विष्णुधर्मः/अध्यायाः ०२१-०३०
श्री विष्णुधर्मः अध्यायः 21-30
एकविंशोऽध्यायः
अशोकपूर्णमासीव्रतम्
पुलस्त्य उवाच –
अशोकपूर्णिमां चान्यां शृणुश्व वदतो मम |
यामुपोष्य नरः शोकं नाप्नोति स्त्री तथापि वा || १ ||
फाल्गुनामलपक्षस्य पूर्णिमास्यां नरेश्वर |
मृज्जलेन नरः स्नात्वा दत्त्वा शिरसि वै मृदम् || २ ||
मृत्प्राशनं तथा कृत्वा कृत्वा च स्थण्डिलं मृदा |
पुष्पैः पत्रैस्तथाभ्यर्च्य भूधरं नान्यमानसः |
धरणीं च तथा देवीमशोकेत्यभिधीयते || ३ ||
यथा विशोकां धरणीं कृतवांस्त्वं जनार्दन |
तथा मां सर्वपापेभ्यो मोचयाशेषधारिणि || ४ ||
यथा समस्तभूतानां धारणं त्वय्यवस्थितम् |
(तथा विशोकं कुरु मां सकलेच्छाविभूतिभिः || ५ ||)
ध्यातमात्रे यथा विष्णौ स्वास्थ्यं यातासि मेदिनि |
तथा मनः स्वस्थतां मे कुरु त्वं भूतधारिणि || ६ ||
एवं स्तुत्वा तथाभ्यर्च्य चन्द्रायार्घ्यं निवेद्य च |
उपोषितव्यं नक्तं वा भोक्तव्यं तैलवर्जितम् || ७ ||
अनेनैव प्रकारेण चत्वारः फाल्गुनादयः |
उपोष्या नृपते मासाः प्रथमं तत्तु पारणम् || ८ ||
आषाढादिषु मासेषु तद्वत् स्नानं मृदम्बुना |
तदेव प्राशनं पूजा तथैवेन्दोस्तथार्हणम् || ९ ||
चतुर्ष्वन्येषु चैवोक्तं तथा वै कार्त्तिकादिषु |
पारणं त्रितयं चैव चातुर्मासिकमुच्यते || १० ||
प्रथमं धरणी नाम स्तुत्यै मासचतुष्टयम् |
द्वितीये मेदिनी वाच्या तृतीये च वसुंधरा || ११ ||
पारणे पारणे वस्त्रपूजया पूजयेन्नृप |
धरणीं देवदेवं च घृतस्नानेन केशवम् || १२ ||
वस्त्राभावे तु सूत्रेण पूजयेद्धरणीं तथा |
घृताभावे तथा क्षीरं शस्तं वा सलिलं हरेः || १३ ||
पातालमूलगतया चीर्णमेतन्महाव्रतम् |
धरण्या केशवप्रीत्यै ततः प्राप्ता समुन्नतिः || १४ ||
देवेन चोक्ता धरणी वराहवपुषा तदा |
उपवासप्रसन्नेन समुद्धृत्य रसातलात् || १५ ||
व्रतेनानेन कल्याणि प्रणतो यः करिष्यति |
तस्य प्रसादमप्यहम् करोमि तव मेदिनि || १६ ||
(यथैव कुरुते भक्त्या पूजां मम वरानने |)
तथैव तव कल्याणि प्रणतो यः करिष्यति |
व्रतमेतदुपाश्रित्य पारणं च यथाविधि || १७ ||
सर्वपापविनिर्मुक्तः सप्त जन्मान्तराण्यसौ |
विशोकः सर्वकल्याणभाजनो मतिमाञ्जनः || १८ ||
सर्वत्र पूज्यः सततं सर्वेषामपराजितः |
यथाहमेवं वसुधे भविता निर्वृतेः पदम् || १९ ||
तथा त्वमपि कल्याणि भविष्यसि न संशयः |
पुलस्त्य उवाच –
एवमेतन्महापुण्यं सर्वपापोपशान्तिदम् |
विशोकाख्यं व्रतं धन्यं तत्कुरुष्व महीपते || २० ||
इति विष्णुधर्मे भूदेव्यै श्रीवराहोपदेशः नाम एकविंशोऽध्यायः
द्वाविंशोऽध्यायः
सुकलत्रप्राप्तिव्रतं
दाल्भ्य उवाच –
स्त्रीणां धर्मं द्विजश्रेष्ठ ! उपवासं भवन्मम |
कथयेह यथातत्त्वमुपवासविधिश्च यः || १ ||
कौमारके गृहस्थाया विधवायाश्च सत्तम ! |
धर्मं प्रब्रूह्यशेषेण भगवत्प्रीतिकारकम् || २ ||
पुलस्त्य उवाच –
श्रूयतामखिलं ब्रह्मन् यद्येतदनुपृच्छसि |
उपकाराय स्त्रीणां त्रिषु लोकेष्वनुत्तमम् || ३ ||
प्रश्नमेतत् पुरा देवी शैलराजसुता पतिम् |
पप्रच्छ शङ्करं ब्रह्मन् कैलासशिखरे स्थितम् || ४ ||
देव्युवाच –
कुमारिकाभिर्देवेश गृहस्थाभिश्च केशवः |
विधवाभिस्तथा स्त्रीभिः कथम् आराध्यते वद || ५ ||
ईश्वर उवाच –
साधु साध्वि त्वया पृष्टमेतन्नारायणाश्रितम् |
उपवासादि यत्तत्त्वं श्रूयतामस्य यो विधिः || ६ ||
योग्यं पतिं समासाद्य नारी धर्ममवाप्नुते |
दुःशीलेऽपि हि कामार्ते नारी प्राप्नोति भर्तरि || ७ ||
अनाराध्य जगन्नाथं सर्वलोकेश्वरं हरिम् |
कथमाप्नोति वै नारी पतिं शीलगुणान्वितम् || ८ ||
सुकलत्रप्रदं तस्माद् व्रतमच्युततुष्टिदम् |
कर्तव्यं लक्षणं तस्य श्रूयतां वरवर्णिनि || ९ ||
यत्कीर्त्या सर्वनारीणां श्रेष्ठमाप्नोत्यसंशयम् |
ऐहिकं च सुखं प्राप्य स्वर्गे भुङ्क्ते सुखान्यपि || १० ||
अनुज्ञां प्राप्य पितृतो मातृतश्च कुमारिका |
पूजयेच्च जगन्नाथं भक्त्या पापहरं हरिम् || ११ ||
त्रिषूत्तरेषु स्वृक्षेषु पतिकामा कुमारिका |
माधवाख्यं तु वै नाम जपेन्नित्यमतन्द्रिता || १२ ||
प्रियङ्गुणा रक्तपुष्पैर्बन्धूककुसुमैस्तथा |
समभ्यर्च्य ततो दद्याद्रक्तमेवानुलेपनम् || १३ ||
सर्वौषध्या स्वयं स्नात्वा समभ्यर्च्य जगत्पतिम् |
नमोऽस्तु माधवायेति होमयेन्मधुसर्पिषी || १४ ||
सदैवमुत्तरायोगे समभ्यर्च्य जनार्दनम् |
शोभनं पतिमाप्नोति प्रेत्य स्वर्गं च गच्छति || १५ ||
अतिबाल्ये च यत्किंचित्तया पापमनुष्ठितम् |
अतिबाल्येन यद्पापं तथा किन्चिदनुष्ठितं |
तस्माच्च मुच्यते देवि! सुखिनी चैव जायते || १६ ||
अब्देनैकेन तन्वङ्गि धूतपापा यदिच्छति |
तदेव प्राप्नुयाद्भद्रे नारायणपरायणा || १७ ||
षण्मासं प्रीणनं कार्यं भक्त्या शक्त्या च वै हरेः |
पारणान्ते महाभागे ! तदा ब्राह्मणतर्पणम् || १८ ||
इति विष्णुधर्मे सुकलत्रप्राप्तिव्रतं सुभर्तृप्राप्ति नाम द्वाविंशोऽध्यायः
त्रयोविंशोऽध्यायः
स्त्रीधर्मः
गार्हस्थ्येऽवस्थिता नारी भक्त्या संपूजयेत् पतिम् |
स एव देवता तस्याः पूज्यः पूज्यतरश्च सः || १ ||
तस्मिंस्तुष्टे परो धर्मस्तस्यैव परिचर्यया |
तोषमायाति सर्वात्मा परमात्मा जनार्दनः || २ ||
नैव तस्याः पृथग्यज्ञो न श्राद्धं नाप्युपोषितम् |
भर्तृशुश्रूषणेनैव प्राप्नोति स्त्री यथेप्सितम् || ३ ||
तेनैव साऽप्यनुज्ञाता तस्य शुश्रूषणादनु |
तोषयेज्जगतामीशमनन्तमपराजितम् || ४ ||
व्रतैर्नानाविधैर्देवि ! ऐहिकामुष्मिकाप्तये |
विष्णुव्रतादिभिर्दिव्यैस्तथा दानैर्मनोऽनुगैः || ५ ||
घृतक्षीराभिषेकैश्च ब्राह्मणानां च तर्पणैः |
मनोज्ञैर्विविधैर्धूपैः पुष्पवस्त्रानुलेपनैः || ६ ||
गीतवाद्यैस्तथा हृद्यैरुपवासैश्च भामिनि ! |
एवमाराध्य गोविन्दमनुज्ञाता यथाविधि |
पतिना सकलान् कामानवाप्नोति न संशयः || ७ ||
पतिना त्वननुज्ञाता किंचित्पुण्यं करोति या |
विफलं तदशेषं वै तस्याः शैलवरात्मजे || ८ ||
न च प्रसादं कुरुते भगवान् मधुसूदनः |
नानुज्ञाता तु या नारी पतिनाऽर्चति केशवम् || ९ ||
या तु भर्तृपरा नारी नारायणमतन्द्रिता |
भक्त्या संपूजयेद्देवं तोषमायाति केशवः || १० ||
देव्यु उवाच –
या तु भर्त्रा परित्यक्ता तथा या मृतभर्तृका |
पाषण्डानुगतो वापि यस्या भर्ता महेश्वर || ११ ||
प्रायो ददाति नानुज्ञां विष्णोराराधने तदा |
