सामग्री पर जाएँ

विष्णुधर्मः/अध्यायाः १०१-१०९

विकिस्रोतः तः


श्री विष्णुधर्मः अध्यायः 101-109
एकाधिकशततमोऽध्यायः
पापक्षयः
शतानीक उवाच
आख्यातम् भगवन् सम्यक् परम् ब्रह्म त्वया मम |
विष्णुरेव जगद्धाता योगिनाम् वर्तते यतः || १ ||
उपायस्तस्य यः प्राप्तो विष्णोरीशस्य भार्गव |
अद्वैतद्वैतरूपस्य तन्मे विस्तरतो वद || २ ||
येन जन्मजरामृत्युमहाग्राहभवार्णवम् |
त्वद्वाक्यनावमारुह्य मुक्तितीरमवाप्नुयाम् || ३ ||
तन्मम ब्रूहि तत्त्वेन प्राप्नुयाम् येन तत्पदम् |
शौनक उवाच –
बन्धः कर्ममयो ह्यत्र यथा मुक्तिविघातकृत् |
तस्यापगमने यत्नः कार्यः सम्सारभीरुणा || ४ ||
सुवर्णादिमहादानपुण्यतीर्थावगाहनैः |
शारीरैश्च तथा क्लेशैः शास्त्रोक्तैस्तच्छमो भवेत् || ५ ||
देवतास्तुतिसच्छास्त्रश्रवणैः पुण्यदर्शनैः |
गुरुशुश्रूषणाच्चैव पापबन्धः प्रणश्यति || ६ ||
प्रपाकूपतडागानि देवतायतनानि च |
कारयन् पुरुषव्याघ्र पापबन्धात् प्रमुच्यते || ७ ||
योगिनामथ शुश्रूषाम् तथैवावसथान्नृप |
कुर्वन् पूर्ताश्रितम् चान्यत् पापबन्धात् प्रमुच्यते || ८ ||
विष्णुः कृष्णो वासुदेवो गोविन्दः पुष्करेक्षणः |
इत्यादि व्याहरन्नित्यम् पापबन्धात् प्रमुच्यते || ९ ||
विश्वो विश्वेश्वरो विश्वविधाता धाम शाश्वतम् |
विष्णुरित्यादि च जपन् पापबन्धात्प्रमुच्यते || १० ||
पद्मनाभो हृषीकेशः केशवो मधुसूदनः |
इत्यादि व्याहरन्नित्यम् पापबन्धात्प्रमुच्यते || ११ ||
नारायणश्चक्रधरो विश्वरूपस्त्रिविक्रमः |
इत्यादि व्याहरन्नित्यम् पापबन्धात्प्रमुच्यते || १२ ||
विष्णौ प्रतिष्ठितम् विश्वम् विष्णुर्विश्वे प्रतिष्ठितः |
विष्णुर्विश्वेश्वरो विश्वमिति भावात् प्रमुच्यते || १३ ||
एवम् सम्शान्तपापस्य पुण्यवृद्धिमतो नृप |
इच्छा प्रवर्तते पूम्सो मुक्तिदायिषु कर्मसु || १४ ||
(मुक्तिदायीनि कर्माणि निष्कामेन कृतानि तु |
भवन्ति दोषक्षयकाः पुण्यबन्धात्प्रमुच्यते |)
नित्यनैमित्तिकानीह कर्माण्युक्तानि यानि वै |
तेषाम् निष्कामकारणात् पुण्यबन्धः प्रशाम्यति || १५ ||
अनेकजन्मसम्सारचितस्यापि दृढात्मनः |
कर्मबन्धस्य शैथिल्यकारणम् चापरम् शृणु || १६ ||
अहिम्सा नातिमानित्वमदम्भित्वममत्सरम् |
तितिक्षा समदर्शित्वम् मैत्र्यादौ दण्डसम्यमः || १७ ||
ऋजुत्वमिन्द्रियजयः शौचमाचार्यपूजनम् |
पुण्यस्तवादिपठनमपैशुन्यमकत्थनम् || १८ ||
विषयान् प्रति वैराग्यमनहङ्कारमेव च |
अकामित्वम् मनःस्थैर्यमद्रोहः सर्वजन्तुषु || १९ ||
अविवादस्तथा मूढैरमूढैः प्रश्नसत्कथा |
विविक्तदेशेऽभिरतिर्महाजनविवर्जनम् || २० ||
सद्भिः सहास्य सततम् योगाभ्यासो मितोक्तिता |
स्त्रीभर्त्सोत्सव सम्लापविवर्जनमवेक्षणम् || २१ ||
परयोषिद्विलासानाम् काव्यालापविवर्जनम् |
गीतवादित्रनृत्तेषु मृदङ्गेष्वपरेषु च || २२ ||
असक्तिर्मनसो मौनमात्मतत्त्वावलोकनम् |
तपः सन्तोषः सत्येषु स्थितिर्लोभविवर्जनम् || २३ ||
तथाऽपरिग्रहो राजन् मायाव्याजविवर्जनम् |
असृङ्माम्सादिभूतत्वान्निजदेहजुगुप्सनम् || २४ ||
सर्वाण्येतानि भूतानि विष्णुरित्यचला मतिः |
तत्रैवाशेषभूतेशे भक्तिरव्यभिचारिणी || २५ ||
एते गुणा मयाख्याता मनोनिर्वृतिकारकाः |
शैथिल्यहेतवश्चैते कर्मबन्धस्य पार्थिव || २६ ||
एभिः शान्तिम् गते चित्ते ध्यानाकृष्टः स्थितो हरिः |
एतादृशगुणोपेतम् अनाकृष्टः स्थितो हरिः |
शमम् नयति कर्माणि सितमिश्रासितानि वै || २७ ||
भूयश्च शृणु शास्त्रार्थम् सन्क्षेपाद्वदतो मम |
यथा सम्प्राप्यते मुक्तिर्मनुजेन्द्र मुमुक्षुभिः || २८ ||
नित्यनैमित्तिकानाम् तु निष्कामस्य हि या क्रिया |
निषिद्धानाम् सकामानाम् तथैवाकरणम् नृप || २९ ||
निषिद्धा नरकम् यान्ति गया चैव माभून्नृप |
सर्वेश्वरे च गोविन्दे भक्तिरव्यभिचारिणी |
प्रयच्छति नृणाम् मुक्तिम् मा ते भूदत्र सम्शयः || ३० ||
इति विष्णुधर्मे पापक्षयो नाम एकाधिकशततमोऽध्यायः
द्वयधिकशततमोऽध्यायः
योगप्रशम्सा
शतानीक उवाच –
आख्यातमेतदखिलम् यत्पृष्टोऽसि मया द्विज |
जायते शमकामानाम् प्रशमः कर्मणाम् यथा || १ ||
किम्त्वत्र भवता प्रोक्ता प्रशान्तिः सर्वकर्मणाम् |
नात्यन्तनाशः शान्तानामुद्भवो भविता पुनः |
निजकारणमासाद्य स्तोकस्याग्नेर्यथा तृणम् || २ ||
तदाचक्ष्व महाभाग प्रसादसुमुखो मम |
सन्क्षयो येन भवति मूलोद्वर्तेन कर्मणाम् || ३ ||
शौनक उवाच –
न कर्मणाम् क्षयो भूप जन्मनामयुतैरपि |
कर्मक्षयमृते योगाद्योगाग्निः क्षपयेत्परम् || ४ ||
शतानीक उवाच –
तम् योगम् मम विप्रर्षे प्रणतस्याभियाचतः |
त्वमाचक्ष्व क्षयो येन जायतेऽखिलकर्मणाम् || ५ ||
शौनक उवाच –
हिरण्यगर्भो भगवाननादिर्मुनिभिः पुरा |
पृष्टः प्रोवाच यम् योगम् तम् समासेन मे शृणु || ६ ||
अनादिकालप्रसृता यथाऽविद्या महीपते |
तथा तत्क्षयहेतुत्वाद्योगो विद्यामयोऽव्ययः || ७ ||
तम् परम्परया श्रुत्वा मुनयोऽत्र दयालवः |
प्रकाशयन्ति भूतानामुपकारचिकीर्षवः || ८ ||
देवा महर्षयो राजम्स्तथा राजर्षयोऽखिलाः |
श्रेयोऽर्थिनः पुरा जग्मुः शरणम् कपिलम् किल || ९ ||
(ते तमूचुर्भवान्नित्यम् दयालुः सर्वजन्तुषु |)
सोऽस्मानुद्धर सम्मग्नानितः सम्सारकर्दमात् || १० ||
यच्छ्रेयः सर्ववर्णानाम् स्त्रीणामप्युपकारकम् |
यस्मात्परतरम् नान्यच्छ्रेयस्तद्ब्रूहि नः प्रभो || ११ ||
आदावन्ते यद् मध्ये च नॄणाम् यदुपकारकम् |
अपि कीटपतङ्गानाम् तन्नः श्रेयः परम् वद || १२ ||
शौनक उवाच –
इत्युक्तः कपिलः सर्वैर्देवैर्देवर्षिभिस्तथा |
नास्ति योगात्परम् श्रेयः किञ्चिदित्युक्तवान् पुरा || १३ ||
यथा जन्मायुतैः क्लेशाः स्थैर्यम् चेतस्युपागताः |
तच्छान्तये तथा योगो बहुजन्मार्जितो भवेत् || १४ ||
स एवाभ्यस ताम् नॄणाम् तीव्रसम्वेगिचेतसाम् |
आसन्नताम् प्रयात्याशु विष्णुः सन्न्यस्तकर्मणाम् || १५ ||
ब्राह्मणक्षत्रियविशाम् स्त्रीशूद्रस्य च पावनम् |
शान्तये कर्मणाम् नान्यद्योगादस्ति हि मुक्तये || १६ ||
अभ्यस्तम् जन्मभिर्नैकैः शुभजातिभवेषु यत् |
योगस्वरूपम् तत्तेषाम् स्त्रीशूद्रत्वे व्यवस्थितम् || १७ ||
योगाभ्यासो नृणाम् येषाम् नास्ति जन्मान्तराहृतः |
योगस्य प्राप्तये तेषाम् शूद्रवैश्यादिकः क्रमः || १८ ||
स्त्रीत्वाच्छूद्रत्वमभ्येति ततो वैश्यत्वमाप्नुयात् |
ततश्च क्षत्रियो विप्रः क्रियाहीनस्ततो भवेत् || १९ ||
अनूचानस्तता यज्वी कर्मन्यासी ततः परम् |
ततो ज्ञानित्वमभ्येत्य योगी मुक्तिम् क्रमाल्लभेत् || २० ||
येषाम् तु जातिमात्रेण योगाभ्यासस्तिरोहितः |
आस्ते तत्रैव मुच्यन्ते जातिहेतौ क्षयङ्गते || २१ ||
असत्कर्म कृतम् पूर्वमसज्जातिप्रदायि यत् |
तस्मिन् योगाग्निना दग्धे तस्य जातेर्बलम् कुतः || २२ ||
यथा वातेरितः कक्षम् दहत्यूर्ध्वशिखोऽनलः |
सर्वकर्माणि योगाग्निर्भस्मसात्कुरुते तथा || २३ ||
यथा दग्धतुषम् बीजमबीजत्वान्न जायते |
(योगदग्धैस्तथा क्लेशैर्नात्मा सञ्जायते पुनः || २४ ||)
अदृष्टा दृष्टतत्त्वानाम् योगिनाम् योगविच्युतिः |
येषाम् भवति योगित्वम् प्राप्नुवन्तीह ते पुनः || २५ ||
सज्जातिप्रापकम् कर्म कृतम् तेन तदात्मना |
जातिम् प्रयान्ति विप्राद्या योगकर्मानुरञ्जिताः || २६ ||
तत्राप्यनेकजन्मोत्थयोगाभ्यासानुरञ्जिताः |
तेनैवाभ्यासयोगेन ह्रियन्ते तत्त्वविद्यया || २७ ||
जैगीषव्यो यथा विप्रो यथा चैवासितादयः |
हिरण्यनाभो राजन्यस्तथा वै जनकादयः || २८ ||
पूर्वाभ्यस्तेन योगेन तुलाधारादयो विशः |
सम्प्राप्ताः परमाम् सिद्धिम् शूद्राः पैलवकादयः || २९ ||
मैत्रेयी सुलभा गार्गी शाण्डिली च तपस्विनी |
स्त्रीत्वे प्राप्ताः पराम् सिद्धिमन्यजन्मसमाधितः || ३० ||
धर्मव्याधादयोऽप्यन्ये पूर्वाभ्यासाज्जुगुप्सिते |
वर्णावरत्वे सम्प्राप्ताः सम्सिद्धिम् श्रमणी यथा || ३१ ||
पूर्वाभ्यस्तम् च तत्तेषाम् योगज्ञानम् महात्मनाम् |
सुप्तोत्थितप्रत्ययवदुपदेशादिना विना || ३२ ||
तस्माद्योगः परम् श्रेयो विमुक्तिफलदो हि यः |
विमुक्तौ सुखमत्यन्तम् सम्मोहस्त्वितरत्सुखम् || ३३ ||
शौनक उवाच –
एतत्ते सर्वमाख्यातम् मया मनुजकुञ्जर |
श्रेयः परतरम् योगात्किञ्चिदन्यन्न विद्यते || ३४ ||
इति विष्णुधर्मे योगप्रशम्सा नाम द्वयधिकशततमोऽध्यायः
त्र्यधिकशततमोऽध्यायः
मूर्तिलक्षणम्
शतानीक उवाच –
कथितम् योगमाहात्म्यम् भवता मुनिसत्तम |
स्वरूम् तु न मे प्रोक्तम् श्रोतुमिच्छामि तद्ध्यहम् || १ ||
शौनक उवाच –
द्वैविध्यम् नृप योगस्य परम् चापरमेव च |
तच्छृणुष्व वदाम्येष वाच्यम् शुश्रूषताम् सताम् || २ ||
यो दद्याद्भगवज्ज्ञानम् कुर्याद्वा धर्मदेशनाम् |
