सुमध्वविजयः/दशमः सर्गः
← नवमः सर्गः | सुमध्वविजयः दशमः सर्गः [[लेखकः :|]] |
एकादशः सर्गः → |
दशमः सर्गः
सपदि समस्कुरुत भृशं माधवगुणसाधकोऽथ मध्वरविः ।
भृगुकुलतिलकस्थान्ं तापकरः पापपान्थानाम् ॥ 10.1॥
दशमतिशिष्यः कश्चिच्छुभजनतायै कुतूहलनतायै ।
विविधसुवृत्तं वाक्यं काव्यमिवोचे सनायकस्तवकम् ॥ 10.2॥
भुवनाद्भुतमध्वचेष्टितं न वदेमापि सुरायुषा वयम् ।
सकलं खलु किन्तु किञ्चिदप्यथ शुश्रूशुजनाय वर्ण्यते ॥ 10.3॥
क्वचिदीश्वरदेवमेष भूपं खननं पान्थजनैर्विधापयन्तम् ।
स्वमपि प्रतिचोदयन्तमूचे क्रियया नोऽकुशलान् प्रबोधयेति ॥ 10.4॥
प्रकारं प्रकटीकर्तुमारभ्य विरराम नो ।
महीयोमतिमाहात्म्याद्वैवश्येन खनन् खलः ॥ 10.5॥
नानेनेनानेनानेनोनूनेन ननु नुन्नाः ।
नानाना नो नूनं नानेनानूननाऽनुन्नः ॥ 10.6॥
यमशेषभवप्रभवः स्मरतामसुखाब्धिरपैति न चित्रमिदम् ।
मरुदीदृशि भान्ति हि यत्स्तवने यमशेषभवप्रभवः स्म रताः ॥ 10.7॥
सञ्चरन्नञ्चनीयः कदाचिद्विभुर्विष्णुपद्यास्तटं वैष्णवाग्रेसरः ।
प्रापदाप्तैर्निजैरेष शिष्यैर्वृतस्त्यक्तविश्वप्लवं शात्रवातङ्कतः ॥ 10.8॥
इमान्स्वस्वपूर्वाश्रयानात्मवाक्यात् सलीलं दयालुः स मूलाश्रयात्मा ।
निषेद्धॄननादृत्य चानन्यलङ्घ्यां तदाऽत्याययत् तां नदीं संसृतिं वा ॥ 10.9॥
वारयत वारयत वैरिसुहृदोऽमून् मारयत मारयत पारगमनात् प्राक् ।
आपतत आलपत इत्यवददुच्चैः स त्वरकराजपुरुषानुचितवाचा ॥ 10.10॥
न जडा जले पतत साहसादहो न भयं हि वो बहुतया बहोर्जनात् ।
भवतां पतिं क्षितिपतिं दिदृक्षवः प्रतियाम केन कलहं चिकीर्षथ ॥ 10.11॥
वचसेत्यनेन स परान् न्यरुणद् भुजगान् नरेन्द्र इव मन्त्रबलात् ।
उदतारयत् परिजनं मृतिभीसरितश्च देवसरितश्च समम् ॥ 10.12॥
निर्विकारचरितोऽपि परीतः क्रूरकिङ्करसहस्रतयेन ।
स व्रजन्नुदलसज्जगदीशः सिंहराडिव सृगालसमूहे ॥ 10.13॥
अप्रकम्प्यवपुषं सुरासुरैः सिंहसंहननमेनमुन्नतम् ।
प्राप्तमात्मनगरान्तिकं नृपः प्रेक्ष्य सौधशिखरे स्थितोऽब्रवीत् ॥ 10.14॥
रिपुनृपप्रणिधिप्रतिशङ्कया पथिकपाटनकर्मणि दीक्षितैः ।
सुमुख मे परुषैः पुरुषैः कथं यमभटैरिव नासि विहिंसितः ॥ 10.15॥
अप्लवदेवनदीतरणं ते हन्त कथं च चिकीर्षसि किं त्वम् ।
