूषायां नागोजिभट्टाः। नामजन्यप्रतीतिविशेष्ययोरेवेत्यादिनियमे मानाभावश्चेत्याशयात्। न च नामजन्यप्रतीतिविशेष्ययोरेवेत्यादिनियमानभ्युपगमे `घटो नित्यः' इति वाक्यस्य घटत्वे नित्यपदार्थान्वयसंभवात्प्रामाण्यापत्तिरिति वाच्यम्। घटत्वस्य पदार्थैकदेशतया पदार्थः पदार्थेनेत्यादिव्युत्पत्तिविरोधेन घटत्वे नित्यपदार्थान्वयासंभवेन पूर्वोक्तवाक्यस्य प्रामाण्यापत्तेरभावात्। पचतिकल्पं देवदत्त इत्यादौ कर्तुः पदार्थैकदेशतया पदार्थः पदार्थेनेत्यादिव्युत्पत्तिविरोधेन घटत्वे नित्यपदार्थान्वयासंभवेन पूर्वोक्तवाक्यस्य प्रामाण्यापत्तेरभावात्। पचतिकल्पं देवदत्त इत्यादौ कर्तुः पदार्थैकदेशत्वाभावेन तत्र देवदत्तस्यान्वये न किंचिद्बाधकम्। तस्मात्सप्रभिव्याहृतवर्णानामेव वाचकत्वमिति वर्णस्फोटो निष्प्रत्यूहः। ननु तिबाद्यादेशानां वाचकत्वे लः कर्मणीत्याद्यनुशासनविरोधः। तेन स्थानिनामेव वाचकत्वस्य प्रतिपादनादित्याशङ्क्याऽऽह-लः कर्मणीत्याद्यनुशासनं चेत्यादि। अयं भावः-वैयाकरणसिद्धान्तेषु वाक्यस्फोटो मुख्यः। शक्तिग्राहकङक्षस्य वाक्यार्थस्य वाक्यादेव ज्ञानेन तेनैव वाक्यार्थस्य पूर्णत्वाच्च। तत्र देशकालकर्तृभेदेन वाक्यानामानन्यात्प्रतिवाक्यं शक्तिग्रहस्यासंभवान्निखिलवाक्यानामन्वाख्यानस्यान्यलघूपायेनाशक्यत्वाद्वाक्ये पदानि परिकल्प्य तावताऽप्यनिर्वाहत्पदे च प्रकृतिप्रत्ययविभागं परिकल्प्य शास्त्रद्वारा कल्पिताभ्यामन्वयव्यतिरेकाभ्यां प्रकृतिप्रत्ययार्थान् शास्त्रमात्रव्यवहारोपयुक्तान् परिकल्पयन्ति स्म पाणिन्याद्यचार्याः। अत्रौपगव इत्यादावण्प्रत्ययसत्त्वेऽपत्यार्थबोधसत्त्वमित्यन्वयसंभवेऽप्यण्प्रत्ययाभावेऽपत्यार्थबोधाभावरूपव्यतिरेको यद्यपि न संभवति, अण्प्रत्ययाभावैऽपि फिञादिनाऽपत्यार्थबोधात्, तथाऽपि वन्हिं प्रति तृणारणिमणीनां कारणत्वे इवात्र व्यतिरेको बोध्यः। तथा चाणादिप्रत्ययान्तमप्रयोगेऽपत्यार्थप्रतीतिः, अणाद्यन्यतमप्रयोगाभावेऽपत्यरूपार्थप्रतीत्यभाव इत्येवमन्वयव्यतिरेकानूह्यौ। तथोपसर्गनिपातधात्वादिविभागः, स्तानिनो लादयः, आदेशास्तिबादयश्च कल्पिता एव। तत्र पाणिन्यादिमुनिभिः स्थानिनां कल्पिता अर्था कण्ठरवेणैवोक्ताः। आदेशानां तु स्थान्यर्थाभिधानसमर्थस्यैवाऽऽदेशता, यथा-पद्दन्नोमास्o तृज्वत्क्रोष्टः, इत्यादिभाष्यात्तेऽर्थाः। ततश्च लः कर्मणीत्यादिना लकारस्यैव वाचकत्वकथनात्तिङो वाचकत्वस्य केनाप्यबोदनाच्च लकार एव वाचको, न तिङ्। तिङां लादेशत्वेनैव कर्त्राद्यर्थकत्वस्य पर्यवसन्नत्वादिति चेन्नैतद्युक्तम्। उच्चारित एव शब्दोऽर्थपत्यायका नानुच्चारित इति भाष्यात्-लोके ह्यादेशा एव श्रूयन्त इति तेभ्यः एवार्थबोधदर्शनाद्यत्किंचिदर्थविषयकार्यशाब्दबोधे जननीये उध्चारितशब्दनिष्ठवृत्तिज्ञानजन्योपस्थितिः कारणमिति कार्यकारणभावस्य पर्यवसानात्, अन्वयव्यतिरेकाभ्यां कार्यकारणभावस्य निर्णेयत्वेन लोके ततैवानुभवाच्च प्रकृष्टप्रयोगसमवायिनः श्रूयमाणा विसर्गतिबादय आदेशा एव वाचकाः। न तु तत्स्थानित्वेन कल्पिताः सकारलकारादयः। तेषामनियतत्वात्। तथा हि-विसर्गेण रोः स्मरणं तेन च सोः। एवं णला तिपः स्मरणं तेन च लकारस्य। एवं च गौरवं स्पष्टमेव। किं च स्थान्यादेशभावज्ञानरहितस्यावैयाकरणस्य ततो बोधानापत्तेः, वाचकाज्ञानात्, सिद्धप्रयोगे क्वचिदप्यश्रूयमाणत्वेन तेषां वाचकत्वकल्पनस्यात्यन्तानुचितत्वाच्च। तस्माद्व्यवहारदशायां श्रूयमाणतिबाद्यादेशेभ्य एवार्थबोधदर्शनात्तन्निष्ठामेव बोधजनकतारूपां शर्क्ति लाघवेन प्रक्रियानिर्वाहार्थं तिबादिस्थानित्वेन कल्पिते लकारे प्रकल्प्य लकाराः कर्मणि कर्तरि च विहिताः, रामान् रामैरित्यादौ नकारविसर्गादिनिष्ठां कर्मकरणादिबोधजनकताशक्तिमादाय शसादिविधानवदिति बोध्यम्।। 62 ।।(3)(इति वर्णस्फोटनिरूपणम्)
।। पदादिस्फोटनिर्णयः ।।
एतावता प्रबन्धेन सुप्तिङन्तमिति एकतिङन्तार्थमुक्यविशेष्यकं वाक्यमिति पदवाक्यलक्षणानाक्रान्तवर्णसमूहस्य प्रकृतिप्रत्ययरूपस्ये व्याकरणेन गृहीतशक्तिकस्य पच् तिप् इत्यादिकस्य वाचकत्वे सिद्धे पदस्फोटेऽपि सिद्ध एवेत्याह--अथाऽऽदेशा इति। ननु प्रयोगान्तर्गततावद्वर्णानां वाचकत्वे सिद्धे कथं पदस्फोटः शिध्यतीत्यतस्तदाशयमाह-अयं भाव इति। समभिव्याहृतवर्णानामिति। तत्तत्पदघटकतावतां समभिव्याहृतवर्णानामित्यर्थः। वाचकत्वे सिद्ध इति। तावतां वर्णानां वाचकत्वं विना वक्ष्यमाणस्वरूपस्य पदस्य वाचकत्वं नोपपद्यते। अतः पदस्य वाचकत्वसिद्धिरानुपूर्वीविशिष्टतावतां वर्णानां वाचकत्वसिद्ध्यधीनेति भावः। एवं च पूर्वग्रन्थेन सहास्य ग्रन्थस्योपजीव्योपजीवकभावः सूचितः पदस्वरूपमाह-सममिव्याहाररूपपदस्येति। तत्तत्पदघटकानुपूर्वीविशिष्टतावद्वर्णसमभिव्याहाररूपपदस्येत्यर्थः। ननु समुदायस्य समुदायघटकप्रत्येकातिरिक्तत्वाभावेन वाचकता प्रतिवर्णं विश्राम्यतु नाम तथापि पदस्फोटः-पदं वाचकमित्यभिमतसिद्धिः कथमित्याशङ्क्य प्रतिवर्मं वाचकतया अनुभवविरुद्धत्वेन तां प्रत्याचष्टे-प्रतिवर्णमिति। घटपटेतितत्तच्छब्दादेवार्थप्रतीतेः सर्वानुभवसिद्धत्वेन प्रत्येकवर्णादर्थस्मरणस्य बुद्ध्यनारूढत्वेनानभवविरुद्धत्वादित्यर्थः। किंच प्रत्येकं वर्णस्य वाचकत्वेऽभ्युपगते बाधकान्तरमपीत्याह-प्रत्येकं वर्णानामिति। अर्थबोधानुकूला शक्तिर्वर्णसमूह एव, नतु प्रत्येकम्। तथा सति प्रत्येकवर्णस्यार्थवत्त्वेन प्रातिपदिकसंज्ञायां सत्यां धनं वनमित्यादौ नकारस्य तदन्तपदत्वान्नलोपः प्रातिपदिकान्तस्येति नलोपापत्तेः। नलोपाद्यपत्तेरिति। आदिपदाद्धनमित्यत्र धकारस्य झलां जशोऽन्त इति जश्त्वापत्तिर्बोध्या। न च प्रत्येकं सुबुत्पत्तौ तच्छ्रवणापत्तिरिति वाच्यम्। धनमित्यादिसमुदायात्मकप्रातिपदिकावयवत्वेन सुपो धात्विति लुक्प्रवृत्तिसंभवात्। न च समासग्रहणकृतनियमेन गामानयेत्यादाविवसमुदाये प्रातिपदिकसंज्ञाया अप्रवृत्तिरिति वाच्यम्। भेदे सति यदर्थयोः परस्परं संसर्गस्तद्द्वारकार्थवत्समुदायस्य चेद्भवति प्रातिपदिकसंज्ञा तर्हि समासस्यैवेति नियमात्, यथा गामित्यस्य भिन्नोऽर्थः, आनयेत्यस्यापि भिन्नोऽर्थः, इत्येवमर्थभेदे सति तदर्थयोर्गोकर्मकमानयनमिति परस्परमन्वयोऽस्तीति तादृशान्वयद्वारा गामानयेति पदसमुदायोऽप्यर्थवानिति अर्थवतामर्थवांश्च यः समुदायस्तस्य चेद्भवति संज्ञा तर्हि समासस्यैवेति नियमाकारस्य फलितत्वात्प्रकृते धनं वनमित्यादौ येनैवार्थेन धनेत्यादिसमुदायोऽर्थवांस्तेनैवार्थेन धकारादयोऽप्यर्थवन्त इत्यर्थभेदाभावेन घटो घट इत्यादाविव धकाराद्यवयवार्थतत्समुदायार्थयोः पररपरं संसर्गात्मकान्वयाभावेन संसर्गद्वारकार्थवत्त्वाभावात्समुदाये धनेत्यादिरूपे प्रातिपदिकसंज्ञाया निष्प्रत्यृहत्वात्। किंच प्रत्येकं वर्णानां शक्तिमत्त्वे प्रत्येकं वर्णादर्थबोधापत्तिर्घटकलशपदाय्यामिव। सर्वेषां वाचकशक्तिमत्त्वाविशेषात्। तथा प्रथमादेवार्थबोधोपपत्तौद्वितीयादिवर्णोच्चारणनैर्थक्यमपि स्यात्। तस्मात्प्रकृतिप्रत्ययादौ तत्तत्समूहे शक्तिर्व्यासज्यवृत्तिर्न प्रत्येकपर्याप्तत्यभ्युपगन्तव्यम्। नन्वतत्समभिव्याहृतप्रत्येकं वर्णे वाचकत्वं निरस्य तावद्वर्णसमुदायात्मकसमभिव्याहारवाचकत्वं किमर्थं निर्मीतमित्याशङ्क्याऽऽह-एतच्चेति। समभिव्याहारवाचकत्वसमर्थनं चेत्यर्थः। चरमवर्ण एवेति। प्रकृत्यादिघटकश्रूयमाणचरमवर्ण एवेत्यर्थः। एवकारेण प्रथमादिवर्णे न शक्तिः, तन्मात्रोच्चारणादर्थबोधानुदयादिति सूचितम्। शक्तेर्व्यासज्यवृत्तित्वे इति। अर्थबोधजनकतारूपायाः शक्तेरनेकवर्णसमुदायपर्याप्तत्व इत्यर्थः। मानाभावादिति। चरमवर्णोच्चारणानन्तरमेवार्थबोधोदयात्तत्रैव वाचकताशक्तेर्विश्रान्तिः पर्यवस्यतीति भावः। नन्वेवं चरमवर्णमात्रोच्चारणादप्यर्थबोधापत्तिः स्यादत आह-पूर्वपूर्वेति। चरमवर्णापेक्षया यः पूर्वः पूर्वो वर्णः-घ्, अ, ट्, इत्यादिस्तदुच्चारणानुभवजन्या ये संस्कारास्ते चरणवर्णेनार्थबोधजनने सहकारिमो भवन्ति, तद्भिन्नत्वे सति तत्कार्यकारित्वं सहकारित्वम्। मृत्तिकाभिन्नत्वे सति मृत्कार्यं यो घटस्तत्कारित्वाद् घटं प्रति दण्डः सहकारी। तद्वत्। चरमवर्णभिन्नत्वेऽर्थबोधरूपचरमवर्णकार्यकारित्वात् संस्काराः सहकारिण इति भावः। पूर्वपूर्ववर्णानुभवजन्यसंस्कारसाचिव्येनैव चरमवर्णस्यार्थबोदजनकतेत्यर्थः। अते एव न चरमवर्णमात्रोच्चारणादर्थबोधो न वा प्रथमादिवर्णोच्चारणनैरर्थक्यं नापि प्रत्येकस्मादर्थबोधापत्तिरिति भावः। मतान्तरस्य दूषणायेति। समभिव्याहृततावद्वर्णानां वाचकत्वं विना पदस्य वाचकत्वं न सिध्यतीत्यतः पदस्य वाचकत्वसिद्धिस्तावतां वाचकत्वं विना पदस्य वाचकत्वं न सिध्यतीत्यतः पदस्य वाचकत्वसिद्धिस्तावतां वर्णानां वाचकत्वसिद्ध्यधीनेति वर्णस्फोटवादिनां यन्मतान्तरमुक्तं तद्दूषणायापीत्यर्थः। अपिना प्रतिवर्णवाचकतादूषणसंग्रहः। ननु तत्तत्पदघटकपूर्वपूर्ववर्णानुभवजन्यसंस्कारसाचिव्येनैव चरमवर्णसमार्थबोधजनकत्वदर्शनात्तत्रैव शक्तिविश्रान्त्यङ्गीकारेण सिद्धौ किमर्थं वाचकताशक्तेस्तावद्वर्णसमुदायपर्याप्तत्वमुक्तमत आह-रामोऽस्तीति। घटिकोत्तरमोकारोच्चारण इति। रामोऽस्तीति नैरन्तयेंणोक्ते तस्माद्रामकर्तृका सत्ता इत्यर्थबोधो जायत इत्यनुभवसिद्धं तत्र राम् इति मान्तमुच्चार्य तदनन्तरं घटिकादिकालं यापयित्वा ओकारे उच्चार्यमाणे सति व्यवहितोच्चारणादप्यर्थबोधो भाव्यः, तत्र पूर्वोक्तस्य राम् इत्युच्चाश्णानुभवजन्यसंस्कारस्य विद्यमानत्वात्। परं तु तादृशव्यवहितोच्चारणाल्लोकानामर्थबोधो नैव जायते इति हेतोरित्यर्थः। तादृशानुपूर्व्या एधेति। रेफोत्तरवर्त्याकारोत्तरवर्तिमकारोत्तरवर्त्योकारत्वमित्येवंरूपाया एवाऽऽनुपूर्व्याः, नतु चरमवर्णमात्रवृत्तिशक्तित्वादेरित्यर्थः। शक्ततावच्छेदकत्वेति। वाचकतावच्छेदकत्वेत्यर्थः। येन रूपेम वाचकता तस्यैव वाचकतावच्छेदकत्वम्। यथा पच्धातुवाच्यफूत्कारादिव्यापाराणां फूत्कारत्वादिरूपेणैव वाच्यतेति वाच्यतावच्छेदकं फूत्कारत्वादिकं तद्वदित्यर्थः। औचित्यादिति। तादृशानुपूर्वीश्रवणोत्तरमेव लोकानामर्थबोधादिति भावः। ननु घट इत्यादौ घोत्तरावर्णोत्तरटकारोत्तरावर्मत्वादिरूपानुपूर्व्याश्चरमवर्म एव वृत्तेर्न तावद्वर्णसमुदायवृत्तित्वमिति कथं पदस्य वाचकत्वमिति भवदभिमतं सिध्यतीति चेन्न। समुदायस्य समुदायिभ्योऽति रिक्तत्वमिति मते-एतद्दोषशङ्क्या अप्यनुदयात्। समुदायस्य समुदायिभ्योऽतिरिक्तत्वमिति मतेऽपि अव्यवहितोत्तरत्वसंबन्धेन पूर्वपूर्ववर्णसंश्लिष्टोत्तरोत्तरवर्णसमुदायत्वस्याऽऽनुपूर्वीरुपत्वेनादोषात्। ननु तादृशानूपूर्व्याः सहकारित्वाङ्गीकरणेनैवोक्तातिप्रसङ्गवारणान्मा भूत्तस्याः शक्ततावच्छेदकत्वकल्पनेत्याशङ्क्याऽऽहि दिगिति। प्रतिवर्णं वाचकताया अनुभवविरुद्धत्वमित्यादिका दूषणदिक् प्रदर्शिता। दिक्शब्देन प्रतिवर्णवाचकतायां पूर्वोक्तादन्यदपि किंचिद्बूषणमस्तीति सूचितम्। तदाशयस्त्वेवम्। यदि समुदायस्य वाचकता नाङ्गीक्रियते तर्हि तस्यार्थवत्त्वाभावेन प्रातिपदिकसंज्ञा सुलबेति वाच्यम्। तथा सति चरमवर्णमात्रस्यार्थवत्त्वेन प्रातिपदिकत्वात्ततोऽपि प्रत्ययोत्पत्त्यापत्तिः। एवं च चरमवर्णस्यैव वाचकत्वे तदर्थे विभक्त्यर्थैकत्वाद्यन्वयो न स्यात्। चरमवर्मस्य प्रकृतित्वाभावात्। समुदायस्य प्रकृतित्वेऽपि समुदायार्थस्य समुदायनिष्ठवृत्तिजन्योपस्थित्यभावेन समुदायार्थत्वाभावात्। समुदायाद्विहितविभक्त्यर्थस्य चरमवर्णनिष्ठवृत्त्युपस्थितार्थेऽन्वयः कर्तुमशक्यः। चरमवर्मस्य तत्प्रकृतित्वाभावात्। समुदायस्य तत्प्रकृतित्वेऽपि समुदायार्थस्य समुदागनिष्ठत्त्युपस्थितत्वाभावेन प्रकृत्यर्थत्वाभावान्न तत्रापि समुदायाद्विहितविक्षक्त्यर्थान्वय- कर्तुं शक्यः। प्रत्ययानां स्वप्रकृत्यर्थान्वितस्वार्थबोधजनकत्वमिति व्युत्पत्तेरिति भावः।। 63 ।।श्(4)