कृत्स्नाम् वा पृथिवीम् दद्यान्न तत्तुल्यम् कथञ्चन || ३ ||
क्षयिष्णून्यपराणीह दानानि मनुजाधिप |
एकमेवाक्षयम् शस्तम् ज्ञानदानमनुत्तमम् || ४ ||
दानान्येकफलानीह त्रैलोक्ये ददता सताम् |
ज्ञानम् प्रयच्छता सम्यक् किम् न दत्तम् भवेन् नृप || ५ ||
ज्ञानान्यन्यान्यसाराणि शिल्पिनीव नरेश्वर |
एकमेव परम् ज्ञानम् यद्योगप्राप्तिकारकम् || ६ ||
अहम् वक्ता भवाञ्श्रोता वाच्यो योगो विमुक्तिदः |
प्राणिनामुपकाराय सम्पदेषा गुणाधिका || ७ ||
परेण ब्रह्मणा सार्धमेकत्वम् यन्नृपात्मनः |
स एव योगो विख्यातः किमन्यद्योगलक्षणम् || ८ ||
अपरम् च परम् चैव द्वौ योगौ पृथिवीपते |
तयोः स्वरूपम् वक्ष्यामि तदिहैकमनाः शृणु || ९ ||
सत्तामात्रम् परम् ब्रह्म विष्ण्वाख्यमविशेषणम् |
दुर्विचिन्त्यम् यतः पूर्वम् तत्प्राप्त्यर्थमथोच्यते || १० ||
वातालीचञ्चलम् चित्तमनालम्बनमस्थिति |
सूक्ष्मत्वाद्ब्रह्मणो राजन्नग्राह्यग्राह्यधर्मिणः || ११ ||
सम्यगभ्यस्यतोऽजस्रमुपबृम्हितशक्तिमत् |
जन्मान्तरशतैर्वापि ब्रह्म ग्राह्यमभिजायते || १२ ||
यद्यन्तरायदोषेण नापकर्षो नराधिप |
योगिनो योगरूढस्य तालाग्रात्पतनम् यथा || १३ ||
(ज्ञानम् प्रयच्छताम् सम्यक् किम् वदतु भवेन्नृप |)
तदाक्नोति परम् ब्रह्म क्लेशेन महता नृप |
जन्माभ्यासान्तरोत्थेन विज्ञानेन समेधितः || १४ ||
विष्ण्वाख्यम् ब्रह्म दुष्प्रापम् विषयाकृष्टचेतसा |
मनुष्येणेति तत्प्राप्तावुपायमपरम् शृणु || १५ ||
सुरूपाम् प्रतिमाम् विष्णोः प्रसन्नवदनेक्षणाम् |
कृत्वाऽऽत्मनः प्रीतिकरीम् सुवर्णरजतादिभिः || १६ ||
तस्याश्च लक्षणम् भूप शृणुष्व गदतो मम |
यद्द्रव्या यत्स्वरूपा च कर्तव्या ध्यानकर्मणि || १७ ||
सुवर्णरूप्यताम्रैस्तु आरकूटमयीम् तथा |
शैलदारुमृदा वापि लेख्यजाम् वाऽपि कारयेत् || १८ ||
कार्यस्तु विष्णुर्भगवान् सौम्यरूपश्चतुर्भुजः |
सलिलाध्मातमेघाभः श्रीमाञ्श्रीवत्सभूषितः || १९ ||
आबद्धमकुटः स्रग्वी हारभारार्पितोदरः |
स्वक्षेण चारुचिबुकः सुललाटेन सुभ्रुणा || २० ||
स्वोष्ठेन शुभलेखेन वदनेन विराजता |
कण्ठेन शुभलेखेन वराभरणधारिणा || २१ ||
नानारत्नानतार्ताभ्याम् श्रवणाभ्यामलङ्कृतः |
पुष्टश्लिष्टायतभुजस्तनुताम्रनखाङ्गुलिः || २२ ||
मध्येन त्रिवलीभङ्गभूषितेन च चारुणा |
सुपादः सूरुयुगलः सुकटीगुल्फजानुकः || २३ ||
वामपार्श्वे गदादेवी चक्रम् देवस्य दक्षिणे |
शङ्खो वामकरे देयो दक्षिणे पद्म सुप्रभम् || २४ ||
ऊर्ध्वदृष्टिमधोदृष्टिम् तिर्यग्दृष्टिम् न कारयेत् |
निमीलिताक्षो भगवान्न प्रशस्तो जनार्दनः |
सौम्या तु दृष्टिः कर्तव्या किञ्चित्प्रहसितेव च || २५ ||
कार्यश्चरणविन्यासः सर्वतः सुप्रतिष्ठितः |
चरणान्तरसम्स्था च बिभ्रती रूपमुत्तमम् |
कार्या वसुन्धरा देवी तत्पादतलधारिणी || २६ ||
यादृग्विधा वा मनसः स्थैर्यलम्भोपपादिका |
नृसिम्हवामनादीनाम् तादृशीम् कारयेद्बुधः || २७ ||
ब्रह्म तस्याम् समारोप्य मनसा तन्मयो भवेत् |
तामार्चयेत्ताम् प्रणमेत्ताम् स्मरेत्ताम् विचिन्तयेत् || २८ ||
तामर्चयम्स्ताम् प्रणमम्स्ताम् स्मरम्स्ताम् च चिन्तयन् |
विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् || २९ ||
सङ्कल्पनक्रियारूढः स्वरूपेण नृपात्मनः |
कुर्वीत भावनाम् तत्र तद्भावोत्पत्तिकारणात् |
नान्यत्र मनसानेया बुद्धिरीषदपि क्वचित् || ३० ||
यमैश्च नियमैश्चैव पूतात्मा पृथिवीश्वर |
मूर्तिम् भगवतः सम्यक् पूजयेत्तन्मयः सदा || ३१ ||
इति विष्णुधर्मे मूर्तिलक्षणम् नाम त्र्यधिकशततमोऽध्यायः
चतुरधिकशततमोऽध्यायः
योगाध्यायः
शतानीक उवाच –
यमाम्श्च नियमाम्श्चैव श्रोतुमिच्छामि भार्गव |
यैर्धूतकल्मषो योगी मुक्तिभागुपजायते || १ ||
शौनक उवाच –
अहिम्सा सत्यमस्तेयम् ब्रह्मचर्यापरिग्रहौ |
यमास्तवैते कथिता नियमानपि मे शृणु || २ ||
सन्तोषशौचस्वाध्यायास्तपश्चेश्वरभावना |
नियमाः कौरवश्रेष्ठ योगसम्सिद्धिहेतवः || ३ ||
एभिर्मूलगुणैः सद्भिर्विष्णोर्भक्तिमतस्तथा |
श्रद्धधानस्य चान्यानि योगाङ्गानि निबोध मे || ४ ||
मध्यमप्राणमचलम् सुखदायि शुभम् शुचि |
योगसम्सिद्धये भूप योगिनामासनम् स्मृतम् || ५ ||
प्राणायामस्त्रिधा वायोः प्राणस्य हृदि धारणम् |
कुम्भरेचकपूराख्यास्तस्य भेदास्त्रयो नृप || ६ ||
एते निबोध मात्रास्तु नालम्बनगुणान्विताः |
सालम्बनश्चतुर्थोऽन्यो बाह्यान्तर्विषयः स्मृतः || ७ ||
इन्द्रियाणाम् स्वविषयाद्बुद्धिः प्रत्येकशस्तु यत् |
करोत्याहरणम् ज्ञेयः प्रत्याहारः स पण्डितैः || ८ ||
शुभे ह्येकत्र विषये चेतसो यच्च धारणम् |
निश्चलत्वात्तु सा सद्भिर्धारणेत्यभिधीयते || ९ ||
पौनःपुन्येन तत्रैव विषये सैव धारणा |
ध्यानाख्या लभते राजन्समाधिमपि मे शृणु || १० ||
अर्थमात्रम् च यद्ग्राह्ये चित्तमादाय पार्थिव |
अर्थस्वरूपवद्भाति समाधिः सोऽभिधीयते || ११ ||
कथितानि तवैतानि योगाङ्गानि कृतैस्तु यैः |)
उत्कर्षो जायते व्यस्तैः समस्तैर्हेयसन्क्षयः || १२ ||
योगाङ्गान्यङ्गभूतानि ध्यानस्यैतान्यशेषतः |
ध्यानमप्यवनीपाल योगस्याङ्गत्वमृच्छति || १३ ||
ध्यानमेकव्रतानाम् तु कुशलाकुशलेषु तत् |
अर्थेष्वासक्तिमभ्येति सर्वदैव नरेश्वर || १४ ||
शुभाव्यावर्तितम् ध्यानमविवेकस्य जायते |
सम्सारदुःखदम् राजन्नशुभालम्बि तद्यतः || १५ ||
(तदेवाकृष्य दुष्टेभ्यो विषयेभ्यः शुभाशुभम् |)
सर्वसम्सारकान्तारपारमभ्येति मानवः || १६ ||
दुःखदाघप्रशमने या चिन्ताऽहर्निशम् नृणाम् |
तद्ध्यानमविशुद्धार्थम् सुखदानामपालने || १७ ||
कथम् सम्सारबन्धोऽयमस्मान्मुक्तिः कथम् त्विति |
मनोवृत्तिर्मनुष्याणाम् ध्यानमेतच्छुभम् द्विधा || १८ ||
शुद्धमप्येतदखिलम् लोभकार्यतयानया |
सुखाभिलाषो यन्मुक्तौ बन्धुदुःखादिपीडनात् || १९ ||
अवाञ्छितफलम् लोभमलोभाम्शविवर्जितम् |
शुभाशुभफलम् ध्यानमरक्तम् द्विष्टमिष्यते || २० ||
दृष्टानुमानागमिकम् ध्यानस्यालम्बनम् त्रिधा |
न हि निर्विषयम् ध्यानम् मूढवृत्तिरिवेष्यते || २१ ||
प्राक् स्थूलेषु पदार्थेषु ततः सूक्ष्मेषु पण्डितः |
ध्यानम् कुर्वीत तत्पश्चात् परमाणौ महीपते || २२ ||
ध्यानाभ्यासपरस्यैवम् हेयालम्बनबाधने |
तच्छान्तये तद्विपक्षभावनामेव भावयेत् || २३ ||
तच्चित्तस्तन्मयो ज्ञानी भवत्यस्मान्न दोषवत् |
कुर्वीतालम्बनम् काले कस्मिञ्श्चिदपि पार्थिव || २४ ||
आब्रह्मस्तम्बपर्यन्तजगदन्तर्व्यवस्थिताः |
प्राणिनः कर्मजनित सम्स्कारवशवर्तिनः || २५ ||
यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः |
अविद्यान्तर्गताः सर्वे ते हि सम्सारगोचराः || २६ ||
पश्चादुद्भूतबोधाश्च ध्याता नैवोपकारकाः |
नैसर्गिको न वै बोधस्तेषामप्यन्यतो यतः || २७ ||
तस्मात्तदमलम् ब्रह्म निसर्गादेव बोधवत् |
ध्येयम् ध्यानविदाम् सम्यग् यद्विष्णोः परमम् पदम् || २८ ||
न तद्यज्ञैर्न दानेन न तपोभिर्न तद्व्रतैः |
पश्यन्त्येकाग्रमनसो ध्यानेनैव सनातनम् || २९ ||
तच्च विष्णोः परम् रूपमनिर्देश्यमजम् स्थिरम् |
यतः प्रवर्तते सर्वम् लयमभ्येति यत्र च || ३० ||
अनिद्रमजमस्वप्नमरूपानाम शाश्वतम् |
योगिनस्तम् प्रपश्यन्ति ज्ञानदृश्यम् सनातनम् || ३१ ||
निर्धूतपुण्यपापा ये ते विशन्त्य् एवम् ईश्वरम् |
तच्च सर्वगतम् ब्रह्म विष्णुः सर्वेश्वरेश्वरः |
परमात्मा परः प्रोक्तः सर्वकारणकारणम् || ३२ ||
अनन्तशक्तिमीशेशम् स्वप्रतिष्ठमनोपमम् |
योगिनस्तम् प्रपश्यन्ति भगवन्तम् सनातनम् || ३३ ||
यत्र सर्वम् यतः सर्वम् यः सर्वम् सर्वतश्च यः |
योगिनस्तम् प्रपश्यन्ति भगवन्तम् सनातनम् || ३४ ||
सर्गादिकारणम् यस्य स्वभावादेव शक्तयः |
योगिनस्तम् प्रपश्यन्ति भगवन्तम् सनातनम् || ३५ ||
निर्धूतपुण्यपापा यम् विशन्त्यव्ययमीश्वरम् |
योगिनस्तम् प्रपश्यन्ति भगवन्तम् सनातनम् || ३६ ||
तत्र योगवतः सम्यक् पुरुषस्य नरेश्वर |
यदुक्तम् लक्षणम् तन्मे गदतः श्रोतुमर्हसि || ३७ ||
ब्रह्मण्येव स्थितम् चित्तम् सर्वतः सन्निवर्तितम् |
नान्यालम्बनसापेक्षम् योगिनः सिद्धिकारकम् || ३८ ||
सम्स्थानमविकारेण चेतसो ब्रह्मसम्स्थितौ |
निवात इव दीपस्य योगिनः सिद्धिलक्षणम् || ३९ ||
एवमेकाग्रचित्तस्य पुण्यापुण्यमशेषतः |
प्रयाति सन्क्षयमृते देहारम्भकरे नृप || ४० ||
देहारम्भकरस्यापि कर्मणः सन्क्षयावहः |
यो योगः पृथिवीपाल शृणु तस्यापि लक्षणम् || ४१ ||
यत्तद्ब्रह्म परम् प्रोक्तम् विष्ण्वाख्यमजमव्ययम् |
चेतसः प्रलयस्तत्र योग इत्यभिधीयते || ४२ ||
योगसेवानिरोधेन प्रलीने तत्र चेतसि |
पुरुषः कारणाभावाद्भेदम् नैवानुपश्यति || ४३ ||
