सर्गः ५१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १७७ केनचिंद्राजकार्येण संप्राप्तोसि तवान्तिकम् || दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः ॥ १८ ॥ श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो ॥ १९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चाशः सर्गः ॥ ५० ॥ एकपञ्चाशः सर्गः ॥ ५१ ॥ हनुमता रावर्णप्रति रामवनागमनप्रभृतिस्वीयसीता दर्शनावधिसकलवृत्तान्त निवेदनम् ॥ १ ॥ तथा राममहिमानुवर्णन- पूर्वकं तस्मैसीतायाः प्रत्यर्पणानर्पणयोर्निजजीवितलाभतदभावकारणत्वोत्कीर्तनम् ॥ २॥ तं, समीक्ष्य महासत्त्वं सत्त्ववान्हरिसत्तमः || वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ॥ १ ॥ अहं सुग्रीवसंदेशादिह प्राप्तस्तवालयम् || राक्षसेन्द्र हरीशस्त्वां आता कुशलमब्रवीत् ॥ २ ॥ भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः ॥ धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् ॥ ३ ॥ राजा दशरथो नाम रथकुञ्जरवाजिमान् || पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ॥ ४ ॥ ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः ॥ पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् ॥ ५ ॥ लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया || रामो नाम महातेजा धर्म्य पन्थानमाश्रितः ॥ ६॥ तस्य भार्या वँने नष्टा सीता पतिमनुव्रता | वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ॥ ७ ॥ | लङ्कायां । भ्राता भ्रातृवद्धितकरः । अब्रवीत् अप्रा- क्षीत् । यद्यपि सुग्रीवेण न संदिष्टं तथापि दूतोक्तं सर्व स्वाम्युक्तमेवेत्याशयेनोक्तं || २ || समादेशं | संदेशरूपमिति वाक्यविशेषणं । इह अल्लोके । समीक्षणोक्तिक्रियाभेदात्तच्छन्दवयं ॥ १ ॥ अह- अमुत्र परलोके । क्षमं अभ्युदयसाधनं ॥ ३५ ॥ मितिः ।। अहं रामदूत एव संदेशस्तु सुग्रीवस्येति भावः । धर्म्यं धर्मादनपेतं । “ धर्मपथ्यर्थन्यायादनपेते " हिशब्दोवधारणे । ब्रह्मास्त्रस्य साधनान्तरासह त्वादिति | सुग्रीव संदेशात् सुग्रीवसंदेशाद्धेतोः । संदेशप्रापणार्थ- भावः ।। १७ ।। अस्तु सर्वमेतन्मदर्शनार्थ मदर्शनं मित्यर्थ: । “संदेशवाग्वाचिकं स्यात्” इत्यमरः । इह वा किमर्थ तत्राह – केनचिदिति ॥ १८-१९ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चाशः सर्गः ॥ ५० ॥ ॥ १७ ॥ स० अमितौजसइत्यनेन अन्यथाराघवोघातयेदेवेतिसूचयति । ति० रामकार्येणेतिपाङ्गः पाठः | रामस्थतवचकः संबन्ध- स्तनाह - दूतइति ॥१८॥ ति० ननुरामदूतेनापिसीतान्वेषणमेवकार्ये एवंप्रयासेन मद्दर्श ने किं फलंतत्राह - श्रूयतामिति । वचनं सन्देशवचनं । पथ्यं तवक्षेमकरं । त्वदर्शने नपुण्यावाप्तिर्मम । किंतुतुभ्यंहितंवक्तव्य मितीयानायासइतिभावः ॥ १९ ॥ इतिप श्चाशः सर्गः ॥ ५० ॥ ति० सुग्रीवसंदेशकथनव्याजेनसामदण्डान्यतरविषयत्वनिश्चयायन्यायानुसारीन वेति जिज्ञासति – तमित्यादि | स० अव्यप्रः निर्भीः ॥ १ ॥ ति० भ्रातेतिस्नेहप्रकाशिकालोकोक्तिः । स० हेराक्षसेभ राक्षसश्रेष्ठ | वालि रावणयोर्भ्रातृ सौहार्दात्तत्प्र- काशिकामृदूक्तिर्भ्रातेति । हरीशः कुशलमब्रवीत् त्वत्कुशलमुद्दिश्य पृच्छेतिमामब्रवीत् । राक्षसेभहरीशः न शृणोषितेनोक्तंचे- तवहननमनाया सेनकृत्वासीतांनेष्यतीत्यान्तरङ्गिकोऽर्थः राक्षसेभस्य हरीशः महासिंहइत्येकपदतायांज्ञेयः । तथाभ्रातेत्यनेन त्वद्रा- ज्यग्रहणेपियोग्यतातस्यास्तीतिसूचयति ॥ २ ॥ स० कपिभ्योऽवृतवरत्वबलेनवा रामरूप बलिष्ठाश्रयणेनवा समादेशमित्युक्तिः । रामानु० रावणहृदयपरिज्ञानार्थं तत्कालोदितप्रतिभयासुग्रीव संदेशंकल्पयित्वा वदति - भ्रातुरिति । समादेशं संदेशं | सुग्री- वसंदेशस्यरामप्रयोजनपरत्वात्संदेशोपयोगितयारामसुग्रीवयोः सख्यादिकं राजादशरथइत्यारभ्य भ्रमताचमयादृष्टागृहेते जनकात्म- [ पा० ] १ ङ. - . द्रामंकार्येण २ ङ. झ ट आगतोस्मि ३ घ. राघवस्यमहात्मनः ४ ङ. झ ट श्रूयतामेववचनं. ५ ख. घ. स्तवान्तिकं. ङ. झ. ट. स्तवान्तिके. क. स्त्वदन्तिकं. ६ झ ञ ट राक्षसेश. ठ. राक्षसेभ. धर्मार्थसहितं. ८ झ. ट. प्रियतरः ९ ङ. झ. ड. सह. घ. चैव १० ङ. झट, जनस्थानेभ्रष्टासी तेति विश्रुता, ७ ङ. झ. ट. वा. रा. १७१
पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१८१
दिखावट