सुमध्वविजयः/चतुर्थः सर्गः
← तृतीयः सर्गः | सुमध्वविजयः चतुर्थः सर्गः [[लेखकः :|]] |
पञ्चमः सर्गः → |
चतुर्थः सर्गः
अथैष सल्लोकदयासुधार्द्रया सदागमस्तेन निरासकामया ।
रमावरावासभुवा विशारदो विशालयाऽचिन्तयदात्मनो धिया ॥ 4.1॥
अनन्यसङ्गाद् गुणसङ्गिता हरेर्जनस्य मानं तु विशिष्टचेष्टितम् ।
असङ्गमस्मात् प्रकटीकरोम्यहं निजं भजन् पारमहंस्यमाश्रमम् ॥ 4.2॥
मम प्रभोर्नापरथा हि शोभते द्विषत्सु विष्णुं यददण्डधारणम् ।
हरिस्वसा नन्वचिरादसद्भिदे भवेदतो नास्मि च दण्डधारकः ॥ 4.3॥
विचिन्तयन्नित्थमनन्तचिन्तकः समस्तसन्यासनिबद्धनिश्चयः ।
असावनुज्ञार्थमथानमद्धरिं समस्तसंव्यापिनमात्मदायगम् ॥ 4.4॥
निजे जने किं नमसीति पृच्छति ब्रुवन् स्ववस्तुप्रणतिं व्यधामिति ।
गुरोः किलान्वेषणवान् जगद्गुरुस्तदा जगामाखिललोकशिक्षकः ॥ 4.5॥
यतिर्यतात्मा भुवि कश्चनाभवद्विभूषणो भूरिविरक्तिभूषणः ।
न नाममात्राच्छुचिमर्थतोऽपि यं जनोऽच्युतप्रेक्षमुदाहरत् स्फुटम् ॥ 4.6॥
पुरैष कृष्णाकरसिद्धशुद्धिमद्वरान्नभुक्त्या किल पाण्डवालये ।
विशोधितात्मा मधुकृत्प्रवृत्तिमांश्चचार कांश्चित् परिवत्सरान् मुदा ॥ 4.7॥
अभूत्कुशास्त्राभ्यसनं न पातकं क्रमागताद्विप्रतिसारतो यतेः ।
यथा कुशस्त्राध्यसनं मुरद्विषः पदाम्बुजे व्याधवरस्य गर्हितम् ॥ 4.8॥
विनीतमाम्नायशिरोविशारदं सदैव तत्तवं प्रबुभुत्सुमादरात् ।
गुरुर्विदित्वोपगतां निजां मृतिं कदाचिदूचे तमुपह्वरे गिरम् ॥ 4.9॥
अहं स्वयं ब्रह्म न किञ्चिदस्ति मत्परं विजृम्भेत यदा स्फुटं चितिः ।
इतीह मायासमयोपपादितं निरन्वयं सुव्रत मा स्म विश्वसीः ॥ 4.10॥
यदेतदात्मैक्यमुपास्तिचोदितं न मे गुरोरप्यपरोक्षतां गतम् ।
पुरातनानामपि सौम्य कुत्रचित् ततो मुकुन्दं भज संविदे मुदा ॥ 4.11॥
इतीदमादिश्य वचो वचस्विनि स्वके गुरौ लोकमथान्यमीयुषि ।
असेवतालोच्य मुहुर्गुरोर्गिरं स रूप्यपीठालयमिन्दिरावरम् ॥ 4.12॥
सुभक्तिना तेन स भक्तवत्सलो निषेवितस्तत्र परं बुभुत्सुना ।
भविष्यतः शिष्यवराद्धि विद्धि मामिति प्रविष्टः पुरुषं तमभ्यधात् ॥ 4.13॥
प्रतीक्षमाणं तमनुग्रहं मुदा निषेवमाणं पुनरम्बुजेक्षणम् ।
सतां गुरुः कारणमानुषाकृतिर्यतिं प्रशान्तं तमुपाससाद सः ॥ 4.14॥
सुतं यतीन्द्रानुचरं विरागिणं निशम्य सङ्न्यासनिबद्धमानसम् ।
सुवत्सलौ रूप्यतलालयस्थितं वियोगतान्तौ पितरौ समीयतुः ॥ 4.15॥
वराश्रमस्ते जरतोरनाथयोर्न जीवतोः स्यादयि नन्दनावयोः ।
सयाचनं वाक्यमुदीर्य ताविदं परीत्य पुत्राय नतिं वितेनतुः ॥ 4.16॥
नतिर्न शुश्रूषुजनाय शस्यते नतं भवद्भ्यां स्फुटमत्र साम्प्रतम् ।
अहो विधात्रा स्वयमेव दापिता तदभ्यनुज्ञेति जगाद स प्रभुः ॥ 4.17॥
अनुत्तरज्ञः स तमर्थयन् पुनः यतीन्द्रमानम्य गतः प्रियायुतः ।
गृहे वसन् कल्पसमान् क्षणान्नयन् सुताननेन्दोरनिशं ततोऽस्मरत् । 18॥