कथमाराधनं कार्यं विष्णोस्तद्वद शंकर || १२ ||
देवदेव उवाच –
या तु भर्त्रा परित्यक्ता सा संपूज्य निजं पतिम् |
मनसा तन्मनस्का च तस्यैव हितकारिणी || १३ ||
न निन्दाकरणी तस्य श्रेयोऽभिध्यायिनी तथा |
तस्यैव सर्वकालेषु सर्वकल्याणमिच्छति || १४ ||
आराधयेज्जगन्नाथं सर्वधातारमच्युतम् |
कृतोपवासा पुष्पादि निवेद्य सकलं ततः || १५ ||
भर्तुर्मनोरथावाप्तिं प्रार्थयेत् प्रथमं वरम् |
स्वयं यथाभिलषितं प्रार्थयेत्तं वरं ततः || १६ ||
(तथा हि ध्यायतस्तस्य सर्वकल्याणमृच्छति |)
एवं भर्तृपरित्यक्ता योषिदाराधनं हरेः |
कुर्वाणा सकलान् कामानवाप्नोति न संशयः || १७ ||
भर्ता करोति यच्चस्याः किंचित्पुण्यमहर्निशम् |
तस्य पुण्यस्य संपूर्णमर्धं प्राप्नोति सा शुभे || १८ ||
यत्तु सा कुरुते पुण्यं विना दोषेण योज्झिता |
तत्तस्याः सकलं देवि तस्यार्धं न लभेत् पतिः || १९ ||
भर्तर्येवं प्रवसिते त्यक्ता च पतिना शुभे |
कुर्वीताराधनं नारी उपवासादिना हरेः || २० ||
एतत्तवोक्तं यत्पृष्टं त्वयाहं गिरिनन्दिनि |
विधवानामतो धर्मं श्रूयतां विष्णुतुष्टिदम् || २१ ||
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्यव्रतोदिता |
स्नाता प्रतिदिनं दद्यात् स्वभसलिलाञ्जलिम् || २२ ||
कुर्याद्यानुदिनं भक्त्या देवानामपि पूजनम् |
अतिथेस्तर्पणं तद्वदग्निहोत्रममन्त्रकम् || २३ ||
पूर्तधर्माश्रितं चान्यत् कुर्यान्नित्यमतन्द्रिता |
नित्यकर्म ऋते चास्या नेष्टं कर्म विधीयते || २४ ||
विष्णोराराधनं चैव कुर्यान्नित्यमुपोषिता |
दाना विप्रमुख्येभ्यो दद्यात्पुण्यविवृद्धये |
उपवासांश्च विविधान् कुर्याच्छास्त्रोदितान् शुभे || २५ ||
लोकान्तरस्थं भर्तारमात्मानं च वरानने! |
तारयत्युभयं नारी येत्थं धर्मपरायणा || २६ ||
पुत्रैश्वर्यस्थिता नारी उपवासादिना हरिम् |
या तोषयति सिद्धिं सा पुत्रेभ्योऽपि प्रयच्छति || २७ ||
शुभांल्लोकांस्तथा भर्तुरात्मनश्च यथेप्सितान् |
सकलं पूरयत्यस्तं पापं नयति चाखिलम् || २८ ||
आत्मनश्चैव भर्तुश्च नारी परमिकां गतिम् |
ददात्याराध्य गोविन्दं सपुत्रा विधवा च या || २९ ||
तस्मादेभिर्विधानैस्तु सर्वकालं तु योषितः |
केशवाराधनं कार्यं लोकद्वयफलप्रदम् || ३० ||
ये नरा मृतपत्नीकास्तैरप्येतदशेषतः |
पूर्तधर्माश्रितं कार्यं नित्यकर्म च केवलम् || ३१ ||
पुत्रैश्वर्यस्थितैः सम्यग्ब्रह्मचर्यगुणान्वितैः |
विष्णोराराधनं कार्यं तीर्थस्थैरथवा गृहे || ३२ ||
ब्राह्मणः क्षत्रियो वैश्यः स्त्री शूद्रश्च वरानने |
अनाराध्य हृषीकेशं नाप्नोति परमां गतिम् || ३३ ||
ऐश्वर्यं संततिं श्रेष्ठामारोग्यं द्रव्यसंपदम् |
ददाति भगवान् विष्णुर्गतिमग्र्यां सुतोषितः || ३४ ||
पुलस्त्य उवाच –
एवं शैलसुता प्रोक्ता स्वयं देवेन शंभुना |
पृष्ठेन सम्यक् कथितं भवतोऽपि महामुने || ३५ ||
सर्ववर्णैस्तथा स्त्रीभिरन्यैरपि जनैर्हरिः |
आराधनीयो नातुष्टे विष्णौ संप्राप्यते गतिः || ३६ ||
न दुर्गतिं रौरवादीन्नरकांश्च न गच्छति |
यमाराध्येश्वरं वन्द्यं कस्तं विष्णुं न पूजयेत् ? || ३७ ||
तस्मादामुष्मिकान् क्लेशान्नरके याश्च यातनाः |
सदैवोद्विजता दाल्भ्य ! समाराध्यो जनार्दनः || ३८ ||
इति विष्णुधर्मे स्त्रीणां पृथक् व्रतादिकं नास्ति नाम त्रयोविंशोऽध्यायः
चतुर्विंशोऽध्यायः
नरकस्वरूपः
दाल्भ्य उवाच –
भगवन् यातना घोराः श्रूयन्ते नरकेषु याः |
तासां स्वरूपमत्युग्रं यथावद्वक्तुमर्हसि || १ ||
पुलस्त्य उवाच –
शृणु दाल्भ्यातिघोराणां यातनानां मयोदितम् |
स्वरूपं नारकैर्यत्तु नरकेष्वनुभूयते || २ ||
योजनानां सहस्राणि रौरवो नरको द्विज |
अङ्गारपूर्णमध्योऽसौ ज्वालामालापरिष्कृतः || ३ ||
तन्मध्ये पतितो याति योजनानि सहस्रशः |
सत्यहान्याऽनृती याति तत्र पापरतिर्नरः || ४ ||
रौरवाद् द्विगुणश्चैव महारौरवसंज्ञितः |
तप्तताम्रपुटाङ्गारज्वलत्पावकसंवृतः || ५ ||
परोपतापिनस्तत्र पतन्ति नरके नराः |
नाश्चर्यं द्विजशार्दूल वर्षलक्षयुतानि च || ६ ||
कालसूत्रेण च्छिद्यन्ते चक्रारूढाश्च मानवाः |
कालाङ्गुलिस्थेन सदा आपादतलमस्तकात् || ७ ||
कालसूत्र इति ख्यातो घोरः स नरकोत्तमः |
तत्रापि वञ्चका यान्ति ये चैवोत्कोचजीविनः || ८ ||
तप्तकुम्भस्तथैवान्यो नरको भृशदारुणः |
तैलकुम्भेषु पच्यन्ते तत्राप्यग्निभृतेषु ते || ९ ||
देववेदद्विजातीनां ये निन्दां कुर्वते सदा |
संशृण्वन्ति च ये मूढा ये च मत्सरिणोऽधमाः || १० ||
करम्भवालुकाकुम्भसंज्ञं च नरकं शृणु |
परदाररता ये तु पतन्ति नरकेऽधमाः || ११ ||
हृतं यैश्च जलं तेऽपि तस्मिन् यान्ति नराधमाः |
(गोनिपानेषु विघ्नानि मूढा ये चापि कुर्वते) |
करम्भवालुकाकुम्भनरके ते पतन्ति वै || १२ ||
अन्धे तमसि दुष्पारे शीतार्तिपरिकम्पिताः |
भ्राम्यन्ते मानवा गात्रैः समस्तैः स्फुटितास्थिभिः || १३ ||
गोवधः स्त्रीवधः पापैः कृतं यैश्च गवानृतम् |
ते तत्रातिमहाभीमे पतन्ति नरके नराः || १४ ||
उत्पाट्यते तथा जिह्वा संदंशैर्भृशदारुणैः |
आक्रिशकानां दुष्टानां सदैवाबद्धभाषिणाम् || १५ ||
(करपत्रैश्च पाट्यन्ते यमस्य पुरुषैस्तथा |
परदारपरद्रव्यहिंसकाः पुरुषाधमाः || १६ ||
आयसीं च शिलां तप्तामशेषाङ्गैस्तथा नराः |
परदाररता एवं समालिङ्गन्ति पापिनः || १७ ||
सर्वाङ्गैर्विकृतैर्रक्तमुद्गिरन्तोऽतिपीडिताः |
यन्त्रेष्वन्येषु पीड्यन्ते जन्तुपीडाकरा नराः) || १८ ||
वृकैः संभक्ष्यते पृष्ठं नराणां पापकारिणाम् |
जनस्य पृष्ठमांसं यैर्भक्षितं पापकारिभिः || १९ ||
असिपत्रवनैर्घोरैश्छिद्यन्ते पापकर्मिणः |
सद्भावप्रवणा यैस्तु भग्ना विश्रम्भिनो जनाः || २० ||
अयोमुखैः खगैर्भग्नाः खण्डखण्डं तथापरैः |
व्रजन्ति पापकर्माणः श्वशृगालैस्तथापरैः || २१ ||
सूषायामपि धास्यन्ते ज्वलदग्निचयावृताः |
पाषाणपेष्यं पिष्यन्ते तथाऽन्ये पापकर्मिणः || २२ ||
देवतातिथिभृत्यानामदत्त्वा भुञ्जते तु ये |
मृषागतास्तथाइवैक्यं त्रपुषा सीसकेन च |
प्रयान्ति पुरुषास्तैलैः क्वाथ्यन्तेऽन्ये पुनः पुनः || २३ ||
वर्णधर्मपरित्यागेनैक्यं ये पुरुषा गताः |
तेऽपि पापसमाचारा वर्णसंकरकारिणः || २४ ||
स्वरूपं नारकस्याग्नेः शृणुष्व कथयामि ते |
मुक्तस्ततोन्यवह्नि सहितः शेते संप्राप्य निर्वृतिम् || २५ ||
शस्त्रधारास्तथैवैता मृणालप्रस्तरं नरः |
