63] —BRHADDEVATA v. 172 तुष्टावाग्निमिति त्वग्निम् आयस्तत्र जुषस्व नः ॥ १६० ॥ प्रामयेऽथ प्र सम्राजो द्वितीयं प्रामये तृचम् । वैश्वानरीयाण्येतानि त्वे हैन्द्राणि पराण्यतः ॥ १६१ ॥ दश पञ्च च सूक्तानि निपातो मरुतां स्तुतिः । नकिः सुदास इत्यस्यां दानं पैजवनस्य तु ॥१६२॥ वसिष्ठेन चतुर्भिस्तु वे ननुरिति कीर्तितम् । संवादं सूक्तमैन्द्रं वा श्वित्यञ्वस्तु प्रचक्षते ॥ १६३ ॥ वसिष्ठागस्त्ययोरच कीर्त्यते तनयैः सह । इन्द्रेण चैव संवादो महिमा जन्म कर्म च ॥ १६४ ॥ पराणि प्रेति चत्वारि वैश्वदेवानि तत्र तु । [ RV. vii. 43 स्तौत्यृगन्जामहिं तत्र मा नोऽहिं बुध्यमेव च ॥ १६५ ॥ Bअहिराहन्ति मेघान्स एति वा तेषु मध्यमः । ३२॥ Bयोऽहिः स बुध्यो बुने हि सोऽन्तरिक्षेऽभिजायते ॥ १६६ ॥ उदु ष्य सवितुः सूक्तं शं नो वाजिनदैवतः । वृचोऽर्धर्चश्च भागोऽच भगमुय इति श्रुतिः ॥ १६७ ॥ पादश्चैव तृतीयोऽच पञ्चम्या महिदैवतः । B यथार्धच भगमुयस् तथा नूनं भगोऽपि च ॥ १६ ॥ Bस हि रत्नानि सविता सुवातीति भगः स वा । वैश्वदेवानि पञ्चोर्ध्वः पञ्चर्चो भगदैवतः ॥ १६९॥ प्रातर्जितमुषस्यान्या द्रष्टृभ्योऽचा शिरेव वा । एके तु प्रातरित्यस्यां भगमेव प्रचक्षते ॥ १७० ॥ आदावन्ते तु ऋषयः कीर्तयन्ति प्रसङ्गतः । सूक्तेऽस्मिन्देवतास्त्वन्या अन्यास्तत्र भवन्ति च ॥१७१॥ सालोक्यात्साहचर्याडा संस्तवादथवा पुनः । गणस्थानाद्भक्तितो वा कीर्त्यन्तेऽन्यास्तु देवताः ॥ १७२॥ ३४ ॥ ३३॥
पृष्ठम्:बृहद्देवता.djvu/९४
दिखावट