सुमध्वविजयः/अष्ठमः सर्गः
← सप्तमः सर्गः | सुमध्वविजयः अष्ठमः सर्गः [[लेखकः :|]] |
नवमः सर्गः → |
अष्टमः सर्गः
प्रतिभाप्रभाप्र {प्रतिभाप्रभाव} मुखसद्गुणैर्निजैरतिविस्मयं नियमिनां मनो नयन् ।
पुरुधीः कदाचिदथ वेदनायकं विजने शनैरुपससाद तं वने ॥ 8.1॥
सुविशेषशेषवदशेषवर्णितप्रतिबोद्धुरस्य ननु शिष्यतोचिता ।
गुरुमानसस्य गुरुतापि सत्पतेरिति सोपसत्तिरमरैरमान्यत ॥ 8.2॥
पुर एव पूरितमपूरयत् पुनर्ननु कृष्ण एष परमार्थसङ्ख्यया ।
भगवन्मनः पुरमिवायतं पुरा निजधाम तां च जगृहे तदद्भुतम् ॥ 8.3॥
इतिहाससुन्दरपुराणसूत्रसत्प्रियपञ्चरात्रनिजभावसंयुतम् ।
अशृणोदनन्तहृदनन्ततोऽचिरात् परमार्थमप्यगणितागमावलेः ॥ 8.4॥
ऋजुपुङ्गवस्य परिजानतः स्वयं सकलं तदप्यलमनन्तजन्मसु ।
स्वकृतोर्वनुग्रहबलादमुष्य तां विशिशेष शेषशयनः पुनर्धियम् ॥ 8.5॥
अथ बादरायणसहायसम्पदा प्रययौ प्रणेतु {प्रणन्तु} ममितान्तरो युतः ।
अपि नादिरायणपदोदितं हरेर्वपुरन्तरं लसितमाश्रमान्तरे ॥ 8.6॥
तमपश्यदाश्रमवरे प्रभूतधीर्ज्वलनं ज्वलन्तमिव धूमवर्जितम् ।
वरवल्कलाकलितमौञ्जिमेखलं विलसज्जटावलयमादिपूरुषम् ॥ 8.7॥
अतिदुर्जयेन्द्रियजयादिरूपिणा तपसा वसन्तमिव सन्ततं वने ।
निजरूपभूतनिरपेक्षनिर्मलप्रचुरात्मसौख्यरतमप्यनारतम् ॥ 8.8॥
नयनद्वयेन नलिनप्रभामुषा परिफुल्लताविलसितेन विस्मयात् ।
तमवेक्ष्य धर्मजमधर्मदुर्लभं मनसेति भूरितरमानसोऽस्मरत् ॥ 8.9॥
जगतां चतुर्दशतयं चतुर्मुखप्रमुखैर्युतं प्रलयमानिनाय यः ।
सममुल्लसन् कमलयैव केवलं परमः स एष हि पुराणपूरुषः ॥ 8.10॥
त्रिगुणाकृतिप्रकृतितो महत्ततस्त्रिविधामहङ्कृतिममर्त्यखान्यतः ।
अपि भूतपञ्चकमितोऽण्डमण्डलं भगवानसाविह जगन्ति चासृजत् ॥ 8.11॥
विधिवायुवीन्द्रशिवकौशिकेशकानमरामरानुगनरासुरादिकान् ।
सृजति प्रपालयति हन्ति सन्ततं स्वगतिं प्रयापयति चैष लीलया ॥ 8.12॥
अगणेय {अगणय्य}सद्गुणगणो विदूषणः स्ववशाखिलोऽप्यनुपचारतः स्वयम् ।
स्मृतिकीर्तनप्रणतिभिर्विमुक्तये स्वजनस्य यात्ययमनेकरूपताम् ॥ 8.13॥
चतुराननाय चतुरः पुराऽऽगमान् प्रददावसावनिमिषेश्वरः प्रभुः ।
विनिहत्य हि श्रुतिमुषं पुरातनं वपुषोद्धतं हयमुखेन सद्रिपुम् ॥ 8.14॥
अमरेन्द्रवैरिभुजदण्डमण्डलप्रतिकर्षपुष्करपतद्धरोद्धृतिः ।
विदधे वराहवपुषाऽमुनोर्मिमत्सृतिसिन्धुकच्छपतयाऽऽप्तरक्षिणा ॥ 8.15॥
नरसिंह एष विददार दारुणं प्रतिघोदये नखरचक्रतेजसा ।
स्वरिपुं क्षणेन सरसः स्फुरत्तनुं पृथुसत्तवमिष्टजनभीतिभञ्जनः ॥ 8.16॥
अपि वामनो ललितबाल्यवानयं प्रतिभाबलेन कृतदैत्यकौतुकः ।
उपधेरधः कृतबलीन्द्रशात्रवः स्वजनाय केवलमदात् परं पदम् ॥ 8.17॥
कथयन्त्यमुं परशुभासमानगोहतमर्त्यदेवतमसं मुहुर्मुहुः ।
जगतां हितं हरिमिवापरं हरिं गुरुशक्तितापसवरान्वयोद्भवम् ॥ 8.18॥
