सामग्री पर जाएँ

पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५० सर्ग: ]
345
शाला तं पास युद्धेऽभूत् कृतनिश्चयः

पष्टिर्वर्षसहस्राणि मम जातस्य, रावण ॥ १९ ॥
पितृपैतामहं राज्यं यथावदनुतिष्ठतः ।

 राज्यमिति । पक्षिगणाधिपत्यमित्यर्थः ।। १९ ।।

वृद्धोऽहं त्वं युवा धन्वी सशरः कवची रथी ॥ २० ॥
तथाऽप्यादाय वैदेहीं कुशली न गमिष्यसि ।
न शक्तः त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः ॥ २१ ॥
[१] हेतुभिः न्यायसंसिद्धैः ध्रुवां वेदश्रुतीमिव ।

 मम पश्यतः इत्यनादरे षष्ठी । हेतुमिरित्यादि । न्यायसंसिद्धैः- पूर्वापरमीमांसासूत्रसम्यक्समर्थितैः हेतुभिः -- खवाक्य-श्रुतोपपत्तिभिः ध्रुवां- प्रतिष्ठितघर्मब्रह्मलक्षणार्थी वेदश्रुनी छान्दसो दीर्घः, उक्तधर्मब्रह्मतत्त्ववेदनसाधनमुतां श्रुतिं त्रयीं असुर इव हर्तु न शक्तोऽसीति योजना ॥ २१ ॥

[२] युद्धचव यदि शूरोऽसि मुहूर्त तिष्ठ, रावण ! ।। २२ ।।
शयिष्यसे हतो भूमौ यथा पूर्व खरस्तथा ।

 शयिष्यस इति शीढः सेटूत्वात् ॥ २२ ॥


  1. न्यायसंयुक्तैः–वैशेषिकायुक्त तर्कामामयुक्त हेतुभिः - हेत्वाभासैः ध्रुवां-
    सनातनीं धर्मब्रह्मपरां वेदश्रुतिम् - तच्छास्त्राध्येता यथा पूर्वापरमीमांमान्यायविदोऽग्रे
    हर्तु-- अन्यथाकर्तुं न शक्नोति, तद्वदित्यर्थ:-नि. न्यायसंसिद्धैः -- न्यायशः का मंसिद्धैः
    हेतुभिः – अनुमानैः ध्रुवां – निश्वास्यां, अविचास्यप्रामाण्यामिति यावत, वेदश्रुतीमित्र-
    वेदयतीति वेदः, स्वतः प्रमाणभूतां श्रुतिमित्यर्थः । यथा वेदविदग्रेसरे पश्यति सति
    हेतुकै: न्यायसिद्धैर्हेतुभिः श्रुतिः अन्यथा – अन्यपरा नेतुं न शक्यते, तद्वदिति
    भाव:- गो. तर्क: किल सर्वत्राप्यनुकूल: सुलभ एव–इत्याशय: ।
  2. पूर्व रामेण खर युध्यस्व । अथवा रामागमनपर्यन्तं मुहूर्त तिष्ठ, तेन हृतः शयिष्यसे इति - गो.बृद्धस्य जटायुष: स्वाशक्ति, कालस्यानतिक्रमणीयर्ता च पश्यतः डोलायमान मनस्स्वात् विचित्रा वाक्प्रवृत्तिरिति भाति । अनन्तरसगंस्य २९ तम लोकोऽप्यन्त्र द्रष्टव्यः ॥