मन्यते नारकैः शस्वदीक्षतो द्विजसत्तम || २६ ||
हिमखण्डचयाछन्नो निवातं मन्यते नरः |
विमुक्तो नारकाच्छीतात् प्रकाशं तमसस्तमः || २७ ||
प्रोता गुदेषु भिन्नाङ्गा आर्ता रावविराविणः |
शूलेषु लोहेष्वपरे त्रिशूलेषु तथापरे || २८ ||
याज्योपाध्यायदाम्पत्यसुहृन्मित्रसुतादिषु |
कृतो भेदो दुराचारैर्यैरलीकोक्तिभाषिभिः || २९ ||
आयसाः कण्टकास्तीक्ष्णा नरके कूटशाल्मलौ |
तेषु प्रोता दुरात्मानः परदारभुजो नराः || ३० ||
कृमिकीटजलौकादितीक्ष्णदंष्ट्रास्यविक्षताः |
भ्राम्यन्ते चान्धतामिस्रे वृथामांसाशिनो हि ये || ३१ ||
एतांश्चान्यांश्च नरकाञ्शतशोऽथ सहस्रशः |
कर्मान्तरं जनो भुङ्क्ते परिणामांश्च चेतसः || ३२ ||
यादृक् कर्म मनुष्याणां तादृग्विषयरूपवत् |
परिणामं मनो याति शुभाशुभमयं द्विज || ३३ ||
इति विष्णुधर्मे नरकस्वरूपं नाम चतुर्विंशोऽध्यायः
पञ्चविंशोऽध्यायः
सुकृतद्वादशी
दाल्भ्य उवाच –
अतीवभीषणानित्थं शस्त्राग्निभयदान्नरः |
कथं न गच्छेन्नरकानेतन्मे वक्तुमर्हसि || १ ||
अहोऽतिकष्टपापानां विपाको नरकस्थितैः |
पुरुषैर्भुज्यते ब्रह्मंस्तन्मोक्षं वद सत्तम || २ ||
पुलस्त्य उवाच –
पुण्यस्य कर्मणः पाकः पुण्य एव द्विजोत्तम |
चेतसः परिणामोत्थः स्वर्गस्थैर्भुज्यते नरैः || ३ ||
तथैव पाकः पापानां पुरुषैर् नरकस्थितैः |
भुज्यते तावदखिलं यावत्पापं क्षयं गतम् || ४ ||
यदा तु पापस्य जयः क्षीयते सुकृतं तदा |
शुभस्य कर्मणो वृद्धौ क्षयमायात्यशोभनम् || ५ ||
जये यतेत पुरुषस्तस्मात् सुकृतकर्मणः |
पापं कर्म विना नैव नरकप्राप्तिरिष्यते || ६ ||
जयाय द्वादशी शस्ता नॄणां सुकृतकर्मणाम् |
यामुपोष्य द्विजश्रेष्ठ ! न याति नरकं नरः || ७ ||
फाल्गुनामलपक्षस्य एकादश्यामुपोषितः |
द्वादश्यां तु द्विजश्रेष्ठ ! पूजयेन्मधुसूदनम् || ८ ||
एकादश्यां समुद्दिष्टं विष्णोर्नामानुकीर्तनम् |
पूजायां वासुदेवस्य कुर्वीत सुसमाहितः || ९ ||
नमो नारायणायेति वाच्यं च स्वपता निशि |
(क्रोधः प्रपञ्च ईर्ष्या च दम्भो लोभश्च वर्जितः ||१० ||
कामो द्रोहो मदश्चापि मानमात्सर्यमेव च |
सर्वमेतत् परित्यज्य विष्णुभक्तेन चेतसा ||
असारतां च लोकेऽस्मिन् संसारे भावयेन्मतिम् |
कामं क्रोधं च लोभं च दम्भमीर्ष्यां च वर्जयेत् ||
मानद्रोहादिदोषांश्च सर्वान् धनमदोद्भूतान् |
भावयेद्विष्णुभक्तांश्च संसारासारतां तथा || ११ ||
एवं भावितचित्तेन प्राणिनां हितमिच्छता |
तथैव कुर्याद् द्वादश्यां नाम्नामुच्चारणं द्विज ! || १२ ||
यवपात्राणि पूर्वं तु दद्यान्मासचतुष्टयम् |
आषाढादिद्वितीयं तु पारणं यन्महामते |
तत्रापि घृतपात्राणि दद्याच्छ्रद्धासमन्वितः || १३ ||
कार्त्तिकादिषु मासेषु माघान्तेषु तथा तिलान् |
विप्राय दद्यात् पात्रस्थान् प्रतिमासमुपोषितः || १४ ||
नामत्रयमशेषेषु मासि मासि दिनद्वयम् |
तथैवोच्चारयेद्दद्याद् द्वादश्यां च यवादिकम् |
प्रणम्य च हृषीकेश! कृतपूजः प्रसादयेत् || १५ ||
विष्णो ! नमस्ते जगतः प्रसूते ॐ वासुदेवाय नमो नमस्ते |
नारायण ! त्वां प्रणतोऽस्म्यचिन्त्य जयोऽस्तु मे शाश्वतपुण्यराशेः || १६ ||
प्रसीद पुण्यं जयमेतु विष्णो ॐ वासुदेवर्द्धिमुपैतु पुण्यम् |
नारायणों भूतिमुपैतु पुण्यम् प्रयातु चाशेषमघं विनाशम् || १७ ||
विष्णो पुण्योद्भवो मेऽस्तु वासुदेवाऽस्तु मे शुभम् |
नारायणास्तु धर्मो मे जहि पापमशेषतः || १८ ||
अनेकजन्मजनितं बाल्ययौवनवार्द्धिके |
पुण्यं विवृद्धिमायातु यातु पापं तु संक्षयम् || १९ ||
आकाशादिषु शब्दादौ श्रोत्रादौ महदादिषु |
प्रकृतौ पुरुषे चैव ब्रह्मण्यपि च स प्रभुः |
यथैक एव सर्वात्मा वासुदेवो व्यवस्थितः || २० ||
तेन सत्येन मे पापं नरकार्तिप्रदं क्षयम् |
प्रयातु सुकृतस्यास्तु ममानुदिवसं जयः |
पापस्य हानिम् पुण्यं च वृद्धिमभ्येत्यनुत्तमाम् || २१ ||
एवमुच्चार्य विप्राय दत्त्वा यत्कथितं तव |
भुञ्जीत कृतकृत्यस्तु पारणे पारणे गते || २२ ||
पारणान्ते च देवस्य प्रीणनं शक्तितो द्विज |
कुर्वीताखिलपाषण्डैरालापं च विवर्जयेत् || २३ ||
इत्येतत् कथितं दाल्भ्य सुकृतस्य जयावहा |
द्वादशी नरकं मृत्यो यामुपोष्य न पश्यति || २४ ||
नाग्नयो न च शस्त्राणि न च लोहमुखाः खगाः |
नारकास्तं प्रबाधन्ते मतिर्यस्य जनार्दने || २५ ||
नामोच्चारणमात्रेण विष्णोः क्षीणोऽघसंचयः |
भवत्यपास्तपापस्य नरके गमनं कुतः || २६ ||
नमो नारायण हरे वासुदेवेति कीर्तयेत् |
न याति नरकं मर्त्यः संक्षीणाशेषपातकः || २७ ||
तस्मात् पाषण्डिसंसर्गमकुर्वन् द्वादशीमिमाम् |
उपोष्य पुण्योपचयी न याति नरकं नरः || २८ ||
इति विष्णुधर्मे सुकरद्वादशीनाम पञ्चविंशोऽध्यायः
षष्ठविंशोऽध्यायः
पाषण्डालापप्रायश्चित्तम्
दाल्भ्य उवाच –
पाषण्डिभिरसंस्पर्शमसंभाषणमेव च |
विष्णोराराधनपरैर्नरैः कार्यमुपोषितैः || १ ||
किं ब्रूहि लक्षणं तेषां यादृशान् वर्जयेद् व्रती |
कथंचिद्यदि संलापदर्शनस्पर्शनादिकम् || २ ||
उपोषितानां पाषण्डैर्नराणां विप्र जायते |
किं तत्र वद कर्तव्यं येनाऽखण्डं व्रतं भवेत् || ३ ||
पुलस्त्य उवाच –
श्रुतिस्मृत्युदितं धर्मं वर्णाश्रमविभागजम् |
उल्लङ्घ्य ये प्रवर्तन्ते स्वेच्छया कूटयुक्तिभिः || ४ ||
विकर्माभिरता मूढा युक्तिप्रागल्भ्यदुर्मदाः |
पाषण्डिनस्ते दुःशीला नरकार्हा नराधमाः || ५ ||
तांस्तु पाषण्डिनः पापान् विकर्मस्थांश्च मानवान् |
वैडालव्रतिकांश्चैव नित्यमेव तु नालपेत् || ६ ||
संभाष्यैताञ्शुचिषदं चिन्तयेदच्युतं बुधः |
इदं चोदाहरेत् सम्यक् कृत्वा तत्प्रवणं मनः || ७ ||
शारीरमन्तःकरणोपघातं वाचश्च विष्णुर्भगवानशेषम् |
शमं नयत्वस्तु ममेह शर्म पापादनन्ते हृदि संनिविष्टे || ८ ||
अन्तःशुद्धिं बहिःशुद्धिं शुद्धोऽन्तर्मम योऽच्युतः |
स करोत्वमले तस्मिञ्शुचिरेवास्मि सर्वदा || ९ ||
बाह्योपघातादनघो बोद्धा च भगवानजः |
शुद्धिं नयत्वनन्तात्मा विष्णुश्चेतसि संस्थितः || १० ||
एतत्संभाष्य जप्तव्यं पाषण्डिभिरुपोषितैः |
नमः शुचिषदेत्युक्त्वा सूर्यं पश्येत वीक्षितैः || ११ ||
श्रूयते च पुरा मर्त्याः स्वेच्छया स्वर्गगामिनः |
बभूवुरनघाः सर्वे स्वधर्मपरिपालनात् || १२ ||
देवाश्च बलिनो मर्त्यैर्वर्णकर्मण्यनुव्रतैः |
यज्ञाध्ययनदानेषु वर्तमानैश्च मानवैः || १३ ||
दैतेयाश्च पराभावमतुष्टावसुरा ययुः |