करुणाकरः स वसुदेवमोददो भगवान् पुरा हिमकरान्वयेऽभवत् ।
जितवान् दिशो दशरथोग्र्यसम्पदो जनको बभूव भुवि यस्य वैरिहा ॥ 8.19॥
भुजगेश्वरोऽपि भुवनेश्वरप्रियः समजन्यथारिदरजन्मभुव्यभूत् ।
तममुष्य कान्तिविजितेन्दुमग्रजं रमणीयमाहुरिह रामनामकम् ॥ 8.20॥
जनकेन सोऽथ विरहासहिष्णुना मुहुरीक्षितो वनमनीयत प्रभुः ।
चकितेन दुष्टजनतस्तपस्विना तत आसुरीं निशिचरीं जघान सः ॥ 8.21॥
मुनिसप्ततन्तुकृतवैरबन्धनं कटुकेश्यरिष्टपदमुख्यदुर्जनम् ।
क्षपयन्तमुद्यतसुबाहुमाहवे तमथाभ्यनन्ददमरादिसद्गणः ॥ 8.22॥
सवने विकस्वरगुणस्वरद्विजे स्फुरिते चरन् सकलगोकुलप्रियः ।
इतकामतापसरसार्द्रधीगिरः प्रतिलालयन्नरमतैष सुन्दरीः ॥ 8.23॥
सहजान्वितः सकलमित्रसंयुतो मधुरां पुरीं जनकवल्लभां गतः ।
प्रविशन्निमां स जगदेकसुन्दरो नरनार्युदारनयनोत्सवोऽभवत् ॥ 8.24॥
अथ खण्डितेश्वरधनुः स लीलया क्षपितोग्रसेननृपपुत्रपौरुषः ।
समुपास्य विप्रगुरुमब्जभूगुरुः स्वजनानमोदयदमेयतेजसा ॥ 8.25॥
कमलामयं कमलपत्रलोचनां भुवमागतां नृपसुतां गृहीतवान् ।
निजलीलया विजितराजशात्रवो मुदमापदाप्य पुरमब्धिदुर्गमम् ॥ 8.26॥
स जगाम मातृजनतुष्टये किल त्वरितोवनं {त्वरितोऽवनं} विदधदीप्सितं सताम् ।
सह भार्ययाऽपि शुभया महाजयध्वजलक्ष्मणाग्र्यसुहृदा विना मुदा ॥ 8.27॥
समतीतपर्वतपुरोगदुर्गमः खरदूषणादिसुजनद्विषो बहून् ।
स निहत्य विश्वभयदं सुदुःसहं नरकं महातम उपानयत् क्रमात् ॥ 8.28॥
रुचिराश्रमाजिरचिताग्र्यतेजसा प्रियया प्रियो भुवनमान्यया समम् ।
भृशमाकुलीकृतमदप्रमादवत्सुरपारिजातहृदवाप धाम सः ॥ 8.29॥
हरितामधीशनरदेवमण्डलं दशकं विजित्य परभीषणं मुहुः ।
स्फुरितामिह प्रियतमां निजश्रियं भगवानुपैक्षत हरन्तमप्रियम् ॥ 8.30॥
अभिवन्दितः पवननन्दनादिभिः स कदाचिदिन्द्रसुतवर्धको गवा ।
निजराज्यमात्मदयिताय दत्तवान् हरिसूनवे हतविपक्षमुत्तमम् ॥ 8.31॥
मुदमाप्य तत्र दयितोरुवार्तया मधुहा मरुत्सुतमुखप्रवृत्तया ।
हरितिग्मचक्रलसितोऽब्धिमध्यगं प्रययौ स पुण्यजनसेवितं पुरम् ॥ 8.32॥
पृथुकुम्भकर्णगजराजमुद्धतं ससहोदरं सविबुधेन्द्रशात्रवम् ।
धरणीभरं पृथुलचक्रमक्षिणोन्निशितेषुचक्रकृतविक्रमः प्रभुः ॥ 8.33॥
अथ भार्यया हुतवहं प्रविष्टया सहितः सहोदरपुरःसरैरपि ।
अयमाप्य धाम चिरमिष्टदः सतां निजमूलरूपपरमैक्यमेयिवान् ॥ 8.34॥
महिदासपूज्यचरणो द्विजादभूद्विदितात् स विष्णुयशसोऽमलात्मनः ।
इह यो दधे जगति पापशान्तये बहुधामहेतिमतिदीप्तगोस्थितिम् ॥ 8.35॥
सुतपोरुचेरयमपापकर्दमान्ननु मानवीतनयतामुपेयिवान् ।
समयेन भूरिनिजभक्तिपूरितान् समजीजनत् सुमनसः स देवराट् ॥ 8.36॥
सुबृहत्पयोधरमिथःप्रसंहतिप्रकटीभवत्परमयौवनाकृतिः ।