एतावता प्रघट्टकेन शक्तिलक्षणाद्योतकतान्यतमसंबन्धैनार्थप्रतिपादकत्वं पदत्वमित्यङ्गीकृत्योक्तमिदानां सुप्तिङन्तं पदमिति स्वशास्त्रपरिभाषितपदस्य वाचकत्वमिति मन्तृणां मतेन पदस्फोटसिद्ध्युपायमाह-घटेनेत्यादिषु इति। परिभाषितेति। सास्त्रकारैः पाणिन्यादिभिः संकेतितेत्यर्थः। सर्वं वाक्यमसति बाधके सावधारणमिति न्यायेन परिभाषि स्यैव पदस्येत्यर्थो बोध्यः। तेन प्रकृतिघटकवर्मसमुदायस्य प्रत्ययघटकवर्णसमुदायस्य वा वाचकत्वव्युदासः। तादृशवर्णसमुदायस्य पारिभाषिकपदत्वाभावात्। लोके सुबन्तादेरैव प्रयोगदर्शनेन सुबन्तादावेव लोकानां शक्तिग्रहात्पारिभाषिकपदस्यैव वाचकतेति सुबन्तादेरव पदस्फोटतेत्यर्थः। सुबादिरहितवर्णसमुदायस्य यत्पूर्वं पदस्फोटत्वमुक्तं तदर्थवत्त्वं पदत्वमित्यङ्गीकर्तृणां मतेनोक्तमिति भावः। प्रकृत्यादिभिदा-प्रकृतिप्रत्ययोर्भेदः स्फुटो नैव वतीत्यतो न प्रत्येकं ताभ्यामर्थावगमोत्तरं विशिष्टबोधस्तथा चाऽऽवश्यिकैव समृहशाक्तिरिति शेषः। प्रकृतिप्रत्यययोर्भेदावगमाभावमेव स्पष्टयति-घटेनेत्यादावित्यादिना। घटेनेत्यत्र घट् इति प्रकृतिः, एव इति प्रत्यय इति वा। घटे इति प्रकृतिः, न इति च प्रत्यय इति वेत्यत्र विनिगमनाविरहात्प्रकृतिप्रत्यययोर्विभागस्य, विशिष्य निर्णयासंभवादित्यर्थः। वर्णयोरादेश इति पक्षे-एकारूप आदेशः पूर्वावयवो वा परवयवो वेत्यादिसंशयत्प्रकृतिप्रत्ययविभागसंशयः संभवति। सर्वे सर्वपदादेशा इति शब्दनित्यताप्रतिपादकभाष्योक्तपक्षे तु वस्नसादाविव संप्रमोहाद्विभागज्ञानमेव न संभवतीति भावः। ननु कश्चिदत्र प्रकृतिभागः कश्चिच्च प्रत्ययभाग इत्येवं सामान्यतो ज्ञानं संभवत्येवेत्यतो विशिष्येत्युक्तम्। एतावनयं प्रकृतिभाव एतावांश्चायं प्रत्ययभाग इत्येवं सामान्यतो ज्ञानं संभवत्येवेत्यतो विशिष्येत्युक्तम्। एतावानयं प्रकृतिभाम एतावांश्चायं प्रत्ययबाग इत्येवं विशेषरूपेण ज्ञानासंभवादित्यर्थः। न वाचकत्वमिति। न प्रत्येकं तयोर्वाचकत्वं संभवति। प्रकृतिप्रत्यययोर्विभागनिर्णयासंभवादिति भावः। नन्ववैयाकरणानां प्रकृतिप्रत्यययोर्विभागस्य विशेषरूपेण ज्ञानासंभवादिति भावः। नन्ववैयाकरणानां प्रकृतिप्रत्यययोर्विभागस्य विशेषरूपेण ज्ञानासंभवेऽपि वैयाकरणानां स सुज्ञेयः व्याकरणशास्त्रस्य तत्तत्पदघटकप्रकृतिप्रत्ययादिविभागमक्रिय प्रतिपादकत्वादत्याशयवानाह-क्स्नसादावितीति। न तद्विभाग इति। सुबन्तसमुदायस्यैव वस्नसाद्यादेशविदानदर्शनान्न सर्वत्र प्रकृतिप्रत्ययादिविभागज्ञापकत्वं व्याकरणशास्त्रस्य। तथा च मथा वैयाकरणानामपि वस्नसादौ प्रकृतिप्रत्ययविभागनिर्मयः सुतरां न संभवति तथा सर्वे सर्वपदादेशा इति पक्षे घटेनेत्यादावपीति भावः। एवं च रामेणेत्यादितो रामाभिन्नः कर्तेत्याद्यनुभूयमानबोघान्यथानुपपत्त्या सुबन्ताद्यात्मकपदे बोधजनकताशक्तिरास्थेयेत्याशयः। केचित्तु यत्र प्रकृत्यादिविभागकल्पना शास्त्रसाहाय्येनापि नैव कर्तुं शक्या तादृशस्यैव पदस्य वाचकत्वं, यत्र तु तथा कल्पना संभवति तत्र प्रकृतिप्रत्यययोरेव वाचकत्वमिति वदन्ति, भाष्यतत्त्वविदस्तु यव्र प्रकृत्यादिविभागः कल्पयितुं सुतरामशक्यस्तादृशस्थले पदस्य वाचकत्वंऽवश्यं कल्पयितव्ये सति तदनुरोधेन सर्वत्रैव पदस्य वत्चकत्वं कल्पयितुं युक्तम्। अन्यथा क्वचित्पदस्य वाचकत्वं क्वचिच्च प्रकृतिप्रत्ययोरित्येवमर्धजरतीयत्वापत्तेः। शक्तिग्राहकशिरोमणेर्वृद्धव्यवहारात्सुबन्ताद्यात्मकपद एव शक्तिग्रहाच्चेति प्राहुः। एवं वाक्यस्फोटेऽपि पक्षद्वयं बोध्यम्।। 64 ।।(5)
अथ वाक्यस्फोटं निरूपयंस्तदवतरणिकां ब्रूते-सुप्तिङन्तचयेति सुबन्तचय-तिङन्तचय-सुप्तिङन्तचयात्मकवाक्यत्यापीत्यर्थः। अपिना सुबन्ताद्यात्मकपदसंग्रहः। तेन च यया युक्त्या पदस्य वाचकत्वं सिद्धं तयैव युक्त्या वाक्यस्यापि तत्-वाचकत्वं सिध्यतीति सूचयन्नाह-हरेऽवेत्यादीति। लक्षणादधुना चेत्तत्पदेo। अत्राऽऽदेपदेन विष्णोऽव गङ्गेवेत्यादेः संग्रहः। पदयोरिति वर्मयोरादेश इति पक्षे पदावयववर्मयोरित्यर्थः। सर्वे सर्वपदादेशा इति पक्षे तु यथाश्रुतमेव साधु। एङः पदान्तादित्यनेनैकादेशे जाते सति हर इत्येकं पदं, एवे-त्यपरं, अथवा हरे इत्येकं पदमपरं च वेत्येवेत्यत्र विनिगमकाभावात्-न तद्विभाग-पदयोर्विभागः सुस्पष्टं ज्ञेयो न भवतीत्यर्थः। ननु मा ज्ञायि पदयोर्विभागस्ततः किं तदाह-तथाचेति। प्रत्येकं पदाज्ञानेऽपीति। प्रत्येकं पदयोः स्पष्टं ज्ञानाभावेऽपीत्यर्थः। न ह्यत्र प्रत्येकं पदयोर्विसिष्यज्ञानं संभक्ति, येन ताभ्यां प्रत्येकमर्थावगमोत्तरं विशिष्टबोधः स्यादिति भावः। कियान् भाग एकं पदं कियांश्च भागोऽपरं पदमित्येवं सामान्यतो ज्ञानसत्त्वेऽपि पदार्थज्ञाने पदज्ञानस्य कारणत्वात्प्रत्येकं पदयोर्यादृशज्ञानादर्थावगमोत्तरं विशिष्टबोधः। स्यात्तादृशस्पष्टं पदयोर्ज्ञानं नास्तीत्यर्थः। विशिष्य पदज्ञानमेव पदार्थज्ञानोपयोगि, न सामान्यतो ज्ञानं शक्ततावच्छेदकानुपूर्व्यज्ञानादिति भावः। अत्रापिशब्देन प्रत्येकं पदयोः स्पष्टज्ञानाभावेऽपि नार्थबोधानुपपत्तिरिति सूचितं तदुपपादयति-समुदायशक्तीति सुबन्ताद्यात्मकपदसमुदायरूपवाक्ये बोदजनकतारूपशक्तिज्ञानसत्त्वेन तस्मादार्थबोध उपपद्यते। तथा च प्रत्येकं पदयोः स्पष्टज्ञानाभावेऽमि यतो लोकानां समुदायाद्हरिनिष्ठं यत्संबोधनं तद्विषयो, विधिविषयीभूतमवनं-रक्षणवित्याद्यर्थबोधो जायतेऽतः पदसमुदायरूपवाक्ये बोधजनकताशक्तिरवश्यं कल्पनीयेति भावः। यथा प्रत्येकं पदयोर्विशिष्य ज्ञानसंभवेऽपि तत्रानुभूयमानवाक्यर्त्थबोधान्यथानुपपत्त्या पदसमुदायात्मके वाक्ये शक्तिः परिकल्पिता तथा यत्र प्रकृतिप्रत्ययोर्विभागस्य विशिष्यज्ञानं न संभवति तत्रापि अनुभूयमानविशिष्टबोधान्यथाऽनुपपत्त्या प्रकृत्यादिसमुदायात्मकपदे शक्तिरभ्युपेयेत्यतिदिशन्नाह-एवमिति। विशिष्याज्ञायमानेष्विति। एतच्च पञ्चषष्टितमकारिकायां `घटेनेत्यादिषु न हि' इत्यत्र विस्तरेण निरूपितमिति तत्तत्रैव द्रष्टव्यम्। समुदायव्युत्पत्त्येति। प्रकृतिप्रत्ययसमुदायात्मकपदे शक्तिग्रहेणेत्यर्थः। ननु वाक्यार्थज्ञाने वाक्यघटकीभूतयावत्पदपदार्थज्ञानस्य कारणत्वाद्यया युक्त्या पदस्पोटः साधनीयस्तयैव मुक्त्या वाक्यस्फोटोऽपि सिध्येदित्याशयेन पदस्फोटानन्तरं वाक्यरफोट उक्तः। तथा च वाक्यस्फोटे साधनीये तत्र पदस्फोटो दृष्टान्तत्वेनोदाहंर्तु युक्तः। सत्येवं कथमत्र तद्वैपरीत्येन पदस्फोटे साधनीये वाक्यस्फोटस्य दृष्टान्तत्वमुक्तम्। किंच यत्र प्रत्येकपदयोर्विभागज्ञानं स्पष्टं न संभवति तत्र वाक्यस्फोटस्य सिद्धावपि न सर्वत्र तत्र वाक्यस्फोटः सिध्यतीत्यत आद-वस्तुत इति। पदैः पदार्थबोधवदिति। यथा घटपटादिप्रातिपदिकैः, तत्प्रकृतिकसुबन्तैर्वा घटादिरूपोऽर्थो बोध्यते तथा घटोऽस्तीत्यादिवाक्यैर्घटकर्तृका वर्तमानकालिकी सत्तेत्याद्यर्थः प्रत्याय्यते। पदार्थशक्तिरिति। तत्र यथा घटाद्यर्थनिरूपिता बोधजनकतारूपा शक्तिर्घटादिप्रातिपदिकेषु तत्प्रकृतिकसुबन्तेषु वा पदेषु कल्पिता तद्वद्वाक्यार्थनिरूपिता बोधजनकत्वशक्तिर्घटोऽस्तीत्यादिवाक्येष्वभ्युपगन्तव्येत्यर्थः। तत्रेयान् विशेषः-वाक्ये कल्प्यमाना शक्तिः प्राप्ताप्राप्तविवेकन्यायेन संसर्गांशे विशेष्यविशेषणभावांशे च पर्यवस्यति, घटाद्यर्थस्य क्लॄप्तावयवशक्त्यैवोपस्थानस्य सिद्धत्वादिति। पदस्फोटवाक्यस्फोटाविति। पदं वाचकं, वाक्यं वाचकमित्यर्थकावित्यर्थः। व्यवस्थिताविति। युक्त्यादिप्रमाणेन निर्धारितावित्यर्थः। प्रमाणेनार्थनिर्धारणं व्यवस्थेति भावः। एतेन पदस्फोटं दृष्टान्तीकृत्य वाक्यस्फोटसाधनाज्ज्ञाताज्ञातप्रकृत्यादिविभागेषु सकलपदेष्विव ज्ञाताज्ञातपदविभागेष्वपि सकलवाक्येषु शक्तिरास्थेयेति सूचितम्। अर्धजरतीयत्वादिदोषाप्रसङ्गायेति भावः। तदेवं पक्षद्वयस्य व्यवस्थितत्वेऽपि भाष्यादावुपवर्णितत्वेऽपि च वाक्यस्फोटस्य मुख्यत्वात्तत्कस्पनमेवाऽऽश्यकं न पदस्फोटकल्पनमित्याह-अन्यथेति। वाक्ये बोधजनकत्वशक्त्यनङ्गीकारे इत्यर्थः। घटः कर्मत्वमानयनं कृतिरित्यादाविति। घटमानयेति वाक्ये ये पदार्थाः प्रतीयन्ते तेऽत्र विशकलिततया शब्दान्तरेण निर्दिष्टाः, एतादृशस्थल इत्यर्थः। तादृशव्युत्पत्तीति। घटः कर्मत्वमित्यादिवाक्यं घटकर्मकानयनरूपार्थबोधजनकमित्येतादृशवाक्यशक्तिज्ञानरहितस्यापीत्यर्थः। अत्रापिशब्दो दृष्टान्तार्थः-यता घटः कर्मत्वमित्यादिवाक्यशक्तिज्ञानवतः पुंसो घटः कर्मत्वमित्यादिवाक्याद्घटकर्मकानयनमिति बोधो निष्टङ्कं जायते तथा वाक्यशक्तिग्रहशून्यस्य तादृशवाक्यात्तथा बोध आपद्येतेत्याशयात्। अत्र तादृशवाक्यशक्तिज्ञानरहितस्येत्युक्त्या घटः कर्मत्वमित्यादिवाक्यं घटकर्मकानयनबोधजनकमित्येवंशक्तिग्रहवत्स्तादृशवाक्यात्तथा बोधो भवत्येवेति सूचितम्। बोधप्रसङ्ग इति। घटकर्मकानयनानुकूलकृतिरित्यर्थंबोधापत्तिरित्यर्थः। घटादिपदशक्तिग्रहवतः पुंस इति शेषः। घटमानयेतिवाक्यात्प्रतीयमानपदार्थानामत्रोपस्थितिसत्त्वादिति भावः। तथा च घटमानयेत्यत्रेवात्रापि वृत्तिज्ञानजन्यपदार्थोपस्थित्यादिसामग्रीसत्त्वाद्घटकर्मकानयनमिति बोधप्रसक्तिरित्याशयः। अत्र लकाराणां कृतौशक्तिरिति नैयायिकमतानुसारेण घटः कर्मत्वमित्यादिवाक्ये कृतिरित्युक्तम्। ननु वाक्यार्थज्ञाने तात्पर्यज्ञानस्य कारणत्वात्प्रकृतस्थले घटः कर्मत्वमित्यादिवाक्यं घटकर्मकानयनमित्यर्थं बोधयत्वितीच्छयोच्छरितत्वरूपतात्पर्यज्ञानाभावेन तात्पर्यज्ञानरूपकारणाभावादेव न पूर्वोक्तवाक्यात्तादृशार्थबोधापत्तिरित्यत आह-घटमानयेत्यत्रेवेति। अयं भावः-तदर्थप्रतीतीच्छा वक्तुस्तात्पर्यम्। सैन्धवमानयेत्यादौ सैन्धवपदमश्वरूपार्थप्रतीतीच्छया वक्त्रोच्चरितमित्येवं तात्पर्यज्ञाने सत्येव तस्माद्वाक्यादश्वमानयेति बोदो दृश्यते। यदि तात्पर्यज्ञानं न स्यात्तर्हि सैन्धवपदस्य नानार्थकत्वेनाश्वो वा लवणं वाऽऽनेयमिति संशयात्संशयस्य च प्रवृत्तिप्रतिबन्धकत्वदर्शनात्तादृशवाक्यादर्थबोध एव नोदियादत्तस्तात्पर्यज्ञानं वाक्यार्थबोधे कारणमित्यवश्यं वक्तव्यम्। तादृशतात्पर्यग्राहकं च लोके गमनप्रकरणादि। घटमानयेत्यादौ च घटकर्मकानयनमित्यर्थप्रतीतिर्निरुक्तवाक्याद्भत्विति वक्तुरिच्छैव तात्पर्यम् तादृशतात्पर्यग्राहकं च द्गितीयाप्रत्ययान्तघटमितिप्रयोगानन्तरमानयेति तिङन्तोच्चारणम्। ततश्च तात्पर्यज्ञानसत्त्वाद्घटमानयेति वाक्याद्घटकर्मकानयनमित्याकारकः शाब्दबोधो जायत इति युक्तमेव। घटः कर्मत्वमित्यादिवाक्यं घटकर्मकानयनमित्यर्थप्रतीतीच्छया वक्त्रोच्चरितमित्यर्थे तात्पर्यग्राहकाभावेन तात्पर्यज्ञानरूपकारणाभावादेव न घटः कर्मत्वपित्यादिवाक्याद्घटकर्मकानयनमिति बोधः प्रसज्जते। तथा च कथं वाक्यशक्तिज्ञानरहितस्येयं बोधापत्तिश्चोद्यत इति शङ्ककाशयः। समाधातुस्तु-घटमानयेत्यत्र यावन्तो य च पदार्थाः पदनिष्ठवृत्तिज्ञानजन्योपस्थितिविषयाः सन्ति तावन्तस्ते च पदार्था घटः कर्मत्वमित्यादिवाक्यात्पदनिष्ठवृत्तिज्ञानजन्योपस्थितिविषयाः सन्तीति कृत्वा तात्पर्यज्ञानं वर्तते। वृत्तिज्ञानजन्यपदार्थोपस्थितिरपि तात्पर्यग्रहिका, नतु घटमानयेत्याद्यानुपूर्व्येवेत्यर्थः। तथा च तात्पर्यज्ञानसत्त्वेऽपि यतस्तादृशवाक्याद्वाक्यशक्तिज्ञानरहितस्य घटकर्मकानयनमिति बोधो न जायत इत्यनुभवसिद्धं ततो वाक्यशक्तिरावश्यिकेति भावः। तदेतत्सर्वमनुसंधायाऽऽह सारे-घटमानयेत्यत्रेवेत्यादि। घटमानयेति वाक्ये यथा पदार्थोपस्थितिस्तद्वद्घटः कर्मत्वमित्यादिवाक्ये पदार्थोपस्थितौ सत्यामित्यर्थः। अत्र घटः कर्मत्वमितिवाक्यजन्यपदार्थोपस्थितौ घटमानयेतिवाक्यजन्यपदार्थोपस्तितेर्दृष्टान्तत्वेनोपादानादवृत्तिजन्यपदार्थोपस्थितिस्तात्पर्यग्राहिका, नतु घटमानयेत्येतादृशानुपूर्व्येवेति सूचितम्। तथा पदार्थानामुपस्थिताविति सत्सप्तभ्या सिद्धसाध्यसमभिव्याहारन्यायेन तादृशपदार्थोपास्थतेस्तात्पर्यज्ञानकारणत्वं च सूचितम्। तदाह-सत्यपि तात्पर्यज्ञान इति। वृत्तिज्ञानजन्यपदार्थोपस्थितिनिमित्तके तात्पर्यज्ञाने सत्यपीत्यर्थः। बोधाभावाच्चेति। अत्रापि तादृशव्युत्पत्तिरहितस्येत्यनुषञ्जनीयम्। तथा च घटः कर्मत्वमिति वाक्यं घटकर्मकानयनं बोधयत्वितच्छिया वक्त्रोच्चारितमित्येवमात्मके तात्पर्यज्ञाने सत्यपि, घटः कर्मत्वमित्यादिवाक्यं घटकर्मकानयनधोधजनकमित्येवंवाक्यशक्तिज्ञानशून्यस्य पुरुषस्य यतो निरुक्तवाक्यात्तथा बोधो नैव जायतइत्यनुभूयते ततो वाक्यशक्तिरवस्यमब्युपगन्तव्याऽनिच्छताऽपि वाक्यशक्तिज्ञानेतरसकलकारणकलापसत्त्वेऽपि तथा बोधाभावेऽभियुक्तानुभवस्य प्रसिद्धत्वाद्वाक्यशक्त्यङ्गीकार इति भावः। घटः कर्मत्वमिति वाक्यशक्तिज्ञानसत्त्वेऽपि ततस्तथा बोधो नैव जायते आकाङ्क्षाविरहादित्याह-तत्रैवेति। घटमानयेत्यत्रैवेत्यर्थः। कटकर्मकानयनमिति बोध इति। एतादृशाकारकबोधे जननीये सतीत्यर्थः। घटार्थप्रातिपदिकेति। श्रत्र घटार्थेत्युक्त्या तादृशार्थककलसादिप्रातिपदिकसंग्रहः सूचितः। कर्मत्ववाचकविभक्तेरिति। अम्-औट्-शस्, इत्येवंरूपाया विभक्तेरित्यर्थः। धातोरिति। आ-नीत्यादेरित्यर्थः। आख्यातस्येति। तिङप्रत्याहारान्तर्गतसिवादितिङ इत्यर्थः। अत्र यद्यपि धातोरनन्तरं विकरणस्येति वक्तुमुचितम्। धातोरनन्तरं शबादिविकरणानां विहितत्वात्। तथापि विकरणस्य सर्वत्रादर्शनाद्धातोरनन्तरं न तन्निवेशः। पपाचेत्यादौ विकरणस्यासत्त्वादित्यर्थः। आनयेत्यादौ यद्यप्याख्यातं न श्रूयते तथापि आख्यातस्यार्थोपस्थित्यर्थमनुसंधानमावश्यकमिति धातोरनन्तरमाख्यातस्येत्युक्तम्। विकरणस्य त्वनर्थकत्वान्न तदनुसंधानमावश्यकमिति न तन्निवेशः कृत इत्याशयः। समभिव्याहार इति। सहोच्चारणमित्यर्थः।