ततश्च षण्डो मर्कश्च दैत्येन्द्राणां पुरोहितौ || १४ ||
(चक्रतुः कर्मदेवानां विनाशायातिभीषणम् |)
तत्रोत्पन्नोऽतिकृष्णाङ्गस्तमःप्रायोऽतिदारुणः |
दम्भाधारः शाठ्यसारो निद्राप्रकृतिरुल्वणः || १५ ||
महामोह इति ख्यातः कृत्यरूपो विभीषणः |
चतुर्धा स विभक्तश्च ताभ्यमत्र महीयते || १६ ||
वेददेवद्विजातीनामेकांशेन स निन्दनम् |
करोत्यन्येन न रतिं योगकर्मसु विन्दति || १७ ||
विकर्मण्यपरेणापि संयोजयति मानवान् |
ज्ञानापहारमन्येन करोति द्विजसत्तम || १८ ||
ज्ञानबुद्ध्या तथाज्ञानं गृह्णात्यज्ञानमोहितः |
वेदवादविरोधेन या कथा सास्य रोचते || १९ ||
एवं च तु महामोहः षण्डमर्कोपपादितः |
दम्भादिदूषितोऽधर्मस्वरूपोऽतिभयंकर || २० ||
स लोकान् विविधोपायैर्लोकेष्वेव व्यवस्थितः |
मोहाभिभवनिः साराण करोति द्विजसत्तम || २१ ||
तन्मोहितानामचिराद्विवेको याति संक्षयम् |
क्षीणज्ञाना विकर्माण कुर्वन्त्यहरहो द्विज || २२ ||
निजवर्णात्मकं धर्मं परित्यज्य विमोहिताः |
धर्मबुद्ध्या ततः पापं कुर्वन्त्यज्ञानदुर्मदाः || २३ ||
ज्ञानावलेपस्तत्रैव ततस्तेषां प्रजायते |
सुहृद्भिर्वार्यमाणास्ते पण्डितैश्च दयालुभिः |
प्रयच्छन्त्युत्तरं ऊढाः कूटयुक्तिसमन्वितम् || २४ ||
ततस्ते स्वयमात्मानमन्यं चाल्पमतिं नरम् |
विकर्मणा योजयन्तश्च्यवयन्ति स्वधर्मतः || २५ ||
पाषण्डिनो दुराचाराः परान्नगुणवादिनः |
असंस्कृतान्नभोक्तारो व्रात्याः संस्कारवर्जिताः || २६ ||
पाषण्डाः पापसंकल्पा दाम्भिकाः शठबुद्धयः |
वर्णसंकरकर्तारो मायाव्याजोपजीविनः |
निःशौचा वक्रमतयो नान्यदस्तीतिवादिनः || २७ ||
एवंविधास्ते सन्मार्गाद्वेदप्रोक्ताद्बहिःस्थिताः |
एवं विधाः तता नघ्नाः सततं पापपूरुषाः
क्रियाकलापं निन्दन्त ऋग्यजुःसामसंज्ञितम् |
आत्मानं च परांश्चैव कुर्वन्ति नरकस्थितान् || २८ ||
तेषां दर्शनसंभाषस्पर्शनानि नरैः सदा |
परित्याज्यानि दृष्टे च प्रोक्तः संभाषणे च यः |
संस्पर्शे च बुधः स्नात्वा शुचिः शुचिषदं स्मरेत् || २९ ||
संस्मृते केशवं स्मृत्वा शुचिरादित्य दर्शनात्
भवत्यतः सदैवैषामालापस्पर्शनं त्यजेत् |
पुण्यकामो महाभागः किं पुनर्यदुपोषितः || ३० ||
यतो हि निन्दिते कर्मण्यभ्यासो रतिरेव च |
पाषण्डिनामशेषाणामप्रीतिर्वेदकर्मणि |
(ते ह्यधोगामिनः प्रोक्ता आसुरं भावम् आश्रिताः || ३१ ||)
इति विष्णुधर्मे पापिष्ठसंसर्गो नाम षष्ठविंशोऽध्यायः
सप्तविंशोऽध्यायः
मासर्क्षपूजा
दाल्भ्य उवाच –
अप्राप्तिर्न तथा दुःखमैश्वर्यादेः द्विजोत्तम |
यथा मनोरथैर्लब्धैर्विच्युतिर्धर्महानिजा || १ ||
ऐश्वर्याद्वित्ततो वापि संततेर्देवलोकतः |
अभीष्टादन्यतो वापि पदाद्येन न विच्युतिम् || २ ||
प्राप्नोति पुरुषो ब्रह्मन्नारी वा पुण्यसंक्षयात् |
तन्ममाचक्ष्व विप्रर्षे दुःखमेभ्यो हि विच्युतिः || ३ ||
पुलस्त्य उवाच –
सत्यमेतन् महाभाग ! दुःखं प्राप्तस्य संक्षयः |
ऐश्वर्यादथ वित्तस्य बन्धुवर्गसुखस्य वा || ४ ||
तदेतच्छ्रूयतां दाल्भ्य यथा नेष्टात् परिच्युतिः |
सर्गादेर्जायते सम्यगुपवासवतां सताम् || ५ ||
द्वादशर्क्षाणि विप्रर्षे प्रतिमासं तु यानि वै |
तन्नामान्यच्युतं तेषु सम्यक् संपूजयेद्बुधः || ६ ||
पुष्पैर्धूपैस्तथाम्भोभिरभीष्टैरपरैस्तथा |
आदितः कृत्तिकां कृत्वा कार्त्तिके मुनिपुङ्गव || ७ ||
नैवेद्यं कृसरं पूर्वमन्नं मासचतुष्टयम् |
निवेदयेत् कार्त्तिकादि संयावं च ततः परम् || ८ ||
आषाढादौ च देवाय पायसं वै निवेदयेत् |
तेनैवान्नेन विप्रर्षे ब्राह्मणान् भोजयेद् बुधः || ९ ||
पञ्चगव्यजलस्नातस्तस्यैव प्राशनाच्छुचिः |
नैवेद्यं स्वयमश्नीयान्नक्तं संपूजितेऽच्युते || १० ||
एवं संवत्सरस्यान्ते ततः सुप्तोत्थितेऽच्युते |
संयक् संपूज्य विप्रर्षे तमेव पुरुषोत्तमम् |
प्रणम्य प्रार्थयेद्विद्वाञ्शुचिः स्नातो यथाविधि || ११ ||
नमो नमस्तेऽच्युत संक्षयोऽस्तु पापस्य वृद्धिं समुपैतु पुण्यम् |
ऐश्वर्यवित्तादि सदाक्षयं मेऽक्षया च मे संततिरच्युताऽस्तु || १२ ||
यथाऽच्युतस्त्वं परतः परस्मात्स ब्रह्मभूतात्परतः परात्मन् |
तथाऽच्युतं मे कुरु वाञ्छितं यन्मया पदं पापहराप्रमेय || १३ ||
अच्युतानन्त गोविन्द प्रसीद यदभीप्सितम् |
तदक्षयमेयात्मन् कुरुष्व पुरुषोत्तम || १४ ||
एवमन्ते समभ्यर्च्य प्रार्थयित्वा तथाऽऽशिषः |
यथावन्मुनिशार्दूल च्युतिं नाप्नोति मानवः || १५ ||
संततेः स्वर्गवित्तादेरैश्वर्यस्य तथा मुने |
यद्वाऽभिमतमत्यन्तं ततो न च्यवते नरः || १६ ||
तस्मात् सर्वप्रयत्नेन मासनक्षत्रपूजने |
यतेताक्षयकामस्तु सदैव मुनिपुङ्गव || १७ ||
इति विष्णुधर्मे मासर्क्षपूजाप्रशंसा नाम सप्तविंशोऽध्यायः
अष्टविंशोऽध्यायः
मासर्क्षपूजाप्रशंसा
पुलस्त्य उवाच –
अत्रापि श्रूयते सिद्धा काचित् स्वर्गे महाव्रता |
नारी तपोधना भूत्वा प्रख्याता शाम्भरायणी |
समस्तसंदेहहरा सदा स्वर्गौकसां हि सा || १ ||
कस्यचित्त्वथ कालस्य देवराजः शतक्रतुः |
पूर्वेन्द्रचरितं ब्रह्मन् पप्रच्छेदं बृहस्पतिम् || २ ||
इन्द्र उवाच –
पूर्वेन्द्रा परतः पूर्वे ये बभूवुः सुरेश्वराः |
तेषां चरितमिच्छामि श्रोतुमाङ्गिरसां वर || ३ ||
पुलस्त्य उवाच –
एवमुक्तस्तदा तेन देवेन्द्रेणामलद्युतिः |
प्राह धर्मभृतां श्रेष्ठः परमर्षिर्बृहस्पतिः || ४ ||
नाहं चिरन्तनान् वेद्मि देवराज सुरेश्वरान् |
आत्मनः समकालीनं मामवैहि सुरेश्वर || ५ ||
ततः पप्रच्छ देवेन्द्रः कोऽस्माभिर्मुनिपुङ्गव |
प्रष्टव्योऽत्र महाभाग कृतादिवसतिर्दिवि || ६ ||
पुलस्त्य उवाच –
बृहस्पतिश्चिरं ध्यात्वा पुनराह शचीपतिम् |
तपस्विनीं महाभागां स्मृत्वाऽसौ शाम्भरायणीम् || ७ ||
न देवा न च गन्धर्वा न चान्ये चिरसंस्थिताः |
चिरन्तनानां चरितेष्वभिज्ञा त्रिदशेश्वर || ८ ||
एकैव चिरकालज्ञा धर्मज्ञा शक्र केवलम् |
जानात्यखिलदेवेन्द्रचरितं शाम्भरायणी || ९ ||
इत्युक्तस्तेन देवेन्द्रः कौतूहलसमन्वितः |
ययौ यत्र महाभागा तापसी शाम्भरायणी || १० ||
सा तौ दृष्ट्वा समायातौ देवराजबृहस्पती |
सम्यगर्घ्येण संपूज्य प्रणिपत्य शुभव्रता || ११ ||
(प्राह शुद्धा महाभागा देवराजबृहस्पती)
शाम्भरायण्युवाच –
नमोऽस्तु देवराजाय तथैवाङ्गिरसे नमः |
यद्वां कार्यं महाभागौ सकलं तदिहोच्यताम् || १२ ||
बृहस्पतिरुवाच –
