सामग्री पर जाएँ

विष्णुधर्मः/अध्यायाः ०४१-०५०

विकिस्रोतः तः


श्री विष्णुधर्मः अध्यायः 41-50
एकचत्वारिम्शोऽध्यायः
ब्रह्माख्यानकम्
दाल्भ्य उवाच –
कार्यारम्भेषु सर्वेषु दुःस्वप्नेषु च सत्तम |
अमङ्गल्येषु सर्वेषु यज्जप्तव्यम् तदुच्यताम् || १ ||
येनारम्भाश्च सिध्ह्यन्ति दुःस्वप्नम् चोपशाम्यति |
अमङ्गलानाम् सर्वेषाम् प्रतिघातश्च जायते || २ ||
पुलस्त्य उवाच –
जनार्दनम् भूतपतिम् जगद्गुरुम् स्मरन् मनुष्यः सततम् महामुने |
दुष्टान्यशेषाण्यपहन्ति साधयति अशेषकार्याणि तथा यदीच्छति || ३ ||
अभीप्सति
शृणुष्व चान्यद्वदतो ममाखिलम् वदामि यत्ते द्विजवर्य मङ्गलम् |
सर्वार्थसिद्धिम् प्रददाति यः सदा निहन्त्यशेषाणि च पातकानि || ४ ||
प्रतिष्ठितम् यत्र जगच्चराचरम् जगच्च यो यो जगतश्च हेतुः |
जगच्च पात्यत्ति च यः स सर्वदा ममास्तु माङ्गल्यविवृद्दये हरिः || ५ ||
व्योमाम्बुवाय्वग्निमहीस्वरूपैर्विस्तारवान् योऽणुतरोऽणुभागात् |
स स्थूलसूक्ष्मः सततम् सुरेश्वरो ममास्तु माङ्गल्यविवृद्दये हरिः || ६ ||
यस्मात् परस्तात् पुरुषादनन्ताद् अनादिमध्यादखिलम् न किञ्चित् |
स हेतुहेतुः परमेश्वरेश्वरो ममास्तु माङ्गल्यविवृद्दये हरिः || ७ ||
हिरण्यगर्भाच्युतरुद्ररूपी सृजत्यशेषम् परिपाति हन्ति |
गुणाश्रयी यो भगवान् स सर्वदा ममास्तु माङ्गल्यविवृद्दये हरिः || ८ ||
परः सुराणाम् परमोऽसुराणाम् परो मुनीनाम् परमो यतीनाम् |
परः समस्तस्य च यः स देवो ममास्तु माङ्गल्यविवृद्दये हरिः || ९ ||
ध्यातो यतीनामपकल्मषैर्यो ददाति मुक्तिम् परमेश्वरेश्वरः |
मनोभिराद्यः पुरुषः स सर्वदा ममास्तु माङ्गल्यविवृद्दये हरिः || १० ||
सुरेन्द्रवैवस्वतवित्तपाम्बुपस्वरूपरूपी परिपाति यो जगत् |
स शुद्धसत्त्वः परमेश्वरेश्वरो ममास्तु माङ्गल्यविवृद्दये हरिः || ११ ||
यन्नाम कीर्तनतो विमुच्यते अनेकजन्मार्जितपापसञ्चयैः |
पापेन्धनाग्निः स सदैव निर्मलो ममास्तु माङ्गल्यविवृद्दये हरिः || १२ ||
येनोद्धृतेयम् धरणी रसातलाद् अशेषसत्त्वस्थितिकारणादिकम् |
बिभर्ति विश्वम् जगतः स मूलवान् ममास्तु माङ्गल्यविवृद्दये हरिः || १३ ||
पादेषु वेदा जठरे चराचरम् रोमस्वशेषा मुनयो मुखे मखाः |
यस्येश्वरेशस्य स सर्वदा प्रभुर् ममास्तु माङ्गल्यविवृद्दये हरिः || १४ ||
समस्तयज्ञाङ्गमयम् वपुर्विभोर् यस्याङ्गमीशेश्वरसम्स्तुतस्य |
वराहरूपो भगवान् स सर्वदा ममास्तु माङ्गल्यविवृद्दये हरिः || १५ ||
विक्षोभ्य सर्वोदधितोयसम्पदम् दधार धात्रीम् जगतश्च योद्भवः |
यज्ञेश्वरो यज्ञपुमान् स सर्वदा ममास्तु माङ्गल्यविवृद्दये हरिः || १६ ||
पातालमूलेश्वरभोगिसम्हतौ विन्यस्य पादौ पृथिवीम् च बिभ्रतः |
यस्योपमानम् न बभूव सोऽच्युतो ममास्तु माङ्गल्यविवृद्दये हरिः || १७ ||
विघर्घरम् यस्य च बृम्हतो मुहुः सनन्दनाद्यैर्जनलोकसम्स्थितैः |
श्रुतम् जयेत्युक्तिपरैः स सर्वदा ममास्तु माङ्गल्यविवृद्दये हरिः || १८ ||
एकार्णवद् यस्य महीयसो महीम् आदाय वेगेन समुत्पतिष्यतः |
नुतम् वपुर्योगिवरैः स सर्वदा ममास्तु माङ्गल्यविवृद्दये हरिः || १९ ||
हतो हिरण्याक्षमहासुरः पुरा पुराणपुम्सा परमेण येन |
वराहरूपः स पतिः प्रजापतेर् ममास्तु माङ्गल्यविवृद्दये हरिः || २० ||
दम्ष्ट्राकरालम् सुरभीतिनाशनम् कृत्वा वपुर्दिव्यनृसिम्हरूपिणम् |
त्रातम् जगद् येन स सर्वदा प्रभुर् ममास्तु माङ्गल्यविवृद्दये हरिः || २१ ||
दैत्येन्द्रवक्षःस्थलदारदारुणैः करोरुहैः शत्रुरुजानुकारिभिः |
चिच्छेद लोकस्य भयानि चाव्ययो ममास्तु माङ्गल्यविवृद्दये हरिः || २२ ||
दन्तान्तदीप्तिद्युतिनिर्मलानिशाम् चकार सर्वाणि दिशाम् मुखानि |
निनादवित्रासितदानवो ह्यसौ ममास्तु माङ्गल्यविवृद्दये हरिः || २३ ||
यन्नामसङ्कीर्तनतो महाभयाद् विमोक्षमाप्नोति न सम्शयम् नरः |
समस्तलोकार्तिहरो नृकेसरी ममास्तु माङ्गल्यविवृद्दये हरिः || २४ ||
सटाकलापभ्रमणानिलहताः स्फुटन्ति यस्याम्बुधराः समन्ततः |
स दिव्यसिम्हः स्फुरिताकुलेक्षणो ममास्तु माङ्गल्यविवृद्दये हरिः || २५ ||
यदीक्षणज्योतिषि रश्मिमण्डलम् प्रलीनमेव न रराज भास्वतः |
कुतः शशाङ्कस्य स सिंहरूपधृग् ममास्तु माङ्गल्यविवृद्दये हरिः || २६ ||
द्रवन्ति दैत्याः प्रणमन्ति देवता नश्यन्ति रक्षाम्स्यपयान्ति चारयः |
यत्कीर्तनात् सोऽद्भुतरूपकेसरी ममास्तु माङ्गल्यविवृद्दये हरिः || २७ ||