कारणमिति। हेतुरित्यर्थः। बटकर्मकानयनबोधः कार्यम्। कार्यकारणेति। तथा च घटकर्मकमानयनमित्याकारकबोधं प्रति घटार्थप्रातिपदिकोत्तरममादिविभक्त्युत्तरमानीत्यादिधातूत्तरतिङुच्चारणमिति कार्यकारणभावः फलितः। एतादृशकार्यकारणभावविषयकज्ञानवतो निरुक्तबोधस्य जायमानत्वान्निरुक्तकार्यकारणभावज्ञानमपि तथा बोधे हेतुरित्याश्रीयते। तदिदं कार्यकारणभावज्ञानं घटः कर्मत्वमित्यादिवाक्यस्थले नास्तीति कृत्वान ततो तथा बोधः। सोऽयं निरुक्तकार्यकारणभाव एवाऽऽकाङ्क्षेत्यर्थः। आकाङ्क्षैव च वाक्यशक्तिः। आकाङ्क्षा, शक्तिरिति नाममात्रे भेदः। तदर्थस्त्वेक एवेति भावः। एवं चाऽऽकाङ्क्षारूपशक्त्यभावादेव न घटः कर्मत्वमिति वाक्यात्तथा बोधः। तथा च तादृशवाक्ये शक्तिकल्पने प्रमाणाभाव इति भावः। एवं निरुक्तरीत्या कार्यकारणभावज्ञानरय हेतुत्वाङ्गीकारेण र्कि सिद्धं तदाह-सिद्धो वाक्यस्फोट इति। पदसमूहात्मकवाक्यस्य वाचकत्वं सिद्धमित्यर्थः। ननुयदि पदसमूहात्मकवाक्ये बोधजनकतारूपा शक्तिः सिध्येत्तदैव वाक्यस्फोटो-वाक्यस्य वाचकता सिद्धा स्यात्किंतु सैव शक्तिर्वाक्ये कथं सिध्यतीति दृष्टान्तेन स्पष्टयन्नाह-घटादिपदार्थेति। घटपटादिपदार्थबोधं प्रति घटादिपदं कम्बुग्रीवादिमदाद्यर्थ शक्तमित्येवं घटादिपदनिष्ठशक्तिज्ञानं कारणमित्येवं पदनिष्ठशक्तिज्ञानकार्यकारणभावस्य हेतुत्वमवश्यं वक्तव्यम्। अगृहीतवृत्तिकस्य पुंसोऽगृहीतवृत्तिकपदादर्थबोधादर्शनात्। विशिष्टवाक्यार्थबोध इति। तद्वद्घटकर्मकमानयमित्याद्याकारकवाक्यार्थविशेषबोध इत्यर्थः। पदसमभिव्याहारेत्यादि। घटकर्मकमानयनमित्येवं वाक्यार्थविशेषबोधं प्रति घटमानयेति वाक्यं घटकर्मकानयनार्थे शक्तमित्येवं पदसमूहात्मकघटमानयेति वाक्यनिष्ठशक्तिज्ञानं कारणमित्येवं घटमानयेतिवाक्यनिष्ठशक्तिज्ञानकार्वकारणभावस्य हेतुत्वकल्पनाद्वाक्यस्य वाचकत्वं सिद्धमिति भावः। नन्ववं पदार्थवाक्यार्थरूपविषयभेदेन कार्यकारणभावभेदस्याऽऽवश्यकत्वे हेतुत्वाब्युपगमेऽपि तावता वाक्ये शक्तिः कथं सिद्धेत्यत आह-अर्धोपस्थापकेति। अर्थेपस्थापकं यज्ज्ञानं तादृशज्ञानविषयो यः शब्दस्तन्निष्ठं यज्ज्ञाननिरूपितं कारणत्वं तादृशकारणत्वस्यैव शक्तित्वादित्यर्थः। शब्दनिष्ठबोधकारणत्वमेव शक्तित्वमिति संक्षिप्तोऽर्थ इति यावत्। तथा च पदेष्विव वाक्येष्वपि शक्तिः सिद्धेति भावः। एतदेव विशदयितुमाह-युक्तं चैतदिति। एतद्-वाक्यनिष्ठबोधकारणत्वस्य शक्तित्वं युक्तं युक्तिमदित्यर्थः। तामेव युक्तिमाह-विषयतासंबन्धेनेति। सामान्यविषयतारूपसंबन्धनिवेशाद्विषयभेदेऽपि न तद्भेदेन कार्यकारणभावबाहुल्यमिति भावः। अत एवोक्तं लाघवाद्धेतुत्वसिद्धेरिति। शाब्दबोधमात्र इति। घटादिविषयमनिमेश्य सामान्यतः शाब्दबोध इत्यर्थः। वृत्तिज्ञानस्येति। वृत्तिज्ञानजन्योपस्थितेरित्यर्थः। हेतुत्वमिति। कारणत्वमित्यर्थः। वृत्तिज्ञानेत्यत्र विषयतासंबन्धेनेत्यनुषञ्जनीयम्। तथा च शाब्दबोधत्वावच्छिन्नं प्रति विषयतासंबन्धेन वृत्तिज्ञानजन्योपस्थितिः कारणमित्यर्थः। अत्र बोधः कार्यं, उपस्यितिः कारणम्। कार्यकारणयोश्च विषयताख्यः संबन्धः। बोधनिरूपिता विषयता चोपस्थितौ वर्तत इति कृत्वा विषयतासंबन्धेनोपस्थितिः कारणमित्युक्तम्। एतादृशकार्यकारजभावकल्पने गौरवं न भवतीत्याह-लाघवादिति। यदा तु तत्पदीयशक्तिज्ञानरहिततत्पदज्ञानयतः पुंसस्तत्पदघटितवाक्याद्बोधापत्तिनिरीसार्थं तदर्थबोधे तदर्थकपदनिष्ठवृत्तिज्ञानयतः पुंसस्तत्पदघटितवाक्याद्बोधापत्तिनिरासार्थं तदर्थबोधे तदर्थकपनिष्ठवृत्तिज्ञावजन्योपस्थितिः कारणमित्युत्यते, तदा तु गौरवं स्यात्। अत्र लक्षणसमन्वयः-तत्पदं-गोपदं, तन्निष्ठशस्त्रिलक्षणान्यतरज्ञानरहितत्वे सति केवलगोपदज्ञानवतो देवदत्तस्य, तत्पद-गोपदघटितगामानयेति वाक्यात्प्रसक्ता या बोधापत्तिस्तद्वारणाय, तदर्थबोधे-सास्नादिमदगोपदार्थबोध, तादृशसास्नादिमदर्थकगोपदनिष्ठशक्तिज्ञानजन्योपस्थिति कारणमित्येवं कार्यकारणभावे स्वीकृते सति घटपदाद्यर्थभेदेन कार्यकारणभावानन्त्यमापद्येदेति गौरवं स्पष्टम्। विषयमनिवेश्य सामान्यतः शक्तिज्ञानकार्यकारणभावकल्पने तु शक्तेरैक्यान्न कार्यकारणभावानन्त्यप्रसक्तिरिति लाघवमिति भावः। वाक्यशक्तिविषये शङ्कते-नन्विति। शङ्कामेवाऽऽह-वाक्यार्थस्यापूर्मवत्वादिति। सर्वत्र शाब्दबोधात्प्रागनुपस्थितत्वादित्यर्थः। अयं भावः--यथा घटपटादयः पदार्थाः पूर्वसिद्धाः, न त्वपूर्वाः, अतस्तेषु घटादिपदानां शक्तिग्रहो युक्तः। किंतु वाक्यार्थो न तथा पूर्वसिद्धोऽपित्वपूर्वः। तथाहि-वाक्यार्थो नाम पदार्थसंसर्गः। पदार्थत्वं च पदजन्यप्रतीतिविययत्वम्। विषयता च प्रकारताविशेष्यतान्यतररूपा। सा च न संबन्धेऽस्तीति संबन्धस्य पदादनुपस्थितत्वाद्घटादिपदार्थवत्पूर्वसिद्धत्वाभावान्न तत्र वाक्यार्थबोधात्प्राक्शक्तिग्रहः संभवतीति भावः। एवमाशङ्कायां प्रतिबन्द्या समाधत्ते मूले-अर्थे विशिष्येति। वाक्यस्येति शेष इति। तथा च वाक्यस्य वाक्यार्थे पदार्थसंसर्गात्मके। शक्त्यग्रहणं चेदिति। वाक्यार्थबोधात्प्राक् पदार्थसंसर्गस्याविद्यमानत्वैन तत्र वाक्यशक्तिग्रहो न संभवेतीति चेदित्यर्थः। एवमभिहितान्वयवादिमते संसर्गात्मके वाक्यार्थे वाक्यशक्तिग्रहानुपपत्तिमभिधायान्विताभिधानवादिमतेऽपि पदे वाक्यशक्तिग्रहानुपपत्तिः समैवेत्याह-पदेऽपि सममिति। ननु शाब्दबोदात्पूर्वं पदे चक्षुरादीन्द्रियोपस्थितपदार्थनिरूपितशक्तिग्रहसंभवोऽस्तीति कथं शाब्दबोदात्पूर्वं पदे शक्तिग्रहानुपपत्तिरित्यतस्तदाशयं स्पष्टयति-पद एवान्वयांश इति। घटादिपदानामितरान्वितघटादिपदार्थे शक्तिरित्यन्विताभिधानवादिमत इत्यर्थः। इत्थं हि तेषामाशयः-यदा भोश्छात्र त्वं गामानयेति वाक्यं प्रयोजको गुर्वादिरुच्चारयति तदा तच्छ्रुत्वा प्रयोज्यः शिष्यादिर्गामानयति। पार्श्वस्थोऽज्ञातगवादिपदशक्तिको बालस्तु प्रयोज्यकर्तृकं गवानयनं वीक्ष्य तदिदं गवानयनं गामानयोतिशब्दप्रयोज्यमिति निश्चिनोति। ततश्च गां न याश्वमानयेत्यादावावापोद्वापाभ्यां-गोपदसत्त्वे सास्नादिमत्पदार्थबोधः। आनयपदव्यतिरेकेण सास्नादिमत्पदार्थबोधाभावः। इत्याकारकान्वयव्यतिरेकाभ्यां गवादिपदानामितरान्वितसास्नादिमदादिपदार्थेषु शक्तिं गृह्णाति। इत्थं च गामानयेतिप्राथमिकव्यवहारेण विशिष्ट एव शक्तिग्रहादानयनाद्यन्वितः सास्नादिमदादिपदार्थ एव गवादिशब्दार्थः। किंचान्वयस्याशक्यत्वे शाब्दबोधविषयता न स्यात। शाब्दबोधविषयतायां शक्तिग्रहस्य नियामकत्वात्। अशक्यस्यानुभवविषयत्वेऽति प्रसङ्गात्। तथा च सकलभेदानुगुणसामान्यरूपो विशेषान्तरसंनिधानाद्विशेषविश्रान्तः पदार्थ एव वाक्यार्थः आक्षिप्तपदान्तराणि पदान्येव च वाक्यम्। यथा घटशरावादिसर्वबेदानुकूलसामान्यरूपं मृत्तिकात्वं तद्वद्घटत्वपटत्वादिसर्वभेदानुकूलं सायान्यरूपं शब्दत्वादि तद्रूप इत्यर्थः। एवं च पदार्थत्वेनैव रूपेम विशषाणामन्वये पदानां शक्तिरिति तेषामाशयः। अन्वयरूपे वाक्यार्थेऽपि पदानां शक्तिरिति यावत्। तथा च वाक्यार्थे वाक्यशक्तिर्न कल्पनीया गौरवादिति भावः। तद्ग्रहासंभव इति। अन्विताभिधानवादिमतेऽपि अन्वये पदशक्तिग्रहासंभवस्तुल्य इत्यर्थः। अन्वयरूपवाक्यार्थस्य शाब्दबोदात्पूर्वमनुपस्थितत्वादिति भावः। कुब्जशक्तिवादानुसारेणाऽ।डह-यदिचेत्यादि। कुब्जशक्तिवाद इति। अयं हि तदाशयो जातिविशिष्टा प्यक्तिरेव शक्या। परं तु जातिशक्तिभाने सत्येव पदादर्थस्मृत्यनन्तरं वाक्यार्थबोधो जायते नान्यथा। इत्थं च व्यक्तौ शक्तिज्ञानस्य नोपयोगः। तासामानन्त्यात्। एवं च व्यक्तिः स्वरूपसत्येव पदार्थस्मृतिहेतुर्नतु तज्ज्ञानमपेक्षितम्। शक्तिग्रहकार्यकारणभावे च जातिविशिष्टव्यक्तिबोधं प्रति जातिप्रकारकशक्तिग्रहः कारणमित्येवं जातिप्रकारकत्वस्यैव निवेशो, नतु व्यक्तिविशेष्यकत्वरय। अत एव व्यक्त्यंशे कुब्जां शक्तिः। व्यकत्यंशे शक्ति ज्ञानानपेक्षणात्। क्वचिदंशे ज्ञाता शक्तिः कारणं क्वचिदंशे तु अज्ञाता कारणमित्येवं यो वादः स एव कुब्जशक्तिवाद इति भावः। तथा च कुब्णशक्तिवादानुसारेण पदार्थांशे, पदशक्तिर्ज्ञाता पदार्थानां पूर्वं सिद्धत्वाच्छाब्दबोदात्प्रागुपस्थितत्वात्तत्र शक्तिग्रहसंभवाच्ज्ञाता उपयुज्यते। अन्वयांशे तु वाक्यार्थरूपान्वयांशस्य शाब्दबोदात्प्रागनुपस्थितत्वादज्ञातैवोपयुज्यत इत्युच्यते चेद्वाक्यशक्तिवादिनो ममापि वाक्यस्य शक्तिरज्ञातैव संसर्गरूपे वाक्यार्थे उपयुज्यत इति समः कुब्जशक्तिवादाङ्गीकार इति न वाक्यार्थे वाक्यशक्तिग्रहानुपपत्तिश्चोदनीयेति भावः। नन्वज्ञाता शक्तिः, सा चोपयुज्यत इति वचनयुक्तं, अज्ञातस्य क्वाप्युपयोगकरणासंभवादित्यस्मिन्मते शैथिल्यं मनसि निधाय प्रकारान्तरमवतारयति-नन्वित्यादिना। पश्यत इति। गामानयेति गुर्वादिनोक्ते शिष्यादिनाऽऽनीतां गां पश्यतोऽज्ञातपदशक्तिकस्य बालस्येत्यर्थः। पदार्थंवदिति। अयं भावः-अभिहितान्वयवादिमते लाघवात्पदानां पदार्थमाव्रे शक्तिर्नत्वन्यांशेऽपि गौरवात्। आकाङ्क्षादिलभ्यत्वेनान्यलभ्यत्वाच्च। एवं च पदेभ्यः प्रथमं पदार्थमात्रोपस्थितिः। पश्चात्पदार्थविशेषणामन्वयरूपस्य वाक्यार्थस्यो स्थितिः। इत्याशयेनाऽऽह-पदार्थवदिति। अत्र `तत्र तस्येव' इति सप्तम्यन्ताद्वतिः, उपमेये वाक्यार्थे सप्तमीदर्शनात्। तथा च बालस्य यथा मनसा पदार्थेसास्नादिमत्यर्थे पदशक्तिग्रहो भवति तथा वाक्यार्थेऽपि-अन्वयरूपे वाक्यार्थेऽपितद्ग्रहः-पदशक्तिग्रहः स्यादिति चेत्तुल्यमित्याह-लक्षणादिर्तीति। लक्षणशब्द, स्यानेकार्थत्वात्प्रकृतेऽपेक्षितमर्थं ब्रूते-लक्ष्यत इत्यादिना। लक्षधातोः करणे ल्युट्। भन इति। ज्ञानसाधनमिन्द्रियमित्यर्थः। परममूले-`पदेऽर्थेऽप्यस्तु' इत्यत्र वाक्यार्थप्रतिपादकोऽर्थशब्दः। तादृशार्थकार्थपदोत्तरवर्तिनाऽपिशब्देन पदार्थसमुच्चये सत्यसंगत्यापत्तिः, पदार्थे शक्तिग्रहस्याप्रतिक्षेपादत आह-अपिरिति। पदपदोत्तरमिति। भिन्नक्रमेण पदेऽपीत्येवं पदशब्दोत्तरमपिशब्दो योज्य इत्यर्थः। तदर्थमाह-पदेऽपीत्यादिना। लक्षणान्मनसा पदेऽप्यर्थनिरूपितशक्तिग्रहश्चेदिष्यते तर्हि मनसैव वाक्येऽपि वाक्यार्थनिरूपितशक्तिग्रहोऽस्त्वित्यर्थः। अयं भावः-घटमानयेति वाक्याद्वृद्धव्यवहाररूपात्पदे पदार्थनिरूपितप्राथमिकशक्तिनिर्मयो यथा मनसा जायेत तथा तद्वाक्यश्रवणे तद्घटकपदैः पदार्थानामुपस्थितौ सत्यां मनसा तत्संसर्गोपस्थितिरपि नानुपपन्ना। तथा च संसर्गरूपे वाक्यार्थेऽपि वाक्यशक्तिर्नानुपपन्नेति भावः। एतावता प्रबन्धेन पूर्व पदार्थे शक्तिग्रष्ठस्ततस्तत्प्रयुक्तपदार्थोपस्थितौ सत्यां पश्चान्मनसोपस्थिते संसर्गे शक्तिग्रहः पश्चादेवाऽऽवापोद्वापाभ्यां तत्तत्पदस्य तत्तदर्थे शक्तिग्रह इत्याह-वस्तुतस्त्विति। अत्रापि `वृद्धव्यवहारं पश्यतः' इत्यनुषञ्जनीयम्। तेन वाक्यशक्तिग्रहात्पूर्वं कोशादिना पदशक्तिग्रहेऽपि न क्षतिः। तथा च शक्तिग्राहकशिरोमणिना वृद्धव्यवहारेण प्रथमतो वाक्य एव वाक्यार्थनिरूपितशक्तिग्रहो जायते क्वचिदुपदेशेनापि पूर्वं वाक्यशक्तिग्रहो जायते। तद्ग्रह इति। विशिष्ट वाक्यार्थनिरूपितशक्तिग्रह इत्यर्थः। नन्वेवं वाक्यस्फोटसिद्धावपि पदस्फोटो न सिध्यतीत्याह-आवापोद्वापाभ्यामिति। आनयनापसारणाभ्यामित्यर्थः। प्रत्येकं तद्ग्रह इति। प्रत्येकस्मिन् पदे प्रत्येकपदार्थनिरूपितशक्तिग्रहो भवतीति भावः। पदं च प्रत्येकपदशक्तिसहकृताकाङ्क्षादिवशात्पदाद्वाक्यार्थशाब्दबोधो यदा तदा पदस्फोटः, यदा तु प्रत्येकपदशक्तिनिरपेक्षतयैव वाक्यशक्तिर्विशिष्टबोधं जनयति तदा वाक्यस्फोट इति पक्षद्वयं फलतीति तात्पर्यं बोध्यम्।। 65 ।।
इयमेवेति। समुदितार्थे विशिष्टवाक्यस्यैव शक्तिरितीयमेवेत्यर्थः। मीमांसकानामिति। सर्वत्र वाक्ये लक्षणां स्वीकुर्वता भाट्टादीनामित्यर्थः। वैदान्तैकदेशिनामिति। मीमांसकानुयायिनां वाचस्पतिकल्पतरुप्रमृतीनामित्यर्थः। त एते सर्वे पदलक्षणावद्वाक्यलक्षणा वदन्ति। नच पदशक्तिवद्वाक्यशक्तिं विना वाक्यलक्षणा घटते। स्वशक्यसंबन्धो लक्षणेति लक्षणणालक्षणस्य सर्वसंमतत्वादत आह-सर्वत्रैवेति। सर्वत्र वाक्यार्थो लक्ष्य एव लक्षणावृत्तिजन्य एवेति ये भाट्टादयो मीमांसका वदन्ति तेऽपि लक्षणाया ग्रहे समुदितार्थे वाक्यशक्तिं गतिमुपायमाहुः। वाक्यशक्तिं विना वाक्यलक्षणा दुर्वचा, शक्यसंबन्धो लक्षणेति सर्वसंमतसिद्धान्तादिति भावः। न्यायवैशेषिकादिमते वाक्ये लक्षणा नास्ति। स्वशक्यसंबन्धो लक्षणेति चोच्यते। पदसमुदायरूपवाक्यस्य कस्मिंश्चिदप्यर्थे शक्तिर्नास्ति। अतः कथं तत्र वाक्यशक्यसंबन्धो लक्षणा घटेतेत्यन्यतं। उक्तपक्षद्वयमिति। पदवाक्यभेदेन व्यवस्थितं पदं वाचकं वाक्यं वाचकमित्येवंरूपं पक्षद्वयमित्यर्थः। अनुपपत्तिमेव स्पष्टयति-उत्पत्तेरिति। वर्णानां जन्यत्वमिति मते-उत्पत्तेरिति। वर्णानां नित्यत्वमिति मतेतु अभिव्यक्तेरिति। वैयाकरणते शब्दानामुत्पत्तिः स्फोटस्य त्वभिव्यक्तिरिति विभागः। एकदा असंभवेनेति। पदघटकानां सर्ववर्णानां युगपदुत्पत्तिरभिव्यक्तिर्वा न संभवति। अभि व्यञ्जकतत्तत्स्थानानुयोगिकवायुसंयोगादेः क्रमिकत्वादुत्पत्तेरपि क्रमिकत्वेनाऽऽशुतरविनाशिनां क्रमिकाणां वर्णानां युगपन्मेलनासंभवेनोत्पन्नानामभिव्यक्तानां वातादवद्वर्णसमूहरूपपदज्ञानात्यन्तासंभवादित्यर्थः। तथा चेति। तावद्वर्णसमूहरूपपदजानासंभवे चेत्यर्थः। तत्समूहेति। तादृशपदसमूहरूपवाक्यज्ञानस्यापि सुतरामसंभव इति भावः। ततश्च पदस्फोटवाक्यस्फोटयोः सर्वथाऽनुपपत्तिरिति चेन्नेत्याह-उत्तरवर्णप्रत्यक्षेत्यादिना। अयं भावः-घटेत्यत्र पूर्वं घकारोच्चारणं पश्चादकारोच्चारणं ततष्टकारोच्चारणं ततः पश्चाच्चाकारोच्चारणमिति क्रमः। तत्र घकारोत्तरवर्णो योऽकारस्त्ज्ञानवेलायामुत्तरवर्णेऽकारेऽव्यवहितोत्तरवर्तित्वसंबन्धेनोपस्थितः स्मृतो यः पूर्ववर्णो घकारस्तादृशघकारवत्त्वं, तथा तदुत्तरटकारप्रत्यक्षज्ञानकाले तस्मिष्टकारेऽव्यवहितोत्तरवर्तित्वसंबन्धेनोपस्थितो यः प्रथमवर्णविशिष्टो द्वितीयो वर्णो `घ' इत्याकारकस्तादृशघशब्दवत्त्वमित्यर्थः। अस्य सुग्रहमित्यत्रान्वयः। घकारवैशिष्ट्यं तदुत्तरस्मिन्नकारे, तदुत्तरस्मिंष्टकारे च घकाराविशिष्टाकारवैशिष्ट्यं सुग्रहं सुखेनानायासेन ज्ञातुं शक्यमित्यर्थः। एवं चतुर्थादिवर्णे स्मृतप्रथमवर्मविशिष्टद्वितीयवर्णविशिष्टतृतीयवर्णवैशिष्ट्यं सुग्रहमितिरीत्या चरमवर्मप्रत्यक्षं पदवाक्यघटकयावद्वर्मविषयकं संपद्यत इति न पदार्थबोधवाक्यार्थबोधयारेनुपपत्तिरिति तात्पर्यार्थः। पदपदार्थो निर्दिश्यते-उत्तरवर्णेत्यादि। घटादिशब्दघटकपूर्वपूर्वस्माद्वर्णादुत्तरोत्तरवर्णोच्चारणकाले। तस्मिन्-उत्तरवर्णे। उपस्थितेति। स्मृतेत्यर्थः। अव्यवहितेति। पूर्ववर्णोत्तरवर्मयोः पूर्ववर्णाव्यवहितोत्तरत्वं संबन्ध इत्यर्थः। पूर्ववर्णवत्त्वमिति। पूर्ववर्णवैशिष्ट्यमित्यर्थः। अस्य सुग्रहमित्यत्रान्वयः। उपस्तितविशिष्टेति। उपस्थितः स्मृतो यः प्रथमवर्णविशिष्टो द्वितीयो वर्ण इत्यर्थः। यथा वर्मसमुदायात्मकपदत्वस्य सुज्ञेयत्वं तद्वत्पदसमुदायात्मकवाक्यत्वस्यापि सुज्ञेयत्वप्रित्याह-तादृशानुपूर्वीघटितपदत्वस्येवेति। पूर्वपदविशिष्टत्वमुत्तपपदे, पूर्वपदविशिष्टोत्तरपदवैशिष्ट्यं तृतीयपद इत्येवंरीत्या वाक्यान्तिमपदे पूर्वपूर्वपदवैशिष्ट्यमुत्तरोत्तरपदे बोद्धुं शक्यमिति वाक्यत्वस्यापि सुग्रहत्वात्पदस्फोटवाक्यस्फोटौ निराबाधाविति भावः।। 66 ।। इति पदवाक्यरफोटः।