परात्मनोर्मनुष्येन्द्र विभागो ज्ञानकल्पितः |
क्षये तस्यात्मपरयोर्विभागाभाग एव हि || ४४ ||
परमात्मात्मनोर्योऽयमविभागः परन्तप |
स एव परमो योगः समासात् कथितस्तव || ४५ ||
यथा कमण्डलौ भिन्ने तत्तोयम् सलिले गतम् |
व्रजत्यैक्यम् तथैवैतदुभयम् कारणक्षयात् || ४६ ||
यथाऽग्निरग्नौ सन्क्षिप्तः समानत्वम् अनुव्रजेत् |
तदाख्यस्तन्मयो भूत्वा गृह्यते न विशेषतः || ४७ ||
एवम् ब्रह्मात्मनोर्योगादेकत्वमुपपन्नयोः |
न भेदः कलशाकाशनभसोरिव जायते || ४८ ||
प्रक्षीणाशेषकर्मा तु यदा ब्रह्ममयः पुमान् |
तदा स्वरूपमस्योक्तेर्गोचरे नोपपद्यते || ४९ ||
घटध्वम्से घटाकाशम् न भिन्नम् नभसो यथा |
ब्रह्मणा हेयविध्वम्से विष्ण्वाख्येन पुमाम्स्तथा || ५० ||
भिन्ने दृतौ यथा वायुर्नैवान्यः सह वायुना |
क्षीणपुण्याघबन्धस्तु तथाऽऽत्मा ब्रह्मणा सह || ५१ ||
ततः समस्तकल्याणसमस्तसुखसम्पदाम् |
आह्लादमन्यमतुलम् कमप्याप्नोति शाश्वतम् || ५२ ||
ब्रह्मस्वरूपस्य तदा ह्यात्मनो नित्यदैव सः |
व्युत्थानकाले राजेन्द्र आस्ते हेयतिरोहितः || ५३ ||
आदर्शस्य मलाभावाद्वैमल्यम् काशते यथा |
ज्ञानाग्निदग्धहेयस्य सोऽह्लादो ह्यात्मनस्तथा || ५४ ||
यथा न क्रियते ज्योत्स्ना मलप्रक्षालनादिना |
दोषप्रहाणम् न ज्ञानमात्मनः क्रियते तथा || ५५ ||
यथोदपानकरणात्क्रियते न जलाम्बरम् |
सदैव नीयते व्यक्तिमसतः सम्भवः कुतः || ५६ ||
यथा हेयगुणध्वम्सादवबोधादयो गुणाः |
प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते || ५७ ||
ज्ञानवैराग्यमैश्वर्यम् धर्मश्च मनुजेश्वर |
आत्मनो ब्रह्मभूतस्य नित्यमेव चतुष्टयम् || ५८ ||
एतदद्वैतमाख्यातमेष योगस्तवोदितः |
अयम् विष्णुरिदम् ब्रह्म तथैत्सत्यमुत्तमम् || ५९ ||
पुनश्च श्रूयतामेष सन्क्षेपाद्गदतो मम |
नानात्वैकत्वविज्ञानस्वरूपमवनीपते || ६० ||
आत्मा क्षेत्रज्ञसञ्ज्ञोऽयम् सम्युक्तः प्राकृतैर्गुणैः |
तैरेव विगतैः शुद्धः परमात्मा निगद्यते || ६१ ||
ध्येयम् ब्रह्म पुमान् ध्याता उपायो ध्यानसञ्ज्ञितः |
यत्स्वेतत् करणेष्वास्ते तद्वर्गे का विभागता || ६२ ||
सन्क्षेपादपि भूपाल सन्क्षेपमपरम् शृणु |
पुत्राय यत्पिता ब्रूयात् स्वशिष्यायाथवा गुरुः || ६३ ||
न वासुदेवात् परमस्ति किञ्चिन्न वासुदेवाद्गदितम् परम् च |
न वासुदेवात् परमस्ति किञ्चित् न वासुदेवाज्जगतीह किञ्चित्
सत्यम् परम् वासुदेवोऽमितात्मा नमो नमो वासुदेवाय नित्यम् || ६४ ||
तस्मात्तमाराधय चिन्तयेशमभ्यर्चयानन्तमतन्द्रितात्मा |
सम्सारपारम् परमीप्समानैराराधनीयो हरिरेक एव || ६५ ||
आराधितोऽर्थान् धनकाङ्क्षकाणाम् धर्मार्थिनाम् धर्ममशेषधर्मी |
ददाति कामाम्श्च मनोनिविष्टान् मोक्षार्थिनाम् मुक्तिद एव विष्णुः || ६६ ||
इति विष्णुधर्मे योगाध्यायो नाम चतुरधिकशततमोऽध्यायः
पञ्चाधिकशततमोऽध्यायः
वर्णाश्रमधर्माः

शतानीक उवाच –
ममैतत् कथितम् सम्यगात्मविद्याश्रितम् मुने |
यत्त्वन्यच्छ्रोतुमिच्छामि तत्प्रसन्नो वदस्व मे || १ ||
येयम् मुक्तिर्भगवता प्रोक्ता वर्णक्रमान्मम |
तत्रेच्छामि मुने श्रोतुम् वर्णाद्वर्णोत्तरोच्छ्रयम् || २ ||
शूद्रो वैश्यत्वमभ्येति कथम् वैश्यश्च भार्गव |
क्षत्रियत्वम् द्विजश्रेष्ठ ब्राह्मणत्वम् कथम् ततः || ३ ||
विप्रत्वान्मुक्तियोग्यत्वम् यथा याति महामुने |
द्विजश्च मुक्तियोग्यत्वम् यथाऽयाति महामुने
तदहम् श्रोतुमिच्छामि त्वत्तो भार्गवनन्दन || ४ ||
शौनक उवाच –
त्वद्युक्तोऽयमनुप्रश्नः कुरुवर्य शृणुष्व तम् |
मयोच्यमानमखिलम् वर्णानामुपकारकम् || ५ ||
शूद्रधर्मानशेषेण कुर्वञ्शूद्रो यथाविधि |
वैश्यत्वमेति वैश्यश्च क्षत्रियत्वम् स्वकर्मकृत् || ६ ||
विप्रत्वम् क्षत्रियः सम्यग्द्विजधर्मपरो नृप |
विप्रश्च मुक्तिलाभेन युज्यते सत्क्रियापरः || ७ ||
सर्वेषामेव वर्णानाम् स्वधर्ममनुवर्तताम् |
सदोच्छ्रितिः न्यूनकृतो हानिश्चोत्कृष्टकर्मणः || ८ ||
तेषाम् च ब्राह्मणादीनाम् वर्णधर्माननुक्रमात् |
समुच्छ्रितिप्रदान् राजन् गदतो मे निशामय || ९ ||
अनसूया दया क्षान्तिः शौचम् मङ्गलमस्पृहा |
अकार्पण्यमनायासस्तथान्यः सार्ववर्णिकः || १० ||
अष्टावेते गुणाः पुम्साम् परत्रेह च भूतये |
भवन्ति कुरुशार्दूल पृथग्धर्माम्श्च मे शृणु || ११ ||
यज्ञाध्ययनदानानि ब्रह्मक्षत्रविशाम् नृप |
साधारणानि तेषाम् तु जीविकाकर्म कथ्यते || १२ ||
याजनाध्यापनैर्विप्रस्तथा शस्त्रप्रतिग्रहैः |
भृत्यादिभरणम् कुर्याद् यज्ञाम्श्च विभवे सति || १३ ||
भृत्यादिभरणम् नालम् स्ववृत्त्या हि यदा द्विजः |
तदा जीवेत् समालम्ब्य वृत्तिम् क्षत्रियवैश्ययोः || १४ ||
सन्त्यजेत समस्ताम्स्तान्न कुर्याद्वृत्तिसङ्करम् |
आपत्कालेऽपि विप्रस्य शूद्रकर्म न शस्यते || १५ ||
प्रजानाम् पालनम् सम्यग्विधिः प्रथमकल्पितः |
राजन्यस्य महीपाल शस्त्राजीवेन वा भृतिः || १६ ||
तदुत्पन्नैर्धनैः कुर्यात् समस्ताः क्षत्रियक्रियाः |
तस्याप्यापदि वैश्यस्य या वृत्तिः सा विधीयते || १७ ||
वाणिज्यम् वैश्यजातस्य पशूनाम् पालनम् कृषिः |
दद्याद्यजेच्च विधिवत्तदुत्पन्नधनेन सः || १८ ||
द्विजातिजनशुश्रूषाम् क्रयविक्रयजैर्धनैः |
शूद्रो यजेत् पाकयज्ञैर्दद्यादिष्टानि चार्थिनाम् || १९ ||
तस्मै शुश्रूषवे देयम् जीर्णवस्त्रमुपानहौ |
छत्त्रादिकम् तथा कुर्यात् सम्यग्धर्मोपपादनम् || २० ||
चतुर्णामपि वर्णानाम् धर्मस्ते कथितो मया |
शृणुष्व च महीपाल धर्ममाश्रमिणामतः || २१ ||
कृतोपनयनः पूर्वम् ब्रह्मचारी गुरोर्गृहे |
गुरुशुश्रूषणम् कुर्याद्भैक्षान्नकृतभोजनः || २२ ||
निवेद्य गुरवे भैक्षमत्तव्यम् तदनुज्ञया |
गुरोर्भुक्तवतः पश्चान्नातिस्वादुमुदावता || २३ ||
वह्निशुश्रूषणम् कुर्याद्वेदाहरणमेव च |
गुरोरर्थे सदा तोयम् समिदाहरणम् तथा || २४ ||
पुष्पादीनाम् च कुर्वीत सुप्ते तस्मिञ्शयीत च |
शयने च समुत्तिष्ठेत्तम् व्रजन्तमनुव्रजेत् || २५ ||
आहूतश्च पठेत्तेन तन्मना नान्यतोमुखः |
व्रतानि चरता सम्यग्ग्राह्यो वेदो यतात्मना || २६ ||
दण्डवत्फ्रावनम् स्नाने शस्तम् नास्यङ्गशोधनम् |
अधीत्य वेदान् वेदौ वा वेदम् वाऽपि यथाक्रमम् |
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् || २७ ||
यथेष्टाम् दक्षिणाम् दत्त्वा गुरवे कुरुनन्दन |
ततोऽनुज्ञाम् समासाद्य गृहस्थाश्रममावसेत् || २८ ||
तेनैवान्तम् व्रजेत्प्राज्ञस् तच्छुश्रूषणतत्परः वानप्रस्थाश्रमम् तस्मात् |
चतुर्थम् वापि सम्श्रयेत् यथाक्रमम् वा कुर्वीत विधिवद् दारसङ्ग्रहम् || २९ ||
कुर्वीत विधिवद्दारसङ्ग्रहम्
ततस्त्वरोगिकुलजाम् तुल्याम् पत्नीम् समुद्वहेत् |
गृहस्थाश्रमवृत्त्यर्थमव्यङ्गाम् विधिना नृप || ३० ||
आख्यातवर्णधर्मेण धनम् लब्ध्वा महीपते |
कुर्वीत श्रद्धया युक्तो नित्यनैमित्तिकीः क्रियाः || ३१ ||
अभ्यागतातिथीन् बन्धून् भृत्यादीनातुराम्स्तथा |
तोषयेच्छक्तितोऽन्नेन वयाम्स्यन्त्यपशूनपि || ३२ ||
ऋतावुपगमश्चैव गृहस्थस्यापि शब्दितः |
धर्मो धर्मभृताम् श्रेष्ठ यज्ञोच्छिष्टम् च भोजनम् || ३३ ||
हव्येन प्रीणयेद्देवान्पितृन् कव्येन शक्तितः |
मनुष्यान् अन्नपानेन स्वाध्यायेनर्षितर्पणम् || ३४ ||
………अन्नदानेन तोयेन ऋषितर्पणम् |
कुर्याच्च प्रीणनम् नित्यम् भूतानाम् बलिकर्मणा |
प्रजापतिम् सुतोत्पत्त्या हार्देन सकलम् जनम् || ३५ ||
शुभेन कर्मणाऽऽत्मानमुपदेशेन चात्मजान् |
अनुजीविजनम् वृत्त्या गृहस्थस्तोषयेत् सदा || ३६ ||
तथैवापरमानेभ्यः प्रदेयम् गृहमेधिना |
अन्नम् भिक्षार्थिनो ये च परिव्राड्ब्रह्मचारिणः || ३७ ||
एवम् गृहाश्रमे देवाः पितरो मुनयस्तथा |
सर्वकामान् प्रयच्छन्ति मनुष्याश्च सुपूजिताः || ३८ ||
गृहस्थास्तु यदा पश्येद् वलीपलितमात्मनः |
गृहस्थस्तु यदा पश्येद् फलितम् जातमात्मनः
(अपत्यस्य तथाऽपत्यम् तदाऽरण्यम् समाश्रयेत् || ३९ ||)
पितृदेवातिथीनाम् तु स्मृतम् तत्रापि पूजनम् |
तथैवारण्यभोगश्च तपोभिश्चात्मकर्षणम् || ४० ||
ब्रह्मचर्यम् महीशय्या होमस्त्रिषवणाप्लुतिः |
मौनादिकरणम् शस्तम् जटावल्कलधारणम् || ४१ ||
ग्रीष्मे पञ्चतपोभिश्च वर्षास्वभ्रावकाशिकैः |
जलशय्या च हेमन्ते भाव्यम् वननिकेतनैः || ४२ ||
इङ्गुदैरण्डतैलेन गात्राभ्यङ्गानि चेष्यते |
श्यामाकनीवारमयम् फलमूलैश्च भोजनम् || ४३ ||
अप्रवेशस्तथा ग्रामे वानप्रस्थविधिः स्मृतः |
वानप्रस्थस्य ते प्रोक्तम् धर्मलक्षणमादितः || ४४ ||
आश्रमणम् त्वपरम् भिक्षोः शृणुष्व गदतो मम |
ग्रामैकरात्रिर्वसतिर्नगरे पञ्चरात्रिका || ४५ ||
ग्रामैकशास्त्रनगरे वससिर्पञ्चरात्रिका