अशेषदेवेशनरेश्वरेश्वरैः सदा स्तुतम् यच्चरितम् महाद्भुतम् |
स सर्वलोकार्तिहरो महाहरिर् ममास्तु माङ्गल्यविवृद्दये हरिः || २८ ||
ऋक्कारितम् यो यजुषाऽतिशान्तिमत् सामध्वनिध्वस्तसमस्तपातकम् |
चक्रे जगद्वामनकः स सर्वदा ममास्तु माङ्गल्यविवृद्दये हरिः || २९ ||
यत्पादविन्यासपवित्रताम् मही ययौ वियद् ऋग्यजुषामुदीरणात् |
स वामनो दिव्यशरीरधृक् सदा ममास्तु माङ्गल्यविवृद्दये हरिः || ३० ||
यस्मिन् प्रयाते सुरभूभृतोऽध्वर म् ननाम खेदादवनिः ससागरा |
स वामनः सर्वजगन्मयः सदा ममास्तु माङ्गल्यविवृद्दये हरिः || ३१ ||
महाद्युतौ दैत्यपतेर्महाध्वर म् यस्मिन् प्रविष्टे क्षुभित म् महासुरैः |
स वामनोऽन्तः स्थितसप्तलोकधृङ्ममास्तु माङ्गल्यविवृद्दये हरिः || ३२ ||
समस्तदेवेष्टिमयम् महाद्युतिर् दधार यो रूपमतीन्द्रियम् प्रभुः |
त्रिविक्रमाक्रान्तजगत्त्रयः सदा ममास्तु माङ्गल्यविवृद्दये हरिः || ३३ ||
सङ्घैः सुराणाम् दिवि भूतले स्थितैस् तथा मनुष्यैर्गगने स सर्वदा |
स्तुतः क्रमाद्यः प्रददे स सर्वदा ममास्तु माङ्गल्यविवृद्दये हरिः || ३४ ||
क्रान्त्वा धरित्रीम् गगनम् तथा दिवम् मरुत्पतेर्यः प्रददौ त्रिविष्टपम् |
स देवदेवो भुवनेश्वरेश्वरो ममास्तु माङ्गल्यविवृद्दये हरिः || ३५ ||
अनुग्रहम् चापि बलेरनुत्तमम् चकार यश्चेन्द्रपदोपलक्षणम् |
सुराम्श्च यज्ञस्य भुजः स सर्वदा ममास्तु माङ्गल्यविवृद्दये हरिः || ३६ ||
रसातलाद्येन पुरा समाहृताः समस्तवेदा वरवाजिरूपिणा |
स कैटभारिर्मधुसूदनो महान् ममास्तु माङ्गल्यविवृद्दये हरिः || ३७ ||
निःक्षत्रियाम् यश्च चकार मेदिनीम् अनेकशो बाहुवनम् तथाऽछिनत् |
यः कार्तवीर्यस्य स भार्गवोत्तमो ममास्तु माङ्गल्यविवृद्दये हरिः || ३८ ||
निहत्य वालिम् च कपीश्वरम् हि यो निबध्य सेतुम् जलधौ दशाननम् |
जघान चान्यान् रजनीचरान् असौ ममास्तु माङ्गल्यविवृद्दये हरिः || ३९ ||
चिक्षेप बालः शकटम् बभञ्ज यो यमलार्जुनौ कम्समरिम् जघान |
ममर्द चाणूरमुखम् स सर्वदा ममास्तु माङ्गल्यविवृद्दये हरिः || ४० ||
प्रातः सहस्राम्शुमरीचिनिर्मलम् करेण बिभ्रद् भगवान् सुदर्शनम् |
कौमोदकीम् चापि गदामनुत्तमाम् ममास्तु माङ्गल्यविवृद्दये हरिः || ४१ ||
हिमेन्दुकुन्दस्फटिकाभ्रकोमलम् मुखानिलापूरितमीश्वरेश्वरः |
मध्याह्नकाले च स शङ्खमुत्तमम् ममास्तु माङ्गल्यविवृद्दये हरिः || ४२ ||
तथा पराह्ने प्रविकासिपङ्कजम् वक्षःस्थलेन श्रियमुद्वहद् विभुः |
विस्तारिपद्मोत्पलपत्रलोचनो ममास्तु माङ्गल्यविवृद्दये हरिः || ४३ ||
सर्वेषु कालेषु समस्तदेशेषु अशेषकार्येषु तथेश्वरेश्वरः |
सर्वैः स्वरूपैर्भगवान् अनादिमान् ममास्तु माङ्गल्यविवृद्दये हरिः || ४४ ||
एतत् पठन् दाल्भ्य समस्तपापैर् विमुच्यते विष्णुपरो मनुष्यः |
सिध्यन्ति कार्याणि तथाऽस्य सर्वाणि अर्थानवाप्नोति तथा यथेष्टम् || ४५ ||
दुःस्वप्नम् प्रशममुपैति पठ्यमाने स्तोत्रेऽस्मिञ्श्रवणविधौ सदोत्थितस्य |
प्रारम्भो द्रुतमुपयाति सिद्धिमीशः पापानि क्षपयति चास्य वासुदेवः || ४६ ||
माङ्गल्यम् परममिदम् सदाऽर्थसिद्धिम्
निर्विघ्नम् त्वधिकफलम् सदा ददाति |
किम् लोके तदिह परत्र चास्ति पुम्साम्
यद्विष्णुप्रवणधियाम् न दाल्भ्य साध्यम् || ४७ ||
देवेन्द्रस्त्रिभुवनमर्थमेकपिङ्गः सर्वर्द्धिम् त्रिभुवनगाम् च कार्तवीर्यः |
वैदेहः परमपदम् प्रसाद्य विष्णुम् सम्प्राप्ताः सकलफलप्रदो हि विष्णुः || ४८ ||
सर्वारम्भेषु दाल्भ्यैतद् दुःस्वप्नेषु च पण्डितः |
जपेदेकमतिर्विष्णौ तथाऽमङ्गल्यदर्शने || ४९ ||
शमम् प्रयान्ति दुष्टानि ग्रहपीडाश्च दारुणाः |
कर्मारम्भाश्च सिध्यन्ति माङ्गल्यस्तुतिसम्स्तुतः ||
हरिर्ददाति भद्राणि माङ्गल्यस्तुतिसम्स्तुतः |
करोत्यखिलरूपैश्च रक्षामक्षतशक्तिधृक् || ५० ||
इति विष्णुधर्मे ब्रह्माख्यानकम् नाम एकचत्वारिम्शोऽध्यायः
द्विचत्वारिम्शोऽध्यायः
अशून्यशयनद्वितीया
दाल्भ्य उवाच –
कुर्वीत किम् पुमान् स्थानम् कः पुमान् ब्रह्मणो बलम् |
ब्रह्मणश्च कथम् भेदो ज्ञेयोऽभिन्नफलप्रदः || १ ||
पुलस्त्य उवाच –
स्वकर्मणा धनम् लब्ध्वा नित्यनैमित्तिकाः क्रियाः |
कुर्वीत शुद्धिमास्थाय स्वेच्छया च तथा परः || २ ||
त्यक्त्वा रागादिकान्दोषान् समः सर्वत्र वै भवेत् |
सर्वत्र मैत्रीं कुर्वीत दद्याद् इष्टानि चार्थिनाम् || ३ ||
कुर्याद्दीनेषु करुणाम् दुःशीलान् परिवर्जयेत् |
