सुमध्वविजयः/पञ्चमः सर्गः
← चतुर्थः सर्गः | सुमध्वविजयः पञ्चमः सर्गः [[लेखकः :|]] |
षष्ठः सर्गः → |
पञ्चमः सर्गः
वेदान्तविद्यानिजराज्यपालने सङ्कल्प्यमानो गुरुणा गरीयसि ।
अदभ्रचेता अभिषिच्यते पुरा स वारिभिर्वारिजपूरितैरथ ॥ 5.1॥
आनन्दरूपस्य परस्य पात्रधीरानन्दसन्दायिसुशास्त्रकृत् स यत् ।
आनन्दतीर्थेति पदं गुरूदितं बभूव तस्यात्यनुरूपरूपकम् ॥ 5.2॥
कदाचिदत्रोपययौ यतिः सखा गोविन्दबुद्धेर्बहुशिष्यसंवृतः ।
अमुष्य शिष्या अनुमानशिक्षितास्तदाऽजिगीषन् गुरुबुद्धिमुद्धताः ॥ 5.3॥
भिदा सुसाध्येत्यनुमानमत्र तैः प्रायुज्यताशु प्रतिपक्षभीषणम् ।
अखण्डयद्व्यक्तमखण्डधीरिदं स पक्षदक्षः फणिनं विराडिव ॥ 5.4॥
अथापि मिथ्या विमतं मतत्वतो विवादनिर्मुक्तवदित्यवादि तैः ।
अनेन सत्यं विमतं मतत्तवतो यथा घटादीत्यनुमा न्यगद्यत ॥ 5.5॥
हेतोरतिव्याप्तिरवादि तैर्यदा सकौतुकैस्तूर्णमसावविस्मयः ।
न शुक्तिरूप्यादि मतं यदन्यथामतं तदित्यादि वदन् जिगाय तान् ॥ 5.6॥
तत्तवेऽप्यतत्तवे विमतेऽनुमां वदन् तदप्रतिष्ठां प्रतिपादुकः स्वयम् ।
विजित्य विश्वान् विदुषः सभास्वसौ जगाम नाम्नाऽप्यनुमानतीर्थताम् ॥ 5.7॥
समस्तवादीन्द्रगजप्रभङ्गदश्चरन्नवन्यां प्रतिपक्षकाङ्क्षया ।
वेदद्विषां यः प्रथमः समाययौ सवादिसिंहोऽत्र स बुद्धिसागरः ॥ 5.8॥
तस्योरुदुर्गर्ववतो जिगीषया निशातमादत्त मुकुन्दधीद्रुतम् ।
स्वशिष्यहस्तेन मठान्तरेषुधेः सुपक्षदक्षं सुखतीर्थमार्गणम् ॥ 5.9॥
जैत्रं प्रतिज्ञासु कुतूहलाकुलं नृणां कुलं प्रत्वरितं निशामयन् ।
अवन्दतोपेत्य गुरुं गरिष्ठधीः स रूप्यपीठायतनोत्तमस्थितम् ॥ 5.10॥
स वादिसिंहस्य गिरं गरीयसीमखण्डयत् पण्डितमण्डलान्तरे ।
तीक्ष्णेन वाक्येन मितेन वेगिना गदां शरेणेव विशारदो मुहुः ॥ 5.11॥
असावसूयन् द्विनवप्रकारतो व्यचीक्लृपत् कञ्चिदथार्थमुच्चकैः ।
जगद्विजेतुश्च जये ससंशयस्तावज्जनोऽजायत पूर्णचेतसः ॥ 5.12॥
विकल्पकोटीरथ खण्डयन् द्रुतं रेजेऽधिकं स्मेरमुखो बृहन्मतिः ।
तमस्ततीर्वा द्युमणिर्विशुद्धया गवा श्रितो विष्णुपदं सदास्पदम् ॥ 5.13॥
अगाधमात्मन्यतिवेलमुद्धतं तिरस्कृताशेषसरस्वतीततिम् ।
कामं महामानसकुम्भसम्भवो लघूचकारेत्यपि बुद्धिसागरम् ॥ 5.14॥
श्व एव वादोऽस्त्विति वादिनौ खलावद्योत्तरं भाति यदीर्यतामिति ।
मध्वे ब्रुवाणेऽमत तौ जितौ जनः स निश्चिकायाथ निशापलायनात् ॥ 5.15॥
बुद्ध्यब्धिना वादिवरेण चार्जितां जयश्रियं भूपरिवर्तिना चिरात् ।
अहो मुहूर्तादयमप्रयत्नवानवाप्तवानित्यतिविस्मितं जनैः ॥ 5.16॥
व्याख्यन् कदाचिन्मणिमद्विनिर्मितं भाष्यं जनैस्तर्कविशारदैर्वृतः ।
उवाच वाचं परिहासहासवान् सम्मोदतीर्थः सुरमोददायिनीम् ॥ 5.17॥
सत्सूत्रभावे प्रविचारिते पृथग्भाष्याभिसन्धौ च विशुद्धबुद्धिभिः ।
