सुमध्वविजयः/एकादशः सर्गः
← दशमः सर्गः | सुमध्वविजयः एकादशः सर्गः [[लेखकः :|]] |
द्वादशः सर्गः → |
एकादशः सर्गः
प्रचुरान्तरप्रवचनं फणिराडुपशुश्रुवान् ससनकादिमुनिः ।
गगनेऽल्पदृष्टवपुरत्र जनैस्त्वरितं निलीनरुचिराप पदम् ॥ 11.1॥
अतिचित्रधाम्नि निजधाम्नि रतं ससहस्रमस्तकमनन्तममुम् ।
मुनयोऽभिवाद्य विनयाभरणाः वरमन्वयुञ्जत तदर्थमिमम् ॥ 11.2॥
भगवत्तमस्य विपुलप्रमतेः समयं मनोहरतमं जगति ।
महितं भवद्भिरपि लोकपते पठतां मुहुः फलमुदेष्यति किम् ॥ 11.3॥
अधिकारिणां फलमलं विदुषां भवति प्रवृत्तिरतिवीर्यवती ।
इति तत्फलं सफलसङ्कथनो भगवान् प्रपञ्चयतु भूरिदयः ॥ 11.4॥
इति तैरुदीरितमुदारमतिर्वचनं निशम्य स जगाद गिरम् ।
शृणुतादरेण महनीयतमं महनीयपादसमयस्य फलम् ॥ 11.5॥
त्रिदिवादिलभ्यमपि नास्य फलं कथितं कृषेरिव पलालकुलम् ।
स्वफलं तु मुक्तिपदमुक्तिपदं शुकशारदादिपरमार्थविदाम् ॥ 11.6॥
परमागमार्थवरशास्त्रमिदं भजताममानवकलारचितम् ।
व्रजतामहो परमवैष्णवतां रतये स्वलोकमजितो दिशति ॥ 11.7॥
ननु तत्र विश्वविभवैकपदं परिभाति {प्रतिभाति} पूर्णपुरुषस्य पुरी ।
उपलभ्यते यदुपमानपदं प्रतिबिम्बमेव मणिवप्रगतम् ॥8॥
सितसौधसन्ततिरुचा स्फुरिता परितोऽरुणाश्मगृहपङ्क्तिरुचिः ।
इह मच्छरीरवलये लसितामनुयाति मूर्तिमसुरासुहृतः {सुहृदः} ॥ 11.9॥
शबलावलीकघठितस्फटिकद्युतिभिर्हरिन्मणिमयी वलिभी ।
प्रतिसद्म भाति यमुना मिलिता सितसौरसैन्धवपयोभिरिव ॥ 11.10॥
यदि नाभविष्यदिह विभ्रमतानियमो जनस्य निलयावलिषु ।
विकटा विटङ्ककृतपत्रिततिः कृतकेत्यवैक्ष्यत कथञ्चन नो ॥ 11.11॥
विविधस्तुलोपगतचित्रपटीसुवितानलम्बिमणिदामगणः ।
शरणान्तरेष्वधिकपूरणतः प्रचकास्ति विभ्रम इवावगलन् ॥ 11.12॥
विमलाकृतिः प्रकृतिरेव महामणिहेममय्यखिलवस्तुमयी ।
इह सम्भवेत् सकलकान्तिरसः कथितोऽधिकोक्तिभिरतः कविभिः ॥ 11.13॥
तदनादिकालमितमुक्तिरतेरगणय्य {अगणेय} शम्भुमुखसङ्घततेः ।
नगरैर्महापुरमसंहतिमल्लसति प्रभोरयमहो महिमा ॥ 11.14॥
भवनं विभाति भुवनैकपतेर्भुवनत्रयाद्भुतगुणातिशयि {गणातिशयि} ।
वरमन्दिरप्रकरमध्यगतं द्विजमण्डलस्थशशिमण्डलवत् ॥ 11.15॥
स्वयमिन्दिरैव पतिमानकरी गृहकर्म यत्र कुरुते सुतराम् ।