तं निगदन्तमिति प्रभृतीह स्माह महापुरुषोत्तमदासः ॥ 10.16॥
योऽसौ देवो विश्वदीपः प्रदीप्तः कुर्मः सर्वं तत्परानुग्रहेण ।
यामस्तावत् तूर्णमाशामुदीचीमित्याद्यं तद्भाषया चित्रवाक्यम् ॥ 10.17॥
गाम्भीर्यं धृतिमुरुवीर्यमार्यभावं तेजोऽग्र्यं गिरमपि देशकालयुक्ताम् ।
राजाऽस्य स्फुटमुपलभ्य विस्मितोऽस्मै राज्यार्धं सपदि समर्पयाम्बभूव ॥ 10.18॥
दण्डार्हबुद्धिविषयो नृपपूरुषाणां राज्यार्हबुद्धिविषयोऽभवदित्थमेषः ।
नीतिं प्रकाशयितुमेव विपत्सु कार्यां गन्तुं प्रभुः प्रसभतोऽपि तथा व्यधात् सः ॥ 10.19॥
कदाचिच्चोराणां निकरमवलोक्याभिपतता
मवस्थाप्य स्वीयान् करगपटपिण्डार्थमतिकृत् ।
चरन्नेतेष्वेतानथ मिथ इहाघातयदहो
विभुः सम्मोह्य प्राग्विजय इव संशप्तकगणान् ॥ 10.20॥
अन्यत्र च चोरान् धन्यप्रवरोऽसौ शूराञ्छतसङ्ख्यान् प्राप्तान् स्वजिघांसून् ।
एकेन तु शिष्येणाकृष्टकुठारान् निस्ताडितयूथ्यानद्रावयत द्राक् ॥ 10.21॥
क्वचिच्छिलाच्छटाभ्रमादमुं ससङ्घमत्यजन् ।
अवेक्ष्य दस्यवः पुनः कुतूहलात् तमानमन् ॥ 10.22॥
सत्योच्छेदे सेच्छायातं {स्वेच्छायातं, सेच्छापातं} व्याघ्राकारं दैत्यव्याघ्रम् ।
प्रालेयाद्रेः प्रान्ते प्राज्ञः प्राणेर्लीलालेशेनास्यत् ॥ 10.23॥
प्राप स नारायणतः शुद्धशिलात्मप्रतिमाः ।
यासु स पद्मासहितो दोष्यहितः सन्निहितः ॥ 10.24॥
पाराशर्यः परतत्तवप्रसिद्ध्यै तात्पर्यार्थं परमं भारतस्य ।
व्यक्तं वक्तुं नियुनक्ति स्म साक्षादेनं धन्यं भुवने मन्यमानः ॥ 10.25॥
तीर्थेषु तीर्थेषु च सौख्यतीर्थः क्षेत्रेषु च क्षेत्रविदां वरिष्ठः ।
गोविन्दमावन्द्य सहानुगोऽगाद्गङ्गां पुनस्तुङ्गतरङ्गमालाम् ॥ 10.26॥
प्लवैरपेतामवलोक्य सिन्धुं सरोजबन्धुं च तदाप्तसिन्धुम् ।
तटे निषण्णानधिकं विषण्णान् निरीक्ष्य शिष्यानतरत् स एताम् ॥ 10.27॥
न वानरेन्द्रस्य विलङ्घिताब्धेर्न वा नरेन्द्रस्य विहर्तुरस्याम् ।
इमेऽस्मरंस्तद्वपुषोऽन्यथाऽस्य शक्तस्य शङ्क्येत विपत् कथं तैः ॥ 10.28॥
जगत्प्रदीपायितगोगणाढ्ये दिवाकरे मध्वदिवाकरे च ।
अव्यक्तरूपे श्रियमत्यजन् द्राक् सहाम्बुजैस्तन्नयनाम्बुजानि ॥ 10.29॥
पदं पशोर्वा विनतातनूजस्तीर्त्वा नदीं तावददीनसत्वः ।
