२५२ विशिष्टाद्वैतसिद्धिः द्वितीयः चेन्न, तर्हि घटवदेव तस्यापि मिथ्यात्वं सिद्धमिति किमिदानी विशिष्य साधनेन | परमते च तद्वदेव न मिथ्यात्वमिति सिद्धत्वान् पुनः साधनमनबकाशम् । बावः, बावितत्वमुपाधिः, भेदोन मिथ्या, अमितत्वात् ब्रह्मवत् इति प्रतिसाधनं, उक्ताभाससाम्यं चेत्यनुमान- दोपा द्रष्टव्याः | "
किञ्च भवत्प्रयुक्त बाणां भवन्तमेव प्रहरताति न्यानो मिथ्या अभेदत्वात् देहात्माभेद्वत्" इत्यनुमीयमानमभेद मिथ्यात्वं भवनो दुःलमःधानमेव । यत्तु शून्यवादापत्तिरिति तन्न | भेदमिथ्यात्वा- नुमानंऽप्यस्य प्रतिकूलतर्कस्य सुचचत्वात् । ब्रह्मणः स्वेतरभेदाभावे हि मिथ्याभूतप्रपञ्चाभेदापत्त्या तद्वदेव मिथ्यात्वात् शून्यमेव तत्त्व- मित्यापति |
कथञ्च शून्यवादापत्तिः | स्वाभेदाभाव स्वस्मिन् स्वभेदः सङ्गात् स्वरूपम्यैवासिद्धचा शून्यं स्यादिति चेन्न | स्वरूपस्य स्वसिद्धत्वान् । तर्केण शून्यत्वापादनासम्भवात् । ननु स्वाभेदाभः वे वस्तु रूपं स्यादिति चेत् स्वेतरभेदाभावे यद्रूपं तद्रूपमेव । स्वेतरभेदशून्यं यदि किमपि वस्तु स्वात् तन् स्वाभेदशून्यं कुतो न स्यात् । स्वेतरस्य तात्त्विकस्य विरहात तद्भेदोऽनपेक्षत इति चेत् स्वभेदस्व तात्त्विकस्य विरहात् तदभावरूपः स्वाभेदोऽध्यनपेक्षित एव । तस्मादुभावनि भेदाभेदों अविशेषेण सत्यौ वा मिथ्या वा । तत्रानेकपुत्रस्य दुष्पितुरेकस्मिन् पुत्र इव भेदे भवतो द्वेषः पापायैव । 'त्रिमता भेदधी: मिथ्या भेदधीत्वात्, चन्द्रभेदवीव इत्यनुमानमुक्त्वा "आभाससाम्यस्य तात्त्विक्त्वे प्रत्येत्तव्यत्वानुपपत्त्ये निरासः इति यदुक्तं, तत् स्वमताभिनिवेशभूम्ना परपक्षं विस्मृत्य | न हि दृश्यत्वेन मिथ्यात्वं परोऽभ्युपगच्छति, येन प्रति तात्त्विकत्वे प्रत्ये- तव्यत्वानुपपत्तिरुद्भाव्येत । तस्मादिदं अन्यानि चात्रत्यान्यनुमानानि पूर्ववदेव दुरनुमानानीति ज्ञेयम् ।