सर्वसङ्गपरित्यागः क्षान्तिरिन्द्रियसम्यमः |
त्रिकालभैक्षचरणमनारम्भस्तथा नृप || ४६ ||
आत्मज्ञानावबोधेच्छा ब्रह्मचर्यम् समाधिना |
आत्मावलोकनम् चैव भिक्षोः शस्तानि पार्थिव || ४७ ||
चतुर्थश्चैष कथितस्तव भिक्षोर्मयाऽऽश्रमः |
क्रमाद्विमुक्तिकामानाम् पुरुषाणामयम् विधिः || ४८ ||
एवम् तु वर्णधर्मेण तथा चाश्रमकर्मणा |
निजेन सम्पूज्य हरिम् सिद्धिमाप्नोति मानवः || ४९ ||
ब्रह्मचारी गृहस्थश्च भिक्षुर्वैखानसस्तथा |
कुर्वन्तो निजकर्माणि विष्णुमेव यजन्ति ते || ५० ||
यतो हि देवताः सर्वा ब्रह्माद्याः कुरुनन्दन |
अम्शभूता जगद्धातुर्विणोरव्यक्तजन्मनः || ५१ ||
विश्वे देवा यतो विष्णुर्विष्णुः पितृगणो यतः |
देवा यज्ञभुजश्चेशो यतः पापहरो हरिः || ५२ ||
विश्व भूतानि भूतानि यतो विष्णुस्तथर्षयः |
ततः सर्वाश्रमाणाम् हि पूज्य एको जनार्दनः || ५३ ||
सर्वेश्वरम् सर्वमयम् समस्तसम्सारहेतुक्षयकारणेशम् |
वरम् वरेण्यम् वरदम् वरिष्ठम् विष्णुम् क्रियावान् यजते मनुष्यः || ५४ ||
यस्योदरे जगदिदम् परमाणुभूतम्
चन्द्रेन्द्ररुद्रमरुदश्विवसुप्रजेशैः |
सर्वैः समेतममितात्मतनोस्तमेकम्
अभ्यर्च्य विष्णुमभिवाञ्छितमस्त्यलभ्यम् || ५५ ||
आराध्य यम् भुवनभावनमच्युताख्यम्
ऐश्वर्यमीप्सितमवाप पतिः सुराणाम् |
त्रैलोक्यसारममरार्चितपादपद्मम्
एकम् तमेव हरिमर्चयतार्चनीयम् || ५६ ||
यस्याङ्घ्रिपद्मगलिताम्भसि देव दैत्य–
यक्षादिभिः सकलपापमपोह्य सिद्धिः |
सम्प्राप्यते मरणजन्मजरापहन्त्री
विष्णोरजात् कथय कोऽभ्यधिकस्ततोऽस्ति || ५७ ||
कमलजहरसूर्यचन्द्रशक्रैः सततमभिष्टुतमाद्यमीशितारम् |
सकलभुवनकार्यकारणेशम् पुरुषतनुम् प्रणतोऽस्मि वासुदेवम् || ५८ ||
न सूतिका पुरुषमजम्
इति विष्णुधर्मे वर्णाश्रमधर्मो नाम पञ्चाधिकशततमोऽध्यायः
षडधिकशततमोऽध्यायः
ऊर्वशीसम्भवः

शतानीक उवाच
श्रुतम् भगवतो रूपमद्वैते यत्त्वयोदितम् |
विष्णोर्भृगुकुलश्रेष्ठ यच्च द्वैते महात्मनः || १ ||
अविद्याभिन्नदृग्बुद्धिः पुरुषो मुनिपुङ्गव |
द्वैतभूते जगत्यस्मिन्नद्वैतम् भावयेत् कथम् || २ ||
क्रोधलोभादयो दोषा ये मुक्तेः परिपन्थिनः |
विनिवृत्तिरूपा येन तेषाम् येन वदेह तम् || ३ ||
सर्वेश्वरेश्वरेशस्य तत् च रूपम् हरेः परम् |
तच्चाहम् श्रोतुमिच्छामि त्वत्तो भृगुकुलोद्वह || ४ ||
शौनक उवाच –
सम्यक् पृष्टमिदम् भूप भवता गुह्यमुत्तमम् |
द्वैताद्वैतकथालापसम्बन्धादुपकारकम् || ५ ||
(पुरा धर्मगृहे जज्ञे चतुर्मूर्तिर्नरेश्वर |
देवदेवो जगद्धाता परमात्मा जनार्दनः || ६ ||)
जगतः पालनार्थाय दुर्वृत्तनिधनाय च |
स्वेच्छया भगवान्विष्णुः सम्भवत्येव भूतले || ७ ||
स्वर्गे वापि भूलोके वा भुवर्लोकेऽथवा विभुः |
यत्र वा रोचते तत्र चिकीर्षुर्जगतो हितम् || ८ ||
तुरीयाम्शेन धर्मस्य भगवान् भूतभावनः |
यदाऽवतारम् कृतवाम्स्तदा तच्चरितम् शृणु || ९ ||
नरो नारायणश्चैव हरिः कृष्णस्तथैव च |
विष्णोरम्शाम्शका ह्येते चत्वारो धर्मसूनवः || १० ||
तेषाम् नारायणनरौ गन्धमादनपर्वते |
आत्मन्यात्मानमाधाय तेपते परमम् तपः || ११ ||
ध्यायमानावनौपम्यम् स्वकारणमकारणम् |
वासुदेवमनिर्देश्यमप्रतर्क्यमजम् परम् |
योगयुक्तौ महामौनमास्थितौ गुरुतेजसौ || १२ ||
तयोस्तपःप्रभावेण न तताप दिवाकरः |
ववौ चाशङ्कितो वायुः सुखस्पर्शो ह्यसर्करः || १३ ||
शिशिरोऽभवदत्यर्थम् ज्वलन्नपि विभावसुः |
सिम्हव्याघ्रादयः सौम्याश्चेरुः सह मृगैर्गिरौ || १४ ||
तयोर्गौरवभारार्ता पृथिवी पृथिवीपते |
चचाल भूधराश्चेलुश्चुक्षुभुश्च महाब्धयः || १५ ||
देवाश्च स्वेषु धिष्ण्येषु निष्प्रभेषु हतप्रभाः |
बभूवुरवनीपाल परमम् क्षोभमागताः || १६ ||
देवराजस्ततः शक्रः सन्त्रस्तस्तपसस्तयोः |
युयोजाप्सरसः शुभ्रास्तयोर्विघ्नचिकीर्षया || १७ ||
इन्द्र उवाच –
रम्भे तिलोत्तमे कुण्ठे घृताचि ललितावति |
उम्लोचे सुभ्रु प्रम्लोचे सौरभेऽपि मदोद्धते || १८ ||
अलम्बुषे मिश्रकेशि पुण्डरीके वरूथिनि |
विलोभनीयम् बिभ्राणा वपुर्मन्मथबोधनम् || १९ ||
गन्धमादनमासाद्य कुरुध्वम् वचनम् मम |
नरनारायणौ तत्र तपोदीक्षान्वितौ द्विजौ |
तप्येते धर्मतनयौ तपः परमदुश्चरम् || २० ||
तावस्माकम् वरारोहाः कुर्वाणौ परमम् तपः |
कर्मातिशयदुःखार्तिप्रदावयतिनाशकौ || २१ ||
तद्गच्छत न भीः कार्या भवतीभिरिदम् वचः |
स्मरः सहायो भविता वसन्तश्च वराङ्गनाः || २२ ||
रूपम् च वः समालोक्य मदनोद्दीपनम् परम् |
कन्दर्पवशमभ्येति विवशः को न मानवः || २३ ||
शौनक उवाच –
इत्युक्ता देवराजेन मदनेन समम् तदा || २४ ||
जग्मुरप्सरसः सर्वा वसन्तश्च महीपते || २५ ||
गन्धमादनम् आसाद्य पुंस्कोकिलकुलाकुलम् |
चकार माधवो रम्यं प्रोत्फुल्लवनपादपम्
प्रववौ दक्षिणः सद्यो मलयानुगतोऽनिलः |
भृङ्गमालारुतरवैर्रमणीयमभूद्वनम् || २६ ||
गन्धश्च सुरभिः सद्यो वनराजिसमुद्भवः |
किन्नरोरगयक्षाणाम् बभूव घ्राणतर्पणः || २७ ||
वराङ्गनाश्च ताः सर्वा नरनारायणावृषी |
विलोभयितुमारब्धा वराङ्गललितैः स्मितैः || २८ ||
जगुर्मनोहरम् काश्चिन्ननृतुश्चात्र चापराः |
अवादयम्स्तथैवान्या मनोहरतरम् नृप || २९ ||
हावैर्भावैः स्मितैस्त्रासैस्तथान्या वल्गुभाषितैः |
तयोः क्षोभाय तन्वङ्ग्यश्चक्रुरुद्यममङ्गनाः || ३० ||
तथापि न तयोः कश्चिन्मनसः पृथिवीपते |
विकारोऽभवदध्यात्मपारसम्प्राप्तचेतसोः || ३१ ||
निवातस्थौ यथा दीपावकम्पौ नृप तिष्ठतः |
वासुदेवार्पणे स्वच्छे तथैव मनसी तयोः || ३२ ||
पूर्यमाणोऽपि चाम्भोभिर्भुवमन्याम् महोदधिः |
यथा न याति न ययौ तथा तन्मानसम् क्वचित् || ३३ ||
सर्वभूतहितौ ब्रह्म वासुदेवमयम् परम् |
मन्यमानौ न रागस्य द्वेषस्य च वशम्गतौ || ३४ ||
स्मरोऽपि न शशाकाथ प्रवेष्टुम् हृदयम् तयोः |
विद्यामयम् दीपयुतमन्धकारमिवालयम् || ३५ ||
पुष्पोज्ज्वलाम्स्तरुवरान् वसन्तम् दक्षिणानिलम् |
ताश्चैवाप्सरसः सर्वाः कन्दर्पम् च महामुनी || ३६ ||
यच्चारब्धम् तपस्ताभ्यामात्मानम् गन्धमादनम् |
ददृशातेऽखिलम् रूपम् ब्रह्मणः पुरुषर्षभ || ३७ ||
दाहाय नानलो वह्नेर्नापःक्लेदाय चाम्भसः |
तद्द्रव्यमेव तद्द्रव्यविकाराय न वै यतः || ३८ ||
ततो विज्ञानविज्ञातपरब्रह्मस्वरूपयोः |
मधुकन्दर्पयोषित्सु विकारो नाभवत्तयोः || ३९ ||
ततो गुरुतरम् यत्नम् वसन्तमदनौ नृप |
चक्राते ताश्च तन्वङ्ग्यस्तत्क्षोभाय पुनः पुनः || ४० ||
अथ नारायणो धैर्यगाम्भीर्यौदार्यमानसः |
ऊरोरुत्पादयामास ताम् वरोरुबलाम् तदा || ४१ ||
त्रैलोक्यसुन्दरीरत्नमशेषमवनीपते |
गुणलाघवमभ्येति यस्याः सन्दर्शनादनु || ४२ ||
ताम् विलोक्य महीपाल चकम्पे माधवानिलम् |
वसन्तो विस्मरम् यातः सम्यातः सम्स्मरम् स्मरः || ४३ ||
रम्भातिलोत्तमाद्याश्च विलक्षा देवयोषितः |
न रेजुरवनीपाल तल्लक्षहृदयेक्षणाः || ४४ ||
ततः कामो वसन्तश्च पार्थिवाप्सरसश्च ताः |
प्रणम्य भगवन्तौ तौ तुष्टुवुर्मुनिसत्तमौ || ४५ ||
प्रसीदतु जगद्धाता यस्य देवस्य मायया |
मोहिताः स्म विजानीमो नान्तरम् वन्द्यनिन्द्ययोः || ४६ ||
प्रसीदतु स नो देवो यस्य रूपमिदम् द्विधा |
धाम भूतस्य लोकानामनादेरत्र तिष्ठति || ४७ ||
नरनारायणौ देवौ शार्ङ्गचक्रायुधावुभौ |
आस्ताम् प्रसादसुमुखावस्माकमपराधिनाम् || ४८ ||
निधानम् सर्वविद्यानाम् सर्वपापेन्धनानलः |
नारायणो नो भगवान् सर्वपापम् व्यपोहतु || ४९ ||
शार्ङ्गचक्रायुधः श्रीमान् आत्मज्ञानमयोऽनघः |
नरः समस्तपापानि हत्वात्मा सर्वदेहिनाम् || ५० ||
जटाकलापबन्धोऽयमनयोरक्षयात्मनोः |
सौम्या च दृष्टिः पापानि हन्तु सर्वाणि नः शुभा || ५१ ||
प्रसीदतु नरोऽस्माकम् तथा नारायणोऽव्ययः |
अपराधः कृतोऽस्माभिर्ययोरव्यक्तजन्मनोः || ५२ ||
क्व मूर्तिरैश्वर्यगुणैर्युक्ता दिव्यैर्महात्मनोः |
क्व नः शरीरकाणीदृग्मिश्रकर्मचितानि वै || ५३ ||
तथाप्यविद्यादुष्टेन मनसा यः कृतो हि वाम् |
अस्माभिरपराधोऽयम् क्षम्यताम् सुमहाद्युती || ५४ ||
शरणम् च प्रपन्नानाम् तवास्मीति च वादिनाम् |
प्रसादम् पितृहन्तॄणामपि कुर्वन्ति साधवः || ५५ ||
एष एव वरोऽस्माकमविवेकाहृतो महान् |
त्रैलोक्यवन्द्यौ यन्नाथौ विलोभयितुमागताः || ५६ ||
प्रसीद देव विज्ञानघनमूढदृशामपि |
भवन्ति सन्तः सततम् सद्धर्मन्यवतारकाः || ५७ ||
दृष्ट्वैतन्नः समुत्पन्नम् यथा स्त्रीरत्नमीदृशम् |
त्वयि नारायणोत्पन्ना श्रेष्ठा पारवती मतिः || ५८ ||
तेन सत्येन सत्यात्मन् परमात्मन् सनातन |
नारायण प्रसीदेति सर्वलोकपरायण || ५९ ||
प्रसन्नबुद्धे शान्तात्मन् प्रसदन्नवदनेक्षण |
प्रसीद योगिनामीश नर सर्वगताच्युत || ६० ||
नमस्यामो नरम् देवम् तथा नारायणम् हरिम् |