।। अखण्डपदस्फोटनिर्णयः ।।
अथाखण्डस्फोटप्रतिपादनावसर इत्याह-इदानीमिति। सखण्डस्फोटकथनान्तरमित्यर्थः। अखण्डपक्षमिति। अखण्डपदाखण्डवाक्यस्फोटपक्षमित्यर्थः। अवयवकल्पनारहितत्वमखण्डत्वमिति भावः। आह-निरूपयति-पदे न वर्णा इति। कारिकास्थपद इतिसप्तम्यन्तशब्दस्यार्थमाह-पचतीत्यादाविति। ननु वर्णोष्ववयवा न चेति प्रकृतानुपयुक्तमितित्याशङ्कां परिहरन्नाह-दृष्टान्तव्याजेनेति। दृष्टान्तमिषेणेत्यर्थः। क्वचिद्वर्णेष्ववया इवेति पाठो दृश्यते स चात्यन्तमनुगुण एव। यथा ककारादिवर्णेषु अवयवकल्पना नेत्याबालं सुप्रसिद्धं तद्वत्पदेऽपि वर्णात्मका अवयवा न सन्तीति ज्ञेयम्। तथा च दृष्टान्तेति यदुक्तं तद्युक्तमेवेति भावः। ननु वर्णेष्वपि क्वचिदवयवा दृश्यन्त एवेत्यत आह-प्रतीयमाना इति। एकारर्कारादिषु इकाररेफाद्यवयवा यद्यपि प्रतीयन्ते तथापि स्पष्टमनपलम्भात्तत्तद्वर्णसमानाकारध्वनिविशेषोपरागरूपोपाधिकृता सा भ्रान्तिरेवेति वर्णेष्ववयवा नैव वास्तवाः सन्तीत्यर्थः। एकारादिष्ववयवकल्पने दृढतरप्रमाणाभायेन गौरवापत्तेरिति भावः। पदे वर्णाभाववद्वाक्येऽपि पदानवयवकत्वं वक्तुमाह-वाक्यादिति कारिकास्तप्रविवेकपदार्थं व्याचष्टे-भेद इति। `विचिर पृथग्भावे' इति धात्वर्थानुसारात्प्रविवेकपदं भेदार्थकमित्यर्थः। ननु पदादिप्रतीतौ तदवयवानां वर्णानामुपलम्भात्कथं वर्णाभावः पदाभावश्चेत्यत आह-अयं भाव इति। अखण्डमेवेति। वर्णरूपावयवाघटितमेवेत्यर्थः। अखण्डमेवेत्येवकारव्यावर्त्यं प्रदर्शयति। नतु वर्मसमूह इति। वाक्ये पदे चावयवपरिकल्पनं न कार्यामिति भावः। अनन्तवर्णकल्पने प्रमाणाभावादप्रामाणिकगौरवापत्तेश्चेति भावः। ककारं श्रुत्वा खकारं श्रृणोमीति विलक्षणप्रतीत्यन्यथानुपपत्तिरेव तत्रानन्तवर्मपरिकल्पने मानमित्याशङ्क्य तन्निराकरोति-तत्त वर्णोत्पादकत्वेनेत्यादिना। ककारखकारादितत्तद्वर्णोत्पादकत्वेनाभिमतो यो वायुसंयोगस्तन्निष्ठमित्यर्थः। निष्ठमित्यस्यावच्छेदकेऽन्वयः। तत्तद्वर्मजनकताया इति। ककारादितत्तद्वर्णनिष्ठा या जनकता तस्या इत्यर्थः। एतच्च नैयायिकमते, वर्णानामनित्यत्वेनोत्पादविनाशसालित्वादित्यर्थः। व्यञ्जकताया इति। वैयाकरणमते वर्णानां नित्यत्वेन तदभिव्यक्तिरेव वाच्येत्यर्थः। अवच्छेदकमिति। जनकतानिरूपितं व्यञ्जकतानिरूपितं वां यदवच्छेदकत्वं तद्वदित्यर्थः। वेजात्यमिति। परिकल्पितो धर्मविशेष इत्यर्थः। प्रतितिवैलक्षण्येति। वायुसंयोगगतं यत्कत्वखत्वादि तेन रूपेम स्फोटो विभासत इति ककारः खकार इत्यादिविलक्षणप्रतीतिर्निवोढुं शक्यसंभवेति भावः। एतदेव स्पष्टमभिहितं वाचस्पतिग्रन्थ इत्याह-भामत्यामिति। ब्रह्मसूत्रगतशांकरभाष्यव्याख्यायां वाचस्पतिप्रणीतायां भामत्याख्यायामित्यर्थः। आरोप्यत इति। वायुनिष्ठं तारत्वादि वर्णेष्वारोप्यत इति स्पष्टमुक्तं देवताधिकरणे(ब्र.सू.अ.1 पा.3 सू. 26)इत्यत्रेत्यर्थः। अत एव तारो मन्द इत्येकवर्णविषयकप्रतीतिव्यवहारयोरुपपत्तिः। एकस्मिन्नपि वर्णे किंचिदपेक्षयाऽयं तारः, किंचिदपेक्षयाऽयं मन्द इति व्यवहारस्तु सकलजनानुभवसिद्ध एव। आरोपाभ्युपगमे तु नायं दोषः। अनारोपितस्यैप विरुद्धधर्मद्वयसंबन्धस्याऽऽश्रयीभूतवर्मभेदप्रयोजकत्वनियमात्। कण्ठताल्वाद्यभिधातजन्यवायुसंयोग एव वाचकोऽस्त्वित्याशङ्केते-नन्वेवमिति। वाचकोऽपीति। तथा च वायुसंयोगस्यैव ककारकखकाराद्यात्मकत्वमस्वित्यर्थः। वायुसंयोगस्य ककारदिवर्मात्मकत्वं निराकर्तुमाह-प्रत्यक्षोपलभ्यमानेति। प्रत्यक्षेणोपलभ्यमानो यः ककारत्वादिप्रकारकप्रत्यक्षविषयः ककारादिस्तस्यैव वाचकत्वस्यानुभवसिद्धित्वादित्यर्थः। शब्दस्य श्रवणेन्द्रियग्राह्यत्वेन प्रत्यक्षविषयत्वम्। वायुसंयोगस्य त्विन्द्रियग्राह्यत्वाभावेन प्रत्यक्षविययत्वाभावान्न वाचकत्वं युक्तमिति भावः। अथोपसंहरन्निष्कर्षं वक्ति-तथा चेति। वायुसंयोगस्य वाचकत्वाभावे चेत्यर्थः। वाचकत्वान्यथानुपपत्त्येति। पदस्य वाक्यस्य च वर्मसमूहानतिरिक्तत्वे क्रमिकाणामाशुतरविनाशिनां वर्णानां युगपन्मेलनासंभवात्तेषां वाचकत्वस्य वक्तुमशक्यत्वेनान्यथानुपपत्त्या पदस्य वाक्यस्य च वर्णसमूहातिरिक्तत्वस्याऽऽवश्यकत्वेन पदवाक्ययोर्वाचकत्वं सिध्यतीत्यर्थः। सोऽयमिति प्रत्यभिज्ञा चास्मिञ्शब्दनित्यत्ववादिमते सम्यगुपपद्यत इत्याह-तदेवेदमिति। तदेवेदमित्यादित्रयस्य `प्रतीत्या' इत्यत्रान्वयः। प्रत्यभिज्ञायां व्यक्त्यैक्यमनुभूयत इति स्फोटोऽखण्डः सिध्यतीत्यर्थः। सोऽयं गकार इति प्रतीत्या वर्णानां नित्यत्वमुक्तम्। वर्णानामनित्यत्वे तु अनित्यवर्णघटितपदवाक्ययोरप्यनित्यत्वेन प्रत्यभिज्ञानोपपद्येतेति स्फोटस्याखण्डत्वं न सिध्येदिति भावः। नच व्यक्तिभेदेऽपि तदेवेदेमौषधमित्यादाविव साजात्यावलभ्बनेनोक्तप्रतीतिर्निर्वहतीति वाच्यम्। तज्जातीयमिदं पदमिति व्यवहारस्याप्यापत्तेः। नच तादृशशव्यवहरा इष्ट एवेति वाच्यम्। तदेवेदं पदमिति व्यक्त्यैक्यविषयकव्यवहारस्यैवानुभवसिद्धत्वात्। एतेनेति। प्रत्यभिज्ञामूलकाखण्डस्फोटस्य वाचकत्वसाधनेनेत्यर्थः। श्रूयमाणवर्णानामिति। गौरित्यत्र गकारौकारविसर्गातिरिक्तस्य स्फोटस्यानुभवाभावाद्वर्मानामेव वाचकत्वमिति वदन्तः प्रत्युक्ताः। तेषामिति। गकारादिवर्णानामित्यर्थः। स्फोटातिरिक्तत्वाभावादिति। व्यञ्जकवायुसंयोगगतगत्वादिना स्फोटरयैव भानादिति भावः। खण्डनीयमंशमनुवदति-यत्त्वित्यादिना। वर्णानां प्रत्येकं वाचकत्वं तमुदायल्य वा? इति विकल्प्य नाऽऽद्य इत्याह-वर्णानां प्रत्येकभिति। अर्थबोधापत्तिरिति। अर्थबोधावृत्त्यापत्तिरित्यर्थः। नान्त्य इत्याह-समुदायस्य त्विति। आशुतरोत्पन्नानामिति। आशुतरविनाशिनामित्यस्याप्युपलक्षणमिदम्। तथा च पौर्वापर्यक्रमेणोच्चारितानामुच्चारणानुपदमेव विनष्टानां वर्णानां तथैव=पौर्वापर्यक्रमेणवाभिव्यक्तानां वा युगपन्मेलनाननुभवाद् ज्ञानं नैव संभवतीत्यर्थः। वर्णानां जन्यत्वपक्षे तत्समुदायस्यैवासंभवात्तज्ज्ञानासंभवः। नित्यत्वपक्षे तु समुदायसंभवेऽपि तज्ज्ञानासंभव इति भावः। ननु घटेत्यत्र घकारोत्तरवर्णेऽकारे वर्णोच्चारणानुभवजन्यसंस्कारवशात्स्मृतो यः पूर्ववर्मस्तादृशपूर्ववर्मवत्त्वमव्यविहितोत्तरत्वसंबन्धेन वर्तते, तथा तृतीयवर्णोच्चारणसमये तत्र तृतीयवर्णे, स्मृतो यः प्रथमवर्मविशिष्टो द्वितीयवर्मस्तद्वैशिष्ट्यमव्यवहितोत्तरवर्तित्वसंबन्धेन वर्तते। एवं चरमवर्मपर्यन्तं पूर्वपूर्ववर्णवैशिष्ट्यस्य वक्तुं शक्यत्वात्समूहालभ्बनरूपसकलवर्णज्ञानं यद्यपि संभवति तथापि सरो रसो नदी दीनेत्यादौ वैपरीत्येन नदीशब्दघटकनकाराकारदकारेकारानुभवजन्यसंस्कारे दीनत्वप्रकारकार्थबोधपत्त्याऽतिप्रसक्तमिति कृत्वा ध्वन्यन्तर्गतवर्णाभिव्यङ्व्योऽखण्डो वर्णाघटितः स्फोट एव वाचक इति कैयटेनोक्तं तन्न समीचीनमित्याह-तत्तुच्छमिति। सकलज्ञानमिति। संपूर्णपदज्ञानमित्यर्थः। नदीदीनादिसाधारणमिति। वर्णेषु क्रमसत्त्वेऽपि तेषां यत्समहूहालभ्वनात्मकज्ञानं जायते नियमो नास्ति। किंचिदंशरहितानामपि अक्रमेणापिवा समूहालम्बने पदार्थज्ञानस्यानुभवसिद्धत्वात्। तथा च नदीशब्दघटकवर्णानां तावतां पौर्वापर्यविपर्ययेण ज्ञाने जाते सति दीनार्थस्य नदीशब्दात्प्रतीतिः स्यात्। एवं दीनशब्दाच्च नदीशब्दार्थप्रतीत्यापत्तिः स्यादिति भावः। नानाप्रकारतानिरूपितं नानामुख्यविशेष्यताशालि ज्ञानं समूहालम्बनमित्युच्यते। यथा-अयं घटः, अयं स्तम्भः, अयं कुम्भश्चेत्येकं ज्ञानमिति। इतिकैयट इति तथा चैतन्मते वायुसंयोगेब्यः कत्वखत्वादिधमंवन्तो वर्णा उत्पद्यन्ते तेभ्यश्चाखण्डस्फोटाभिव्यक्तिः, अभिव्यक्ताच्चास्त्रण्डरफोटादर्थबोध इति बोध्यम्। तत्तुच्छमिति। पूर्वपूर्ववर्णानुभवजन्यसंस्कारसहकृतचरमवर्णानुभवाज्जायमानं सकलपदज्ञानं नदीदीनसाधारणं, येन क्रमेणानुभवे विषयभानं तेनैव क्रमेण स्मरणमिति नियमाभावात्कदाचिद्वैपरीत्येनापि नदीत्यक्षरद्वयस्य स्मरणे सति तथा दीनेत्यक्षरद्ववस्यापि वैपरीत्येन स्मरणे सति च नदीदीनशब्दसाधारणं भवति तादृशस्मरणज्ञानमिति यत्कैयटेनोक्तं तत्तुच्छमित्यर्थः। तत्र हेतुमाह-पदज्ञानस्येति। पौर्वापर्यक्रमविशिष्टवर्मघटितपदज्ञानस्येत्यर्थः। उपपादितत्वादिति। पूर्वपूर्ववर्मसंस्कारसहकृतचरमवर्णानुभवजन्यपदज्ञाने तावद्वर्णानां पौर्वापर्यक्रमवैशिष्ट्येनैव भानस्य सखण्डस्फोटकथनसमये सप्तषष्टिकारिकाव्याख्याने समुपपादितत्वात्सरोरसो नदी दीनेत्यादौ न काचित्क्षतिरिति भावः वर्णातिरिक्तस्फोटस्य वाचकत्वाङ्गीकारे दोषं प्रदर्शयति-वर्णानामिति। विकल्पग्रासाच्चेति। यदि प्रत्येकं व्यञ्जकत्वं तर्हि प्रथमवर्णेनैव व्यञ्जनसंभवे तदितरवर्णवैयर्थ्यम्। समुदितानां व्यञ्जकत्वं त्वसंभवि। चरमवर्णाबिव्यक्तिकाले क्रमिकाणां पूर्वपूर्ववर्णाभिव्यक्तिनामवस्थानासंभवेनैकदा मेलनासंभवात्समुदायस्यैवासंभवात्। चरमवर्णस्य व्यञ्जकत्वेऽपि तदितरवर्मवैयर्थ्यम्। पूर्वपूर्ववर्णानुभवजन्यसंस्कारसहितचरववर्णानुभवस्य व्यञ्जकत्वे तस्यैवार्थबोधकत्वमस्त्वित्यलमतिरिक्तस्फोटाङ्गीकारेणेति। भावः। नैयायिकः शङ्कते-नन्विति। त्वन्मतेऽपीति। वर्णातिरिक्तस्पोटवादिमतेऽपीत्यर्थः। वैयाकरणमत इति यावत्। एष दोष इति। विकल्पात्मको दोष इत्यर्थः। तमेव दोषं विशदयति-तत्तद्वर्णेति। वर्णोत्पत्तिवादिनैयायिकमतानुसारेणोत्पादकत्वेनाभिमतेति। वायुसंयोगानां प्रत्येकं व्यञ्जकत्वं समुदितानां वेति विकल्प्य, यदि प्रत्येकं वायुसंयोगस्य व्यञ्जकत्वे प्रथमवायुसंयोगेनैवाभिव्यञ्जने सिद्धे तदितरवायुसंयोगोपादानस्य वैयर्थ्यम्। नाभिप्रदेशादुद्वत्तवायोस्तत्तत्स्थाने क्रमेणैव संयोगोत्पत्त्या क्रमवतां तेषां युगवत्सहावस्तानासंभवेन मेलानायोगात्तत्समुदायस्यैव वक्तुमशक्यत्वात्समुदितानां तेषां व्यञ्जकत्वं सुतरां दूरापेतमेवेति बोध्यम्। प्रत्येकमभिव्यञ्जकत्वेऽपि कश्चन गकारत्वेन कश्चनौकारत्वेन कश्च विसर्गत्वेन च रूपेण स्फोटमभिव्यनक्ति। तथा च तांवद्रूपवैसिष्ट्येनाभिव्यक्तस्यैव तस्यार्थबोधकत्वमिति न कस्यापि वायुसंयोगस्य वैयर्थ्यमित्याशयवान्। समाधत्ते-प्रत्येकमेवेति। अत एवेति। यायुंसंयोगानां स्ववृत्तिगत्वादिना स्फोटाभिव्यञ्जकत्वादेवेत्यर्थः। तदतिरेकाखीकारेऽपीति। स्फोटातिरिक्तवर्णानङ्गीकारोऽपीत्यर्थः। वायुसंयोगस्य गत्वादिना स्फोटव्यञ्जकत्वानभ्युपगमे तु तथाऽभिन्यक्तये स्फोटातिरिक्तवर्णस्वीकार आवश्यको भवेदित्याशयः। ननवेवमतिरिक्तवर्णास्वीकारे पदाभावेन पदज्ञानस्यार्थबोधकारणत्वमसंभवदुक्तिकमेव स्यादित्याशङ्क्य निराफर्तुमाह-एवं चेति। वायुसंयोगगतगत्वादितत्तद्रुपेण स्फोटाभिव्यञ्जने चेत्यर्थः। गृह्यंते, इत्यस्य यत्रेति शेषः। तथा च यत्र ज्ञाने धवत्त्वं टशब्दे भासते तादृशं यत्पदज्ञानं तत्कारणताया इत्यर्थः। अविवादादिति। सर्वसंमतत्वादित्यर्थः। एवं चोपाधिकृतभेदं गृहीत्वा तस्मिन्नेव टशब्दात्मके घत्वप्रकारकप्रतीतिविषयाव्यवहितग्रहविषये घटपदव्यवहारात्तादृशं पदज्ञानमर्थबोधकारणमिति सर्वसंमतमिति भावः। नन्वेकस्मिन्नेव टशब्दात्मके घवत्त्वमुपाधिभेदाद् भवतु नाम परंतु तत्र स्वाव्यवहितोत्तरत्वं केन प्रकारेणेत्यत आह-अव्यवहितोत्तरत्वमिति। स्वज्ञानाधिकरणेति। स्वं-घत्वादिनां भासमानः स्फोटः, तज्ज्ञानाधिकरणीभूतो यः क्षमस्तत्क्षणोत्पत्तिकं यज्ज्ञानं तद्विषयत्वमेवाव्यवहितोत्तरत्वं, नतु स्वोत्पत्त्यधिकरणीभूतक्षणध्वंसानभ्तरमाविक्षणोत्पत्तिकत्वमित्यर्थः। तथा चाव्यवहितोत्तरत्वं ज्ञान एव, न तूत्पत्तौ। सर्वत्राव्यवहितोत्तरत्वस्य ज्ञान ए प्रतीतेरिति भावः। एतादृशमव्यवहितोत्तरत्वं क्वाप्यन्यत्र न दृष्टरमित्याशङ्क्याऽऽह-अत एवेति। निरुक्ताव्यवहितोत्तरत्वस्याऽऽनुपूर्वीव्यवहारप्रयोजकत्वादेवेत्यर्थः। घशब्दज्ञानानन्तरं यट्टशब्दज्ञानं तद्रूपा याऽऽनुपूर्वीत्यादिव्यवहारो वृद्धैनयायिकानां संगच्डत इति भावः। न कश्चिद्दोष इति। वर्णानां नित्यत्वेऽपि तदभिव्यक्तेरनित्यत्वेनैकवर्णाबिव्यक्त्यव्यवहितोत्तरत्वस्य वर्णान्तराभिव्यक्तौ सत्त्वाद घटादिपदप्रत्ययोपपत्तेः पदज्ञानस्यार्थबोधकारणतायाः सुवचत्वान्न कोऽपि दोष इत्यर्थः। परिमलकारोक्तं स्फोटखण्डनं निरस्यति एतेनेति। पौर्वापर्यरूपानुपूर्वीविशिष्टस्फोटस्य वाचकत्वसाधनेनेत्यर्थः। घटकलशादिपर्यायेष्वेक एव स्फोटो नाना वेति विकल्प्य न प्रथम इत्याह--नाऽऽद्य इति। नैकः स्फोट इत्यर्थः। एक एव स्फोट इति स्वीकारे दोषमाह-घटपद एवेति। घट इत्यानुपूर्वीविशिष्टपदाभिव्यक्ते स्फोट एवेत्यर्थः। कलशपदादिति। अगृहीतशक्तिकात्कलश, इत्यानुपूर्वीविसिष्टपदाभिव्यक्तस्फोटादित्यर्थः। अययर्थः-घटकलशादिपर्यायशब्दानां यदि एक एव स्फोटः स्यात्तर्हि घटशब्दाभिव्यक्तस्फोटे गृहीतशक्तिकस्य पुंसोऽप्रसिद्धकलशादिपर्यायश्रवणेऽपि प्रागगृहीतशक्तिकस्यैव स्फोटस्याप्रसिद्धकलशादिपर्यायेणाभिव्यक्त्याऽर्थप्रतीत्यापत्तेरिति। अर्थबोधप्रसङ्गादिति