अपि किङ्करीदशशतीमहिता श्रियमत्र वर्णयति वेश्मनि कः ॥ 11.16॥
कमलापतिः कमलयाऽमलया कमनीयया कमललोचनया ।
अमृताहिराजमृदुभोगगतः स्वरतोऽपि तत्र रमते परमः ॥ 11.17॥
तरुणप्रभाकरसहस्ररुचं कनकाम्बरं मणिमयाभरणम् ।
हसिताननेन्दुमरविन्ददृशं तमरीन्द्रधारिणमनुस्मरत ॥ 11.18॥
गणयेद्रमाऽस्य न गुणानखिलांश्चतुराननश्चतुरवागपि नो ।
न वयं सहस्रवदना अपि तानपरोदितानतिवदेम पुनः ॥ 11.19॥
विधयो विहङ्गपतयोऽगणिता रमणीयुताश्च फणिपेन्द्रमुखाः ।
परयोगभूरिसुखभोगमिता अवलोक्य तं दधति मोदरसम् ॥ 11.20॥
सचतुर्भुजा वनजपत्रदृशो वरवेषिणोऽत्र सपिशङ्गपटाः ।
अरुणप्रभाश्च तरुणाभ्ररुचो विचरन्ति नाथरुचयः पुरुषाः ॥ 11.21॥
भगवत्समीपमुपयातवतां प्रमदो न केवलमलब्धतुलः ।
अपि तस्य लोकमतिलोकगुणं भजतां सुदुर्लभमभूरिशुभैः ॥ 11.22॥
न भवन्ति यत्र मृतिजन्मजरास्त्रिविधं भयं किमुत दुःखगणः ।
अपरं च किञ्चिदशुभं न भवेन्न गुणादि तत्प्रभवमूलमपि ॥ 11.23॥
अनुभूयते सुखमनन्तसखैः सकलैरलम्मतिपदं सततम् ।
अपि तारतम्यसहितैः स्वगुरुप्रवणैः परस्परमुरुप्रणयैः ॥ 11.24॥
अतिसुन्दराः सुरभयः पुरुषा हरिचन्दनेन नवचन्द्ररुचा ।
चलचारुचामरधरानुचरा विचरन्ति नित्यतरुणा इह ते ॥ 11.25॥
सविलासलास्यपरितुष्टदृशो मृदुगीतवाद्यमुदितश्रवणाः ।
अनुरञ्जयन्ति नवकञ्जदृशो रमणा अमी स्वरमणीस्तरुणीः ॥ 11.26॥
परिणायकानुपवनाभिमुखा ननु निःसरन्ति हरिणीनयनाः ।
विमलाद्विमानवलयाच्छनकैः शशिमण्डलादिव रुचो रुचिराः ॥ 11.27॥
अरुणाश्मवर्णतनवस्तनवः शुभहारसन्निभरुचोऽत्र पराः ।
हरिनीलनीलरुचयोऽप्यपराः प्रकटीभवन्ति विविधाभरणाः ॥ 11.28॥
सुचिरद्युतीर्दधति सूक्ष्मतरं स्वयमम्बरं च खलु बिभ्रति याः ।
शुकनिस्सवना ध्रुवमिमा अपराः सुपयोधरा जलधरावलयः ॥ 11.29॥
समतीतविद्रुमभुवां सुदृशां पदपल्लवाग्र्यनखरक्तरुचीः ।
परभागतः स्फटिककुट्टिमभूः प्रकटीकरोति न पुरा प्रकटाः ॥ 11.30॥
हरिणीदृशां सुवसनानि बृहत्सुनितम्बबिम्बरुचिरोरुरुचा ।
शबलद्युतीनि मदनस्य जगज्जयवैजयन्त्य इति निश्चिनुमः ॥ 11.31॥
करपल्लवैस्तरलितैर्ललितैरसकृत्क्वणत्कनककङ्कणकैः ।
नवरोमराजिवलिवल्गुमृदुप्रतनूदरैरतिमनाक्तरलैः ॥ 11.32॥
कुचकुम्भपूर्णतरकान्तिसुधारसशेषबिन्दुविसरच्छविभिः ।