स चिन्तयन् पुत्रमनोरथं शुचा पुनश्च तीर्थ्वोपगतो महानदीम् ।
व्रतीश्वरानुव्रतमात्मनन्दनं तमैक्षत ग्रामवरे मठान्तरे ॥ 4.19॥
सञ्जातकोपाकुलितो धरासुरो महात्मनां लङ्घनभीरुरप्यलम् ।
सुतस्य कौपीनधृतौ हि साहसप्रतिश्रवो मे दृड्ह इत्यभाषत ॥ 4.20॥
क्षणेन कौपीनधरो निजं पटं विदार्य हे तात कुरुष्व साहसम् ।
इतीममुक्त्वा विभुरब्रवीत् पुनः शुभान्तरायं न भवांश्चरेदिति ॥ 4.21॥
न पुत्र पित्रोरवनं विना शुभं वदन्ति सन्तो ननु तौ सुतौ मृतौ ।
निवर्तमाने न हि पालकोऽस्ति नौ त्वयीति वक्तारममुं सुतोऽब्रवीत् ॥ 4.22॥
यदा विरक्तः पुरुषः प्रजायते तदैव सन्यासविधिः श्रुतौ श्रुतः ।
न सङ्गहीनोऽपि परिव्रजामि वामहं तु शुश्रूषुमकल्पयन्निति ॥ 4.23॥
बहुश्रुतत्वाद्यदि तत्सहे बलान्न सा सवित्री विरहं सहेत ते ।
इति द्विजेनाभिहितेऽनमत् स तं भवाननुज्ञां प्रददात्विति ब्रुवन् ॥ 4.24॥
विचिन्त्य विद्वान् स निरुत्तरीकृतस्तथाऽस्तु माताऽनुवदेद्यदीति तम् ।
उदीर्य कृच्छ्रादुपगम्य मन्दिरं प्रियासकाशे तमुदन्तमब्रवीत् ॥ 4.25॥
निशाचरारेरिव लक्ष्मणः पुरा वृकोदरस्येव सुरेन्द्रनन्दनः ।
गदोऽथ शौरेरिव कर्मकृत् प्रियः सुभक्तिमान् विश्वविदोऽनुजोऽभवत् ॥ 4.26॥
कदाचिदाप्यालयबुद्धिरालयं निवेदयन् पालकमेनमेतयोः ।
दृड्हस्वसंन्यासनिषेधनिश्चयां धवानुमत्येदमुवाच मातरम् ॥ 4.27॥
वराश्रमाप्तिं मम संवदस्व मां कदाचिदप्यम्ब यदीच्छसीक्षितुम् ।
यदन्यथा देशमिमं परित्यजन् न जातु दृष्टेर्विषयो भवामि वः ॥ 4.28॥
इति ब्रुवाणे तनये कदाचिदप्यदर्शनं तस्य मृतेर्निदर्शनम् ।
विचिन्त्य पर्याकुलिता चिकीर्षितं सुतस्य कृच्छ्रान्नयरुणन्न सा शुभा ॥ 4.29॥
अथोपगम्यैष गुरुं जगद्गुरुः प्रसाद्य तं देववरप्रसादितः ।
सदा समस्ताश्रमभाक् सुरेश्वरो विशेषतः खल्वभजद्वराश्रमम् ॥ 4.30॥
क्रियाकलापं सकलं स कालविद्विधानमार्गेण विधाय केवलम् ।
सदा प्रसन्नस्य हरेः प्रसत्तये मुहुः समस्तन्यसनं समभ्यधात् ॥ 4.31॥
अनन्तमात्रान्तमुदाहरन्ति यं त्रिमात्रपूर्वं प्रणवोच्चयं बुधाः ।
तदाऽभवद्भाविचतुर्मुखाकृतिर्जपाधिकारी यतिरस्य सूचितः । 32॥
गुणानुरूपोन्नतिपूर्णबोध इत्यमुष्य नाम द्विजवृन्दवन्दितः ।
उदाहरद् भूरियशा हि केवलं न मन्त्रवर्णः स च मन्त्रवर्णकः ॥ 4.33॥
निरङ्गरागं मुखरागवर्जितं विभूषणं विष्टपभूषणायितम् ।
अमुं धृताषाड्हमवेक्ष्य मेनिरे स्वभावशोभाऽनुपमेति जन्तवः ॥ 4.34॥
भुजङ्गभूतेशविहङ्गपादिकैः प्रवन्दितः सावसरप्रतीक्षणैः ।
ननाम सोऽयं गुरुपूर्वकान् यतीनहो महीयो महतां विडम्बनम् ॥ 4.35॥
वराश्रमाचारविशेषशिक्षणं विधित्सुरस्याचरितं निशामयन् ।
विशेषशिक्षां स्वयमाप्य धीरधीः यतीश्वरो विस्मयमायतान्तरम् ॥ 4.36॥
स रौप्यपीठालयवासिने यदा ननाम नाथाय महामतिर्मुदा ।
तदाऽमुनाऽग्राहि नरप्रवेशिना भुजे भुजेनाशु भुजङ्गशायिना ॥ 4.37॥
