९६. `श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ । स स्वभावविनीतश्च गौरवाच्च तंदा नतः ॥ प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ॥ २६ ॥ देवि नूनं न जानीषे मेहद्भयमुपस्थितम् || इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च ॥ २७ ॥ गमिष्ये दण्डकारण्यं किमनेनासनेन मे ॥ विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः ॥ २८ ॥ चतुर्दश हि वर्षाणि वत्स्यामि विजने वने ॥ मधुमूलफलैर्जीवन्हित्वा मुनिवदामिषम् ॥ २९ ॥ भरताय महाराजो यौवराज्यं प्रयच्छति ॥ मां पुनर्दण्डकारण्ये विवासयति तापसम् ॥ ३० ॥ स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने || आसेवमानो वन्यानि फलमूलैश्च वर्तयन् ॥ ३१॥ सा निकृत्तेव सालस्य यष्टिः परशुना वने || पपात सहसा देवी देवतेव दिवश्युता ॥ ३२ ॥ तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव ॥ रामस्तूत्थापयामास मातरं गतचेतसम् ॥ ३३ ॥ उपावृत्योत्थितां दीनां बडवामिव वाहिताम् ॥ पांसुकुण्ठितसर्वाङ्गीं विममर्श च पाणिना ॥ ३४ ॥ सा राघवमुपासीन मैसुखार्ता सुखोचिता || उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे ॥ ३५ ॥ यदि पुत्र न जायेथा मम शोकाय राघव ॥ न म दुःखमतो भूयः पश्येयमहमप्रजाः ॥ ३६॥ गौरवात् मातरिबहुमानात् । प्रस्थितः प्रस्थातुमुद्यतः । | सइति । सोहमित्यर्थः । लघुत्वप्रदर्शनाय षट्चाष्टौ - आप्रष्टुम् अनुज्ञांकारयितुं । उपचक्रमे उपक्रान्तवान् चेत्युक्तं । चतुर्दशेत्युक्तेहिगौरवंगम्यते । वन्यानि व- ॥ २५–२६ ॥ अब्रवीदित्युक्तमाह — देवीत्यादि । नसंबन्धीनि । वानप्रस्थयोग्यकर्माणीतियावत् । आसे- भयं तवेतिशेषः । इदं वक्ष्यमाणंवचनं । दुःखाय त- वमानः आचरन् । वर्तयन् जीवनंकुर्वन् ॥ ३१ ॥ थापिवक्ष्यामीत्यर्थः ॥ २७ ॥ इदंशब्दार्थमाह - गमि- सा पुत्रोक्तंश्रुतवती । सालस्य वृक्षस्य । “ अनोकहः ष्यइति । अनेन रत्नमयेन । विष्टरेत्यादि । विष्टरोनाम कुट:साल: " इत्यमरः । परशुनेतिहठाच्छेदनज्ञापना- पञ्चविंशतिदर्भनिर्मितस्तापसासनविशेषः । 66 पञ्चा- य । नगरेतथाछेदनाभावाद्वनइत्युक्तम् ॥ ३२ ॥ गत- शद्भिर्भवेद्ब्रह्मातदर्धेनतुविष्टर : " इतिस्मृतेः ॥ २८ ॥ चेतसं मूच्छिताम् ॥ ३३॥ उपावृत्योत्थितां श्रमनिवृत्त्य- मुनिवत् वत्स्यामीतिसंबन्ध: । अत्रामिषशब्देसूदै: र्थभुविवेष्टनंकृत्वोत्थितां । वाहितां भारवहनप्रापिताम् संस्कृतंमांसमुच्यते । केवलमांसस्वीकारस्योत्तरत्रवक्ष्य- ॥ ३४ ॥ असुखार्ता दुःखार्ता ॥ ३५ ॥ हेपुत्र त्वं माणत्वात् इदंमेध्यमिदंस्वादुनिष्टप्तमिदमग्निना " यदिनजायेथा अतः अजननात् । भूयः अतिशयितं । इति ॥ २९ ॥ कुतएवमित्यत्राह – भरतायेति ||३०|| दुःखं इष्टपुत्रविश्लेषजं । नपश्येयं | अप्रजा: वन्ध्या लिरित्यर्थउचितः । सत्य० भो जनेन जनानांपतेइतिमात्रा निमन्त्रितः भोजनार्थमाज्ञप्तः । अनेन निमन्त्रणशब्दस्यैवावश्यकभो- जननियोगे "विधिनिमन्त्रण - " इतिसूत्रीयकौमुद्यादिनाशक्तत्वावगमात्पुनर्भोज नेनेति पदमधिकमितिशङ्कानवकाशः ॥ २५ ॥ सत्य० महत् भयंइतिव्यस्तंपदं । यद्वामहतांभयमितितत्पुरुषः । महतामित्येत द्विशदयति- तवचेत्यादि । शि० हेदेवि उप- स्थितं प्राप्तं । महद्भयं राक्षसहेतुकदण्डकारण्यस्थर्षि महाभीतिं । त्वंजानीषे । अतोदण्डकारण्यमहंगमिष्ये । अतः इदं मत्कर्तृकदण्ड- कारण्यगमनं । तव वैदेह्याः लक्ष्मणस्यचदुःखायनभवत्वितिशेषः । श्लोकद्वयमेकान्वयं ॥ २७ ॥ सत्य० नकेवलंमांप्रत्युपस्थितः किंतु मां रमारूपांसीतांप्रत्यप्युत्थितः । अहंविष्टरासनयोग्यः | नकेवलमहंअपितुयःमामुपस्थितःअयं अहिकालः अहीनांकंसुखं आसमन्ताल्लातिददातीत्यहिकालः । लाआदानइतिपठितस्यापिदानार्थकतासंभवति । द्वावपिदानेइतिचन्द्रइतिकौमुद्युक्तेः । अयम हिकालोलक्ष्मणोपिविष्टरासनयोग्यः ॥ २८ ॥ शि० विजने विशिष्टजनसहिते । आमिषंराजभोग्यंवस्तु । "आमिषंपुंनपुंसकम् । भोग्यवस्तुनिसंभोगे” इतिमेदिनी | सत्य० आमिषं संभोगंराज्यलोभंवासुन्दररूपंवा । "आमिषंपललेलोभेसंभोगोत्कोचयोरपि” इतिविश्वः ॥ २९ ॥ सत्य यद्वा वन्यानि वनभवानि ऋष्यादिकुलानि । फलैरासेवमानः स्वयंचतर्वर्तयन् | शि० वन्यानि वल्कलानिदधानः ॥ ३१ ॥ सत्य० नक्षत्ररूपिणीदिवश्युतादेवतेवेत्यर्थः । पूर्वकीदृशीत्यतआह । हसेनहासेनसहितासहसा । “स्वनहसोर्वा” इत्यप्प्रत्ययः ॥ ३२ ॥ सत्य० ममशोकायनजायेथाइत्यत्रचतुर्थ्यर्थोद्देश्यत्वस्य न जायेथाइत्यत्रधात्वर्थेजन्मन्यन्वयः । तथाच मच्छोकोद्देश्य कंय ज्जन्मतच्छून्यश्चेदभवइत्यर्थः यद्वा हेशोकाय शोकस्यअयःअपगमःयस्मात्सतथातस्यसंबुद्धिः ॥ ३६ ॥ । 66 [ पा० ] १ ङ. छ. ज झ ट तथाऽऽनतः २ ख. महाभय ३ ख इतस्तवच छ. इदंतवतु. ४ ङ, छ, ज, झ. ट. कन्दमूल. ५ क. ङ. च. छ. झ. न. ट. दण्डकारण्यं. ६ च षडटौ. ७ घ. मदुःखाही.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१००
दिखावट