मुदिताम् धर्मशीलेषु भावनाम् मुनिसत्तम! || ४ ||
एकत्र वा जगन्नाथे भावनाम् पुरुषोत्तमे |
निःशेषार्थमलापेताम् शुद्धाम् कुर्वीत पण्डितः || ५ ||
शरीरबाह्यताम् शश्वद्धिम्साम् कुर्वीत न क्वचित् |
निन्दावमानमन्येषाम् यच्चान्यदुपघातकम् || ६ ||
शरीरवाङ्मनःशुद्धिम् कुर्वीत च सदात्मनः |
भूतानामुपकारश्च तपोभिश्चात्मकर्षणम् || ७ ||
एष धर्मः समासेन दाल्भ्याख्यातो मया तव |
अधर्मश्चायमेवोक्तो विपरीतो मनीषिभिः || ८ ||
एते यत्र गुणाः पूर्वम् कथिता ज्ञानसम्युताः |
ब्रह्मणः साश्रयः शुद्ध उपचारात् तदेव सः || ९ ||
एकस्यैव सतस्तस्य ब्रह्मणो द्विजसत्तम! |
नाम्नाम् बहुत्वम् लोकानामुपकारकरम् शृणु || १० ||
निमित्तशक्तयो नाम्नो भेदतस्तदुदीरणात् |
विभिन्नान्येव साध्यन्ते फलानि कुरुनन्दन! || ११ ||
यच्छक्ति नाम तत्तस्य तत्तस्मिन्नेव वस्तुनि |
साधकम् पुरुषव्याघ्र! सौम्य क्रूरेषु वस्तुषु || १२ ||
वासुदेवाच्युतानन्तसत्याज्य पुरुषोत्तमैः |
परमात्मेश्वराद्यैश्च स्तुतो नामभिरव्ययः || १३ ||
निमित्तभावम् भगवान् विमुक्तेर्यात्यधोक्षजः |
तथान्यकार्यसम्सिद्धौ यद्यत् तत्तन्निशामय || १४ ||
धनकृद्धर्मकृद्धर्मी धर्मात्मा विश्वकृच्छुचिः |
शुचिषद्विष्णुरब्जाक्षः पुष्कराक्षो ह्यधोक्षजः |
शुचिश्रवाः शिपिविष्टो यज्ञेशो यज्ञभावनः || १५ ||
नाम्नामित्येवमादीनाम् समुच्चारणतो नरः |
धर्मम् महान्तमाप्नोति पापबन्धक्षयम् तथा || १६ ||
तथाऽर्थप्राप्तये ब्रह्मन् देवनामानि मे शृणु |
येषाम् समुच्चारणतो वित्तमाप्नोति भक्तिमान् || १७ ||
श्रीदः श्रीशः श्रीनिवासः श्रीधरः श्रीनिकेतनः |
श्रियः पतिः श्रीपरमः श्रीमाञ्श्रीवत्सलाञ्च्छनः || १८ ||
नृसिम्हो दुष्टदमनो जयो विष्णुस्त्रिविक्रमः |
स्तुतः प्रयच्छते चार्थमेवमादिभिरच्युतः || १९ ||
काम्यः कामप्रदः कान्तः कामपालस्तथा हरिः |
आनन्दो माधवश्चैव कामसम्सिद्धये नृप || २० ||
रामः परशुरामश्च नृसिम्हो विष्णुरेव च |
विक्रमश्चैवमादीनि जप्यान्यरिजिगीषुभिः || २१ ||
विद्यामभ्यस्यताम् नित्यम् जप्तव्यः पुरुषोत्तमः |
दामोदरम् बन्धगतो नित्यमेव जपन्नरः || २२ ||
केशवम् पुण्डरीकाक्षम् पुष्कराक्षम् तथा जपेत् |
नेत्रबाधासु सर्वासु हृषीकेशम् भयेषु च || २३ ||
अच्युतम् चामृतम् चैव जपेदौषधकर्मणि |
भ्राजिष्णुमग्निहानौ च जपेदालम्बने स्थितम् || २४ ||
सङ्ग्रामाभिमुखम् गच्छन् सम्स्मरेदपराजितम् |
पातालनरसिम्हम् च जलप्रतरणे स्मरेत् || २५ ||
चक्रिणम् गदिनम् चैव शार्ङ्गिनम् खड्गिनम् तथा |
क्षेमार्थे प्रसवन् राजन् दिक्षु प्राच्यादिषु स्मरेत् || २६ ||
अजितम् चाधिकम् चैव सर्वम् सर्वेश्वरम् तथा |
सम्स्मरेत् पुरुषो भक्त्या व्यवहारेषु सर्वदा || २७ ||
नारायणम् सर्वकालम् क्षुतप्रस्खलितादिषु |
ग्रहनक्षत्रपीडासु देवबाधाटवीषु च || २८ ||
दस्युवैरिनिरोधेषु व्याघ्रसिम्हादिसङ्कटे |
अन्धकारे च तीव्रे च नरसिम्हमनुस्मरेत् |
तरत्यखिलदुर्गाणि तापार्तो जलशायिनम् || २९ ||
गरुडध्वजानुस्मरणादापद्भ्यो मुच्यते नरः |
(ज्वरदुष्टशिरोरोगविषवीर्यम् प्रशाम्यति || ३० || )
स्नाने देवार्चने होमे प्रणिपाते प्रदक्षिणे |
कीर्तयेद् भगवन्नाम वासुदेवेति तत्परः || ३१ ||
स्थगने वित्तधान्यादेरपध्याने च दुष्टजे |
कुर्वीत तन्मना भूत्वा अनन्ताच्युतकीर्तनम् || ३२ ||
नारायणम् शार्ङ्गधरम् श्रीधरम् पुरुषोत्तमम् |
वामनम् खड्गिनम् चैव दुःस्वप्नेषु च सम्स्मरेत् || ३३ ||
एकार्णवाहिपर्यङ्कशायिनम् च नरः स्मरेत् |
वाय्वग्नीगृहदाहाय प्रवृद्धावुपलक्ष्य च || ३४ ||
विद्यार्थी मोहविभ्रान्तिवेगाघूर्णितमानसः |
मनुष्यो मुनिशार्दूल सदाऽश्वशिरसम् स्मरेत् || ३५ ||
बलभद्रम् समृद्ध्यर्थी सीरकर्मणि कीर्तयेत् |
जगत्सूतिमपत्यार्थी स्तुवन् भक्त्या न सीदति || ३६ ||
जप्तव्यम् सुप्रजाख्यम् तु देवदेवस्य सत्तम |
दम्पत्योरात्मसम्बन्धे विवाहाख्ये पुनः पुनः || ३७ ||
श्रीशम् सर्वाभ्युदयिके कर्मणि सम्प्रकीर्तयेत् |
अरिष्टान्तेष्वशेषेषु विशोकम् च सदा जपेत् || ३८ ||
मरुत्प्रतापाग्निजलबन्धनादिषु मृत्युषु |
स्वातन्त्र्यपरतन्त्रेषु वासुदेवम् जपेद् बुधः || ३९ ||
सर्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः |
यद्वाऽभिरोचते नाम तत् सर्वार्थेषु कीर्तयेत् || ४० ||
सर्वार्थसिद्धिमाप्नोति नाम्नामेकार्थता यतः |
सर्वाण्येतानि नामानि परस्य ब्रह्मणोऽनघ || ४१ ||