चिरात् सुतत्तवं प्रबुभुत्सुना त्वया निषेवणं मे यदकारि तत्फलम् ।
अमुं ददामीत्यभिधाय सोऽमुना तदा प्रणीय प्रददेऽच्युतात्मने ॥ 4.38॥
अनुग्रहं तं प्रतिगृह्य सादरं मुदाऽऽत्मनाऽऽप्तां कृतकृत्यतां स्मरन् ।
अभूदसङ्गोऽपि स तत्सुसङ्गवानसङ्गभूषा ननु साधुसङ्गिता ॥ 4.39॥
यियासति स्वस्तटिनीं मुहुर्मुहुर्नमत्यनुज्ञार्थिनि भूरिचेतसि ।
तमस्मरत् स्वामिनमेव दूनधीर्गुरुर्भविष्यद्विरहाग्निशङ्कया ॥ 4.40॥
इतस्तृतीये दिवसे द्युनिम्नगा त्वदर्थमास्माकतटाकमाव्रजेत् ।
अतो न याया इति तं तदाऽवदत् प्रविश्य कञ्चित् करुणाकरो हरिः ॥ 4.41॥
तदाज्ञयोपागतजाह्नवीजले जनोऽत्र सस्नौ सह पूर्णबुद्धिना ।
ततः परं द्वादशवत्सरान्तरे सदाऽऽव्रजेत् सा तदनुग्रहाङ्किनी ॥ 4.42॥
गते दिनानां दशके समासके वराश्रमं प्राप्य सपत्रलम्बनम् ।
जिगाय जैत्रान् बहुतर्ककर्कशान् स वासुदेवाह्वयपण्डितादिकान् ॥ 4.43॥
गुरोः स्वशिष्यं चतुरं चिकीर्षतः प्रचोदनाच्छ्रोतुमिहोपचक्रमे ।
अथेष्टसिद्धिश्छलजातिवारिधिर्निरादरेणापि महात्मनाऽमुना ॥ 4.44॥
तदाद्यपद्यस्थमवद्यमण्डलं यदाऽवदत् षोडशकद्वयात्मकम् ।
उपर्यपास्तं तदिति ब्रुवत्यसौ गुरौ तमूचे प्रणिगद्यतामिति ॥ 4.45॥
भवत्प्रवक्तृत्वसमर्थता न मे सकोपमित्थं ब्रुवति व्रतीश्वरे ।
अपीह मायासमये पटौ नृणां बभूव तद्दूषणसंशयाङ्कुरः ॥ 4.46॥
बुधोऽभिधानं श्रवणं बुधेतरो ध्रुवं विदध्याद्विमुमुक्षुरात्मनः ।
यतिर्विशेषादिति लोकचोदनात् प्रवक्ति मायासमयं स्म पूर्णधीः ॥ 4.47॥
अखण्डितोपन्यसनं विसंशयं ससम्प्रदायं प्रवचो दृड्होत्तरम् ।
समागमञ्छ्रोतुममुष्य साग्रहा जनाः श्रुताढ्याश्चतुरा बुभूषवः ॥ 4.48॥
गुरोरुपान्ते श्रवणे रतैर्द्विजैः सपञ्चषैर्भागवते कदाचन ।
बहुप्रकारे लिखिते तु वाचिते प्रकारमेकं प्रभुरभ्यधाद् दृड्हम् ॥ 4.49॥
परप्रकारेष्वपि सम्भवत्सु ते विनिर्णयोऽस्मिन् कथमित्युदीरिते ।
मुकुन्दबोधेन महाहृदब्रवीत् प्रकारमेकं भगवत्कृतं स्फुटम् ॥ 4.50॥
निगद्यतां गद्यमिहैव पञ्चमे जगद्गुरोर्वेत्थ कृतिस्थितिं यदि ।
इति ब्रुवाणे यतिसत्तमे स्वयं तदुक्तमार्गेण जगाद भूरिहृत् ॥ 4.51॥
अशेषशिष्यैश्च तदाज्ञया तदा परीक्षणायैक्षि समस्तपुस्तकम् ।
स तत्र हन्तैकतमेस्थितं त्यजन् न तावदध्यायनिकायमभ्यधात् ॥ 4.52॥
अत्र जन्मनि न यत्पठितं ते जैत्र भाति कथमित्यमुनोक्ते ।
पूर्वजन्मसु हि वेद पुरेदं सर्वमित्यमितबुद्धिरुवाच ॥ 4.53॥
इति बहुविधविश्वाश्चर्यचित्तप्रवृत्तेः
जगति विततिमायन्नूतनाऽप्यस्य कीर्तिः
क्षपिततततमस्का भास्करीव प्रभाऽलं
सुजनकुमुदवृन्दानन्ददा चन्द्रिकेव ॥ 4.54॥
इति श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत
नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये
महाकाव्ये आनन्दाङ्के चतुर्थः सर्गः