निगृह्य गूड्हाग्रहमुग्रमेतयोर्मान्योऽन्वयोऽन्योन्यमहो न दृश्यते ॥ 5.18॥
इति ब्रुवाणे प्रतिपादयत्यलं भाष्येऽत्र दोषान् प्रबलान् मुहुर्मुहुः ।
तस्मिंस्तु विस्मेरधियोऽपि यत्नतो न स्थेयसः पर्यहरन्निमानमी ॥ 5.19॥
नन्वस्य सूत्रस्य परोऽर्थ उच्यतां यद्भाष्यमात्रं भवता निरस्यते ।
भवादृशैर्यः कविभिर्न दूष्यते कथञ्चनेत्यूचुरिमे वचस्विनः ॥ 5.20॥
अक्लिष्टशब्दान्वयमेष सम्भवत्सूत्रार्थमुच्चैर्वचनं तदाददे ।
मानीकृताम्नाययुतस्मृति क्षणादेष्यत्कथाताण्डवसूत्रधारकम् ॥ 5.21॥
बुभुत्सया मत्सरवर्जितान् जनान् समत्सरान् वा विजिगीषयाऽऽगतान् ।
श्रुतप्रवीणानतितार्किकान् मुहुर्भङ्ग्याऽनया भङ्गमुपानिनाय सः ॥ 5.22॥
कदाचिदेनं प्रतिगम्य सौम्यधीः स मध्यगेहार्यवरः प्रसेदिवान् ।
हेतोः कुतश्चिद्विमनीकृतोऽप्यहो गुणाब्धिलुब्धः सुजनः प्रसीदति ॥ 5.23॥
तेजोऽमृतं नन्दनगात्रपात्रगं नेत्राञ्जलिभ्यामपिबत् सदाऽव्ययम् ।
विद्यासुधां चास्य वचोमहाघटे पूर्णामसौ कर्णपुटेन पण्डितः ॥ 5.24॥
लीलाविवादे गुरुणा जगद्गुरोः प्रसङ्गतस्तत्र च तादृशे सति ।
सूत्रार्थविच्चेत् कुरुभाष्यमञ्जसेत्याक्षेपपूर्वं गुरुरभ्यधादिमम् ॥ 5.25॥
विधानमात्रं तदुपाददे तदा पयो यथाच्छं परमः स हंसराट् ।
तल्लीनमाक्षेपमुपैक्षताफलं वारीव सन्तो हि गुणांशतोषिणः ॥ 5.26॥
वैराग्यवैयात्यसुवाक्त्वपूर्वकैर्युक्तो गुणैः पारमहंस्यभूषणैः ।
ज्येष्ठो यतिर्यो लिकुचान्वयोद्भवस्तं भूरिभक्तिः स कदाचिदब्रवीत् ॥ 5.27॥
विरोधि वेदान्तकृतान्तसम्पदां भाष्यादिकं चेदिदमस्तु का क्षतिः ।
अस्मभ्यमाचक्ष्व विचक्षणोचितं भावं तु सूत्रोपनिषद्विवक्षितम् ॥ 5.28॥
इत्यस्य वाचा शरदेव भासिता यदाऽखिलाशा शुभपूर्णया बभौ ।
प्रमोदतीर्थाननचन्द्रचन्द्रिका व्याख्याभिधा विष्णुपदप्रकाशिनी ॥ 5.29॥
जेष्यन् कदाचित् किल कालपालितां दिशं प्रयातोऽच्युतबुद्धिना सह ।
समग्रधीर्मण्डितविष्णुमङ्गलं विष्णुं जगन्मङ्गलमाननाम सः ॥ 5.30॥
भिक्षाप्रदात्राऽत्र परीक्षितुं मुहुर्दत्ते प्रभुक्ते कदलीफलोच्चये ।
अनेन निर्यत्नमवार्यविस्मयस्तमार्यवर्यं विजनेऽवदद् गुरुः ॥ 5.31॥
भिक्षावसाने द्विशताधिकैः फलैर्व्यूड्हैः प्रभुक्तैः परिपूरितेऽपि ते ।
तनूदरे नास्ति गरिष्ठता कथं सुचित्त सत्यं वदताद्भवानिति ॥ 5.32॥
अङ्गुष्ठमात्रं जठरे प्रतिष्ठितं जाज्वल्यमानं मम जातवेदसम् ।
नित्यं हितं विश्वदहं च वित्त तं विश्वेशचेता इति सोऽब्रवीत् तदा ॥ 5.33॥
पर्याकुलानेकसरस्वतीततीन् न्यायोपपन्नान् विविधार्थसंयुतान् ।
अतीत्य देशान् समयांश्च चारुधीरसौ जगामाभिमतेन वर्त्मना ॥ 5.34॥
स्वहेलया पातितपार्थिवव्रजां धीशुद्धिदां केरलभूषणायिताम् ।
पयस्विनीं प्रेक्ष्य पथि द्विजार्चितां स भाविनीमस्मरदत्र चण्डिकाम् ॥ 5.35॥
ततः क्रमेण प्रचलन्नुपेयिवानवन्दतेन्दीवरसुन्दरच्छविम् ।
