सुमध्वविजयः/सप्तमः सर्गः
← षष्ठः सर्गः | सुमध्वविजयः सप्तमः सर्गः [[लेखकः :|]] |
अष्ठमः सर्गः → |
सप्तमः सर्गः
अथ हैमवते तटान्तरे बदरीषण्ड्हविशेषमण्डितम् ।
परमाश्रममाश्रयं श्रियः सकलज्ञः स ददर्श विश्रुतम् ॥ 7.1॥
हिमवर्षरविप्रभासहाः पृथुसत्रप्रथिता द्विजाश्रयाः ।
अपि विष्णुपदस्पृशोऽलसन्नुभये यत्र विचित्रशाखिनः ॥ 7.2॥
श्रवणामृतगीर्गणैर्द्विजैः शुकमुख्यैः शुभपक्षिभिर्युतम् ।
कमलेष्टतमस्थिरान्तरैरपि हंसैः परमैरमेचकैः ॥ 7.3॥
सुमनोनिकरेण पूरितं स्वमनोऽभीष्टदमल्पदुर्गमम् ।
अपरस्परमत्सरप्रजं ननु वैकुण्ठमिवाच्युतालयम् ॥ 7.4॥
तमिमं प्रविशन्तमाश्रमं द्व्यधिकत्रिंशदुदारलक्षणम् ।
गुणसारविदः कुतूहलादवलोक्यर्षय इत्यचिन्तयन् ॥ 7.5॥
कनकातुलतालसन्निभः कमलाक्षो विमलेन्दुसन्मुखः ।
गजराजगतिर्महाभुजः प्रतियान् कोऽयमपूर्वपूरुषः ॥ 7.6॥
अतिशान्तवपुर्निशाकरः स्वयमेकान्तखरो दिवाकरः ।
इति नास्य गुणार्णवाकृतेरुपमानं भुवनेषु लभ्यते ॥ 7.7॥
परमाश्रमिणां गतश्रमो ननु चिह्नानि बिभर्ति धीरधीः ।
अपि मानुषभावविग्रहो विपुलं विस्मयमातनोति नः ॥ 7.8॥
चतुरश्चतुराननः स्वयं पवनो वा व्रतिरूप आव्रजन् ।
श्रुतिनाथदिदृक्षयाऽन्यथा न खलु स्यान्निखिलाग्र्यलक्ष्मवान् ॥ 7.9॥
अवलोकितलक्षणः स तैरिति सञ्चिन्त्य कुतूहलाकुलैः ।
अविलम्बगतिर्न्यशामयत् तरुमारात् सुरपादपोत्तमम् ॥ 7.10॥
मसृणत्वचमुन्नतं ततं बहुशाखाफणसूनरत्नकम् ।
भगवन्तमनन्तमन्तिके स्थितमीशस्य निषेवणाय वा ॥ 7.11॥
अतिचित्रविचित्रपत्रिणं बहुवर्णं हरिगोनिवारकम् ।
मुनिनन्दनमिन्दिरापतेरधिकेष्टं पततामिवाधिपम् ॥ 7.12॥
अमृतात्ममहाफलप्रदं दुरवापं हरिभक्तिवर्जितैः ।
श्रितसाधुपुराणभारतं निगमं मूर्तमिवोरुशाखिनम् ॥ 7.13॥
अथ तस्य स वेदिकान्तरे सुविशाले विमले मनोहरे ।
अवलोकितवाननन्तधीर्दिवि देवानिव तापसोत्तमान् ॥ 7.14॥
अपि सप्ततया विराजितान् गतसङ्ख्यान् गुणिनो गुणोज्ह्ज्हितान् ।
अपि मन्युमदादिवर्जितान् गतभोगान् पवनाशनान् सदा ॥ 7.15॥
मुनिमण्डलमध्यवर्तिनं त्रिजगन्मण्डलमण्डनायितम् ।
इह सत्यवतीसुतं हरिं परिपूर्णप्रमतिः समैक्षत ॥ 7.16॥
निजहृत्कमलेऽतिनिर्मले सततं साधु निशामयन्नपि ।
अवलोक्य पुनः पुनर्नवं तमसौ विस्मित इत्यचिन्तयत् ॥ 7.17॥
अगणेयगुणार्णवो {अगणय्यगुणार्णवो}ऽमलः स हि नारायण एष केवलम् ।
विधिनाऽनुसृतं पराशरात् सुषुवे सत्यवती किलात्र यम् ॥ 7.18॥
धवलेऽस्य मनःपयोनिधौ सदनुक्रोशगिरीन्द्रलोलिते ।
प्रकटीभवति स्म सुन्दरी दयिता दैत्यरिपोस्त्रयीमयी ॥ 7.19॥
इत एव पुराणगौरगौ समहाभारतपारिजातके ।
