RV. vii. 1-] BRHADDEVATÂ v. 148 – Bत्वष्टा पूषा तथैवेन्द्रो वादशो विष्णुरुच्यते । इन्धं तस्यास्तु तज्जज्ञे मित्रश्च वरुणश्च ह ॥१४८॥ तयोरादित्ययोः सन्त्रे दृष्ट्वाप्सरसमुर्वशीम् । रेतश्च स्कन्द तत्कुम्भे न्यपतवासतीवरे ॥१४९॥ तेनैव तु मुहूर्तेन वीर्यवन्तौ तपस्विनौ । अगस्त्यश्च वसिष्ठश्च तवर्षी संबभूवतुः ॥१५० ॥ Bबहुधा पतिते शुक्रे कलशेऽथ जले स्थले । Bस्थले वसिष्ठस्तु मुनिः संभूत ऋषिसत्तमः ॥१५१॥ B कुम्भे त्वगस्त्यः संभूतो जले मत्स्यो महाद्युतिः । उदियाय ततोऽगस्त्यः शम्यामात्रो महायशाः ॥ १५२ ॥ मानेन संमितो यस्मात् तस्मान्मान्य इहोच्यते । यहा कुम्भादृषिजीतः कुम्भेनापि हि मीयते ॥१५३॥ कुम्भ इत्यभिधानं तु परिमाणस्य लक्ष्यते । ततोऽप्सु गृह्यमाणासु वसिष्ठः पुष्करे स्थितः ॥१५४॥ सर्वच पुष्करं तत्र विश्वे देवा अधारयन् । उत्थाय सलिलात्तस्माद् अथ तेपे महत्तपः ॥१५५॥ नामास्य गुणतो जज्ञे वसतेः श्रैष्ठ्यकर्मणः । अदृश्यमृषिभिहींन्द्रं सोऽपश्यत्तपसा पुरा ॥१५६ ॥ सोमभागानथो तस्मै प्रोवाच हरिवाहनः । Bऋषयो वा इन्द्रमिति ब्राह्मणासद्धि दृश्यते ॥१५७॥ वसिष्ठश्च वसिष्ठाश्च ब्राह्मणा ब्रह्मकर्मणि । सर्वकर्मसु यज्ञेषु दक्षिणीयतमास्तथा ॥१५॥ तस्माद्येऽद्यापि वासिष्ठा : सदस्याः स्युस्नु कर्हिचित् । अर्हयेद्दक्षिणाभिस्तान् भाल्लवेयी श्रुतिस्वियम् ॥१५९ ॥ ऋषिस्तु मैत्रावरूणिः सूक्तैः षोळशभिः परैः । [62 ३०॥ ३१॥
पृष्ठम्:बृहद्देवता.djvu/९३
दिखावट