एवमेतानि नामानि देवदेवस्य कीर्तयेत् |
यम् यम् काममभिध्यायेत् तम् तमाप्नोत्यसम्शयम् |
सर्वान् कामानवाप्नोति समाराध्य जगद्गुरुम् || ४२ ||
तन्मयत्वेन गोविन्दमित्येतद्दाल्भ्य नान्यथा |
तन्मयो वाञ्छितान् कामान् यदवाप्नोति मानवः || ४३ ||
निमित्तशक्तिः सा तस्य न भेदो दाल्भ्य मानसः |
वाङ्मनःकायिकम् द्वेषम् यच्च कुर्वन् प्रयात्यधः || ४४ ||
स्वरूपशक्तिः सा तस्य मतिभेदकृतम् न तत् |
स शाक्तो निर्गुणः शुद्धो ब्रह्मभूतो जगद्गुरुः || ४५ ||
कर्मभिर्नामभिर्जीवो दृश्यते दाल्भ्य नैकधा |
यथा च गङ्गासलिलम् सितमत्यन्तनिर्मलम् || ४६ ||
एकस्वरूपमध्यात्मम् पुण्यापुण्यविभेदिभिः |
भ्रान्तिज्ञानान्वितैर्मिश्रम् सितासितविचेष्टितैः |
दृश्यते नैकधा दाल्भ्य प्राणिभिर्भिन्नबुद्धिभिः || ४७ ||
तापार्तास्तापशमनम् अतिप्रीत्यतिशीतलम् |
कफदोषान्वितैर्नातिप्रीतियुक्तैर्निरम्शुभिः || ४८ ||
स्त्रीयोग्यमेतन्नेतीति प्रीत्यप्रीतिसमन्वितैः |
मध्यस्थबुद्ध्या चैवान्ये नातिशीतातितापिभिः || ४९ ||
पवित्रमित्येतदिति पुण्यबुद्ध्या तथापरैः |
मृष्टमेतदितीत्यन्यैर्मत्स्याढ्यमिति चापरैः || ५० ||
तुल्यबुद्ध्याऽपि चैवान्यैर्हेयबुद्ध्या तथापरैः |
नातिवेगातिवेगम् च हृष्टोद्विग्नैस्तथापरैः || ५१ ||
किमेतेनेति चैवान्यैः परदाराभिलाषिभिः |
दाल्भ्य सम्दृश्यते चान्यैर्जन्तुभिर्भयकातरैः |
तदेव यम् पश्यन्ति प्रेताद्याहृतिपापिनः || ५२ ||
एतैश्चान्यैश्च बहुभिर्विशेषैर्बहुजन्तुभिः |
विशेषवत्कर्मभेदादेकमेव हि दृश्यते || ५३ ||
नैते गङ्गाम्भसो भेदाः प्रीत्यप्रीतिप्रदायिनः |
प्राणिनाम् चेतसो भेदाद्दाल्भ्यैते कर्मयोनयः || ५४ ||
समस्तकर्मणा दाल्भ्य सम्क्षये भयमेत्यसौ |
विशेषकारणाभावाद्विशेषाभाव एव हि || ५५ ||
विष्ण्वाख्यमेवम् तद्ब्रह्म शुद्धमत्यन्तनिर्मलम् |
अभेदम् बहुधा भिन्नम् दृश्यते कर्मभेदिभिः || ५६ ||
योगिभिर्दृश्यते शुद्धम् रागाद्युपशमामलैः |
रागिभिर्विषयाकारम् तदेव ब्रह्म दृश्यते || ५७ ||
कर्म सा…. कर्म भोक्तृत्वम् च तथेष्यते |
किमप्यस्तीति चैवान्यैरविवेकिभिरुच्यते || ५८ ||
सर्वमेतत्तदेवेति वदन्त्यद्वैतवादिनः |
प्रत्यक्षम् दृश्यमेवेति वदन्त्यन्ये दुरुक्तिभिः || ५९ ||
वदन्त्यन्ये तदेवाहम् नास्तीत्यन्ये वदन्ति तत् |
तिर्यङ्मनुष्यदेवाख्यम् तदन्यैरभिधीयते || ६० ||
वन्द्यबुद्ध्या तु तत्कैश्चिद् ध्येयबुद्ध्या तथापरैः |
गम्यबुद्ध्या तथान्यैश्च लभ्यबुद्ध्या च जन्तुभिः || ६१ ||
गृह्यते तत्परम् ब्रह्म रिपुबुद्ध्या तथापरैः |
आत्मपुत्रसुहृद्भर्तृपरबुद्ध्या च नैकधा || ६२ ||
प्राणिभिः कर्मवैषम्यभिन्नबुद्धिभिरव्ययम् |
तद्ब्रह्म गृह्यते दाल्भ्य! परमार्थम् निबोध मे || ६३ ||
भूतेन्द्रियान्तः करणप्रधानपुरुषात्मकम् |
अपरम् ब्रह्मणो रूपम् परम् दाल्भ्य निशामय || ६४ ||
अहेयमक्षरम् शुद्धमसम्भूतिनिरञ्जनम् |
विष्ण्वाख्यम् परमम् ब्रह्म यद्वै पश्यन्ति सूरयः || ६५ ||
इति विष्णुधर्मे अशून्यशयनद्वितीया नाम द्विचत्वारिम्शोऽध्यायः
त्रिचत्वारिम्शोऽध्यायः
माङ्गल्यस्तवः
दाल्भ्य उवाच –
यथैतद्भवता प्रोक्तम् धर्मार्थादेस्तु साधनम् |
पत्नी नॄणाम् मुनिश्रेष्ठ! योषितश्च तथा नरः || १ ||
तच्छ्रोतुमिच्छे विप्रर्षे! विधवा स्त्री न जायते |
उपोषी तेन येनाग्र्या पत्न्या च रहितो नरः || २ ||
पुलस्त्य उवाच –
अशून्यशयना नाम द्वितीयाम् शृणु ताम् मम! |
यामुपोष्य न वैधव्यम् प्रयाति स्त्री द्विजोत्तम || ३ ||
पत्नीवियुक्तश्च नरो न कदाचित् प्रजायते |
शेते जगत्पतिः कृष्णः श्रिया सार्धम् यदा द्विज! || ४ ||
अशून्यशयना नाम तदा ग्राह्या हि सा तिथिः |
कृष्णपक्षद्वितीयायाम् श्रावणे द्विजसत्तम! || ५ ||
इदमुच्चारयेन्नाम प्रणम्य जगतः पतिम् |
श्रीवत्सधारिणम् श्रीशम् भक्त्याऽभ्यर्च्य श्रिया सह || ६ ||
श्रीवत्सधारिञ्श्रीकान्त श्रीधाम श्रीपतेऽच्युत |
गार्हस्थ्यम् मा प्रणाशम् मे यातु धर्मार्थकामदम् || ७ ||
अग्नयो मा प्रणश्यन्तु मा प्रणश्यन्तु देवताः |
पितरो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः || ८ ||
लक्ष्म्या प्रयुज्यते देव! न कदाचिद् यथा भवान् |
तथा कलत्रसम्बन्धो देव मा मे विभिद्यताम् || ९ ||
लक्ष्म्या न शून्यम् वरद! यथा ते शयनम् सदा |
शय्या ममाप्यशून्याऽस्तु तथैव मधुसूदन! || १० ||