सति जातवति व्यजायत प्रवरं सूत्रगणामृतं स्वयम् ॥ 7.20॥
निरवग्रहमुर्वनुग्रहं विदधत् पाण्डुसुतादिसज्जने ।
अवनाववनाय संविदां सुचिरायैष चचार चारुगीः ॥ 7.21॥
अधुना कलिकालवृत्तये सवितेव क्षणदानुवृत्तये ।
जनदृग्विषयत्वमत्यजद्भगवानाश्रममावसन्निमम् ॥ 7.22॥
तदिदं वपुरस्य दृश्यते दलितेन्दीवरसुन्दरद्युति ।
परमाजिनयोगपीठगं मम चेतोनयनाभिनन्दनम् ॥ 7.23॥
अगणेयगुणैः सुपूरितं परिपूर्णागणितात्मसद्गुणैः ।
इदमस्तसमस्तदूषणं सचिदानन्दमयं हि केवलम् ॥ 7.24॥
कमलाकमलासनानिलैर्विहगाहीन्द्रशिवेन्द्रपूर्वकैः ।
पदपद्मरजोऽस्य धारितं शिरसा हन्त वहाम्यहं मुहुः ॥ 7.25॥
प्रणमामि पदद्वयं विभोर्ध्वजवज्राङ्कुशपद्मचिह्नवत् ।
निजमानसरागपीडनादरुणीभूतमिवारुणं स्वयम् ॥ 7.26॥
ननु केवलमेव वैष्णवं श्रितवन्तः पदमात्मरोचिषा ।
तमसोऽप्युभयस्य नाशका विजयन्ते नखरा नवं रविम् ॥ 7.27॥
सुकुमारतलाङ्गुलीमतोः पदयोरस्य निगूड्हगुल्फयोः ।
उपमानमहो न दृश्यते कविवर्यैरितरेतरं विना ॥ 7.28॥
उचितां गुरुतां दधत् क्रमाच्छुचि तेजस्वि सुवृत्तमुत्तमम् ।
भजतोऽत्र च भाजयत्यदो विभुजङ्घायुगलं सरूपताम् ॥ 7.29॥
अचलासनयोगपट्टिका वरकक्ष्या सकृदाप्तमिष्टदम् ।
परितोऽपि हरिं स्फुरन्त्यहो अनिशं धन्यतमेति मे मतिः ॥ 7.30॥
रुचिरेण वरैणचर्मणा रुचिराजद्युतिचारुरोचिषा ।
परमोरुनितम्बसङ्गिना परमाश्चर्यतया विराजते ॥ 7.31॥
तनुनिम्नसुनाभिशोभिते वलिभे वारिजनाभ आदधे ।
प्रतनावतिसुन्दरे मृदावुदरेऽस्मिन् जगदण्डमण्डलम् ॥ 7.32॥
हृदये कृतसज्जनोदये सुविशाले मुनिवंशशेखरः ।
उभयं वहति त्रयीमयं विमलं ब्रह्मसुसूत्रमुत्तमम् ॥ 7.33॥
असमेऽनधिके सुसाधिते निजताते रविराशिदीधिति ।
प्रददौ त्रिजगज्जयध्वजं विधिरेतद्गलसङ्गिभूषणम् ॥ 7.34॥
अरिवारिजलक्षणोल्लसत्सुकुमारारुणपाणिपद्मयोः ।
पृथुपीवरवृत्तहस्तयोरुपमां नैव लभामहेऽनयोः ॥ 7.35॥
भजतां वरतर्कमुद्रया द्यति हस्ताग्रमबोधमीशितुः ।
अधिजानु समर्पितं परं कृतभूयोभयभङ्गमङ्गलम् ॥ 7.36॥
सततं गलता स्वतः श्रुतित्रितयेनैव निकाममङ्कितः ।
सुविडम्बितकम्बुरीक्ष्यते वररेखात्रयवान् गुरोर्गलः ॥ 7.37॥
सकलास्तकलङ्ककालिमस्फुरदिन्दुप्रकरोरुविभ्रमम् ।
अधरीकुरुते स्वशोभया वदनं देवशिखामणेरिदम् ॥ 7.38॥
अरुणाश्मदलान्तरोल्लसन्नवमुक्तावलिमस्य लज्जयेत् ।
हसतः सितदन्तसन्ततिः परमश्रीररुणोष्ठरोचिषः ॥ 7.39॥
द्विजवृन्दकृतं कुतूहलाद् {महादराद्} अनुयोगान्धुसहस्रमुत्तमम् ।
इयमेकपदे सरस्वती श्रुतिभर्तुः परिपूरयत्यहो ॥ 7.40॥
जलजायतलोचनस्य मामवलोकोऽयमुपेत्य लालयन् ।
