विशिष्टाद्वैतसिद्धिः प्रथमः' १६० ज्ञापनाय विशेषणं प्रयुज्यते । तत्र विधेये पदविशेषवाच्यत्वे उद्देश्यविशेष- णस्य अवच्छेदऋत्वं कथं भवेत् । नहि कम्बुग्रीवादिमान् घट इत्युक्ते कम्बुग्रीवा देर्घटपद वातावच्छेदकत्वं भवति । यत्तु व्याख्याने घटा ज्ञात इत्यत्र घटत्वस्य ज्ञाततावच्छेदकत्वं यथा तथाऽत्रा पत्युक्तं तदयुत्तम् । शब्दतस्तद्लाभात् । घटवविशिष्टस्य ज्ञात- त्वबोधानन्तरं क्रेन रूपेणेति त्रिज्ञामायां पदापात्तनया घटत्वेनेति पश्चात् अत एव तदवच्छेदकत्वावगमात् । अत एव घटो द्रव्यत्वेन ज्ञात इत्युक्ते न तथाऽवगमः। तस्मादुद्देश्यविधेयभावस्थले उद्देश्यविशेषणस्य विधेयार्थावच्छेदकत्वापादनं अनिरूपककृत्यम् | या गन्धवतः सा पृथिवी, पृथिवीशब्दचच्या, इत्युक्ते, गन्धवतो द्रव्यस्च पृथिवीशब्द वाच्यत्व- मित्येतावद् बोधयित्वा वाक्यं पर्यवस्थति । एतच्छन्दवाच्यतावच्छेदकं किमिति तु मामा नरेशवरीम् । यच्चापरमुक्तं व्याख्याने – “एवं सति लक्षणवाक्यस्वानुवादकत्वा- पत्तिः। तेजस्त्वायुर्पाहते चन्द्रपदवाच्यत्वस्य पूर्वं ज्ञातत्वात् । प्रकृष्ट- प्रकाशानुपलक्षितेऽपि चन्द्रपदवाच्यत्वस्य निवारणासम्भवाच्च” इति, तद्ध्यसत् | यदि चन्द्र पदवाच्यो ज्ञातः किमिति तर्हि अस्मिन ज्योति- र्मण्डले कश्चन्द्र इति पृच्छति । तेजोविशेषश्चन्द्र इति जानन् कः स तेजो विशेष इति विशिष्य जिज्ञासमानो हि एवं पृच्छति । तं तेनोविशेष प्रतिपादयतो वाक्यस्य कथमनुवादकता। अतएव यो न प्रष्टप्रकाशः सन चन्द्र इत्यर्थान् सिद्ध्यति । न तु शब्दस्य तत्र व्यापारः । अकृ- ष्टप्रकाशस्य चन्द्रत्त्वस्यापि चन्द्रपद वाच्यत्वादिदं बाधितं इति तु प्रचार- णमात्रम् । वाच्यत्वमिति हि पदजन्योपस्थितिविशेष्यत्व मभिप्रेतम् । एतेन पृथिवीत्ववती पृथिवी दवाच्येत्यपि यथाश्रुतमेवोप- पन्नमिति ज्ञापितम् । यदत्राह पृथिवीशव्दार्थत्वेन पृथिवीत्व जाति- विशिष्टमजानतः पृथिवीत्व पदेन जातेरुपस्थित्यभावान् अनन्वय एवेति,. -
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२७५
दिखावट