विशिष्टाद्वैतसिद्धिः कार्यस्याव्यवहितपूर्ववर्ती । व्यापारी च व्यापारस्याव्यवहितपूर्ववर्तीति उभयोः कारणत्वोपपत्तेः असतः कारणत्वं नैवाभ्युपगम्यते । कार्योतत्तिकाले व्यापारिणोऽसत्त्वात् असतः कारणत्वं भवतीति चेन्न । तत्कालावच्छेदेन तस्य कारणत्वाभावान् । व्यापारजनकत्वेनैव कारणत्वात् । नियतनुर्वृवृत्ति- त्वस्यैव कारणलक्षणत्वात् अव्यवहितत्वस्य व्यापारिकारणे अनपेक्षि- तत्वान् । ७० प्रथमः अतीतानागतावस्थस्य युगमा भवतु यदि भवितुमर्हति । तस्य कारणत्वं तु दुर्वचम् | असत्त्वात् । अन्यथा अस त्यपि दण्डे घठोत्पत्त्यापत्तेः । अत एव घटेच्छाजन्ये घटोसादनयत्ने इच्छाया एव कारणत्वं न तद्विषयस्य घटस्य | अन्यथा हि स्वस्यैव स्वकारणत्वं स्यात् । एवं बाधकसत्त्वादेव विषयस्य ज्ञाने न विशेषणत्वम् | उपलक्षात्वेऽ.प उपलक्षणज्ञानजननोपयुक्तत्वात् प्रयोजकत्वमस्त्येवेति चेन्न | स्वरूपेणासतः प्रयोजकत्वासम्भवात् । न ह भवति पुष्पं नास्ति तदीयं सौरभंतु अस्तीति । नन्वेनमतीतानागतयोः प्रतियोगित्वविपयत्वा- द्यपि न स्यात् । न । दर्शनवलान् तदभ्युपगमात् । कारणत्वं तु न भवति । अदर्शनात् । असत्यपरमेथ यदुक्तम् –“स्वप्ने जागरे च उत्कृष्टकलतधीत दर्शनात् उत्कृष्ट सुखम उत्कृष्टसर्पादिदर्शनाच्च उत्कृष्टं भयादि दृश्यते | विषयस्या- कारणत्वे तदुत्कर्षानुविधानं कार्ये न स्यात् " - इति; तत्र वदामः | जागरे विषयस्य सत्त्वात्, तदवगाहिनो ज्ञानस्येव ज्ञायमानस्य विषय- स्यापि विनिगमनाविरहेण आपाततः कारणत्वस्वाभ्युपगमे वाधकाभावाच युज्यत एव तस्य कारणत्वम् | स्वप्ने भ्रमे च पुनः असतो विपस्य कारणत्वायोगात् तदुपलक्षितस्य ज्ञानस्यैव कारग् त्वम् उत्कृष्टकलौता- वगाहिनो ज्ञानस्य उत्कृष्ट सुखकारणत्वम् | उत्कृष्ट सर्पावगाहिन उत्कृष्ट- भयकारणत्वमिति |
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१८५
दिखावट