एवम् प्रसाद्य पूजाम् च कृत्वा लक्ष्म्यास्तथा हरेः |
फलानि दद्याच्छय्यायामभीष्टानि जगत्पतेः || ११ ||
नक्तम् प्रणम्यायतने हविर्भुञ्जीत वाग्यतः |
ब्राह्मणाय द्वितीयेऽह्नि शक्त्या दद्याच्च दक्षिणाम् || १२ ||
एवम् करोति यः सम्यग् नरो मासचतुष्टयम् |
तस्य जन्मत्रयम् दाल्भ्य गृहभङ्गो न जायते || १३ ||
अशून्यशयनश्चासौ धर्मकर्मार्थसाधकः |
भवत्यव्याहतैश्वर्यः पुरुषो नात्र सम्शयः || १४ ||
नारी च दाल्भ्य धर्मज्ञा व्रतमेतद् यथाविधि |
या करोति न सा शोच्या बन्धुवर्गस्य जायते || १५ ||
वैधव्यम् दुर्भगत्वम् वा भर्तृत्यागम् च सत्तम! |
नाप्नोति जन्मत्रितयमे तच्चीर्त्वा पतिव्रता || १६ ||
इति विष्णुधर्मे माङ्गल्यस्तवम् नाम त्रिचत्वारिम्शोऽध्यायः
चतुश्चत्वारिम्शोऽध्यायः
सम्सारहेतुमुक्त्याख्यानकम्
दाल्भ्य उवाच –
उपवासाश्रितम् सम्यग् लोकद्वयफलप्रदम् |
कथितम् भवता सर्वम् यत् पृष्टोऽसि मया द्विज! || १ ||
अन्यदिच्छाम्यहम् श्रोतुम् तद्भवान् प्रब्रवीतु मे |
सम्सारहेतुम् मुक्तिम् च सम्सारान्मुनिसत्तम! || २ ||
पुलस्त्य उवाच –
अविद्याप्रभवम् कर्म हेतुभूतम् द्विजोत्तम! |
सम्सारस्यास्य तन्मुक्तिः सन्क्षेपाच्छ्रूयताम् मम || ३ ||
स्वजातिविहितम् कर्म लोभद्वेषविवर्जितम् |
कुर्वतः क्षीयते पूर्वम् मन्युबन्धश्च नेष्यते || ४ ||
अपूर्वसम्भवाभावात् क्षयम् यात्यादिकर्मणि |
दाल्भ्य सम्सारविच्छेदः कारणाभावसम्भवः || ५ ||
भवत्यसम्शयम् चान्यच्छ्रूयतामत्र कारणम् |
सम्सारान्मुच्यते दाल्भ्य समासाद्वदतो मम || ६ ||
गृहीतकर्मणा येन पुम्साम् जातिर्द्विजोत्तम |
तत्प्रायश्चित्तभूतम् वै शृणु कर्मक्षयावहम् || ७ ||
ब्राह्मणक्षत्रियविशाम् शूद्रान्त्यानाम् च सत्तम |
स्वजातिविहितम् कर्म रागद्वेषादिवर्जितम् || ८ ||
जातिप्रदस्य क्षयदम् तदेवाद्यस्य कर्मणः |
ज्ञानकारणभावम् च तदेव प्रतिपद्यते || ९ ||
पुमाम्श्चाधिगतज्ञानो भेदम् नाप्नोति सत्तम |
ब्रह्मणा विष्णुसम्ज्ञेन परमेणाव्ययात्मना || १० ||
एतत्ते कथितम् दाल्भ्य सम्सारस्य समासतः |
कारणम् भवमुक्तिश्च जायते योगिनो यथा || ११ ||
इति विष्णुधर्मे सम्सारहेतुमुक्त्याख्यानकम् नाम चतुश्चत्वारिम्शोऽध्यायः
पञ्चचत्वारिम्शोऽध्यायः
पुलस्त्यदाल्भ्यसम्वादः
शुक्र उवाच –
इति दाल्भ्यः पुलस्त्येन यथावत् प्रतिबोधितः |
आराधयामास हरिम् लेभे कामाम्श्च वाञ्छितान् || १ ||
तथा त्वमपि दैत्येन्द्र केशवाराधनम् कुरु |
आराध्य तम् जगन्नाथम् न कश्चिदवसीदति || २ ||
वसिष्ठ उवाच –
इति शुक्रवचः श्रुत्वा प्रह्लादो मधुसूदनम् |
आराध्य प्राप्तवान् कृत्स्नम् त्रैलोकैश्वर्यमूर्जितम् || ३ ||
एतन्मयोक्तम् सकलम् तव भूमिप पृच्छतः |
अनाराध्याच्युतम् देवम् कः कामान् प्राप्नुते नरः || ४ ||
शौनक उवाच –
अम्बरीषो नरपतिर्विष्णोर्माहात्म्यमुत्तमम् |
श्रुत्वा बभूव सततम् केशवार्पितमानसः || ५ ||
एवम् त्वमपि कौरव्य यदि मुक्तिमभीष्यसि |
भोगान् वा विपुलान् देवात्तस्मादाराधयाच्युतम् || ६ ||
ददाति वाञ्छितान् कामान् सकामैरर्चितो हरिः |
मुक्तिम् ददाति गोविन्दो निष्कामैरभिपूजितः || ७ ||
शतानीक उवाच –
भगवानवतीर्णोऽभून्मर्त्यलोकम् जनार्दनः |
भारावतरणार्थाय भुवो भूतपतिर्हरिः || ८ ||
मानुषत्वे च गोविन्दो मम पूर्वपितामहैः |
चकार प्रीतिमतुलाम् सामान्यपुरुषो यथा || ९ ||
सारथ्यम् कृतवाम्श्चैव तेषाम् सर्वेश्वरो हरिः |
निस्तीर्णो येन भीष्मौघो कुरुसैन्यमहोदधिः || १० ||
उपकारी महाभागः स तेषाम् सर्ववस्तुषु |
केशवः पाण्डुपुत्राणाम् सुतानाम् जनको यथा || ११ ||
धन्यास्ते कृतपुण्याश्च मम पाण्डुसुता मताः |
विविशुर्ये परिष्वङ्गे गोविन्दभुजपञ्जरम् || १२ ||
राज्यहेतोररीञ्जघ्नुरकस्मात् पाण्डुनन्दनाः |
सप्तलोकैकनाथेन येऽभवन्नेकशायिनः || १३ ||
आत्मानमवगच्छामि भगवन् धूतकल्मषम् |
जातम् निर्धूतपापेऽस्मिन् कुले विष्णुपरिग्रहे || १४ ||
एवम् देववरस्तेषाम् प्रसादसुमुखो हरिः |
पृच्छताम् कच्चिदाचष्टे किञ्चिद्गुह्यम् महात्मनाम् || १५ ||
गुह्यम् जनार्दनम् याम्स्तु धर्मपुत्रो युधिष्ठिरः |
पप्रच्छ धर्मानखिलाम्स्तन्ममाख्यातुमर्हसि || १६ ||
धर्मार्थकाममोक्षेषु यद्गुह्यम् मधुसूदनः |
तेषामवोचद्भगवाञ्श्रोतुमिच्छामि तत्त्वहम् || १७ ||
शौनक उवाच –
बहूनि धर्मगुह्यानि धर्मपुत्राय केशवः |
पुरा प्रोवाच राजेन्द्र प्रसादसुमुखो हरिः || १८ ||