आवामभ्यागतौ प्रष्टुं त्वामत्रातिविवेकिनीम् |
यच्च कार्यं महाभागे तत्पृष्टा कथयेह नौ || १३ ||
यदि स्मरसि कल्याणि ! पूर्वेन्द्रचरितानि नौ |
तदाख्याहि महाभागे देवेन्द्रस्य कुतूहलात् || १४ ||
शाम्भरायण्युवाच –
(यदि शक्यं मया कर्तुं तत्करिष्ये विमृष्यतु |)
यो वै पूर्वः सुरेन्द्रस्य ततश्च प्रथमो हि यः |
तस्मात् पूर्वतरो यश्च तस्यापि प्रथमाश्च ये || १५ ||
तेषां पूर्वतरा ये च वेद्मि तानखिलानहम् |
तेषां च चरितं कृत्स्नं जानाम्याङ्गिरसां वर || १६ ||
मन्वन्तराण्यनेकानि सृष्टिं च त्रिदिवौकसाम् |
सप्तर्षीन् सुबहून् देव मनूनां च सुतान्नृप |
(सर्वेषां चारितं द्विज न्नृपान्)
तत्पृच्छ त्वं वदाम्येषा पूर्वेन्द्रचरितं मुने || १७ ||
पुलस्त्य उवाच –
एवमुक्ते ततस्ताभ्यां पृष्टा सा शाम्भरायणी |
यथावदाचष्ट तयोः पूर्वेन्द्रचरितं द्विज || १८ ||
स्वायम्भुवे यस्तु मनौ मनौ स्वारोचिषे तु यः |
उत्तमे तामसे चैव रैवते चाक्षुषे तथा || १९ ||
योयो बभूव देवेन्द्रस् तस्य तस्य तपस्विनी |
तयोर्जगाद चरितं यथावच्छाम्भरायणी || २० ||
ततः कौतूहलपरो देवराट् तां तपस्विनीम् |
उवाच जानासि कथं त्वमेतच्छाम्भरायणि || २१ ||
शाम्भरायण्युवाच –
सर्व एव हि देवेन्द्राः स्वर्गस्था ये मनीषिणः |
बभूवुरेतच्चरितमेतेषां वेद्मि तेन वै || २२ ||
इन्द्र उवाच –
किं कृतं वद धर्मज्ञे त्वया येनेयमक्षया |
स्वर्लोके वसतिः प्राप्ता यथा नान्येन केनचित् || २३ ||
अहो सर्वव्रतानां तदुपोषितं महद्व्रतम् |
प्रधानतरमत्यर्थं स्वर्गसंवासदं मतम् || २४ ||
(चरितं च मया तेषां श्रुतं दृष्टं तथैव च |)
पुलस्त्य उवाच –
एवमुक्ता ततस्तेन देवेन्द्रेण यशस्विनी |
प्रत्युवाच महाभागा यथावच्छाम्भरायणी || २५ ||
शाम्भरायण्युवाच –
मासर्क्षेष्वच्युतो देवः प्रतिमासं सुरेश्वर ! |
यथोक्तव्रतया सम्यक् सप्त वर्षाणि पूजितः || २६ ||
तस्येयं कर्मणो व्युष्टिरच्युताराधनस्य मे |
देवलोकादभिमता देवराज यदच्युतिः || २७ ||
स्वर्गं द्रव्यमयैश्वर्यं संततिं वापि योऽच्युताम् |
नरो वाञ्छति तेनेत्थं तोषणीयोऽच्युतः प्रभुः || २८ ||
एतत्ते पूर्वदेवेन्द्रचरितं सकलं मया |
स्वर्गवासाक्षयत्वं च मासर्क्षाच्युतपूजनात् || २९ ||
यथावत् कथितं देव पृच्छतस्त्रिदशेश्वर! |
धर्मार्थकाममोक्षांस्तु वाञ्छतां विबुधाधिप! |
विष्णोराराधनान्नान्यत् परमं सिद्धिकारणम् || ३० ||
पुलस्त्य उवाच –
तस्यास्तद्वचनं श्रुत्वा देवराजबृहस्पती |
तां तथेत्यूचतुः साध्वीं चेरस्तुश्चापि तद्व्रतम् || ३१ ||
तस्माद्दाल्भ्य प्रयत्नेन प्रतिमासं समाहितः |
मासर्क्षाच्युतपूजायां भवेथास्तन्मनाः सदा || ३२ ||
इति विष्णुधर्मे शाम्भरायणीकृतमासर्क्षपूजाप्रशंसा नाम अष्टविंशोऽध्यायः
एकोनत्रिंशोऽध्यायः
सर्वबाधाप्रशमनं
दाल्भ्य उवाच –
भगवन् प्राणिनः सर्वे विषरोगाद्युपद्रवैः |
दुष्टग्रहोपघातैश्च सर्वकालमुपद्रुताः || १ ||
आभिचारुककृत्याभिः स्पर्षरोगैश्च दारुणैः |
सदा संपीड्यमानास्ते तिष्ठन्ति मुनिसत्तम || २ ||
येन कर्मविपाकेन विषरोगाद्युपद्रवाः |
न भवन्ति नृणां तन्मे यथावद्वक्तुमर्हसि || ३ ||
पुलस्त्य उवाच –
व्रतोपवासैर्यैर्विष्णुर्नान्यजन्मनि पूजितः |
ते नरा मुनिशार्दूल ग्रहरोगादिभागिनः || ४ ||
यैर्न तत्प्रवणं चित्तं सर्वदैव नरैः कृतम् |
विषग्रहज्वराणां ते मनुष्या दाल्भ्य भाजनाः || ५ ||
आरोग्यं परमामृद्धिं मनसा यद्यदिच्छति |
तत्तदाप्नोत्यसंदिग्धं परत्राच्युततोषकृत् || ६ ||
नाधीन् प्राप्नोति न व्याधीन्न विषग्रहबन्धनम् |
कृत्यास्पर्शभयं वापि तोषिते मधुसूदने || ७ ||
सर्वदुष्टशमस्तस्य सौम्यास्तस्य सदा ग्रहाः |
देवानामप्रधृष्योऽसौ तुष्टो यस्य जनार्दनः || ८ ||
यः समः सर्वभूतेषु यथात्मनि तथापरे |
उपवासादिना तेन तोष्यते मधुसूदनः || ९ ||
तोषिते तत्र जायन्ते नराः पूर्णमनोरथाः |
अरोगाः सुखिनो भोगभोक्तारो मुनिसत्तम !|| १० ||
न तेषां शत्रवो नैव स्पर्शरोगाभिचारु काः |
ग्रहरोगादिकं वापि पापकार्यं न जायते || ११ ||
अव्याहतानि कृष्णस्य चक्रादीन्यायुधानि तम् |
रक्षन्ति सकलापद्भ्यो येन विष्णुरुपासितः || १२ ||
दाल्भ्य उवाच –
अनाराधितगोविन्दा ये नरा दुःखभागिनः |
तेषां दुःखाभिभूतानां कर्तव्यं यद्दयालुभिः || १३ ||
पश्यद्भिः सर्वभूतस्थं वासुदेवं महामुने |
समदृष्टिभिरीशेशं तन्मम ब्रूह्यशेषतः || १४ ||
पुलस्त्य उवाच –
कुशमूलस्थितो ब्रह्मा कुशमध्ये जनार्दनः || १ ||
कुशाग्रे शंकरं विद्यात्रयो देवा व्यवस्थिताः || २ ||
गृहीत्वा च स मूलाग्रान् कुशाञ्शुद्धानुपस्पृशेत् || ३ ||
मार्जयेत् सर्वगात्राणि कुशाग्रैर्दाल्भ्य शान्तिकृत् || ४ ||
शरीरे यस्य तिष्ठन्ति कुशस्थजलबिन्दवः || ५ ||
नश्यन्ति तस्य पापानि गरुडेनैव पन्नगाः || ६ ||
विष्णुभक्ता विशेषेण चिद्गतमानसः || ७ ||
रोगग्रहविषार्तानां कुर्याच्छान्तिमिमां शुभाम् || ८ ||
नारसिंहं समभ्यर्च्य शुचौ देशे कुशासने || ९ ||
मन्त्रैतैर्यथालिङ्गं कुर्याद्दिग्बन्धमात्मनः || १० ||
वाराहं नारसिंहं च वामनं विष्णुमेव च || ११ ||
ध्यात्वा समाहितो भूत्वा दिक्षु नामानि विन्यसेत् || १२ ||
पूर्वे नारायणः पातु वारिजाक्षस्तु दक्षिणे || १३ ||
प्रद्युम्नः पश्चिमस्यां तु वासुदेवस्तथोत्तरे || १४ ||
ईशान्यामवताद्विष्णुराग्नेय्यां च जनार्दनः || १५ ||
नैरृत्यां पद्मनाभश्च वायव्यां चैव माधवः || १६ ||
ऊर्ध्वं गोवर्धनधरो अधरायां त्रिविक्रमः || १७ ||
एताभ्यो दशदिग्भ्यस्तु सर्वतः पातु केशवः || १८ ||
अङ्गुष्ठाग्रे तु गोविन्दं तर्जन्यांस्तु महीधरम् || १९ ||
मध्यमायां हृषीकेशमनामिक्यां त्रिविक्रमम् || २० ||
कनिष्ठायां न्यसेद्विष्णुं करमध्ये तु माधवम् || २१ ||
एवं न्यासं पुरा कृत्वा पश्चादङ्गेषु विन्यसेत् || २२ ||
शिखायां केशवं न्यस्य मूर्ध्नि नारायणं न्यसेत् || २३ ||
चक्षुर्मध्ये न्यसेद्विष्णुं कर्णयोर्मधुसूदनम् || २४ ||
त्रिविक्रमं कपालस्थं वामनं कर्णमूलयोः || २५ ||
दामोदरं दन्तवक्त्रौ वाराहं चिबुके न्यसेत् || २६ ||
उत्तरोष्ठे हृषीकेशं पद्मनाभं तथाऽधरे || २७ ||
जिह्वायां वासुदेवं च ताल्वके गरुडध्वजम् || २८ ||
वैकुण्ठं कन्ठमध्यस्थमनन्तं नासिकोपरि || २९ ||
दक्षिणे तु भुजे विप्र! विन्यसेत् पुरुषोत्तमम् || ३० ||