अम्भोजनाभं स भुजङ्गशायिनं श्रीवल्लभं श्रीमदनन्तसत्पुरे ॥ 5.36॥
वेदान्तसूत्राणि कृतान्तवित्तमो व्याख्यादसौ शिष्यगणाय संसदि ।
विलक्षणं जीवगणाद् गुणार्णवं ब्रह्माच्युताख्यं प्रतिपादयन् मुहुः ॥ 5.37॥
अप्रांशुनूत्नोपपदाधिवासजः स सङ्करो वैरपरायणः पुनः ।
असूययोचेऽत्र महानतिक्रमः सूत्रार्थवादोऽकृतभाष्यकेष्विति ॥ 5.38॥
वदोत्तरं भाति यदीह कुर्महे भाष्यं कृतिर्नास्य हि दण्डवारिता ।
जगद्गुरूणामिति तां गुरोर्गिरं जनः समस्तोऽभिननन्द सस्मिताम् ॥ 5.39॥
प्राज्ञैर्महापूरुषसर्वलक्षणैः सम्पन्नदेहोऽयमितीरिते प्रभौ ।
परे परस्याप्यतिपीनतादृशः स्फिङ्मात्रसंशंसनमत्र चक्रिरे ॥ 5.40॥
स्फिग्दूषणानि प्रतिपादयत्यलं सम्पूर्णसङ्ख्येऽस्य तु लक्ष्मशास्त्रतः ।
तद्दण्डसङ्खण्डनसंश्रवं व्यधात् तदक्षमोऽसौ प्रकृतिर्हि साऽसताम् ॥ 5.41॥
स्नात्वाऽत्र तीर्थेष्वचिरेण कन्यकातीर्थे सुतीर्थे सुखतीर्थ आप्लुतः ।
समुद्रसेतौ च निमज्य विष्णवे श्रीरामनाथाय नमश्चकार सः ॥ 5.42॥
तमाव्रजन्तं यतिवेषमासुरं {यतिवेषधारिणं} दण्डं प्रकाश्यैष हसन्नभाषत ।
खण्ड्येत दण्डो यदि चण्ड न त्वया त्वं षण्ड्हकोऽपण्डित वन्ध्यवागिति ॥ 5.43॥
लज्जानतः स्वार्थमथार्थयन्नसन्नुपैक्षतासौ द्विजनायकैस्तदा ।
आनन्दयन्तं वदनेन्दुना जगत् तं द्वेष्टि कः प्राज्ञमिहेति वादिभिः ॥ 5.44॥
या याः प्रसक्ताः परिषत्सु पूरुषैर्विद्याविदग्धैर्विविधैः समागमे ।
स तासु तासु प्रतिभाति भासुरो विद्यासु विद्याधिपतिर्जिगाय तान् ॥ 5.45॥
अचाल्यमानः स गुरुः स चापलैरसज्जनानामबलीयसामिह ।
उवास मासांश्चतुरो महामनाः सिंहो गुहान्तोपगतः शुनामिव ॥ 5.46॥
शृङ्गारसिन्धुं स भुजङ्गशायिनं श्रीरङ्गवासं कृतमङ्गलं सताम् ।
अमन्दधीर्देवमवन्दतागतः कवेरकन्याहिमवायुसेवितम् ॥ 5.47॥
ततो निवृत्तः परमेव पूरुषं प्रणम्य नानायतनेषु सञ्चरन् ।
प्रकाशयन् स्वातिशयानमानुषानाशामुदीचीं प्रययावसौ क्रमात् ॥ 5.48॥
ततस्ततो विस्मितलोचनैर्नरैर्निरीक्ष्यमाणोऽतिसुलक्षणाकृतिः ।
ग्रामोत्तमान् प्राप्य पयस्विनीतटे विवेश देवायतनं स किञ्चन ॥ 5.49॥
अधीत्य धर्मेण षडङ्गमागमं तदर्थसंवर्णननिर्णयान्विताः ।
प्रापुर्द्विजेन्द्रास्तमपूर्वपूरुषं जिज्ञासवः सुप्रथितं जगत्तरये ॥ 5.50॥
सुस्मितेन्दुमरविन्दलोचनं स्वर्णवर्णमतिभद्रभाषणम् ।
वीतभूषमपि विश्वभूषणं तं दिदृक्षुरलमापतज्जनः ॥ 5.51॥
विद्योरुद्युतिधीरतारकतिरस्कारे पतङ्गायितो
दुर्वादीभकुतर्ककुम्भदलने सिंहप्रबर्हायितः ।
लोलालोककलोकदृक्कुमुदिनीसंह्लादनेऽब्जायितः
संसन्मण्डलमण्डनायितवपुः स्वानन्दतीर्थो बभौ ॥ 5.52॥
इति श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत
नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये
महाकाव्ये आनन्दाङ्के पञ्चमः सर्गः