नमो नराय नम्याय नमो नारायणाय च || ६१ ||
प्रसन्नानामनाथानामपराधवताम् प्रभुः |
शम् करोतु नरोऽस्माकम् शम् नारायण देहि नः || ६२ ||
शौनक उवाच –
एवमभ्यर्थितः स्तुत्या रागद्वेषादिवर्जितः |
प्राहेशः सर्वभूतानाम् साध्यो नारायणो नृप || ६३ ||
स्वागतम् मधवे काम भवतोऽप्सरसामपि |
यत्कार्यमागतानाम् व इहास्माभिस्तदुच्यताम् || ६४ ||
गता यूयम् इहास्माभिस्तदुच्यताम् |
यूयम् सम्सिद्धये नूनमस्माकम् बलशत्रुणा |
सम्प्रेषितास्ततोऽस्माकम् नृत्तगेयादिदर्शितम् || ६५ ||
न वयम् नृत्तगीतेन नाङ्गचेष्टादिभाषितैः |
लुभ्यामो विषतो मन्ये विषया दारुणात्मकाः || ६६ ||
शब्दादिसङ्गदुष्टानि यदा नाक्षाणि नः शुभाः |
तदा नृत्तादयो भावाः कथम् लोभप्रदायिनः || ६७ ||
ते सिद्धाः स्म न वै साध्या भवतीनाम् स्मरस्य च |
माधवस्य च शक्रोऽपि स्वास्थ्यम् यात्वविशङ्कितः || ६८ ||
योऽसौ परस्मात्परमः पुरुषात्परमेश्वरः |
परमात्मा हृषीकेशः स्थावरस्य चरस्य च || ६९ ||
उत्पत्तिहेतुरन्ते च यस्मिन् सर्वम् प्रलीयते |
स सर्ववासिदेवत्वाद्वासुदेवेत्युदाहृतः || ७० ||
वयमम्शाम्शकास्तस्य चतुर्व्यूहस्य मायिनः |
तदादेशितवर्त्मानो जगद्बोधाय देहिनः || ७१ ||
तम् सर्वभूतम् सर्वेशम् सर्वत्र समदर्शिनः |
पश्यन्तः कुत्र रागादीन् करिष्यामो विभेदकान् || ७२ ||
वसन्ते मयि चेन्द्रे च भवतीषु तथा स्मरे |
यदा स एव विश्वात्मा तदा द्वेषादयः कथम् || ७३ ||
तन्मयान्यविभक्तानि यदा सर्वेषु जन्तुषु |
पृथिव्यापस्तथा तेजो वायुराकाशमेव च || ७४ ||
तथेन्द्रियाण्यहङ्कारो बुद्धिश्च न पृथग्यतः |
समदृष्टिर्यतः कुत्र रागद्वेषौ प्रवर्ततः || ७५ ||
आत्मा चायमभेदेन यतः सर्वेषु जन्तुषु |
सर्वेश्वरेश्वरो विष्णुः कुत्र रागादयस्ततः || ७६ ||
ब्रह्माणमिन्द्रमीशानमादित्यान् मरुतोऽखिलान् |
विश्वेदेवानृषीन् साध्यान्वसून्पितृगणाम्स्तथा || ७७ ||
यक्षराक्षसभूतादीन्नागसर्पसरीसृपान् |
मनुष्यपक्षिगोरूपगजसिम्हजलेचरान् || ७८ ||
मक्षिकामशकादम्शाञ्शलभानलसान्कृमीन् |
गुल्मवृक्षलतावल्लित्वक्सारतृणजातिजान् || ७९ ||
यच्च किञ्चिददृश्यम् वा दृश्यम् वा त्रिदशाङ्गनाः |
मन्यध्वम् रूपमेकस्य तत्सर्वम् परमात्मनः || ८० ||
जायमानः कथम् विष्णुमात्मानम् परमम् च यत् |
रागद्वेषौ तथा लोभम् कः कुर्यादमराङ्गनाः || ८१ ||
सर्वभूतस्थिते विष्णौ सर्वगे सर्वधातरि |
निपात्यताम् पृथग्भूते कुत्र रागादिको गणः || ८२ ||
एवमस्मासु युष्मासु सर्वभूतेषु चाबलाः |
तन्मयत्वैकभूतेषु रागाद्यवसरः कुतः || ८३ ||
सम्यग्दृष्टिरियम् प्रोक्ता समस्तैक्यावलोकिनी |
पृथग्विज्ञानमत्रैव लोकसम्व्यवहारवत् || ८४ ||
भूतेन्द्रियान्तःकरणा प्रधानपुरुषात्मकम् |
जगद्यदेतदखिलम् तदा भेदः किमात्मकः || ८५ ||
भवन्ति लयमायान्ति समुद्रे सलिलोर्मयः |
न वारिभेदतो भिन्नास्तथैवैक्यादिदम् जगत् || ८६ ||
यथाग्नेरर्चिषः पीताः पिङ्गलारुणधूसराः |
भवन्ति नाग्निभेदेन तथैतद्ब्रह्मणो जगत् || ८७ ||
भवतीभिश्च यत्क्षोभमस्माकम् स पुरन्दरः |
कारयत्यसदेतच्च विवेकाधारचेतसाम् || ८८ ||
भवत्यः स च देवेन्द्रो लोकाश्च ससुरासुराः |
समुद्राद्रिवनोपेता मद्देहान्तरगोचराः || ८९ ||
यथेयम् चारुसर्वाङ्गी भवतीनाम् मयोरुतः |
दर्शिता दर्शयिष्यामि तथात्रैवाखिलम् जगत् || ९० ||
प्रयातु शक्रो मा गर्वमिन्द्रत्वम् कस्य सुस्थिरम् |
यूयम् च मा स्मयम् यात सन्ति रूपान्विताः स्त्रियः || ९१ ||
किम् सुरूपम् कुरूपम् वा यदा भेदो न दृश्यते |
तारतम्यम् सुरूपत्वे सततम् भिन्नदर्शिनाम् || ९२ ||
भवतीनाम् स्मयम् मत्वा रूपौदार्यगुणोद्भवम् |
मयेयम् दर्शिता तन्वी ततस्तच्छममिच्छता || ९३ ||
यस्मान्मदूरोरुद्भूता इयमिन्दीवरेक्षणा |
ऊर्वशी नाम कल्याणी भविष्यति ततोऽप्सराः || ९४ ||
तदियम् देवराजाय नीयताम् वरवर्णिनी |
भवत्यस्तेन चास्माकम् प्रेषिताः प्रीतिमिच्छता || ९५ ||
वक्तव्यश्च सहस्राक्षो नास्माकम् भोगकारणात् |
तपश्चर्या न चाप्राप्यफलम् प्राप्तुमभीप्सितम् || ९६ ||
सन्मार्गमस्य जगतो दर्शयिष्यन् करोम्यहम् |
तपो नरेण सहितो जगतः पालनोद्यतः || ९७ ||
(यदि कश्चित्तवाबाधाम् करोति त्रिदशेश्वर |
तमहम् वारयिष्यामि निर्वृतो भव वासव || ९८ ||
कर्तासि चेत्त्वमाबाधामदुष्टस्येह कस्यचित् |
तवापि शास्तैतदहम् प्रवर्तिष्याम्यसम्शयम् || ९९ ||
एतज्ज्ञात्वा न सन्तापस्त्वया कार्यो हि माम् प्रति |
उपकाराय जगतामवतीर्णोऽस्मि वासव || १०० ||
या चेयमूर्वशी मत्तः समुद्भूता पुरन्दर |
त्रेताग्निहेतुभूतेयमैलम् प्राप्य भविष्यति || १०१ ||
इति विष्णुधर्मे ऊर्वशीसम्भवो नाम षडधिकशततमोऽध्यायः
सप्ताधिकशततमोऽध्यायः
विश्वरूपप्रदर्शनम्
शौनक उवाच –
इत्युक्तेऽप्सरसः सर्वाः प्रणिपत्यातिविस्मिताः |
ऊचुर्नारायणम् देवम् तद्दर्शनकुतूहलाः || १ ||
उक्तो भगवता योऽयमुपदेशो हितार्थिनाम् |
प्रोक्तः स सर्वो विज्ञातो माहात्म्यम् विदितम् च ते || २ ||
यत्त्वेतद्भवता प्रोक्तम् प्रसन्नेनाव्ययात्मना |
दर्शितेयम् विशालाक्षी दर्शयिष्यामि वो जगत् || ३ ||
तन्नाथ सर्वभावेन प्रपन्नानाम् जगत्पते |
दर्शयात्मानमखिलम् दर्शितेयम् यथोर्वशी || ४ ||
यदि देवापराद्धेषु नास्मासु कुपितम् तव |
मनस्तज्जगतामीश दर्शयात्मानमात्मना || ५ ||
श्री भगवान् (देवदेव) उवाच –
पश्यतेहाखिलान्ल्लोकान् मम देहे सुराङ्गनाः |
मधुम् मदनमात्मानम् यच्चान्यद्द्रष्टुमिच्छथ || ६ ||
शौनक उवाच –
इत्युक्त्वा भगवान् देवस्तदा नारायणो नृप |
उच्चैर्जहास स्वनवत्तत्राभूदखिलम् जगत् || ७ ||
ब्रह्मा प्रजापतिः शक्रः सह रुद्रैः पिनाकधृक् |
आदित्या वसवः साध्या विश्वेदेवा महर्षयः || ८ ||
नासत्यदस्रावनिलाः सर्वे सर्वे याग्नयः |
यक्षगन्धर्वसिद्धाश्च पिशाचाः किन्नरोरगाः || ९ ||
समस्ताप्सरसो विद्याः साङ्गा वेदास्तदुक्तयः |
मनुष्याः पशवः कीटाः पक्षिणः पादपास्तथा || १० ||
सरीसृपाश्च ये सूक्ष्मा यच्चान्य जीवसञ्ज्ञितम् |
समुद्राः सकलाः शैलाः सरितः काननानि च || ११ ||
द्वीपान्यशेषाणि तथा नदाः सर्वसराम्सि च |
नगरग्रामपूर्णा च मेदिनी मेदिनीपते |
देवाङ्गनाभिर्देवस्य देहे दृष्टम् महात्मनः || १२ ||
नक्षत्रग्रहताराभिः समवेतम् नभस्तलम् |
ददृशुस्ताः सुचार्वङ्ग्यस्तस्यान्तर्विश्वरूपिणः || १३ ||
नोर्ध्वम् न तिर्यङ्नाधश्च यदाऽन्तस्तस्य दृश्यते |
तमनन्तमनादिम् च ततस्तास्तुष्टुवुः प्रभुम् || १४ ||
मदनेन समम् सर्वा मधुना च सुराङ्गनाः |
(ससाध्वसा भक्तिमत्यः परम् विस्मयमागताः || १५ ||)
अप्सरस ऊचुः –
पश्याम नादिम् तव देव नान्तम् न मध्यमव्याकृतरूपपारम् |
परायणम् त्वा जगतामनन्तम् नताः स्म नारायणमात्मभूतम् || १६ ||
मही दिवम् वायुजलाग्नयस्त्वम् शब्दादिरूपश्च परापरात्मन् |
मही जलम् वायुनभोग्नयस्त्वम्
त्वत्तो भवत्यच्युत सर्वमेतदभेदरूपोऽसि विभो त्वमेभिः || १७ ||
द्रष्टासि रूपस्य रसस्य वेत्ता श्रोता च शब्दस्य हरे त्वमेकः |
स्प्रष्टा भवान् स्प्रशवतोऽखिलस्य घ्रातासि गन्धस्य पृथक्शरीरी || १८ ||
सुरेषु सर्वेषु न सोऽस्ति कश्चिन्मनुष्यलोके च न सोऽस्ति कश्चित् |
पश्वादिवर्गे च न सोऽस्ति कश्चिद्यो नाम्शभूतस्तव देवदेव || १९ ||
ब्रह्माद्युपेन्द्रप्रमुखानि सौम्येष्विन्द्राग्निरूपाणि च वीर्यवत्सु |
रुद्रान्तकादीनि च रौद्रवत्सु रूपेषु रूपाणि तवोत्तमानि || २० ||
समुद्ररूपम् तव धैर्यवत्सु तेजस्विरूपेषु रविस्तथाग्निः |
क्षमाधनेषु क्षितिरूपमग्र्यम् रूपम् तवाग्र्यम् बलवत्सु वायुः || २१ ||
मनुष्यरूपम् तव राजसेषु मूढेषु सर्वेश्वर पादपोऽसि |
दर्पान्वितेष्वच्युत दानवस्त्वम् सनत्सुजातश्च विवेकवत्सु || २२ ||
रसस्वरूपेण जले स्थितोऽसि गन्धस्वरूपो भवतो धरित्र्याम् |
दृश्यस्वरूपश्च हुताशने त्वम् स्पर्शस्वरूपो भगवान् समीरे || २३ ||
शब्दात्मकम् ते नभसि स्वरूपम् मन्तव्यरूपो मनसि प्रभो त्वम् |
बोधव्यरूपश्च विभो त्वमेकः सर्वत्र सर्वेश्वर सर्वभूतः || २४ ||
पश्याम ते नाभिसरोजमध्ये ब्रह्माणमेतम् च हरम् भ्रुकूट्याम् |
तत्राश्विनौ कर्णगतौ समस्तान् अवस्थितान् बाहुषु लोकपालान् || २५ ||
घ्राणेऽनिलम् नेत्रगतौ रवीन्दू जिह्वा च ते नाथ सरस्वतीयम् |
पादौ धरित्रीम् जठरम् समस्तान्ल्लोकान् हृषीकेश विलोकयामः || २६ ||
जङ्घे वियत्पादकराङ्गुलीषु पिशाचरक्षोरगसिद्धसङ्घान् |
पुम्स्त्वे प्रजानाम् पतिरोष्ठयुग्मे प्रतिष्ठितास्ते क्रतवः समस्ताः || २७ ||
सर्वेष्टयस्ते दशनेषु देवदम्ष्टयासु विद्या भवतश्चतस्रः |
रोमस्वशेषास्तव देवसङ्घा विद्याधरा नाथ कराङ्घ्रिरेखाः || २८ ||