स्फोटस्यैक्येन घटपदाभिव्यक्ते स्फोटे शक्तिग्रहस्य जातत्वात्कलशपदाभिव्यक्तादपि अगृहीतशक्तिकात्स्फोटादर्थबोधप्रसङ्ग इत्यर्थः। वर्णसमुदायरूपपदस्य वाचकत्वमते तु नायं दोषः। तेन शब्देन बोधे जननीये तच्छक्तिग्रहस्य हेतुत्वात्। कलशशक्तिग्रहृरूपहेतोरसत्त्वान्न कलशपदादर्थबोधप्रसक्तिरिति भावः। घटशब्दाभिव्यक्तफोटे गृहीतशक्तिकस्य पुरुषस्य स्फोटैक्येऽपि अगृहीतशक्तिकात्कलशपदाभिव्यक्तस्फोटादर्थबोधापत्तिनिरासाय शङ्कते-नचेति। अर्थधीहेतुरितिः अर्थबोधकारणमित्यर्थः कीदृशः कार्यकारणभावस्तदाह-तत्पयायाभिव्यक्त इति। यादृशपर्यायाभिव्यक्तस्फोटे शक्तिग्रहः संजातः, तादृशपर्यायश्रवणे सति अभिव्यक्तस्फोटादर्थप्रतितिर्भवतीत्यर्थः। यथा घटरूपपर्यायाभिव्यक्तस्फोटेऽयं स्फोटः कम्बुग्रीवादिमद्वस्तृनो वाचक इत्येवं शक्तिग्रहः संवृत्तः, अतो घटमानयेति वाक्ये घटरूपपर्यायश्रवणसत्त्वादभिव्यक्तरफोटात्कम्बुग्रीवादिमद्वस्तुबोधो जायत इति युक्तमेव। वाक्ये यादृशपर्यायश्रवणमस्ति तादृशपर्यायाभिव्यक्तस्फोटे शक्तिग्रहृसत्त्वात्। यदि तु घटमानयेत्यस्य स्थाने कलशमानयेति वाक्यं प्रयुज्येत तर्हि वाक्ये यादृशपर्यायश्रवणमस्ति तादृशपर्यायाभिव्यक्तरफोटेऽयं कम्बुग्रीवादिमद्वस्तुनो वाचक इत्येवं शक्तेरगृहीतत्वेन शक्तिग्रहरूपकारणाभावान्न तस्मादर्थबोधप्रसङ्ग इत्यर्थः। एवमिति। वाक्ये यादृशपर्यायश्रवणमस्ति तादृशपर्यायाभिव्यक्तस्फोटे शक्तिग्रहस्यार्धबोधकारणत्वाङ्गीकार इत्यर्थः। अत्र स्फुट्यते वर्णैर्व्यज्यते इति व्युत्पत्त्या स्फोटशब्द शब्दपरौ बोध्य। शक्तिग्रहावश्यभावेनेति। अन्वयव्यतिरेकाभ्यां निरुक्तकार्यकारणभावस्य सिद्धत्वादित्यर्थः। तत्तत्पर्यायगतेति। घटात्मकपर्यायाभिव्यक्तस्फोटः कम्बुग्रीवादिमद्वस्तुनो वाचकः, तथा कलशात्मकपर्यायाभिव्यक्तस्फोटोऽपि कम्बुग्रीवादिमद्वस्तुनो वाचकः, इत्येवं तत्तत्पर्यायगता या शक्तिस्तद्ग्रहस्य कारणतोचितेत्यर्थः। तत्तत्पर्यायगतशक्तिग्रहस्यार्थबोधकारणताया उचितत्वे हेतुमाह-तथा सतीति। शक्तिग्रहत्वेनैवेति। तत्तत्पर्यायगतशक्तिग्रहत्वेनैवेत्यर्थः। लाघवाच्चेति। चो हेतौ। यतः कारणतावच्छेदकलाघवं भवतीत्यतो निरुक्तरूपेणैव कारणता वक्तुमुचितेति भावः। अन्यथेति। उक्तवैपरीत्ये निरुक्तरूपेणैव कारणता वक्तुमुचितेति भावः। अन्यथेति। उक्तवैपरीत्ये इत्यर्थः। वैपरीत्यमेव प्रदर्शयति-तत्तत्पर्यायाभिव्यक्तेति। तत्तत्पर्यायेणाभिव्यक्तो यः स्फोटस्तन्निष्ठशक्तिग्रहस्यार्थबोधहेतुत्वे कारणतावच्छेदकगौरवं भवति, पूर्वोक्तकारणतावच्छेदकापेक्षया एतत्कारणतावच्छेदकस्य गुरुभूतत्वादित्यर्थः। न द्वितीय इति। पर्यायस्थले नाना स्फोटा इत्येवं द्वितीयः पक्षोऽपि न युक्त इत्यर्थः। अयुक्तत्वे हेतुमाह-अनन्तेति। एकैकस्यानन्ताः पर्याया इति यावन्तः पर्यायास्तावन्ति पदानि कल्पनीयानीति पदानन्त्यं, तथाऽऽनन्तानां पदानां तत्तदर्थे शक्तिः कल्पनीयेति शक्त्यानन्त्यं च कल्पनीयमित्यतीव गौरवं भवतीति तदपेक्षया श्रवणेन्द्रियग्राह्यः क्लृप्ता ये वर्णास्तेष्वेव शक्तिः कल्पनीयेति लाघवं भवतीत्यर्थः। तस्माद्वर्मातिरिक्तस्फोटवादोऽयुक्त इति, परिमलोक्तमिति। परिमलकाराद्युक्तमित्यर्थः। आदिपदोपसंग्राह्यो न्यायरक्षामणिर्ग्रन्थः। अपास्तामिति। वर्णातिरिक्तस्फोटवादखण्डनं परिमलादिग्रन्थोक्तं निरस्तमित्यर्थः। घटेत्याद्यानुपूर्वीविशिष्टवर्णात्मकस्फोटस्य वाचकत्वाङ्गीकारादिति भावः। ननु पर्यायस्थले नानास्फोटपक्षेऽनेकशक्तिकल्पनं गौरवावहमित्याशङ्क्य समाधत्ते-सर्वसिद्धत्वादिति। अतिरिक्तस्फोटानङ्गीकर्तृनैयायिकादिमतेऽपि पर्यायभेदेन शक्तिभेदस्य सिद्धत्वादित्यर्थः। तथा च नैयायिकादिसर्वेषां शक्त्यानन्त्यस्य संमत्वेनातिरिक्तस्फोटवादिनामस्माकमुपरि शक्त्यानन्त्यं दोषत्वेन नोद्भावतनीयमिति भावः। समानप्रवृत्तिनिमित्तकत्वे सति विभिन्नानुपूर्वीकत्वं, अथवा शक्यतावच्छेदकैक्ये सति विभिन्नशक्ततावच्छेदकत्वं पर्यायत्वम्। यथा घटः कलश इति पर्यायः। ननु पर्यायस्थले स्फोटस्य नानात्वे गौरवं, एकत्वे तु कथं शक्तिबेद इत्याशङ्क्याऽऽहतदवच्छेदकेति। शक्ततावच्छेदकेत्यर्थः। तथा च स्फोटस्यैक्येऽपि शक्ततावच्छेदकानूपूर्वीभेदाच्छक्तिभेदो ज्ञेयः, शक्यतावच्छेदकभेदेन शक्यभेदवदिति भावः। प्रागुपपादनादिति। परं त्वव्यवहितोत्तरत्वं स्वज्ञानाधिकरणक्षणोत्पत्तिकज्ञानविषयत्वम्' इत्यादिसारीयग्रन्थेनोपपादितत्वादित्यर्थः। अतिरिक्तस्फोटसाधिकां कौस्तुभोक्तयुक्तिं प्रदर्शयन्नाह-कौस्तुभे त्विति। भट्टोजीदीक्षितोन्नीते शब्दकौस्तुभ इत्यर्थः। ननु स्मृतिकोस्तुभे संस्कारकौस्तुभे वेत्यादि बोध्यम्। वर्णमालायामिति। वर्णसमूह इत्यर्थः। पदमिति प्रतीतेरिति इदमुपलक्षणं वाक्यमिति प्रतीतेरित्यस्य। अतिरिक्त एवेति। वर्णातिरिक्त एवेत्यर्थः। समुदायस्य समुदायिव्यतिरिक्तत्वात्। अन्यथा पदमित्यादिप्रतीत्यनुपपत्तेः। वर्णानां प्रत्येकं पदरूपत्वाभावात्। उक्तरीत्या एकं पदमिति प्रतीत्यनुपपत्तेश्च। अन्यथेति। वर्णातिरिक्तस्फोटानङ्गीकारे इत्यर्थः। कपालातिरिक्तेति। पदमितिप्रतीतिर्बुद्धिस्था ये तावद्वर्णास्तानुद्दिश्य निर्वोढुं शक्येति न तादृशप्रतितिर्वर्णातिरिक्तस्फोटं कल्पयितुं प्रभवति प्रतीतेरन्यथासिद्धत्वादिति चेद्ब्रूषे तर्हि `घटः इति प्रतीतिरपि घटसमवायिकारणत्वेनाभिमततावत्कपालैरेव निर्वोढुं शक्यसंभवेति कपालाद्यतिरिक्तवटादेर्नैयायिकाद्यभिमतस्यासिद्धः प्रसज्येतेत्यर्थः। तस्मात्पदं वाक्यं चेति प्रतीतेरन्यतानुपपत्त्या कपालाद्यतिरिक्तघटादिवद वर्णातिरिक्तः स्फोटः तॉस्वीकार्य इति भावः।। 67 ।।
अथ व्याकरणशास्त्रस्य वैयर्थ्यमाशङ्क्य तत्साफल्यं प्रतिपादयन् भूमिकामारचयति-नन्वेवामिति। पदवाक्ययोरखण्डस्फोटयोरेव वाचकत्वाङ्गीकार इत्यर्थः। शास्त्राप्रामाण्येति। व्याकरणशास्त्रस्य पाणिन्यादिमुनित्रयप्रवर्तितस्याप्रामाण्यप्रसङ्गो नैष्फक्यं प्रसज्येतेत्यर्थः। पदस्य सुप्तिङन्तात्मकस्याखण्डत्वादिति भावः। शास्त्रस्येति। व्याकरणसास्त्रस्येत्यर्थः। प्रकृतिप्रत्ययाभ्यामिति। प्रकृतिर्भूधात्वादिः। प्रत्ययस्तिबादिः। तयोर्विधानेन पदसाधनैकफलकत्वादित्यर्थः। तथा च प्रकृतिप्रत्ययविभागेन पदपदार्थवाचकत्वप्रतिपादकस्यास्य शास्त्रस्याप्रामाण्यं स्यात्पदस्याखण्डत्वाङ्गीकार इति भावः। इत्याशङ्कां मनसि निधाय तामपाकर्तुमाह-पञ्चकोशादिवदिति। उपेयप्रतिपत्त्यर्था इत्यन्तेनेति एषाकल्पनेति। प्रकृतिप्रत्ययादिकल्पनेत्यर्थः। उपेयप्रतिपत्त्यर्था इत्यत्र वचनविपरिणामो लिङ्गविपरिणामश्च बोध्यः। कल्पनेत्यनेन सामानाधिकरण्यात्। एत्येतद्रूपो योऽन्तरतेनेत्यर्थः। उत्तरत्र यत इत्यध्याहार्यम्। यतो हेतोरुपेयप्रतिपत्त्यर्था उपाया अनवस्थिता अनियता भवन्तीत्यन्वयः। उपेयस्य-प्राप्यस्य, प्रतिपत्तिः प्राप्तिर्ज्ञानं वाऽर्थः। पञ्चकोशादिदृष्टान्तमुपपादयति-अयं भाव इत्यादिना। यथेति। भृगुवल्ल्यां भृगुर्वै वारुणिर्वरुणं स्वपितरं ब्रह्म पृष्टवान्। स वरुणोऽन्नमित्याचचक्षे। अन्नस्योत्पत्त्यादिकं समीक्ष्य पुनः पप्रच्छ। तत उत्तरयांबभूव-प्राणो ब्रह्मेति। तस्यातथात्वावघारणान्तरं पुनः प्रश्ने पुनराह-`मन इति तस्यापि `अशितमन्नं त्रेघा भवति, यत्स्थूलं तत्पुरीषं, यन्मध्यमं तन्मांसं, यदणीयस्तन्मनः' इति श्रुतावुत्पत्तिश्रवणात्पुनः प्रश्ने आह-विज्ञानमय इति। तस्यापि वृत्त्युपहितत्वेनातथात्वं बुद्ध्वा पुनः पृष्टवान्। ततः `आनन्दो ब्रह्म' इत्युत्तरिते कोशपञ्चकानन्तरं `ब्रह्मपुच्छं प्रतिष्ठा' इति ज्ञयं ब्रह्म प्रतिपादितम्। तत्र पञ्चकोशव्युत्पादनं शुद्धव्रह्मावगमयितुमित्यर्थः यथाऽऽनन्दवल्ल्यामन्नप्राणेति आनन्दशब्दान्तो द्वंद्वः। ततः प्राचुर्याद्यर्थे मयट्। तस्य प्रत्येकं संबन्धः। द्वंद्वान्ते श्रूयमाणं प्रत्येकं संबन्धते, इति न्यायात्। तथा चान्नमयप्राणमयमनोमय विज्ञानमयानन्दमयात्मका ये पञ्च कोशाः शुद्धब्रह्मज्ञानोपायभूतास्तेषां व्युत्पादनं प्रतिपादनमित्यर्थः। अत्राऽऽनन्दमयपदं न मुख्यब्रह्मपरमपितु जीवपरम्। `ब्रह्मपुच्छं प्रतिष्टा' इत्यत्र श्रूयमाणं ब्रह्मपदमेव तु मुख्यब्रह्मसमर्पकम्। अत एव जगदाधारत्वार्थकपुच्छशब्दोपपत्तिः। लाङ्गूलात्मकमुख्यार्थस्य तत्र बाधात्। एतदाशयेनाऽऽह-वास्तवमिति। कालत्रयाबाधितं यत्पुच्छं जगदाधारभूतं यद्ब्रह्म तद्बोघनायेत्यर्थः। एतस्य जगदाधारभूतमुख्यब्रह्मणो वास्तवत्वौक्त्या पञ्चकोशानामवास्तवत्वमावेदितं, तच्च शारीरकभाष्यादौ स्पष्टमेव। एतद्दृष्टान्तेन सिद्धं प्रकृतोपयुक्तमर्थमाह-एवमिति। अत्रापि स्फोटस्य वास्तवत्वकथनेन प्रकृतिप्रत्ययादिविभागकल्पनाया अवास्तवत्वं सूचितम्। ननु स्फोटज्ञाने व्याकरणशास्त्रं नानन्यतासिद्ध उपायः, तपन्तरेणापि तज्ज्ञानसंभवादित्याशङ्कते नन्वित्यादि। प्रत्यक्षस्येति। शब्दस्य श्रवणेन्द्रियग्राह्यत्वाप्रत्यक्षत्वमित्यर्थः। श्रवणादिति इति। आदिशब्देन मननग्रहणम्। बोधसंभवादिति। तथा चव्यायरणशास्त्रं विना प्रकारान्तरेणापि बोधसंभवान्न व्याकरणशास्त्रं तज्ज्ञानोपाय इत्यत आह-उपायाः शिक्षमाणानामिति। उपायस्योपायान्तरादूषकत्वे युक्तिं सदृष्टान्तां प्रदर्शयन्नाह तथा च व्याकरणेति। अत्र वदन्ति-नैतद्व्याकरणशास्त्रं स्फोटज्ञानार्थं पञ्चकोशवदुपायः, सास्त्रज्ञानं विनाऽपि गामानयेति वाक्यमात्रव्युत्पन्नस्य पामरादेरपि शाब्दबोधानुभवात्। ततश्च तस्य स्फोटज्ञानं विना बोधोपपत्तेस्तज्ज्ञानं च शास्त्रमन्तरेणेति व्याकरणसास्त्र-स्फोटज्ञानयोः कार्यकारणभावाव्यभिचार इत्याशङ्क्याऽऽह-वैजात्यं कल्प्यत इति। व्याकरणाभ्यासजन्यतावच्छेदकतया सिद्धजातिविशेषरूपं कल्प्यत इत्यर्थः। तथा च कार्यतावच्छेदकभेदान्न दोषः। तत्र दृष्टान्तमाह-मन्त्रजन्यमिवेति। यथा प्रयोगसमवाय्यर्थस्मरणस्य नानोपायसाध्यत्वाद्यदा मन्त्रं परित्यज्य प्रकारान्तरेणार्थं सिस्मूर्षति तदा मन्त्रैणैवार्थः स्मरणीय इति नियम्य मन्त्रजन्यार्थस्मृतौ वन्त्रजन्यतावच्छेदकतया सिद्धजातिविशेषरूपं वैजात्यं मीमांसकैः परिकल्पितं तद्वदत्रापीति भावः। बेदान्तेति। अथका भाषाग्रन्थश्रवणेनापि ब्रह्मज्ञानस्योत्पत्तेः संभवात्तत्र व्यभिचारवारणाय वेदान्तश्रवणजन्यतावच्छेदकतया सिद्धज्ञानस्योत्पत्तेः संभवात्तत्र व्यभिचारवारणाय वेदान्तश्रवणजन्यतावच्छेदकतया सिद्धजातिविशेषरूपं वैजात्यं यथा वेदान्तिभिः कल्पितं तद्विदिति भावः। तादृशज्ञानस्योपयोगमाह-तस्य च ज्ञानस्येति। व्याकरणशास्त्राब्यासजन्यस्फोटज्ञानस्येत्यर्थः। शरीरशुद्धाविति। यथा ज्योतिष्टोमादियागानामन्तःकरणशुद्धावुपयोगस्तथा स्फोटज्ञानस्य शरीरादिशुद्धावुपयोग इत्यर्थः। शरीरादीत्यादिपदेन वाङ्मनसयोः संग्रहः। एवं च शास्त्रस्य न वैयर्थ्यमिति भावः। साक्षादिति। साक्षात्स्वर्गहेतुत्वं परम्परया तु मोक्षहेतुत्वं चेत्यर्थः। णयं भावः-भाषासंस्कृतसाधारणः स्फोट एव वाचकः, तज्ज्ञानं च श्रौत्रप्रत्यक्षादिरूपमपीति सत्यम्। किंतु वर्मवत्प्रकृतिप्रत्ययापन्नोऽपि स एव। एवं च प्रकृतिप्रत्ययादिभिर्व्युत्पादनपूर्वकं तज्ज्ञानं तत्पूर्वकप्रयोगद्वारा शारीरशुद्धिहेतुर्यज्ञादिरिवान्तःकरणस्येति। उक्तेऽर्थे वाक्यपदीयं प्रमामयति-तदुक्तमिति। तद्द्वारमिति। तत्-स्फोटाभिधायकं व्याकरणसास्त्रम्। अपवर्गस्येति। मोक्षस्य मोक्षोऽपवर्गोऽर्थेत्यमरात्। द्वारमिति। तद्धेतुर्द्वारमिव द्वारमित्यर्थः। हेतुरूपं विशेषणं-वाङ्मलानां चिकित्सितमिति। चिकित्सा संजाता यत्रेत्यर्थः। `कितेर्व्याधिप्रतीकार' इति सन्नन्तात्क्तप्रत्यये वाङ्मलानामपनयनकर्त्रिति पर्यवसितोऽर्थः। अधिविद्यमिति। विभक्त्यर्थेऽव्ययीभावः। सर्वविद्यानां मध्येऽतिपवित्रत्वात्प्रकर्षेण प्रकाशत इत्यर्थः। इदमिति। पाथिन्यादिमहर्षिप्रवर्तितत्वादति पवित्रं व्याकरणसास्त्रमित्यर्थः। सिद्धिसोपानेति। सिद्धेर्मोक्षस्य यानि सोपानपर्वाणि तेषां मध्ये प्रथमं पदस्थापनस्थानमित्यर्थः। इयमिति। मोक्षेच्छूनां जनानां सरला राजपद्धती राजमार्ग इति यावत्। अत्रेति। स्फोटात्मक इत्यर्थः। अतीतेति। अतीतो विपर्यासो भ्रमो यस्येत्यर्थः। भ्रान्तिसून्य इति यावत्। केवलामिति। पराख्यां वाचमित्यर्थः। अनुपश्यतियोगजन्यशक्त्या साक्षात्करोति। ननु प्रकृतिप्रत्ययविभागस्य काल्पनिकतया शशविषाणायमानत्वेन नैव तेन स्फोटात्मकवस्तुज्ञानसंभव इत्याशङ्कते-न चालीकयेति। कथं वास्तवेति। अलीकमृगजलस्य वास्तवपिपासानिवृत्तिजननादर्शनादलीकप्रकृत्यादिकल्पनया वास्तवस्फोटप्रतीनिर्न संभवतीति भावः। तस्याः-प्रकृत्यादिकल्पनायाः। अलीकत्वासिद्धेरिति। पञ्चकोशादिवन्मायिकत्वेऽपि नात्यन्तासच्छशविषाणवत्तुच्छत्वमिति भावः। वक्ष्यभाणत्वादिति। `अनेकव्यक्त्यभिव्यङ्ग्या' इत्यादिकारिकया सदसद्वैलक्षण्यस्य पञ्चकोशानामिव सूचयिष्यमाणत्वादित्यर्थः। पञ्चकोशादित्यादिपदेन रेखागवयन्यायः संगृह्यते। यथा मित्त्यादौ तिर्यगादिरेखाभिश्चित्रितेन गवयाकारेण व्यावहारिकसत्यगवयस्य ज्ञानं जायत इति लोके प्रसिद्धं तद्वदलीकया प्रकृत्यादिकल्पनयाऽपि वस्तुसतः स्फोटस्य यथावस्ज्ञानं न कथमप्यसंयवीति सर्वमनवद्यमिति भावः।। 68 ।।