शरतल्पगताद्भीष्माद्धर्माञ्श्रुत्वा युधिष्ठिरः |
पृष्टवान् यज्जगन्नाथम् तन्मे निगदतः शृणु || १९ ||
इति विष्णुधर्मे पुलस्त्यदाल्भ्यसम्वादो नाम पञ्चश्चत्वारिम्शोऽध्यायः
षट्चत्वारिम्शोऽध्यायः
युधिष्ठिरप्रश्नः
शौनक उवाच –
पञ्चमेनाश्वमेधेन यदा स्नातो युधिष्ठिरः |
तदा नारायणम् देवम् प्रश्नमेतमपृच्छत || १ ||
युधिष्ठिर उवाच –
भगवन् वैष्णवा धर्माः किम्फलाः किम्परायणाः |
किम् कृत्यमधिकृत्यैते भवतोत्पादिताः पुरा || २ ||
यदि ते पाण्डुषु स्नेहो विद्यते मधुसूदन! |
श्रोतव्याश्चेन्मया धर्मास्ततस्तान् कथयाऽखिलान् || ३ ||
पवित्राश्चैव ये धर्माः सर्वपापप्रणाशनाः |
तव वक्त्रच्युता देव सर्वधर्मेष्वनुत्तमाः || ४ ||
याञ्श्रुत्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः |
सुरापो वा कृतघ्नश्च मुच्यते सर्वकिल्बिषैः || ५ ||
एतन्मे कथितम् सर्वम् सभामध्येऽरिसूदन |
वसिष्ठाद्यैर्महाभागैर्मुनिभिर्भावितात्मभिः || ६ ||
ततोऽहम् तव देवेश पादमूलमुपागतः |
धर्मान् कथय तान् देव यद्यहम् भवतः प्रियः || ७ ||
श्रुता मे मानवा धर्मा वासिष्ठाश्च महामते |
पराशरकृताश्चैव तथाऽऽत्रेयस्य धीमतः || ८ ||
श्रुता गार्ग्यस्य शङ्खस्य लिखितस्य यमस्य च |
मार्कण्डेया श्रुताः धर्माः शङ्खस्य लिखितस्य च
जाबालेश्च महाबाहो मुनेर्द्वैपायनस्य च || ९ ||
(उमामहेश्वराश्चैव जातिधर्माश्च पावनाः |
गुणैश्च गुणबाहोश्च काश्यपेयास्तथैव च || १० ||)
बह्वायनकृताश्चैव शाकुनेयास्तथैव च |
अगस्त्यगीता मौद्गल्याः शाण्डिल्याः सौरभास्तथा || ११ ||
भृगोरङ्गिरसश्चैव कश्यपोद्दालकास्तथा |
सौमन्तूग्रायणाग्राश्च पैलस्य च महात्मनः || १२ ||
सुमन्त्र गायणोक्तश्च पुलस्त्यस्य च महात्मनः
वैशम्पायनगीताश्च पिशङ्गमकृताश्च ये |
ऐन्द्राश्च वारुणाश्चैव कौबेरा वात्स्यपौणकाः || १३ ||
आपस्तम्बाः श्रुता धर्मास्तथा गोपालकस्य च |
भृग्वङ्गिरःकृताश्चैव सौर्या हारीतकास्तथा |
याज्ञवल्क्यकृताश्चैव तथा सप्तर्षयश्च ये || १४ ||
एताश्चान्याश्च विविधाः श्रुता मे धर्मसम्हिताः |
भगवञ्श्रोतुमिच्छामि तव वक्त्राद्विनिःसृतान् || १५ ||
शौनक उवाच –
एवमुक्तः स पार्थेन प्रत्युवाच जनार्दनः |
बहुमानाच्च प्रीत्या च धर्मपुत्रम् युधिष्ठिरम् || १६ ||
भगवानुवाच –
इष्टस्त्वम् हि महाबाहो! सदा मम युधिष्ठिर! |
परमार्थम् तव ब्रूया म् कि म् पुनर्धर्मसम्हिताम् || १७ ||
परमज्ञानिभिः सिद्धैर्युञ्जद्भिरपि नित्यशः |
प्रशान्तस्येव दीपस्य गतिर्मम दुरत्यया || १८ ||
सर्ववेदमयम् ब्रह्म पवित्रमृषिभिः स्तुतम् |
कथयिष्यामि ते राजन् धर्मम् धर्मभृताम् वर! || १९ ||
एवमुक्ते तु कृष्णेन ऋषयोऽमिततेजसः |
समाजग्मुः सभामध्ये श्रोतुकामा हरेर्गिरम् || २० ||
(देवगन्धर्वऋषयो गुह्यकाश्च महायशाः |
वालखिल्या महात्मानो मुनयः सम्मितव्रताः |
पावनान्सर्वधर्मेभ्यो रहस्यान् द्विजसत्तम |)
वैष्णवानखिलान् धर्मान्यः पठेत् पापनाशनान् |
भवेयुरक्षयास्तस्य लोकाः सत्पुण्यभागिनः || २१ ||
कृष्णदृष्टिहतम् चास्य किल्बिषम् सम्प्रणश्यति |
वैष्णवस्य च यज्ञस्य फलम् प्राप्नोति मानवः || २२ ||
इति विष्णुधर्मे युधिष्ठिरप्रश्नो नाम षट्चत्वारिम्शोऽध्यायः
सप्तचत्वारिम्शोऽध्यायः
याम्याख्यानकम्
शौनक उवाच –
कौतूहलसमाविष्टः पप्रच्छेदम् युधिष्ठिरः |
यमलोकस्य चाध्वानमन्तरम् मानुषस्य च || १ ||
कीदृशम् प्रमाणम् वा किम् वर्णम् वा जनार्दनः |
तरन्ति पुरुषाः कृष्ण! केनोपायेन सम्शमे || २ ||
तस्य तद्वचनम् श्रुत्वा विस्मितो मधुसूदनः |
प्रत्युवाच महात्मानम् धर्मपुत्रम् युधिष्ठिरम् || ३ ||
भगवानुवाच –
साधु साधुरयम् प्रश्नः श्रूयताम् भो युधिष्ठिर! |
षडशीतिसहस्राणि योजनानाम् नराधिप! || ४ ||
यमलोकस्य चाध्वानमन्तरम् मानुषस्य च |
ताम्रपात्रमिवातप्तम् शूलव्यामिश्रकण्टकम् || ५ ||
द्वादशादित्यसङ्काशम् भैरवम् दुरतिक्रमम् |
न तत्र वृक्षा न च्छाया पानीयम् केतनानि च || ६ ||
यत्र विश्रमते श्रान्तः पुरुषोऽध्वानको नृप |
याम्यैर्दूतैर्नीयमानो यमस्याज्ञाकरैर्बलात् || ७ ||
अवश्य म् च महाराज स गन्तव्यो महापथः |
नरैः स्त्रीभिस्तथा तिर्यैः पृथिव्याम् जीवसम्ज्ञकैः || ८ ||
एकविम्शच्च नरका यमस्य विषये स्मृताः |
ये तु दुष्कृतकर्माणस्ते पतन्ति पृथक् पृथक् || ९ ||
नरको रौरवो नाम महारौरव एव च |
क्षुरधारा महारौद्रः सूकरस्ताल एव च || १० ||