साङ्घाः समस्तास् तव देव वेदाः समास्थिता बहुषु संधिभूताः |
वराहरूपम् धरणीधृतस्ते नृसिम्हरूपम् च सटाकरालम् |
पश्याम ते वाजिशिरस्तथोच्चैस्त्रिविक्रमे यश्च तवाप्रमेयः || २९ ||
अमी समुद्रास्तव देव देहे मेर्वादयः शैलवरास्तवामी |
इमाश्च गङ्गाप्रमुखाः स्रवन्त्यो द्वीपान्यशेषाणि वनानि चैव || ३० ||
स्तुवन्ति चैते मुनयस्तवेश देहे स्थितास्त्वन्महिमानमग्र्यम् |
त्वामीशितारम् जगतामनन्तम् यज्ञेशमर्चन्ति च यज्विनोऽमी || ३१ ||
त्वत्तो न सौम्यम् जगतीह किञ्चित्त्वत्तो न रौद्रम् च समस्तमूर्ते |
त्वत्तो न शीतम् न च केशवोष्णम् सर्वस्वरूपातिशयी त्वमेकः || ३२ ||
प्रसीद सर्वेश्वर सर्वभूत सनातनात्मन् परमेश्वरेश |
त्वन्मायया मोहितमानसाभिर्यत्तेऽपराद्धम् तदिदम् क्षमस्व || ३३ ||
किम् वापराद्धम् तव देव मूढैर्यन्मायया नो हृदयम् तथाऽपि |
पापावशम् किम् प्रणतार्तिहारिन्मनो हि नो विह्नङ्कलतामुपैति || ३४ ||
न तेऽपराद्धम् यदि वापराद्धमस्माभिरुन्मार्गविवर्तनीभिः |
तत्क्षम्यताम् सृष्टिकरस्तवै वदेवापराधम् सृजतो विवेकान् || ३५ ||
नमो नमस्ते गोविन्द नारायण जनार्दन |
त्वन्नामस्मरणात् पापमशेषम् नः प्रणश्यतु || ३६ ||
ततोऽनन्त नमस्तुभ्यम् विश्वात्मन् विश्वभावन |
त्वन्नामस्मरणात्पापमशेषम् नः प्रणश्यतु |
नमो नमस्ते वैकुण्ठ श्रीवत्साङ्काब्जलोचन |
वरेण्य यज्ञपुरुष प्रजापालक वामन |
नमोऽस्तु तेऽब्जनाभाय प्रजापतिकृते हरे |
त्वन्नामस्मरणात् पापमशेषम् नः प्रणश्यतु || ३७ ||
सम्सारार्णवपोताय नमस्तुभ्यमधोक्षज |
त्वन्नामस्मरणात् पापमशेषम् नः प्रणश्यतु || ३८ ||
नमः परस्मै श्रीशाय वासुदेवाय वेधसे |
स्वेच्छया गुणभोक्तृत्वे सर्गान्तस्थितिकारिणे || ३९ ||
गुणभोक्ते ते सर्गस्थित्यन्तकारिणे
उपसम्हर विश्वात्मन्रूपमेतत्समन्ततः |
वर्धमानम् न नो द्रष्टुम् समर्थम् चक्षुरीश्वर || ४० ||
प्रलयाग्निसहस्रस्य समा दीप्तिस्तवाच्युत |
प्रमाणेन दिशो भूमिर्गगनम् च समावृतम् || ४१ ||
न विद्मः क्व नु वर्तामो भवान्नैवोपलक्ष्यते |
सर्वम् जगदिहैकस्थम् पिण्डितम् लक्षयामहे || ४२ ||
किम् वर्णयामो रूपम् ते किम् प्रमाणमिदम् हरे |
माहात्म्यम् किन्तु ते देव जिह्वाया यन्न गोचरम् || ४३ ||
वक्त्राणामयुतेनापि बुद्धीनामयुतायुतैः |
गुणानाम् वर्णनम् नाथ तव वक्तुम् न शक्यते || ४४ ||
तदेतद्दर्शितम् रूपम् प्रसादः परमः कृतः |
छन्दतो जगतामीश तदेतदुपसम्हर || ४५ ||
शौनक उवाच –
इत्येवम् सम्स्तुतस्ताभिरप्सरोभिर्जनार्दनः |
(दिव्यज्ञानोपपन्नानाम् तासाम् प्रत्यक्षमीश्वरः |)
विवेश सर्वभूतानि स्वैरम्शैर्भूतभावनः || ४६ ||
तम् दृष्ट्वा सर्वभूतेषु लीयमानमधोक्षजम् |
विस्मयम् परमम् जग्मुः समस्ता देवयोषितः || ४७ ||
स च सर्वेश्वरः शैलान् पादपान् सागरान् भुवम् |
जलमग्निम् तथा वायुमाकाशम् च विवेश ह || ४८ ||
काले दिक्ष्वथ सर्वात्मा मनुष्यात्मन्यथापि च |
आत्मरूपः स्थितः स्वेन महिम्ना भावयञ्जगत् || ४९ ||
देवदानवरक्षाम्सि यक्षविद्याधरोरगान् |
मनुष्यपशुकीटादीन् मृगपक्ष्यन्तरिक्षगान् || ५० ||
येऽन्तरिक्षे तथा भूमौ दिवि ये ये जलाश्रयाः |
तान् प्रविश्य स विश्वात्मा पुनस्तद्रूपमास्थितः |
नरेण सार्छम् यत्ताभिर्दृष्टपूर्वमरिन्दम || ५१ ||
ताः परम् विस्मयम् गत्वा सर्वास्त्रिदशयोषितः |
प्रणेमुः साध्वसाः पाण्डुवदना नृपसत्तम || ५२ ||
नारायणोऽपि भगवानाह तास्त्रिदशाङ्गनाः |
नीयतामूर्वशी भद्रा यत्रास्ते त्रिदशेश्वरः || ५३ ||
भवतीनाम् हितार्थाय सर्वभूतेष्वसाविति |
ज्ञानमुत्पादितम् भूयो लयम् भूतेषु कुर्वता || ५४ ||
तद्गच्छत समस्तोऽयम् भूतग्रामो मदम्शकः |
अहमप्यात्मभूतस्य वासुदेवस्य योगिनः || ५५ ||
यस्मात्परतरम् नास्ति योऽनन्तः परिपठ्यते |
तमजम् सर्वभूतेशम् जानीत परमम् पदम् || ५६ ||
अहम् भवत्यो देवाश्च मनुष्याः पशवश्च ये |
एतत्सर्वमनन्तस्य देवदेवस्य विस्तृतिः || ५७ ||
एतज्ज्ञात्वा समम् सर्गम् सदेवासुरमानुषम् |
सपश्वादिगणम् चैव द्रष्टव्यम् त्रिदशाङ्गनाः || ५८ ||
शौनक उवाच –
इत्युक्तस्तेन देवेन समस्तास्ताः सुरस्त्रियः |
प्रणम्य तौ समदनाः सवसन्ताश्च पार्थिव || ५९ ||
आदाय चोर्वशीम् भूयो देवराजमुपागताः |
आचख्युश्च यथावृत्तम् देवराजाय तत्तथा || ६० ||
तथा त्वमपि राजेन्द्र सर्वभूतेषु केशवम् |
चिन्तयन् समताम् गच्छ समतैव हि मुक्तये || ६१ ||
जानन्नेवमशेषेषु भूतेषु परमेश्वरम् |
वासुदेवम् कथम् दोषान्ल्लोभादीन्न प्रहास्यसि || ६२ ||
सर्वभूतानि गोविन्दाद्यदा नान्यानि भूपते |
तदा वैरादयो भावाः क्रियताम् कुत्र पार्थिव || ६३ ||
इह पश्यञ्जगत्सर्वम् वासुदेवात्मकम् नृप |
एतदेव हि कृष्णेन रूपमाविष्कृतम् तदा || ६४ ||
परमस्मादपि महद्रूपम् यत्कथितम् तव |
जन्मादिभावरहितम् तद्विष्णोः परमम् पदम् || ६५ ||
सन्क्षेपेण च भूपाल श्रूयताम् यद्वदामि ते |
यन्मतौ पुरुषः कृत्वा परम् निर्वाणमृच्छति || ६६ ||
सर्वम् विष्णुः समस्तौ हि भावाभावौ च तन्मयौ |
सदसत्सर्वमीशेशो वासुदेवः परम् पदम् || ६७ ||
भवजलधिगतानाम् द्वन्द्ववाताहतानाम्
सुतदुहितृकलत्रत्राणभारार्दितानाम् |
विषमविषयतोये मज्जतामप्लवानाम्
भवति शरणमेको विष्णुपोतो नराणाम् || ६८ ||
इति विष्णुधर्मे विश्वरूपप्रदर्शनम् नाम सप्ताधिकशततमोऽध्यायः
अष्टाधिकशततमोऽध्यायः
चतुर्युगावस्था
शौनक उवाच –
इत्युक्तम् तव धर्मज्ञ विष्णोर्माहात्म्यमुत्तमम् |
स्वरूपम् च जगद्धातुराराधनविनिश्चयः || १ ||
आराधितात् फलम् यच्च केशवात् प्राप्यते नरैः |
कथितश्च महाभाग दानानाम् विस्तराद्विधिः || २ ||
योगद्वैधम् च कथितमद्वैतम् द्वैतमेव च |
अद्वैतभावनोपायो विस्तराच्च तवोदितः || ३ ||
सन्क्षेपविस्तराभ्याम् च सर्वमेतत्तवोदितम् |
देवदेवस्य माहात्म्यम् सर्वगस्याव्ययात्मनः || ४ ||
स एष सर्वप्रवरः सर्वभूतश्च माधवः |
सर्वमत्र च सर्वस्मिन्नेष एव प्रतिष्ठितः || ५ ||
त्रियुगम् पुण्डरीकाक्षमपवर्गमहाह्रदम् |
समुत्पत्य पराह्लादमनन्तम् प्रतिपद्यते || ६ ||
शतानीक उवाच –
श्रुतमेतन्मया पूर्वम् विस्तरेण त्वयोदितम् |
यत्त्वेतत्त्रियुगेत्युक्तम् तस्य निर्वचनम् वद || ७ ||
चतुर्युगेन कालस्य परिसङ्ख्या यदा द्विज |
त्रियुगेन तदा विष्णोः क्रियते किम् विशेषणम् || ८ ||
कृतम् त्रेता द्वापरम् च कलिश्चेति चतुर्युगम् |
यदा जगति विख्यातम् तदा त्रियुगता कुतः || ९ ||
शौनक उवाच –
साधु पृष्टोऽस्मि भूपाल भवता त्रियुगाश्रितम् |
विशेषणमनन्तस्य गदतस्तन्निशामय || १० ||
काष्ठा पार्थिव विज्ञेया निमेषा दश पञ्च च |
काष्ठात्रिम्शत्कला ज्ञेया मुहूर्तम् तावतीः कलाः || ११ ||
त्रिम्शन्मुहूर्ता भूपाल तथाऽहोरात्रमुच्यते |
तत्सङ्ख्यातैरहोरात्रैर्मासः पार्थिवसत्तम || १२ ||
अयनम् दक्षिणम् मासाः षण्मासाश्च तथोत्तरम् |
अयनद्वितयाख्यश्च कालः सम्वत्सरः स्मृतः || १३ ||
दक्षिणम् त्वयनम् रात्रिर्देवानामुत्तरम् दिनम् |
सम्वत्सरेण देवानामहोरात्रमिहोच्यते || १४ ||
शतत्रयेण वर्षाणाम् षष्ट्या च पृथिवीपते |
मनुष्यसङ्ख्यया वर्षम् देवानामपि गण्यते || १५ ||
इति दिव्येन मानेन चतुर्युगविकल्पनाम् |
कथ्यमानाम् मया राजन् यथावच्छ्रोतुमर्हसि || १६ ||
चत्वारि तु सहस्राणि वर्षाणाम् कृतमुच्यते |
तस्य तावच्छती सन्ध्या सन्ध्याम्शश्च तथाविधः || १७ ||
त्रेता त्रीणि सहस्राणि दिव्याब्दानाम् नरर्षभ |
तस्य तावच्छती सन्ध्या सन्ध्याम्शश्च तथाविधः || १८ ||
द्वापरम् द्वे सहस्रे तु वर्षाणामभिधीयते |
तस्य तावच्छती सन्ध्या सन्ध्याम्शश्च तथाविधः || १९ ||
कलिः सहस्रमेकम् तु दिव्याब्दानाम् नरर्षभ |
तस्य तावच्छती सन्ध्या सन्ध्याम्शश्च तथाविधः || २० ||
कृतम् नाम युगम् पूर्वम् यत्र धर्मः सनातनः |
कृतमेव च कर्तव्यम् तस्मिन् काले नृपेप्सितम् || २१ ||
न तत्र धर्माः सीदन्ति न च क्षीयन्ति वै प्रजाः |
ततः कृतयुगम् नाम गुणतः प्रोच्यते युगम् || २२ ||
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः |
नासन् कृतयुगे राजन्न तदा क्रयविक्रयः || २३ ||
न सामयजुर्ऋग्वर्णाः क्रिया नासीच्च मानवी |
नाभिसन्धाय च फलम् कश्चिद्धर्मे प्रवर्तते || २४ ||
न तस्मिन्युगसम्सर्गे व्याधयो नेन्द्रियक्षयः |
नासूया नापि रुदितम् न दर्पो नापि पैशुनम् || २५ ||
न विग्रहः कुतस्तन्द्री न द्वेषो नापि दम्भनम् |
न भयम् नापि सन्तापो न चेर्ष्या नापि मत्सरः || २६ ||
ततः परमकम् ब्रह्म या गतिर्योगिनाम् परा |
आत्मा च सर्वभूतानाम् शुक्लो नारायणस्तदा || २७ ||