असुराहितां वरविलासिनीतनुः प्रददावमुष्य सुरराशये सुधाम् ॥ 8.37॥
सुजनाय दत्तपद आत्मशुद्धिदः सुकुमाररूप्यभवदेष शाश्वतः ।
अनसूयया शुचिमनीषया धृतः परमादरेण मुनिपुङ्गवोड्हया ॥ 8.38॥
दयितः सतामृषभ एष भूधरो वपुरुद्वहन् परमहंसलक्षणम् ।
व्यहरद्वलक्षतमपक्षशोभनं परतत्तवलिप्सुसनकादिवन्दितः ॥ 8.39॥
उदपादि धर्मतनयो ह्ययं हरिर्नरदेवसोदर उदारविक्रमः ।
अपि कृष्ण इत्यभिहितो मुदे सतां स्वयमेव यस्य सहजो व्यजायत ॥ 8.40॥
परमात्मने सततमेकरूपिणे दशरूपिणे शतसहस्ररूपिणे ।
अविकारिणे स्फुटमनन्तरूपिणे सुखचित्समस्ततनवे नमो नमः ॥ 8.41॥
इति चिन्तयन्नविरलान्तरो हरिं प्रणनाम सप्रणयमादृतोऽमुना ।
अजितौ परस्परसभाजितौ स तौ निकषा निषीदति पुरोपवेशिनौ ॥ 8.42॥
विविधा विधाय किल तत्र सङ्कथा वदनं मुनीन्द्रतनयस्य सुन्दरम् ।
अवलोक्य लोकपतिरानतं महासुखतीर्थमाह रहसि स्म गामिमाम् ॥ 8.43॥
शृणु देवकार्यमवधार्य धैर्यवान् मदुदीर्यमाणमिदमार्यसम्मतम् ।
भविताऽन्यदुष्करतरं विधाय यत्तरुणं तवावतरणं महाफलम् ॥ 8.44॥
अपिधाय सूत्रहृदयं सतां प्रियं प्रविधाय भाष्यमधुना निजेच्छया ।
अपरैः श्रुतिस्मृतिनिजार्थदूषकैः सुतरां तिरोभवति संविदाहता ॥ 8.45॥
अपनेतुमेनमनयं कृतं खलैः प्रतिनेतुमात्मजनतां शुभां गतिम् ।
कुरु सूत्रभाष्यमविलम्बितं व्रजेः सुमतेन योजय कवे श्रुतिस्मृतीः ॥ 8.46॥
अमितां मितामपि गिरं जगद्गुरोरिति तां निशम्य विरलेतरान्तरः ।
वदतां वरस्तमवदत् तदा तयोर्विरहाक्षमः खलु चराचरेशयोः ॥ 8.47॥
भवतोरितः सततसेवनामृते मम मङ्क्तुमस्तु भगवन्ननुग्रहः ।
न लभेय वल्लभतमेदृशं सुखं जगतां त्रयेऽपि जगदेकमङ्गलम् ॥ 8.48॥
कलिकालकालितगुणे धरातले सुजनो न नूनमधुनाऽस्ति योग्यधीः ।
परतत्तववर्णनमयोग्यतावते ननु हव्यदानमिव निन्द्यते शुने ॥ 8.49॥
इति तं ब्रुवाणमयमब्रवीद्विभुर्भुवि सन्ति सौम्य पुरुषा गुणोचिताः ।
विमलान् मणीनिव गुणोज्जहितानिमान् दयया विशोधय विशुद्धगोगणैः ॥ 8.50॥
तव कीर्तिरार्तिमतिमात्रमानयेदशुभान् प्रभाकरविभेव कौशिकान् ।
कमलाकरानिव शुभान् प्रबोधयेत् परमाज्ञया मम विशेषतोऽनिशम् ॥ 8.51॥
इति सा महीधरमुखाद्विनिःसृता जगतां सुखाय विशदा सरस्वती ।
द्विजराजगोविषयतातिपूरितं प्रविवेश मध्वपृथुबुद्धिवारिधिम् ॥ 8.52॥
मतमित्यवेत्य महितं महतोरभिधाय बाड्हमिति धीरमतिः ।
अनयोर्नियोगमधिरोपितवान् स्वशिरस्यनन्यसुवहं {अन्यनिवहं} प्रणमन् ॥ 8.53॥
आम्नायास्त्रय इव तत्तवबोधकास्ते पापघ्नास्त्रय इव पावकाः प्रजानाम् ।
लोका वा सकलभृतस्त्रयोऽत्र रेजुः सानन्दा मुनिसुतधर्मसूनुमध्वाः ॥ 8.54॥
इति श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत
नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये
महाकाव्ये आनन्दाङ्के अष्टमः सर्गः