वज्रकुम्भो महाघोरः शाल्मलोऽथ विमोहनः |
कीटादः कृमिभक्षश्च शाल्मलिश्च महाद्रुमः || ११ ||
तथा पूयवहः पापा रुधिरान्धो महत्तमः |
अग्निज्वालो महानादः सम्दम्शः शुनभोजनः |
तथा वैतरणी चोष्णा असिपत्त्रवनं तथा || १२ ||
शौनक उवाच –
विष्णोस्तद्वचनम् श्रुत्वा पपात भुवि पाण्डवः |
स सम्ज्ञश्च मुहूर्तेन भूयः केशवमब्रवीत् || १३ ||
युधिष्ठिर उवाच –
भीतश्चास्मि महाबाहो! श्रुत्वा मार्गस्य विस्तरम् |
केनोपायेन तम् मार्गम् तरन्ति पुरुषाः सुखम् || १४ ||
भगवानुवाच –
ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पार्थिव |
यो दद्याच्छ्रद्धया युक्तः सुखम् याति महापथम् || १५ ||
उपानहप्रदा यान्ति सुखम् छायासु च्छत्त्रदाः |
न तेषामशुभम् किञ्चिच्छलादि न च कण्टकाः || १६ ||
(उपानहौ यो ददाति पात्रभूते द्विजोत्तमे |
अश्वतर्यः प्रदातारमुपतिष्ठन्ति तम् नरम् || १७ ||)
वितृष्णाश्चाम्बुदातारस्तर्पिताश्चान्नदास्तथा |
औप्रावृता वस्त्रदाश्च नग्ना वै यान्त्यवस्त्रदाः || १८ ||
हिरण्यदाः सुखम् यान्ति पुरुषाः स्वाभ्यलङ्कृताः |
गोप्रदा यान्ति च सुखम् विमुक्ताः सर्वकिल्बिषैः || १९ ||
भूमिदाः सुखमेधन्ते सर्वकामैः सुतर्पिताः |
यान्ति चैवापरिक्लिष्टा नराः शय्यासनप्रदाः || २० ||
ततः सुखतरम् यान्ति विमानेषु गृहप्रदाः |
क्षीरप्रदा हि दिव्याभिः ससर्पिभिस्तथैव च || २१ ||
गोप्रदाता लभेत्तृप्तिम् तस्मिन् देशे सुदुर्लभाम् |
आरामरोपी च्छायासु शीतलासु सुखम् व्रजेत् || २२ ||
सुगन्धिगन्धिनो यान्ति गन्धमाल्यप्रदा नरः |
अदत्तदाना गच्छन्ति पद्भ्याम् यानेन यानदाः |
दीपप्रदाः सुखम् यान्ति दीपयन्तश्च तत्पथम् || २३ ||
विमानैर्हंसयुक्तैस्तु यान्ति मासोपवासिनः |
चक्रवाकप्रयुक्तेन पञ्चरात्रोपवासिनः |
ततो बर्हिणयुक्तेन षड्रात्रमुपवासिनः || २४ ||
त्रिरात्रमेकभक्तेन क्षपयेद्यस्तु पाण्डव |
अनन्तरं च योऽश्नीयात्तस्य लोका यथा मम || २५ ||
पानीयम् परलोकेषु पावनम् परमम् स्मृतम् |
पानीयस्य प्रदानेन तृप्तिर्भवति शाश्वती |
पानीयस्य गुणा दिव्याः प्रेतलोके सुखावहाः || २६ ||
तत्र पुण्योदका नाम नदी तेषाम् प्रवर्तते |
शीतलम् सलिलम् तत्र पिबन्ति ह्यमृतोपमम् || २७ ||
ये च दुष्कृतकर्माणः पूयम् तेषाम् प्रवर्तते |
एषा नदी महाराज! सर्वकामदुघा शुभा || २८ ||
अध्वनि खिन्नगात्रस्तु द्विजो यः क्षुत्तृष्णान्वितः |
पृच्छन् सदान्नदातारमभ्येति गृहमाशया |
तम् पूजय प्रयत्नेन सोऽतिथिर्ब्राह्मणः स्मृतः || २९ ||
तस्य पुम्सः तदन्नेन स्वर्गसङ्गमः
पितरो देवतातश्चैव ऋषयश्च तपोधनाः |
पूजिताः पूजिते तस्मिन् निराशे तु निराशकाः |
तमेव गच्छन्तमनुव्रजन्ति देवाश्च सर्वे पितरस्तथैव |
तस्मिन्द्विजे पूजिते पूजितास्ते गते निराशो प्रतियान्ति नाशम् || ३० ||
पूजितास्युर्गते निराशे अपि ते प्रयान्ति
(अहन्यहनि दातव्यम् ब्राह्मणेभ्यो युधिष्ठिर! |
आगमिष्यति यत्पात्रम् तत्पात्रम् तारयिष्यति || ३१ ||)
इति विष्णुधर्मे याम्याख्यानकम् नाम सप्तचत्वारिम्शोऽध्यायः
अष्टाचत्वारिम्शोऽध्यायः
गोप्रदानमिश्रदानम्
भगवानुवाच –
न तथा हविषो होमैर्न पुष्पैर्नानुलेपनैः |
अग्नौ वा सुहुते राजन् यथा ह्यतिथिपूजने || १ ||
अग्नयः पार्थ तुष्यन्ति यथा हि अतिथिपूजनात्
कपिलायाम् तु दत्तायाम् यत्फलम् ज्येष्ठपुष्करे |
तत्फलम् पाण्डवश्रेष्ठ! विप्राणाम् पादशौचने || २ ||
द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी |
तावत् पुष्करपात्रेषु पिबन्ति पितरो जलम् || ३ ||
देवमाल्यापनयनम् द्विजोच्छिष्टापमार्जनम् |
श्रान्तसम्वाहनम् चैव दीनस्य परिपालनम् |
एकैकम् पाण्डवश्रेष्ठ! गोप्रदानाद्विशिष्यते || ४ ||
पादशौचम् तथाभ्यङ्गम् दीपमन्नम् प्रतिश्रयम् |
ददन्ति ये महाराज नोपसर्पन्ति ते यमम् || ५ ||
स्वागतेनाग्नयः प्रीता आसनेन शतक्रतुः |
पितरः पादशौचेन अन्नाद्येन प्रजापतिः || ६ ||
अभयस्य प्रदानेन भवेत् प्रीतिर्ममातुला |
येषाम् तडागानि बहूदकानि प्रपाश्च कूपाश्च प्रतिश्रयाश्च |
अन्नप्रदानम् मधुरा च वाणी यमस्य ते निर्वचना भवन्ति || ७ ||
सवृषम् गोशतम् तेन दत्तम् भवति शाश्वतम् |
न्यायतः कपिलामेकाम् तत्समम् प्रति…. पापकर्म यत……
पापम् कर्म च यत्किञ्चिद्ब्रह्महत्यासमम् भवेत् |
शोछयेत् कपिलाम् दत्त्वा एतद्वै नात्र सम्शयः || ९ ||
प्रासादा यत्र सौवर्णा वसोर्धारा च स्यन्दते |