स्वीकारस्थलमाह-स्वरदैर्घ्याद्यपीति। आदिनोत्पत्तिविनाशादिसंग्रहः। उदात्तत्वादि न वर्णनिष्ठं तस्यैकत्वान्नित्यत्वाच्च। तच् स एवायमिति प्रत्यभिज्ञानात्। न च गत्वावच्छिन्नप्रतियोगिताकभेदाभावस्तद्विषयो न्यक्त्यंशाभेदस्यापि भासमानस्य विना बाधकं त्यागायोगात्। न चोत्पत्तिप्रतीतिवर्बाधिका। प्रागसत्त्वे सति सत्त्वरूपाया उत्पत्तेर्वर्णेष्वनुभवविरुद्धत्पात्। अत एव वर्णमुच्चारयतीति प्रत्ययो न तूत्पादयतीति प्रत्ययो व्यवहारश्च। उच्चरित्त्वं च ताल्वोष्ठ्संयोगादिजन्यभिव्यक्तिविशिष्टत्वम्। किं च-व्यञ्जकध्वनिनिष्ठोत्पत्त्यादेः परम्परया वर्मनिष्ठत्वविषयत्वेनाप्युपपत्तेर्न साऽतिरिक्तवर्णसाधिका। परम्परया वर्मनिष्ठत्वाभ्युपगमाच्च न भ्रमत्वम्। साक्षात्संबन्धांशे भ्रम इत्यवशिष्यते। तदपि सोऽयमित्यत्र व्यक्त्यभेदांशे तव भ्रमत्ववत्तुल्यम्। परं तु ममातिरिक्तवर्णतत्प्रागभावध्वंसकल्पना नेति लाघवमतिरिच्यते। न च वर्मस्थले ब्वनिसत्तेव मानाभावः। तदुत्पादकशङ्खाद्यभावेन तदसंमवश्चेति वाच्यम्। ककाराद्युत्चारणस्थले तत्तत्स्थानस्य जिह्वाया ईषदन्तरपादे वर्मानुत्पत्तेर्ध्वन्युत्पत्तेश्च दर्शनाज्जिह्वाभिघादजवायुकण्ठसंयोगादेर्ध्वनिजनकत्वकल्पनात्। तस्य च वणोंत्पत्तिस्थलेऽपि सत्त्वात्तवैव प्रतिबन्ध्यप्रतिबन्धकभावकल्पना निष्प्रमाणिकी(का)स्यादिति विपरीतं गौरवमेवं परस्परविरोधादुदात्तत्वानुदात्तत्वह्रस्वत्वदीर्घत्वादिकमपि न वर्णनिष्ठं युक्तमिति तेषामभिप्रायः। एवं चोत्पत्त्यादिप्रतीतीनां तत्प्रमात्वस्य च निर्वाहः परेषामपि समान इति प्रतिबन्द्यैवोत्तरमिति भावः।। 10 ।।(69)
इत्थं पञ्धा व्यक्तिस्फोटाः। जातिस्फोटमाद्द-
शक्यत्व इव शक्तत्वे जातेर्लाघवमीक्ष्यताम्।
ओपाधिको वा भेदोऽस्तु वर्णानां तारमन्दवत्।। 11 ।।(70)
अयं भावः-वर्णास्तावदावश्यकाः उक्तरीत्या च सोऽयं गकार इतिवद्योऽयं गकार िति श्रुतः सोऽयं हकार इत्यपि स्यात्। स्फोटस्यैकत्वात्। गकारोऽयं न हकार इत्यनापत्तेश्च। किं च स्फोटे गत्वाद्यम्युपेयं न वा। आद्ये स एव गकारोऽस्तु वर्णनित्यतावादिभिरतिरिक्तगत्वानङ्गीकारात्। तथा चातिरिक्तस्फोटकल्पन एव गौरवम्, अन्त्ये गकारादिप्रतीतिविरोधः। वायुसंयोगवृत्तिघ्वनिवृत्ति वा वैजात्यमारोप्य तथा प्रत्यय इति चेत्। न। प्रतीतेर्विना बाधकं भ्रमत्वासंमवात्। अस्तु वा वायुसंयोग एव गकारोऽपि तस्यातीन्द्रियत्वं दोष इति चेद्धर्मवदुपषत्तेरिति कृतं स्फोटेन। तस्मात्सन्त्येव वर्णाः परं तु न वाचका गौरवात्। आकृत्यधिकरणनयायेन जातेरेव वाच्यत्ववद्वाचकत्वस्यापि युक्तत्वाच्च। इदं हरिपदमित्यनुगतप्रतीत्या हर्युपस्थितित्वावच्छेदेन हरिपदज्ञानत्वेन हेतुत्वात्तदवच्छेदकतया च जातिविशेषस्यावश्यकल्प्यत्वात्। न च वर्णानुपूर्व्यैव प्रतीत्यवच्छेदकत्वयोर्निर्वाहः, घटघटत्वादेरपि संयोगविशेषविशिष्टमृदांऽऽकारादिभिश्चान्यथासिद्ध्यापत्तेः तस्मात्सा जातिरेव वाचिका तादात्म्येन तदवच्छेदिका चेति। ननु सरो रस इत्वादौ तयोर्जात्योः सत्त्वादर्थभेदबोधो न स्यादित्यत आह-औपाधिको वेति। वा त्वर्थे। उपाधिरानुपूर्वी सैव जातिविशेषाभिव्यञ्जिकेति भेदः कारणीभूतज्ञानस्येति नातिप्रसह्ग इति मावः। उपाधिप्रयृक्तज्ञानवैलक्षण्ये दृष्टान्तमाह-वर्णानामिति।। 11 ।।(70)
ननु जाते प्रत्येकं वर्णेष्वपि सत्त्वात्प्रत्येकादर्थबोधः स्यादित्यत आह-
अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता।
कैश्चिद्व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः।। 12 ।।(71)
अनेकाभिर्वर्मव्यक्तिभिरभिव्यक्तैव जातिः स्फोट इति स्मृता। योगार्धतया बोधिकेति यावत्। एतेन स्फोटस्य नित्यत्वात्सर्वदाऽर्थबोधापत्तिरित्यपास्तम्। अयं भावः-यद्यपि वर्मस्फौटपक्षे कथितदोषोऽस्ति तथाऽपि पदवाक्यपक्षयोर्न, तत्र तस्या व्यासज्यवृत्तित्वस्य धर्मीग्राहकमानसिद्धत्वादिति कैश्चिव्द्यक्तयो ध्वनय एव ध्वनिवर्णयोर्भेदाभावादित्यभ्युपेयन्त इति शेषार्थः। उक्तं हि काव्यप्रकारे--"बुधैर्वैयाकरणैः प्रधानीभूतस्फोटव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः" इति।। 12 ।।(71)
ननु का सा जातिस्तत्राऽऽह-
सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ।
सत्यं यत्तत्र सा जातिरसत्या व्यक्तव्यो मताः।। 13 ।।(72)
प्रतिभावं प्रतिपदार्थं सत्यांशो जातिरसत्या व्यक्तयः। तत्तद्व्यक्तिविशिष्टं ब्रह्मैव जातिरिति भावः। उक्तं च कैयटेन-"असत्योपाध्यवच्छिन्नं ब्रह्मतत्त्वं द्रव्यशब्दवाच्यमित्यर्थः" इति। "ब्रह्मतत्त्वमेव शब्दस्वरूपतया भाति" इति च। कथं तर्हि ब्रह्मदर्शने च गोत्वादिजातेरप्यसत्त्वादनित्यत्वम्, आत्मैवैदं सर्वमिति श्रुतिवचनादिति कैयटः संगच्छताम्। अविद्याऽऽविद्यको धर्मविशेषो वेति पक्षाब्तरमादायेति द्रष्टव्यम्।। 13 ।।(72)
तमेव सत्यांशं स्पष्टयति-
इत्थं निष्कृष्यमाणं यच्छब्दतत्त्वं निरञ्जनम्।
ब्रह्मैवेत्यक्षरं प्राहुस्तस्मै पूर्णात्मने नमः।। 14 ।।(73)
इति भट्टोजिदीक्षितविरचितकारिकासु पदादिस्फोटनिरूपणम्)
।। समाप्तः स्फोटवादः ।।
।। इति भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः समाप्ताः ।।
अयं भावः-"नामरूपे व्याकरवाणि" इतिश्रुतिसिद्धा द्वयी सृष्टिस्तत्र रूपस्येव नाम्नोऽपि तदेव तत्त्वम्। प्रकियांशस्त्वविद्याविजृम्भणमात्रम्।
उक्तं च वाक्यपदीये-
"शास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यते।
समारम्भस्तु भावानामनादि ब्रह्म शाश्वतम्" इति।।
ब्रह्मैवेत्यनेन "अत्रायं पुरुषः स्ववंज्योतिः" "तमेव मान्तभनुभाति सर्वम्" तस्य भासा सर्वमिदं विभाति" इतिश्रुतिसिद्भं स्वपरप्रकाशत्वं सूचयन्स्फुटत्यर्थोऽस्मादिति स्फोट इति यौगिकं स्फोटशब्दाबिधयत्वं सूचयति। निबिंघ्नप्रचयान्ते मङ्गलं स्तुतिनतिरूपमाह-पूर्णात्मन इत्यादिना।। 73 ।।
इति वैयाकरणभूषणसारव्याख्यायां शांकर्यामष्टस्फोटनिरूपणम्।
रङ्गभट्टतनूजेन शंकरेम विनिर्मिते।
सारीयेऽस्मिन् विवरणे पूर्णः स्फोटविनिर्णयः।। 17 ।।
।। अथ स्फोटचन्द्रिका ।।
पित्रोः पादयुग नत्वा जानकांरघुनाथयोः।
मौनिश्रीकृष्णभट्टेन तन्यते स्फोटचन्द्रिका।। 1 ।।
शाब्दिकानां वाच्यलक्ष्यव्यङ्ग्यार्थप्रतिपादकानां ताचकलाक्षणिकव्यञ्जकानां शब्दानां तन्निष्ठजातेर्वा स्फोट इति व्यवहारः। स्फुटति अर्थो यस्मादिति व्यत्पत्त्या पङ्कजादिवद्योगरूढः स्फोटशब्दः। केवलयोगस्वीकारे वाच्यलक्ष्यव्यङ्ग्यानां चेष्ठायाश्च व्यङ्ग्यार्थप्रतिपादकत्वेन तत्रातिव्याप्तेः। न च वाचकादिपर्यायः स्फोटशब्दोऽप्रसिद्धः। `अक्षराणामकारस्त्वं स्फोटस्त्वं वर्णसंश्रयः' इति हरिवंशे दृष्टत्वात्। तथा च वर्णपदवाक्याखण्डपदाखण्डवाक्येति पञ्च व्यक्तिस्फोटाः। शक्यतावच्छेदिकाया जातेर्याच्यत्ववत् शक्ततावच्छेदिकाया जातेर्वाचकत्वमिति मते वर्मपदवाक्यभेदेन त्रिविधो जातिस्फोटः। एवं चाष्टौ स्फोटाः। यथा-आनन्दवल्लयां शुद्धब्रह्मज्ञानार्थमन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयेति पञ्चसु कोशेषु अपारमार्थिकब्रह्मत्वप्रतिपादनमुपायः। यथा वा-अरुन्धतीज्ञानार्थं स्थूलनक्षत्रे अपारमार्थिकारुन्धतीत्वबोधनम्। तथा पारमार्थिकाखण्डवाक्यबोधार्थमेते वर्णपदवाक्याखण्डपदस्फोटा उपायाः। तदुक्तम्-उपायाः शिक्षमाणानां बालानामुपलालनाः। असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते। इति। सुप्तिङन्तं पदमिति एकतिङन्तार्थमुख्यविशेष्यकं वाक्यमिति पदवाक्यलक्षणानाक्रान्तवर्णसमूहस्य वर्णस्य वा प्रकृतिप्रत्ययरूपस्य व्याकरणेन गृहीतशक्तिकस्य पत् पित् इत्यादिकस्य वाचकत्वे वर्मस्फोटः। ते च प्रयोगसमवायिनः विसर्गतिबादयः। न तु तत्स्थानित्वन कल्पिता लकारसकारादयः। तेषामनियतत्वात्। तथा हि-विसर्गेण रोः स्मरणं तेन सोः। एवं णला तिपः स्मरणं तेन लकारस्य। एवं च गौरवं स्पष्टमेव। किं च स्थान्यादेशज्ञानशून्यस्यावैयाकरणस्याऽऽदेशमात्रदबोधापत्तेश्च। एवं च स्थान्येव वाचको लाघवात्, न त्वादेशो गौरवादिति तार्किकोक्तमपास्तम्। विपरीतगौरवापत्तेः। अयं तार्किकाणां पदस्फोटत्वेनाभिमतः। शक्तं पदमिति तैः स्वीकृतत्वात्। तच्च मानाभावात् फलाभावात्स्वग्रन्थविरोधाच्चायुक्तमिति शाब्दिकाः। तथा हि शक्तं पदं चतुर्धा रूढं यौगिकं योगरूढं यौगिकरूढं चेति। गौः पाचकः पङ्कजमश्वकर्ण इति क्रमेणोदाहरणानि। तत्र पाचक इति यैगिकोदत्हरणे यच्छक्तं पदं पच् अक इति न तद्यौगिकं, समुदायस्तु यद्यपि यौगिकस्तथापि न शक्तः। एवं च शक्तं पदं यौगिकमित्यविचारिताभिधानम्। विशिष्टशक्त्यभावे सति व्याकरणबोधितार्थप्रकृतिप्रत्ययसमुदायरूपसुबन्ततिङन्तपदत्वं यौगिकपदत्वम्। सत्यन्तं योगरूढातिव्याप्तिवारणाय। तत्र विशिष्टे शक्तिग्रहात्। एवं गौरिति रूढ्रयुदाहरणमप्यसंगतम्। व्याकरणकल्पितप्रकृतिप्रत्ययार्थप्रत्ययाभावे सति समुदायसुबन्तस्यार्थबोधकत्वे रूढपदत्वं यथा मणिनूपुरादीति रूढिलक्षणानाक्रान्तत्वात्। शास्त्रकल्पितावयवार्थानुसंबानपूर्वकसमुदायशक्त्याऽर्थबोधकपदत्वं योगरूढत्वम्। यथा पङ्गजादीति तदाक्रान्तत्वाद्योगरूपढत्वं युक्तम्। यौगिकरूढ इति तार्किकोक्तो भेदोऽपि न युक्तः। सकृदुच्चरितः सकृदर्थं प्रत्याययति इति न्यायान्मण्डपपदं गृहविशेषे रूढं भिन्नं मण्डपानकर्तरि भिन्नमिति अतिरिक्तबेदस्वीकारे मानाभावात्। एवं रूढिलक्षणायाः कर्मणि कुशल इत्युदाहरणमप्ययुक्तम्। उक्तरीत्या कुशले रूढत्वस्य कुशादानकर्तरि यौगिकत्वस्य संभवात्। द्विरेफपदं भ्रमरे रूढमेव। कोशे भ्रमरपर्याये उपादानात् नहि कोशे लाक्षणिकोपादानं पर्यायेष्वस्ति। एवं च स्ववाच्यपदवाच्यत्वसंबन्धेन द्विरेकपदस्य भ्रमरे एकाक्षरकोशावधृतशक्तिकानां सर्वेषां वर्णानामेव स्फोटत्वम्। अर्थवन्तो वर्णा इत्यनेन भाष्ये तथा प्रतिपदानात्। न चैवं धनं वनमित्यादौ प्रातिपदिकसंज्ञानापत्तिः। समुदायशक्तेः स्वश्रयशक्ततावच्छेदगकानुपूर्वीभङ्गजनकार्थकार्यं प्रति प्रतिबन्धकत्वात्। यत्तु भूषणे स्फुटति अर्थो यस्मादिति स्फोटः वाचक इति यावत् इति केवलयौगिकः स्फोटशब्द उक्तः। तन्न सम्यक्। साधुशब्दानामिवासाधुशब्दानामपि शक्तिसत्त्वेन वाचकत्वाविशेषांत्स्फोटत्वापत्तेः। न चेष्टापत्तिः। शाब्दिकैस्तथाऽनङ्गीकारात्। लाक्षणिकव्यञ्जकयोरसंग्रहापत्तेः। न च शब्दोऽत्र व्यञ्जकस्त्रिधेति अत्रग्रहणात् काव्य एव व्यञ्जकः, न व्याकरणे इति भ्रमितव्यम्। पदेन स्फोटोऽखण्टो व्यज्यत इति वदद्भिस्तत्स्वीकारात्। ननु तार्किकमते ईश्वरेच्छा शक्तिः। मीमांसकमते अतिरिक्ता पदार्थान्तरं, नवीनतार्किकैरीश्वरेच्छा ज्ञानं वाऽऽकृतिर्वेति विनिगनाविरहान्मीमांसकमतेवाङ्गीकृतम्। उभयथाऽपि साधुष्वेव सा नासाधुषु। अन्यथा शक्तिमत्त्वं साधुत्वमिति साधुत्वलक्षणाक्रान्तत्वेनासाधूनामपि साधुत्वापत्तेः। शक्तिग्रहकव्याकरणकोशादेरभावाच्चेति चेन्न। तत्र शक्त्यभावेन तेभ्यो बोधानापत्तेः। न च शक्तिभ्रमात्साधुशब्दस्मरणाद्वाबोध इति तार्किकोक्तं युक्तम्। साधुशब्दस्मरणं विनाऽपि व्युत्पन्नानामपि बोधस्यानुभवसिद्धत्वात्, गौरवाच्च। भ्रमाद्बोध इत्यपि न। रजतभ्रमाद् गृहीतायाशुक्ते रजतव्यवहारानाधायकत्ववच्छक्रिभ्रमाज्ज्ञातबोधस्यापि व्यवहारानाधायकत्वापत्तेः। सन्मात्रविषयिण्या ईश्वरेच्छायास्तत्र अभावस्य वक्तुमशक्यत्वात्। किं च शक्तिभ्रमः कस्य? सर्वव्यवहारकर्तुरिश्वरस्योतान्यस्य। नाऽऽद्यः। ईश्वरस्य भ्रमित्वानुपपत्तेः। नान्त्यः-सर्गादौ प्रयोज्यप्रयोजकास्वरूपसाध्वसाधुशब्दव्यवहारकर्त्रीश्वरादन्यस्याभावात्। यथा पुण्यपापोभ्यजनिकार्थसृष्टिरीश्वरकर्तृका तथैव साध्यसाधूभयविधशब्दसृष्टिरपीश्वरकर्तृकैव। तथा च भ्रम इत्ययुक्तमेव। न च तटस्थबालस्यानुमितिभ्रमः साधुशब्दे सा वाऽसाधुशब्देष्वपि। शक्त्यनुमापकसामग्रीसत्त्वेन बाधकाभावेन च भ्रमत्वायोगात्। नन्वसाधुष्वपि शक्तिस्वीकारे शक्तिमत्त्वं साधुत्वमिति तार्किकलक्षणाक्रान्तत्वात् साधुत्वापत्तिः। तथा च न ध्लेच्छितवै नापबाषितवै' इति निषेधानवकाश इति चेन्न। लाक्षणिकानामसाधुतापत्तेः। न च वृत्तिमत्त्वं तत्। शक्तिलक्षणान्यतरत्वनिवेशे गौरवात्। तस्मात्पुण्यजनकतावच्छेदकजातिविशेषः साधुत्वं प्रत्यवायजनकतावच्छेदकश्चासाधुत्वम्। यद्वा व्याकरणबोध्यत्वं साधुत्वं तद्भिन्नत्वमसाधुत्वम्। तथा चैकः शब्दः सम्यग्ज्ञातसुप्रयुक्तः स्वर्गे लोके कामधुक् भवतीति व्याकरणेनार्थविशेषे प्रकृतिप्रत्ययेन व्युत्पादित इति ज्ञातः। तादृशार्थविशेषे प्रयुक्तः। तेन गौणीशब्दस्य गोण्यामेव साधुत्वं न गवि। विनिगमनाविरह इत्यपि न युक्तम्। अन्यतरपक्षपातिनी युक्तिर्हि विनिगमनां। सा च ज्ञानस्य पूर्वभिव्यक्तिरूपा प्रकृतेऽस्ति। अत एवेश्वरज्ञानं शक्तिरिति वर्धमानोपाध्यायाः। शाब्दिकास्तु बोधजनकत्वं शक्तिः। तच्चानादिबोधजनकतावच्छेदकधर्मवत्त्वम्। तदुक्तं हरिणा-इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा। अनादिरर्थैः संबन्धः शब्दानां योग्यता तथा इति। तज्जनकतावच्छेदकधर्मवत्त्वरूपा योग्यता। न चागृहीतशक्तिकस्य शाब्दबोदानुदयाच्छाब्दबोधे शक्तिग्रहस्य हेतुत्वात् बोधोत्तरं शक्तिग्रहः शक्तिग्रहोत्तरं बोध इति अन्योन्याश्रयः। व्याकरणकोशादिना शक्तिग्रहात्। अन्यथेश्वरेच्छा शक्तिरिति पक्षेऽपि शक्तिग्रहोत्तरं बोधः, बोधोत्तरं शक्तिग्रह इति अन्योन्याश्रयस्य तुल्यत्वात्। यद्वा शब्दार्थयोरनादिसंबन्धः शक्तिः। मम तु प्रतिभाति शक्तिः सामर्थ्य यथा दीपादौ तेजसि ग्राह्यत्वग्राहकत्वसामर्थ्यं वह्न्यादौ दाहकत्वसामर्थ्यं, इन्द्रियादौ विषयप्रकाशनं तत्स्वरूपसदेव उपयुक्तं न तु ज्ञातम्। न चागृहीतशक्तिकस्यापि