वामभुजे महाभागं राघवं हृदि विन्यसेत् || ३१ ||
पीताम्बरं सर्वतनौ हरिं नाभौ तु विन्यसेत् || ३२ ||
करे तु दक्षिणे विप्र ततः संकर्षणं न्यसेत् || ३३ ||
वामे विप्र हरिं विद्यात् कटिमध्येऽपराजितम् || ३४ ||
पृष्ठे क्षितिधरं विद्यादच्युतं स्कन्धयोरपि || ३५ ||
माधवं बाहु कुक्षौ तु दक्षिणे योगशायिनम् || ३६ ||
स्वयंभुवं मेढ्रमध्ये ऊरुभ्यां तु गदाधरम् || ३७ ||
चक्रिणं जानुमध्ये तु जङ्घयोरच्युतं न्यसेत् || ३८ ||
गुल्फयोर्नरसिंहं च पादपृष्ठेऽमितौजसम् || ३९ ||
श्रीधरं चाङ्गुलीषु स्यात् पद्माक्षं सर्वसन्धिषु || ४० ||
रोमकूपे गुडाकेशं कृष्णं रक्तास्थिमज्जसु || ४१ ||
मनोबुद्ध्योरहंकारेष्वेवं चित्ते जनार्दनम् || ४२ ||
नखेषु माधवं चैव न्यसेत् पादतलेऽच्युतम् || ४३ ||
एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत् || ४४ ||
तनुर्विष्णुमयी तस्य यावत्किंचिन्न भाषते || ४५ ||
एवं न्यासं ततः कृत्वा यत्कार्यं शृणु तद्द्विज || ४६ ||
पादमूले तु देवस्य शङ्खं तत्रैव विन्यसेत् || ४७ ||
वनमालां तु विन्यस्य सर्वदेवाभिपूजिताम् || ४८ ||
गदां वक्षःस्थले चैव चक्रं चैव तु पृष्ठतः || ४९ ||
श्रीवत्साङ्गं शिरो न्यस्य पञ्चाङ्गकवचं न्यसेत् || ५० ||
आपादामस्तके चैव विन्यसेत् पुरुषोत्तमम् || ५१ ||
ॐ अपामार्जनको न्यासः सर्वव्याधिविनाशनः || ५२ ||
विष्णुरूर्ध्वमधो रक्षेद्वैकुण्ठो विदिशो दिशः || ५३ ||
पातु मां सर्वतो रामो धन्वी चक्री च केशवः || ५४ ||
इति विष्णुधर्मे विष्णोरपामार्जनन्यासकवचम् |
पूजाकाले तु देवस्य जपकाले तथैव च || ५५ ||
होमारम्भेषु सर्वेषु त्रिसंध्यासु च नित्यशः || ५५ ||
आयुरारोग्यमैश्वर्यं ज्ञानं वित्तं फलं भवेत् || ५७ ||
यद्यत् सुखकरं प्रोक्तं तत्सर्वं प्राप्नुयान्नरः || ५८ ||
अभयं सर्वभूतेभ्यो विष्णुलोकं च गच्छति || ५९ ||
अथ ध्यानं प्रवक्ष्यामि सर्वपापप्रणाशनम् || ६० ||
वाराहरूपिणं देवं संस्मरत्यपराजितम् || ६१ ||
बृहत्तनुं बृहद्गात्रं बृहद्दंष्ट्रसुशोभनम् || ६२ ||
समस्तवेदवेदाङ्गं युक्ताङ्गं भूषणैर्युतम् || ६३ ||
उद्धृत्य भूमिं पातालाधस्ताभ्यामुपगृह्णताम् || ६४ ||
आलिङ्ग्य भूमिं शिरसि मूर्ध्नि जिघ्रन्तमास्थितम् || ६५ ||
रत्नवैडूर्यमुख्याभिर्मुक्ताभिरुपशोभितम् || ६६ ||
पीताम्बरधरं देवं शुक्लमाल्यानुलेपनम् || ६७ ||
त्रयस्त्रिंशत् कोटिदेवैः स्तूयमानं मुदाऽनिशम् || ६८ ||
नृत्यद्भिरप्सरोभिश्च गीयमानं च किन्नरैः || ६९ ||
इत्थं ध्यात्वा महात्मानं जपेन्नित्यं महात्मनः || ७० ||
सुवर्णमण्डपान्तः स्थं पद्मं ध्यायेत् सकेसरम् || ७१ ||
सकर्णिकदलैरिष्टैरष्टभिः परिशोभितम् || ७२ ||
करं करहितं देवं पूर्णचन्द्राप्तसुप्रभम् || ७३ ||
तडित्समशटाशोभि कण्ठनालोपशोभितम् || ७४ ||
श्रीवत्साङ्कितवक्षःस्थं तीक्ष्णदंष्ट्रं त्रिलोचनम् || ७५ ||
जपाकुसुमसंकाशं रक्तहस्ततलान्वितम् || ७६ ||
पीतवस्त्रपरीधानं शुक्लवस्त्रोत्तरीयकम् || ७७ ||
करं करहितं देवं पूर्णचन्द्राप्तसुप्रभम् || ७८||
कटिसूत्रेण हैमेन नूपुरेण विराजितम् || ७९||
वनमालादिशोभाढ्यं मुक्ताहारोपशोभितम् || ८० ||
अनेकसूर्यसंकाशं मुकुटाटोपमस्तकम् || ८१ ||
शङ्खचक्रगृहीताभ्यामुद्बाहुभ्यां विराजितम् || ८२ ||
पङ्कजाभं चतुर्हस्तं तत्पत्राभसुलोचनम् || ८३ ||
प्रातः सूर्यसमप्रख्यकुण्डलाभ्यां विराजितम् || ८४ ||
केयूरकान्तिसस्यर्द्धिमुक्तिकारत्नशोभितम् || ८५ ||
जानूपरि न्यस्तहस्तं वररत्ननखाङ्कुरम् || ८६ ||
जङ्घाभरणसस्पर्द्धिविस्फुर्यत्कङ्कनत्विषम् || ८७ ||
मुक्ताफलाब्दसमहद्दन्तपङ्क्तिविराजितम् || ८८ ||
चम्पकामुकुलप्रख्यसुनासामुखपङ्कजम् || ८९ ||
अतिरक्तौष्ठवदनं व्यात्तास्यमतिभीषणम् || ९० ||
वामाङ्कस्थं शिवभक्तशान्तिदां सुनितम्बिनीम् || ९१ ||
अर्हणीयां सुजातोरुं सुनासां शुभलक्षणाम् || ९२ ||
सुभ्रूं सुकेशीं सुश्रोणीं सुशोभां सुद्विजाननाम् || ९३ ||
सुप्रतिष्ठां सुवदनां चतुर्हस्तां विचिन्तयेत् || ९४ ||
दुकूले चैव चार्वङ्गीं हारिणीं सर्वकामदाम् || ९५ ||
तप्तकाञ्चनसंकाशां सर्वाभरणभूषिताम् || ९६ ||
सुवर्णकलशप्रख्यपीनोन्नतपयोधराम् || ९७ ||
गृहीतपद्मयुगलं उद्बाहुभ्यां तथाऽन्ययोः || ९८||
गृहीतमातुलुङ्गाख्यं जांबूनदकरान्तथा || ९९ ||
एवं देवीं नृसिंहस्य वामाङ्कोपरि संस्मरेत् || १०० ||
अतिविमलसुगात्रं रौप्यपात्रस्थमन्नं
सुललितदधिखण्डं पाणिना दक्षिणेन |
कलशममृतपूर्णं सव्यहस्ते दधानं
तदतिसकलदुःखं वामनं भावयेद्यः || १०१ ||
अन्या भास्करसप्रभाभिरखिलैर्भाभिर्दिशो भासयन् || १०२ ||
भीमाक्षस्फुरदट्टहासविलसाद्दंष्ट्राग्रदीप्ताननः || १०३ ||
दोर्भिश्चक्रधरौ गदाब्जमुकुलौ त्रासांश्च पाशाङ्कुशौ || १०४ ||
बिभ्रत्पिङ्गशिरोरुहोद्धतसटश्चक्राभिरधानो हरिः || १०५ ||
मनोभूतानीन्द्रियाणि गुणाः सत्त्वं रजस्तमः || १०६ ||
त्रैलोक्यस्येश्वरं सर्वमहंकारे प्रतिष्ठिताः || १०७ ||
मनोबुद्धिरहङ्कारेऽर्पितस्तदनन्तेन तं जीवं
प्रतिष्ठाप्य सर्वेषां देवानां मूर्तिं |
ध्यात्वा प्रत्यक्षं दर्शयति
मम सर्वारिष्ट आपदां परिहरार्थे
अपामार्जनस्तोत्रमन्त्रजपे विनियोगः |
पुलस्त्य उवाच –
ॐ नमः परमार्थाय पुरुषाय महात्मने |
अरूपबहुरूपाय व्यापिने परमात्मने ||
(नमस्ते देवदेवाय सुरशूर नमोऽस्तु ते |
लोकाध्यक्ष! जगत्पूज्य परमात्मन्! नमोऽस्तु ते ||)
निष्कल्मषाय शुद्धाय सर्वपापहराय च |
नमस्कृत्वा प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ||
वराहनरसिंहाय वामनाय महात्मने |
गोविन्दपद्मनाभाय वामदेवाय भूपते |
नमस्कृत्वा प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ||
नारायणाय देवाय अनन्ताय महात्मने |
नमस्कृत्वा प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ||
गरुडध्वजाय कृष्णाय पीताम्बरधराय च |
नमस्कृत्वा प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ||
योगीश्वराय सिद्धाय गुह्याय परमात्मने |
नमस्कृत्वा प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ||
जनार्दनाय कृष्णाय उपेन्द्रश्रीधराय च |
नमस्कृत्वा प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ||
भक्तप्रियाय विधये विष्वक्सेनाय शार्ङ्गिणे |
नमस्कृत्वा प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ||
