विशिष्टाद्वैतसिद्धिः [ ८८ । नित्यत्वोपपादनं प्रथमकर्तव्यं कष्टतमं चासीत् | क्रियासाध्यां हि मोक्षः स्वर्गवदनित्य एव स्यात् । एकविंशतिदुःखध्वंसो मोक्ष इति नैयायिकाः, पुण्यपापात्मक सर्वकर्मध्वंसो मोक्ष इति मीमांसकाश्च प्रति- पेदिरे । एकैकस्मिन्नपि जन्मनि उत्तरोत्तरं शुभाशुभकर्मणां क्रियमाणत्वात् अवर्जनीयत्वाच्च उक्तोभर्यावधोऽपि ध्वंसोऽसम्भवीति परमार्थ एषः | अतः अज्ञानेन संसार : तत्त्वज्ञानेन तन्निवृत्तिर्मोक्ष इति, एतत्परमेव वेदान्तदर्शनं भवितुमर्हतीति च गौडपादो निश्चिकाय | सर्वनाशापेक्षया वरमध॑त्याग इति नीत्या शुद्धचैतन्यात्मकं ब्रह्म रक्षन् विश्वमिथ्यात्वमूरी- चकार । इममर्थं कारिकासु निबध्य तदनुगुणं प्रस्थानत्रयं योजयितुं. इमं सिद्धान्तं लोके सर्वत्र प्रथयतुं च समर्थ कञ्चन महापुरुषमन्विष्य- नास्त । तस्य प्रशिष्यः नैसर्गिकबुद्धिबलसम्पन्नः श्रुताढ्य तेजस्वी धीरः श्रीशङ्करः तां धुरं बभार । प्राचार्यमवन्ध्य मनोरथं चकार । अव लोकितप्राचीनविविधवेदान्तग्रन्थोऽपि भगवतः स्वरूपरूपगुण विभवैश्व- र्यशीलादिषुश्रुति स्मृतिशताधिगतेषु यत् किमप्यनपह्न त्य वेदान्तदर्शनं प्रतिष्ठाप्य मोर्ज्ञानत्यत्वं चोपपाद्य सर्वनिर्वाहक्षमे चिरन्तने सम्प्रदाय शिक्षां प्राप्तु अलब्धावसरः गौडपादोर्पादिष्टवर्त्मनैव प्रवचनं ग्रन्थनि- र्माणं चाकरोत् । गुरुभजने वा सम्प्रदायानुसरणे वा श्रीशङ्करस्य श्रद्धावैकल्यं न कश्चिन्मेने, न कश्चिदवोचत् । नवीनसम्प्रदायनिष्ठां गतस्य तस्य प्राचीनसम्प्रदायसिद्धार्थप्रतिक्षेपः अगत्या कर्तव्य आसीत् । तं निष्कम्पं चकार | श्रुतिवाक्यान्यपि हठात् स्वाभिमतार्थे योजयामास । ब्रह्मसूत्राण्यपि स्वच्छन्दं व्याख्यौ । भूयिष्ठेषु स्थलेषु खण्डनमेव भाष्यव्यपदेशेनाकार्षीत् । एतदर्शी भास्करः अतीव हृदयसन्तापं भेजे । परन्तु तस्यापि चिरन्तनसम्प्रदायपरिचयो दुर्लभो बभूव । अतः स्वबुद्धिबलमात्रायेण वेदान्तदर्शनं परिष्कर्तुळे प्रावर्तत । तथा यादवप्रकाशोऽपि । अस्य
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५१९
दिखावट