पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

346 जटायुरभियोगः [अरण्यकाण: असकृत् संयुगे येन निहताः 'दैत्यदानवाः || २३ ॥ न चिराचीरवासास्त्वां रामो युधि वधिष्यति । संयुगे, रामेणेति शेषः ॥ २३ ॥ 'किं नु शक्यं मया कर्तुं ? गतौ दूरं नृपात्मजौ ॥ २४ ॥ क्षिप्रं त्वं नश्यसे, नीच ! तयो भतो न संशयः । नश्यसे इति न संशयः इत्यन्वयः ॥ २४ ॥ न हि मे जीवमानस्य नयिष्यसि शुभाभिमाम् ।। २५ ।। सीतां कमलपत्राक्ष रामस्य महिषीं प्रियाम् । जीवमानस्य-जीवतः इति यावत् । नयिष्यसि-नेष्यसीति यावत् ॥ अवश्यं तु मया कार्य प्रियं तस्य महात्मनः ॥ २६ ॥ जीवितेनापि रामस्य तथा दशरथस्य च । तिष्ठतिष्ठ, दशग्रीव ! मुहूर्त पश्य, रावण ! ॥ २७ ॥ युद्धातिथ्यं प्रदास्यामि 'यथाप्राणं, निशाचर ! | वृन्तादिव फलं 'त्वां तु पातयेयं रथोत्तमात् ।। २८ ।। इत्या श्रीमद्रामायणे शरमीकीये अरण्यकाण्डे पक्षाश: सर्ग: यथाप्राणं- यथाबलम् । (चारु)जर (२८) मानः सर्गः ॥ २८ ॥ इति श्रीमद्रामायणामृत कतकटी कार्या अरण्यकाण्डे पश्चाशः सर्गः एवमुक्तेऽपि पलायमानं प्रत्याइ- किं न्विति । किं नु शक्यं - किं वा शक्यम् | नश्यसे- अदर्शनं प्राप्नोषि । तयोः -- ताभ्याम्-गो. रामलक्ष्मणयोः भयात् किल ध्वं परोक्षे सीतां हरसीत्यर्थः । P 'देव--ड, यावत्प्राणं-रु. पकं-