हिरण्यगर्भपतये हिरण्यकशिपुच्छिदे |
नमस्कृत्वा प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ||
चक्रहस्ताय शूलाय तर्जन्यपत्राय धीमते |
नमस्कृत्वा प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ||
आदित्याय उपेन्द्राय भूतानां जीवनाय च |
नमस्कृत्वा प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ||
वासुदेवाय वन्द्याय वरदाय महात्मने |
विषूवृच्छ्रवसे तस्मै क्षीराम्बुनिधिशायिने |
नमस्कृत्वा प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ||
अधोक्षजाय भद्राय श्रीधरायादिमूर्तये |
नमस्कृत्वा प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ||
विश्वेशद्वारमूर्तिश्च मृत्युरायोहितोऽस्ति सः |
नमस्कृत्वा प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ||
नानारागांश् च दक्षांश्च विकटाय महाभीती |
जातुपतिं व्यग्रहस्तं वररत्ननखाकरम् |
जङ्गाभरेण……… न्सने
नमस्कृत्वा प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ||
नारायणाय विश्वाय विश्वेशायाम्बराय च |
नमस्कृत्वा प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ||
दामोदराय देवाय अनन्ताय महात्मने |
नमस्कृत्वा प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ||
त्रिविक्रमाय रामाय वैकुण्ठाय नराय च |
नमस्कृत्वा प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ||
वराहनरसिंहेश वामनेश त्रिविक्रम |
(नरसिंहाय वामनाय महात्मने)
हयग्रीवेश सर्वेश हृषीकेश हराशुभम् |
अपराजितचक्राद्यैश्चतुर्भिः परमायुधैः |
अखण्डितप्रभावैस्त्वं सर्वदुष्टहरो भव |
हरामुकस्य दुरितं दुष्कृतं दुरुपोषितम् |
मृत्युबन्धार्तिभयदं दुरिष्टस्य च यत्फलम् |
परापध्यानसहितं प्रयुक्तं चाभिचारिकम् |
गरस्पर्शमहायोगप्रयोगजरयाजर |
ॐ नमो वासुदेवाय नमः कृष्णाय शार्ङ्गिणे |
नमः पुष्करनेत्राय केशवायाऽऽदिचक्रिणे |
नमः कमलकिञ्जल्कपीतनिर्मलवाससे |
महाहवरिपुस्कन्धघृष्टचक्राय चक्रिणे |
दंष्ट्रोद्धृतक्षितिधृते त्रयीमूर्तिमते नमः |
(महायज्ञवराहाय शेषभोगोरुशायिने |
तप्तहाटककेशान्त ज्वलत्पावकलोचन |
वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते |
कपिल हेमाश्वशीर्ष अतिरिक्तविलोचन |
विद्युत्स्फुरितदंष्ट्राग्र दिव्यसिंह नमोऽस्तु ते |
काश्यपायातिह्रस्वाय ऋग्यजुःसामभूषित! |
तुभ्यं वामनरूपाय सृजते गां नमो नमः |)
वराहेशेण दुष्टानि सर्वपापहराणि वै |
मर्द मर्द महादंष्ट्र मर्द मर्द च तत्फलम् |
नरसिंह करालास्य दन्तप्रान्तानलोज्ज्वल |
महायज्ञवराहाय शेषभोगोरुशायिने |
तप्तहाटक केयूर ज्वलत्पावकलोचन |
वज्रायतनत्वस्पर्श दिव्यसिंहनमोस्तुते
काश्यपायातिह्रस्वाय ऋग्यजुस्साममूर्तये |
तुभ्यं वामनरूपाय क्रमते गां नमो नमः |
भञ्ज भञ्ज निनादेन दुष्टान्यस्याऽऽर्तिनाशन! |
ऋग्यजुःसामगर्भाभिर्वाग्भिर्वामनरूपधृक् |
प्रशमं सर्वदुःखानि नयत्वस्य जनार्दनः |
एकाहिकं द्व्याहिकं च तथा त्रिदिवसं ज्वरम् |
चातुर्थकं तथाऽव्युग्रं तथैव सततज्वरम् |
दोषोत्थं संनिपातोत्थं तथैवाऽऽगन्तुकं ज्वरम् |
शमं नयाऽऽशु गोविन्द! छिन्धि छिन्धि तु वेदनाम् |
नेत्रदुःखं शिरोदुःखं दुःखं चोदरसंभवम् |
अनुच्छ्वासमतिश्वासं परितापं सवेपथुं |
गुदघ्राणांह्रिरोगांश्च कुष्ठरोगं तथा क्षयम् |
कामालादींस्तथा रोगान् प्रमेहांश्चातिदारुणान् |
भगंदरातिसारांश्च मुखरोगं सवल्गुलिम् |
अश्मरीं मूत्रकृच्छ्रांश्च रोगान् अन्यांश्च दारुणान् |
ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः |
कफोद्भवाश्च ये केचिद्ये चान्ये सांनिपातिकाः |
आगन्तवश्च ये रोगा लूताविस्फोटकादयः |
ते सर्वे प्रशमं यान्तु वासुदेवापमार्जिताः |
विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन च |
क्षयं गच्छन्तु चाशेषास्ते चक्राभिहता हरेः |
अच्युतानन्तगोविन्दनामोच्चारणभीषिताः |
नश्यन्तु सकला रोगाः सत्यं सत्यं वदाम्यहम् |
स्थावरं जङ्गमं वाऽपि कृत्रिमं वाऽपि यद्विषम् |
दन्तोद्भवं नखभवमाकाशप्रभवं विषम् |
लूतादिप्रभवं यच्च विषमत्यन्तदुःखदम् |
शमं नयतु तत्सर्वं कीर्तितोऽस्य जनार्दनः |
ग्रहान् प्रेतग्रहांश्चैव तथा वै डाकिनीग्रहान् |
वेतालांश्च पिशाचांश्च गन्धर्वान् यक्षराक्षसान् |
शकुनीपूतनाद्यांश्च तथा वैनायकग्रहान् |
मुखमण्डिनिकां क्रूरां रेवतीं वृद्धरेवतीम् |
वृद्धिकाख्यान् ग्रहांश्चोग्रांस्तथा मातृग्रहानपि |
बालस्य विष्णोः चरितं हन्तु बालग्रहानिमान् |
वृद्धानां ये ग्रहाः केचिद्ये च बालग्रहाः क्वचित् |
नरसिंहस्य ते दृष्ट्या दग्धा ये चापि यौवने |
सटाकरालवदनो नरसिंहो महारवः |
ग्रहानशेषान्निःशेषान् करोतु जगतो हितम् |
नरसिंह! महासिंह! ज्वालामालोज्ज्वलानन |
ग्रहानशेषान् सर्वेश! खाद खादाग्निलोचन! |
ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः |
यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः |
शस्त्रक्षतेषु ये दोषा ज्वालागर्दभकादयः |
यानि चार्याणि भूतानि प्राणिपीडाकराणि वै |
तानि सर्वाणि सर्वात्मन्! परमात्मञ्जनार्दन |
किंचिद्रूपं समास्थाय वासुदेव विनाशय |
क्षिप्त्वा सुदर्शनं चक्रं ज्वालामालाविभीषणम् |
सर्वदुष्टोपशमनं कुरु देववराच्युत! |
सुदर्शन महाचक्र गोविन्दस्य करायुध! |
(ज्वलत्पावकसंकाश सूर्यकोटिसमप्रभ! ||
त्रैलोक्यरक्षकर्तृ त्वं त्वं दुष्टदानवदारण! |
तीक्ष्णधार महावेग छिन्धि च्छिन्धि महाज्वरम् |
छिन्धि च्छिन्धि महाव्याधिं छिन्धि च्छिन्धि महाग्रहान् |
छिन्धि वातं च धूतं च छिन्धि घोरं महाविषम् |
रुजदाघं च शूलं च निमिषज्वालगर्दभम् |
सुदर्शन महाज्वाल छिन्धि छिन्धि ममारयः |
सर्वदुष्टानि रक्षांसि क्षपयातिविभीषण ||
हां हां हूं हूं फट्कारेण ठद्वयेन हतद्विषः |
सुदर्शनस्य मन्त्रेण ग्रहा यान्ति दिशो दश |
त्रैलोक्यस्याभयं कर्तुमाज्ञापय जनार्दन! |
सर्वदुष्टानि रक्षांसि क्षयं यान्ति विभीषया |
प्राच्यां प्रतीच्यां च दिशि दक्षिणोत्तरतस्तथा |
रक्षां करोतु सर्वात्मा नरसिंहः स्वगर्जितैः |
भूम्यन्तरिक्षे च तथा पृष्ठतः पार्श्वतोऽग्रतः |
व्याघ्रसिंहवराहेषु अग्नि चोरभयेषु च |
रक्षां करोतु भगवान् बहुरूपी जनार्दनः |
यथा विष्णुः जगत्सर्वं सदेवासुरमानवम् |