वरहारराजिभिरुतानुपदं प्रतिलोडिताभिरशनैरुरसि {प्रतिलोठिताभि} ॥ 11.33॥
अपि लीलया कुवलयोल्लसितैरपरैः करैः सहचरीनिहितैः ।
वदनैः शुचिस्मितकटाक्षरसैश्चलकुण्डलोल्लसितगण्डयुगैः ॥ 11.34॥
प्रगतासु तासु रणितैरशनामणिनूपुरैरिव पुरा {तदा} गदिताः ।
अनुवीक्षितुं तनुविलासमिमं तरुणा भवन्त्यथ निवृत्तमुखाः ॥ 11.35॥
अनुपालिताः स्वदयितैर्दयिताः कथमप्युपेत्य कुचभारनताः ।
शनकैः पुनस्तदवलम्बबलात् किल ता विशन्ति परमोपवनम् ॥ 11.36॥
हसितप्रसूननिकरोरुभरप्रणमत्सुवर्णमणिसर्वतरून् ।
उपगूहयन्नमृतसिन्धुसखः पवनो न कस्य सुखमेधयति ॥ 11.37॥
उपचारनन्दनमिदं द्युवनं नियमेन नन्दयति यन्न जनम् ।
परमेव नन्दनमुपेन्द्रवनं सकलं सदा यदभिनन्दयति ॥ 11.38॥
वरपारिभद्रकसुकल्पतरुव्रजपारिजातहरिचन्दनवत् ।
सहितं समादिपदताननगैः परिभूषयन्ति तदहो ऋतवः ॥ 11.39॥
स्मितमाधवीकुसुमरम्यतरौ नवचम्पकादिकुसुमोल्लसितौ ।
मधुमाधवौ मधुपगीर्मधुरौ मधुजित्प्रियान् प्रमदमानयतः ॥ 11.40॥
नवमल्लिकास्रजमभीष्टतमः शुचिसम्भवां प्रणयिनीशिरसि ।
कलयन् स्वयं न कुशलेति किल प्रतिघट्टयत्युरुकुचावुरसा ॥ 11.41॥
मधुरस्वरास्ततपतत्रततिप्रकटान्तपङ्क्तिधृतनेत्ररुचः ।
शिखिनोऽनुयान्ति हि सहस्रदृशं जलदर्तुलक्ष्म निजनृत्तमहे ॥ 11.42॥
शरदोल्लसत्कुवलयेक्षणया विकचारविन्दरुचिराननया ।
प्रियया च शोभनशुकस्वरया {स्वनया} रमते जनो मुखरहंसकया ॥ 11.43॥
अभिनन्दयन् हिमृतुं सुसखा स्फटिकाचलच्छलहिमाधिकृतम् ।
फलिनीकुलं कुसुमयञ्छिशिरो हसतीव फुल्लनवकुन्दरुचा ॥ 11.44॥
हिमशीतवर्षपरितापपुरस्सरदोषमूलमिह नर्तुगुणः ।
प्रियमेव साधयति नित्यमहो स विमुक्तिमानिति विमुक्तिमताम् ॥ 11.45॥
अमृतस्रगुत्तमफलप्रसवानमृताय तत्र जनताऽर्पयति ।
उपभोक्तुमप्यविधिबन्धवशा प्रकृतिं प्रयाति सकलोऽपि सदा ॥ 11.46॥
प्रमदातिरेकमुपयातवता प्रमदागणेन चरतोपवने ।
उपगीयते स्म मधुरं मधुजिच्चरितं सकान्तततिना सततम् ॥ 11.47॥
ललना ललन्त्यभिवरं प्रवरा ललिता लुनन्ति कुसुमानि पराः ।
इतराः स्रजो विरचयन्ति पतीननुरञ्जयन्ति न हि {तु} काश्चन नो ॥ 11.48॥
वनलीलया विविधया मुदितास्तरुणा घनस्तननतास्तरुणीः ।
