सामग्री पर जाएँ

पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
362
[अरण्यकाण्ड:
सीतानू पुरादिश

[१] चरणान्नूपुरं भ्रष्टं वैदेद्या रत्नभूषितम् ।
विद्युन्मण्डलसङ्काशं पपात [२] मधुरखनम् ।। ३१ ।।
तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा ।
जहाराकाश माविश्य सीतां वैश्रवणानुजः ॥ ३२ ॥
तस्याः तान्यग्निवर्णानि [३] भूषणानि महीतले ।
सघोषाण्य [४] वकीर्यन्त क्षीण|स्तारा इवाम्बरात् ॥ ३३ ॥

 क्षीणा:-क्षीणपुण्याः ताराः -तारारूपावस्थिताः, पुण्यकृत इत्यर्थः ॥ ३३ ॥

तस्याः स्तनान्तरात् भ्रष्टः हारः ताराधिपद्युतिः ।
वैदेह्या नितन्भाति -- [५] भाति गङ्गेव गगनाच्चयुता ॥ ३४ ॥


  1. चरणात् - बामचरणात्- गो. एकवचनदर्शनाव, रावणेन वामहस्तेन केशेषु ग्रहणात्, ऋश्यमूकपर्वतोपरि सुग्रीवादिभ्यः प्रक्षिप्तभूषणेषु नूपुरान्तरदर्शनाच-वामचरणात्- इत्युतमिति - भाति । परन्तु ' नूपुरे त्वमिजानामि' (किष्कि-6-22) इति द्विवचनदर्शनात् सुप्रीवेण नूरइयमेव प्रदर्शितमिति गम्यते । अत्रेदं विमर्शनीयम् - अत्र प्रतिपादितानां पुष्पवृष्टिन् रअंशादीनां क्रियाणां देशतः कालतश्च अत्यन्ता व्यवहितत्वं न विवक्षितम्। आहल रावणेन आकाशमार्गत: सीताया अपहरणकाले जाताना संभवानां वर्णना कोडी कृत्वात्राकारि । अतब पुष्पवृष्टमादि: वृक्षादिकं परिष्वजन्स्या: सीतायाः राबणेन घर्षणकालिकः । तदानीं च भूषणानां लेशा अधि अंशतश्च्युता इति उत्तर (64-39) श्लोकादवगम्यते । अथवा रामेण दृष्टा पुष्पवृष्टिः, अशोच्यमाना च विभिश्चैव स्यात् । परन्तु नूपुरादिभ्रंशः प्राय: पंपासरस्समीपगमनका एव स्यात् । अत एवात्र रामेण तेषामनुपलंभः सुप्रीवेणोपलंभ |
    भूषणादीनां मोक्षणकथनावसरे स य पंपामतिक्रम्य (54-5) इति दर्शनाव, तत्र तत्र भ्रष्टं आभरणं पंपोपवनसारिभिः सुप्रीवादिभि: संगृहीतमिति गम्यते । अतः न पूर्वापरश्वोकानां विरोषः ॥
  2. भरभी तले-अ.
  3. भूषणानि - उपात्तनू पुरादिभिशानि-गो. परन्तु ३१
    श्लोक टिप्पण्यमुसारेण इदं सामान्य वर्णनरूपमिति युतम् ।
  4. मशीर्षन्त-ज.
  5. भाति स्म-गो.वर्णनीयमयीभावाडा कट्