तस्मिन्नात्मनि लोकानाम् सर्वलोकमयेऽच्युते |
स्वेच्छया शौक्ल्यमापन्ने सर्वम् भवति निर्मलम् || २८ ||
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः |
कृते युगे भवन्तीह स्वकर्मनिरताः प्रजाः || २९ ||
स्वमाश्रमम् स्वमाचारम् सम्यग्ज्ञानसमन्वितम् |
जगद्भवति राजेन्द्र सत्यप्रायम् तपोरतम् || ३० ||
एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः |
पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः || ३१ ||
चतुराश्रमयुक्तेन कर्मणा कालयोगिना |
अकामफलसम्योगात् प्राप्नुवन्ति पराम् गतिम् || ३२ ||
आत्मयोगसमायुक्तो धर्मोऽयम् कृतलक्षणः |
कृते युगे चतुष्पादश्चतुर्वर्ण्यस्य शाश्वतः || ३३ ||
एतत्कृतयुगम् नाम त्रैगुण्यपरिवर्जितम् |
त्रेतामपि निबोध त्वम् यादृग्रूपम् प्रवर्तते || ३४ ||
पादेन ह्रसते धर्मो रक्तताम् याति चाच्युतः |
सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः || ३५ ||
ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः |
त्रेतायाम् भावसङ्कल्पाः क्रियादानफलोदयाः || ३६ ||
प्रचरन्ति ततो वर्णास्तपोदानपरायणाः |
स्वकर्मस्थाः क्रियावन्तः समत्वाद्रजसान्विताः || ३७ ||
द्वापरेऽपि युगे धर्मो द्विभागोनः प्रवर्तते |
विष्णुः पीतत्वमभ्येति चतुर्धा वेद एव च || ३८ ||
ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथाऽपरे |
द्विवेदाश्चैकवेदाश्च अनृचश्च तथाऽपरे || ३९ ||
एवम् शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया |
तपोदानप्रवृत्ता च राजसी भवति प्रजा || ४० ||
अल्पायुषो नरा वेदः सुमहाम्श्चेति दुस्तरः |
करोति बहुधा वेदान् व्यासरूपी तदा हरिः || ४१ ||
सत्त्वस्य चाप्य् अविज्ञानात् सत्त्वे कश्चिद् व्यवस्थितः |
सत्त्वात् प्रच्यवमानानाम् व्याधयो बहवोऽभवन् || ४२ ||
कामाश्चोपद्रवाश्चैव तदा दैवतकारिताः |
यैरर्द्यमानाः सुभृशम् तपस्तप्यन्ति मानवाः || ४३ ||
धनकामाः स्वर्गकामा यज्ञाम्स्तन्वन्ति चापरे |
एवम् द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः || ४४ ||
पादेनैकेन राजेन्द्र धर्मः कलियुगेऽपि हि |
तामसम् युगमासाद्य कृष्णो भवति केशवः || ४५ ||
व्रताचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा |
ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा |
उपद्रवाश्च वर्धन्ते मनस्तापाश्च सङ्गताः || ४६ ||
युगेष्वावर्तमानेषु लोको व्यावर्तते पुनः |
लोके क्षीणे क्षयम् यान्ति भावा लोकप्रवर्तकाः |
युगद्वयकृतान् धर्मान् प्रार्थना न च कुर्वते || ४७ ||
एतत्कलियुगम् भूप यत्र जातोऽसि पार्थिव |
नात्रावतारम् कुरुते कृष्णाम्शेन स्वरूपिणा || ४८ ||
कृतादिषु जगत्पाति दैत्येभ्यो रूपधृद्धरिः |
कलौ त्वन्यम् समाविश्य पूर्वोत्पन्नम् बिभर्ति तम् || ४९ ||
प्रत्यग्ररूपधृग्देवो दृश्यते न कलौ हरिः |
कृतादिष्वेव तेनैष त्रियुगः परिपठ्यते || ५० ||
पूर्वोत्पन्नेषु भूतेषु तेषु तेषु कलौ प्रभुः |
अनुप्रविश्य कुरुते यत् समीहितमच्युतः || ५१ ||
कृत्वा प्रवेशम् कुरुते यदभिप्रेतमच्युतः
कलेरन्ते च सम्प्राप्ते कल्किनम् ब्रह्मवादिनम् |
अनुप्रविश्य कुरुते यदभिप्रेतमच्युतः || ५२ ||
स्वेच्छाशुक्ले जगच्छुक्लम् रक्ते रक्तम् च जायते |
पीते च पीततामस्मिन् कृष्णे चात्रासितम् नृप || ५३ ||
एष एव जगद्देवो जगत्स्रष्टा जगद्गुरुः |
यद्रूप एव देवोऽयम् तद्रूपम् जायते जगत् || ५४ ||
इति विष्णुधर्मे चतुर्युगावस्था नाम अष्टाधिकशततमोऽध्यायः
नवाधिकशततमोऽध्यायः
शास्त्रमाहात्मयम्
शतानीक उवाच –
चतुर्युगम् नः कथितम् सन्क्षेपाद्भवताखिलम् |
कलिम् विस्तरतो ब्रूहि यत्र जातोऽस्मि भार्गव || १ ||
भगवत्यमले विष्णौ क्रीडया कृष्णताम् गते |
किमाहाराः किमाचारा भविष्यन्ति प्रजास्तदा || २ ||
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विज कीदृशाः |
भविष्यन्ति कलौ प्राप्ते तन्ममाचक्ष्व विस्तरात् || ३ ||
शौनक उवाच –
तपः परम् कृतयुगे त्रेतायाम् यज्ञ एव हि |
प्रधानम् द्वापरे दानम् सत्यमेव कलौ युगे || ४ ||
कृते युगे मनःशुद्धिरस्त्येवायत्नतस्तपः |
तपो निष्पाद्यते भूप योगसम्साधनम् परम् || ५ ||
रागादिदोषदुष्टेन मनसा यत्तपो नृप |
क्रियते क्लेशनाशाय तत्तपो न विमुक्तये || ६ ||
त्रेतायाम् तु क्रियायज्ञान् मनोयज्ञाम्स्ततो नराः |
नाऽमलम् तद्वन्मनोयज्ञाम्स्ततो नृप
वितन्वते स्थूलतरः पन्था धर्मस्य स प्रभो || ७ ||
द्वापरे नातिविद्वत्ता यथा त्रेतायुगेऽभवत् |
ततः स्थूलतरः पन्था दानात्मा क्रियते नरैः || ८ ||
न विद्वत्ता न शुद्धार्थो न शुद्धिर्मनसः कलौ |
यतोऽतः सत्यमेवैकमेकान्तेनोपकारकम् || ९ ||
यथा सत्यम् तथा क्षान्तिरहिम्सा च कलौ युगे |
परोपतापाद्विरतिर्नराणामुपकारिका || १० ||
परोपकारनिरतिः कारिणः
तस्मिन् घोरे युगे प्राप्ते कृष्णे कृष्णत्वमागते |
यादृग्रूपम् जगदिदम् भवतीह शृणुष्व तत् || ११ ||
राजानो ब्राह्मणा वैश्याः शूद्राश्च मनुजेश्वर |
व्याजधर्मपराश्चैव धर्मवैतम्सिका जनाः || १२ ||
सत्यम् सन्क्षिप्यते लोके नरैः पण्डितमानिभिः |
सत्यहान्या ततस्तेषाम् स्वल्पमायुर्भविष्यति || १३ ||
आयुषः प्रक्षयाद्विद्याम् न शक्ष्यन्त्युपशिक्षितुम् |
प्रक्षयाद्विद्या न सम्यगुपशिक्षिता
विद्याहीनान् अबुद्धीम्स्तान्ल्लोभोऽप्यभिभविष्यति || १४ ||
लोभक्रोधपरा मूढाः कामवश्याश्च मानवाः |
बद्धवैरा भविष्यन्ति परस्परवधेप्सवः || १५ ||
ब्राह्मणाः क्षत्रिया वैश्याः सन्कीर्यन्तः परस्परम् |
शूद्रतुल्या भविष्यन्ति तपःसत्यविनाकृताः || १६ ||
अन्त्या मध्या भविष्यन्ति मध्याश्चान्तावसायिनः |
ईदृशो भविता लोकः कृष्णे कृष्णत्वमागते || १७ ||
वस्त्राणाम् प्रवरा शाणी धान्यानाम् कोरदूषकः |
भार्यामित्राश्च पुरुषा भविष्यन्ति कलौ युगे || १८ ||
मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजाविकाः |
गोषु नष्टासु पुरुषा भविष्यन्ति तदा नृप || १९ ||
सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः |
ताश्चाप्यल्पफलास्तेषाम् भविष्यन्ति युगक्षये || २० ||
अनिष्क्रान्तास्तु सम्बन्धाः स्वगोत्रात् पुरुषर्षभ |
अनिष्क्रान्तानि श्राद्धानि भविष्यन्ति च गेहतः || २१ ||
न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः |
न यक्ष्यन्ति न होष्यन्ति हेतुवादविकूलिनः || २२ ||
प्रायशः कृपणानाम् च तथा बन्धिमतामपि |
विधवानाम् च वित्तानि हरिष्यन्ति बलान्विताः || २३ ||
अन्यायोपात्तवित्तेषु करिष्यन्ति नराः स्पृहाम् |
वेश्यालावण्यभावेषु स्पृहाम् योषित् करिष्यति || २४ ||
कन्याम् न याचिता कश्चिन्न च कन्याप्रदो नरः |
कन्या वरश्च च्छन्देन गृहीष्यन्ति परस्परम् || २५ ||
भार्या न पतिशुश्रूषाम् तदा काचित् करिष्यति |
नरा देवद्विजाम्स्त्यक्त्वा भविष्यन्त्यन्यतोमुखाः || २६ ||
यज्ञभागभुजो देवा ये वेदपठिता द्विजाः |
ब्रह्माद्यास्तान् परित्यज्य नराः कालबलात्कृताः |
हेतुवादपरा देवान् करिष्यन्त्यपराम्स्तदा || २७ ||
ये यवान्ना जनपदा गोधूमान्नास्तथैव च |
तान् देशान् सम्श्रयिष्यन्ति नराः कलियुगे नृप || २८ ||
न श्राद्धैश्च पितॄश्चापि तर्पयिष्यन्ति मानवाः |
बहु मम्स्यन्ति ते स्नानम् नापि शौचपरा नराः || २९ ||
न विष्णुभक्तिप्रवणम् नराणाम् नृप मानसम् |
भविता तु युगे प्राप्ते कृष्णे कार्ष्ण्योपलक्षिते || ३० ||
विनिन्दाम् प्रथमे पादे करिष्यन्ति हरेर्नराः |
युगान्ते तु हरेर्नाम नैव कश्चिद्गृहीष्यति || ३१ ||
धन्यास्ते पुरुषव्याघ्र पापाम्भोधावपापिनः |
ये नामापि कलौ विष्णोर्गृहीष्यन्त्यक्षयात्मनः || ३२ ||
ध्यायन् हरिम् कृतयुगे त्रेताद्वापरयोर्यजन् |
यदाप्नोति कलौ नाम्ना तदेव परिकीर्तयन् || ३३ ||
हरिर्हरति पापानि नाम भक्त्या यदीरितम् |
वासुदेवेति न जनस्तदेवोच्चारयिष्यति || ३४ ||
बहुपाषण्डसङ्कीर्णे जगत्यस्मिन् कलौ युगे |
कृष्णायेति नमोऽस्त्वत्र सुकृती यदि वक्ष्यति || ३५ ||
हेतुवादबलैर्मोहम् कुहकैश्च जने तदा |
पाषण्डिनः करिष्यन्ति चातुराश्रम्यदूषकाः || ३६ ||
पाषण्डभूतमत्यर्थम् जगदेतदसत्कृतम् |
भविष्यति तदा भूप वृथाप्रव्रजितोत्कटम् || ३७ ||
न तु द्विजातिशुश्रूषाम् न स्वधर्मानुपालनम् |
करिष्यन्ति तदा शूद्राः प्रव्रज्यालिङ्गिनो वृथा || ३८ ||
उत्कोचाः सौगताश्चैव महायानरतास्तथा |
भविष्यन्त्यथ पाषण्डाः कापिला भिक्षवस्तथा || ३९ ||
वृद्धाः श्रावकनिर्ग्रन्थाः सिद्धपुत्रास्तथापरे |
भविष्यन्ति दुरात्मानः शूद्राः कलियुगे नृप || ४० ||
निःशौचा वक्रमतयः परपाकान्नभोजनाः |