अनार्द्रवासाः सकुतूहलार्द्रैर्नृदेवभूदेवमुखैर्ववन्दे ॥ 10.30॥
भीतैररातेरतिमात्रमत्र न तारकैरप्यथ तारकैः सः ।
स्वतेजसा विस्मितभूपनुन्नैः प्लवेन शिष्यान् निरतारयत् ताम् ॥ 10.31॥
विशङ्कटं स्वस्तटिनीतटं ते दीपप्रदीप्तं जनताभिपूर्णम् ।
सञ्चोदयत्पण्डितमण्डलाढ्यं नाथावलोकोत्कहृदोऽभ्यपश्यन् ॥ 10.32॥
आम्नायमाम्नायविदां विदग्धं सभावभेदं प्रवदन्तमत्र ।
दैव्यां सभायामिव पद्मयोनिं प्रैक्षन्त साक्षात् सुखतीर्थमेते ॥ 10.33॥
प्राप्तस्ततो हस्तिनराजधानीं मासानुवासेह स वासयोग्यान् ।
मठान्तरेऽनन्तगुणान्तरः सन्नेकान्तदेशे सरितोऽसमीपे ॥ 10.34॥
भित्वा भुवं देवनदी जगाम शाखाविशेषेण निषेवितुं तम् ।
वाणी च यत्प्रेष्यतया कृतार्था शिवादिवन्द्या न तदत्र चित्रम् ॥ 10.35॥
गुरुप्रबर्हस्य पदारविन्दं विदूरतः सा प्रणनाम मूर्ता ।
औदार्यसौन्दर्यतनुं तनुं तामालक्ष्य शिष्यैरतिविस्मितं तैः ॥ 10.36॥
तेनोपयातेन कदाचनाथ वाराणशीं पापनिवारणेन ।
अवादि वाणी बलिनः स्वशिष्यान् विलोक्य लीलावसरेऽवलिप्तान् ॥ 10.37॥
नियुद्धसिद्ध्यै युगपद्धि वीरंमन्या भवन्तोऽभिपतन्तु मां द्राक् ।
समस्तशक्तिं न युनक्ति यः स्वामत्रास्मदाज्ञां स निराकरोति ॥ 10.38॥
इतीरयन् पञ्चदशैष यूनः प्राप्तान् प्रयुद्धान् युगपन्निपात्य ।
उत्थीयतां यस्य समर्थता स्यादिति ब्रुवाणोशनकैर्जहास {ब्रुवाणोऽशनकैर्जहास} ॥ 39॥
सौमेरवं गौरवमावहन्ति तवाङ्गमङ्गाङ्गुलयश्च नोऽङ्गे ।
पुरा विनश्याम इतो दयालो स्वामिन् विमुञ्चेत्यवदंस्तदा ते ॥ 10.40॥
तेनाथ मुक्तैरतिविस्मयस्तैरवाप्यनालोच्य हि तत्स्वरूपम् ।
यद्भ्रूविजृम्भेण सशम्भुशक्रं {सशर्वशक्रम्} जगत् समस्तं नियतं निकामम् ॥ 10.41॥
सदाक्ष्यमाक्षिप्तसमस्तपक्षो यतिः प्रभुं कोऽप्यमरावतीपदः ।
जिगीषया ज्ञानसहायकर्मणः प्रसाध्यतां साधनतेत्युदाहरत् ॥ 10.42॥
संसाधितार्थे भगवत्ययुक्तिवित् पप्रच्छ स ज्ञानपदार्थमुग्रधीः ।
ज्ञातः स ते ज्ञान्यसि चेन्न चेन्न स प्रश्नो घटेतेति निराकृतैष तम् ॥ 10.43॥
वितततमतमोऽन्तं साधयन्त्या नितान्तं
सदसि सदसि रेजे व्याख्यया व्यासशिष्यः ।
सकलसमयिहस्ताम्भोजबन्धाभिनन्दी ।
शरदि शरदि चन्द्रश्चन्द्रिकासम्पदेव ॥ 10.44॥
जननं समये समये जगतः प्रथिते समयेसमयेदमिते ।
