११२ विशिष्टाद्वैतसिद्धिः प्रथमः . ब्रह्मणः प्रजानां भेदं. दिने दिने आसां ब्रह्मगमनं च प्रतिपाद्य तथापीमा ब्रह्म न विन्दन्तीत्युच्यते । तत्र च कारणमुच्यते 'अनृतेन हि प्रत्यूढा' इति । 'तत्सुकृतदुष्कृते धूनुते' 'भागेन वितरे क्षर्यायत्वाऽथ सम्पद्यते' इत्यादिभिः कर्मसम्बन्ध एव बन्धः तन्नाश एव मोक्ष इति निश्चितम् ततश्च बन्धद्शायां प्रत्यहं ब्रह्म मन प्रजानां ब्रह्ममाप्तिविरहे कारणतया निर्दिश्यमानं अनृतं बन्धकं कर्मैवेति स्वतः प्रतीयते । एवं सति अर्थान्तरस्यात्र कः प्रसङ्गः ? यत्तु 'उत्तरत्र पतपाप्मेत्यादिना आत्मनोऽपद्दतपाप्मत्वप्रतिपादनेन दुष्कर्मप्रत्यूडत्वविरोध इति तद् ब्रह्मणोऽज्ञत्वं साधनव्यसनिनाऽभिधीयमानं न शोभते । नित्यशुद्धमुक्त- स्याज्ञत्वं यदि भवति दुष्कर्मवत्त्वं कुतो न भवेत् । न च विरोधो भवति । मुक्तात्मस्वरूपस्य उत्तरत्र अपहतपाप्मत्वादिगुणगणाभिधानात् । इह तु बद्धावस्थायां अनृतप्रत्यूढत्वोक्तेः । 'सुषुप्रौ सर्वकर्मनाशे दुष्कर्म गोऽप्यभावः' इत्यप्यसाधु । प्रत्येऽपि कर्म न नश्यतीति 'न कर्माविभागादिति चेन्नानादित्वात् इति सूत्र- सिद्धान्ते स्थिते सुषुप्रौ कर्मनाशस्य का प्रसक्ति: । ननु न वयमत्यन्तनाशं तदान कर्मणां ब्रूमः | कारणात्मनाऽवस्थानमातिष्ठामह एव । परंतु तत्कारणमज्ञानमेवेति वाच्यमिति चेन्न' 'कृतात्ययेऽनुशयवान' इत्युक्त- रीत्या आत्मन एव कर्मवत्त्वात् । अत एव “कर्मण आवरणत्वानु- पपत्तेश्च । ब्रह्मवेदनप्रतिबन्धकतया ह्यनादिब्रह्मावारकं ज्ञाननिव वाच्यम् । तथा च कर्मेव प्रधानमपि नानृतपदाभिधेयम् । तयोर्ज्ञानानि- वर्त्यत्वात् ।" इति निरस्तम् । कर्मण एव ब्रह्मप्राप्तिप्रतिबन्धक प्रतिबन्धऋत्वं चास्य स्वाश्रयधर्मभूतज्ञानसङ्कोचद्वारेति ब्रह्मावरणकल्पने नास्ति प्रमाणम् । उपासनात्मकज्ञाननिवर्त्यत्वं चास्य भवत्येव । 'क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' इति श्रवणान् । ‘नासदासीन्नो सदासीत् तदानीं तम आसीत् इत्यनेन पारमार्थिक-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२२७
दिखावट