सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अज्ञाने श्रुतिः १११ कार्यत्वात् घटवत्' इत्यत्र प्रमाभावाति- । 'भ्रमानुत्तरप्रमा स्वभावातिरिक्तस्वविरो-

धिनिवर्तिका, प्रमात्वात् प्रमोत्तरग्रमावत्' इत्यत्र विशेषगुणोत्तरी- उन्नविशेषगुणत्वम् | ज्ञानत्वं स्वविषयावरणनिवर्तकनिम्, अप्रकाशि- तार्थप्रकाशकवृत्तित्वान्, आलोकत्ववत् इत्यत्र विषयप्रकाशप्रतिबन्धक- तमोनिवारकवृत्तित्वम् । अनित्यज्ञानं अभावत्वानधिकरण स्वविरोधिस- मानाधिकरणम् । प्रयत्नान्यत्वे सति सविषयत्वे सति अनित्यत्वात्, अनि त्येच्छावत् | साहिताहग्वेषसमानाधिकरणा इत्यत्र अनुकूलज्ञानजन्य- त्वम् | धेनाः पुच्छ हीरवत् शृङ्गादिभिन्नत्वे सति धेन्ववयवत्वात् स्तनवत् इत्येतत्तुल्यमिदम् । सर्वाणीमान्यनुमानान्यप्रयोजकानीति स्थितमेव । तर्कस्य दूपितत्वात् । यत्तु अपरमनुमानम् – “ज्ञानविरोधित्वं अनादिभा- चत्वसमानाधिकरणम्, सकलज्ञानविरोधिवृत्तित्वात्, दृश्यत्ववत्" इति तत्र दृश्यत्वं यदि मिथ्यात्वसाधकतया भवदुक्तं विर्वाक्षतं तदस्माकमस- प्रतिपन्नमिति दृष्टान्तासिद्धिः | यदि तु सम्प्रतिपनं ज्ञेयत्वं तत् तर्हि भगवद्ज्ञाननिवर्त्यकर्मवासनादिरूपानादिभावत्वसामानाधिकरण्यमादाय सिद्धसाधनं दोषः । एवमेव भावविलक्षणत्वं ज्ञानविरोधिवृत्ति, अनाद्यभावविलक्षणमात्रवृत्तित्वात् अभिधेयत्ववत् इत्यनुमानान्तरेऽपि अनाद्यभावविलक्षणत्वस्य उक्तज्ञाननाश्यानादिकर्मवासनादिवृत्तित्व- मादाय सिद्धसाधनं द्रष्टव्यम् इदन्तु प्रयोगद्वयं प्रक्षिप्त मन्यामहे । तत् सिद्धं अनुमानेनापि न भावरूपाज्ञानसिद्धिरिति । परिच्छेदः भावातिरिक्तस्यानादेर्निवर्तिका रिक्ताभावप्रतियोगित्वमुपाधिः

३१. अज्ञाने श्रुतिः श्रुतिषु च भावरूपाज्ञानगन्धोऽपि नास्ति । तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजाः अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति, अनृतेन हि प्रत्यूढा' इति छान्दोग्यवाक्ये गूढ़ निहितात् हिरण्यनिधेः तदुपरि सञ्चरतामिव