सनिरासमयेऽसमये स्थितियुक्स्ववभासमयेऽसमयेष्टधिया ॥ 10.45॥
वर्तस्वाध्यधि सर्वं दीव्येदं सोऽनिशं स्वतन्त्रो विष्णुः ।
उज्जासय दुष्टानां संस्कुरु साधून् गुणाभिपूर्णोऽप्यगुणः ॥ 10.46॥
असमोत्तमो मतोऽसौ श्रियः पतिर्विश्वतोविभिन्नात्मा ।
परमान् प्रकाममर्थान् प्रकाशयामास सेत्यादीन् ॥ 10.47॥
समानया यानमास मायया ततयायमा ।
नयासना नासयान यातनाललनातया ॥ 10.48॥
प्राज्ञो राज्ञां त्रिदिवपदवीं कौरवं क्षेत्रमाप्तः ।
सस्माराथ स्वविहृतिपतद्धस्तियुद्धोत्सवानाम् ।
सत्यात्माद्यैरिह परिवृतो भाविमारीचदृग्भिः
विस्मेरैः स्वैर्निजनृपतनूहेतिदृष्ट्याऽतितुष्टैः ॥ 10.49॥
विप्रात्मेशः क्षणार्थं कृतनतिरशितिश्रीर्हृषीकेशदेशे
स्पष्टं दृष्टोऽप्यदृष्टः सपदि विहितवान् विस्मयं देहभाजाम् ।
स्वप्ने स्वप्रेरितान्यस्थलगनिजनरोपाहृतैर्भक्ष्यभोज्यैः ।
प्राज्यैः प्राभोजयत् स्वं गुरुमखिलगुरुं वेदयन् वेदबन्धुम् ॥ 10.50॥
अवाप्तवान् पुनरिषुपातमस्मरद्रमापतिं स परशुराममादरात् ।
स राजकेल्युरुकदलीसहस्रकं तदाददभ्यवहृतिदत्तमुत्तमम् ॥ 10.51॥
स शङ्करपदद्विजोपहृतमाप्य गोवाख्यगां
गरिष्ठकदलीलसदृशशतीचतुष्कं चरन् ।
पयःकलशपञ्चकत्रिकयुगाभिपूर्णं पपा-
वदृष्टगतिरप्यभून्नृपनृमण्डलैरुद्यतैः ॥ 10.52॥
अयमेव गोविषयतोऽपि कुत्रचित् सदसि जनतार्थितो जवात् ।
पुष्पमुत फलमहो विदधे जनसुप्तिदानुपमगानसम्पदा ॥ 10.53॥
धन्योऽमह्यत नाकिनामहितहृद्बाणः समोऽजस्य यो
मध्वो ध्वस्तदुरागमोऽग्र्यहिमगुश्रीः काममायामहृत् {काममायामिहृत्} ।
विष्णुं विश्वजयप्रदं स हि नमन् सेव्यं सुसौख्यं मुदा
दाक्ष्याच्छ्रीधरमामयादिविरही योगी सुहृत् सर्वदा ॥ 10.54॥
इति भुवनविभूषणस्य भूयांस्यविगणितानि कृतान्तराणि हन्त ।
श्रवणमननकीर्तनैरभीष्टं प्रतिददतीत्यमराः प्रकीर्तयन्ति ॥ 10.55॥
इति विविधगोधारावारैर्विशारदवारिदो
हरिपदरतो विद्याविद्युत्प्रदीपितदिङ्मुखः ।
भवभयमहाघर्मोत्तप्तं सदङ्घ्रिपमण्डलं
सफलसुमनः सान्द्रानन्दं व्यधादविपल्लवम् ॥ 10.56॥
इति श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत
नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये
महाकाव्ये आनन्दाङ्के दशमः सर्गः