१९६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ आसां राम सपत्नीनां वस्तु मध्ये न मे क्षमम् || नय मामपि काकुत्स्थ वनं वन्यां मृगीमिव । यदि ते गमने बुद्धिः कृता पितुरपेक्षया ॥ १९ ॥ तां तथा रुदतीं रामो रुदन्वचनमब्रवीत् ॥ २० ॥ जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च ॥ भवत्या मम चैवाद्य राजा प्रभवति प्रभुः ॥ २१ ॥ न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता || भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः ॥ भवतीमनुवर्तेत स हि धर्मरतः सदा ॥ २२ ॥ यथा मँयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः ॥ श्रमं नावाप्नुयात्किञ्चिदप्रमत्ता तथा कुरु ॥ २३ ॥ दारुश्चाप्ययं शोको यथैनं न विनाशयेत् ॥ राज्ञो वृद्धस्य सततं हितं चर समाहिता ॥ २४ ॥ व्रतोपवासनिरता या नारी परमोत्तमा ॥ भर्तारं नानुवर्तेत सा तु पापगतिर्भवेत् ।। २५ ।। भर्तुश्शुश्रूषया नारी लभते स्वर्गमुत्तमम् || अपि या निर्नमस्कारा निवृत्ता देवपूजनात् ॥ २६ ॥ शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता ॥ एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः ॥ २७ ॥ अग्निकार्येषु च सदा सुमनोभिच देवताः ॥ पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सुव्रताः ॥ २८ ॥ चनंकरिष्यामीत्याह – इमानीति । इमानीत्यल्पत्वज्ञा- | त्यर्थः । सपत्नीमध्यवासदोषंपरिहरति - भरतश्चापी- पनाय । विहृयेत्यनेनक्लेशराहित्यमुक्तं ।। १७ – १८ । एवमनुमतरामवनगमनस्वनगरवर्तनापिपुनःसपत्नी- स्मरणादनुगमनमर्थयते —- आसामिति । वन्यांमृगीमि- व यथावन्यामृगीवनेसंतुष्टावर्तते तथाहमपिवर्ते नभ- वन्तंक्लेशयिष्यामीतिभावः । पितुरपेक्षया पितुरिच्छ- ति ॥ २२ – २३ || हितंचरेत्यत्रतथेतिशेषः ॥ २४ ॥ पतिशुश्रूषणमेव पत्याः परमोधर्मइत्यन्वयव्यतिरेका- भ्यांश्लोकद्वयेनदर्शयति – व्रतेति । पापस्यगतिः फल- मिवफलंयस्याःसातथा ॥ २५ ॥ निर्नमस्कारापि भर्तृभिन्नद्विजादिविषयनमस्काररहितापि ॥ २६ ॥ - या ।। १९ ।। रुदन् “ व्यसनेषुमनुष्याणांभृशंभवति उपसंहरति - शुश्रूषामिति । लोके पुरादृष्ट: पुरातन- दुःखितः ” इत्युक्तगुणविशिष्टोपिरामोमातृव्यसनंह- लोकाचारसिद्धइत्यर्थः । वेदेश्रुतः वेदावगतइत्यर्थः । पितृवचनपरिपालनरूपधर्मविघ्नभयाद्धैर्येणस्थितवा- स्मृतः स्मृत्यवगतश्चेत्यर्थः ॥ २७ ॥ तूष्णीमवस्थानेए- न् । इदानींवनगमनानुमतिंलब्ध्वा स्वस्नेहप्रदर्शनेनमा- नांदुःखमाक्रमिष्यतीतिधियादुःखविच्छेदनार्थेकाल- तृव्यसनंनिवर्तयितुंरुदितवानित्यवगम्यते ॥२० - २१॥ क्षेपसाधनंविधत्ते - अग्नीति | अग्निकार्येषु शान्ति- राज्ञा सनाथाइतिशेषः । राज्ञासनाथावयंनह्यनाथाइ- कपौष्टिकहोमेषु । सुमनोभिश्चेत्यत्रचकारेणचन्दनतांबू- स० नयमां नविद्यतेयमःअन्तकोयस्यास्सात । मृत्युरयायातश्चेदुत्तमंनायातइत्यावृत्त्यावान्वयः ॥ १९ ॥ ति० स्वयमरुद न्वचोऽब्रवीत् । रोदनेकातर्यप्रकटनेनमातुःपुनरप्यनुगमनप्रत्याशाप्रसंगात् ॥ शि० अरुदन् रोदन निवृत्तिकुर्वन्सन्नित्यर्थः ॥२०॥ सत्य० जीवन्त्याहिस्त्रियाभर्ताप्रभुरितिलौकिकसामान्यन्यायोक्तिः । प्रकृतेनिगमयति - भवत्याइति । राजाभवत्याःप्रभुः । भगवन्सर्वेश्वरस्यतवराजाकथंप्रभुरित्यत आह - प्रभवतीति । प्रभुवदाचरतीत्यर्थः । अतोनराजप्रभुप्रभवतिपदानांपौनरुत्त्य मिति ध्येयम् ॥ २१ ॥ शि० लोकनाथेन सकलजननियन्त्रा | राज्ञावयंभरतश्च । अपिनाभवत्यादयः अनाथान | एतेनराजकर्तृ- कगमन नियोगाभावाहुष्करापिस्थितिः कर्तव्यैवेतिध्वनितम् ॥ २२ ॥ ति० तत्रमानमाह । एषभर्तृसेवारूपोधर्मस्त्रियानित्यइति । शि० एषधर्मोवेदेलोकेचनित्यः श्रुतः । अतएवस्मृतः समयेस्मृतिविषयीभूतोजातः । सत्य० वेदेश्रुतःप्रसिद्धः लोकेजनविष- येस्मृतःस्मृतिसिद्धः । यद्वावेदईइतिच्छेदः । एषधर्मंइतिलोकेअहंवेद ई लक्ष्मीर्वेद । नकेवलमावां अपितु श्रुतः श्रुतिसिद्धः । स्मृतश्चेत्यर्थः ॥ २७ ॥ [ पा० ] १ क. च. ञ. मध्येवस्तुं. २ ग. ज. मृर्गीयथा ३ क. ख. तुमयि ४ ज. श्राव्ययः ५ क. ङ. च. छ. झ. ञ. ट. साच. ६ क. ख. भर्तृशुश्रूषया. ७ क. च. ञ. गतिमुत्तमाम् ८ क. कुर्वन्ती. ९ ङ. छ. ज. झ. ट. स्त्रियानित्यो. १० ङ च छ. झ ञ ट वेदेलोके. ११ घ. सुमनोभिस्तु १२ ख. ङ. घ. झ ट सत्कृताः.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१२०
दिखावट