सुलतालयेषु परिरभ्य रतिं वदनारविन्दमधुपा दधति ॥ 11.49॥
रसिकाः सुधाप्सु सरसीषु ततो रुतनूपुरानुकृतसारसकाः ।
विहरन्ति साकमवगाह्य धवैर्जलमड्डुकोत्सवहसद्वदनाः ॥ 11.50॥
विविधा विधाय विहृतीः सलिले विकटेषु विद्रुमतटेषु गताः ।
सुरभिं सुवर्णमथ वर्णकमाददते सखीकरगतं महिलाः ॥ 11.51॥
जघनांशुकैरवयवाभरणैः कुचकुङ्कुमैश्च कचमाल्यवरैः ।
नयनाञ्जनैरपि मिथोऽब्जदृशां धटितैरलङ्कृतिरलं क्रियते ॥ 11.52॥
तनुमध्यमा निजगृहाणि गताः सममात्मनामसुसमैरसमैः ।
अमृतं पिबन्त्यसुलभं भविभिश्चषकैर्महारजतरत्नमयैः ॥ 11.53॥
मृदुकम्रशय्यमनुरागवतां मणिमञ्चमञ्चितदृशोऽवसरे ।
अपिचोदिता {पतिचोदिता} अधिरुहन्ति शनैर्विनयो हि भूषयति सर्वरसम् ॥ 11.54॥
अभिकान्तमुन्नमितकान्तकुचा किल बध्नती सकुसुमां कबरीम् ।
सुमुखी सुलक्ष्यभुजमूलवलिः परिरभ्यते प्रणयिनाऽतिरसात् ॥ 11.55॥
पृथुवृत्ततुङ्गकठिनोरसिजद्वयवारितायतनिजान्तरयोः ।
भुजयोर्युगेन रमणो रमणीं परिरभ्य कोऽत्र सुखयेन्न {रमयेन्न} सुखी ॥ 11.56॥
स्मितफुल्लमुल्लसितज्हि {लसितचि}ल्लिलसन्मणिकुण्डलं मृदुकटाक्षपटु ।
निभृतो निरीक्ष्य सुचिरं सुतनोः प्रतिचुम्बति प्रियतमो वदनम् ॥ 11.57॥
नतमुन्नमय्य मुखचन्द्रमसं परिरम्भसम्भृतमुदा सुदृशः ।
उपरम्यते न तरुणेन चिरं मधुराधरामृतरसं पिबता ॥ 11.58॥
सुरतोत्सवोत्सुकतया त्वरयन् करपल्लवं निवसनग्रहणे ।
कररुद्धमायतदृशः सहसा त्वरयत्यथ द्विगुणमिष्टतमः ॥ 11.59॥
रभसावपातितपृथूरसिजः परिरभ्य तत्क्षणवियाततरः ।
मणितादिसौरतवितानपटू रमयत्यमून् युवतिसङ्घ उत ॥ 11.60॥
अतिलौकिकान् रमयतो रमणान् रमयन्त्यलौकिकगुणा ललनाः ।
अनुरूपरूपमतिलोकसुखं तदलौकिकं निधुवनं लसति ॥ 11.61॥
न रतिः श्रमादिखचिता नियमाद्विरहव्यथाऽपि न वधूवरयोः ।
प्रतिकामिनीप्रणयतः कलहो न समस्तदोषरहिते हि पदे ॥ 11.62॥
सुखसंविदात्मकतया वपुषां सुरभित्वमेव बहिरन्तरपि ।
हरिधाम्नि दम्पतिगणस्य ततो ननु मान्यतेऽपि मुनिभिः सुरतम् ॥ 11.63॥
शृणुताप्यलोकविषयं विषयं सकलस्य मुक्तनिकरस्य दृशाम् ।
वपुरिन्दिरापतिरमन्दरसं ननु सुन्दरं प्रकटयत्यनिशम् ॥ 11.64॥
मणिराजिराजित {मणिराजराजित} महामुकुटं शितिकान्तकुन्तलसहस्रतयम् ।
अलिकार्धचन्द्रविलसत्तिलकं श्रवणोल्लसन्मकरकुण्डलयुक् ॥ 11.65॥
