सुमध्वविजयः/तृतीयः सर्गः
← द्वितीयः सर्गः | सुमध्वविजयः तृतीयः सर्गः [[लेखकः :|]] |
चतुर्थः सर्गः → |
तृतीयः सर्गः
अथ कदाचन सुन्दरनन्दनस्मितमुखेन्दुदृशां दयितौ नृणाम् ।
महमितो निजबन्धुमुदे मुदा प्रययतुः स्वजनैः सह दम्पती ॥ 3.1॥
स्वजनतापगमागमसङ्गमप्रतिसभाजितपूर्वकसम्भ्रमे ।
अविदुषी जननीति स बालकः शरणतो रणतो निरगान्नृभिः ॥ 3.2॥
क्व नु यियाससि तात न साम्प्रतं स्वजनसन्त्यजनं तव साम्प्रतम् ।
इति विभुः पथिकैरुदितो व्रजन् स्मितमनाकुलमुत्तरमातनोत् ॥ 3.3॥
त्वरितमेत्य स काननदेवतासदनमत्र ननाम रमापतिम् ।
अपि ततः प्रगतो लघुनारिकेल्युपपदान्तरसद्मगतं च तम् ॥ 3.4॥
नलिननाभनिभालनसन्मदागमविकस्वरभास्वरलोचनः ।
जनमनोनयनाम्बुजभास्करो रजतपीठपुरं प्रययावसौ ॥ 3.5॥
सुहयमेधगणातिशयालवो हरिनमस्कृतयः सुकृता इमाः ।
इति सुरैरपि भूसुरमण्डलैः समनमत् स सविस्मयमीक्षितः ॥ 3.6॥
न हि हरिं सततं न नमत्यसौ न च न पश्यति नापि न वन्दते ।
अपि तथेति विधाय विशेषतः स ननु साधुजनान् समशिक्षयत् ॥ 3.7॥
अनवलोक्य सुतं सुतवत्सलो मृगयति स्म महीसुरपुङ्गवः ।
मुहुरपृच्छदमुष्य गतिं नरान् पथि पथि प्रगतोऽनुपदं द्रुतम् ॥ 3.8॥
जनसदागतिसूचितवर्त्मना प्रतिपदं व्रजता परया तृषा ।
द्विजमहामधुपेन मनोहरं स्मितमलाभि सुताननवारिजम् ॥ 3.9॥
विरहदूनतयोद्गमनोन्मुखं न्यरुणदश्रु पुरा स ययोर्दृशोः ।
अथ तयोः प्रमदोत्थितमप्यदः प्रतिनिरुध्य गिरं गुरुरब्रवीत् ॥ 3.10॥
अयि सुतेदमुदाहर तत्तवतो ननु समागतवानसि साम्प्रतम् ।
स्वजनतारहितस्य तु कोऽत्र ते सहचरोऽर्भक दीर्घतमे पथि ॥ 3.11॥
जनकवाचमिमामवधारयन् कलमुदाहरदम्बुरुहेक्षणः ।
स्वपदमाव्रजतो व्रजतोऽप्यतो ननु सखा मम काननगो विभुः ॥ 3.12॥
तदितरायतनात्तु यदागमं कृतनतिः खलु तत्र हरिः सखा ।
अहमिहापि महेन्द्रदिगालयं प्रणतवानुत यावदधीश्वरम् ॥ 3.13॥
अपि ततोऽहमुपेत्य सहामुना भगवतेऽत्र सते प्रणतिं व्यधाम् ।
इति निगद्य विभाति शिशुः स्म विस्मितसभाजनचीर्णसभाजनः ॥ 3.14॥
विरहितस्वजनं चरणप्रियं विविधभूतभयङ्करवर्त्मनि ।
अयि कृपालय पालय बालकं लघुशुभस्य ममेत्यनमद् द्विजः ॥ 3.15॥
तमुपगृह्य सुतं सुतपोनिधिर्गृहमसौ गृहिणीसहितो ययौ ।
उदयतीति हि बालदिवाकरे स्मितमभूत् सुजनाननवारिजम् ॥ 3.16॥
वरविमानगिरावपि चण्डिका शिशुमहो जननी तमलालयत् ।
अपरथा परितुष्टमनाः कथं चिरमिहैष वसेद्विसहायकः ॥ 3.17॥
सकलशब्दमयी च सरस्वती सततमानमति स्वयमेव यम् ।
द्विजवरोऽथ कदाचन मातृकाः किल सुतं परिचाययति स्म तम् ॥ 3.18॥
लिपिकुलं ननु तात गते दिने लिखितमेव पुनर्लिखितं कुतः ।
इति निजप्रतिभागुणभावितं हरिपदस्य वचस्तमनन्दयत् ॥ 3.19॥
