४२८ अमरकोषः । योग्यभाजनयोः पात्रम् पाति । पायते वा । पीयतेऽनेन वा 'पा रक्षणे' (अ० प० अ०)। ‘पा पाने' (भ्वा०प० अ०) वा । ट्रन् ( उ० ४। १५९)। ‘पात्रं तु भाजने योग्ये पात्रं तीरद्वयान्तरे । पात्रं घुवाद पर्णे च राजमन्त्रिणि चेष्यते' इति विश्वः ॥ पत्रं वाहनपक्षयोः । पतन्त्यनेन । ‘दानी—’ (३।२।१८२) इति न् । 'पत्रं तु वाहने पर्ने पक्षे च शरपक्षिणोः' इति विश्वः ॥ निदेशग्रन्थयोः शास्त्रम् निदेश आज्ञा । शासनम् । निष्यते अनेन, इति वा । ‘स- धातुभ्यः ट्रन्' ( उ० ४।१५९) ॥ शस्त्रमायुधलोहयोः ॥१७९॥ शस्यतेऽनेन । 'शसु हिंसायाम् (भ्वा०प० से ० ) । दानी -' (३|२|१८२) इति ट्रन् । 'शस्त्रं लोहास्त्रयोः क्लीबं कियां तु योषिति' ( इति मेदिनी ) ॥ जटांशुकयोत्रम् नयति नीयते । अनेन वा । ‘णीज् प्रापणे' (भ्वा० उ० अ०) । 'दानी -' (३।२।१८२) इति ट्रन् । 'नेत्रं (मथिगुणे बस्त्रे तरुमूले विलोचने । नेत्रं रथे च नाड्यां च नेत्रो) नेतरि मेद्यवत्’ इति विश्वः। ‘नेत्रं मथिगुणे वस्त्रभेदे मूले द्रुमस्य च । रथे चक्षुषि नद्यां च नेत्री नाड्यां च योषिति' ( इति मेदिनी ) ॥ क्षेत्रं पत्नीशरीरयोः | क्षयति । क्षीयते । अनेन वा । 'क्षिक्षये' (भ्वा०प० अ०)। ‘क्षि निवासगत्योः (तु०प० अ० ) वा । हून् ( उ० ४।१५९ ) । 'क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयो: ' ( इति नेदिनी) ॥ मुखाग्रे कोडहलयोः पोत्रम् पूयतेऽनेन । 'पूज् पवने' (क्या० उ० से ० ) । 'हलसूक- प्योः पुवः’ (३।२।१८३) इति ट्रन् । 'पौत्रं वस्त्रे मुखाग्रे च पूकरस्य हलस्य च' इति विश्वः ॥ गोत्रं च नाम्नि च ॥ १८० ॥ गूयतेऽनेन । 'गु शब्दे' (भ्वा० आ० अ० ) | ट्रन् (उ० ४२१५९)। गां त्रायते वा । 'नैङ्' (भ्वा० आ० अ०) । आतोऽनुप-' (३|२|३) इति कः । 'गोत्रा भूगव्ययोर्गोत्रः बैले गोत्रं कुलाख्ययोः । संभावनीयबोधे च काननक्षेत्रवर्त्मसु' ( इति मेदिनी) ॥ [ तृतीयं काण्डम् अजिरं विषये कायेऽपि अजन्त्यत्र । अनेन वा । 'अज गतौ ' ( भ्वा०प० से ० ) । 'अजिरशिशिर - ' ( उ० ११५३) इति साधुः । 'अजिरं प्रा- ङ्गणे वाते विषये दुर्दुरे तनौ । (स्त्री चण्ड्याम् ) ' (इति मेदिनी) अम्बरं व्योनि वाससि ॥ १८१ ॥ सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च । सीदन्त्यत्र । अनेन वा 'बट्ट विशरणादो' ( स्वा०प० अ०) । ट्रन् (उ० ४।१५९) । 'सनं यज्ञे सदादानच्छादना- (ण्यकैतवे’ (इति मेदिनी) ॥ अम्बते | अम्ब्यते वा । 'अवि शब्दे' (भ्वा० आ० से ० ) । बाहुलकादरः । 'अम्बरं वाससि व्योम्नि कार्पासे च सुगन्धके’ इति विश्वः ॥ चक्रं राष्ट्रेऽपि क्रीयतेऽनेन । 'घनर्थे कः' (वा० ३१३१५८) 'केकृञादी- नाम्' (वा० ६।१।१२) इति द्वित्वम् । 'चक्रः कोके_पुमान् क्लीबं व्रजे सैन्यरथाङ्गयोः । राष्ट्रे दम्भान्तरे कुम्भकारोपकर- णास्त्रयोः | जलावर्तेऽपि’ (इति मेदिनी) ॥ अक्षरं तु मोक्षेsपि न क्षरति । 'क्षर संचलने' (भ्वा०प० से ० ) | ‘पचायच्' (३।१।१३४) । यद्वा अश्नुते । 'अशु व्याप्तौ ' ( स्वा० आ० से ० ) । 'अशेः सर: ' ( उ० ३१७० ) । 'मोक्षेऽपवर्गे ओब्रह्मण्य- च्युतेऽक्षरम्' इत्यनेकार्थकोषः ॥ क्षीरमसु च । घस्यते । 'घस्ऌ अदने' (भ्वा०प०अ० ) । 'घसेः किच' ( उ० ४१३४) इतीरन् । 'गमन - ' (६१४१९८) इत्यल्लोपः । ('शासिवसि - ), (८|३|६०) इति (षत्वम्) । 'क्षीरं दुग्धे जले' ( इति मेदिनी) ॥ स्वर्णेऽपि भूरिचन्द्रौ द्वौ भवति । भूयते वा । 'भू सत्तायाम्' ( भ्वा० प० से ० ) । ‘भू प्राप्तौ' ( चु० आ० से ० ) । 'अदिशदि - ' (ऊ० ४४६५) इति किन् । 'भूरिन वासुदेवे च हरे च परमेष्ठिनि । नपुं- सकं सुवर्णे च प्राज्ये स्याद्व च्य लिङ्गक : ' ( इति मेदिनी) ॥ चन्दति । 'चदि आह्लादने ( भ्वा० प० से ० ) । 'स्फा- यितचि - ' ( उ० २|१३) इति रक् । 'चन्द्रः कर्पूरकाम्पि लसुधांशुखर्णचारुषु' (इति मेदिनी ) ॥ द्वारमात्रे तु गोपुरम् ॥ १८२ ॥ पुरति । 'पुर अग्रगमने' ( तु०प० से ० ) । 'इगुपध- ' (३|१|१३५) इति कः । गवां पुरम् । 'गोपुरं द्वारि पूरि कैवर्तीमुस्तकेऽपि च ' (इति मेदिनी) ॥ गुहादम्भौ गहरे द्वे गाह्यते । ‘गाहू विलोडने' ( भ्वा० आ० से ० ) । 'छिश्वर- च्छत्वर' (उ० ३१) इति साधुः । 'गह्वरस्तु गुहादम्भनि- कुजगहनेष्वपि' इति विश्वः ॥ रहोऽन्तिकमुपहरे । उपह्वरन्ल्यत्र । ‘डृ कौटिल्ये’ (भ्वा० प० अ०)। ‘पुंसि—'
पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४३७
दिखावट