बोधापत्तिः। संनिकर्षादिवत् बोधाभावप्रयोजकीभूताभावप्रतियोगितात्पर्यग्रहाभावात्। न च नानार्थेष्वेव तात्पयंग्रहस्य कारणत्वमिति चेत् सत्यम्। शाब्दिकमते सर्वेषां नानार्थत्वात्। अत एव वृद्धिरादैच् इति सूत्रे भाष्येऽनेकशक्तेः शब्दस्येत्युक्तम्। अनेकेष्वनेका वा शक्तिरस्येति विग्रहः। अवच्छेदकभेदै शक्तिभेद इति तार्किकादिसिद्धान्तः। लाघवाच्छक्तिरेकैवेति जाब्दिकसिद्धान्त-। न चान्यायश्चानेकार्यत्वमिति वाच्यम्। भवन्मतेऽपि तुल्यत्वात्। एतावान् परं भेदः-त्वन्मते वृत्तिभेदेन, मन्मते तु एकया वृत्त्या। न च लक्षणोच्छेदापत्तिः। इष्टत्वात्। यथा भवद्भिः सर्वानुभवसिद्धाऽपि व्यञ्जना लाघवान्न स्वीक्रियते। तत्र च व्यञ्जनोच्छेदापत्तेरदूषकत्ववन्मन्मतेऽपि लाघवाच्छक्त्यैव निर्वाहे लक्षणोच्छेदापत्तेरदूषकत्वात्। वस्तुतः एतवृत्त्यैव निर्वाहे अनेकवृत्तिकत्वमन्याय्यमित्येव तदर्थः। अर्थपदस्य वृत्तिपरत्वात्। अन्यायश्चेत्यस्य लाघवमूलकत्वात्। न चानन्यलभ्यः शब्दार्थ इति वाच्यम्। तस्य लक्षणया लभ्ये शक्तिकल्पनमन्याय्यमिति नार्थः किं तु संसर्गमर्यादया सिद्धे शक्तिकस्पनमयुक्तमिति तदर्थात्। एवं च शाब्दिकानां शब्दवदू वन्हौ। अतिरिक्तशक्तिस्वीकारः। तार्किकाणां तु शब्देशक्तिस्वीकारः, वन्हौ तु नेत्यर्धजरतीयस्वीकारोऽनुचितः। न चोत्तेजकाभावविशिष्टमण्यभावेनोपपत्तौ तत्स्वीकारो व्यर्थ एवेति वाच्यम्। गुरूमुतविशिष्टस्य कारणतावच्छेदकत्वस्वीकारापेक्षया लघुभूतस्वीकृताविरिक्तशक्तिसंबन्धस्यैवोचितत्वात्। किं च शाब्दिकमते भेदसहिष्णुरभेदस्तादात्म्यम्। मुणत्वद्रव्यत्वादिना भेदेऽपि गुणं विना द्रव्यानुपलम्भात् द्रव्यं विना गुणानुपलम्भाच्च तयोस्तादात्म्यम्। एवं च समवायो यत्र तत्र तादात्म्यमिति व्यवहारः। तथा च तैर्गुणं प्रति घटस्य पूर्ववर्तित्वासंभवेन कारणत्वाबावादन्यथानुपपत्त्या विशिष्टस्यैव कारणतावच्छेदकत्वमङ्गीकृत्य गुणविशिष्टघटं प्रति गुमविशिष्टकपालस्य कारणत्वमिति स्वीकृतम्। तार्किकैस्तु विशिष्टस्य कारणतानवच्छेदकत्वाद्विशिष्टस्य कारणत्वासंभवान्निर्गुणघटोत्पत्तिः स्वीकृता, तत्र च गुणाश्रयत्वरूपद्रव्यत्वलक्षणानाक्रान्तत्वात् गुणसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वमिति निष्कर्षः कृतः सोऽयुक्त इति मम भाति। तथा हि-प्रतिबन्धोत्तेजकाभ्यां वन्हौ ज्ञाताऽपि शक्तिरुत्तेजकाभावविशिष्टमण्यभावस्य कारणत्वं स्वीकृत्यातिरिक्ता शक्तिः खण्डिता शब्दे च सा स्वीकृता। एवं विशिष्टस्य तत्र अवच्छेदकत्वं स्वीकृत्येह नेत्युक्त्वा खपुष्पवन्निर्गुणघटोत्पत्तिः स्वीकृता। सर्वेषामनुभवानारूपढत्वादेतत्सर्वमयोग्यमिति दिक्। शाब्दिकैस्तु शब्दवद वन्हौ कर्णविवरवार्तिनभसि चातिरिक्ता शक्तिः स्वीकृता सैव श्रोत्रं शक्तिविशिष्टं नभो वा। एवं च दूरस्थभेरीशब्दस्य स्वस्थानस्थितस्यैव श्रोत्रस्य दीषवत् प्रकाशनसामर्थ्यम्। एवं च वीचीतरङ्गन्यायेन भेरीशब्दस्य श्रवणदेशागमनमिति न मनोरमम्। साक्षाद्भेरीशब्दं शृणोमीत्यनुभवापलापापत्तेः। अनेकशब्दकल्पने गौरवाच्च। भ च श्रोत्रमेव तत्र गच्छतीति युक्तम्। आकाशस्य तत्र गमनासंभवात्। कर्णविवरे आकाशाभावप्रसङ्गाच्च। श्रोत्रेन्द्रियं गुणमात्रसाक्षात्कारजनकम्। केचित्तु श्रोत्रेन्द्रियवद् रसनेन्द्रियघ्राणेन्द्रिययोरपि गुणमात्रसाक्षात्कारजनकत्वमिति वदन्ति। तदयुक्तमित्यपरे। तथा हि-शब्दस्याऽऽकाशगुणात्वात्समवायेन साक्षात्संबन्धसत्त्वेन केवलप्रत्यक्षसंभवेऽपि रसगन्धयोस्तु संयुक्तसमवायः संनिकर्षः। स च द्रव्यसंबन्धे घटा इति परम्परासंबन्धः। तत्र द्रव्यसाक्षात्कारसंनिकर्षसंभवेन द्रव्यं विना केवलगुणस्यासत्त्वेन च केवलगुमसाक्षात्कारासंभवः। तस्माद् द्रव्यविशिष्टगुणसाक्षात्कारजनकत्वं तयोः। न तु गुणविशिष्टद्रव्यसाक्षात्कारजनकत्वम्। अनुभवेन तथैव शक्त्युन्नगनात। चक्षुरिन्द्रियत्वागिन्द्रिययोस्तु गुणविशिद्रद्रव्यं द्रव्यविशिष्टो वा गुण इत्युभयविवसाक्षात्कारजनकत्वम्। विस्तरस्तु मत्कृते तर्कामृते द्रष्टव्यः। गौरवभयान्नेह वितन्यत इति दिक्। प्रकृतमनुसरामः। असाधुशब्दस्य वाचकत्वेऽपि व्याकरणप्रतिपाद्यत्वाभावात्स्फोटत्वाभावः। तदन्तर्गतवर्णानां तु एकाक्षरकोशावधृतशक्तिकानामार्थन्तरप्रकाशकत्वे पदस्फोट इति पदस्फोटे विवेचयिष्यते। अनुकरणशब्दानां तु अनुकार्यानुकरणयोर्भेदविवक्षयाऽनुकार्यरूपार्थप्रतिपादकत्पात्श्फोटत्वम्। ननु साध्वनुकरणस्य साधुत्वेन स्फोटत्वेऽपि असाध्वनुकरणस्यासाधुत्वात्कथं स्फोटव्यवहार इति चेन्न। असाध्यनुकरणस्यापि साधुत्वस्वीकारात्। दैत्यैर्हेऽरय इति प्रयोक्तव्ये हेऽलय इति प्रयुक्तं तदनुकरणं हेलयो हेलय इति कुर्वन्तो न पराबभूवुरिति न वाक्येऽपि तस्यासाधुत्वम्। वथा यद्वानः तद्वानः। भवतु इत्यर्थे यर्वाणस्तर्वाणः भवतु इति प्रयुक्तं तदनुकरणं कुर्वन्तो यर्वाणस्तर्वाणो नाम ऋषयो बभूवुरिति न वाक्येऽपि तस्यासाधुत्वं कस्यापि संमतम्। तस्मादसाधोरनुकरणस्य साधुत्वं सर्वसंमतम्। तत्र तदा तयोरभेदविवक्षा तदाऽर्थप्रकाशकत्वाभावान्न स्फोटत्वम्। शुद्धब्रह्मज्ञानाय सर्वबहिर्भूतान्नमयकोशवदखण्डवाक्यबोधनाय वर्णस्फोट इति दिक्। इति वर्णस्फोटः। अथ पदस्फोटो वर्णस्फोटापेक्षया अन्नमयकोशापेक्षयाऽन्तरङ्गप्राणमयकोशवदन्तरङ्गो निरूप्यते-अन्तरङ्गत्वं तु साक्षाद्वाक्यघटकत्वेन। वर्णस्य बहिरङ्गत्वं पदनिष्पत्तिद्वारा तद्घटकत्वम्। पटस्फोटो द्विधा सखण्डोऽखण्डश्च। व्यवहारादिना पद एव शक्तिग्रहात्। तत्र योऽस्माकं सखण्डपदस्फोटः पचति राम इत्यादिसुबन्ततिङन्तेरूपः, शक्तं पदमिति मेत स एव वाक्यस्फोटस्तार्किकाणाम्। अथाखण्डपदस्फोटो निरूप्यते। स च सर्वैः पदस्तितवर्णैर्व्यज्यते। स चार्थप्रत्यायक इति शाब्दिकसिद्धान्तः। न च प्रतीतस्य प्रत्यायकत्वं नास्ति अन्यथा शब्दं वैत्तीत्यत्रार्थं वेत्तीति प्रत्ययापत्तेरिति अणुदित्सूत्रस्तभाष्यविरोधः। तस्य सामान्यतः प्रतीतस्य प्रत्यायकत्वं नास्तीति नार्थः। किं तु शब्दसंज्ञया प्रतीतस्य शब्दस्येति। प्रकरणानुरोधेन तस्य संकोचात्। एवं च रहसि पुस्तकमीक्षमाणस्यार्थप्रत्ययानापत्तिमाशङ्क्य तत्रापि सूक्ष्मोच्चारणमस्त्येवेति नव्योक्तमपास्तम्। अनुभवविरोधाच्च। यत्त्वत्र तार्किकवेदान्तिनः-यावद्वर्णव्यङ्ग्यो वा यत्किंचिद्वर्मव्यङ्ग्यो वा चरमवर्णव्यङ्ग्यो वा सः। न तावदाद्यः। आशुविनाशिनां मेलनासंभवात्। न द्वितीयः। पशब्देनैव व्यञ्जिते स्फोटे टवर्णवैयर्थ्यम्। न तृतीयः। पूर्वपूर्ववर्णानुभवजन्यसंस्कारसहितचरमवर्णेनैवार्थप्रतीतिसिद्धौ किं स्फोटेनेति। तन्न। वर्णानामाशुविनाशित्वे मानाभावात्। न चोत्पन्नो गकारः नष्टो गकार इति प्रतीतिर्मानम्। तस्माच्च आकाशः संभूत इतिवदाविर्भावतिरोभावेनाप्युपपत्तेः। अनन्तप्रागभावप्रध्वं सकल्पने गौरावाच्च। अनित्यत्वेऽपि वर्णानुभवजन्यसंस्कारजन्यस्मृतौ मेलनसंभवात्। द्वितीयेऽपि न द्वितीयादिवर्णवेयर्थ्यम्। पशब्दोच्चारणे किं पस्फोट उत पटस्फोट उत पटः स्फोट इति संदेहनिवर्तकत्वेन सार्थक्यात्। तृतीये यथा पट पदशक्यः चिजातीयतन्तुसंयोगविशिष्टचरमसंयोगस्यैव पटकार्यकारित्वेऽपि अतिरिक्तोऽवयवी स्वीक्रियते तथा मयाऽपि स्पीक्रियते। नच तथाऽनुभवादतिरिक्तः। पदस्फोटेऽपि तुल्यत्वात्। गौरवाच्च। स्फोटे तु लाघवं कथमिति चेच्छृणु। ध्वनिभिरेव स्फाटो व्यज्यते। एवं चानन्तवर्णतत्प्रागभावप्रध्वंसकल्पना नदी दीन सरो रस जरा राजेत्यादौ भिन्नार्थप्रतीत्यर्थमानुपूर्व्याः। पूर्ववर्णानुभवजन्यसंस्कारसहितचरमवर्णस्य कारणता च न वाच्येत्यति लाघवम्। त्वया तु तद्वाच्यमिति गौरवम्। एतावत्प्रघदृकेन वर्णातिरिक्तः वर्मव्यङ्ग्यः चैतन्ये सर्वभूतानां शब्दब्रह्मेति मे मतिरिति शब्दब्रह्मरूपोऽतिरिक्तस्फोटस्तर्किकादिदूषणाभासनिरसनपूर्वको व्याख्यातः। प्रकारान्तरेणाप्युच्यते-अखण्डपदस्फोटो नातिरिक्तः। यत्र तार्किकादिभिर्यौगिकं योगरूढं च पदमित्युच्यते पाचकः पङ्गजमित्यादि तदेवास्माभिः सखण्डपदस्फोटत्वेन व्यवह्रियते। खण्डशक्त्यनुसंधानपूर्वककोशादिना समुदायशक्तिग्रर्हात्। यस्य तु व्याकरणज्ञानशून्यस्य केवलव्यवहारेण समुदायशक्तिग्रहस्तस्य स एवाखण्डपदस्फोटत्वेनाभिमतम्। तत्र सर्वेषामपि अवयवार्थज्ञानाभावविशिष्ट व्यवहारेण समुदाये शक्तिग्रहात्। एवं च रूढयौगिकपदयोः सखण्डाखण्डस्फोटयोश्च पर्यायत्वे नाममात्रे विवाद इति दिक्। एवं च तार्किकादिनां दूषणाभासाः गर्भस्रावेव्यैव पराहता इति दिक्। न हि तार्किकादितर्का एव सत्तर्का इति नियमः। तत्रापि बहुशोऽनुभवाविषयासत्तर्कदर्शनात्। तथा हि-विशिष्टस्य कार्यत्वकारणत्वेनैव सिद्धौ निर्गुणपटोत्पत्तिरयुक्तेति पूर्वमुक्तम्। तथा रूपस्य व्याप्यवृत्तित्वनियमात् घटस्य प्रत्यक्षान्यथानुपपत्त्या स्वीक्रियमाणातिरिक्तं चित्रं रूपमिति कल्पनाष्ययुक्तैव। तादृशनियमे प्रमाणाभावात्। अस्तु वा नियमः। तथापि तत्तद्द्रव्यावच्छिन्नतत्तदवयवसंनिकर्षसहितचरमरूपावच्छिन्नचरमावयवसंनिकर्षेणैवव घटसाक्षात्कारसिद्धो अतिरिक्तचित्ररूपस्वीकारे गौरवात्। एवं विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात्तस्य चायं घट इत्यादावसंभवात घटघटत्वयोः संबन्धानवगाहिनिर्विकल्पकज्ञानकल्पनाऽप्ययोग्यत्वादयुक्तैव। नित्यसंबन्धातिरिक्तसंयोगसंबन्धादावेव तत्कल्पना दण्डी पुरुष इत्यादौ, न तुअयं घट इत्यादौ। तत्र विशिष्टज्ञानस्यैव जायमानत्वात्। एवं च निर्विकल्पकज्ञानं न स्वीकार्यमिति महल्लाघवम्। एवमखण्डखण्डेभेदेन कालद्वैविध्यकल्पनमप्ययुक्तमेव। अखण्डस्य व्यवहारानाधायकत्वात्। न च जन्यानां जनकः कालो जगतामाश्रयो मत इति जगदाधारत्वेन जनकत्वेन च तत्स्वीकारः। ईश्वरस्यैव तत्प्रसिद्धत्वात्। न च पदार्थखणेडेन दिक्कालौ नेश्वरादतिरिच्येते इत्यादिनाऽस्माभिस्तदुक्तमिति वाच्यम्। तत्र दिक्कालयोरेव विशिष्येश्वराभेद उक्तः। स च सर्वं खल्विदं ब्रह्मेति श्रुतिविरुद्धः। तथा यतो वा इमानि भूतानि जायन्तै, तस्मिन् सर्वं प्रतिष्ठतमित्यादिश्रुतिभिर्जगत्कर्तृत्वं जगदाधारकत्वं च ईश्वरस्यैव न तु कालस्य। तेन जन्यानां जनकः काल इत्यस्य पृथिव्यादिसप्तपदार्थानामपीश्वराभेदेन विशिष्योभयोरंव तदभेदप्रतिपादनस्य चायुक्तत्वात्। एवं खण्डकालोऽप्ययुक्तः। सूर्यगतिविशेषरूपोपाधिभेदेन हि खण्डकालः। एवं च सूर्यगतिविशेषस्यैवास्तु खण्डकालत्वं किं तदतिरेकेण। तथा च खण्डकालस्य क्रियात्वम्। एवं पीलुपाकवादिभिः परमाणौ पाकं स्वीकृत्य श्यामघटनाशः रक्तघटोत्पत्तिः स्वीकृता। तत्र चक्रदण्डादिनिमित्तकारणाभावात्कथमुत्पत्तिः। निमित्तकारणं विनापि तत्स्वीकृता। तत्र चक्रदण्डादिनिमित्तकारणाभावात्कथमुत्पत्तिः। निमित्तकारणं विनापि तत्स्वीकारे दण्डवक्रादिनां निमित्तकारणतैवोच्छिद्येत। एवंविधानेकानुभवानारूढगुरुभूततर्काश्रयणं लाघवम्। लातिरिक्ताखण्डस्फोटखण्डनं दूषणाभासैरनुचितमिति दिक्। वाक्यार्थज्ञानं प्रति पदार्थज्ञानस्य कारणत्वात्पदस्फोटं निरूप्य वाक्यस्फोटो निरूप्यते। स चाखण्डखण्डभेदेन द्विधा। तत्राखण्डः पदातिरिक्तोऽखण्डपदव्यङ्गो लाघवात्स्वीक्रियते। तच्चास्त्रण्डपदस्फोटे निरूपितम्। अन्यच्चाऽऽकाङ्क्षायोग्यतासत्तीनां कारणता न वाच्येति महल्लाघवम्। सखण्डस्तु प्रसिद्ध एव। यद्वा हरेऽवेत्यादौ एकादेशे कृते पदविभागो दुर्वारस्तस्मात्तत्राखण्डवाक्यस्फोटोऽन्यत्र सखण्ड इति विवेकः। एवं च दूषणानां गर्भस्राव एव। तत्र वाक्यं नामैकतिङन्तार्थमुख्यविशेष्यकम्। यथा पचेति भवतीति। तत्रापि पचतीत्यस्य विशेष्यत्वेऽपि मुख्यविशेष्यत्वाभावान्नाव्याप्तिः। तार्किकास्तु पूर्वापरप्रत्येकवाक्यताप्रतिपत्तये `अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यात्' इति मीमांसासूत्रमुपन्यस्य विशेष्यभूतभावनैकत्वादिति अर्थैकत्वादित्यस्य तेषामर्थ त्यक्त्वा तात्पर्यविषयैक्यमिति स्वयं तदर्थं व्याख्याय प्रत्यक्षानुमानयोरेकवाक्यत्वमुक्तम्। स्वातन्त्र्ये यद्यत्संगतिमत्तदेकं वाक्यमिति वक्तव्यम् न तु यत्किंचिदर्थकल्पनमुचितं दोषदुष्टं च। तथा हि-पठनतात्पर्ये७यथैव देवदत्तः पठति तव पुत्रस्तथैव पठतीत्यत्राप्येकवाक्यत्वापत्तिः। न चेष्टापत्तिः। समानावाक्यत्वात्तआदेशापत्तेः। तथा स्योनं ते सदनं करोमि घृतस्य धारया सुषेवं कल्पयामि इति सदनप्रतिपादको मन्त्रः। प्रत्यक्षग्रन्थवत्। तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमान इति सादनप्रतिपादको मन्त्रः। अनुमानवत्। प्रमाणनिरूपणवाद्यागाङ्गनिरूपणं तात्पर्यविषयः। एवमनुमानस्य प्रत्यक्षापेक्षत्वे प्रतिपादकस्य न तदपेक्षत्वम्। एवं चानयोरप्येकवाक्यत्वापत्तिः। न चेष्टापत्तिः। अर्थैक्यादित्यस्य भवदुक्तप्रत्युदाहरणविरोधात्। किं चेयं पदैक्यवाक्यता उतवाक्यैकवाक्यता ग्रन्थैकवाक्यता। नाऽऽद्यः-क्रियाकारणायेव तत्संभवात्। तयोरेवं परस्परमाकाङ्क्षासंभवात्। उभयाकाङ्क्षायामेव तत्संभवेनान्थतराकाङ्क्षायां तदसंभवाच्च। न द्वितीयः-इतरनिरपेक्षतया सिद्धेनैकवाक्येन सापेक्षेतरवाक्यस्यान्वयो हि सा। प्रकृते च वाक्यसंदर्भरूपग्रन्थयोरेव सा। न तु वाक्ययोः। अनमानस्थिवाक्ययानां परामर्शजन्यं ज्ञानमनुमतिरित्यादिवाक्यानां प्रत्यक्षवाक्याकाङ्क्षाभावात्। आसत्त्यभावाच्च। किं च वाक्यैकवाक्यता हि प्रकरणम्। अन्यतराकाङ्क्षा प्रकरणमिति तल्लक्षणात्। तस्याप्येकवाक्यत्वस्वीकारे वाक्यात्प्रकारणस्य