शिशुरसौ प्रतिभाम्बुधिरित्यलं जनमनोवचनग्रहपीडना ।
न भवतादिति तं विजनस्थले स्वतनयं समशिक्षयदेषकः ॥ 3.20॥
महवता स्वजनेन समीरितस्वजननीसहितेन कदाचन ।
रुचिरवाचनयाऽर्चितवाक्श्रिया प्रति यये प्रभुणा घृतवल्यपि ॥ 3.21॥
परिषदा नितरां परिवारितः शिवपदः किल धौतपटोद्भवः ।
इह कथां कथयन् ददृशे ततः पृथुधिया पृथुकाकृतिनाऽमुना ॥ 3.22॥
इदमुवाच विचारविचक्षणः शुचिवचः शनकैः स जनान्तरे ।
अपरथा कथितं कथक त्वया ननु मतात् महतामिति सस्मितम् ॥ 3.23॥
अगणयन्न शिवं जनता तदा सवचने वसुदेवसुताह्वये ।
मुखरमिच्छति को मृगधूर्तकं प्रकृतहुङ्कृतसिम्हशिशौ सति ॥ 3.24॥
अथ कथां {कथं} कथयेति तदा जने गदितवत्युचितार्थमुदाहरत् ।
स समलाल्यत विस्मयिभिर्नरैरपि सुरैर्विजयाङ्कुरपूजकैः ॥ 3.25॥
स जननीसहितो जनकं गृहे प्रगतवांस्तमुदन्तमवेदयत् ।
निगद तात शिवः कथकः स किं वितथगीरथवाऽहमितीरयन् ॥ 3.26॥
ननु सुतावितथं कथितं त्वयेत्यमुमुदीर्य सविस्मयमस्मरत् ।
प्रकृतितः कृतिता खलु मे शिशोर्मदधिनाथदयोदयजेत्यसौ ॥ 3.27॥
कथयतां प्रथमे कथयत्यलं स्वजनके जनसङ्घवृते कथाम् ।
सकललोकमनोनयनोत्सवश्चतुरधीः स कदाचिदवाचयत् ॥ 3.28॥
विविधशाखिपदार्थनिवेदने लिकुचनाम्नि तदाऽनुदितार्थके ।
किमिति तात तदर्थमवर्णयन् कथयसीति शनैरयमब्रवीत् ॥ 3.29॥
अवदतीति पितर्यपि चोदिते प्रतिबुभुत्सुषु तत्र जनेष्वपि ॥
अयमुदीर्य तदर्थमवाप्तवान् परिषदो ह्यसमानसुमाननाम् ॥ 3.30॥
बहुविधैश्चरितैरिति चारुभिः सकललोककुतूहलकारिणम् ।
द्विजवरेण वयस्युचिते स्थितं तमुपनेतुमनेन दधे मनः ॥ 3.31॥
समुचितग्रहयोगगुणान्वितं समवधार्य मुहूर्तमदूषणम् ।
प्रणयबन्धुरबान्धववानसौ द्विजकुलाकुलमुत्सवमातनोत् ॥ 3.32॥
विविधवेदतया विजिहीर्षवो वदनरङ्गपदेऽस्य चिराय याः ।
सुरवरप्रमदा अपि सप्रिया अभिननन्दुरहो वियतो महम् ॥ 3.33॥
विहितसाधनसाधितसत्क्रियोज्जवलनमुज्जवलधीर्ज्वलयन्नयम् ।
उपनिनाय सुतं समलङ्कृतं कुशलिनं कुशलीकृतशीर्षकम् ॥ 3.34॥
परिचराग्निगुरू चरितव्रतः सुचरणः पठ साधु सदागमान् ।
इति गुरोस्त्रिजगद्गुरुशिक्षणे स्फुटमहासि सुरैः कृतसाक्षिभिः ॥ 3.35॥
जितकुमारगुणं सुकुमारकं निजकुमारमवेक्ष्य निरन्तरम् ।
समुचिताचरणे चतुरं स्वतः क्षितिसुरो मुदमायत शिक्षयन् ॥ 3.36॥
स पटखण्डमकिञ्चनवत् क्वचित् स्वविभवानुचितं चरणादिकम् ।
भुवनभर्तुरहो स्वनिगूहनं सुरसभासु कुतूहलमातनोत् ॥ 3.37॥
अविरलैर्गरलोष्मभिराकुलीकृतसमस्तजनो विचचार यः ।
क्वचिदमुं निजघाङ्सुरशान्तिमानुपससर्प स सर्पमयोऽसुरः ॥ 3.38॥
त्वरितमुद्यतविस्तृतमस्तकः प्रतिददंश यदैनमविक्षतम् ।
प्रभुपदारुणचारुतराङ्गुलीविहृतिपिष्टतनुः प्रतताम सः ॥ 3.39॥