भविष्यन्ति दुरात्मानः शूद्राः प्रव्रजितास्तदा || ४१ ||
एते चान्ये च बहवः पाषण्डाः पुरुषर्षभ |
ब्राह्मणाः क्षत्रिया वैश्या भविष्यन्ति तथा परे || ४२ ||
राजशुल्कहराः क्षुद्रा गृहस्थपरिमोषकाः |
मुनिवेषाकृतिच्छन्ना वाणिज्यमुपजीविकाः || ४३ ||
न द्विजान् न कलौ देवान् पूजयिष्यन्ति मानवाः |
म्लेच्छभाषानिबन्धैस्तु हेतुवादैर्विकूलिताः || ४४ ||
एवम् तेष्वतिदुष्टेषु विमार्गपथिवर्तिनः |
भविष्यन्त्यपरे दुष्टाः तेषाम् मार्गानुयायिनः || ४५ ||
असम्स्कृतोक्तिवक्तारो वेदशास्त्रविनिन्दकाः |
जगदुन्मार्गकर्तारो भविष्यन्ति तदा नराः || ४६ ||
तच्छीलवर्तिभिर्भूप मनुष्यैः परिपूरिते |
जगत्यत्र तदा नॄणाम् स्वल्पमायुर्भविष्यति || ४७ ||
परमायुश्च भविता तदा वर्षाणि षोडश |
ततः प्राणान् प्रहास्यन्ति कृष्णे कृष्णत्वमागते || ४८ ||
पञ्चमे वाऽथ षष्ठे वा वर्षे कन्या प्रसूयते |
सप्तवर्षाष्टवर्षा वा प्रजास्यन्ति नरास्तदा || ४९ ||
अल्पद्रव्या वृथालिङ्गा हिम्सारतिपरायणाः |
हर्तारो न तु दातारो भविष्यन्ति कलौ नराः || ५० ||
शुक्लादानपराः क्षुद्राः परपाकाशिनो द्विजाः |
वैश्यास्तथा तु राजानो न तु क्षत्रियवम्शजाः || ५१ ||
शूद्रा भिक्षवता विप्राः शुश्रूषाविपणाश्रिताः |
भविष्यन्ति नृपश्रेष्ठ कृष्णे कृष्णत्वमागते || ५२ ||
न शिष्टो न गुरुः कश्चिन्न पुत्रो न पिता तथा |
न भार्या न पतिर्भूप भविता तत्र सन्कुले || ५३ ||
एतत्कालस्वरूपम् ते शतानीक मयोदितम् |
विष्णुभक्तान्नरश्रेष्ठ न नरान् बाधते कलिः || ५४ ||
येऽहर्निशम् जगद्धातुर्वासुदेवस्य कीर्तनम् |
कुर्वन्ति तान्नरव्याघ्र न कलिर्बाधते नरान् || ५५ ||
ये तन्मनस्कास्तिष्ठन्ति प्रयान्तः सम्स्थितास्तथा |
स्वपन्तश्च नरव्याघ्र तान्कलिर्न प्रबाधते || ५६ ||
सर्वत्र भगवान्विष्णुर्गोविन्दः केशवो हरिः |
यस्य भावो न तम् भूप कदाचिद्बाधते कलिः || ५७ ||
न कलौ कलिचेष्टोऽसौ मूढेषु न स मुह्यते |
भगवत्यच्युते नित्यम् येन भावः समर्पितः || ५८ ||
कलिप्रभावो दुष्टोक्तिः पाषण्डानाम् तथोक्तयः |
न क्रामन्ते मनस्तस्य यस्य चेतसि केशवः || ५९ ||
कलौ कृतयुगम् तस्य कलिस्तस्य कृते युगे |
यस्य चेतसि गोविन्दो हृदये यस्य नाच्युतः || ६० ||
अनिष्ट्वाऽपि महायज्ञैरकृत्वाऽपि पितृस्वधाम् |
कृष्णमभ्यर्च्य यद्भक्त्या नैनम् श्वोमरणम् तपेत् || ६१ ||
यस्याग्रतस्तथा पृष्ठे गच्छतस्तिष्ठतोऽपि वा |
गोविन्दे नियतम् चेतः कृतकृत्यः सदैव सः || ६२ ||
एतद्विदित्वा भूपाल सर्वे सर्वेश्वरे हरौ |
तन्मना भव तच्चित्तस्तन्मना नावसीदति || ६३ ||
परमार्थमशेषस्य जगतः प्रभवाव्ययम् |
शरण्यम् शरणम् गच्छन् गोविन्दम् नावसीदति || ६४ ||
कलिकल्मषकक्षाग्निम् निर्वाणम् पदमव्ययम् |
सर्वकारणमव्यक्तम् विष्णुम् ध्यायन्न सीदति || ६५ ||
यत्र सर्वमये ध्याते ध्येयमन्यन्न विद्यते |
यत्रार्चितेऽर्चनीयश्च जायते तम् नमाम्यहम् || ६६ ||
जगत्स्रष्टारम् इशेशमनादिम् परतः परम् |
सर्वास्पदम् सर्वभूतम् गच्छन् सर्वात्मना हरिम् || ६७ ||
हरत्यघमशेषम् यो हरिरित्यभिसम्स्तुतः |
अशेषाघहरम् विष्णुम् हरिवर्णम् हरिम् नमः || ६८ ||
यत्कीर्तनादघः शुद्धः स्मृते यत्राशुचिः सुचिः |
तमात्मनि स्थितम् भूप पुण्डरीकेक्षणम् नमः || ६९ ||
अपवित्रः पवित्रो वा सर्वावस्थाम्गतोऽपि वा |
यः स्मरेत्पुण्डरीकाक्षम् स बाह्याभ्यन्तरः शुचिः || ७० ||
यद्यप्युपहतः पापैर्यदि वाऽत्यन्तदुष्कृतैः |
तथापि सम्स्मरन्विष्णुम् स बाह्याभ्यन्तरः शुचिः || ७१ ||
कलावत्रातिदोषाढ्ये विषयासक्तमानसः |
कृत्वापि पापम् गोविन्दम् सा कथा यत्र केशवः || ७२ ||
कृत्वापि सकलम् पापम् गोविन्दम् सम्स्मरन् शुचिः |
तद्ध्यानम् यत्र गोविन्दः सा कथा यत्र केशवः |
तत्कर्म यत्तदर्थीयम् किमन्यैर्बहुभाषितैः || ७३ ||
नैतत्पिता तनूजाय न शिष्याय गुरुर्नृप |
परमार्थप्रदम् ब्रूयाद्यदेतत्ते मयोदितम् || ७४ ||
सम्सारे भ्रमता लभ्यम् पुत्रदारधनम् वसु |
सुहृदश्च तथैवान्ये नोपदेशो नृपेदृशः || ७५ ||
किम् पुत्रदारैर्वित्तैर्वा न मित्रैः क्षेत्रबान्धवैः |
उपदेष्टा परो बन्धुरीदृशो यो विमुक्तये || ७६ ||
यो नैकाग्रमना विष्णाविति ज्ञात्वाऽपि पार्थिव |
स नूनमच्युतस्यैव नानुग्राह्योऽत्र पापकृत् || ७७ ||
द्विविधो भूतसर्गोऽयम् दैव आसुर एव च |
विष्णुभक्तिपरो दैवो विपरीतस्तथासुरः || ७८ ||
उपदेशप्रदानेन सम्भूतित्रय आसुरः |
नैव विष्णुपरो भूप भवत्यक्षीणकल्मषः || ७९ ||
उपदेशेषु सोऽत्यन्तम् सम्रम्भी युक्तियोजितम् |
हेतुवादाश्रितो मूढो ददात्युत्तरमक्षयम् || ८० ||
स्नातस्य देवकार्येषु तथाऽपत्सु कथासु च |
उपदेशप्रदानेन च सम्स्कृतित्र्यमासुरम्
आसुरस्यापि तन्मात्रा जायते नृपते मतिः || ८१ ||
इति मत्वाऽतिसद्भावम् रहस्यम् परमीरितम् |
(त्वयाच्युतान्मतिर्भूप नापनेया कथञ्चन || ८२ ||)
अप्राप्य वाञ्छति रतिम् सर्वदैव नृणाम् मनः |
इहैवाच्युतसम्सर्गि यदि तत्किम् प्रहीयते || ८३ ||
तदलम् तव राज्येन बलकोशादिभिस्तथा |
चिन्तितैरच्युतश्चिन्त्यो यद्भावि न तदन्यथा || ८४ ||
एतत्पवित्रमारोग्यम् धन्यम् दुःस्वप्ननाशनम् |
सुखप्रीतिकरम् नॄणाम् पतताम् निर्वृतिप्रदम् || ८५ ||
येषाम् गृहेषु लिखितमेतत्स्थास्यति नित्यदा |
न तद्गृहाणि दैवोत्था बाधिष्यन्ते ह्युपद्रवाः || ८६ ||
तेषाम् गृहे मङ्गलानि भवन्त्येव हि सर्वदा
किम् तीर्थैः किम् प्रदानैर्वा किम् यज्ञैः किमुपोषितैः |
अहन्यहन्येतदेव तन्मयत्वेन शृण्वतः || ८७ ||
यो ददाति तिलप्रस्थम् सुवर्णस्य च माषकम् |
शृणोति श्लोकमेकम् च धर्मस्यास्य समम् हि तत् || ८८ ||
अध्यायपारणम् चास्य गोप्रदानात् विशिष्यते |
शृण्वम्श्चास्य दशाध्यायान् सद्यः पापैः प्रमुच्यते || ८९ ||
(रात्र्या यदेनः कुरुते दिवसेन च मानवः |)
श्रोतुम् वाञ्छा समस्तम् तत्पार्थिवस्य व्यपोहति || ९० ||
कपिलानाम् शते दत्ते यद्भवेज्ज्येष्ठपुष्करे |
नरेन्द्र विष्णुधर्माणाम् तदवाप्नोति पारणे || ९१ ||
प्रवृत्तौ च निवृत्तौ च धर्मम् धर्मभृताम् वर |
नास्त्यन्यद्विष्णुधर्माणाम् सदृशम् शास्त्रमुत्तमम् || ९२ ||
मैत्रीम् करोति भूतेषु भक्तिमत्यन्तमच्युते |
श्रुत्वा धर्मानिमान् वेत्ति अभेदेनात्मनो जगत् || ९३ ||
पठन्ननुदिनम् धर्मानेताञ्शृण्वम्स्तथापि वा |
भक्त्या मतिमताम् श्रेष्ठ सर्वपापैः प्रमुच्यते || ९४ ||
नोपसर्गो न चानर्थो न चौराग्निभयम् गृहे |
तस्मिन्भवति भूपाल यत्रैतत्पुस्तकम् स्थितम् || ९५ ||
न गर्भहारिणी भीतिर्न च बालग्रहा गृहे |
यत्रैतद्भूपते तत्र न पिशाचादिकाद्भयम् || ९६ ||
शृण्वन् विप्रो वेदवित् स्यात् क्षत्रियः पृथिवीपतिः |
ऋद्धिम् प्रयाति वैश्यश्च शूद्रश्चारोग्यमृच्छति || ९७ ||
सुखमवाप्नुवात् पठन् श्रद्धासमन्वितः
यश्चैतान् नियतान्धर्मान्पठेच्छ्रद्धासमन्वितः |
विष्णौ मनः समावेश्य सर्वत्र समदर्शनः || ९८ ||
तस्य पापम् तथा रोगान् दुःस्वप्नाद्याभिचारिकान् |
यच्चान्यद्दुरितम् किञ्चित्तत्सर्वम् हन्ति केशवः || ९९ ||
हेमन्ते य इमान् धर्माञ्शृणोति वसुधाधिप |
श्रद्धासमन्वितः सम्यक् सोऽग्निष्टोमफलम् लभेत् || १०० ||
शिशिरे च नरव्याघ्र यः शृणोति यथाविधि |
पुण्डरीकस्य यज्ञस्य स प्राप्नोति फलम् नरः || १०१ ||
मधुमाधवसञ्ज्ञे तु यः शृणोति नरस्त्विमान् |
सोऽश्वमेधक्रतोर्भूप प्राप्नोत्यविकलम् फलम् || १०२ ||
शृण्वन्नेतान्निदाघे च धर्मान् धर्मभृताम् वर |
वाजपेयस्य यज्ञस्य फलम् प्राप्नोत्यसम्शयम् || १०३ ||
वर्षासु चेमान्यो धर्मान् सम्शृण्वन् वसुधाधिप |
राजसूयक्रतोः पुण्यमखिलम् समवाप्नुयात् || १०४ ||
शरत्काले च सम्शृण्वन् धर्मानेतान्नरर्षभ |
प्राप्नोति गोसवफलम् सम्यक् श्रद्धासमन्वितः || १०५ ||
ऋतुष्वेतेष्वेतदेव पठतामपि पार्थिव |
फलम् भवति दुष्टेषु ग्रहेष्वेते शुभप्रदाः || १०६ ||
कपिलानाम् शतस्योक्तम् यत्फलम् ज्येष्ठपुष्करे |
भूयो भूयस्तदाप्नोति पारणे पारणे गते || १०७ ||
भक्त्या पठति यश्चैतान् देवस्य पुरतो हरेः |
सोऽर्चयत्यवनीपाल ज्ञानयज्ञेन केशवम् || १०८ ||
सर्वा बाधास्तथा पापमखिलम् मनुजेश्वर |
विष्णुधर्मा व्यपोहन्ति सम्स्मृताः पठिताः श्रुताः || १०९ ||
एतत्ते सर्वमाख्यातम् रहस्यम् परमम् हरेः |
नातः परतरम् किञ्चिच्छ्राव्यम् श्रुतिसुखावहम् || ११० ||
नातः परतरम् श्राव्यम् धर्म्यम् स्वार्थ सुखावहम्
अत्रोक्तविधियुक्तस्य पुरुषस्य विपश्चितः |
न दुर्लभम् नरव्याघ्र परमम् ब्रह्म शाश्वतम् || १११ ||
इति विष्णुधर्मे शास्त्रमाहात्मयम् नाम नवाधिकशततमोऽध्यायः