परिपूर्णचन्द्रपरिहासिमुखं जलजायताक्षमरुणोष्ठपुटम् ।
हसितावलोकललितैरतुलैरभिनन्दयत्प्रणतमात्मजनम् ॥ 11.66॥
नवकम्बुकण्ठमहिमांशुमहो महिमोपलेन्द्रवरहारधरम् ।
रमणीयरत्नगणविद्धलसद्वलयाङ्गुलीयकवराङ्गदवत् ॥ 11.67॥
रविचक्ररुक्प्रकरचक्रकरं विधुबिम्बकम्बुमधुराम्बुरुहम् ।
ज्वलनज्वलद्गदमुदारधनुः पृथुवृत्तहस्तमतिताम्रतलम् ॥ 11.68॥
वरपीवरांसमधिराजदुरोमणिमण्टपाग्र्यविलसत्कमलम् ।
सजगद्विसप्तकतनूदरकं शुभनाभिकञ्जगतकालिनुतम् ॥ 11.69॥
अतिकान्तकाञ्चिपदकान्ति {पदकाञ्चि} मिलत्तपनीयभङ्गरुचिपिङ्गपटम् ।
वरहस्तिहस्तसदृशोरुयुगं क्रमवृत्तचारुतरजङ्घमुत ॥ 11.70॥
वरनूपुरं परमरुक्प्रपदं नवविद्रुमद्युतिनखाङ्गुलिमत् ।
अरिवारिजध्वजकलङ्कलसत्पदपांसुपावितजगत्तरितयम् ॥ 11.71॥
निखिलागमावगमितैरमितैः सुखसंविदादिभिरनन्तगुणैः ।
प्रपदादिकान्तसकलावयवाकृतिभिः सदैक्यवददोषलवम् ॥ 11.72॥
अधिकारिणां गुणविशेषवशात् द्विपदाद्यनन्तचरणान्ततया ।
अतिभासितं घनगुणापघनैरितरैश्च तत्तदुचितै रुचिरैः ॥ 11.73॥
नवभानुभाः कनककान्तिपरं वरहारहारिहरिनीलहरित् ।
शबलप्रभादिविविधद्युतिमत्सुखबोधसौरभसुरूपगुणम् ॥ 11.74॥
आश्चर्यरत्नेष्वधिकं जगत्तरयेऽप्याश्चर्यमाश्चर्यमहो मुहुर्मुहुः ।
सौन्दर्यसारैकरसं रमापते रूपं सदानन्दयतीह {समानन्दयतीह} मोक्षिणः ॥ 11.75॥
इज्यते यज्ञशीलैः स यज्ञः प्राज्ञमध्ये परः प्रोच्यतेन्यैः {प्रोच्यतेऽन्यैः }।
गीयते गेयकीर्तिः सुगीतैर्विध्यबद्धैः सदाऽऽनन्दसान्द्रैः ॥ 11.76॥
वैकुण्ठे ते श्रीविशेषा जनानामत्याश्चर्यं चित्तवाचामभूमिः ।
वैकुण्ठेते श्रिविशेषाजनानामुक्तश्लाध्ये युक्तमेतादृशत्वम् ॥ 11.77॥
यं यं सुखी कामयतेऽर्थमत्र सङ्कल्पमात्रात् सकलोऽपि स स्यात् {सकलः स स स्यात्} ।
इत्येव वेदा अपि वेदयन्ति मुक्तिं ततः को विभवातिरेकः ॥ 11.78॥
महानन्दतीर्थस्य ये भाष्यभावं मनोवाग्भिरावर्तयन्ते स्वशक्त्या ।
सुराद्या नरान्ता मुकुन्दप्रसादादिमं मोक्षमेते भजन्ते सदेति ॥ 11.79॥
इति श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत
नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये
महाकाव्ये आनन्दाङ्के एकादशः सर्गः