गरुडतुण्डमिव प्रतिपन्नवान् द्विजकुमारपदं स ममार च ।
समुचितं चरितं महतामिदं सुमनसो मनसेष्टमपूजयन् ॥ 3.40॥
गिरिशगुर्वमरेन्द्रमुखैश्च यच्चरणरेणुरधारि सुराधिपैः ।
क्षितिसुराङ्घ्र्यभिवन्दनपूर्वकं स विदधेऽध्ययनं छलमानुषः ॥ 3.41॥
करतले खलु कन्दुकवत् सदा सकलया कलया सह विद्यया ।
अरिधरेण समं स्फुरितं गुरोर्मनसि तस्य विडम्बयतो जनान् ॥ 3.42॥
अनधिकैरधिकैश्च वयस्यथो बहुभिरध्ययनोपरमान्तरे ।
अनिकटे वटुभिः पटुभिर्गुरोः स विजहार सुखी सखिभिः समम् ॥ 3.43॥
पदमुदीर्य जवेन यियासितं द्रुतसखेष्वभवत् स पुरःसरः ।
अयमयत्नतयेति न विस्मयो ननु मनोजवजित् पवनो ह्यसौ ॥ 3.44॥
प्लवनतेजसि हन्त न केवलं विजितवान् स तदा सकलान् जनान् ।
प्रभुनिदेशकरो हनुमत्तनौ ननु जिगाय स वालिसुतादिकान् ॥ 3.45॥
जलविहारपराजयिभिः स्पृधा सखिभिरीरितवारिपरिश्रितम् ।
वदनमाकुललोचनमादधे स्मितममुष्य हि कञ्चन विभ्रमम् ॥ 3.46॥
स शनकैर्बलिनो युगपद्गतान् प्रविहृतेषु सखीन् निरपातयत् ।
अशनकैर्युगपत् प्रकृताहवान् सहसितो द्विजसूनुरयत्नवान् ॥ 3.47॥
ग्रहणनिग्रहणे ग्रहणे दृड्हे गुरुभरोद्धरणादिविधौ पटौ ।
इह विभावुपचारधिया नृणामृतमयं ननु भीम इतीरितम् ॥ 3.48॥
विहरतीति पठत्यपि न स्फुटं स्वगृहगामिनि चाद्रुतमायति ।
परितुतोष न तत्र जगद्गुरौ स किल पूगवनान्वयजो द्विजः ॥ 3.49॥
अथ कदाचन सोऽध्ययनान्तरे तमवदत् कुपितोऽन्यमनस्विनम् ।
पठसि नो शठ ते सखिभिः समं किमिति नित्यमुदासितधीरिति ॥ 3.50॥
गुणनिका चरणादिकगोचरा न मम हृद्दयितेत्युदितेऽमुना ।
वद विशारदवाद यथेप्सितं त्वमुपरीत्यवदद्धरणीसुरः ॥ 3.51॥
सकललक्षणशिक्षणमूलभूः श्रुतिसमामननं स्खलनोज्ह्ज्हितम् ।
न खलु केवलमस्य गुरोर्व्यधात् सुमनसामपि तत्र कुतूहलम् ॥ 3.52॥
प्रियवयस्यशिरोगुरुवेदनामशमयत् सहजामपि दुःसहाम् ।
स विपिने विजने मुखवायुना श्रवणगोचरितेन कदाचन ॥ 3.53॥
अधिगतोपनिषच्च सकृच्छ्रुता प्रकटभागवतीति न विस्मयः ।
अधिगता ननु जात्वपि न श्रुताः प्रतिभया श्रुतयः शतशोऽमुना ॥ 3.54॥
साक्षादथोपनिषदो विभुरैत्तरेय्याः
पाठच्छलेन विजनेऽर्थरसान् ब्रुवाणः ।
अध्यापकाय विततार विमोक्षबीजं
गोविन्दभक्तिमुचितां गुरुदक्षिणां सः ॥ 3.55॥
अयि स्वामिन् दुष्टान् दमय दमय व्यक्तमचिरात्
गुणान् गूड्हान् विष्णोः कथय कथय स्वान् प्रमदयन् ।
तदाऽनन्दं तन्वन्निति सुमनसां सोऽनुसरता
मनुज्ञामादत्त त्रिभुवनगुरुर्ब्राह्मणगुरोः ॥ 3.56॥
इति श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत
नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये
महाकाव्ये आनन्दाङ्के तृतीयः सर्गः