दुर्बलत्वप3तिपादकश्रुतिलिङ्गवाक्यप्रकरणेत्यादिबलबलाधिकरणविरोधः। न तृतीयः-प्रत्यक्षानुमानयोराकाङ्क्षा आर्थी न तु शाब्दी। तस्मादत्र सूत्रलेखनं यत्किंचिदर्थकल्पनमनुचितम्। शिरोमणिग्रन्थस्तु यद्यत्संगतिमत्तदेकवाक्यमित्यनेनैव सिद्धत्वादिति दिक्। प्रकृतमनुसरामः। व्यवहारेण वाक्ये शक्तिग्रहाद्वाक्यस्यैव वाचकत्वाद्वाक्यस्पोटः। न च पूर्वं गृहीताऽपि वाक्ये शक्तिरावापोद्बापाभ्यां त्यक्त्वा पदे गृह्यत इति वाच्यम्। एवं सति पदार्थज्ञानं प्रति वाक्यार्थज्ञानस्य हेतुतापत्तौ वाक्यार्थज्ञानं प्रति पदार्थज्ञानस्य हेतुत्वमिति सर्वसिद्धान्तभङ्गापत्तेः। वाक्यस्फोटो द्विधा। सखण्डोऽखण्डश्च। अखण्डो द्विधा। वर्णातिरिक्तोऽनतिरिक्तश्च। यदा वर्णा न स्वीक्रियन्ते गौरवात्, लाघवाद् ध्वनिभिरेवाखण्डो वाक्यस्फोटो व्यज्यते इति मतं, तदाऽतिरिक्तः। अस्मिन् पक्षे वर्णाभावेन यावद्वर्णव्यङ्ग्य इत्यादिदूषणाभासा गर्भस्रावेणैव पराहताः। यदा तु ध्वनिभिर्वर्णा व्यज्यन्त इति मतं तदा घटमानयेति सखण्डवाक्यस्फोटः। क्रियाकारकयोर्विभागस्य कर्तुं शक्यत्वात्। हरेव विष्णोवेत्यादौ एकादेशे कृते प्रातिपदिकाख्यातयोर्विभागाशक्यतयाऽनतिरिक्तवाक्यस्फोटः। क्रियाकारकज्ञ नशून्यस्यावैयाकरणस्य घटमानयेत्ययमपि अनतिरिक्ताखण्डवाक्यस्फोट एव। पदे न वर्णा विद्यन्ते वर्णेष्वयववा न च। वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन। इत्यमखण्डातिरिक्तवाक्यस्फोटप्रकाशः। यथा वर्णे अषयवा न सन्ति तथेत्यर्थः। पश्य मृगो धावति पचति भवतीत्यादावपि अखण्डसखण्डातिरिक्तानतिरिक्तत्वं पूर्ववदेव बोद्धव्यम्। मृगकर्तृकवर्तमानधावनक्रियायाः दृशिक्रियायां कर्मतासंबन्धेनान्वयः। देवदत्तकर्तृकपचिक्रियायाः वर्तमानभवनक्रियायामन्ववः। तदुक्तम्-सुबन्तं हि यथाऽनेकं तिङन्तस्य विशेषणम्। तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम्।। इति। यत्तु धावनानुकूलकृतिमान् मृग इति प्रथमान्तविशेष्यकशाब्दबोधः इति पक्षे मृगस्य दृशिधात्वर्थनिरूपितकर्मत्वात् द्वितीयापत्तिः। तमित्यध्याहारे च वाक्यभेदापत्तिरित्याशङ्क्य पश्य लक्ष्मण पम्पायां बकः परमधार्मिकः, इत्यादाविव वाक्यार्थस्य कर्मत्वान्न वाक्यभेद इति कैश्चित्समाहितम्। तन्मुधैव। अन्तरङ्गधावनक्रियानिरूपितमृगस्य कर्तृत्वात् तस्य चाऽऽख्यातेनोक्तत्वात्प्रथमोत्पत्तौ बहुर्भूतदृशिधात्वर्थनिरूपितकर्मत्वेऽपि अन्तरङ्गत्वाज्जातसंस्कारबाधे मानाभावेनव शक्यं च श्वमांसादिभिः क्षुदुपहन्तुमितिवदुपपत्तेः। एवं चात्र प्रथमान्तविशेष्यकपक्षेऽपि शाब्दिकदूषणाभावेऽपि एकदेवदत्तकर्तृकपचिक्रियाकर्तृकं भवनमित्यर्थे पचति भवतीत्येकवाक्यतानापत्तेः। न च पाकानूकूलकृतिमान् देवदत्तो भवतीत्यर्थे निष्पन्ने सविशेषणे विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे इति न्यायेन क्रियाया एव कर्तृत्वं भविष्यति। एकवाक्यतायां फलाभावाच्च। न च समानवाक्ये निघातयुष्मदस्मदादेसा वक्तव्या इति निघातः फलम्। तिङ्ङतिङ इति अतिङ्ग्रहणेन तदभावात्। सत्यम्। त्वत्संबन्धिनी देवदत्तकर्तृका पचिक्रिया भवतीत्यर्थे देवदत्तः पचति ते भवतीति प्रयोगे समानवाक्यत्वाभावेनाऽऽदेशानापत्तेः। अनेकदेवदत्तकर्तृकैका पचिक्रिया इत्यर्थे देवदत्ताः पचन्ति भवतीति प्रयोगोऽपि न स्यात्। अनेककर्तृत्वेन भवतीत्यत्र बहुवचनापत्तेः। पश्य मृगो धावतीत्यत्र निघातरूपप्रयोजत्-सत्त्वाच्च। किं चात्र वाक्यार्थस्य कर्मत्वमिति तार्किकोक्तं न युक्तिमत्। तथा हि-वाक्यार्थोऽतिरिक्तोऽनतिरिक्तो वा। नाऽऽद्यः-तस्य वृत्त्यनुपस्थापितत्वेन दृशिक्रियायां कर्मतयाऽन्वयानुपपत्तेः। वृत्त्युपस्थापिस्यैव शाब्दबोधविषयत्वनियमात्। अन्यथा घटपदात्समवायेनोपस्थिताकाशस्यापि शाब्दबोधविषयत्वापत्तेः। न द्वितीयः-विभक्त्यर्थमद्वारीकृत्य नामार्थस्य धात्वर्थेन समं भेदसंबन्धेनान्वयोऽव्युत्पन्नः। अन्यथौदन पचतीत्यापत्तेः। न च तत्र वाक्यार्थस्य कर्मत्वं न धात्वर्थस्येति वाच्यम्। रमणीय ओदनः पचतीत्यस्यानापत्तेः। पश्य लक्ष्मण पम्पायामित्यादौ तमिति पदाध्याहारैण वाक्यभेद एव, एवं च वाक्यार्थस्य कर्मत्वमित्यविचारिताभिधानम्। एवं नीलो घटो भवतीति वाक्ये नीलकर्तृकभवनाश्रयो घट इति व्युत्पत्तिवादोक्तमपि न युक्तिमत्। नामार्थस्येत्यादिव्युत्पत्तिबाधमानाभावात्। नीलो घटो भवनाश्रय इति बोधसंभवाच्च। सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बोधे इति विशेषणे नील एव भवनस्यान्वयो भविष्यतीति दिक्। एवं तत्त्वमसि, सोऽयं दैवदत्त इत्यादौ सखण्डाखण्डत्वं पूर्ववदेव बोध्यम्। तत्त्वमसीत्यत्र तत्पद्वाच्यसर्वज्ञत्वादिविशिष्टचैतन्यस्य त्वंपदवाच्येनान्तःकरणविशिष्टचैतन्येनक्यासंभवादैक्यसिद्ध्यर्थं स्वरूपे जहदजहल्लक्षणेति सांप्रदायिकाः। नन्वनयोरैक्ये किं मानम्। न च नामार्थेति व्युत्पत्तिः। तस्याः किं नामार्थयोरेवाभेदान्वयः, उत नामार्थयोरभेद एवेति। नाऽऽद्यः-स्तोकं पचति, वैश्वदेवी आमिक्षेत्यादौ व्यभिचारात्। नान्त्यः-घटपटौ इत्यादौ व्यभिचारात्। तस्मात्संभवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वादिति लाघवमूलका हि सः। सत्यम्। मृत्योः स मृत्युमाप्नोति यइह नानेव पश्यतीति भेदनिन्दापूर्वकाभेदप्रतिपादकश्रुतिर्मान्म्। न च तत्रापि यः नाना इव पश्यति स मृत्योर्मृत्युमाप्नोति यस्तु वस्तुतः नानात्वं पश्यति स नेति इति इवशब्दात्प्रतीसमासेनापि भेदस्यैव प्रतीतेरिति वाच्यम्। छान्दोग्येऽपि सदेव सोम्येदमग्र आसीदित्यारभ्य तत्स्तयं स आत्मा तत्त्वमसि श्वेतकेतो इत्युपसंहारेणोपक्रमोपसंहारयोरेकरूपेण वेदतात्पर्यनिर्मायकेनैक्यस्य निर्णीतत्वात्। ब्रह्म तं परादाद्योऽन्यत्राऽऽत्मनो ब्रह्म वेदेति श्रुत्याऽपि ऐक्यावधारणात्। अस्मिन् पक्षे लाक्षणिकवाक्यस्फोटः। वस्तुतस्तु अयं वाचकवाक्यस्फोट एव। तथा हि विशिष्टशक्त्युपस्थापितयोस्तत्त्वंपदार्थयोरभेदान्वयानुपपत्तावपि विशेष्ययोः शक्त्युपस्थापितयोरभेदान्वये बाधकाभावः। यथा घटोऽनित्य इत्यत्र घटपदवाच्यैकदेशघटत्वस्थायोग्यत्वेऽपि योग्यघटव्यक्त्या सहानित्यत्वान्वयः। यद्वा विशेष्य एव शक्तिः। विशेषणं तूपलक्षणण्। असमिन् पक्षे न कोऽपि दोषः। यद्वा यथा नानार्थस्थले संयोगादिनाऽभिदानियमनं तथा भेदान्वयानुरोघाद्विशेष्य एवाभिधानियमनम्। अस्तु वा लक्षणा सा च जहल्लक्षणा तया च विशेषणांशत्यागमात्रं न तु विशेष्येऽपि तस्या उपयोगः। शक्त्यैव तदुतस्थितिसंभवात्। एवं सोऽयं देवदत्त इत्यत्रापि। तथा च जहदजहल्लक्षणोदाहरणमसंगतमिति दिक्। एवमेको वृक्षः पञ्च नौका भवन्तीति वाक्ये सखण्डाखण्डत्वे पूर्ववदेव बोध्ये। अत्र तार्किकाः-गृह्णाति वाचकः संख्यां प्रकृतेर्विकृतेर्नहीति वचनात् प्रकृत्यर्थवृक्षगतमेकवचनमेव भूधातूत्तरं भवतीत्याहुः। तदयुक्तम्। गृह्णातीत्यस्य च्वयम्तविषयत्वात् यथा संघीभवन्ति ब्राह्मणाः त्वद्भवाम्हयं मद्भवसि त्वमित्यादौ वचनपुरुषयोः प्रकृतिगतयोरेव दर्शनात्। ननु संकोचे किं मानम्। सुवर्मपिण्डः खदिराङ्गारसदृशे कुण्डले भवत इति महाभाष्यप्रयोग एव। उद्देश्यविधेयभावस्थलै तु उद्देश्यगता संख्याऽऽख्यातप्रत्यये शास्त्राणि चेत्प्रामाणं स्युः, इत्यादिषु। पुनरपि वाक्यं द्विधा। काव्यात्मकमकाव्यात्वकं च। द्वितीयं तूक्तम्। आद्यं तु तददोषौ शब्दार्थो सगुणावनलंकृती पुनः क्वापि इत्यनेन लक्षितम्। अत्र यावद्दोषाभावो वक्तुमशक्यः। असंभवात्। यत्किंचिद्दोषाभावे अदोषपदवैयर्थ्यम्। तस्मान्नञोऽल्पत्वमर्थः। अनुदरा कन्येतिवत्। अल्पत्वं च स्फुटप्रतीयमानदोषराहित्यम्। इदं काव्यलक्षणं रसङ्गाधरे दूषितम्। शब्दार्थयोर्व्यासज्यवृत्तिकाव्यत्वे काव्यं श्रुतं, अर्थो न ज्ञात् इति व्यवहारासंभवात्। तदासमञ्जसम्। एकदेशे दग्धेऽपि पटो दग्ध इतिवदेकदेशेऽपि प्रयोगसंभवात्। समुदायवृत्ताः शब्दाः क्वचिदेकदेशेऽपि वर्तन्ते इति भाष्यात्। तल्लक्षणमेव तु न समञ्जसम्। तथा हिरमणीयार्थप्रतिपादकः शब्दः काव्यम्। रमणीयत्वं च लोकोत्तराहलादजनकज्ञानविषयत्वमिति तल्लक्षाणात्। इदं च तत्त्वमसीत्यादावतिव्याप्तम्। न वाऽऽहलादे वैजात्यम्। किं ततः। लोकौत्तराह्लादजनकज्ञानविषयत्वस्योभयत्र तुल्यत्वात्। ब्रह्मानन्दत्वेन सर्वैर्वर्णितत्वाच्च। किं च रमणीयपदस्य रमणीयार्थप्रतिपादकत्वमस्ति न वा। नाऽऽद्यः-रमणीयशब्दस्यापि रमणीयार्थप्रतिपादकत्वेन काव्यत्वापत्तेः। इदं च भाष्येऽपशब्दार्थकः शब्दोऽपशब्द इति चेन्न। अपशब्दस्यापि अपशब्दत्वापत्तेरित्यनेन ध्वनितम्। नान्त्यः-रमणीयार्थप्रतिपादकत्वेन लक्षणत्वानुपपत्तेः। तस्मात्प्रकाशोक्तमेव लक्षणं सम्यक्। एवं बन्हिता सिञ्चतीत्यादौ वाक्यस्फोट एव। ननु वाक्यार्थबोधे अयोग्यतानिश्रयस्य प्रतिबन्धकत्वं योग्यताज्ञानस्य कारणत्वं तार्किकादिसिद्धान्तसिद्धं प्रकृते च वन्हिः सेककरणं नेति विषयबाधरूपायोग्यतानिश्चयरूपबाधकसत्त्वाद्विषयाबाधरूपयोग्यताज्ञानासत्त्वात्कथमेतस्य वाक्यस्फोटत्वमिति चेत्सत्यम्। तात्पर्यविषयाबाधो इति योग्यता। तदभावोऽयोग्यता। प्रकृते चात्युष्णजलेन सिञ्जतीति तात्पर्यविषयः। यथा-अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया प्रज्ञाचक्षुरवेक्षमाणबधिरप्रख्याः किलाकीर्तयः। गीयन्त स्वरमष्टकं कलयता जातेन वन्धयोदरान्मूकानां प्रकरणे वर्मरमणीदुग्धोदधे रोधसि। गगनं गगनाकारं सागराः सागरोपमाः। रामरावणयोर्युद्धं रामरावणयोरिव। कैलासस्य प्रथमशिखरे वेणुसंमूर्च्छनाभिः श्रुत्वा कीर्तिं विबुधरमणीगीयमानां यदीयाम्। स्रस्तापाङ्गाः सरसबिसिनीकाण्डसंजाताशङादिङ्मातङ्गाः श्रवणपुलिने हस्तमावर्तयन्ति। पश्य नीलोत्पलदंवद्वान्निःसरन्ति शिताः शराः। इति। आद्यालंकारेकवाक्येषु गङ्गायां घोष इत्यादौ तत्त्वप्रसीत्यादौ च तात्पर्यविषयाबाधो योग्यत्वमिति सर्वसिद्धान्तः। तथाऽत्रापि यद्वा शाब्दबोधेऽयोग्यतानिश्चयस्य न प्रतिबन्धकत्वं सत्सत्त्वेऽपि त्वं बृहस्पतिरिति स्तावकवाक्यात्संतोषोपलब्धेः। नाहं रण्डापुत्र इति बाधनिश्रये सत्यपि त्वं रण्डापुत्र इति वाक्यात्क्रोधोपलव्धेश्च। शाब्दबोधाभावे एतदनुपपत्तेः किं च पश्य नीलोत्पलद्वंद्वादित्यादिसाध्यवसानादिलक्षणास्थले शरा नीलोत्पलद्वंद्वापादानकाः नेत्ययोग्यतानिश्चये सति तद्वाक्यश्रवणानन्तरं वाक्यावबोधोत्तरमयोग्यतानिश्चयः पूर्वं वा। नाऽऽद्यः-बाधनिश्चये सति बाधाभावात्। नान्त्यः-बाधाभावेऽन्वयानुपपत्तेरभावात्। नहि स्वरूपसती अन्वयानुपपत्तिर्ललक्षणाबीजम्। किंतु ज्ञाता। न च पूर्वमयोग्यतानिश्चयसत्त्वेन तज्ज्ञानमप्यस्त्येवेति वाच्यम्। वावाक्यार्थबोधजन्यान्वयानुपपत्तिज्ञानस्य पूर्वमभावात्। गङ्गा घोषाधिकरणं नेति लौकिकज्ञानसत्त्वे गङ्गायां घोष इति वाक्याद्गङ्गाधिकरणको घोष इति बोधोत्तरमन्वयानुपपत्तिर्हि अनुभवसिद्धा। न च तस्याः पूर्वं ज्ञानं संभवति। न च भ्रमात्मको बोध तार्किकोक्तं युक्तिमत्। अयोग्यतानिश्टयस्य प्रतिबन्धकत्वं योग्यताज्ञानस्य कारणत्वं प्रकल्पनीयम्। भ्रमात्मको बोधश्च कल्पनीय इति महद्गौरवम्। स्फोटवादिनां त्रितयमपि न कल्पनीयमिति लाघवम्। वाक्यार्थबोधजन्यप्रवृत्तावेव तत्स्वीकारात्। किं च नाहं परमेश्वर इति बाधनिश्चये सति तत्त्वमसीतिवाक्याद्बोदाभावे भ्रमात्मकबोधे वा न प्रपात्मकं ज्ञानं संभवति भ्रमात्मकबोधस्य प्रमात्मकबोधजनतायोग्यत्वात्। एवं दशमस्त्वमसीत्यत्रापि। ननु अनेकवर्णातिरिक्तोऽनेकध्वनिव्यङ्ग्योऽखण्डवाक्यस्फोटः कः पदार्थ इति चेच्छृणु-यथा तार्किकैः पूर्वोक्तमद्रीत्या गत्यन्तरसंभवेऽपि चित्ररूपमतिरिक्तं स्वीक्रियते यथा शाब्दिकै रेफद्वयाज्भागविशिष्ट एको वर्मः ऋति ऋवा, लृति लृ वा इत्यत्र वार्तिके स्वीक्रियते यथा वा सिद्धमेतत्सस्थानत्वादैचोश्चोत्तरभूस्त्वादिति वार्तिकेऽनेकाचां एकवर्णात्मकत्वमुक्तं तथा मयाऽपि अनेकध्वनिव्यङ्ग्यः वाक्यत्मक रको वर्म इति स्वीक्रियते। स च शब्दब्रह्मरूप तत्र मतत्रयं शब्दब्रह्मेति शब्दार्थः शब्दमित्यपरे जगुः। चैतन्ये सर्वभूतानां शब्दब्रह्मेति मे मतिः। इति। शब्दब्रह्मेति निर्वचननापि तस्य वर्णत्वं सिद्धम्। अनुमानादपि। तथाहि-अखण्डवाक्यस्फोटः, एकवर्णरूपः, श्रावणत्वात्। ध्वनिव्यङ्ग्यत्वाद्वा। यन्नैवं तन्नैवं यथा-पृथिव्यादि। अन्वयदृष्टान्तस्तु मतान्तरसिद्धवर्णादि। वस्तुतस्तु अन्वयव्यतिरेक्यनुमानं व्यर्थम्। उपनीतभानेनैव गतार्थत्वात्। तथाहियथा चन्दनखण्डस्य लौकिकप्रत्यक्षं सौरभ्यस्यालौकिकं तथा धूमस्य लौकिकं बन्हेरलौकिकमिति अस्मिन् पक्षे उपनीतभानेनेति विवेकः। यद्वा लाघवाद्दोषाभावाद्ध्वनिव्यङ्ग्यान्यस्याभावाच्च वर्णत्वस्वीकारः। न च ध्वनिव्यङ्ग्यत्वस्य गुणीभूतव्यङ्ग्यप्रभेदे काक्वाक्षिप्तस्यापि अन्यस्य संभव इति वाच्यम्। तस्य ध्वनिविकारकाकुव्यङ्ग्यत्वेऽपि ध्वनिव्यङ्ग्यत्वाभावात्। किं च कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा भीः ह्रीः, एतत्सर्वं मन एवेति श्रुत्या कामादीनां मनोधर्मत्वे प्रतिपादितेऽपि तार्किकैरात्मधर्मत्वमुक्तं तच्च सर्वैरङ्गीकृतं तत्तु भ्रमात्मकं, तद्बीन्नं तु यथा जपाकुसुमसंनिधाने स्फटिको लोहित इति ज्ञानम्। प्रकृते तु न मनःसांनिध्यम्। आत्मधर्मे बीजं श्रुतिबाधश्च। स्फोटे तु न तथा। तस्मादेकवर्णात्मकोऽखण्डवाक्यस्फोटो वाचक इति सिद्धम्।
।। इति श्रीमौनिकुलतिलकायमानगोवर्धनभट्टात्मजजानकीजानिरधघुनाथभट्टात्मजश्रीकृष्णकृतस्फोटचन्द्रिका समाप्ता ।।