सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 सर्गः ६३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २५३ ऋषेर्हि न्यस्तदण्डस्य वने वन्येन जीवतः ॥ कथं नु शस्त्रेण वधो मद्विधस्य विधीयते ॥ २९ ॥ जटाभारधरस्यैव वल्कलाजिनवाससः ॥ को वधेन ममार्थी स्याटिंक वाऽस्थापकृतं मया ॥ ३० ॥ एवं निष्फलमारब्धं केवलानर्थसंहितम् ॥ न कश्चित्साधु मन्येत यथैव गुरुतल्पगम् ॥ ३१ ॥ नाहं तथाऽनुशोचामि जीवितक्षयमात्मनः ॥ मातरं पितरं चोभावनुशोचामि मधे ॥ ३२ ॥ तदेतन्मिथुनं वृद्धं चिरकालभृतं मया ॥ मयि पञ्चत्वमापने कां वृत्तिं वर्तयिष्यति ॥ ३३ ॥ वृद्धौ च मातापितरावहं चैकेषुणा हतः ॥ केन म निहताः सर्वे सुवालेनाकृतात्मना ॥ ३४ ॥ तां गिरं कैरुणां श्रुत्वा मम धर्मानुकाङ्क्षिणः ॥ कराभ्यां सशरं चापं व्यथितस्यापतद्भुवि ॥ ३५ ॥ तस्याहं करुणं श्रुत्वा 'निशि लालपतो बहु || संभ्रान्तः शोकवेगेन भृशमासं विचेतनः ।। ३६ ।। तं देशमहमागम्य दीनसत्व: सुदुर्मना: ॥ अपश्यमिषुणा तीरे सरय्वास्तापसं हतम् ॥ ३७ ॥ अवकीर्णजटाभार प्रविद्धकलशोदकम् || पांसुशोणितदिग्धाङ्गं शयानं शैल्यपीडितम् ॥ ३८ ॥ स मामुद्रीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थँचेतसम् || इँत्युवाच ततः क्रूरं दिधक्षन्निव तेजसा ॥ ३९ ॥ किं तवापकृतं राजन्वने निवसता मया || जिहीर्षुरम्भो गुर्वर्थ यदहं ताडितस्त्वया ॥ ४० ॥ एकेन खलु बाणेन मर्मण्यभिहते मयि ॥ द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥ ४१ ॥ तौ कथं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ || चिंरंमाशाकृतां तृष्णां केष्टां संधारयिष्यतः ॥ ४२ ॥ “ मन्थौदन -” इत्यादिना उदकशब्दस्योदादेशः । | हितवानित्यवगम्यते । करुणांगिरंश्रुत्वा करुणाजनकं यद्यपिहारशब्देपरेउदादेशोविहितः तथाप्येकदेशविकृ- वचः श्रुत्वा । स्थितस्येतिशेषः ॥ ३५ ॥ लालपतइति तमनन्यवद्भवतीतिदीर्घः छान्दसोवा | किंकृतं किम- यङ्लुगन्ताच्छतृप्रत्ययः । प्रलपतइत्यर्थः । विलपन- निष्टंकृतं ॥ २८ ॥ न्यस्तदण्डस्य उपरतवाङ्मन:- मित्यर्थसिद्धं ॥ ३६ ॥ दीनसत्वः दीनहृदयः । कायसंबन्धिपरहिंसस्य । “दण्डोस्त्रीशासनेराज्ञांहिं- सुदुर्मनाः अत्यन्तदुःखितमनाः ॥ ३७ ॥ प्रविद्धकल- सायांदमसैन्ययोः” इतिविश्वः ॥ २९ ॥ अर्थी शोदकं पर्यस्तकलशोदकमित्यर्थः । नतुध्वस्तकलशो- प्रयोजनवान् ॥ ३० ॥ गुरुतल्पगं गुरुदारगं । दकमिति । ततस्तंघटमादायपूर्णपरमवारिणा " "तल्पंशयाट्टदारेषु" इत्यमरः ॥ ३१ – ३३ || | इतिवक्ष्यमाणविरोधात् । पांसुशोणितदिग्धाङ्गं पांसु- हतइत्येतन्मातापितरावित्यत्र वचनविपरिणामेनयो- विशिष्टशोणितेनलिप्ताङ्गं । शल्यपीडितं शराप्रपीडितं जनीयं । सर्वेनिहताइत्युक्तिर्मातापितृजीवनहेतुभूत- ॥ ३८ ॥ त्रस्तं भीतं । अतएवास्वस्थचेतसं व्याकुल- स्यस्वस्यवधात् । अकृतात्मना अनिश्चितबुद्धिना । चित्तं ॥ ३९ ॥ जिहीर्षुः आहर्तुमिच्छुः । गुर्वर्थे इतिवागभूदितिपूर्वेणान्वयः ॥ ३४ ॥ सशरंचाप- मातापितृनिमित्तं ॥ ४०-४१ ॥ आशाकृतां पुत्रो- मित्यनेन शरेमुक्तेपि हस्तलाघवाच्छरान्तरंधनुषिसं- | मेजलमाहरिष्यतीत्याशासहितां । तृष्णां पिपासां 66 ॥ २२ ॥ ति० मम वधेन कः पुमानर्थी | मनुष्यमांसेन नकस्यापिप्रयोजनमितिव्यर्थ एवम द्वधइतिभावः । शि० जटाभारधरस्य द्रव्यादिभाररहित स्येत्यर्थः । ममवधेन कोऽर्थी धनादिमान्स्यात् । नन्वपकारिवध एवार्थ इत्यत आह - कस्यमयाऽपकृतं नकस्यापी- त्यर्थः ॥ ३० ॥ शि० क्वचित् कस्मिंश्चिल्लोके गुरुतल्पगमिवसाधुनमन्येत एतेन साधुकृतमितिकश्चिदपिनवदिष्यतीत्यर्थः ॥ ३१ ॥ शि० मधेसति मातरंपितरमुभौयथानुशोचामि तथा आत्मनः स्वस्य इमं प्राप्तं जीवितक्षयं नानुशोचामि ॥ ३२ ॥ ति० एकेनेषुणावृद्धौहतौ अहंचहतः । मधेन तयोर्वधस्यसिद्धवादित्याशयः ॥ ३४ ॥ [ पा० ] १ ङ. झ ञ ट . क्वचित्साधु. घ. किंचित्साधु. २ क च. झ. ब. ट. ऋषेर्विलपतोनिशि ख बहुलालपतोनिशि. ५ ङ. झ. शल्यवेधितं. क. शरपीडितं. च. ज-ट. नेमं. ३. क. घ – ङ. झ. करुणं. ४ ङ. ६ ख. घ. ङ. च. झ. अ. ट. चेतनं. ७ क. ग. ङ. च. प्रत्युवाच. ८ क. ख. ग. ङ. च. झ ञ ट वचः ९ कच. ज-ट. नूनं. १० घ. ङ. ये. झ ञ ट. चिरमाशां. ११ घ ङ च झ ञ ट. कष्टांतृष्णां. १२ क. कथं.