कुरुते परिरभ्य पूरितं भुवनानन्दकरस्मितान्वितः ॥ 7.41॥
उपकर्णममुष्य भासिता तुलसी मन्त्रयतीव लालिता ।
मम नाथपदं न मत्सराज्जलजाद्यानि हरेयुरित्यलम् ॥ 7.42॥
विभवाभिभवोद्भवादिकं भुवनानां भुवनप्रभोर्भ्रुवोः ।
अनयोरपि दभ्रविभ्रमात् सभवाम्भोजभवात्मनां भवेत् ॥ 7.43॥
त्रिजगत्तिलकालिकान्तरे तिलकोऽयं परभागमाप्तवान् ।
हरिनीलगिरीन्द्रमस्तकस्फुटशोणोपलपङ्क्तिसन्निभः ॥ 7.44॥
नवमम्बुधरं विडम्बयद्वरविद्युद्वलयं जगद्गुरोः ।
अवलोक्य कृतार्थतामगां सजटामण्डलमण्डनं वपुः ॥ 7.45॥
न रमापि पदाङ्गुलीलसन्नखधूराजदनन्तसद्गुणान् ।
गणयेद्गणयन्त्यनारतं परमान् {मतिमान्} कोऽस्य परो गुणान् वदेत् ॥ 7.46॥
न कुतूहलिता कुतूहलं तनुमेनामवलोक्य सद्गुरोः ।
सनवावरणाण्डदर्शिनो गृहबुद्ध्या मम निष्कुतूहलम् ॥ 7.47॥
इति चिन्तयता महाधिया पदवीं बाह्यगतामतीयुषा ।
समनोनयनैः पुरागतस्तत आपे वपुषाऽपि वेदराट् ॥ 7.48॥
गुरुभक्तिभरानताकृतिर्विरचय्याञ्जलिबन्धमञ्जसा ।
क्षणमामुकुलीकृतेक्षणः स गुरुं केवलमभ्यवन्दत ॥ 7.49॥
विनयाभरणेन भूषितः स्फुटमष्टाङ्गविशिष्टचेष्टितः ।
भगवत्तमपादपङ्कजे भगवान् स प्रणनाम भाग्यवान् ॥ 7.50॥
स निरीक्ष्य पराशरात्मजः प्रणतं प्रेष्ठमशेषसद्गुणैः ।
करयोर्युगलेन वल्गुना तमुदस्थापयदाशुपातिना ॥ 7.51॥
अमितप्रमतिं श्रुतीश्वरः परिरेभे परिगृह्य तं दृतम् ।
प्रणयामृतपूर्णमानसः स्मितवक्त्रः परिफुल्ललोचनः ॥ 7.52॥
यमजाम्युदवाह ऊर्जितो यदि जाम्बूनदवारि संव्रजेत् ।
कनकद्युतिमध्वसङ्गवानुपमीयेत स तेन नीलभाः ॥ 7.53॥
यदि राजविभूषणैर्युतौ द्विजवर्यान्वयजाविमौ हरी ।
नृपगोत्रभुवोः पुराऽऽत्मनोः स्फुटतुल्यावुपगूड्हयोर्मिथः ॥ 7.54॥
इदमाप शुकोऽपि लालनं न समग्रं जगतां पितुः पितुः ।
अलभीष्ट यदेष धन्य इत्यतिकौतूहलमापि तापसैः ॥ 7.55॥
अमुष्य शिष्या विनयेन तस्मै गुरोरभिप्रायविदो विदग्धाः ।
तदानुरूपं ददुरासनं ते चतुर्मुखायेव मुकुन्ददासाः ॥ 7.56॥
आस्यतामित्युदीर्योपविष्ठे सत्यवत्याः सुते सत्यवाचि ।
मानयन् {नन्दयन्} मन्दहासावलोकैस्तान्मुनीन्द्रानिहोपाविशत्सः ॥ 7.57॥
अवगम्य तं मुनिगणा वरिष्ठतो
विधिवद्व्यधुर्विधिविदोऽस्य माननाम् ।
अपि सङ्कथा श्रुतिसुखाः कवीन्द्रयो
रनयोर्निशम्य परमां मुदं ययुः ॥ 7.58॥
सज्जञनायानन्दविज्ञानमूर्तीं प्राप्तौ पृथ्वीमाश्रमे तत्र तावत् ।
जाज्वल्येते विष्णुवायू स्म देवौ वेदव्यासानन्दतीर्थाभिधानौ ॥ 7.59॥
इति श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत
नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये
महाकाव्ये आनन्दाङ्के सप्तमः सर्गः