गन्धर्वाप्सरसो यत्र तत्र गच्छन्ति गोप्रदाः || १० ||
प्रयच्छते यः कपिलाम् सवत्साम् काम्स्योपदोहाम् कनकाग्रशृङ्गीम् |
यान् यान् हि कामानभिवाञ्छतेऽसौ ताम्स्तानवाप्नोत्यमलाम्श्च लोकान् || ११ ||
यावद्वत्सस्य द्वौ पादौ शिरश्चैव प्रदृश्यते |
यावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति |
तस्मिन् काले प्रदातव्या विधिना या मयोदिता || १२ ||
अन्तरिक्षागतो वत्सो यावद्योन्याम् प्रदृश्यते |
तावद्गौः पृथिवी ज्ञेया यावद्गर्भम् न मुञ्चति || १३ ||
यावन्ति तस्य रोमाणि तावद्वर्षाणि मानवः |
(हम्सयुक्तेन यानेन युक्तेनाप्सरसाम् गणैः |
गन्धर्वाप्सरसोद्गीतैः स्वर्गलोके महीयते || १४ ||
तिलधेनुम् प्रवक्ष्यामि यश्चास्या विधिरुत्तमः |
सुवर्णनाभिम् यः कृत्वा सुखूरम् कृष्णमार्गणाम् || १५ ||
कुतपप्रस्तरस्थाम् तु तिलाम् कृत्वा प्रयत्नतः |
तिलैः प्रस्था दिताम् दद्यात् सर्वरत्नैरलङ्कृताम् || १६ ||
ससमुद्रद्रुमा चैव सशैलवनकानना |
चतुरन्ता भवेद्दत्ता पृथिवी नात्र सम्शयः || १७ ||
(कृष्णाजिने तिलाम् कृत्वा कृष्णाम् वा यदि वेतराम् |
राजतेषु तु पात्रेषु कोणेषु मधुसर्पिषी |
प्रीयताम् धर्मराजेति यद्वा मनसि वर्तते |
यावज्जीवकृतम् पापम् तेन दानेन पूयते || १८ ||)
इति विष्णुधर्मे गोप्रदानमिश्रदानम् नाम अष्टचत्वारिम्शोऽध्यायः
एकोनपञ्चाशोऽध्यायः
नियमफलानि
भगवान् उवाच –
धनम् प्राप्नोति पुण्येन मौनेनाज्ञाम् प्रयच्छति |
उपभोगम् तु दानेन जीवितम् ब्रह्मचर्यया || १ ||
अहिंसया पर म् रूपम् दीक्षया कुलजन्म च |
फलमूलाशनाद्राज्यम् स्वर्गः पर्णाशनो भवेत् || २ ||
(पयोभक्षा दिवम् यान्ति स्नानेन द्रविणाधिकाः |
शाकम् साधयतो राज्यम् नाकपृष्ठमनाशनात् || ३ ||)
स्थण्डिले च शयानस्य गृहाणि शयनानि च |
चीरवल्कलधारिणाम् वस्त्राण्याभरणानि च || ४ ||
शयनासनयानानि ये गता हि तपोवनम् |
अग्निप्रवेशी नियतम् ब्रह्मलोके महीयते || ५ ||
रसानाम् प्रतिसम्हारात् सौभाग्यमभिजायते |
आमिषप्रतिषेधात्तु भवत्यायुष्मती प्रजा || ६ ||
उदवासम् वसेद्यस्तु नागानामधिपो भवेत् |
सत्यवादी नरश्रेष्ठ देवतैः सह मोदते || ७ ||
कीर्तिर्भवति दानेन आरोग्यम् चाप्यहिम्सया |
द्विजशुश्रूषया राज्यम् द्विजत्वम् चापि पुष्कलम् |
द्विजशुश्रूषया राजन् दिव्यरूपमवाप्नुते || ८ |
अन्नपानप्रदानेन कामभोगैस्तु तृप्यते |
दीपालोकप्रदानेन चक्षुष्माञ्जायते नरः || ९ ||
गन्धमाल्यप्रदानेन तुष्टिर्भवति पुष्कला |
केशश्मश्रून्धारयतो ह्यग्रा भवति सन्ततिः || १० ||
वाक्शौचम् मनसः शौचम् यच्च शौचम् जलाश्रयम् |
त्रिभिः शौचैरुपेतो यः स स्वर्गी नात्र सम्शयः || ११ ||
ताम्रायसानाम् भाण्डानाम् दाता रत्नाधिपो भवेत् |
लभते तु परम् स्थानम् बलवान् पुष्यते सदा || १२ ||
इति विष्णुधर्मे नियमफलानि नाम एकोनपञ्चाशोऽध्यायः
पञ्चाशोऽध्यायः
दानफलानि
भगवानुवाच –
धान्यम् क्रमेणार्जितवित्तसञ्चयम् विप्रे सुशीले ते प्रयच्छते यः |
वसुन्धरा तस्य भवेत् सुतुष्टा धारा वसूनाम् प्रतिमुञ्चतीह || १ ||
पुष्पोपभोगम् वाऽपि फलोपभोगम् यः पादपम् स्पर्शयते द्विजाय |
स श्रीसमृद्धम् बहुरत्नपूर्णम् लभत्यधिष्ठानवरम् समृद्धम् || २ ||
इन्धनानि च यो दद्याद्द्विजेभ्यः शिशिरागमे |
कायाग्निदीप्तिम् सौभाग्यमैश्वर्यम् चाधिगच्छति || ३ ||
छत्त्रप्रदानेन गृहम् वरिष्ठम् रथम् तथोपानहसम्प्रदानात् |
धुर्यप्रदानेन गवाम् तथैव लोकानवाप्नोति पुरन्दरस्य |
स्वर्गीतमप्याह हिरण्यदानम् तथा वरिष्ठम् कनकप्रदानम् || ४ ||
नैवेशिकम् सर्वगुणोपपन्नम् प्रयच्छते यः पुरुषो द्विजाय |
स्वाध्यायचारित्रगुणान्विताय तस्यापि लोकाः प्रवरा भवन्ति || ५ ||
यो ब्रह्मदेयाम् प्रददाति कन्याम् भूमिप्रदानम् च करोति विप्रे |
हिरण्यदानम् च तथा विशिष्टम् स लोकम् लभते दुरापम् || ६ ||
सुचित्रवस्त्राभरणोपधानम् दद्यान्नरो यः शयनम् द्विजाय |
रूपान्विताम् दक्षवतीम् मनोज्ञाम् भार्यामयत्नोपचिताम् लभेत् सः || ७ ||
लवणस्य तु दातारस्तिलानाम् सर्पिषस्तथा |
तेजस्विनोऽभिजायन्ते भोगिनश्चिरजीविनः || ८ ||
(स्वर्गेऽप्सरोभिः सह भुक्तभोगस्ततश्च्युतः शीलवतीम् स भार्याम् |
रूपान्विताम् दक्षवतीम् सुरक्ताम् सुखेन धर्मेण तथापि काले |
तस्यैव सार्धम् सुरलोकमेति तस्यैव चान्यत्पुनरेति जन्म || ९ ||
इति विष्णुधर्मे दानफलानि नाम पञ्चाशोऽध्यायः