तेन सत्येन दुष्टानि शममस्य व्रजन्तु वै |
यथा विष्णौ स्मृते सम्यक् संक्षयं याति पातकम् |
सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु |
परमात्मा यथा विष्णुर्वेदान्तेष्वभिधीयते |
सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु |
यथा यज्ञेष्वरो विष्णुर्वेदेष्वपि तु गीयते |
तेन सत्येन सकलं यन्मयोक्तं तथास्तु तत् |
(यथा यज्ञेश्वरो विष्णुर्यज्ञान्ते अपि गीयते |
तेन सत्येन सकलं यन्मयोक्तं तथास्तु तत् |)
शान्तिरस्तु शिवं चास्तु प्रशाम्यत्वसुखं च यत् |
वासुदेवशरीरोत्थैः कुशैर्निर्मार्जितं मया |
अपामार्जति गोविन्दो नरो नारायणस्तथा |
तवास्तु सर्वदुःखानां प्रशमो वचनाद्धरेः |
(इदं शास्त्रं पठेद्यस्तु सप्ताहम् नियतः शुचिः |)
शान्तिं समस्तरोगास्ते ग्रहाः सर्वे विषाणि च |
भूतानि च प्रयान्त्वीशे संस्मृते मधुसूदने |
एतत्समस्तरोगेषु भूतग्रहभयेषु च |
आपमार्जनकं शस्त्रं विष्णुनामाभिमन्त्रितम् |
एते कुशा विष्णुशरीरसंभवा जनार्दनोऽहं स्वयं एव चागतः |
हतं मया दुष्टमशेषमस्य स्वस्थो भवत्येष वचो यथा हरेः |
(शान्तिरस्तु शिवं चास्तु दुष्टमस्य प्रशाम्यतु |)
यदस्य दुरितं किंचित्तत्क्षिप्तं लवणार्णवे |
स्वास्थ्यमस्य सदैवास्तु हृषीकेशस्य कीर्तनात् |
यत एवागतं पापं तत्रैव प्रतिगच्छतु |
एतद्रोगादिपीडासु जन्तूनां हितमिच्छता |
विष्णुभक्तेन कर्तव्यमपामार्जनकं परम् |
अनेन सर्वदुष्टानि प्रशमं यान्त्यसंशयम् |
सर्वभूतहितार्थाय कुर्यात्तस्मात् सदैव हि |
(सर्वापराधशमनमपामार्जनकं परम् |
एतत्स्तोत्रमिदं पुण्यं पठेदायुष्यवर्धनम् |
विनाशाय च रोगाणामवमृत्युक्षयाय च |
व्याघ्रापस्मारकुष्ठादि पिशाचोरगराक्षसाः |
तस्य पार्श्वं न गच्छन्ति स्तोत्रमेतद्यथा पठेत् |
स्मरञ्जपन्निदं स्तोत्रं सर्वव्याधिविनाशनम् |
पठतां शृण्वतां नित्यं विष्णुलोकं स गच्छति |)
इति विष्णुधर्मे अपामार्जनस्तोत्रम् नाम एकोनत्रिंशोऽध्यायः
त्रिंशोऽध्यायः
क्षत्रपुरुषव्रतं
दाल्भ्य उवाच –
सुरूपतां मनुष्याणां स्त्रीणां च द्विजसत्तम |
कर्मणा जायते येन तन्ममाख्यातुमर्हसि || १ ||
सुरूपाणां सुगात्राणां सुवेषाणां तथा मुने |
न्यूनं तथाधिकं वापि किंचिदङ्गं प्रजायते || २ ||
समस्तैः शोभनैरङ्गैर्नराः केचित्तथा द्विज |
काणाः कुब्जाश्च जायन्ते त्रुटितश्रवणास्तथा || ३ ||
नराणां योषितां चैव समस्ताङ्ग्सुरूपता |
कर्मणा येन भवति तत्सर्वं कथयामल || ४ ||
लावण्यगतिवाक्यानि सति रूपे महामते |
प्रयान्ति चारुतां रूपं तेनोक्तः परमो गुणः || ५ ||
वाक्यलावण्यसंस्कारविलासललिता गतिः |
विडम्बना कुरूपाणां स्त्रीपुंसामभिजायते || ६ ||
रूपकारणभूताय यतेत मतिमांस्ततः |
कर्मणा तन्ममाचक्ष्व कर्म यच्चारुरूपदम् || ७ ||
पुलस्त्य उवाच –
सम्यक् पृष्टं त्वया हीदमुपवासाश्रितं द्विज |
कथयामि यथा प्रोक्तं वसिष्ठेन महात्मना || ८ ||
वसिष्ठमृषिमासीनं सप्तर्षिप्रवरं पतिम् |
पप्रच्छारुन्धती प्रश्नं यदेतद्भवता वयम् || ९ ||
तस्याः स परिपृच्छन्त्या जगाद मुनिसत्तमः |
यत्तच्छृणुष्व धर्मज्ञ ममेह वदतोऽखिलम् || १० ||
वसिष्ठ उवाच –
श्रूयतां मम यत्पृष्टस्त्वयाहं ब्रह्मवादिनि |
सुरूपता नृणां येन योषितां चोपजायते || ११ ||
अनभ्यर्च्य यथान्यायमनाराध्य च केशवम् |
रूपादिका गुणाः केन प्राप्यन्तेऽन्येन कर्मणा || १२ ||
तस्मादाराधनीयो वै विष्णुरेव यशस्विनि |
परत्र प्राप्तुकामेन रूपसंपत्सुतादिकम् || १३ ||
यस्तु वाञ्छति धर्मज्ञे रूपं सर्वाङ्गशोभनम् |
नक्षत्रपुरुषस्तेन संपूज्यः पुरुषोत्तमः || १४ ||
नक्षत्राङ्गं यथाहारः समुपोष्यति यो हरिम् |
सुरूपैरखिलाङ्गैश्च रूपवानभिजायते || १५ ||
योषिता च परं रूपमिच्छन्त्या जगतः पतिः |
स एवाराधनीयोऽत्र नक्षत्राङ्गो जनार्दनः || १६ ||
अरुन्धत्युवाच –
नक्षत्ररूपी भगवान् पूज्यते पुरुषोत्तमः |
मुने! येन विधानेन तन्ममाख्यातुमर्हसि || १७ ||
वसिष्ठ उवाच –
चैत्रमासं समारभ्य विष्णोः पादादिपूजनम् |
यथा कुर्वीत रूपार्थी तन्निशामय तत्त्वतः || १८ ||
नक्षत्रमेकमेकं वै स्नातः सम्यगुपोषितः |
नक्षत्रपुरुषस्याङ्गं पूजयेत् साध्वी चक्रिणः || १९ ||
मूले पादौ तथा जङ्घे रोहिणीष्वर्चयेच्छुभे |
जानुनी चाश्विनीयोग आषाढे चोरुसंज्ञिते || २० ||
फाल्गुनीद्वितये गुह्यं कृत्तिकासु तथा कटिम् |
पार्श्वे भद्रपदायुग्मे द्वे कुक्षी रेवतीषु च || २१ ||
अनुराध उरः पृष्ठं श्रविष्ठास्वभिपूजयेत् |
भुजयुग्मं विशाखासु हस्ते चैव करद्वयम् || २२ ||
पुनर्वसावङ्गुलींश्च आश्लेषासु तथा नखान् |
ज्येष्ठायां पूजयेद्ग्रीवं श्रवणे श्रवणे तथा || २३ ||
पुष्ये मुखं तथा स्वातौ दशनानभिपूजयेत् |
हन्वौ शतभिषा योगे मघायोगे च नासिकाम् || २४ ||
मृगोत्तमाङ्गे नयने पूजयेद्भक्तितः शुभे |
चित्रायोगे ललाटं च भरण्यां च तथा शिरः |
संपूजनीया विद्वद्भिश्चाद्रासु च शिरोरुहाः || २५ ||
नक्षत्रयोगेष्वेतेषु पूजितो जगतः पतिः |
नक्षत्रपुरुषाख्योऽयं यथावत् पुरुषोत्तमः || २६ ||
पापापहारं कुरुते सम्यच्छ्रद्धावतां सताम् |
अङ्गोपाङ्गानि चैवास्य पापादीनि यशस्विनि || २७ ||
सुरूपान्यभिजायन्ते सप्त जन्मान्तराणि वै |
सर्वाणि चैव भद्राणि शरीरारोग्यमुत्तमम् || २८ ||
संततिं मनसः प्रीतिं रूपं चातीव शोभनम् |
वाङ्माधूर्यं तथा कान्तिं यच्चान्यदभिवाञ्छितम् ||
ददाति नक्षत्रपुमान् पूजितश्च जनार्दनः |
उपोष्य सम्यगेतेषु क्रमेणर्क्षेषु शोभने || ३० ||
संपूजनीयो भगवान्नक्षत्राङ्गो जनार्दनः |
गन्धपुष्पादिसंयुक्तं पूजयित्वा यदाविधि |
जानुभ्यां धरणीं गत्वा इदं चोदाहरेत्ततः |
स्वरूपमारोग्यमतीव वर्चसं सुसंततिं त्वस्थितभक्तिमच्युताम् |
अपि सर्वमिदं प्रोतं सूत्रे मणिगणा इव |
एकपुरुष महापुरुष ऋक्षपुरुष नमोऽस्तु ते |
प्रतिनक्षत्रयोगे च भोजनीया द्विजोत्तमाः || ३१ ||
नक्षत्रज्ञाय विप्राय दद्याद्दानं च शक्तितः |
पारिते च पुनर्दद्यात् स्त्रीपुंसां चारुहासिनि || ३२ ||
छत्त्रोपानद्युगं चैव सप्तधान्यं सकाञ्चनम् |
घृतपात्रं च धर्मज्ञे यच्चान्यदतिवल्लभम् || ३३ ||
स्त्री वा साध्वी सदा विष्णोराराधनपरायणा |
अनेनैव विधानेन संपूज्यैतदवाप्नुयात् || ३४ ||
इति विष्णुधर्मे सर्वबाधाप्रशमनं नक्षत्र पुरुषव्रतं
नाम त्रिंशोऽध्यायः