सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः अखण्डाथंवादः १६१ तदयुक्तम् । एवमेव का पृथिवीति पृच्छन्तं प्रति पृथिवीत्ववती पृथिवीति तन्दमुच्यते । एतच्छ्वानरं “पृथि- वीत्वं नाम किञ्चिदस्ति । तद्यत्र वर्तते तत् पृथिवीशब्दवाच्यमित्ययं वदति,” इति बुध्यमानः, पुनःकिंमत द्रव्यत्वव्याप्यो जातिविशेषः सः इति जानाति ऋिमनुपपन्नम | "अनुमिनिकरणमनु- मानम् । परामर्शजन्यं ज्ञानमनुमिनिः । व्याप्तिविशिष्ट पक्षधर्म ताज्ञानं परामर्शः । साहचर्यनियमो व्यामिः ।" इति हि पूर्वपूर्वलक्षवाक्यस्थ- पदार्थावगमाय उत्तरोत्तरलक्षणवाक्यानि प्रणीयन्ते । ताहशमिदं लक्षण- वाक्यम् । अत्रापि पूर्ववत् पृथिवीत्वविशिष्टे पृथिवीपदवाच्यत्वेन शब्दात ज्ञाते पृथिर्व त्यस्य वाच्यतावच्छेदकत्वं पश्चात् ज्ञायते । तत्त्वमन्विच्छता मेतद् धीमतां न न सुग्रहम | एते तु वादिनयने ६० वर्षः॥ तदेवं लक्ष एवाक्यं क्वापि कस्यापि पदस्थाखण्डार्थता नास्ति । असाधारधर्मवाचिनः पदस्य तद्विशिष्ट निवाचित्वात् । विधेयसम- पकपदस्यापि तत्तत्पदवाच्यत्वविशिष्टस्य वा धर्मान्तर विशिष्टस्य वा धमिणो वचऋत्वात् । प्रश्नस्थपदस्याप विशिष्टवाचित्वं प्रश्नोत्त- रयोः समानविषयकत्वं च पूर्वमेवोपपादनम् । एतेन अन्वयानुपपत्तेर्वा तात्पर्यानुपपत्तेर्वा लक्षणार्थीजस्य विरहात् प्रकृष्ट प्रकाशादिपदस्य लक्षणया स्वरूपमात्रे तात्पर्यं] इत्येतद् प्रामाणिकमिति सुगमम् । तथा हि | नक्षत्रा- दिभ्यो व्य वृत्तं वा चन्द्रस्वरूपं प्रष्टुर्बुभुत्सितम् अव्यावृत्तं वा । आद्ये धर्मवशेषेणैव व्यावृत्तिर्भवतीति व्यावतकंधर्मविशिष्टमेव स्वरूपं वुभुत्सित- मित्युक्तं भवति । तत्र च प्रष्टेन प्रकाशेन विशिष्टं यत् तन् चन्द्रस्य चन्द्रपदवाच्यस्य वा स्वरूपमिति यथाश्रुतनुत्तरमुपपद्यते । न ह्नत्र अन्वयानुपपत्तेर्वा तात्पर्चानुपपत्तेर्वा अवकाशोऽस्ति, येन लक्षणया केबलस्वरूपमर्थं ब्रूयाम । अन्त्ये प्रष्टप्रकाश इत्युत्तरमसङ्गत भवेत् । .: